सर्वदर्शनसंग्रहः

अथ बौद्धदर्शनम् ॥ 2॥

अत्र बौद्धैरभिधीयते। यदभ्यधायिअविनाभावो दुर्बोधं इति तदसाधीयः
तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य सुज्ञानत्वात् तदुक्तम् -
कार्यकारणभावाद्वा स्वभावाद्वा नियामकात्। अविनाभावनियमोऽदर्शनान्न न दर्शनात्॥ (न्या.वि.)
इति। अन्वयव्यतिरेकावविना भावनिश्चायकाविति पक्षे साध्यसाधनयौ रव्यभिचारो दुरवधारणो
भवेत्। भूते भविष्यति वर्तमाने चानुपलभ्यमानेर्थे व्यभिचारशङ्काया अनिवारणात्। ननु
तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेत् मैवं वोचः। विनापि कारणं
कार्यमुत्पद्यतामित्वेवंविधायाः शङ्काया व्याघातावधिकतया निवृत्तत्वात्। तदेव ह्याशङ्कयेत
यस्मिन्नाशङ्कयमाने व्याधातादयो नावतरेयुः। तदुक्तम् - व्याधातावधिराशङ्का (न्या.कु सु.3/7)
इति। तस्मात्तदुत्पत्तिनिश्चयेनाविनाभावो निश्चीयते। तदुत्पत्ति निश्चयश्च कार्यहेत्वोः
प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः। कार्यस्योत्पत्तेः प्रागनुपलम्भः कारणोपलम्भे
सत्युपलम्भः उपलब्धस्य पश्चात्कारणानुपलम्भादनुपलम्भः इति पञ्चकारण्या धूमधूमध्वजयोः
कार्यकारणभावो निश्चीयते। तथा तादात्म्यनिश्चयेनाप्यविनाभावो निश्चीयते। यदि शिंशपा
वृक्षत्वमतिपतेत्स्वात्मानमेव जह्यादिति विपक्षे बाधकप्रवृत्तेः। अप्रवृत्ते तु बाधके भूयः
सहभावोपलम्भेऽपि व्यभिचारशङ्कायाः को निवारयिता। शिंशपावृक्षयोश्च तादात्म्यनिश्चयो
वृक्षोऽयं शिंशपेति सामानाधिकरण्यबलादुपपद्यते। न ह्यत्यन्ताभेदे तत्संभवति। पर्यायत्वेन
युगपत्प्रयोगायोगात्। नाप्यत्यन्तभेदे। गवाश्वयोरनुपलम्भात्। तस्मात्कार्यात्मानौ
कारणात्मानावनुमापयत इति सिद्धम्।
यदि कश्चित्प्रामाण्यमनुमानस्य नाङ्गीकुर्यात्तं प्रति व्रूयात्। अनुमानं प्रमाणं न
भवतीत्येतावन्मात्रमुच्यते तत्र न किं चन साधनमुपन्यस्यत उपन्यस्यते वा। न प्रथमः।
अशिरस्कवचनस्योपन्यासे साध्यासिद्धेः।
एकाकिनी प्रतिज्ञा हि प्रतिज्ञातं न साधयेत्। इति न्यायात्। नापि चरमः। अनुमानं प्रमाणं न
भवतीति ब्रुवाणेन वचनप्रमाणमनभ्युपगच्छता त्वया स्वपकरीयशास्त्रे प्रमाण्येनोपगृहीतस्य
वचनस्योपन्यासे मम माता वन्ध्येतिवद्व्याधातापातात्। किं च प्रमाणतदाभासव्यवस्थापनं
तत्समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावानुमानम्। परगता विप्रतिपत्तिस्तु
वचनलिङ्गेनेति ब्रुवता कार्यलिङ्गकमनुमानम्। अनुपलब्ध्याकं चिदर्थं प्रतिषेधयतानुपलब्धिलिङ्ग-
कमनुमानम्। तथा चोक्तं तथागतैः -
प्रमाणान्तरसामान्यस्थितेरन्यधियो गतेः। प्रमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित्। इति।
पराक्रान्तं चात्र सूरिभिरिति ग्रन्थभूयस्त्वभयादुपरम्य ते।
ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थं कथयन्ति। ते च माध्यमिकयोगाचारसौत्रान्तिक-
वैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथाक्रमं सर्वशून्यत्वबाह्यार्थशून्यत्वबाह्यार्थनुमेयत्व-
बाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते। यद्यपि भगवान्बुद्ध एक एव बोधयिता तथापि बोद्धव्यानां
बुद्धिभेदाच्चातुर्विध्यम्। यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूचानादयः स्वेष्टानुसारेणाभिसरण-
