सर्वदर्शनसंग्रहः/पूर्णप्रज्ञदर्शनम्
अथ पूर्णप्रज्ञदर्शनम् ॥5॥
तदेतद्रामानुजमतं जीवाणुत्वदासत्व् -वेदापौरुषेयत्व-सिद्धार्थबोधकत्व-स्वतःप्रमाणत्व-
प्रमाणत्रित्व-पञ्चरात्रोपजीव्यत्व-प्रपञ्चभेदसत्यत्वादिसाम्येऽपि परस्पर विरुद्धभेदादिपक्षत्रय-
कक्षीकारेण क्षपणकपक्षनिक्षिप्तमित्युपेक्षमाणः, 'स आत्मा तत्त्व मसि' (छा06।8।7)
इत्यादिवेदान्तवाक्यजातस्य भङ्ग्यन्तरेणर्थान्तरपरत्वमुपपाद्य ब्रह्ममीमांसाविवरणव्याजेन
आनन्दतीर्थः प्रस्थनान्तर- मास्थिषत।
तन्मते हि द्विविधं तत्त्वं स्वतन्त्रपरतन्त्रभेदात्। तदुक्तं तत्त्वविवेके -
स्वतन्त्रं परतन्त्रं च द्विविधं तत्त्वमिष्यते। स्वतन्त्रो भगवान्विष्णुर्निर्दोंषोऽशेषसद्गुणः॥इति।
ननु सजातीय-विजातीय-स्वगत-नानात्वशून्यं ब्रह्म तत्तवमिति प्रतिपादके षु वेदान्तेषु जागरुके षु
कथमशेषसद्गुणत्वं कथ्यत इति चेत्, मैवम्। भेदुप्रमापकबहप्रमाणविरोधेन तेषां तत्र
प्रामाण्यानुपपत्तेः। तथा हि, प्रत्यक्षं तावदिदमस्माद्भिन्नम् इति नीलपीतादेर्भेदमध्यक्षयति।
अथ मन्येथाः - किं प्रत्यक्षं भेदमेवावगाहते किं वा धर्मिप्रतियोगिघटितम् ? न प्रथमः,
धर्मिप्रतियोगिप्रतिप्रत्तिमन्तरेण तत्सापेक्षस्य भेदस्याशक्याध्यवसायात्वात्। द्वितीयेऽपि
धर्मिप्रतियोगिग्रहणपुरःसरं भेदग्रहणमथवा युगपत्तत्सर्वग्रहणम् ?
न पूर्वः, बुद्धेर्विरम्य व्यापाराभावात्। अन्योन्याश्रयप्रसङ्गाच्च। नापि चरमः,
कार्यकारणबुद्धयोयौंगपद्याभावात्। धर्मिप्रतीतिर्हि भेदप्रत्ययस्य कारणम्। एवं
प्रतियोगिप्रतीतिरपि। संनिहितेऽपि धर्मिण व्यवहितप्रतियोगिज्ञानमन्तरेण भेदस्याज्ञातत्त्वेनान्वय-
व्यतिरेकाभ्यां कार्यकारणभावावगमात्। तस्मान्न भेदप्रत्यक्षं सुप्रसरमिति चेत्।
किं वस्तुस्वरूपभेदवादिनं प्रति इमानि दूषणानि उद्धुष्य न्ते, किं वा धर्मभेदवादिनं प्रति ? प्रथमे
चोरापराधान्माण्डव्यनिग्रह- न्यायापातः। भवदभिधीयमानदूषणानां तदविषयत्वात्।
ननु वस्तुस्वरूपस्यैव भेदत्वे प्रतियोगिसापेक्षत्वं न घटते घटवत्। प्रतियोगिसापेक्ष एव सर्वत्र
भेदः प्रथत इति चेन्न। प्रथमं सर्वतो विलक्षणतया वस्तुस्वरूपे ज्ञायमाने प्रतियोग्यपेक्षया
विशिष्टव्यवहारोपपत्तेः।
तथा हि- परिमाणघटितं वस्तुस्वरूपं प्रथममवगम्यते। पश्चात्प्रतियोगि विशेषापेक्षया ह्रस्वं
दीर्घमिति तदेव विशिष्य व्यवहारभाजनं भवति।
तदुक्तं विष्णुतत्त्वनिर्णये- 'न च विशेषणविशेष्यतया भेदसिद्धिः। विशेषणविशेष्यभावश्च
भेदापेक्षः। धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः। भेदापेक्षं च धर्मिप्रतियोगित्वमित्यन्योन्याश्रयतया
भेदस्यायुक्तिः। पदार्थस्वरूपत्वाद्भेदस्य'- इत्यादिना।
