सर्वदर्शनसंग्रहः/अर्हतदर्शनम्
अथार्हतदर्शनम् ॥3॥
तदित्थं मुक्तकच्छानां मतमसहमाना विवसनाः कथंचित्स्थायित्वमास्थाय क्षणिकत्वपक्षं
प्रतिक्षिपन्ति। यद्यात्मा कश्चिन्नास्थीयेत स्थायी तदैहलौकिकपारलौकिकफलसाधनसंपादनं विफलं
भवेत्। न ह्येतत्संभवत्यन्यः करोत्यन्यो भुङ्क्त इति। तस्माद्योहं प्राक्कर्माकरवं सोहं संप्रति
तत्फलं भुञ्ज इति पूर्वापरकालानुयायिनः स्थायिनस्तस्य स्पष्टप्रमाणावसिततया पूर्वापरभाग-
विकलकालकलावस्थितिलक्षण क्षणिकता परीक्षकै रर्हद्भिर्न परिग्रहार्हा।
अथ मन्येथाः-
प्रमाणवत्त्वादायातः प्रवाहः के न वार्यते।
इति न्यायेन यत्सत्तत्क्षणिकमित्यादिना प्रमाणेन क्षणिकतायाः प्रमिततया तदनुसारेण
समानसंतानवर्तिनामेव प्राचीनः प्रत्ययः कर्मकर्ता तदुत्तरः प्रत्ययः फलभोक्ता। न चातिप्रसङ्गः।
कार्यकारणभावस्य नियामकत्वात्। यथा मधुररसभावितानामाम्रबीजानां परिकर्षितायां
भूमावुप्तानामङ्कु रकाण्डस्कन्धशाखापल्लवादिषु तद्द्वारा परंपरया फले माधुर्यनियमः। यथा वा
लाक्षारसावसिक्तानां कार्पासबीजादीनामङ्कु रादिपारंपर्येण कार्पासादौ रक्तिमनियमः। यथोक्तम् -
यस्मिन्नेव हि संताने आहिता कर्मवासना। फलं तत्रैव बघ्नाति कार्पासे रक्तता यथा॥ कु सुमे
बीजपूरादेर्यल्लाक्षाद्यवसिच्यते। शक्तिराधीयते तत्र काचित्तां किं न पश्यसि। इति।
तदपि काशकु शावलम्बनकल्पम्। विकल्पासहत्वात्। जलधरादौ दृष्टान्ते क्षणिकत्वमनेन प्रमाणेन
प्रमितं प्रमाणान्तरेण वा। नाद्यः। भवदभिमतस्य क्षणिकत्वस्य क्वचिदप्यदृष्टचरत्वेन
दृष्टान्तसिद्धावस्यानुमानस्यानुत्थानात्। न द्वितीयः। तेनैव न्यायेन सर्वत्र क्षणिकत्वसिद्धौ
सत्वानुमानवैफल्यापत्तेः। अर्थक्रियाकारित्वं सत्त्वमित्यङ्गीकारे मिथ्यासर्पदंशादेरप्यर्थ-
क्रियाकारित्वेन सत्त्वापाताच्च। अत एवोक्तम्- उत्पादव्ययघ्रौव्ययुक्तं सदिति। अथोच्यते
सामर्थ्यासामार्थ्यलक्षणविरुद्धधर्माध्यासात्तत्सिद्धिरिति तदसाधु। स्याद्वादिनामनेकान्तता-
वादस्येष्टतया विरोधासिद्धेः। यदुक्तं कार्पासादिदृष्टान्त इति तदुक्ति मात्रम्। युक्ते रनुक्तेः। तत्रापि
निरन्वयनाशस्यानङ्गीकाराच्च। न च संतानिव्यतिरेके ण संतानः प्रमाणपदुवीमुपारोढमर्हति।
तदुक्तम् -
सजातीयाः क्रमोत्पन्नाः प्रत्यासन्नाः परस्परम्। व्यक्तयस्तासु संतानः स चैक इति गीयते॥
इति॥
न च कार्यकारणभावनियमेतिप्रसङ्गं भङ्क्तु मर्हति। तथा उपाध्यायबुद्धयनुभूतस्य शिष्यबुद्धिः
स्मरेत्तदुपचितकर्मफलमनुभवेद्वा। तथा च कृतप्रणाशाकृताभ्यागमप्रसङ्गः। तदुक्तं सिद्धसेन-
वाक्यकारेण -
कृतप्रणाशाकृतकर्मभोगभवप्रमोक्षस्मृतिभङ्गदोषान्। उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाह-
सिकः परोसौ॥ (वी.स्तु.18) इति।
किं च क्षणिकत्वपक्षे ज्ञानकाले ज्ञेयस्यासत्वेन ज्ञेयकाले ज्ञानस्यासत्त्वेन च ग्राह्यग्राहक-
भावानुपपत्तौ सकललोकयात्रास्तमियात्। न च समसमयवर्तिता शङ्कनीया। सव्येतरविषाण-
वत्कार्यकारणभावासंभवेनाग्राह्यस्यालम्बनप्रत्ययत्वानुपपत्तेः। अथ भिन्नकालस्यापि तस्याकार-
र्पकत्वेन ग्राह्यत्वम्- तदप्यपेशलम्। क्षणिकस्य ज्ञानस्याकारार्पकताश्रयताया दुर्वचत्वेन
साकारज्ञानवादप्रत्यादेशात्। निराकारज्ञानवादेपि योग्यतावशेन प्रतिकर्मव्यवस्थायाः स्थितत्वात्।
तथा हि प्रत्यक्षेण विषयाकाररहितमेव ज्ञानं प्रतिपुरुषमहमहमिकयाघटादिग्राहकमनुभूयते न तु