परस्वहरण- सदाचरणादिसमयं बुध्यन्ते। सर्वं क्षणिकं क्षणिकं दुःखं दुःखं स्वलक्षणं स्व लक्षणं
शून्यं शून्यमिति भावनाचतुष्टयमुपदिष्टं द्रष्टव्यम्। तत्र क्षणिकत्वं नीलादिक्षणानां
सत्त्वेनानुमातव्यं यत्सत्तत्क्षणिकं यथा जलधरपटलं सन्तश्चामी भावा इति। न चायमसिद्धो
हेतुः। अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्षणानां प्रत्यक्षसिद्धत्वात्। व्यापकव्यावृत्या
व्याप्यव्यावृत्तिरिति न्यायेन व्यापकक्रमाक्रमव्यावृत्तावक्षक्षिकात्सत्त्वव्यावृत्तेः सिद्धत्वाच्च।
तच्चर्थक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तम्। न च क्रमाक्रमाभ्यामन्यः प्रकारः संभवति।
परस्परविरोधे हि न प्रकारान्तरस्थितिः। नैकताऽपिविरुद्धानामुक्तिमात्रविरोधतः॥
(न्या.कु सु.3/8)
इति न्यायेन व्याघातस्योद्भटत्वात्। तौ च क्रमाक्रमौ स्थायिनः सकाशाद् व्यावर्तमाना-
वर्थक्रियामपि व्यावर्तयन्तौ क्षणिकत्वपक्ष एव सत्त्वं व्यवस्थापयत इति सिद्धम्।
नन्वक्षणिकस्याथर्क्रि याकारित्वं किं न स्यादिति चेत्- तदयुक्तम्। विकल्पासहत्वात्। तथा हि
वर्तमानाथर्क्रि याकरणकालेतीता नागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति नो वा। आद्ये
तयोरनिराकरणप्रसङ्गः। समर्थस्य क्षेपायोगात्। यद्यदा यत्करणसमर्थं तत्तदा तत्करोत्येव यथा
सामग्री स्वकार्यं समर्थश्चायं भाव इति प्रसङ्गानुमानाच्च। द्वितीये कदापि न कु र्यात्
सामार्थ्यमात्रानुबन्धित्वादर्थक्रियाकारित्वस्य। यद्यदा यन्न करोति तत्तदा तत्रासमर्थं यथा हि
शिलाशकलमङ्कु रे। न चैष वर्तमानार्थक्रियाकरणकाले वृत्तवर्तिष्यमाणे अर्थक्रिये करोतीति
तद्विपर्ययाच्च। ननु क्रम वत्सहकारिलाभात्स्थायिनोऽतीतानागतयोः क्रमेण करणमुपपद्यत इति
चेत्- तत्रेदं भवान्पृष्टो व्याचष्टाम्। सहकारिणः किं भावस्यो पकु र्वन्ति न वा। न
चेन्नापेक्षणीयास्ते। अकिं चित्कु र्वतां तेषां तादर्थ्यायोगात्। अथ भावस्तैः सहकारिभिः सहैव कार्यं
करोतीति स्वभाव इति चेत्। अङ्ग तर्हि सहकारिणो न जह्यात्। प्रत्युत पलायमानानपि गले
पाशेन बद्ध्वा कृत्यं कार्यं कु र्यात्। स्वभावस्यानपायात्। उपकारकत्वपक्षे सोऽयमुपकारः किं
भावाद्भिद्यते न वा। भेदपक्ष आगन्तुकस्यैव तस्य कारणत्वं स्यात्। न भावस्याक्षणिकस्य
आगन्तुकातिशयान्वयव्यतिरेकानुविधायित्वात्कार्यस्य। तदुक्तम् -
वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम्। चर्मोंपमश्चेत्सोऽनित्यः खतुल्यश्चेद-
सत्फलः॥इति॥
किं च सहकारिजन्योऽतिशयः किमतिशयान्तरमारभते न वा। उभयथाऽपि
प्रागुक्तदूषणपाषाणवर्षणप्रसङ्गः। अतिशयान्तरारम्भपक्षे बहुमुखानवस्थादौ ःस्थ्यमपि स्यात्।
अतिशये जनयितव्ये सह कार्यन्तरापेक्षायां तत्परम्परापात इत्येकानवस्थास्थेया। तथा
सहकारिभिः सलिलपवनादिभिः पदार्थसार्थैराधीयमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम्।
अपरथा तदभावेप्यतिशयः प्रादुर्भवेत्। बीजं चातिशयमादधानं सहकारिसापेक्षमेवाधत्ते। अन्यथा
सर्वदोषकारापत्तावङ्कु रस्यापि सदोदयः प्रसज्येत। तस्मादतिशयार्थमपेक्ष्यमाणैः सहकारिभिरति-
शयान्तरमाधेयं बीजे। तस्मिन्नप्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य बीजस्य जनकत्वे
सहकारिसंपाद्यबीजगतातिशयानवस्थाप्रथमा व्यवस्थिता। अथोपकारः कार्यार्थमपेक्ष्यमाणोऽपि