अत एव गवार्थिनो गवयदर्शनान्न प्रवर्तन्ते, गो शब्दं च न स्मरन्ति। न च नीरक्षीरादौ स्वरूपे
गृह्यमाणे भेदप्रतिभासोऽपि स्यादिति भणनीयम्। समानाभिहारादिप्रतिबन्धकबलाद्
भेदभानव्यवहाराभावोपपत्तिः। तदुक्तम् -
अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात्। सौक्ष्म्याद् व्यवधानादभिभवात्समाना-
भिहाराच्च॥ इति। सां.का.7)
अतिदूरात् - गिरिशिखरवर्तिपर्वतादौ, अतिसामीप्यात्- लोचनाञ्जानदौ, इन्द्रियघातात्- विद्युदादौ,
मनोऽनवस्थानात्- कामाद्युप्लुतमनस्कस्य स्फीतालोकवर्तिनि घटादौ, सौक्ष्म्यात्- परमाण्वादौ,
व्यवधानात्- कु डयान्तर्हिते, अभिभवात्- दिवा प्रदीपप्रभादौ, समानाभिहारात्- नीरक्षीरादौ
यथावत् ग्रहणं नास्तीत्यर्थः।
भवतु वा धर्मभेदवादस्तथापि न कश्चिद्दोषः। धर्मिप्रतियोगिग्रहणे सति
पश्चात्तद्धटितभेदग्रहणोपपत्तेः। न च परस्पराश्रयप्रसङ्गः। पराननपेक्ष्य प्रभेदशालिनो वस्तुनो
ग्रहणे सति धर्मभेदभानसंभवात्। न च धर्मभेदवादे तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था
दुरवस्था स्यादित्यास्थेयम्। भेदान्तरप्रसक्तौ मूलाभावात्। भेदभेदिनौ भिन्नाविति
व्यवहारादर्शनात्।
न चैकभेदबलेनान्यभेदानुमानम्। दृष्टान्तभेदाविघातेनोत्थाने दोषाभावात्। सोऽयं पिण्याकयाचनार्थं
गतस्य खारिकातैल- दातृत्वाभ्युपगम इव। दृष्टान्तभेदविमर्दे त्वनुत्थानमेव। न हि वरविघाताय
कन्योद्वाहः। तस्मान्मूलक्षयाभावादनवस्था न दोषाय।
अनुमानेनापि भेदोऽवसीयते। परमेश्वरो जीवाद् भिन्नः। तं प्रति सेव्यत्वात्। यो यं प्रति सेव्यः
स तस्माद् भिन्नः। यथा भृत्याद्राजा।
न हि सुखं मे स्याद् दुःखं मे न मनागपि- इति पुरुषार्थमर्थयमानाः पुरुषाः स्थपतिपदं
कामयमानाः सत्कारभाजो भवेयुः। प्रत्युत सर्वानर्थभाजनं भवन्ति। यः स्वस्यात्मनो हीनत्वं
परस्य गुणोत्कर्षं च कययति स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति। तदाह -
घातयन्ति हि राजानो राजाहमिति वादिनः। ददत्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम्॥ इति।
एवं च परमेश्वराभेदतृष्णया विष्णोर्गुणोत्कर्षस्य मृगतृष्णिकासमत्वाभिधानं विपुलकदलीफल-
लिप्सया जिह्वाच्छे दनमनुहरति। एतादृशविष्णुविद्वेषणादन्धतमसप्रवेशप्रसङ्गात्। तदेतत्प्रतिपादितं
मध्यमन्दिरेण महाभारततात्पर्यनिर्णये-
अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः। तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात्॥
(म.भा.ता.1/111) इति।
सा च सेवा अङ्कन-नामकरण-भजनभेदात् त्रिविधा। तत्राङ्कनं नारायणायुधादीनां
तद्रपस्मरणार्थमपेक्षितार्थसिद्धूयर्थं च। तथा च शाकल्यसंहितापरिशिष्टम् -
