सर्वदर्शनसंग्रहः/नकुलीशपाशुपतदर्शनम्
अथ नकुलीशपाशुपतदर्शनम् ॥6॥
तदेतद्वैष्णवमतं दासत्वादिपदवेदनीयं परतन्त्रत्वं, दुःखावहत्वान्न
दुःखान्तादीप्सितास्पदम् इत्यरोचयमानाः, पारमैश्वर्यं कामयमानाः, 'पराभिमता मुक्ता न भवन्ति,
परतन्त्रत्वात्, पारमैश्वर्यरहितत्वात्, अस्मदादिवत्', ' मुक्तात्मानश्च परमेश्वर- गुणसंबन्धिनः,
पुरुषत्वे सति समस्तदुःखबीजविधुरत्वात्परमेश्वरवत् इत्याद्यनुमानं प्रमाणं प्रतिपद्यमानाः, के चन
माहेश्वराः परमपुरुषार्थसाधनं पञ्चार्थप्रपञ्चनपरं पाशुपतशास्त्रमाश्रयन्ते।
तत्रेदमादिसूत्रम् - 'अथातः पशुपतेः पाशुपतयोगविधिं व्याख्यास्याम' इति। अस्यार्थः -
अत्राथशब्दः पूर्वप्रकृतापेक्षः। पूर्वप्रकृतश्च गुरुं प्रति शिष्यस्य प्रश्नः। गुरुस्वरूपं गणकारिकायां
निरूपितम्।
पञ्चकास्त्वष्ट विज्ञेया गणश्चैकस्त्रिकात्मकः। वेत्ता नवगणस्यास्य र्संस्कत्ता गुरुरुच्यते॥ लाभा
मला उपायाश्च देशावस्थाविशुद्धयः। दीक्षाकारिबलान्यष्टौ पञ्चकास्त्रीणि वृत्तयः॥
'तिस्रो वृत्तयः' इति प्रयोक्तव्ये 'त्रीणि वृत्तयः' इति च्छान्दसः प्रयोगः।
तत्र विधीयमानमुपायफलं लाभः। ज्ञानतपोनित्यत्वस्थितिशुद्धिभेदात्पञ्चविधः। तदाह
हरदत्ताचार्यः -
ज्ञानं तपोऽथ नित्यत्वं स्थितिः शुद्धिश्च पञ्चमम्। आत्माश्रितो दुष्टभावो मलः। स
मिथ्याज्ञानादिभेदात्पञ्चविधः। तदप्याह-
मिथ्याज्ञानमधर्मश्च सक्तिहेतुश्च्युतिस्तथा। पशुत्वमूलं पञ्चैते तन्त्रे हेया विविक्तितः।
(गणकारिका, 8) इति।
साधकस्य शुद्धिहेतुरुपायो वासचर्यादिभेदात्पञ्चविधः तदप्याह -
वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा। प्रपत्तिश्चेति लाभानामुपायाः पञ्च निश्चिताः॥ इति॥
येनार्थानुसंधानपूर्वकं ज्ञानतपोवृद्धी प्राप्नोति स देशो गुरुजनादिः। यदाह-
गुरुर्जनो गुहादेशः श्मशानं रुद्र एव च। इति।
आ लाभप्राप्तेरेकमर्यादावस्थितस्य यदवस्थानं सावस्था व्यक्तादिविशेषणविशिष्टा। तदुक्तम् -
व्यक्ताऽव्यक्ता जया दानं निष्ठा चैव हि पञ्चमम्। इति।
मिथ्याज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः। सा प्रतियोगिभेदात्पञ्चविधा। तदुक्तं -
अज्ञानस्याप्यधर्मस्य हानिः सङ्गकरस्य च। च्युतेर्हानिः पशुत्वस्य शुद्धिः पञ्चविधा
स्मृता॥इति॥
दीक्षाकारिपञ्चकं चोक्तम् -
द्रव्यं कालः क्रिया मूर्तिर्गुरुश्चैव हि पञ्चमः। इति।
बलपञ्चकं च-
गुरुभक्तिः प्रसादश्च मतेर्द्वन्द्वनयस्तथा। धर्मश्चैवाप्रमादश्च बलं पञ्चविधं स्मृतम॥इति्॥