दर्पणादिवत्प्रतिबिम्बाक्रान्तम्। विषयाकारधारितत्वे च ज्ञानस्यार्थे दूरनिकटादिव्यवहाराय
जलाञ्जलिर्वितीर्येत। न चेदमिष्टापादनमेष्टव्यम्। दवीयान्महीधरो नेदीयान्दीर्घों बाहुरिति
व्यवहारस्य निराबाधं जागरुकत्वात्। न चाकाराधायकस्य तस्य दवीयस्त्वादिशालितया तथा
व्यवहार इति कथनीयम्। दर्पणादौ तथानुपलम्भात्। किं चार्थादुपजायमानं ज्ञानं यथा तस्य
नीलाकारतामनुकरोति तथा यदि जडतामपि तर्ह्यर्थत्तदपि जडं स्यात्। तथा च वृद्धिमिष्टवतो
मूलमपि ते नष्टं स्यादिति महत्कष्टमापन्नम्। अथैतद्दोषपरिजिहीर्षया ज्ञानं जडतां नानुकरोतीति
ब्रूषे हन्त तर्हि तस्या ग्रहणं न स्यादित्येकामनुसंधित्सतोपरं प्रच्ययत इति न्यायापातः। ननु
मा भूज्जडताया ग्रहणम्। किं नश्छिन्नम्। तदग्रहणेपि नीलाकारग्रहणे तयो र्भेदोनेकान्तो वा
भवेत्। नीलाकारग्रहणे चागृहीताजडता कथं तस्य स्वरूपं स्यात्। अपरथा गृहीतस्य
स्तम्भस्यागृहीतं त्रैलोक्यमपि रूपं भवेत्। तदेतत्प्रमेयजातं प्रभाचन्द्रप्रभृतिभिरर्हन्मतानुसारिभिः
प्रमेयकमलमार्तण्डादौ (प्र.क.मा.पृ.27) प्रबन्धे प्रपञ्चितमिति ग्रन्थभूयस्त्वभयान्नोपन्यस्तम्।
तस्मात्पुरुषार्थाभिलाषुकैः पुरुषैः सौगती गतिर्नानुगन्तव्या। अपि त्वार्हत्येवार्हणीया। अर्हत्स्वरूपं
च हेमचन्द्रसूरिभिराप्तनिश्चायालंकारे निरटङ्कि।
सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः। यथास्थितार्थवादी च देवोर्हन्परमेश्वरः॥इति।
ननु न कश्चित्पुरुषविशेषः सर्वज्ञपदवेदनीयः प्रमाणपद्धतिमध्यास्ते। तत्सद्भावग्राहकस्य
प्रमाणपञ्चकस्य तत्रानुपलम्भात्। तथा चोक्तं तौतातितैः।-
सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोस्ति लिङ्गं वा योनुमापयेत्॥ 1॥ न
चागमविधिः कश्चिन्नित्य सर्वज्ञबोधकः।
न च तत्रार्थवादानां तात्पर्यमपि कल्प्यते॥2॥ न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते। न
चानुवदितुं शक्यः पूर्वमन्यैरबोधितः॥3॥ अनादेरागमस्यार्थों न च सर्वज्ञ आदिमान्। कृत्रिमेण
त्वसत्येन स कथं प्रतिपाद्यते॥4॥ अथ तद्वचनेनैव सर्वज्ञोज्ञैः प्रतीयते। प्रकल्प्येत कथं
सिद्धिरन्योन्याश्रययोस्तयोः॥5॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता। कथं तदुभयं
सिध्येत्सिद्धमूलान्तरादृते॥6॥ असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात्। असर्वज्ञमवगच्छन्तः
स्ववाक्योक्तिं न जानते॥7॥ सर्वज्ञसदृशं कं चिद्यदि पश्येम संप्रति। उपमानेन सर्वज्ञं जानीयाम
ततो वयम्॥ 8॥ उपदेशोपि बुद्धस्य धर्माधर्मादिगोचरः। अन्यथा नोपपद्येत सार्वज्ञयं यदि
नाभवत्॥ 9॥ एवमर्थापत्तिरपि प्रमाणं नात्र युज्यते। उपदेशस्य सत्यत्वं यतो
नाध्यक्षमीक्ष्यते॥10॥ इत्यादि
अत्र प्रतिविधीयते। यदभ्यधायि तत्सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति-
तदयुक्तम्। तत्सद्भावावेदकस्यानुमानादेः सद्भावात् तथा हि कश्चिदात्मा सकलपदार्थसाक्षात्कारी
तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात्। यद्यग्द्रहणस्वभावत्वे सति प्रक्षीण-
प्रतिबन्धप्रत्ययं तत्तत्साक्षात्कारि यथापगततिमिरादिप्रतिबन्धं लोचनविज्ञानं रूपसाक्षात्कारि।
तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा। तस्मात्सकलपदार्थसाक्षात्कारीति
न तावदशेषार्थग्रहणस्वभावत्वमात्मनोसिद्धम्। चोदनाबलान्निखिलार्थज्ञानोत्पत्तयन्यथानुपपत्तया
सर्वमनेकान्तात्मकं सत्तवादिति व्याप्तिज्ञानोत्पत्तोश्च। चोदना हि भूतं भवन्तं भविष्यन्तंस सूक्ष्मं
