सर्वदर्शनसंग्रहः/प्रत्यभिज्ञादर्शनम्

सर्वदर्शनसंग्रहः

अथ प्रत्यभिज्ञादर्शनम् ॥8॥

अत्रापेक्षाविहीनानां जडानां कारणत्वं दुष्यतीत्यपरितुष्यन्तो , मतान्तरमन्विष्यन्तः,
परमेश्वरेच्छावशादेव जगन्निर्माणं परिघुषयन्तः, स्वसंवेदनोपपत्त्या आगमसिद्ध-
प्रत्यगात्मतादात्म्ये नानाविधमानमेयादिभेदाभेदशालिपरमेश्वरोऽनन्यमुखप्रेक्षित्वलक्षणस्वातन्त्र्य-
भाक् स्वात्मदर्पणे भावान्प्रतिबिम्बवद् अवभासयतीति भणन्तो, बाह्याभ्यन्तरचर्याप्राणायामादि-
क्लेशप्रयास- कलापवैधुर्येण संर्वसुलभमभिनवं प्रत्यभिज्ञामात्रं परापरसिद्धयुपायमभ्युपगच्छन्तः,
परे माहेश्वराः प्रत्यभिज्ञाशास्त्रमभ्यस्यन्ति।
तस्येयत्तापि न्यरूपि परीक्षकैः -
सूत्रं वृत्तिर्विवृत्तिर्लध्वी बृहतीत्युभे विमर्शिन्यौ। प्रकरणविवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः॥
तत्रेदं प्रथमं सूत्रम् -
कथंचिदासाद्य महेश्वरस्य दास्यं जनस्याप्युपकारमिच्छन्। समस्तसंपत्समवाप्तिहेतुं
तत्प्रत्यभिज्ञामुपपादयामि॥इति॥
कथंचिदिति- परमेश्वराभिन्नगुरुचरणारविन्दयुगलसमाराधनेन परमेश्वरघटितेन एवेत्यर्थः।
आसाद्येति- आ समन्तात्परिपूर्णतया सादयित्वा, स्वात्मोपभोग्यतां निरर्गलां गमयित्वा। तदनेन
विदितवेद्यत्वेन परार्थशास्त्रकरणेऽधिकारो दर्शितः। अन्यथा प्रतारणमेव प्रसज्येत। मायोत्तीर्णा
अपि महामायाधिकृता विष्णुविरिञयाद्या यदीयैश्वर्यलेशेन ईश्वरीभूताः स भगवानानवच्छिन्न-
प्रकाशानन्दस्वातन्त्र्यपरमार्थों महेश्वरः। तस्य दास्यम्। दीयतेऽस्मै स्वामिना सर्वं
यथाभिलषितमिति दासः। परमेश्वरस्वरूप- स्वातन्त्र्यपात्रमित्यर्थः। जनशब्देनाधिकारि-
विषयनियमाभावः प्रादर्शि। यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवति।
प्रज्ञानस्यैव परमार्थफलत्वात्। तथोपदिष्टं शिवदृष्टौ परमगुरुभिर्भगवत्सोमानन्दनाथपादैः -
एकवारं प्रमाणेन शास्त्राद्वा गुरुवाक्यतः। ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्या दृढात्मना॥ करणेन
नास्ति कृत्यं क्वापि भावनयापि वा। ज्ञाते सुवर्णे करणं भावानां वा परित्यजेत्॥ इति॥
अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कु र्वता पूर्णत्वेन स्वात्मनि परार्थसंपत्त्यतिरिक्त-
प्रयोजनान्तरावकाशश्च पराकृतः। परार्थश्च प्रयोजनं भवत्येव। तल्लक्षणयोगात्। न ह्ययं देवशापः
'स्वार्थ एव प्रयोजनं न परार्थ' इति। अत एवोक्तमक्षपादेन-'यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम्'
(गौ0सू0 1/1/24) इति। उपशब्दः सामीप्यार्थः। तेन जनस्य परमेश्वरसमीपताकरणमात्रं
फलम्। अत एवाह - समस्तेति। परमेश्वरतालाभे हि सर्वाः संपदस्तन्निष्यन्दमय्यः संपन्ना एव,
रोहणाचललाभे रत्नसंपद इव। एवं परमेश्वरतालाभे किमन्यत्प्रार्थनीयम्  ? तदुक्तमुत्पलाचार्यैः -
भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम्। एतया वा दरिद्राणां किमन्यदपयाचितम्॥ इति॥
इत्थं षष्ठीसमासपक्षे प्रयोजनं निर्दिष्टम्। बहुव्रीहिपक्षे तूपपादयामः। समस्तस्य बाह्याभ्यन्तरस्य
नित्यसुखादेर्या संपत्सिद्धिः तथात्वप्रकाशः, तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभिज्ञायाः हेतुः सा
तथोक्ता। तस्य महेश्वरस्य प्रत्यभिज्ञा, प्रति आभिमुख्येन, ज्ञानम्। लोके हि स एवायं चैत्र इति
प्रतिसंधानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यवह्रियते। इहापि प्रसिद्धपुराण-