चक्रं बिभर्त्ति पुरुषोऽभितप्तं बलं देवानाममृतस्य विष्णोः। स याति नाकं दुरिताबधूय विशन्ति
यद्यतयो वीतरागाः। देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयातास्तमायन्। येनाङ्किता मनवो
लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्वहन्ति॥ तद्विष्णोः परमं पदं येन गच्छन्ति लाञ्छिताः।
उरुक्रमस्य चिह्नैरङ्किता लोके सुभगा भवामः॥इति।
'अतप्ततनूर्न तदामो अश्नुते श्रितास इद्वहन्तस्तत्समासत' (तै.आ.1/11) इति
तैत्तिरीयकोपनिषच्च। स्थानविशेषश्चाग्नेयपुराणे प्रदर्शितः -
दक्षिणे तु करे विप्रो बिभृयाच्च सुदर्शनम्। सव्येन शङ्खं बिभृयादिति ब्रह्मविदो विदुः ॥ अन्यत्र
चक्रधारणे मन्त्रविशेषश्च दर्शितः - सुदर्शन महाज्वाल कोटिसूर्यसमप्रभः ! अज्ञानान्धस्य मे
नित्यं विष्णोमार्गं प्रदर्शय॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे। नमितः सर्वदेवैश्च
पाञ्चजन्य नमोऽस्तु ते॥ इति।
नामकरणं पुत्रादीनां के शवादिनाम्ना व्यवहारः, सर्वदा तन्नामानुस्मरणार्थम्। भजनं दशविधं-
वाचा सत्यं हितं प्रियं स्वाध्यायः, कायेन दानं परित्राणं परिरक्षणं, मनसा दया स्पृहा श्रद्धा
चेति। अत्रैकै कं निष्पाद्य नारायणे समर्पणं भजनम्। तदुक्तम्।
अङ्कनं नामकरणं भजनं दशधा च तत्। इति।
एवं ज्ञेयत्वादिनापि भेदोऽनुमातव्यः। तथा श्रुत्यापि भेदोऽवगन्तव्यः। 'सत्यमेनमनु विश्वे
मदन्ति, रातिं देवस्य गृह्णतो मघोनः।' सत्यः सो अस्य महिमा गृणे शवो, यज्ञेषु विप्रराज्ये।'
'सत्य आत्मा, सत्यो जीवः, सत्यं भिदा सत्यं भिदा सत्यं भिदा, मैवारुवण्यो मैवारुवण्य
मैवारुवण्य' इति मोक्षानन्दभेदप्रतिपादक श्रुतिभ्यः।
इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः। सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च॥
(गी.14/2)
'जगद्व्यापारवर्जम्' ' प्रकरणादसंनिहितत्वाच्च' (ब्र.सू.4/4/17-18) इत्यादिभ्यश्च। न च 'ब्रह्म
वेद ब्रह्मैव भवति' (मु.3/2/9) इति श्रुतिबलाज्जीवस्य पारमैश्वर्यं शक्यशङ्कम्। 'संपूज्य ब्राह्मणं
भकत्या शूद्रोऽपि ब्राह्मणो भवेत्'- इतिवद् वृंहितो भवतीत्यर्थपरत्वात्।
ननु-
प्रपञ्चो यदि विद्येत निवर्तेत न संशयः। मायामात्रमिदं द्वैतमद्वैतं परमार्थतः॥ (माण्डू क्यकारिका
1/17)
इति वचनाद् द्वैतस्य कल्पितत्वमवगम्यत इति चेत्सत्यम्। भावमनभिसंघायाभिधानात्। तथा
हि- यद्ययमुत्पद्येत तर्हि निवर्तेत न संशयः। तस्मादनादिरेवायं प्रकृष्टः पञ्चविधो भेदप्रपञ्चः। न
चायमविद्यमानः। मायामात्रत्वात्। मायेति भगवदिच्छोच्यते।
महामायेत्यविद्येति नियतिर्मोंहिनीति च। प्रकृतिर्वासनेत्येव तवेच्छानन्त कथ्यते॥ प्रकृतिः