पञ्चमललघूकरणार्थमागमाविरोधिनोऽन्नार्जनोपाया वृत्तयो भैक्ष्योत्सृष्टयथालब्धाभिधा इति।
शेषमशेषमाकर एवावगन्तव्यम्।
अतःशब्देन दुःखान्तस्य प्रतिपादनम्। आध्यात्मिकादिदुःखत्रयव्यपोहप्रश्नार्थत्वात्तस्य। पशुशब्देन
कार्यस्य परतन्त्रवचनत्वात्तस्य। पतिशब्देन कारणस्य। ईश्वरः पतिरीशिता' इति
जगत्कारणीभूतेश्वरवचनत्वात्तस्य। योगविधी तु प्रसिद्धौ।
तत्र दुःखान्तो द्विविधः - अनात्मकः सात्मकश्चेति। तत्रानात्मकः संर्वदुःखानामत्यन्तोच्छे दरूपः।
सात्मकस्तु दृक्क्रियाशक्तिलक्षणमैश्वर्यम्। तत्र दृक्शक्तिरेकापि विषयभेदात्पञ्चविधोपचर्यतेदर्शनं
श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति। तत्र सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शादिविषयं ज्ञानं
दर्शनम्। अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम्। समस्तचिन्ताविषयं ज्ञानं दर्शनम्।
अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम्। समस्तचिन्ताविषयं सिद्धिज्ञानं मननम्।
निरवशेषशास्त्रविषयं ग्रन्थतोर्थतश्च सिद्धिज्ञानं विज्ञानम्। स्वशास्त्रं येनोच्चते। उक्तानुक्ताशेषार्थेषु
समासविस्तरविभागविशेषतश्च तत्त्वव्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वमिति। एषा धीशक्तिः।
क्रियाशक्तिरेकापि त्रिविधोपचर्यतेमनोजवित्वं कामरूपित्वं विकरण धर्मित्वं चेति। तत्र
निरतशयशीघ्रकारित्वं मनोजवित्वम्। कर्मादिनिरपेक्षस्य स्वेच्छया एवानन्त-सलक्षण-विलक्षण-
स्वरूप-करणाधिष्ठातृत्वं कामरूपित्वम्। उपसंहृतकरणस्यापि निरतिशयैश्वर्यसम्बन्धित्वं
विकरणधर्मित्वमिति। एषा क्रियाशक्तिः।
अस्वतन्त्रं सर्वं कार्यम्। तत्त्रिविधंविद्या कला पशुश्चेति। एतेषां ज्ञानात्संशयादिनिवृत्तिः। तत्र
पशुगुणो विद्या। सापि द्विविधा-बोधाबोधस्वभाव भेदात्। बोधस्वभावा विवेकाविवेकप्रवृत्तिभेदाद्
द्विविधा। सा चित्तमित्युच्यते। चित्तेन हि सर्वः प्राणी बोधात्मकप्रकाशानुगृहीतं सामान्येन
विवेचितमविवेचितं चार्थंचेतयत इति। तत्र विवेकप्रवृत्तिः प्रमाणमात्रव्यङ्ग्या। पश्वर्थधर्माधर्मिका
पुनरबोधात्मिका विद्या। चेतनपरतन्त्रत्वे सत्यचेतना कला। सापि द्विविधा- कार्याख्या
कारणाख्या चेति। तत्र कार्याख्या दशविधापृथिव्यादीनि पञ्चतत्त्वानि, रूपादयःपञ्चगुणाश्चेति।
कारणाख्या त्रयोदशविधाज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकम्, अध्यवसायाभिमानसंकल्पाभिध-
वृत्तिभेदाद् बुद्ध्यहंकारमनोलक्षणमन्तःकरणत्रयं चेति। पशुत्वसंबन्धी पशुः। सोऽपि द्विविधः-