बीजादिनिरपेक्षं कार्यं जनयति तत्सापेक्षं वा। प्रथमे बीजादेरहेतुत्वमापतेत्। द्वितीयेपेक्ष्यमाणेन
बीजादिनोपकारेऽतिशय आधेयः। एवं तत्रतत्रापीति बीजादिजन्यातिशयनिष्ठातिशयपरम्परापात
इति द्वितीयानवस्था स्थिरा भवेत्। एवमपेक्ष्यमाणेनोपकारेण बीजादौ धर्मिण्युपकारान्तरमाधेय-
तमित्युपकाराधेयबीजाश्रयातिशयपरम्परापात इति तृतीयानवस्था दुरवस्था स्यात्। अथ
भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि पराचीनो भावोऽनतिशयात्मा
निवृत्तोऽन्यश्चातिशयात्माकु र्वद्रपादिपदवेदूनीयो जायत इति फलितं ममापि मनोरथद्रमेण। ु
तस्मात्क्रमेणाक्षणिकस्यार्थक्रिया दुर्घटा।
नाप्यक्रमेण घटते। विकल्पासहत्वात्। तथाहि। युगपत्सकलकार्यकरणसमर्थः स्वभाव-
स्तदुत्तरकालमनुवर्तते न वा। प्रथमे तत्कालवत्कालान्तरेपि तावत्कार्यकरणमापतेत्। द्वितीये
स्थायित्व वृत्याशा मूषिकभक्षितबीजादावङ्कु रादिजननप्रार्थनामनुहरेत्। यद्विरुद्धधर्माध्यस्तं
तन्नाना यथा शीतोष्णे। विरुद्धधर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः। न चायमसिद्धो
हेतुः स्थायिनि कालभेदेन सामर्थ्यासामर्थ्ययोः प्रसङ्गतद्विपर्ययसिद्धत्वात्। तत्रासामर्थ्यसाधकौ
प्रसङ्गतद्विपर्ययौ प्रागुक्तौ। सामर्थ्यसाधकावभिधीयेते। यद्यदा यज्जननासमर्थं तत्तदा तन्न करोति
यथा शिलाशकलमङ्कु रम्। असमर्थश्चायं वर्तमानार्थक्रियाकरणकालेतीतानागतयोरर्थक्रिययोरिति
प्रसङ्गः। यद्यदा यत्करोति तत्तदा तत्र समर्थं यथा सामग्री स्वकार्ये। करोति
चायमतीतानागतकाले तत्कालवर्तिन्यावथर्क्रि ये भाव इति प्रसङ्गव्यत्ययो विपर्ययः। तस्माद्विपक्षे
क्रमयौगपद्यव्यावृत्त्या व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्यय-
बलाद्गृहीतान्वयव्याप्तिकं च सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम्। तदुक्तं ज्ञानश्रिया-
यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी। सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु
सिद्धा न सा। नाप्येकै व विधान्यथा परकृतेनापि क्रियादिर्भवेद् द्वेधापि क्षणभङ्गसंगतिरतः
साध्ये च विश्राम्यति। इति॥
न च कणभक्षाक्षचरणादिपक्षकक्षीकारेण सत्तासामान्ययोगित्वमेव सत्त्वमिति मन्तव्यम्।
सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात्। न च तत्र स्वरूपसत्तानिवन्धनः सद्वयवहारः।
प्रयोजकगौरवापत्तेः। अनुगतत्वाननुगतत्वविकल्पपराहतेश्च। सर्षपमहीधरादिषु विलक्षणेषु
क्षणेष्वनुगतस्याकारस्य मणिषु सूत्रवद् भूतगणेषु गुणवच्चाप्रतिभासनाच्च। किं च सामान्यं
सर्वगतं स्वाश्रयसर्वगतं वा। प्रथमे सर्ववस्तुसंकरप्रसङ्गः। अपसिद्धान्तापत्तिश्च। यतः प्रोक्तं
प्रशस्तपादेन स्वविषयसर्वगतमिति। किं च विद्यमाने घटे वर्तमानं सामान्यमन्यत्र जायमानेन
संबध्यमानं तस्मादागच्छत्संबध्यते अनागच्छद्वा। आद्ये द्रव्यत्वापत्तिः। द्वितीये संबन्धानुपपत्तिः।
किं च विनष्टे घटे सामान्यमवतिष्ठते विनश्यति स्थानान्तरं गच्छति वा। प्रथमे
निराधारत्वापत्तिः। द्वितीये नित्यत्ववाचोयुक्त्ययुक्तिः। तृतीये द्रव्यत्वप्रसक्तिः। इत्यादिदूषणग्रह -
ग्रस्तत्वात्सामान्यमप्रामाणिकम्। तदुक्तम् -
अन्यत्र वर्तमानस्य ततोन्यस्थानजन्मनि। तस्मादचलतः स्थानाद्धृत्तिरित्यतियुक्तता॥ यत्रासौ
वर्तते भावस्तेन संबध्यते न तु। तद्देशिनं च व्याप्नोति किमप्येतन्महाद्भुतम्॥ न याति न च