प्रकृष्टकरणाद्वासना वासयेद्यतः। अ इत्युक्तो हरिस्तस्य मायाविद्येति संज्ञिना॥ मायेत्युक्ता
प्रकृष्टत्वात्प्रकृष्टे हि मयाभिधा। विष्णोः प्रज्ञप्तिरेवैका शब्देरेतैरुदीर्यते॥ प्रज्ञाप्तिरूपो हि हरिः सा
च स्वानन्दलक्षणा।
इत्यादिवचननिचयप्रामाण्यबलात्। सैव प्रज्ञा मानत्राणकर्त्री च यस्य तन्मायामात्रम्। ततश्च
परमेश्वरेण ज्ञानत्वाद्रक्षितत्वाच्च न द्वैतं भ्रान्तिकल्पितम्। न हीश्वरे सर्वस्य भ्रान्तिः संभवति।
विशेषदर्शननिबन्धनत्वाद् भ्रान्तेः।
तर्हि तद्व्यपदेशः कथमित्यत्रोत्तरमद्वैतं परमार्थत इति। परमार्थत इति परमार्थापेक्षया। तेन
सर्वस्मादुत्तमस्य विष्णुतत्त्वस्य समभ्यधिकशून्यत्वमुक्तं भवति।
तथा च परमा श्रुतिः -
जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथश्चैव जडजीवभिदा तथा॥ मिथश्च जडभेदो यः
प्रपञ्चो भेदपञ्चकः। सोऽयं सत्योऽप्यनादिश्च सादिश्चेन्नाशमाप्नुयात्॥ न च नाशं प्रयात्येष न
चासौ भ्रान्तिकल्पितः। कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते॥ द्वैतं न विद्यत इति
तस्मादज्ञानिनां मतम्। मतं हि ज्ञानिनामेतन्मितं त्रातं हि विष्णुना॥
तस्मान्मात्रमिति प्रोक्तं परमो हरिरेव तु। इत्यादि। तस्माद्विष्णोः सर्वोंत्कर्ष एव तात्पर्यं
सर्वागमानाम्। एतदेवाभिसंघायाभिहितं भगवता -
द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च। क्षरः सर्वाणि भूतानि कू टस्थोऽक्षर उच्यते॥ उत्तम
पुरुषस्त्वन्यः परमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य विभर्त्त्यव्यय ईश्वरः॥
यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः। यो
मामेवमसंमूढो जानाति पुरुषोत्तमम्। स सर्वविद्भजति मां सर्वभावेन भारत॥ इति गुह्यतमं
शास्त्रमिदमुक्तं मयानघ। एतद् बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत॥ (गी.15/16-20) इति।
महावराहेऽपि -
मुख्यं च सर्ववेदानां तात्पर्यं नीपतौ परे। उत्कर्षे तु तदन्यत्र तात्पर्यं स्यादवान्तरम॥इति्।
युक्तं च विष्णोः सर्वोंत्कर्षे महातात्पर्यम्। मोक्षो हि सर्वपुरुषार्थोंत्तमः।
धर्मार्थकामाः सर्वेऽपि न नित्या मोक्ष एव हि। नित्यस्तस्मात्तदर्थाय यतेत मतिमान्नरः।
इति भाल्लवेयश्रुतेः।
मोक्षश्च विष्णुप्रसादमन्तरेण न लभ्यते। यस्य प्रसादात्परर्मात्तिरूपादस्मात्संसारन्मुच्यते नापरेण।
नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुष्मात्॥
इति नारायणश्रुतेः।
तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते। समाश्रिताद् ब्रह्मतरोरनन्तात्
निःसंशयं युक्तिफलं प्रयान्ति॥ (वि.पु.1/17/61)
