प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सर्वदर्शनसंग्रहः

अथ जैमिनिदर्शनम् ॥12॥

ननु धर्मानुष्ठानवशादभिमतधर्मसिद्धिरिति जेगीयते भवता। तत्र धर्मः किं लक्षणः
किं प्रमाणक इति चेत्- उच्यते। श्रूयतामवधानेन अस्य प्रश्नस्य प्रतिवचनं प्राच्यां मीमांसायां
प्रादर्शि जैमिनीना मुनिना। सा हि मीमांसा द्वादशलक्षणी। तत्र प्रथमेध्याये विध्यर्थवादमन्त्र-
स्मृतिनामधेयार्थकस्य शब्दराशेः प्रमाण्यम्। द्वितीये उपोद्धातकर्मभेदप्रमाणापवादप्रयोगभेदरूपोर्थः।
तृतीये श्रुतिलिङ्गवाक्यादिविरोधप्रतिपत्तिकर्मानारभ्याधीतबहुप्रधानोपकारकप्रयाजादियाजमान -
चिन्तनम्। चतुर्थे प्रधानप्रयोजकत्वाप्रधानप्रयोजकत्वजुहूपर्णतादिफलराजसूयगतजघन्याङ्गाक्ष -
द्यूतादिचिन्ता। पञ्चमे श्रुत्यादिक्रमतद्विशेषवृद्धयवर्धनप्राबल्यदौर्बल्यचिन्ता। षष्ठेऽधिकारि-
तद्धर्मद्रव्यप्रतिनिध्यर्थलोपनप्रायश्चितसत्रदेयवह्निविचारः। सप्तमे प्रत्यक्षवचनातिदेशशेषनाम-
लिङ्गातिदेशविचारः। अष्टमे स्पष्टास्पष्टप्रबललिङ्गातिदेशापवादविचारः। नवमे ऊहविचारा-
रम्भसामोहमन्त्रोहतत्प्रसङ्गविचारः। दशमे बाधहेतुद्वारलोपविस्तारबाधकारणकार्यैकत्वसमुच्चय-
ग्रहादिसामप्रकीर्णनšथविचारः। एकादशे तन्त्रोपोद्धाततन्त्रावापतन्त्रप्रपञ्चनावापप्रपञ्चन-
चिन्तनानि। द्वादशे प्रसङ्ग- तन्त्रिनिर्णय समुच्चयविकल्प विचारः।
तत्राथातो धर्मजिज्ञासा (जै0सू0 1/1/1) इति प्रथममधिकरणं पूर्वमीमांसारम्भोपपादनपरम्।
अधिकरणं च पञ्चावयवमाचक्षते परीक्षकाः। ते च पञ्चावयवा विषयसंशयपूर्वपक्षसिद्धान्त-
संगतिरूपाः।
तत्राचार्यमतानुसारेणाधिकरणं निरुप्यते। 'स्वाध्यायोऽध्येतव्यः' इत्येतद्वाक्यं विषयः।
'चोदनालक्षणोऽर्थों धर्मः' (जै0सू01/1/2) इत्यारभ्य 'अन्वाहार्ये च दर्शनात्' (जै0सू0
12/4/47) इत्येतदन्तं जैमिनीयं धर्मशास्त्रमनारभ्यमारभ्यं वेति संदेहः। अध्ययनविधे-
रदृष्टार्थत्वदृष्टार्थत्वाभ्याम्।
तत्रानारभ्यमिति पूर्वः पक्षः। अध्ययनविधेरर्थावबोधलक्षणदृष्टफलकत्वानुपपत्तेः। अर्थावबोधार्थ-
मध्ययनविधिरिति वदन्वादी प्रष्टव्यः- किमत्यन्तमप्राप्तमध्ययनं विधीयते किं वा
पाक्षिकमवघातवन्नियम्यत इति न तावदाद्यः। विवादपदं वेदाध्ययनमर्थावबोधहेतुरध्ययन-
त्वाद्भारताध्ययनवदित्यनुमानेन विध्यनपेक्षतया प्राप्तत्वात्। अस्तु तर्हि द्वितीयो यथा
नखविदलनादिना तण्डु लनिष्पत्तिसंभवात्पाक्षिकोऽवघातोवश्यं कर्तव्य इति विधिना नियम्यते,
तथा लिखितपाठेनार्थज्ञानसंभवात्पाक्षिकमध्ययनं विधिना नियम्यत इति चेत् नैतच्चतुरस्रम्।