तत्रासीदस्ति पश्चान्न चांशवत्। जहाति पूर्वं नाधारमहो व्यसनसंततिः॥इति।
अनुवृत्तप्रत्ययः किमालम्बन इति चेत्- अङ्ग, अन्यापोहालम्बन एवेति संतोष्टव्यमायुष्मतेत्य-
लमतिप्रसङ्गेन।
सर्वस्य संसारस्य दुःखात्मकत्वं सर्वतीर्थकरसंमतम्। अन्यथा तन्निविवृत्सूनां तेषां
तन्निवृत्त्युपाये प्रवृत्यनुपपत्तेः। तस्मात्सर्वं दुःखं दुःखमिति भावनीयम्। ननु किं वदिति पृष्टे
दृष्टान्तः कथनीय इति चेत्- मैवम्। स्वलक्षणानां क्षणानां क्षणिकतया सालक्षण्याभावादेतेन
सदृशमपरमिति वक्तु मशक्यत्वात्। ततः स्वलक्षणं स्वलक्षणमिति भावनीयम्। एवं शून्यं
शून्यमित्यपि भावनीयम्। स्वप्ने जागरणे च न मया दृष्टमिदं रजतादीति
विशिष्टनिषेधस्योपलम्भात् यदि दृष्टं सत्तदा तद्विशिष्टस्य दर्शनस्येदंताया अधिष्ठानस्य च
तस्मिन्नध्यस्तस्य रजतत्वादेस्तत्संबन्धस्य च समवायादेः सत्त्वं स्यात्। न चैतदिष्टं
कस्यचिद्वादिनः। न चार्धजरतीयमुचितम्। न हि कु कु टयाः एकोभागः पाकायापरो भागः प्रसवाय
कल्प्यतामिति कल्प्यते। तस्मादध्यस्ताधिष्ठानतत्संबन्धदर्शनद्रष्टृणां मध्य एकस्यानेकस्य वा
असत्वे निषेधविषयत्वेन सर्वस्यासत्त्वं वलादापतेतिति भगवतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा
इत्थमचीकथन्- भिक्षुपादप्रसारणन्यायेन क्षणभङ्गाद्यमिधानमुखेन स्थायित्वानुकू ल-
वेदनीयत्वानुगतत्वसर्वसत्यत्वभ्रमव्यावर्तनेन सर्वशून्यतायामेव पर्यवसानम्। अतस्तत्त्वं
सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव। तथा हि। यदि घटादेः सत्त्वं स्वभावस्तर्हि
कारकव्यापारवैयर्थ्यम्। असत्त्वं स्वभाव इति पक्षे प्राचीन एव दोषः प्रादुःष्यात्। यथोक्तम् - न
मतः कारणापेक्षा व्योमादेरिव युज्यते। कार्यस्यासंभवी हेतुः खपुष्पादेरिवासतः॥ इति॥
विरोधादितरौ पक्षावनुपन्नौ। तदुक्तं भगवता लङ्कावतारे -
बुद्धया विविच्चमानानां स्वभावो नावधार्यते। अतो निरभिलप्यास्ते निःस्वभावाश्च दर्शिताः।
इति। इदं वस्तुबलायातं यद्वदन्ति विपश्चितः। यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते तथा तथा।
इति च।
न क्वचिदपि पक्षे व्यवतिष्ठत इत्यर्थः। दृष्टार्थव्यवहारश्च स्वप्नव्यवहारवत्संवृत्या संगच्छते। अत
एवोक्तम्- परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ। कु णपः कामिनी भक्ष्य इति तिस्रो विकल्पनाः॥
इति।
तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौ परनिर्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्थाः
नास्माकमुपदेश्यं किं चिदस्तीति। शिष्यैस्तावद्योगश्चाचारश्चेति द्वयं करणीयम्। तत्राप्राप्तस्यार्थस्य
प्राप्तये पर्यनुयोगो योगः। गुरूक्तस्यार्थस्याङ्गीकरणमाचारः। गुरूक्तस्याङ्गीकरणादुत्तमाः
पर्यनुयोगस्याकरणादधमाश्च। अतस्तेषां माध्यमिका इति प्रसिद्धिः।
गुरूक्त भावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्यान्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति
पर्यनुयोगस्य करणात्के षांचिद्योगाचारप्रथा। एषा हि तेषां परिभाषास्वयंवेदनं तावदङ्गीकार्यम्।
अन्यथा जगदान्ध्यं प्रसज्येत। तत्कीर्तितं धर्मकीर्तिनाअप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति।
इति।
