प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सर्वदर्शनसंग्रहः

अथ रामानुजदर्शनम् ॥4॥

तदेतदार्हतमतं प्रामाणिकगर्हणमर्हति। न ह्येकस्मिन्वस्तुनि परमार्थे सति परमार्थसतां
युगपत्सदसत्त्वादिधर्माणां समावेशः संभवति। न च सदसत्त्वयोः परस्परविरुद्धयोः
समुच्चयासंभवे विकल्पः किं न स्यादिति वदितव्यम्। क्रिया हि विकल्प्यते न वस्त्विति
न्यायात्। न च
एनकान्तं जगत्सर्वं हेरम्बनरसिंहवत्।
इति दृष्टान्तावष्टम्भवशादेष्टव्यम्। एकस्मिन्देशे गजत्वं सिंहत्वं वाऽपरस्मिन्नरत्वमिति देशभेदेन
विरोधाभावेन तस्यैकस्मिन्देश एव सत्त्वासत्त्वादिनानेकान्तत्वाभिधाने दृष्टान्तानुपपत्तेः। ननु
द्रव्यात्मना सत्वं पर्यायात्मना तदभाव इत्युभयमप्युपपन्नमिति चैन्मैवम्। कालभेदेन हि
कस्याचित्सत्त्वमसत्त्वं च स्वभाव इति न कश्चिद्दोषः। न चैकस्य ह्रस्वत्वदीर्घत्ववदनेकान्तत्वं
जगतः स्यादिति वाच्यम्। प्रतियोगिभेदेन विरोधाभावात्। तस्मात्प्रमाणाभावाद्युगपंत्सत्त्वासत्त्वे
परस्परविरुद्धे नैकस्मिन्वस्तुनि वस्तुं युक्ते । एवमन्यासामपिभङ्गीनां भङ्गोवगन्तव्यः। किं च
सर्वस्यास्य मूलभूतः सप्तभङ्गिनयः स्वयमेकोन्तोनेकान्तो वा। आद्ये सर्वमनेकान्तमिति
प्रतिज्ञाव्याघातः। द्वितीये विवक्षितार्थासिद्धिः। अनेकान्तत्वेनासाधकत्वात्। तथा
चेयमुभयतःपाशा रज्जुः स्याद्वादिनः स्यात्। अपि च नवत्वसप्तत्वादिनिर्धारणस्य फलस्य
तन्निर्धारयितुः प्रमातुश्च तत्करणस्य प्रमाणस्य प्रमेयस्य च नवत्वादेरनियमे साधु
समर्थितमात्मनस्तीर्थकरत्वं देवानांप्रियेणार्हतमतप्रवर्तके न। तथा जीवस्य देहानुरूपपरिमाण-
त्वाङ्गीकारे योगबलादनेकदेहपरिग्राहकयोगिशरीरेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत।
मनुजशरीरपरिमाणो जीवो मतङ्गजदेहं कृत्स्नं प्रवेष्टुं न प्रभवेत्। किं च गजादिशरीरं परित्यज्य
पिपीलिकाशरीरं विशतः प्राचीनशरीरसंनिवेशविनाशोपि प्राप्नुयात्। न च यथा प्रदीपप्रभाविशेषः
प्रपाप्रासादाद्युदरवर्तिसंकोचविकाशवांस्तथाजीवोपि मनुजमतङ्गजादिशरीरेषु स्यादित्येषितव्यम्।
प्रदीपवदेव सविकारत्वेनानित्यत्वप्राप्तौ कृतप्रणाशाकृताभ्यागमप्रसङ्गात्। एवं प्रधानमल्ल-
निवर्हणन्यायेन जीवपदार्थद्रूषणाभिधानदिशान्यत्रापि दूषणमुत्प्रेक्षणीयम्। तस्मान्नित्यनिर्दोंष-
श्रुतिविरुद्धत्वादिदमुपादेयं न भवति। तदुक्तं भगवता व्यासेन-नैकस्मिन्नसंभवात्
(ब्र.सू.2/2/31) इति।
रामानुजेन च जैनमतनिराकरणपरत्वेन तदिदं सूत्रं व्याकारि।
एष हि तस्य सिद्धान्तः चिदचिदीश्वरभेदेन भोक्तृभोग्यनियामकभेदेन च व्यवस्थितास्त्रयः पदार्था
इति। तदुक्तम् -
ईश्वरश्चिदचिश्चेति पदार्थत्रितयं हरिः। ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यमचित्पुनः।इति।