साञ्जनो निरञ्जनश्चेति। तत्र साञ्जनः शरीरेन्द्रियसम्बन्धी। निरञ्जनस्तु तद्रहितः।
तत्प्रपञ्चस्तु पञ्चार्थभाष्यदीपिकादौ द्रष्टव्यः।
समस्तसृष्टिसंहारानुग्रहकारि कारणम्। तस्यैकस्यापि गुणकर्मभेदापेक्षया विभागः उक्तः 'पतिः
साद्य' इत्यादिना। तत्र पतित्वं निरतिशयदृक्क्रियाशक्तिमत्वं तेनैश्वर्येण नित्यसंबन्धित्वम्।
आद्यत्वमनागन्तुकै श्वर्यसंबन्धित्वमइत्यादर्शकारादिभिस्तीर्थकरैर्निरूपितम््।
चित्तद्वारेणेश्वरसंबन्धहेतुर्योंगः (पाशु0 सू0 5/2)। स च द्विविधः- क्रियालक्षणः,
क्रियोपरमलक्षणश्चेति। तत्र जपध्यानादिरूपः क्रियालक्षणः। क्रियोपरमलक्षणस्तु
निष्ठासंविद्गत्यादिसंज्ञितः।
धर्मार्थसाधकव्यापारो विधिः। स च द्विविधः- प्रधानभूतो गुणभूतश्च। तत्र प्रधानभूतः
साक्षाद्धर्महेतुश्चर्या। सा द्विविधा- ब्रतं द्वाराणि चेति। तत्र भस्मस्नानशयनोपहारजपप्रदक्षिणानि
व्रतम्। तदुक्तं भगवता नकु लीशेनभस्मना त्रिषवणं स्नायीत, भस्मनि शयीत (पा.सू.1/8 अग्रतः)
इति। अत्रोपहारो नियमः। स च षडङ्गः। तदुक्तं सूत्रकारेण हसित-गीत-नृत्य हुडु क्कार -
नमस्कारजप्यषडङ्गोपहारेणोपतिष्ठेतेति। तत्र हसितं नाम कण्ठोष्ठपुटविस्फू र्जनपुरःसरम्
अहहेत्यट्टहासः। गीतं गान्धर्वशास्त्रसमयानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमित्तानां चिन्तनम्।
नृत्यमपि नाटयशास्त्रानुसारेण हस्तपादादीनामुत्क्षेपणादिकमङ्गप्रत्यङ्गोपाङ्गसहितं भावाभाव-
समेतं च प्रयोक्तव्यम्। हुडुव्कारो ना जिह्वातालुसंयोगान्निष्पाद्यमानः पुण्यो वृषनादसदृशो नादः।
हुडु गिति शब्दानुकारो वषडितिवत्। यत्र लौकिका भवन्ति तत्रैतत्सर्वं गूढं प्रयोक्तव्यम्। शिष्टं
प्रसिद्धम्। द्वाराणि तु क्राथन-स्पन्दन-मन्दन-श्रृङ्गारणावितत्करणावितद्भाषणानि। तत्रासुप्तस्यैव
सुप्तलिङ्गप्रदर्शनं क्राथनम्। वाच्वभिभूतस्येव शरीरावयवानां कम्पनम् स्पन्दनम्।
उपहतपादेन्द्रियस्येव गमनम् मन्दनम्। रूपयौवनसम्पन्नां कामिनीमवलोक्यात्मानं कामुकमिव
यैर्विलासैः प्रदर्शयति तत् श्रृङ्गारणम्। कार्याकार्यविवेकविकलस्येव लोकनिन्दित-
कर्मकरणमवितत्करणम्। व्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति। गुणभूतस्तु
विधिश्चर्यानुग्राहकोऽनुस्नानादिः भैक्ष्योच्छिष्टादिनिर्मितायोग्यताप्रत्ययनिवृत्यर्थः। तदप्युक्तं
सूत्रकारेण- अनुस्नाननिर्माल्यलिङ्गधारीति।
तत्र समासो नाम धर्मिमात्राभिधानम।तच्च् प्रथमसूत्र एव कृतम्। पञ्चानां पदार्थानां प्रमाणतः
पञ्चाभिधानं विस्तरः। स खलु राशीकारभाष्ये द्रष्टव्यः। एतेषां यथासम्भवं