इति विष्णुपुराणोक्ते श्च। प्रसादश्च गुणोत्कर्षज्ञानादेव नाभेदज्ञानादित्युक्तम्।
न च तत्त्वमस्यादितादात्म्यव्याकोपः। श्रुतितात्पर्यापरिज्ञानविजृम्भणात्।
आह नित्यपरोक्षं तु त्वच्छब्दो ह्यविशेषतः। त्वंशब्दश्चापरोक्षार्थं तयोरैक्यं कथं भवेत्॥ आदित्यो
यूप इतिवत्सादृश्यार्था तु सा श्रुतिः। इति।
तथा च परमा श्रुतिः -
जीवस्य परमैक्यं तु बुद्धिसारुप्यमेव तु। एकस्थाननिवेशो वा व्यक्तिस्थानमपेक्ष्य सः॥ न
स्वरूपैकता तस्य युक्तस्यापि विरुपतः। स्वातन्त्र्यपूर्णतेऽल्पत्वपारतन्त्र्ये विरुपते॥ इति।
अथवा तत्त्वमसीत्यत्र स एवात्मा स्वातन्त्र्यादिगुणोपेतत्वात्। अतत्त्वमसि त्वं तत्र भवसि
तद्रहितत्वादित्येकत्वमतिशयेन निराकृतम्। तदाह- अतत्वमिति वा छे दस्तेनैक्यं सुनिराकृतम्।
इति।
तस्माद् दृष्टान्तनवकेऽपि, स यथा शकु निः सूत्रेण प्रबद्धः' )छा.6/8/3) इयादिना भेद एव
दृष्टान्ताभिघानान्नायमभेदोपदेश इति तत्त्ववादरहस्यम्। तथा च महोपनिषद्-
यथा पक्षी च सूत्रं च नानावृक्षरसा यथा। यथा नद्यः समुद्राश्च यथा जीवमहीरुहौ॥ यथाणिमा च
धाना च शुद्धोदलवणे यथा। चोरापहार्यौ च यथा यथा पुंविषयावपि॥ यथाज्ञो जीवसंघश्च
प्राणदेश्च नियामकः। तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ॥ तथापि सूक्ष्मरूपत्वान्न
जीवात्परमो हरिः। भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन्॥ वैलक्षण्यं तयोज्ञात्वा मुच्यते
बध्यतेऽन्यथा।इति। ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणत्क्षराः। लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो
हरिः॥ स्वातन्त्र्यशक्तिविज्ञानसुखाद्यैरखिलैर्गुणैः। निःसीमत्वेन ते सर्वे तद्वशाः सर्वदैव च॥ इति।
विष्णुं सर्वगुणैः पूर्णं ज्ञात्वा संसारवर्जितः। निर्दुःखानन्दभुङ् नित्यं तत्समीपे स मोदते॥ मुक्तानां
चाश्रयो विष्णुरधिकोऽधिपतिस्तथा। तद्वशा एव ते सर्वे सर्वदैव स ईश्वरः॥ इति च।
एकविज्ञानेन सर्वविज्ञानं च प्रधानत्वकारणत्वादिना युज्यते न तु सर्व मिथ्यात्वेन। न हि
सत्यज्ञानेन मिथ्याज्ञानं संभवति। यथा प्रधानपुरुषाणां ज्ञानाज्ञानाभ्यां ग्रामो ज्ञातोऽज्ञात
इत्येवमादिव्यपदेशो दृष्ट एव। यथा च कारणे पितरि ज्ञाते जानात्यस्य पुत्रमिति। यथा वा
सादृश्यादेकस्त्रीज्ञानाद् अन्यस्त्रीज्ञानमिति।
तदेव सादृश्यमत्रापि विवक्षितं 'यथा सोम्यैके न मृत्पिण्डेन सर्वं मृन्मयं विज्ञातं स्यात्'
(छा.6/1/4) इत्यादिना। अन्यथा 'सोम्यैके न मृत्पिण्डेन सर्वं मृन्मयं विज्ञातम्' इत्यत्र एक-
पिण्डशब्दौ वृथा प्रसज्येयाताम्। मृदा विज्ञातया' इत्येतावतैव वाक्यस्य पूर्णत्वात्।