सिद्धागमानुमानादिज्ञातपरिपूर्णशक्तिके परमेश्वरे सति स्वात्मनि अभिमुखीभूते
तच्छक्तिप्रतिसंधानेन ज्ञानमुदेति नूनं स एवेश्वरोऽहमिति। तामेतां प्रत्यभिज्ञानुपपादयामि।
उपपत्तिः संभवः। संभवतीति सत्समर्थाचारणेन प्रयोजकव्यापारेण संपादयामीत्यर्थः।
यदीश्वरस्वभाव एवात्मा प्रकाशते, तर्हि किमनेन प्रत्यभिज्ञाप्रदर्शनप्रयासेनेति चेत्- तत्रायं
समाधिः। स्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायावशाद् भागेन प्रकाशमाने
पूर्णतावभाससिद्धये दृक्क्रियात्मकशक्त्याविष्करणेन प्रत्यभिज्ञा प्रदर्श्यते। तथा च प्रयोगः
'अयमात्मा परमेश्वरो भवितुमर्हति। ज्ञानक्रियाशक्तिमत्त्वात्। यो यावति ज्ञाता कर्ता च स
तावतीश्वरः प्रसिद्धेश्वरवद्राजवद्वा। आत्मा च विश्वज्ञाता कर्ता च। तस्मादीश्वरोऽयम्' इति।
अवयवपञ्चकस्याश्रयणं मायावदेव नैयायिकमतस्य कक्षीकारात्। तदक्तमुदुयाकरसूनुना -
कर्तरि ज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे। अजडात्मा निषेधं वा सिद्धिं वा विदधीत कः॥ किं
तु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते। शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते॥
तथा हि-
सर्वेषामिह भूतानां प्रतिष्ठा जीवदाश्रया। ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम्॥ तत्र ज्ञानं
स्वतःसिद्धं क्रिया कार्याश्रिता सती। परैरप्युपलक्ष्येत तथान्यज्ञानमुच्यते॥ इति॥ या चैषां
प्रतिभा तत्तत्पदार्थक्रमरूपिता। अक्रमानन्दूचिद्रपः प्रमाता स महेश्वरः॥ इति च॥
सोमानन्दनाथपादैरपि -
सदा शिवात्मना वेत्ति सदा वेत्ति मदात्मना। इत्यादि।
ज्ञानाधिकारपरिसमाप्तावपि -
तदैक्येन विना नास्ति संविदां लोकपद्धतिः। प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितिः॥ स
एव विमृशत्वेन नियतेन महेश्वरः। विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः॥ इति।
विवृतं चाभिनवगुप्ताचार्यैः। 'तमेव भान्तमनुभाति सर्वं, तस्य भासा सर्वभिदं विभाति'
(काठक02/2) इति श्रुत्या प्रकाशचिद्रूपमहिम्ना सर्वस्य भावजातस्य भासकत्वमभ्युपेयते।
ततश्च विषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोपरागभेदाद्भेदः। वस्तुतस्तु
देशकालाकारसंकोचवैकल्यादभेद एव। स एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते। तथा च पठितं
शिवसूत्रेषु- 'चैतन्यमात्मा' (1/1) इति। तस्य चिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुखत्व -
मानन्दैकघनत्वं माहेश्वर्यमिति पर्यायः। स एव ह्ययं भावात्मा विमर्शः शुद्धे पारमार्थिक्यौ
ज्ञानक्रिये। तत्र प्रकाशरूपता ज्ञानम्। स्वतो जगन्निर्मातृत्वं क्रिया। तच्च निरुपितं क्रियाधिकारे-
एष चानन्तशक्तित्वादेवमाभासयत्यमून्। भावानिच्छावशादेषां क्रिया निर्मातृतास्य सा॥ इति।
उपसंहारेऽपि - इत्थं तथा घटपटाद्याकारजगदात्मना। तिष्ठासोरेवामिच्छैव हेतुकर्तृकृता क्रिया॥
इति। तस्मिन्सतीदमस्तीति कार्यकारणताऽपि या। साप्यपेक्षाविहीनानां जडानां नोपपद्यते॥ इति
न्यायेन यतो जडस्य न कारणता न वाऽनीश्वरस्य चेतनस्यापि, तस्मात्तेन तेन
जगद्गतजन्मस्थित्यादिभावविकारतत्तद्भेदक्रियासहस्ररूपेण स्थातुमिच्छोः स्वतन्त्रस्य भगवतो
महेश्वरस्येच्छै व उत्तरोत्तरमुच्छू नस्वभावा क्रिया विश्वकर्तृत्वं वोच्यत इति। इच्छामात्रेण
जगन्निर्माणमित्यत्र दृष्टान्तोऽपि स्पष्टं निर्दिष्टः -