व्यवहितं विप्रकृष्ठमित्येवंजातीयकमर्थमवगमयतीत्येवंजातीयकै रध्वरमीमांसागुरुभिर्विघिप्रतिषेध-
विचारणानिबन्धनं सकलार्थविषयज्ञानं प्रतिपद्यमानैः सकलार्थग्रहणस्वभावकत्वमात्मानो-
भ्युपगतम्। न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिः। सम्यग्दर्शनादित्रयलक्षणस्यावरणप्रक्षय-
हेतुभूतस्य सामग्रीविशेषस्य प्रतितत्वात्। अनया मुद्रयापि क्षुद्रोपद्रवा विद्राव्याः।
नन्वावरणप्रक्षयवशादशेषविषयं विज्ञानं विशदं मुख्यप्रत्यक्षं प्रभवतीत्युक्तं तदयुक्तम्। तस्य
सर्वज्ञस्यानादिमुक्तत्वेनावरणस्यैवासंभवादिति चेत्तन्न। दनादिमुक्तत्वस्यैवासिद्धेः् । न
सर्वज्ञोनादिमुक्तः। मुक्तत्वादिरमुक्तवत्। वद्धापेक्षया च मुक्तव्यपदेशः। तद्रहिते चास्याप्यभावः
स्यादाकाशवत्। नन्वनादेः क्षित्यादिकार्यपरंपरायाः कर्तृत्वेन तत्सिद्धिः। तथा हि- क्षित्यादिकं
सकर्तृकं कार्यत्वाद्धटवदिति। तदप्यसमीचीनम्। कार्यत्वस्यैवासिद्धेः। न च सावयवत्वेन
तत्साधनमित्यभिधातव्यम्। यस्मादिदं विकल्पजालमवतरति। सावयवत्वं किमवयवसंयोगित्वम्
अवयवसमवायित्वम् अवयवजन्यत्वं समवेतद्रव्यत्वं सावयवबुद्धिविषयत्वं वा। न प्रथमः।
आकाशादावनैकान्त्यात्। न द्वितीयः। सामान्यादौ व्यभिचारात्। न तृतीयः। साध्याविशिष्टत्वात्।
न चतुर्थः। विकल्पयुगलार्गलग्रहगलत्वात्। समवायसंबन्धमात्रवद् द्रव्यत्वं समवेतद्रव्यत्वमन्यत्र
समवेतद्रव्यत्वं वा विवक्षितं हेतुक्रियते। आद्ये गगनादौ व्यभिचारः। तस्यापि गुणादि-
समवायत्वद्रव्यत्वयोः संभवात्। द्वितीये साध्याविशिष्टता। अन्यशब्दार्थेषु समवायकारण-
भूतेष्ववयवेषु समवायस्य साधनीयत्वात्। तस्य सावयवबुद्धिविषयत्वेपि कार्यत्वाभावात्। न च
निरवयवत्वेप्यस्य सावयवार्थसंबन्धेन सावयवबुद्धिविषयत्वमौपचारिकमित्येष्टव्यम्। निरवयवत्वे
व्यापित्वविरोधात्परमाणुवत्। किं च किमेकः कर्ता साध्यते किं वानेके । प्रथमे प्रासादादौ
व्यभिचारः। स्थापत्यादीनां बहूनां पुरुषाणां तत्र कर्तृत्वोपलम्भात्। द्वितीये बहूनां विश्वनिर्मातृत्वे
तेषु मिथो वैमत्यसंभावनाया अनिर्वार्यत्वादेकै कस्य वस्तुनोन्यान्यरूपतया निर्माणे सर्वमसमञ्ज-
समापद्येत। सर्वेषां सामर्थ्यसाम्येनैके नैव सकलजगदुत्पत्तिसिद्धावितरवैयर्थ्यं च। तदुक्तं
वीतरागस्तुतौ-
कर्तास्ति कश्चिज्जगतः स चैकः स सर्वगः स स्ववशः स नित्यः। इमाः कु हेवाकविडम्बनाः
स्युः - स्तेषां न येषामनुशासक- स्त्वम्॥ (वी.स्तु. 6) इति।
अन्यत्रापि-
कर्ता न तावदिह कोपि यथेच्छया वा दृष्टोन्यथा कटकृतावपि तत्प्रसङ्गः। कार्यं किमत्र भवतापि
च तक्षकाद्यै - राहत्य च त्रिभुवनं पुरुषः करोति॥ ।।इति॥
तस्मात्प्रागुक्तकारणत्रितयबलादावरणप्रक्षये सार्वज्ञं युक्तम्। न चास्योपदेष्ट्रन्तराभावात्सम्य-
ग्दर्शनादित्रितयानुपपत्तिरिति भणनीयम्। पूर्वसर्वज्ञप्रणीतागमप्रभवत्वादमुष्याशेषार्थज्ञानस्य। न
चान्योन्याश्रयादिदोषः। आगमसर्वज्ञपरंपराया बीजाङ्कु रवदनादित्वाङ्गीकारादित्यलम्।
रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमर्हत्प्रवचनसंग्रहपरे परमागमसारे प्ररूपितं
सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति। विवृतं च योगदेवेन। येन रूपेण जीवाद्यर्थों
व्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानं
सम्यग्दर्शनम्। तत्त्वार्थसूत्रं- तत्वार्थं श्रद्धानं सम्यग्दर्शनमिति। अन्यदपि-