दृष्टान्तदार्ष्टान्तिकयोर्वैधर्म्यसंभवात्। अवघातनिष्पन्नैरेव तण्डु लैः पिष्टपुरोडाशादि-
करणेऽवान्तरापूर्वद्वारा दर्शपूर्णमासौ परमापूर्वमुत्पादयतो नापरथा। अतोऽपूर्वमवघातस्य
नियमहेतुः। प्रकृते लिखितपाठजन्येना- ध्ययनजन्येन वार्थावबोधेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य
नियमहेतुर्नास्त्येव। तस्मादर्थावबोधहेतुविचारशास्त्रस्य वैधत्वं नास्तीति। तर्हि श्रूयमाणस्य विधेः
का गतिरिति चेत्- स्वर्गफलकोऽक्षरग्रहणमात्रविधिरिति भवान्परितुष्यतु।
विश्वजिन्न्यायेनाश्रुतस्यापि स्वर्गस्य कल्पयितुं शक्यत्वात्। यथा 'स स्वर्गः
सर्वान्प्रत्यविशिष्टत्वात्' (जै0सू04/3/13) इति विश्वजित्यश्रुतमप्यधिकारिणं संपादयता
तद्विशेषणं स्वर्गः फलं युक्त्या निरणायि तद्वदध्यनेप्यस्तु। तदुक्तम् -
विनापि विधिना दृष्टलाभान्न हि तदर्थता। कल्प्यस्तु विधिसामर्थ्यात्स्वर्गों विश्वजिदादिवत॥इति्।
एवं च सति वेदमधीत्य स्नायादिति स्मृतिरनुगृहीता भवति। अत्र हि
वेदाध्ययनसमावर्तनयोरव्यवधानमवगम्यते। तावके मते त्वधीतेऽपि वेदे धर्मविचाराय गुरुकु ले
वस्तव्यम्। तथा सत्यव्यवधानं बाध्येत। तस्माद्विचारशास्त्रस्य वैधत्वाभावात्पाठमात्रेण
स्वर्गसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रमनारम्भणीयमिति पूर्वपक्षसंक्षेपः।
सिद्धान्तस्त्वन्यतः प्राप्तत्वादप्राप्तविधित्वं मास्तु। नियमविधित्वपक्षस्तु वज्रहस्तेनापि
नापहस्तयितुं पार्यते। तथा हि- 'स्वाध्यायोऽध्येतव्यः' इति तव्यप्रत्ययः प्रेरणापरपर्यायां
पुरुषप्रवृत्तिरूपार्थभावनाभाव्यामभिधाभावनां प्रत्याययति। सा ह्यर्थभावना भाव्यमाकाङ्क्षति। न
तावत्समानपदोपात्तमध्ययनं भाव्यत्वेन परिरमते। अध्ययनशब्दार्थस्य स्वाधीनोच्चारणक्षमत्वस्य
वाङ्मनसव्यापारस्य क्लेशार्थकस्य भाव्यत्वासंभवात्। नापि समानवाक्योपात्तः स्वाध्यायः।
स्वाध्यायशब्दार्थस्य वर्णराशेनित्यत्वेन विभुत्वेन चोत्पत्त्यादीनां चतुर्णां क्रियाफलानामसंभवात्।
तस्मात्सामर्थ्यप्राप्तोऽवबोधो भाव्यत्वेनावतिष्ठते। अर्थी समर्थों विद्वानधिक्रियत इति न्यायेन
दर्शपूर्णमासादिविधयः स्वविषयावबोधमपेक्षमाणाः स्वार्थबोधेस्वाध्यायं विनियुञ्जते। अध्ययन-
विधिश्च लिखितपाठादिव्यावृत्त्याध्ययनसंस्कृतत्वं स्वाध्यायस्यावगमयति। तथा च यथा
दर्शपूर्णमासादिजन्यं परमापूर्वमवघातादिजन्यस्यावान्तरापूर्वस्य कल्पकं तथा
समस्तक्रतुजन्यमपूर्वजातं क्रतुज्ञानसाधनाध्ययननियमजन्यमपूर्वं कल्पयिष्यति। नियमादृष्टानिष्टौ