न च 'वाचारम्भणं विकारो नामधेयं मृत्तिके त्येव सत्यम्' (छा.6/1/5) इत्येतत्कार्यस्य
मिथ्यात्वमाचष्टं इत्येष्टव्यम्। वाचारम्भणं विकारो यस्य तदविकृतं नित्यं नामधेयं
मृत्तिके त्यादिकमित्येतद्वचनं सत्यमित्यर्थस्य स्वीकारात्। अपरथा नामधेयमितिशब्दयोर्वैयर्थ्य
प्रसज्येत। अतो न कु त्रापि जगतो मिथ्यात्वसिद्धिः।
किं च प्रपञ्चो मिथ्येत्यत्र मिथ्यात्वं तथ्यमतथ्यं वा प्रथमे सत्याद्वैतभङ्ग प्रसङ्गः। चरमे
प्रपञ्चसत्यत्वापातः।
नन्वनित्यंत्वं नित्यमनित्यं वा। उभयथाप्यनुपपत्तिरित्याक्षेपवदयमपि नित्यसम जातिभेदः
स्यात्। तदुक्तं न्यायनिर्माणवेधसानित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः'
(न्या0सू05/3/35) इति। तार्कि करक्षायां च -
धर्मस्य तदूतद्रपविकल्पानुपपत्तितः। धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत॥इति्।
अस्याः संज्ञाया उपलक्षणत्वमभिप्रेत्याभिहितं प्रवोधसिद्धावन्वर्थित्वात्तूपरञ्जकधर्मसमेति।
तस्मादसदुत्तरमिति चेत् -
अशिक्षितत्रासनमेतत्। दुष्टत्वमूलानिरूपणात्। तद् द्विविधं साधारणमसाधारणं च। तत्राद्यं
स्वव्याघातकम्। द्वितीयं त्रिबिधं युक्ताङ्गहीनत्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति।
तत्र साधारणमसंभवितमेव। उक्तस्याक्षेपस्य स्वात्मव्यापनानुलम्भात्। एवमसाधारणमपि। घटस्य
नास्तितायां नास्तितोक्तौ अस्तित्ववत्प्रकृतेऽप्युपपत्तेः।
ननु प्रपञ्चस्य मिथ्यात्वमभ्युपेयते नासत्त्वमिति चेत्, तदेतत्सोऽयं शिरश्छे देऽपि शतं न ददाति,
विंशतिपञ्चकं तु प्रयच्छतीति शाकटिकवृत्तान्तमनुहरेत्। मिथ्यात्वासत्त्वयोः पर्यायत्वादि-
त्यलमतिप्रपञ्चेन।
तत्र 'अथातो ब्रह्मजिज्ञासा' (ब्र0सू01/1/1) इति प्रथमसूत्रस्यायमर्थः। तत्राथशब्दो
मङ्गलार्थोंऽधिकारानन्तर्यार्थश्च स्वीक्रियते। अतःशब्दो हेत्वर्थः। तदुक्तं गारुडे-
अथातःशब्दपूर्वाणि सूत्राणि निखिलान्यपि। प्रारभ्यन्ते नियत्यैव तत्किमत्र नियामकम्॥
कश्चार्थस्तु तयोर्विद्वन्कथमुत्तमता तयोः। एतदाख्याहि मे ब्रह्मन्यथा ज्ञास्यामि तत्त्वतः॥ एवमुक्तो
नारदेन ब्रह्मा प्रोवाच सत्तमः। आनन्तर्याधिकारे च मङ्गलार्थे तथैव च॥ अथशब्दस्त्वतःशब्दो
हेत्वर्थे समुदीरितः। इति।
यतो नारायणप्रसादमन्तरेण न मोक्षो लभ्यते प्रसादश्च ज्ञानमन्तरेण, अतो ब्रह्मजिज्ञासा
कर्तव्येति सिद्धम्।
जिज्ञास्यब्रह्मणो लक्षणमुक्तं 'जन्माद्यस्य यतः' (ब्र.सू.1.1.2) इति। सृष्टिस्थित्यादि यतो भवति
तद् ब्रह्मेति वाक्यार्थः। तथा च स्कान्दं वचः -
उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः। वन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट्॥ यतो वा
इमानीत्यादिश्रुतिभ्यश्च।