बाह्यं ग्राह्यं नोपपद्यत एव। विकल्पानुपपत्तेः। अर्थों ज्ञानग्राह्यो भवन्नुत्पन्नो भवति अनुत्पन्नो
वा। न पूर्वः। उत्पन्नस्य स्थित्यभावात्। नापरः। अनुत्पन्नस्यासत्त्वात्। अथ मन्येथाः अतीत
एवार्थों ज्ञानग्राह्यस्तज्जनकत्वादिति तदपि बालभाषितम्। वर्तमानतावभासविरोधात्।
इन्द्रियादेरपि ज्ञानजनकत्वेन ग्राह्यत्वप्रसङ्गाच्च। किं च ग्राह्यः किं परमाणुरूपोर्थोंवयविरूपो वा।
न चरमः। कृत्स्नैकदेशविकल्पादिना तन्निराकरणात्। न प्रथमः। अतीन्द्रियत्वात्। षट्के न
युगपद्योगस्य बाधकत्वाच्च। यथोक्तम्-
षट्के न युगपद्योगात्परमाणोः षडंशता। तेषामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः।इति।
तस्मात्स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रकाशिका प्रकाशवदिति
सिद्धम्। तदुक्तम् - नान्योनुभाव्यो बुद्धयास्ति तस्या नानुभवोऽपरः। ग्राह्यग्राहकवैधुर्यात्स्वयं
सैव प्रकाशते॥ इति॥
ग्राह्यग्राहकयोरभेदश्चानुमातव्यः। यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनात्मा। वेद्यन्ते
तैश्च नीलादयः। भेदे हि सत्यधुनानेनार्थस्य संबन्धित्वं न स्यात्। तादात्म्यस्य
नियमहेतोरभावात्। तदुत्पत्तेरनियामकत्वात्। यश्चायं ग्राह्याग्राहकसंवित्तीनां पृथगवभासः स
एकस्मिंश्चन्द्रमसि द्वित्वावभास इव भ्रमः। अत्राप्यनादिरविच्छिन्नप्रवाहाभेदवासनैव निमित्तम्।
यथोक्तम् -
सहोपलम्भनियमादभेदो नीलतद्धियोः। भेदश्च भ्रान्तिविज्ञानैर्द्दश्येतेन्दाविवाद्वये॥ इति।
अविभागोपि बुद्धयात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदावानिव लक्ष्यते॥ इति च।
न च रसवीर्यविपाकादिसमानमाशामोदकोपार्जितमोदकानां स्यादिति वेदितव्यम्। वस्तुतो
वेद्यवेदकाकारविधुराया अपि बुद्धेर्व्यवहर्तृपरिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया
तिमिराद्युपहताक्ष्णां के शोडुण्कनाडीज्ञानभेदवदनाद्युपल्पववासनासामर्थ्याव्यवस्थोपपत्तेः पर्यनुयोगा-
योगात् यथोक्तम् -
अवेद्यवेदकाकारा यथा भ्रान्तौर्निरीक्ष्यते। विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा॥ तथा कृतव्यवस्थेयं
के शादिज्ञानभेदवत्। यदा तदा न संचोद्या ग्राह्यग्राहकलक्षणा॥इति॥
तस्माद् बुद्धिरेवानादिवासनावशादनेकाकारावभासत इति सिद्धम्। ततश्च प्रागुक्तभाव-
नाप्रचयबलान्निखिलवासनोच्छे दविगलितविविधविषयाकारोपल्पवविशुद्धविज्ञानोदयोहोदय इति।
अन्ये तु मन्यन्ते। यथोक्तं बाह्यं वस्तुजातं नास्तीति तदयुक्तम् प्रमाणाभावात्। न च सहोप-
लम्भनियमः प्रमाणमिति वक्तव्यम्। वेद्यवेदकयोरभेदसाधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन
संदिग्धविपक्षव्यावृत्तिकत्वात्। ननु भेदे सहोपलम्भनियमात्मकं साधनं न स्यादिति चेन्न।
ज्ञानस्यान्तर्मुखतया ज्ञेयस्य बहिर्मुखतया च भेदेन प्रतिभासमानत्वात्। एकदेशत्वैककालत्व-
लक्षणसहत्वनियमासंभवाच्च। किं च नीलाद्यर्थस्य ज्ञानाकारत्वेहमिति प्रतिभासः स्यात्। न
त्विदमिति प्रतिपत्तिः। प्रत्ययादव्यतिरेकात्। अथोच्यते ज्ञानस्वरूपोपि नीलाकारो भ्रान्त्या
बहिर्वद्भेदेन प्रतिभासत इति न च तत्राहमुल्लेख इति। तथोक्तम्- परिच्छेदान्तराद्योयं भागो
बहिरिव स्थितः। ज्ञानस्याभेदिनो भेदप्रतिभासोप्युपप्लवः॥ इति। यदन्तर्ज्ञेयतत्त्वं
तद्वहिर्वदवभासते। इति च॥