रुचिर्जिनोक्ततत्त्वेषु सम्यक् श्रद्धानमुच्यते। जायते तन्निसर्गेण गुरोरधिगमेन वा॥इति॥
परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः। व्याख्यानादिरूपपरोपदेशजनितं ज्ञानमधिगमः।
येन स्वभावेन जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः
सम्यग्ज्ञानम्। यथोक्तम्-
यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा। योवबोधस्तमत्राहुः सम्यग्ज्ञानं मनीषिणः॥इति॥
तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमनःपर्यायके वलभेदेन। तदुक्तम् -
मतिश्रुतावधिमनःपर्यायके वलानि ज्ञानमिति। अस्यार्थः- ज्ञानावरणक्षयोपशमे सतीन्द्रियमनसी
पुरस्कृत्य व्यापृतः सन् यथार्थं मनुते सा मति। ज्ञानावरणक्षयोपशमे सति मतिजनितं स्पष्टं
ज्ञानं श्रुतम्। सम्यग्दर्शनादिगुणजनितक्षयोपशमनिमित्तमवच्छिन्नविषयं ज्ञानमवधिः
इर्ष्यान्तरायज्ञानावरणक्षयोपशमे सति परमनोगतस्यार्थस्य स्फु टं परिच्छेदकं ज्ञानं मनः पर्यायः।
तपःक्रियाविशेषान्यदर्थं सेवन्ते तपस्विनस्तज्ज्ञानमन्यज्ञानासंसृष्टं के वलम्। तत्राद्यं परोक्षं
प्रत्यक्षमन्यत्। तदुक्तम् -
विज्ञानं स्वपराभासि प्रमाणं बाधवर्जितम्। प्रत्यक्षं च परोक्षं च द्विधा ज्ञेयविनिश्चयात्॥ इति॥
अन्तर्गणिकभेदस्तु सविस्तरस्तत्रैवागमेऽवगन्तव्यः।
संसरणकर्मोंच्छित्तावुद्यतस्य श्रद्दधानस्य ज्ञानवतः पापगमनकारणक्रियानिर्वृत्तिः सम्यक्चरित्रम्।
तदेतत्सप्रपञ्चमुक्तमर्हता -
सर्वथावद्ययोगानां त्यागश्चारित्रमुच्यते। कीर्तितं तदहिंसादिव्रतभेदेन पञ्चधा॥
अहिंसासूनृतास्तेयब्रह्मचर्यापरिग्रहाः। न यत्प्रमादयोगेन जीवितव्यपरोपणम्। चराणां स्थावराणां
च तदहिंसाब्रतं मतम्। प्रियं पथ्यं वचस्तथ्यं सूनृतं ब्रतमुच्यते॥ तत्तथ्यमपि नो तथ्यमप्रियं
चाहितं च यत्। अनादानमदत्तस्यास्तेयव्रतमुदीरितम्। बाह्याः प्राणा नृणामर्थों हरता तं हता हि
ते। दिव्यौदरिककामानां कृतानुमतकारिकतैः। मनोवाक्कायतस्त्यागो ब्रह्माष्टादशधा मतम्॥
सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः। यदसत्स्वपि जायेत मूर्छया चित्तविल्पवः।
भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात्। महाव्रतानि लोकस्य साधयन्त्यव्ययं पदम्॥
इति॥
भावनापञ्चकप्रपञ्चनं च प्ररूपितम्- हास्यलोभभयक्रोधप्रत्याख्यानैर्निरन्तरम्। आलोच्य
भाषणेनापि भावयेत्सूनृतं व्रतम्॥
इत्यादिना। एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकम्। यथा
रसायनम्। तथा चात्र ज्ञानश्रद्धानाचरणानि संभूय फलं साधयन्ति न प्रत्येकम्।
अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वे स्तः। तत्र बोधात्मको जीवः। अबोधात्मकस्त्वजीवः।
तदुक्तं पद्मनन्दिना -
चिदचिद् द्वे परे तत्त्वे विवेकस्तद्विवेचनम्। उपादेयमुपादेयं हेयं हेयं च कु र्वतः॥ हेयं हि
कर्तृरागादि तत्कार्यमविवेकिता। उपादेयं परं ज्योतिरुपयोगैकलक्षणम॥इति्॥
सहूजचिद्रपपरिणतिं स्वीकु र्वाणे ज्ञानदर्शने उपयोगः। स परस्परप्रदेशानां प्रदेशबन्धात्कर्मणै-
कीभूतस्यात्मनोन्यत्वप्रतिपत्तिकारणं भवति। सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशम-
वशादौपशमिकक्षयात्मकक्षायौपशमिकभावेन कर्मोंदयवशात्कलुषान्याकारेण च परिणत-
जीवपर्यायविवक्षायां जीवस्वरूपं भवति। यदवोचद्वाचकाचार्यः- औपशमिकक्षायिकौ भावौ मिश्रश्च
जीवस्य स्वतत्त्व- मौदयिकपारिणामिकौ च (त.सू.2/1) इति। अनुदयप्राप्तिरूपे कर्मण उपशमे