तत्र प्रमाणमप्युक्तं 'शास्त्रयोनित्वात्' (ब्र0सू01/1/3) इति। 'नावेदविन्मनुते तं बृहन्तम्' (तै0ब्रा0
3/12/9/7) 'तं त्वौपनिषदम्' (बृ0 3/9/26) इत्यादिश्रुतिभ्यस्तस्यानुमानिकत्वं निराक्रियते।
च चानुमानस्य स्वातन्त्र्येण प्रामाण्यमस्ति। तदुक्तं कौर्मे -
श्रुतिसाहाय्यरहितमनुमानं न कु त्रचित्। निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च॥ श्रुतिस्मृतिसहायं
यत्प्रमाणन्तरमुत्तमम्। प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा॥ इति।
शास्त्रस्वरुपमुक्तं स्कान्दे -
ऋग्यजुःसामाथर्वा च भारतं पाञ्चरात्रकम्। मूलरामायणं चैव शास्त्रमित्यभिधीयते॥
यच्चानुकू लमेतस्य तच्च शास्त्रं प्रकीर्तितम्। अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कु वर्त्म
तत॥इति्।
तदनेन, 'अनन्यलभ्यः शास्त्रार्थः' इति न्यायेन भेदस्य प्राप्तत्वेन तत्र न तात्पर्यं किन्तु अद्वैत
एव वेदवाक्यानां तात्पर्यम् इत्यद्वैतवादिनां प्रत्याशा प्रतिक्षिप्ता। अनुमानादीश्वरस्य सिद्धयभावेन
तद्भेदस्यापि ततः सिद्धयभावात्। तस्मान्न भेदानुवादकत्वमिति तत्परत्वमवगम्यते। अत
एवोक्तम् -
सदागमैकविज्ञेयं मतीतक्षराक्षरम्। नारायणं सदा वन्दे निर्दोंषाशेषसद्गुणम्॥ (वि.त.1) इति।
शास्त्रस्य तत्र प्रामाण्यमुपपादितं 'तत्तु समन्वयात्' (ब्र0सू01/1/4) इति। समन्वय
उपक्रमादिलङ्गम्। उक्तं च बृहत्संहितायाम् -
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥इति।
एवं वेदान्ततात्पर्यवशात् तदेव ब्रह्म शास्त्रगम्यमित्युक्तं भवति। दिङ्मात्रमत्र प्रादर्शि।
शिष्टमानन्दतीर्थभाष्यव्याख्यानादौ द्रष्टव्यम्। ग्रन्थबहुत्वभियोप रम्यत इति। एतच्च रहस्यं
पूर्णप्रज्ञेन मध्यमन्दिरेण वायोस्तृतीयावतारम्यन्येन निरुपितम्।
प्रथमस्तु हनूमान्स्याद् द्वितीयो भीम एव च। पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः॥
एतदेवाभिप्रेत्य तत्र तत्र ग्रन्थसमाप्ताविदं पद्यं लिख्यते -
यस्य त्रीण्युदितानि वेदवचने दिव्यानि रुपाण्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गों
महत्। वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपु र्मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः
के शवे॥ (म0 भा0 ता0 32/181)
एतत्पद्यार्थस्तु 'बलित्था तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतोऽजनि' (ऋ01/141/1)
इत्यादिश्रुतिपर्यालोचनया-ऽवगम्यत इति। तस्मात्सर्वस्य शास्त्रस्य विष्णुतत्त्वं सर्वोंत्तममित्यत्र
तात्पर्यमिति सर्वं निरवद्यम्।
- इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शनम्।