विधिश्रवणवैफल्यमापद्येत। न च विश्वजिन्नयायेन फलकल्पनावकल्प्यते। अर्थावबोधे दृष्टे फले
सति फलान्तरकल्पनाया अयोगात्। तदुक्तम् -
लभ्यमाने फले दृष्टे नादृष्टफलकल्पना। विधेस्तु नियमार्थत्वान्नानर्थक्यं भविष्यति॥ इति।
ननु वेदमात्राध्यायिनोर्थावबोधानुदयेऽपि साङ्गवेदाध्यायिनः पुरुषस्यार्थावबोधसंभवाद्विचारशास्त्रस्य
वैफल्यमिति चेत्- तदसमञ्जसम्। बोधमात्रसंभवेपिनिर्णयस्य विचाराधीनत्वात्। तद्यथा- 'अक्ताः
शर्क रा उपदधाति' (तै.ब्रा03/12/5) इत्यत्र घृतेनैव न तैलादीनेत्ययं निर्णयो व्याकरणेन
निगमेन निरुक्ते न वा न लभ्यते। विचारशास्त्रेण तु तेजो वै घृतमिति वाक्यशेषवशादर्थनिर्णयो
लभ्यते। तस्माद्विचारशास्त्रस्य वैधत्वं सिद्धम्। न च वेदमधीत्य स्नायादिति शास्त्रं
गुरुकु लनिवृत्तिपरं व्यवधानप्रतिबन्धकं बाध्येतेति मन्तव्यम्। 'स्नात्वा भुङ्त्तक इतिवत्
पूर्वापरीभावसमानकर्तृकत्वमात्रप्रतिपत्त्या अध्ययनसमावर्तनयोर्नैरन्तर्याप्रतिपत्तोः। तस्माद्विधि-
साधर्थ्यादेवाधिकरणसहस्रात्मकं पूर्वमीमांसाशास्त्रमारम्भणीयम्।
इदं चाधिकरणं शास्त्रेणोपोद्धातत्वेन संबध्यते। तदाह-चिन्तां प्रकृतिसिद्धयर्थामुपोद्धातं प्रचक्षते॥
इति।
इदमेवाधिकरणं गुरुमतमनुसृत्योपन्यस्यते। अष्टवर्षं ब्राह्माणमुपनीयत तमध्यापयीतेत्यत्राध्यापनं
नियोगविषयः प्रतिभासते। नियोगश्च नियोज्यमपेक्षते। कश्चात्र नियोज्य इति चेत् -
आचार्यककाम एव। संमानन -' (पा0सू01/3/36) इयादिना पाणिन्यनुशासनेनाचार्यके गम्यमाने
नयतेर्धातोरात्मनेपदस्य विधानात्। उपनयने यो नियोज्यः स एवाध्यापनेपि।
तयोरेकप्रयोजनत्वात्।
अत एवोक्तं मनुना मुनिना -
उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः। साङ्गं च सरहस्यं च तमाचार्यं प्रचक्षते॥ (मनु0-
2/140) इति।
ततश्चाचार्यकर्तृकमध्यापनं माणवककर्तृके णाध्ययनेन विना न सिध्यतीत्यध्यापनविधि-
प्रयुक्त्यैवाध्ययनानुष्ठानं सेत्स्यति। प्रयोज्यव्यापारमन्तरेण प्रयोजकव्यापारस्यानिर्वाहात्।
तर्ह्यध्येतव्यः' (तै0आ02/15) इत्यस्य विधित्वं न सिद्धतीति चेत् मा सैत्सीत्का नो हानिः
पृथगध्ययनविधेरभ्युपगमे प्रयोजनाभावात्। विधिवाक्यस्य नित्यानुवादत्वेनाप्युपपत्तेः।
तस्मादध्यन- विधिमुपजीव्य पूर्वमुपन्यस्तौ पूर्वोंत्तरपक्षौ प्रकारान्तरेण प्रदर्शनीयौ।
विचारशास्त्रमवैधत्वेनानारब्धव्यमिति पूर्वपक्षः वैधत्वेनारब्धव्यमिति राद्धान्तः। तत्र वैधत्वं
वदता वदितव्यं किमध्यापनविधिर्माणवकस्यार्थावबोधमपि प्रयुङ्क्ते , किं वा पाठमात्रम् नाद्यः।
विनाप्यर्थावबोधेनाध्यापनसिद्धेः। न द्वितीयः। पाठमात्रे विचारस्य विषयप्रयोजनयोरसंभवात्।