योगिनामपि मृद्बीजे विनैवेच्छावशेन यत्। घटादि जायते तत्तत्स्थिरभावक्रियाकरम्॥ इति।
यदि घटादिकं प्रति मृदाद्येव परमार्थतः कारणं स्यात्तर्हि कथं योगीच्छामात्रेण घटादिजन्म
स्यात्? अथोच्येत- अन्य एव मृद्बीजादिजन्या घटाङ्कु रादयो, योगीच्छाजन्यास्त्वन्य एवेति।
तत्रापि बोध्यसेसामग्रीभेदात्तावत्कार्यभेद इति सर्वजनप्रसिद्धम्।
ये तु वर्णयन्ति नोपादानं विना घटाद्युत्पत्तिरिति, योगी त्विच्छया परमाणून्व्यापारयन्
संघटयतीति तेऽपि बोधनीयाः। यदि परिदृष्टकार्यकारणभावविपर्ययो न लभ्येत तर्हि घटे
मृद्दण्डचक्रादि देहे स्त्रीपुरुषसंयोगादि सर्वमपेक्ष्येत। तथा च योगीच्छासमनन्तर-
संजातघटदेहादिसंभवो दुःसमर्थ एव स्यात्। चेतन एव तु तथा भाति, भगवान् भूरिभगो
महादेवोनियत्यनुवर्तनोल्लङ्घनघनतरस्वातन्त्र्य इति पक्षे न काचिदनुपपत्तिः। अत एवोक्तं
वसुगुप्ताचार्यैः -
निरुपादानसंभारमभित्तावेव तन्वते। जगच्चित्रं नमस्तस्मै कलानाथाय शूलिने॥ इति।
ननु प्रत्यगात्मनः परमेश्वराभिन्नत्वे संसारसंबन्धः कथं भवेदिति चेत् - तत्रोक्तमागमाधिकारे -
एष प्रमाता मायान्धः संसारी कर्मबन्धनः। विद्यादिज्ञापितैश्वर्यश्चिद्धनो मुक्त उच्यते॥ इति।
ननु प्रमेयस्य प्रमात्रभिन्नत्वे बद्धमुक्तयोः प्रमेयं प्रति को विशेषः ? अत्राप्युत्तरमुक्तं
तत्त्वार्थसंग्रहाधिकारे -
मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते। महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत्॥ इति।
नन्वात्मनः परमेश्वरत्वं स्वाभाविकं चेन्नार्थः प्रत्यभिज्ञाप्रार्थनया। न हि बीजमप्रतिज्ञातं सति
सहकारिसाकल्येऽङ्कुरं नोत्पादयति। तस्मात्कस्माद्वात्मप्रत्यभिज्ञाने निर्बन्ध इति चेत् -
उच्यते। श्रृणु तावदिदं रहस्यम्। द्विविधा ह्यार्थक्रिया- बाह्याङ्कु रादिका,
प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा च। तत्राद्या प्रत्यभिज्ञानं नापेक्षते। द्वितीया तु
तदपेक्षत एव। इहाप्यहमीश्वर इत्येवंभूतचमत्कारसारा परापरसिद्धिलक्षणजीवात्मैकत्व-
शक्तिविभूतिरूपार्थक्रियेति स्वरूपप्रत्यभिज्ञानमपेक्षणीयम्। ननु प्रमातृविश्रान्तिसारार्थक्रिया
प्रत्यभिज्ञानेन विना अदृष्टा सती तस्मिन्दृष्टेति क्व दृष्टम्  ? अत्रोच्यतेनायकगुणगण-
संश्रवणप्रवृद्धानुरागा काचन कामिनी मदनविह्वला विरहक्लेशमसहमाना मदनलेखावलम्बनेन
स्वावस्थानिवेदनानि विधत्ते। तथा वेगात्तन्निकटमटन्त्यपि तस्मिन्नवलोकितेऽपि तदवलोकनं
तदीयगुणपरामर्शाभावे जनसाधारणत्वं प्राप्ते हृदयङ्गमभावं न लभते। यदा तु दूतीवचनात्
तदीयगुणपरामर्शं करोति तदा तत्क्षणमेव पूर्णभावमभ्येति। एवं स्वात्मनि विश्वेश्वरात्मना
भासमानेऽपि तन्निर्भासनं तदीयगुणपरामर्श विरहसमये पूर्णभावं न संपादयति। यदा तु
गुरुवचनादिना सर्वज्ञत्वसर्वकर्तृत्वादिलक्षणपरमेश्वरोत्कर्षपरामर्शों जायते तदा तत्क्षणमेव
पूर्णात्मतालाभः। तदुक्तं चतुर्थे विमर्शे -
तैस्तैरप्युपयाचितैरुपनतस्तस्याः स्थितोऽप्यन्तिके कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं
यथा। लोकस्यैष तथानवेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवायं निजवैभवाय तदियं
तत्प्रत्यभिज्ञोदिता॥ इति। (ई.प्र.4/2/2)
अभिनवगुप्तादिभिराचार्यैर्विहितप्रतानोऽप्ययमर्थः संग्रहमुपक्रममाणैरस्माभिर्विस्तरभिया न
प्रतानित इति सर्वं शिवम्॥

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे प्रत्यभिज्ञादर्शनम् ॥