अपरे पुनरशेषविशेषप्रत्यनीकं चिन्मात्रं ब्रह्मैव परमार्थः। तच्च नित्यशुद्धबुद्धमुक्तस्वभावमपि
तत्त्वमसि (छा.6/8/7) इत्यादि- सामानाधिकरण्याधिगतजीवैक्यं बध्यते मुच्यते च।
तदतिरिक्तनानाविधभोक्तृभोक्तव्यादिभेदप्रपञ्चः सर्वोंपि तस्मिन्नविद्यया परिकल्पितः सदेव
सोम्येदमग्र आसीदेकमेवाद्वितीयम् ( छा.6/2/1) इत्यादि वचननिचयप्रामाण्यादिति ब्रुवणा तरति
शोकमात्मवित् ( छ.7/1/3) इत्यादिश्रुतिशिरः शतवशेन निर्विशेषब्रह्मात्मैकत्वविद्ययानाद्य-
विद्यानिवृत्तिमङ्गीकु र्वाणाः।
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति (का.2.1)
इति भेदनिन्दाश्रवणेन पारमार्थिकं भेदं निराचक्षाणां विचक्षणंमन्यास्तमिमं विभागं न सहन्ते।
तत्रायं समाधिरभिधीयते। भवेदेतदेवं यद्यविद्यायां प्रमाणं विद्येत। नन्विदमनादि भावरूपं
ज्ञाननिवर्त्यमज्ञानमहमज्ञो मानन्यं च न जानामीति प्रत्यक्षप्रमाणसिद्धम्। तदुक्तम् -
अनादि भावरूपं यद्विज्ञानेन विलीयते। तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षते॥ (चित्सुखी 1/9)
इति।
न चैतज्ज्ञानाभावविषयमित्याशङ्कनीयम्। को ह्येवं ब्रूयात्प्रभाकरकरावलम्बी भट्टदत्तहस्तो वा।
नाद्यः -
स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किं चित्कैश्चिद्रूपं कदाचन।
भावान्तरमभावो हि कयचित्तु व्यपेक्षया। भावान्तरादभावोन्यो न कश्चिदनिरूपणात्।
इति वदता भावव्यतिरिक्तस्याभावस्यानभ्युपगमात्। न द्वितीयः। अभावस्य षष्ठप्रमाणगोचरत्वेन
ज्ञानस्य नित्यानुमेयत्वेन च तदभावस्य प्रत्यक्षविषयत्वानुपपत्तेः। यदि पुनः प्रत्यक्षाभाववादी
कश्चिदेवमाचक्षीत तं प्रत्याचक्षीत। अहमज्ञ इत्यस्मिन्ननुभवेहमित्यात्मनोऽभावधर्मितया ज्ञानस्य
प्रतियोगितया चावगतिरस्ति न वा। अस्ति चेद्विरोधादेव न ज्ञानाभावानुभवः। न
चेद्धर्मिप्रतियोगिज्ञानसापेक्षो ज्ञानाभावानुभवः सुतरां न संभवति। तस्याज्ञानस्य भावरूपत्वे
प्रागुक्तदषणाभावादूयमनुभवो भावरूपाज्ञानगोचर एवाभ्युपगन्तव्य इति।
तदेतद्गगनरोमन्थायितम्। भावरूपस्याज्ञानस्य ज्ञानाभावेन समानयोगक्षेमत्वात्। तथा हि-
विषयत्वेनाश्रयत्वेन चाज्ञानस्य व्यावर्तकतया प्रत्यगर्थः प्रतिपन्नो न वा। प्रतिपन्नश्चेत्स्वरूप-
ज्ञाननिवर्त्यं तदज्ञानमिति तस्मिन्प्रतिपन्ने कथंकारमवतिष्ठते। अप्रतिपन्नश्चेद्वयावर्त्तकाश्रय-
विषयशून्यमज्ञानं कथमनुभूयेत। अथ विशदः स्वरूपावभास एवाज्ञानविरोधी नाज्ञानेन सह
भासत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोध इति हन्त तर्हि ज्ञानाभावेपि
समानमेतदन्यत्राभिनिवेशात्। तस्मादुभयाभ्युपगतज्ञानाभाव एवाहमज्ञो मानन्यं च न
जानामीत्यनुभवगोचर इत्यभ्युपगन्तव्यम्।
अस्तु तर्ह्यनुमानं मानं-विवादास्पदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्य-