आपाततः प्रतिभातः संदिग्धोर्थों विचारशास्त्रस्य विषयो भवति। तथा सति यत्रार्थावगतिरेव
नास्ति तत्र सन्देहस्य का कथा विचारफलस्य निर्णयस्य प्रत्याशा दूरत एव।
तथा च यदसंदिग्धमप्रयोजनं न च तत्प्रेक्षावत्प्रतिपित्सागोचरः। यथा समनस्के न्द्रियसंनिकृष्टः
स्पष्टालोकमध्यमध्यासीनो घट इति न्यायेन विषयप्रयोजनयोरसंभवेन विचरशास्त्रमनारभ्यमिति
पूर्वः पक्षः।
अध्यापनविधिनार्थावबोधो मा प्रयोजि। तथापि साङ्गवेदाध्यायिनो गृहीतपदपदार्थसंगतिकस्य
पुरुषस्य पौरुषेयेष्विव प्रबन्धेष्वाम्नायेप्यर्थावबोधः प्रप्नोत्येव। ननु यथा विषं भुङ्क्ष्वेत्यत्र
प्रतीयमानोप्यर्थों न ववक्ष्यते 'मास्य गृहे भुङ्क्थाः' इति भोजनप्रतिषेधस्य
मातृवाक्यतात्पर्यविषयत्वात्। तथाम्नायार्थस्याविवक्षायां विषयाद्यभावदोषः प्राचीनः प्रदुःष्यादिति
चेत् - मैवं वोचः। दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यसंभवात्। विषभोजनवाक्यस्याप्तप्रणीतत्वेन
मुख्यार्थपरिग्रहे बाधः स्यादिति विवक्षा नाश्रीयते। अपौरुषेये तु वेदे प्रतीयमानोऽर्थः कु तो न
विवक्ष्यते। विवक्षिते च वेदार्थे यत्र यत्र पुरुषस्य संदेहः स सर्वोंपि विचारशास्त्रस्य विषयो
भविष्यति। तन्निर्णयश्च प्रयोजनम्। तस्मादध्यापनविधिप्रयुक्ते नाध्ययनेनावगम्यमानस्यार्थस्य
विचारार्हत्वाद्विचारशास्त्रस्य वैधत्वेन विचारशास्त्रमारम्भणीयमिति राद्धान्तसंग्रहः।
स्यादेतत्। वेदस्य कथमपौरुषेयत्वमभिधीयते तत्प्रतिपादकप्रमाणाभावात्। अथ मन्येथाः
अपौरुषेया वेदाः संप्रदायाविच्छे दे सत्यस्मर्यमाणकर्तृकत्वादात्मवदिति। तदेतन्मन्दम्।
विशेषणासिद्धेः। पौरुषेयवेदवादिभिः प्रलये सप्रदायविच्छेदस्य कक्षीकरणात्। किं च
किमिदमस्मर्यमाणकर्तृकत्वं नामाप्रमीयमाणकर्तृकत्वमस्मरणगोचरकर्तृकत्वं वा ? न प्रथमः
कल्पः। परमेश्वरस्य कर्तुः प्रमितेरभ्युपगमात्। न द्वितीयः। विकल्पासहत्वात्। तथा हि
किमेके नास्मरणमभिप्रेयते सर्वैर्वा नाद्यः 'यो धर्मशीलो जितमानरोषः इत्यादिषु मुक्तकोक्तिषु
व्यभिचारात्। न द्वितीयः सर्वास्मरणस्यासर्वज्ञदुर्ज्ञानत्वात्। पौरुषेयत्वे प्रमाणसंभवाच्च।
वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्कालिदासादिवाक्यवत्। वेदवाक्यान्याप्तप्रणीतानि प्रमाणत्वे
सत्ति वाक्यत्वान्मन्वादिवाक्यवदिति। ननु-
वेदस्याध्ययनं सर्वं गुर्वध्ययनपूर्वकम्। वेदाध्ययनसामान्यादधुनाध्ययनं यथा। (श्लो0 बा0
7/366)
इत्यनुमानं प्रतिसाधनं प्रगल्भत इति चेत्- तदपि न प्रमाणकोटिं प्रवेष्टुमीष्टे।