सति जीवस्योत्पद्यमानो भाव औपशमिकः। यथा पङ्के कलुषतां कु र्वति कतकादि-
द्रव्यसंबन्धादधः पतिते जलस्य स्वच्छता। आर्हततत्त्वानुसंधानवशाद्रागादिपङ्कक्षालनेन
निर्मलतापादकः क्षायिको भावः। कर्मणः क्षये सति जायमानो भावः क्षायिकः यथा
पङ्कात्पृथग्भूतस्य निर्मलस्य स्फटिकादिभाजनान्तर्गतस्य जलस्य स्वच्छता। यथा मोक्षः।
उभयात्मा भावो मिश्रः। यथा जलस्यार्धस्वच्छता। कर्मोंदये सति भवन्भाव औदयिकः।
कर्मोंपशमाद्यनपेक्षःसहजोभावश्चेतनत्वादिःपारिणामिकः। तदेतद्यथासंभवं भव्यस्याभव्यस्य वा
जीवस्य स्वरूपमिति सूत्रार्थः। तदुक्तं स्वरूपसंबोधने
ज्ञानाद्भिन्नो न नाभिन्नो भिन्नाभिन्नः कथंचन। ज्ञानं पूर्वापरीभूतं सोयमात्मेति कीर्तितः॥
इति॥
ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैव वास्तवत्वादुभयात्मकत्वमयु क्तमिति चेत्-
तदयुक्तम्। बाधे प्रमाणाभावात्। अनुपलम्भो हि बाधकं प्रमाणम्। न सोस्ति। समस्तेषु
वस्तुष्वनेकान्तांत्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्धत्वादित्यलम्।
अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते जीवाकाशधर्मा धर्मपुद्गलास्तिकायभेदात्। एतेषु पञ्चसु
तत्त्वेषु कालत्रयसंबन्धितयास्तीति स्थितिव्यपदेशः। अनेकप्रदेशत्वेन शरीरवत्कायव्यपदेशः। तत्र
जीवा द्विविधाः संसारिणो मुक्ताश्च। भवाद्भवान्तरप्राप्तिमन्तः संसारिणः। ते च द्विविधाः,
समनस्का अमनस्काश्च। तत्र संज्ञिनः समनस्काः। शिक्षाक्रियालापग्रहणरूपा संज्ञा।
तद्विधुरास्त्वमनस्काः। ते चामनस्का द्विविधाः, त्रसस्थावरभेदात्। तत्र द्वीन्द्रियादयः शङ्खगण्डो-
लकप्रभृतयश्चतुर्विधास्त्रसाः। पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः। तत्र मार्गगत धूलिः पृथिवी।
इष्टकादिः पृथिवीकायः। पृथिवीकायत्वेन येन गृहीता स पृथिवीकायिकः। पृथिवींकायत्वेन यो
ग्रहीष्यति स पृथिवीजीवः। एवमबादिष्वपि भेदचतुष्टयं योज्यम्। तत्र पृथिव्यादि कायत्वेन
गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः। तेषामजीवत्वात्। ते च
स्थावराः स्पर्शनैके न्द्रियाः। भवान्तरप्राप्तिविधुरा मुक्ताः। धर्माधर्मा- काशास्तिकायास्त
एकत्वशालिनो निष्क्रियाश्च द्रव्यस्य देशान्तरप्राप्तिहेतवः। तत्र धर्माधर्मौ प्रसिद्धौ।
आलोके नावच्छिन्ने नभसि लोकाकाशपदवेदनीये तयोः सर्वत्रावस्थितिः। गतिस्थित्युपग्रहो
धर्माधर्मयोरुपकारः। अत एव धर्मास्तिकायः प्रवृत्त्यनुमेयः। अधर्मास्तिकायः स्थित्यनुमेयः।
अन्यवस्तुप्रदेशमध्येन्यस्य वस्तुनः प्रवेशोवगाहः। तदाकाशकृत्यम्। स्पर्शरसगन्धवर्णवन्तः
पुद्गलाः (त.सू.5/24)। ते च द्विविधा अणवः स्कन्धाश्च। भोक्तु मशक्या अणवः। द्यणुकादयः
स्कन्धाः। तत्र द्यणुकादिस्कन्धभेदादण्वादिरूत्पद्यते। अण्वादिसंघाताद् द्यणुकादिरुत्पद्यते।
क्वचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः (त.सू.5/26) अत एव पूरयन्ति गलन्तीति पुद्गलाः।
कालस्यानेकप्रदेशत्वाभावेनास्तिकायत्वाभावेपि द्रव्यत्वमस्ति। तल्लक्षणयोगात्। तदुक्तं
गुणपर्यायवद् द्रव्यम् ( त.सू.5/38) इति द्रव्याश्रया निर्गुणागुणा (त.सू.5/39)। यथा जीवस्य
ज्ञानत्वादिधर्मरूपाः पुद्गलस्य रूपत्वादिसामान्यस्वभावाः। धर्माधर्माकाशकालानां यथासंभवं
गतिस्थित्यवगाहवर्तनाहेतुत्वादिसामान्यानि गुणाः। तस्य द्रव्यस्योक्तरूपेण भवनं पर्यायः।