लक्षणतोऽसङ्गरेणाभिधानं विभागः। स तु विहित एव। शास्त्रान्तरेभ्योऽमीषां गुणातिशयेन कथनं
विशेषः। तथा हि- अन्यत्र दुःखनिवृत्तिरेव दुःखान्तः। इह तु पारमैश्वर्यप्राप्तिश्च। अन्यत्राभूत्वा
भावि कार्यम् इह तु नित्यं पश्वादि। अन्यत्र सापेक्षं कारणम्। इह तु निरपेक्षो भगवानेव।
अन्यत्रकै वल्यादिफलको योगः। इह तु पारमैश्वर्यदुःखान्तफलकः। अन्यत्र पुनरावृत्तिरूप-
स्वर्गादिफलको विधिः। इह पुनरपुनरावृत्तिरूपसामीप्यादिफलकः।
ननु महदेतदिन्द्रजालं यन्निरपेक्षः परमेश्वरः कारणमिति। तथात्वे कर्मवैफल्यं स्वकार्याणां
समसमयसमुत्पादश्चेति दोषद्वयं प्रादुःष्यात्। मैवं मन्येथाः। व्यधिकरणत्वात्। यदि निरपेक्षस्य
भगवतः कारणत्वं स्यात्तर्हि कर्मणो वैफल्ये किमायातम्? प्रयोजनाभाव इति चेत्- कस्य
प्रयोजनाभावः कर्मवैफल्ये कारणम्? किं कर्मिणः, किं वा भगवतः ? नाद्यः। ईश्वरेच्छानु-
गृहीतस्य कर्मणः सफलत्वोपपत्तेः। तदननुगृहीतस्य ययातिप्रभृतिकर्मवत् कदाचिन्निष्फलत्व-
संभबाच्च। न चैतावता कर्मसु अप्रवृत्तिः। कर्षकादिवदुपपत्तेः। ईश्वरेच्छायत्तत्त्वाच्च पशूनां प्रवृत्तेः।
नापि द्वितीयः। परमेश्वरस्य पर्याप्तकामत्वेन कर्मसाध्यप्रयोजनापेक्षाया अभावात्। यदुक्तं
समसमयसमुत्पाद इति, तदप्ययुक्तम्। अचिन्त्यशक्तिकस्य परमेश्वरस्य इच्छानुविधायिन्या
अव्याहतक्रियाशक्त्या कार्यकारित्वाभ्युपगमात्। तदुक्तं सम्प्रदायविद्भिः -
कर्मादिनिरपेक्षस्तु स्वेच्छाचारी यतो ह्ययम्। तत कारणतः शास्त्रे सर्वकारणकारणम।इति्।
ननु दर्शनान्तरेऽपीश्वरज्ञानान्मोक्षो लभ्यत एवेति कु तोऽस्य विशेष इति चेत् - मैवं वादीः।
विकल्पानुपपत्तेः। किमीश्वर- विषयज्ञानमात्रं निर्वाणकारणं किं वा साक्षात्कारः अथ वा
यथावत्तत्त्वनिश्चयः ? नाद्यः। शास्त्रमन्तरेणापि प्राकृतजनवद् 'देवानामधिपो महादेवः' इति
ज्ञानोत्पत्तिमात्रेण मोक्षसिद्धौ शास्त्राभ्यासवैफल्यप्रसङ्गात्। नापि द्वितीयः। अनेकमलप्रचयो-
पचितानां पिशितलोचनानां पशूनाम् परमेश्वरसाक्षात्कारानुपपत्तेः। तृतीयेऽस्मन्मतापातः।
पाशुपतशास्त्रमन्तरेण यथावत्तत्त्व- निश्चयानुपपत्तेः। तदुक्तामाचार्यैः -
ज्ञानमात्रे वृथा शास्त्रं साक्षात् दृष्टिस्तु दुर्लभा। पञ्चार्थादन्यतो नास्ति यथावत्तत्त्वनिश्चयः॥ इति॥
तस्मात्पुरुषार्थकामैः पुरुषधौरेयैः पश्चार्थप्रतिपादनपरं पाशुपतशास्त्रमाश्रयणीयमिति रमणीयम्॥
- इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे नकु लीशपाशुपतदर्शनम्॥