भारताध्ययनं सर्वं गुर्वध्ययनपूर्वकम्। भारताध्ययनत्वेन सांप्रताध्ययनं यथा॥
इत्याभाससमानयोगक्षेमत्वात्। ननु तत्र व्यासः कर्तेति स्मर्यते। को ह्यन्यः पुण्डरीकाक्षा-
न्महाभारतकृद्भवेत्। इत्यादाविति चेत्- तदसारम्। ऋचः सामानि जज्ञिरे। छन्दांसि जज्ञिरे
तस्माद्यजुस्तस्मादजायत॥ (तै. आ. 3/12) इति पुरुषसूक्ते वेदस्य सकर्तृकताप्रतिपादनात्। किं
चानित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यात्वाद् घटवत्। नन्विदमनुमानं स
एवायं गकार इति प्रत्यभिज्ञाप्रमाणप्रतिहतमिति चेत्- तदतिफल्गु। लूनपुनर्जातके शकु न्दादाविव
प्रत्यभिज्ञायाः सामान्यविषयत्वेन बाधकत्वाभावात्। नन्वशरीरस्य परमेश्वरस्य
ताल्वादिस्थानाभावेन वर्णोंच्चारणासंभवात्कथं तत्प्रणीतत्वं वेदस्य स्यादिति चेत्- न तद्भद्रम्।
स्वभावतोऽशरीरस्यापि तस्य भक्तानुग्रहार्थं लीलाविग्रहग्रहणसंभवात्। तस्माद्वेदस्यापौरुषेय-
त्ववाचोयुक्तिर्न युक्ते ति चेत्-
तत्र समाधानमभिधीयते। किमिदं पौरुषेयत्वं सिसाधयिषितम् पुरुषादुत्पन्नत्वमात्रं
यथास्मदादिभिरहरहरुच्चार्यमाणस्य वेदस्य प्रमाणान्तरेणार्थमुपलभ्य तत्प्रकाशनाय रचितत्त्वं वा
यथास्मदादिभिरेव निबध्यमानस्य प्रबन्धस्य प्रथमे न विप्रतिपत्तिः। द्वितीये किमनुमानब-
लात्तत्साधनमागमबलाद्वा नाद्यः। मालतीमाधवादिवाक्येषु सव्यभिचारत्वात्। अथ प्रमात्वे सतीति
विशिष्यत इति चेत्- तदपि न विपश्चितो मनसि वैशद्यमापद्यते। प्रमाणान्तरागोचरार्थप्रतिपादकं
हि वाक्यं वेदवाक्यम्। तत्प्रमाणान्तरगोचरार्थप्रतिपादकमिति साध्यमाने मम माता वन्ध्येतिवद्
व्याघातापातात्।
किं च परमेश्वरस्य लीलाविग्रहपरिग्रहाभ्युपगमेऽप्यतीन्द्रियार्थदर्शनं न संजाघटीति।
देशकालस्वभावविप्रकृष्टार्थ- ग्रहणोपायाभावात्। न च तच्चक्षुरादिकमेव तादृक्प्रतीतिजन-
नक्षममिति मन्तव्यम्। दृष्टानुसारेणैव कल्पनाया आश्रयणीयत्वात्। तदुक्तं गुरुभिः
सर्वज्ञनिकारणवेलायाम् -
यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात्। दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता॥ इति।
अत एव नागामबलात्तत्साधनम्। यथा 'तेन प्रोक्तम्' (पा.सू.4/3/101) इति पाणिन्यनुशासने
जाग्रत्यपि काठक कालापतैत्तिरीयमित्यादिसमाख्याध्ययनसंप्रदायप्रवर्तकविषयत्वेनोपपद्यते
तद्वदत्रापि संप्रदायप्रवर्तकाविषयत्वेनाप्युपपद्यते।
न चानुमानबलाच्छब्दस्यानित्यत्वसिद्धिः। प्रत्यभिज्ञाविरोधात्। न चासत्यप्येकत्वे
सामान्यनिबन्धनं तदिति सांप्रतम्। सामान्यनिबन्धनत्वमस्य बलवद्बाधकोपनिपातादास्थीयते