उत्पादस्तद्भावः परिणामः पर्याय इति पर्यायाः। यथा जीवस्य घटादिज्ञानसुखक्लेशादयः।
पुद्गलस्य मृत्पिण्डघटादयः। धर्मादीनां गत्यादिविशेषाः अत एव षड् द्रव्याणीति प्रसिद्धिः।
के चन सप्त तत्तवानीति वर्णयन्ति। तदाह- जीवाजीवास्रवबन्धसंवरनिर्जरमोक्षास्तत्त्वानि।
(त.सू.1/4) इति। तत्र जीवाजीवौ निरूपितौ। आस्रवो निरुप्यतेऔदारिकादिकायादिचलन-
द्वारेणात्मनश्चलनं योगपदवेदनीयमास्रवः। यथा सलिलावगाहि द्वारं जलाद्यास्रवणकारणत्वादास्रव
इति। निगद्यते तथा योगप्रणाडिकया कर्मास्रवतीति स योग आस्रवः। यथार्द्रं वस्त्रं
समन्ताद्वातानीतं रेणुजातमुपादत्ते तथा कषायजलार्द्र आत्मा योगानीतं कर्म सर्वप्रदेशैगृह्नाति।
यथा वा निष्टप्तायःपिण्डो जले क्षिप्तोम्भः समन्ताद् गृह्नाति तथा कषायोष्णो जीवो योगानीतं
कर्म समन्तादादत्ते। कषति हिनस्त्यात्मानं कु गतिप्रापणादिति कषायः क्रोधो मानो माया
लोभश्च। स द्विविधः शुभाशुभभेदात्। अत्राहिंसादिः शुभः काययोगः। सत्यमितहितभाषणादिः
शुभो वाग्योगः। अर्हत्सिद्धाचार्योंपाध्यायसाधुनामधेयपञ्चपरमेष्ठिभक्तितपोरुचिश्रुतविनयादिः
शुभो मनोयोगः। एतद्विपरीतस्त्वशुभस्त्रिविधो योगः। तदेतदास्रवभेदप्रभेदजातं कायवाङ्मनः-
कर्मयोगः। स आस्रवः। शुभः पुण्यस्य। अशुभः पापस्य (त.सू.6/1-4) इत्यादिना सूत्रसंदर्भेण
ससंरम्भमभाणि। अपरे त्वेवं मेनिरेआस्रवयति पुरुषं विषयेष्यिन्द्रियप्रवृत्तिरास्रवः। इन्द्रियद्वारा हि
पौरुषं ज्योतिर्विषयान्स्पृशद्रूपादिज्ञानरूपेण परिणमत इति।
मिथ्यादर्शनाविरतिप्रमादकषायवशाद्योगवशाच्चात्मा सूक्ष्मैकक्षेत्रावगाहिनामनन्तप्रदेशानां पुद्गालानां
कर्मबन्धयोग्यानामादानमुपश्लेषणं यत्करोति स बन्धः। तदुक्तं सकषायत्वाज्जीवः कर्मभाव-
योग्यान्पुद्गलानादत्ते स बन्धः। (त.सू.8/2) इति। तत्र कषायग्रहणं सर्वबन्धहेतूपलक्षणार्थम्।
बन्धहेतून्पपाठ वाचकाचार्यः - मिथ्यादर्शनाविरतिप्रमादकषायोगा बन्धहेतवः (त.सू.8/1) इति
मिथ्यादर्शनं द्विविधं मिथ्याकर्मोंदयात्परोपदेशानपेक्षं तत्त्वाश्रद्धानं नैसर्गिकमेकम्। अपरं
परोपदेशजम्। पृथिव्यादिषट्कोपादानं षडिन्द्रियासंयमनं चाविरतिः। पञ्चसमिति-
त्रिगुप्तिष्वनुत्साहः प्रमादः। कषायः क्रोधादिः। तत्र कषायान्ताः स्थित्यनुभवबन्धहेतवः
प्रकृतिप्रदेशबन्धहेतुर्योंग इति विभागाः। बन्धश्चतुर्विध इत्युक्तं प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः
(त.सू.8/3) इति। यथा निम्बगुडादेस्तिक्तत्वमधुरत्वादिस्वभाव एवमावरणीयस्य
ज्ञानदर्शनावरणत्वमादित्यप्रभाच्छादकाम्भोधरवत्प्रदीपप्रभातिरोधायककु म्भवच्च। सदसद्वेदनीयस्य
सुखदुःखोत्पादकत्वमसिधारामधुलेहनवत्। दर्शने महनीयस्य तत्त्वार्थाश्रद्धानकारित्वं दुर्जन -
सङ्गवत्। चारित्रे मोहनीयस्यासंयमहेतुत्वं मद्यमदवत्। आयुषो देहबन्धकर्तृत्वं जलवत्। नाम्नो
विचित्रनामकारित्वं चित्रिकवत्। गोत्रस्योच्चनीचकारित्वं कु म्भकारवत्। दानादीनां
विघ्ननिदानत्वमन्तरायस्य स्वभावः कोशाध्यक्षवत्। सोयं प्रकृतिबन्धोष्टविधो द्रव्यकर्मावान्तर-
भेदमूलप्रकृतिवेदनीयः। तथावोचदुमास्वातिवाचकाचार्यः आद्योज्ञानदर्शनावरणवेदनीयमोहनीया-
युर्नामगोत्रान्तरायाः (त.सू.8/4) इति। तद्भेदं च समगृह्यात्पञ्च नवद्वयष्टार्विंशतिचतुर्द्वि-
चत्वारिंशद्द्विपञ्चभेदा यथाक्रमम् ( त.सू.8/5) इति। एतच्च सर्वं विद्यानन्दादिभिर्विवृतमिति
विस्तरभयान्न प्रस्तूयते। यथाजागोमहिष्यादिक्षीराणामेतावन्तमनेहसं माधुर्यस्वभावादप्रच्युति-
