प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

सर्वदर्शनसंग्रहः/चार्वाकदर्शनम्

< सर्वदर्शनसंग्रहः

सर्वदर्शनसंग्रहः


॥ ॐ तत्सद्ब्रह्मणे नमः॥

सर्वदर्शनसंग्रहः

॥ चार्वाकदर्शनम्॥ १ ॥

नित्यज्ञानाश्रयं वन्दे निःश्रेयसनिधिं शिवम्।
येनैव जातं मह्यादि तेनैवेदं सकर्तृकम् ॥ १ ॥

पारं गतं सकलदर्शनसागराणा-
मात्मोचितार्थचरितार्थितसर्वलोकम्।
श्रीशार्ङ्गपाणितनयं निखिलागमज्ञं
सर्वज्ञविष्णुगुरुमन्वहमाश्रयेऽहम् ॥ २ ॥

श्रीमत्सायणदुग्धाब्धिकौस्तुभेन महौजसा।
क्रियते माधवार्येण सर्वदर्शनसंग्रहः ॥ ३ ॥

पूर्वेषामतिदुस्तराणि सुतरामालोडय शास्त्राण्यसौ
श्रीमत्सायणमाधवः प्रभुरुपन्यास्यत्सतां प्रीतये।
दूरोत्सारितमत्सरेण मनसा शृण्वन्तु तत्सज्जना
माल्यं कस्य विचित्रपुष्परचितं प्रीत्यै न संजायते ॥ ४ ॥

अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते। बृहस्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्वाके ण तस्य दूरोत्सारितत्वात्। दुरुच्छेदं हि चार्वाकस्य चेष्टितम्। प्रायेण सर्वप्राणिनस्तावत् यावज्जीवं सुखं जीवेन्नास्ति मृत्योरगोचरः। भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥ इति

लोकगाथामनुरुन्धाना नीतिकामशास्त्रानुसारेणार्थकामावेव पुरुषार्थौ मन्यमानाः पारलौकिक-
मर्थमपह्नुवानाश्चार्वाकमतमनुवर्तमाना एवानुभूयन्ते। अत एव तस्य चार्वाकमतस्य
लोकायतमित्यन्वर्थमपरं नामधेयम्।
तत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि। तेभ्य एव देहाकारपरिणतेभ्यः किण्वादिभ्यो
मदशक्तिवच्चैतन्यमुपजायते। तेषु विनष्टेषु सत्सु स्वयं विनश्यति। तदाहुः- विज्ञानघन एवैतेभ्यो
भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति (बृ.2/4/12) इति। चैतन्यविशिष्टदेह
एवात्मा। देहातिरिक्त आत्मनि प्रमाणाभावात्। प्रत्यक्षैकप्रमाणवादितयानुमाना देरनङ्गीकारेण
प्रामाण्याभावात्। अङ्गनाद्यालिङ्गनादिजन्यं सुखमेव पुरुषार्थः। न चास्य दुःखसंभिन्नातया
पुरुषार्थत्वमेव नास्तीतिमन्तव्यम्। अवर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव
भोक्तव्यत्वात्। तद्यथा मत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते स यावदादेयं तावदादाय
निवर्तते। यथा वा धान्यार्थी सपलालानि धान्यान्याहरति स यावदादेयं तावदादाय निवर्तते।
तस्माद् दुःखभयान्नानुकू लवेदनीयं सुखं त्यक्तु मुचितम्। न हि मृगाः सन्तीति शालयो नोप्यन्ते।
न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। यदि कश्चिद्भीरुर्द्दष्टं सुखं त्यजेत्तार्हि स
पशुवन्मुर्खों भवेत्। तदुक्तम् -
त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्खविचारणैषा। ब्रीहीञिजिहा् सति
सितोत्तमतण्डु लाढयान् को नाम भोस्तुपकणोपहितान्हितार्थी॥ इति॥
ननु पारलौकिकसुखाभावे बहुवित्तव्ययशरीरायाससाध्येऽग्निहोत्रादौ विद्यावृद्धाः कथं प्रवर्तिष्यन्त
इति चेत्तदपि न प्रमाणकोटिं प्रवेष्टुमीष्टे। अनृतव्याघातपुनरुक्तदोषैर्दूषिततया वैदिकं मन्यैरेव
धूर्तबकैः परस्परं कर्मकाण्डप्रामाण्यवादिभिर्ज्ञानकाण्डस्य ज्ञानकाण्डप्रामाण्यवादिभिः
कर्मकाण्डस्य च प्रतिक्षिप्तत्वेन त्रय्या धूर्तप्रलापमात्रत्वेनाग्निहोत्रादेर्जीविकामात्रप्रयोजनत्वात्।
तथा चाभाणकः-
अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम्। बुद्धिपौरुषहीनानां जीविके ति वृहस्पतिः॥इति॥
अत एव कण्टकादिजन्यं दुःखमेव नरकः। लोकसिद्धो राजा परमेश्वरः। देहोच्छे दो मोक्षः।
देहात्मवादे च स्थूलोऽहं कृशोऽहं कृष्णोऽहमित्यादिसामानाधिकरण्योपपत्तिः। मम शरीरमिति
व्यवहारो राहोः शिर इत्यादिवदौपचारिकः। तदेतत्सर्वं समग्राहि-
अङ्गनालिङ्गनाज्जन्यसुखमेव पुमर्थता। कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते॥1॥
लोकसिद्धो भवेन्द्राजा परेशो नापरः स्मृतः। देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते॥2॥
अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः। चतुर्भ्यः खलु भूतेभ्यश्चैतन्यमुपजायते॥3॥
किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् अहं स्थूलः कृशोऽस्मीति सामानाधि-
करण्यतः॥4॥ देहः स्थौल्यादियोगाच्च स एवात्मा न चापरः। मम देहोऽयमित्युक्तिः
संभवेदौपचारिकी॥5॥इति
स्यादेतत्। स्यादेष मनोरथो यद्यनुमानादेः प्रामाण्यं न स्यात्। अस्ति च प्रामाण्यम्। कथमन्यथा
धूमोपलम्भानन्तरं धूमध्वजे प्रेक्षावतां प्रवृत्तिरूपपद्येत। नद्यास्तीरे फलानि सन्तीति वचनश्रवण-
समनन्तरं फलार्थिनां नदीतीरे प्रवृत्तिरिति। तदेतन्मनोराज्यविजृम्भणम्। व्याप्तिपक्षधर्मताशालि
हि लिङ्गं गमकमभ्युपगतमनुमानप्रामाण्यवादिभिः। व्याप्तिश्चोभयविधोपाधिविधुरः संबन्धः। स
च सत्तया चक्षुरादिवन्नाङ्गभावं भजते। किं तु ज्ञाततया। कः खलु ज्ञानोपायो भवेत्। न
तावत्प्रत्यक्षम्। तच्च बाह्यमान्तरं वाऽभिमतम्। न प्रथमः। तस्य संप्रयुक्तविषयज्ञानजनकत्वेन
भवति प्रसरसंभवेऽपि भूतभविष्यतोस्तदसंभवेन सर्वोपसंहारवत्या व्याप्तेर्दुज्ञानत्वात्। न च