क्वचिद् व्यभिचारदर्शनाद्धा। तत्र क्वचिद् व्यभिचारदर्शने तदुत्प्रेक्षायामुक्तं स्वतः
प्रमाण्यवादिभिः -
उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम्। स सर्वव्यवहारेषु संशयात्मा विनश्यति॥ इति।
नन्विदं प्रत्यभिज्ञानं गत्वादिजातिविषयं न गादिव्यक्तिविषयम्। तासां प्रतिपुरुषं भेदोपलम्भात्।
अन्यथा 'सोमशर्माधीत' इति विमागो न स्यादिति चेत्- तदपि शोभां न विभर्ति। गादिव्यक्तिभेदे
प्रमाणाभावेन गत्वादिजातिविषयकल्पनायां प्रमाणाभावात्। यथा गोत्वमजानत एकमेव
भिन्नदेशपरिमाणसंस्थानव्यक्तु पधान वशाद्भिन्नदेशमिवाल्पमिव महदिव दीर्घमिव वामनमिव
प्रथते तथा गव्यक्तिमजानत एकापि व्यञ्जकभेदात्तात्तद्धर्मानुबन्धिनी प्रतिभासते। एतेन
विरुद्धधर्माध्यासाद्भेदसिद्धिरिति प्रत्युक्तम्। तत्र किं स्वाभाविको विरुद्धधर्माध्यासो
भेदसाधकत्वेनाभिमतः प्रातीतिको वा प्रथमेऽसिद्धिः। अपरथा स्वाभाविकभेदाभ्युपगमे 'दश
गकारानुदचारयच्चैत्रः' इति प्रतिपत्तिः स्यान्न तु दशकृत्वो गकार इति। द्वितीये तु न
स्वाभाविकभेदसिद्धिः। न हि परोपाधिभेदेन स्वाभाविकमैक्यं विहन्यते। मा भून्नभसोऽपि
कु म्भाद्युपाधिभेदात्स्वाभाविको भेदः। तत्र व्यावृत्तव्यवहारो नादनिदानः। तदुक्तमाचार्यैः।
प्रयोजनं तु यज्जातेस्तद्वर्णादेव लप्स्यते। व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीर्वृथा॥ इति।
तथा च -
प्रत्यभिज्ञा यदा शब्दे जागति निरवग्रहा। अनित्यत्वानुमानानि सैव सर्वाणि बाधते॥
एतेनेदमपास्तं यदवादि वागीश्वरेण मानमनोहरे- अनित्यः शब्दः इन्द्रियग्राह्यविशेषगुणत्वाच्चक्षू-
रूपवदिति'। शब्दद्रव्यत्ववादिनं प्रत्यसिद्धेः। ध्वन्यंशे सिद्धसाधनत्वाच्च। अश्रावणत्वोपाधि-
बाधितत्वाच्च। उदयनस्तु आश्रयाप्रत्यक्षत्वेऽप्यभावस्य प्रत्यक्षतां महता प्रबन्धेन
प्रतिपादयन्निवृत्तः कोलाहलः, उत्पन्नः शब्द इति व्यवहाराचरणे कारणं प्रत्यक्षं शब्दानित्यत्वे
प्रमाणयति स्म। सोऽपि विरुद्धधर्मसंसर्गस्यौपाधिकत्वोपपादनन्यायेन दत्तरक्तबलिवेतालसमः। यो
हि नित्यत्वे सर्वदोपलब्ध्यनुपलब्धिप्रसङ्गो न्यायभूषणकारोक्तः सोऽपि ध्वनिसंस्कृतस्वोपलम्भा-
भ्युपगमात्प्रतिक्षिप्तः। यत्तु युगपदिन्द्रियसंबन्धित्वेन प्रतिनियतसंस्कारक- संस्कार्यत्वाभावानुमानं
तदात्मन्यनैकान्तिकमित्यलमतिकलहेन। ततश्च वेदस्यापौरुषेयतया निरस्तसमस्तशङ्काकल-
ङ्काङ्कु र- त्वेन स्वतःसिद्धं धर्मे प्रमाण्यमिति सुस्थितम्। स्यादेतत्।
प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः। नैयायिकास्ते परतः, सौगताश्चरमं स्वतः। प्रथमं