स्थितिस्तथा ज्ञानावरणादीनां मूलप्रकृतीनामादितस्तिसृणामन्तरायस्य च त्रिंशत्सागरोपम-
कोटिकोटयः परास्थितिः (त.सू.8/14) इत्याद्युक्तकाला दर्दान्तवत्स्वीयस्वभावादुप्रच्युतिस्थिति।
यथाजागोमहिष्यादिक्षीराणां तीव्रमन्दादिभावेन स्वकार्यकरणे सामर्थ्यविशेषोनुभावस्तथा
कर्मपुद्गलानां स्वकार्यकरणे सामर्थ्यविशेषोनुभावः। कर्मभावपरिणतपुद्गलस्कन्धानामनन्तान्त-
प्रदेशानामात्मप्रदेशानुप्रवेशः प्रदेशबन्धः।
आस्रवनिरोधः संवरः येनात्मनि प्रविशत्कर्म प्रतिषिध्यते स गुप्तिसमित्यादिः संवरः।
संचारकारणायोगादात्मनो गोपनं गुप्तिः। सा त्रिविधा कायवाङ्मनोनिग्रहभेदात्। प्राणिपीडापरिहारेण
सम्यगयनं समितिः। सेर्याभाषादिभेदात्पञ्चधा। प्रपञ्चितं च हेमचन्द्राचार्यैः।
लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः। जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम्॥
अनवद्यमृतं सर्वजनीनं मितभाषणम्। प्रिया वाचंयमानां सा भाषासमितिरुच्यते॥ द्विचत्वारिंशता
भिक्षादोषैर्नित्यमदूषितम्। मुनिर्यदन्नमादत्ते सैषणासमितिर्मता॥ आसनदीनि संवीक्ष्य प्रतिलङ्घय
च यत्नतः। गृह्णीयान्निक्षिपेद्धयायेत्सादानसमितिः स्मृता। कफमूत्रमलप्रायैर्निजन्तुजगतीतले।
यत्नाद्यदुत्सृजेत्साधुः सोत्सर्गसमितिर्भवेत्॥ आस्रवः स्रोतसो द्वारं संवृणोतीति संवरः।
इति निराहुः। तदुक्तमभियुक्तैः -
अस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम्। इतीयमार्हती सृष्टिरन्यदस्याः प्रपञ्चनम्॥
अर्जितस्य कर्मणस्तपःप्रभृतिभिर्निर्जरणं निर्जराख्यं तत्त्वम्। चिरकालप्रवृत्तकषायकलापं पुण्यं
सुखदुःखे च देहेन जरयति नाशयति के शोल्लुञ्चनादिकं तप उच्यते। सा निर्जरा द्विविधा
यथाकालौपक्रमिकभेदात्। तत्र प्रथमा यस्मिन्काले यत्कर्म फलप्रदत्वेनाभिमतं तस्मिन्नेव काले
फलदानाद्भवन्ती निर्जरा कामादिपाकजेति च जेगीयते। यत्कर्म तपोबलात्स्वकामनयोदयावलिं
प्रवेश्य प्रपद्यते सौपक्रमिकनिर्जरा। यदाह -
संसारबीजभूतानां कर्मणां जरणादिह। निर्जरा संमता द्वेधा सकामाकामनिर्जरा॥ स्मृता सकामा
यमिनामकामा त्वन्यदेहिनाम॥इति्॥
मिथ्यादर्शनादीनां वन्धहेतूनां निरोधेभिनवकर्माभावान्निर्जरा हेतुसन्निधानेनार्जितस्य कर्मणो
निरसनादात्यन्तिककर्ममोक्षणं मोक्षः। तदाहबन्धहेत्वभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षणं मोक्षः
(त.सू.10/2) इति। तदनन्तरमूर्ध्वे गच्छत्यालोकान्तात् ( त.सू.10/5)। यथा
हस्तदण्डादिभ्रामिप्रेरितं कु लालचक्रमुपरतेपि तस्मिस्तद्बलादेवसंस्कारक्षयं भ्रमति तथा
भवस्थेनात्मनापवर्गप्राप्तये बहुशो यत्कृतं प्रणिधानं मुक्तस्य तदभावेपि पूर्वसंस्कारादालोकान्तं
गमनमुपपद्यते। यथा वा मृत्तिकालेपकृतगौरवमलाबुद्रव्यं जलेधः पतति पुनरपेतमृत्तिका-
बन्धमूर्ध्वं गच्छति तथा कर्मरहित आत्मा असङ्गत्वादूर्ध्वं गच्छति। बन्धच्छेदादेरण्ड-
बीजबच्चोर्ध्वं गतिस्वभावाच्चाग्निशिखावत्। अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं
बन्धः। परस्परप्राप्तिमात्रं सङ्गः। तदुक्तं पूर्वप्रयोगादसङ्गत्वाद्वन्धच्छेदात्तथा गतिपरिणामाच्च
(त.सू.10/6)। आविद्धकु लालचक्रवद्व्ययपगतलेपालाबुवदेरण्डबीजवदग्निशिखावच्च
(त.सू.10/7) इति। अत एव पठन्ति।
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः। अद्यापि न निवर्तन्ते त्वलोकाकाशमागताः॥ (प.न.)