तदयुक्तम्। बाह्यार्थाभावे तद्वयुत्पत्तिरहिततया बहिर्वतदित्युपमानोक्ते रयुक्तेः। न हि वसुमित्रो
वन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत। भेदप्रतिभासस्य भ्रान्तत्वेऽभेदप्रतिभास्य प्रामाण्यं
तत्प्रमाण्ये च भेदप्रतिभासस्य भ्रान्तत्वमिति परस्पराश्रयप्रसङ्गाच्च। अविसंवादान्नीलतादिकमेव
संविदाना बाह्यमेवोपाददते जगत्युपेक्षन्ते चान्तरमिति व्यवस्थादर्शनाच्च। एवं चायमभेदसाधको
हेतु र्गोंमयपायसीयन्यायवदाभासतां भजेत्। अतो बहिर्वदिति वदता बाह्यं ग्राह्यमेवेति
भावनीयमिति भवदीय एव बाणो भवन्तं प्रहरेत्। ननु ज्ञानाद्भिन्नकालस्यार्थस्य
ग्राह्यत्वमनुपपन्नमिति चेत्- तदनुपपन्नम्। इन्द्रियसंनिकृष्टस्य विषयस्योत्पाद्ये ज्ञाने
स्वाकारसमर्पकतया समर्पितेन चाकारेण तस्यार्थस्यानुमेयतोपपत्तेः। अत एव पर्यनुयोगपरिहारौ
समग्राहिषाताम् - भिन्नकालं कथं ग्राह्यमिति चेन्द्राह्यतां विदुः । हेतुत्वमेव च
व्यक्ते र्ज्ञानाकारार्पणक्षमम्॥ इति॥
तथा च यथा पुष्टया भोजनमनुमीयते यथा च भाषया देशः यथा वा संभ्रमेण स्नेहः तथा
ज्ञानाकारेण ज्ञेयमनुमेयम्। तदुक्तम् -
अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम्। तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता॥इति।
न हि वित्तिसत्तैव तद्वेदना युक्ता। तस्याः सर्वत्राविशेषात्। तां तु सारूप्यमाविशत्सरूपयितुं
घटयेदिति च। तथा बाह्यार्थसद्भावे प्रयोगः- ये यस्मिन्सत्यपि कादाचित्कास्ते सर्वे
तदतिरिक्तसापेक्षाः। यथा-अविवक्षति अजिगमिषति मयि वचनगमनप्रतिभासा विवक्षु-
जिगमिषुपुरुषान्तरसंतानसापेक्षाः। तथा च विवादाध्यासिता प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने
कदाचिदेव नीलाद्युल्लेखिन इति तथालयविज्ञानं नामाहमास्पदं विज्ञानम्। नीलाद्युल्लेखि च
विज्ञानं प्रवृत्तिविज्ञानम्। यथोक्तम् -
तत्स्यादालयविज्ञानं यद्भवेदहमास्पदम्। तत्स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत॥इति्।
तस्मादालयविज्ञानसंतानातिरिक्तः कदाचित्कप्रवृत्तिविज्ञानहेतुर्बाह्योर्थों ग्राह्य एव न वासना-
परिपाकप्रत्ययकादाचित्कत्वात्कदाचिदुत्पाद इति वेदितव्यम्।
विज्ञानवादिनये हि वासना नामैकसंतानवर्तिनामालयविज्ञानानां तत्तत्प्रवृत्तिविज्ञानजननशक्तिः।
तस्याश्च स्वकार्योंत्पादं प्रत्याभिमुख्यं परिपाकः। तस्य च प्रत्ययः कारणं स्वसंतानवर्तिपूर्वक्षणः
कक्षीक्रियते। संतानान्तरनिबन्धनत्वानङ्गीकारात्। ततश्च प्रवृत्तिविज्ञानजनकालयविज्ञान-
वर्तिवासनापरिपाकं प्रति सर्वेप्यालयविज्ञानवर्तिनः क्षणाः समर्था एवेति वक्तव्यम्। न चेदेकोपि
न समर्थः स्यात्। आलयविज्ञानसंतानवर्तित्वाविशेषात्। सर्वे समर्था इति पक्षे कालक्षेपानुपपत्तिः।
ततश्च कादाचित्कत्वनिर्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः
प्रत्यान्प्रतीत्योत्पद्यन्त इति चतुरेणानिच्छताप्यच्छमतिना स्वानुभवमनाच्छाद्य परिच्छे तव्यम्।
ते चत्वारः प्रत्ययाः प्रसिद्धा आलम्बनसमनन्तरसहकार्यधिपतिरूपाः। तत्र ज्ञानपदवेदनीयस्य
नीलाद्यवभासस्य चित्तस्य नीलादालम्बनप्रत्ययान्नीलाकारता भवति। समनन्तरप्रत्ययात्प्राचीन-
ज्ञानाद्वोधरूपता। सहकारिप्रत्ययादालोकात्स्पष्टता। चक्षुषोधिपतिप्रत्ययाद्विषयग्रहणाप्रतिनियमः।
उदितस्य ज्ञानस्य रसादिसाधारण्येप्राप्ते नियामकं चक्षुरधिपतिर्भवितुमर्हति। लोके