परतः प्राहुः प्रमाण्यं, वेदवादिनः। प्रमाणत्वं स्वतः प्राहुः परतश्चाप्रमाणताम्॥
इति वादिविवाददर्शनात्कथंकारं स्वतः धर्मे प्रामाण्यमिति सिद्धवत्कृत्य स्वीक्रियते
किं च किमिदं स्वतः प्रमाण्यं नाम किं स्वत एव प्रामाण्यस्य जन्म आहोस्वित्
स्वश्रयज्ञानजन्यत्वम् किमुत स्वाश्रयज्ञानसामग्रीजन्यत्वम् उताहो ज्ञानसामान्यसामग्रीजन्य-
ज्ञानविशेषाश्रितत्वम् किं वा ज्ञानसामान्यसामग्रीमात्रजन्यज्ञानविशेषाश्रितत्वम् तत्राद्यः सावद्यः।
कार्यकारणभावस्य भेदसमानाधिकरणत्वेकस्मिन्न संभवात्। नापि द्वितीयः। गृणस्य सतो
ज्ञानस्य प्रमाण्यं प्रति समवायिकारणतया द्रव्यत्वापातात्। नापि तृतीयः। प्रमाण्यस्योपाधित्वे
जातित्वे वा जन्मायोगात्। स्मृतित्वानाधिकरणस्य ज्ञानस्य बाधात्यन्ताभावः प्रमाण्योपाधिः। न
च तस्योत्पत्तिसंभवः। अत्यन्ताभावस्य नित्यत्वाभ्युपगमात्। अत एव न जातेरपि
जानिर्युज्यते। नापि चतुर्थः। ज्ञानविशेषो ह्यप्रमा। विशेषसामग्य्रां च सामान्यसामग्री अनुप्रविशति
शिंशपासनाग्य्रामिव वृक्षसामग्री। अपरथा तस्याकस्मिकत्वं प्रसज्येत। तस्मात्परतस्त्वेन
स्वीकृताप्रामाण्यं विज्ञानसामान्यसामग्रीजन्याश्रितमित्यतिव्यप्तिरापद्येत। पञ्चमविकल्पं
विकल्पयामः। किं दोषाभावसहकृतज्ञानसामग्रीजन्यत्वमेव ज्ञानसामग्री- मात्रजन्यत्वं किं वा
दोषाभावासहकृतज्ञानसामग्रीजन्यत्वम् नाद्यः। दोषाभावसहकृतज्ञानसामग्रीजन्यत्वमेव परतः
प्रामाण्यवादि- भिरुररीकरणात्। नापि द्वितीयः। दोषाभावसहकृतत्वेन सामग्रयां सहकृतत्वे
सिद्धेऽनन्यथा सिद्धान्वयव्यतिरेकसिद्धतया दोषाभावस्य कारणताया वज्रलेपायमानत्वात्।
अभावः कारणमेव न भवतीति चेत्तदा वक्तव्यमभावस्य कार्यत्वमस्ति न वा यदि नास्ति तदा
घटप्रध्वंसानुत्पत्त्या घटस्य नित्यताप्रसङ्गः। अथास्ति किमपराद्धं कारणत्वेनेति
सेयमुभयतस्पाशा रज्जुः। तददितमुदुयनेन -
भावो यथा तथाभावः कारणं कार्यवन्मतः। इति। (न्या0 कु 0 1/10) तथा च प्रयोगः - विमतं
प्रमाण्यं ज्ञानहेत्वतिरिक्तहेत्वधीनं कार्यत्वे सति तद्विशेषाश्रितत्वादप्रामाण्यवत्। प्रामाण्यं परतो
ज्ञायते अनभ्यासदशायां सांशयिकत्वादप्रामाण्यवत्। तस्मादुत्पत्तौ ज्ञप्तौ च परतस्त्वे
प्रमाणसंभवात्स्वतः सिद्धं प्रामाण्यमित्येतत्पूतिकु ष्माण्डायत इति चेत्-
तदेतदाकाशमुष्टिहननायते। विज्ञानसामग्रीजन्यत्वे सति तदतिरिक्तहेत्वजन्यत्वं प्रमायाः
स्वतस्त्वमिति निरुक्तिसंभवात्। अस्ति चात्रानुमानम्। विमता प्रमा विज्ञानसामग्रीजन्यत्वे सति