इति।
अन्ये तु गतसमस्तक्लेशतद्वासनस्यानावरणज्ञानस्य सुखैकतानस्यात्मन उपरिदेशावस्थानं
मुक्तिरित्यास्थिषत। एवमुक्तानि सुखदुःखसाधनाभ्यां पुण्यपापाभ्यां सहितानि नव पदार्थान्
के चनाङ्गीचक्रुः। तदुक्तं सिद्धान्ते जीवाजीवौ पुण्यपापयुतावास्रवः संवरो निर्जरणं बन्धो मोक्षश्च
नव तत्त्वानीति। संग्रहे प्रवृत्ता वयमुपरताः स्मः।
अत्र सर्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाः। स्यादस्ति स्यान्नास्ति स्यादस्ति च
नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यान्नास्ति चावक्तव्यः स्यादस्ति च नास्ति
चावक्तव्य इति।
तत्सर्वमनन्तवीर्यः प्रत्यपीपदत् -
तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत्। स्यान्नास्तीति प्रयोगः स्यात्तन्निषेधे विवक्षिते॥
क्रमेणोभयवाञ्छायां प्रयोगः समुदायभाक्। युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः।
आद्यावाच्यविवक्षायां पञ्चमो भङ्ग इष्यते। अन्त्यावाच्यविवक्षायां षष्ठभङ्गसमुद्भवः॥ समुच्चयेन
युक्तश्च सप्तमो भङ्ग उच्यते॥ इति॥ स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूप-
कोऽनेकान्तद्योतकः।
यथोक्तम् -
वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम्। स्यान्निपातोर्थयोगित्वात्तिङन्तप्रतिरूपकः॥इति॥
यदि पुनरेकान्तद्योतकः स्याच्छब्दोयं स्यात्तदा स्यादस्तीति वाक्ये स्यात्पदमनर्थकं स्यात्।
अनेकान्तद्योतकत्वे तु स्यादस्ति कथं चिदस्तीति स्यात्पदात्कथंचिदित्ययमर्थों लभ्यत इति
नानर्थक्यम्। तदाह -
स्याद्वादः सर्वथैकान्तत्यागात्किं वृत्तचिद्विधेः। सप्तभङ्गिनयापेक्षो हेयादेयविशेषकृत॥इति्॥
यदि वस्त्वस्त्येकान्ततः सर्वथा सर्वदा सर्वत्र सर्वात्मनास्तीति नोपादित्साजिहासाभ्यां
क्वचित्कदाचित्के नचित्प्रवर्तेत निवर्तेत वा। प्राप्ताप्रापणीयत्वादहेयहानानुपपत्तेश्च। अनेकान्तपक्षे तु
कथंचित्कचित्के नचित्सत्त्वेन हानोपादाने प्रेक्षावतामुपपद्येते। किं च वस्तुनः। सत्त्वं स्वभावः,
असत्त्वं वेत्यादि प्रष्टव्यम्। न तावदस्तित्वं वस्तुनः स्वभाव इति समस्ति। घटोस्तीत्यनयोः
पर्यायतया युगपत्प्रयोगायोगात्। नास्तीति प्रयोगविरोधाच्च। एवमन्यत्रापि योज्यम्। यथोक्तम् -
घटोस्तीति न वक्तव्यं सन्नेव हि यतो घटः। नास्तीत्यपि न वक्तव्यं विरोधात्सदसत्त्वयोः॥
इत्यादि॥
तस्मादित्थं वक्तव्यं सदसत्सदसदनिर्वचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाः।
पुनरप्यनिर्वचनीयमतेन मिश्रितानि सदसदादि- मतानीति त्रिविधाःतान्प्रति किं
वस्त्वस्तीत्यादिपर्यनुयोगे कथंचिदस्तीत्यादिप्रतिवचनसंभवेन ते वादिनः सर्वे निर्विण्णाः
सन्तस्तूष्णीमासत इति संपूर्णार्थविनिश्चायिनः स्याद्वादमङ्गीकु र्वतस्तत्र तत्र विजय इति
सर्वमुपपन्नम्। यदबोचदाचार्यः स्याद्वादमञ्जर्याम्
अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम्। एकदेशाविशिष्टोर्थों नयस्य विषयो मतः।
न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवर्त्मनि। संपूर्णार्थविनिश्चायि स्याद्वस्तु श्रुतमुच्यते॥इति॥
अन्योन्यपक्षप्रतिपक्षभावाद्यथापरे मत्सरिणः प्रवादाः। नयानशेषानविशेषमिच्छन् न पक्षपाती
समयस्तथार्हतः॥ (हेमचन्द्रकृतद्वितीयद्वात्रिंशिका वी. स्तु. श्लो0-30) जिनद्त्तसूरिणा जैनं
मतमित्थमुक्तम्- बलभोगोपभोगानामुभयोर्दानलाभयोः। अन्तरायस्तथा निद्रा भीरज्ञानं
जुगुप्सितम्॥ 1॥ हिंसा रत्यरती रागद्वेषावविरतिः स्मरः। शोको मिथ्यात्वमेतेष्टादश दोषा न
यस्य सः॥2॥ जिनो देवो गुरुः सम्यक् तत्त्वज्ञानोपदेशकः। ज्ञानदर्शनचारित्राण्यपवर्गस्य
वर्तनी॥3॥ स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमापि च। नित्यानित्यात्मकं सर्वं नव तत्त्वानि सप्त
वा॥4॥ जीवाजीवौ पुण्यपापे चास्रवः संवरोपि च। बन्धो निर्जरणं मुक्तिरेषां
व्याख्याधुनोच्यते॥5॥ चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः। सत्कर्मपुद्गलाः पुण्यं पापं तस्य
विपर्ययः॥6॥ आस्रवः स्त्रोतसो द्वारं संवृणोतीति संवरः। प्रवेशः कर्मणां बन्धो
निर्जरस्तद्वियोजनम्॥ 7॥ अष्टकर्मक्षयान्मोक्षोथान्तर्भावश्च कै श्चन। पुण्यस्य संवरे पापस्यास्रवे
क्रियते पुनः॥8॥ लब्धानन्तचतुष्कस्य लोकागूढस्य चात्मनः। क्षीणाष्टकर्मणो
मुक्तिǔâर्नव्यावृत्तिर्जिनोदिता॥9॥ सरजोहरणा भैक्षभुजो लुञ्चितमूर्धजाः। श्वेताम्बराः क्षमाशीला
निःसङ्गा जैनसाधवः॥10॥ लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रा दिगम्बराः। ऊर्ध्वाशिनो गृहे
दातुर्द्वितीयाः स्युर्जिनर्षयः॥11॥ भुङ्क्ते न के वली न स्त्री मोक्षमेति दिगम्बरः। प्राहुरेषामयं भेदो
महाञ्श्वेताम्बरैः सह॥12॥इति॥
- इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे आर्हतदर्शनम्॥