नियामकस्याधिपत्तित्वोपलम्भात्। एवं चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि।
सोयं चित्तचैत्तात्मकः स्कन्ध पञ्चविधो रूपविज्ञानवेदनासंज्ञासंस्कारसंज्ञकः। तत्र रूप्यन्त
एभिर्विषया इति रूपयन्त इति च व्युत्पत्या सविषयाणीन्द्रियाणि रूपस्कन्धः। आलयविज्ञान-
प्रवृत्तिविज्ञानप्रवाहो विज्ञानस्कन्धः। प्रागुक्तस्कन्धद्वयसंबन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहो
वेदनास्कन्धः गौरित्यादिशब्दोल्लेखिसंवित्प्रवाहः संज्ञास्कन्धः। वेदनास्कन्धनिबन्धना
रागद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो धर्माधर्मों च संस्कारस्कन्धः।
तदिदं सर्वं दुखं दुःखायतनं दुःखसाधनं चेति भावयित्वा तन्निरोधोपायं तत्त्वज्ञानं संपादयेत्।
अत एवोक्तं दुःखसमुदायनिरोधमार्गाश्चत्वार आर्यबुद्धस्याभिमतानि तत्त्वानि। तत्र दुःखं
प्रसिद्धम्। समुदायो दुःखकारणम्। तद् द्विविधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धनश्च। तत्र
प्रत्ययोपनिबन्धनस्य संग्राहकं सूत्रम् - इदं प्रत्ययफलम्' इति इदं कार्यं ये अन्ये हेतवः
प्रत्ययन्ति गच्छन्ति तेषामयमानानां हेतूनां भावः प्रत्ययत्वं कारणसमवायः, तन्मात्रस्य फलं
न चेतनस्य कस्यचिदिति सूत्रार्थः। यथा बीजहेतुरङ्कु रो धातूनां षष्णां समवायाज्जायते। तत्र
पृथिवीधातुरङ्कु रस्य काठिन्यं गन्धं च जनयति। अब्धातुः स्नेहं रसं च जनयति। तेजोधातू
रूपमौष्ण्यं च। वायुधातुः स्पर्शनं चलनं च। आकाशधातुरवकाशं शब्दं च। ऋतुधातुर्यथायोगं
पृथिव्यादिकम्। हेतुपनिबन्धनस्य च संग्राहकं सूत्रम्- 'उत्पादाद्वा तथागतानामनुत्पादाद्वा
स्थितैवैषां धर्माणां धर्मता धर्मस्थितिता धर्मनियामकता च प्रतीत्यसमुत्पादानुलोमता' इति।
तथागतानां बुद्धानां मते धर्माणां कार्यकारणरूपाणां या धर्मता कार्यकारणभावरूपा
एषोत्पादादनुत्पादाद्वास्थिता। यस्मिन्सति यदुत्पद्यते यस्मिन्नसति यन्नोत्पद्यते तत्तस्य
कारणस्य कार्यमिति। धर्मतेत्यस्य विवरणं धर्म स्थितितेत्यादि। धर्मस्य कार्यस्य
कारणानतिक्रमेण स्थितिः। स्वार्थिकस्तलप्रत्ययः। धर्मस्य कारणस्य कार्यं प्रति नियामकता।
नन्वयं कार्यकारणभावश्चेतनमन्तरेण न संभवतीत्यत उक्तं प्रतीत्येति। कारणे सति तत्प्रतीत्य
प्राप्य समुत्पादेनुलोमतानुसारिता या सैव धर्मतोत्पादादनुत्पादाद्वा धर्माणां स्थिता। न चात्र
कश्चिच्चेतनोधिष्ठातोपलभ्यत इति सूत्रार्थः। प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो यथा-
बीजादङ्कु रोङ्कु रात्काण्डं काण्डान्नालो नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलम्। न चात्र बाह्ये
समुदाये कारणं बीजादि कार्यमङ्कु रादि वा चेतयते अहमङ्कु रं निर्वर्तयामि अहं बीजेन निर्वतित
इति। एवमाध्यात्मिके ष्वपि कारणद्वयमवगन्तव्यम्। पुरः स्थिते प्रमेयाब्धौ ग्रन्थविस्तरभीरुभिः।
इति न्यायेनोपरम्यते। तदुभयनिरोधः तदनन्तरं विमलज्ञानोदयो वा मुक्तिः। तन्निरोधोपायो
मार्गः। स च तत्त्वज्ञानम्। तच्च प्राचीनभावनाबलाद्भवतीति परमं रहस्यम्। सूत्रस्यान्तं पृच्छतां
कथितं भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्त्विति। भगवताभिहिततया
सौत्रान्तिकसंज्ञा संजातेति।