तदतिरिक्तजन्या न भवति। अप्रमात्वानधिकरणत्वात्। घटादिप्रमावत्। न चौदयनमनुमानं
परतस्त्वसाधकमिति शङ्कनीयम्। प्रमादोषव्यतिरिक्त ज्ञानहेत्वतिरिक्तजन्या न भवति
ज्ञानत्वादप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात्। ज्ञान सामग्रीमात्रादेव प्रमोत्पत्तिसंभवे
तदतिरिक्तस्य गुणस्य दोषाभावस्य वा कारणत्वकल्पनायां कल्पनागोरवप्रसङ्गाच्च। ननु
दोषस्याप्रमाहेतुत्वेन तदाभावस्य प्रमां प्रति हेतुत्वं दुर्निवारमिति - चेन्न। दोषाभाव-
स्याप्रमाप्रतिबन्धकत्वेनान्यथासिद्धुत्वात्।
तस्माद्गणेभ्यो दोषाणामभावस्तदभावतः। अप्रमाण्यद्वयासत्त्वं तेनोत्सर्गोंऽनपोदितः॥ इति।
तथा प्रमाज्ञप्तिरपि ज्ञानज्ञापकसामग्रीत एव जायते। न च संशयानुदयप्रसङ्गो बाधक इति युक्तं
वक्तु म्। सत्यपि प्रतिभासपुष्कलकारणे प्रतिबन्धकदोषादिसमवधानात्तदुपपत्तेः। किं च
तावकमनुमानं स्वतः प्रमाणं न वा आद्येऽनैकान्तिकता। द्वितीये तस्यापि परतः प्रमाण्यमेवं
तस्य तस्यापीत्यनवस्था दुरवस्था स्यात्।
यदत्र कु सुमाञ्जलावुदयनेन झटिति प्रचुरप्रवृत्तेः प्रामाण्यनिश्चयाधीनत्वाभावमापादयता प्रण्यगादि।
'प्रवृत्तिर्हीच्छामपेक्षते। तत्प्राचुर्यं चेच्छाप्राचुर्यम्। इच्छा चेष्टसाधनताज्ञानम्।
तच्चेष्टजातीयत्वलिङ्गानुभवम्। सोऽपीन्द्रियार्थसंनिकर्षम्। प्रामाण्यग्रहणं तु न क्वचिदुपयुज्यते
इति। तदपि तस्करस्य पुरस्तात्कक्षे सुवर्णमुपेत्य सर्वाङ्गोद्धाटनमिव प्रतिभाति। यतः
समीहितसाधनताज्ञानमेव प्रमाणतयावगम्यमानमिच्छां जनयतीत्यत्रैव स्फु ट एव
प्रामाण्यग्रहणस्योपयोगः। किं च क्वचिदपि चेन्निविर्चिकित्सा प्रवृत्तिः संशयादुपपद्येत तर्हि सर्वत्र
तथाभावसंभवात् प्रमाण्यनिश्चयो निरर्थकः स्यात्। तथोक्तम् - अनिश्चितस्य सत्त्वमेव
दुर्लभमिति। यदि सत्त्वं सुलभं भवेत्तदा प्रामाण्यं दत्तजलाञ्जलिकं भवेदित्यलमतिप्रपञ्चेन।
यस्मादुक्तम् -
तस्माद्सद्बोधकत्वेन प्राप्ता बुद्धेः प्रमाणता। अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते॥ इति।
तस्माद्धर्मे स्वतःसिद्धप्रमाणभावे 'ज्योतिष्टोमेन स्वर्गकामो यजेत' इत्यादि विध्यर्थवादमन्त्र-
नामधेयात्मके वेदे यजेतेत्यत्र तप्रत्ययः प्रकृत्यर्थोंपरक्तां भावनामभिधत्त इति सिद्धे
व्युत्पत्तिमभ्युपगच्छतामभिहितान्वयवादिनां भट्टाचार्याणां सिद्धान्तः। यागविषयं नियोगमिति
कार्ये व्युत्पत्तिमनुसरतामन्विताभिधानवादिनां प्रभाकरगुरुणां सिद्धान्त इति सर्वमवदातम्॥

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे जैमिनिदर्शनम् ॥