व्याप्तिज्ञानं सामान्यगोचरमिति मन्तव्यम्। व्यक्त्योरविनाभावाभावप्रसङ्गात्। नापि चरमः।
अन्तःकरणस्य बहिरिन्द्रियतन्त्रत्वेन बाह्येऽर्थे स्वातन्त्र्येण प्रवृत्त्यनुपपत्तेः। तदुक्तम् -
चक्षुराद्युक्तविषयं परतन्त्रं बहिर्मनः। (त.वि.20) इति। नाप्यनुमानं व्याप्तिज्ञानोपायः।
तत्रतत्राप्येवमित्यनवस्थादौस्थ्यप्रसङ्गात्। नापि शब्दस्तदुपायः। काणादमतानुसारेणानुमान-
एवान्तर्भावात्। अनन्तर्भावे वा वृद्धव्यवहाररूपलिङ्गावगतिसापेक्षतया प्रागुक्तदूषणलङ्घाना -
जङ्घालत्वात्। धूमधूमध्वजयोरविनाभावोऽस्तीति वचनमात्रे मन्वादिवद्विश्वासाभावाच्च।
अनुपदिष्टाविनाभावस्य पुरुषस्यार्थान्तरदर्शनेनार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाः कथा-
शेषत्वप्रसङ्गाच्च कै व कथा परार्थानुमानस्य। उपमानादिकं तु दूरापास्तम्। तेषां
संज्ञासंज्ञिसंबन्धादिबोधकत्वेनानौपाधिकसंबन्धबोधकत्वासंभवात्।
किं च- उपाध्यभावोपि दुरवगमः। उपाधीनां प्रत्यक्षत्वनियमासंभवेन प्रत्यक्षाणामभावस्य
प्रत्यक्षत्वेऽप्यप्रत्यक्षाणामभावस्याप्रत्यक्षतयानुमानद्यपेक्षायामुक्तदूषणानतिवृत्तेः। अपि च
साधनाव्यापकत्वे सति साध्यसमव्याप्तिरिति तल्लक्षणं कक्षीकर्तव्यम्। तदुक्तम् -
अव्याप्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाधिः। शब्देऽनित्ये साध्ये सककर्तृत्वं
घटत्वमश्रवतां च। व्यावर्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि। तस्मादिदमनवद्यं समास-
मेत्यादिनोक्तमाचार्यैश्च॥ इति॥
तत्र विध्यध्यवसायपूर्वकत्वानिषेधाध्यवसायस्योपाधिज्ञाने जाते तदभावविशिष्टसंबन्धरूप-
व्याप्तिज्ञानं व्याप्तिज्ञानाधीनं चोपाधिज्ञानमिति परस्पराश्रयवज्रप्रहारदोषो वज्रलेपायते।
तस्मादविनाभावस्य दुर्बोधतयानानुमानाद्यवकाशः। धूमादिज्ञानानन्तर- मग्न्यादिज्ञाने प्रवृत्तिः
प्रत्यक्षमूलतया भ्रान्त्या वा युज्यते। क्वचित्फलप्रतिलम्भस्तु मणिमन्त्रौषधादिवद्यादृच्छिकः।
अतस्तत्साध्यमदृष्टादिकमपि नास्ति। नन्वदृष्टनिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेत्- न
तद्भद्रम्। स्वभावादेव तदुपपत्तेः। तदुक्तम् -
अग्निरुष्णो जलं शीतं समस्पर्शस्तथानिलः। के नेदं चित्रितं तस्मात्स्वभावात्तद्वयवस्थितिः। इति।
तदेतत्सर्वं बृहस्पतिनाप्युक्तम्- न स्वर्गों नापवर्गों वा नैवाऽऽत्मा पारलौकिकः। नैव
वर्णाश्रमादीनां क्रियाश्च फलदायिकाः॥1॥ अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम्। बुद्धि-
पौरुषहीनानां जीविका धातुनिर्मिता॥2॥ पशुश्चेन्निहतः स्वर्गं ज्योतिष्टोमे गमिष्यति। स्वपिता
यजमानेन तत्र कस्मान्न हिंस्यते॥3॥ मृतानामापि जन्तूनां श्राद्धं चेत्तृप्तिकारणम्। निर्वाणस्य
प्रदीपस्य स्नेहः संवर्धयेच्छिखाम्॥ 4॥ गच्छतामिह जन्तूनां व्यर्थं पाथेयकल्पनम्।
गेहस्थकृतश्राद्धेन पथि तृप्तिरवारिता॥5॥ स्वर्गास्थिता यदा तृप्तिं गच्छे युस्तत्र दानतः।
प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते॥6॥ यावज्जीवेत्सुखं जीवेदृणं कृत्वा घृतं पिबेत्।
भस्मीभूतस्य देहस्य पुनरागमनं कु तः॥7॥ यदि गच्छे त्परं लोकं देहादेष विनिर्गतः। कस्माद्भूयो
न चायाति बन्धुस्नेहसमाकु लः॥8॥ ततश्च जीवनोपायो ब्राह्मणैर्विहितस्त्विह। मृतानां प्रेतकार्याणि
न त्वन्यद्विद्यते क्वचित्॥ 9॥ त्रयो वेदस्य कर्तारो भण्डधूर्तनिशाचराः। जर्फरीतुर्फरीत्यादि
पण्डितानां वचः स्मृतम्॥ 10॥ अश्वस्यात्र हि शिश्नं तु पत्नीग्राह्यं प्रकीर्तितम्। भण्डैस्तद्वत्परं चैव
ग्राह्यजातं प्रकीर्तितम्॥ 11॥ मानानां खादनं तद्वन्निशाचरसमीरितम्॥ इति॥
तस्माद्वहूनां प्राणिनाममुग्रहार्थं चार्वाकमतमाश्रयणीयमिति रमणीयम्॥

इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे चार्वाकदर्शनम्॥