के चन बौद्धाः-बाह्येषु गन्धादिष्वान्तरेषु रूपादिस्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्वं
शून्यमिति प्राथमिकान्विनेयानचकथद्भगवान् द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टान्विज्ञानमेवैकं
सदिति तृतीयानुभयं सत्यमित्यास्थितान्विज्ञेयमनुमेयमिति सेयं विरुद्धा भाषेति वर्णयन्तः
वैभाषिकाख्यया ख्याताः। एषा हि तेषां परिभाषा समुन्मिषति। विज्ञेयानुमेयत्ववादे
प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्त्यनुपपत्तिः सकल-
लोकानुभवविरोधश्च। ततश्चार्थों द्विविधः- ग्राह्योध्यवसेयश्च।
तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणम्। कल्पनापोढत्वात्। अध्यवसायः सविकल्पकरूपोऽप्रमाणम्।
कल्पनाज्ञानत्वात्। तदुक्तम् -
कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम्। विकल्पो वस्तुनिर्भासादसंवादादुपल्पवः॥इति। ग्राह्यं
वस्तु प्रमाणं हि ग्रहणं यदितोन्यथा। न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम्॥ इति च॥
ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्तस्यार्थप्राप्तिः संवादश्चोपपद्येयातामिति चेत्- न
तद्भद्रम्। मणिप्रभाविषयमणिविकल्पन्यायेन पारंपर्येणार्थप्रातिलम्भसंभवेन तदुपपत्तेः। अवशिष्टं
सौत्रान्तिकप्रस्तावेप्रपञ्चितमिति नेह प्रतन्यते। न च विनेयाशयानुरोधेनोपदेशभेदः सांप्रदायिको
न भवतीति भणितव्यम्। यतो भणितं बोधिचित्तविवरणे -
देशना लोकनाथानां सत्त्वाशयवशानुगाः। भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः।
गम्भीरोत्तानभेदेन क्वचिच्चोभयलक्षणा। भिन्ना हि देशनाभिन्ना शून्यताद्वयलक्षणा॥इति।
द्वादशायतनपूजा श्रेयस्करीति बौद्धनये प्रसिद्धम् -
अर्थानुपार्ज्य बहुशो द्वादशायतनानि वै। परितः पूजनीयानि किमन्यैरिह पूजितैः॥ ज्ञानेन्द्रियाणि
पञ्चैव तथा कर्मेन्द्रियाणि च। मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुद्धैः॥ इति। विवेकविलासे
बौद्धमतमित्थमभ्यधायिबौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम्। आर्यसत्याख्यया
तत्त्वचतुष्टयमिदं क्रमात्। दुःखमायतनं चैव ततः समुदयो मतः। मार्गश्चेत्यस्य च व्याख्या
क्रमेण श्रूयतामतः॥ दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः। विज्ञानं वेदनां संज्ञा
संस्कारो रूपमेव च॥ पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्चमानसम्। धर्मायतनमेतानि
द्वादशायतनानि तु॥ रागादीनां गणो यस्मात्समुदेति नृणां हृदि। आत्मात्मीयस्वभावाख्यः स
स्यात्समुदयः पुनः॥ क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा। स मार्ग इति विज्ञेयः स च
मोक्षोभिधीयते॥ प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा। चतुष्प्रस्थानिका बौद्धाः ख्याता
वैभाषिकादयः॥ अर्थोंज्ञानान्वितो वैभाषिके ण बहु मन्यते। सौत्रान्तिके न प्रत्यक्षग्राह्योर्थों न
बहिर्मतः॥ आकारसहिता बुद्धिर्योंगाचारस्य संमता। के वलां संविदं स्वस्थां मन्यन्ते मध्यमाः
पुनः॥ रागादिज्ञानसंतानवासनोच्छेदसंभवा। चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता॥ कृत्तिः
कमण्डलुर्मौण्डयं चीरं पूर्वाह्णभोजनम्। संघो रक्ताम्बरत्वं च शिश्रिये बौद्धभिक्षुभिः॥
(वि.वि.8/265-275) इति।

इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे बौद्धदर्शनम्।