स्वदेशगतवस्त्वन्तरपूर्वकप्रकाशितार्थप्रकाशकत्वादन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति। तदपि न
क्षोदक्षमम्। अज्ञानेप्यनभिमताज्ञानान्तरसाधनेपसिद्धान्तापातात्। तदसाधनेनैकान्तिकत्वात्।
दृष्टान्तस्य साधनविकलत्वाच्च। न हि प्रदीपप्रभाया अप्रकाशितार्थ- प्रकाशकत्वं संभवति।
ज्ञानस्यैव प्रकाशकत्वात्। सत्यपि प्रदीपे ज्ञानेन विषयप्रकाशसंभवात्। प्रदीपप्रभायास्तु
चक्षुरिन्द्रियस्य ज्ञानं समुत्पादयतो विरोधिसंतमसनिरसनद्वारेणोपकारकत्वमात्रमेवेत्य-
लमतिविस्तरेण।
प्रतिप्रयोगश्च विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रितम् अज्ञानत्वाच्छु क्तिकाद्यज्ञानवदिति। ननु
शुक्तिकाद्यज्ञानस्याश्रयस्य प्रत्यगर्थस्य ज्ञानमात्रस्वभावत्वमेवेति चेन्मैवं शङ्किष्ठाः। अनुभूतिर्हि
स्वसद्भावेनैव कस्यचिद्वस्तुनो व्यवहारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा
सकर्मकोनुभवितुरात्मनो धर्माविशेषः। अनुभवितुरात्मत्वमात्मवृत्तिगुणविशेषस्य ज्ञानत्व-
मित्याश्रयणात्। ननु ज्ञानरूपस्यात्मनः कथं ज्ञानगुणकत्वमिति चेत्तदसारम।यथा् हि
मणिद्युमणिप्रभृति तेजोद्रव्यं प्रभावद्रूपेणवतिष्ठमानं प्रभारूपगुणाश्रयः। स्वाश्रयादन्यत्रापि
वर्तमानत्वेन रूपवत्त्वेन च प्रभा द्रव्यरूपापि तच्छेषत्वनिबन्धनगुणव्यवहारा। एवमयमात्मा
स्वप्रकाशचिद्रूप एव चैतन्यगुणः। तथा च श्रुतिः- स यथा सैन्धवघनोनन्तरोऽबाह्यः कृत्स्नाः
प्रज्ञानधन एव। (बृ.4/5)। अत्रायं पुरुषः स्वयंज्योतिर्भवति (बृ.4/3/9)। न हि
विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते (बृ.4/3/30) अथ यो वेदेदं जिघ्राणीति स आत्मा
(छा.8/12/4) योयं विज्ञानमयः प्राणेषु हृद्यन्तर्ज्योंतिः पुरुषः (बृ.4/3/7)। एष हि द्रष्टा स्प्रष्टा
श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः (प्र.4/9) इत्यादिका।
न च अनृतेन हि प्रत्यूढाः (छा.8/3/2) इति श्रुतिरविद्यायां प्रमाणमित्याश्रयितुं शक्यम्।
ऋतेतरविषयो ह्यनृतशब्दः। ऋतशब्दश्च कर्मवचनः। ऋतं पिबन्तौ (का.3/1) इति वचनात्। ऋतं
तद्वयतिरिक्तं सांसारिकाल्पफलं कर्मानृतं ब्रह्मप्राप्तिविरोधि। य एतं ब्रह्मलोकं न विन्दन्ति अनृतेन
हि प्रत्यूढाः (छा.8/3/2) इति वचनात्। मायां तु प्रकृतिं विद्यात् ( श्वे.4/10) इत्यादौ माया
शब्दो विचित्रार्थसर्गकरत्रिगुणात्मकप्रकृत्यभिधायको नानिर्वचनीयाज्ञानवचनः।
तेन मायासहस्रं तच्छम्बरस्याशुगामिना। बालस्य रक्षता देहमेकै कांशेन सूदितम्॥
(वि.पु.1/19/20)
इत्यादौ विचित्रार्थसर्गसमर्थस्य पारमार्थिकसैवासुराद्यस्त्रविशेषस्यैव मायाशब्दाभिधेयत्वोपलम्भात्।
अतो न कदाचिदपि श्रुत्या अनर्वचनीयाज्ञानप्रतिपादनम्। नाप्यैक्योपदेशान्यथानुपपत्त्या।
तत्त्वंपदयोः सविशेषब्रह्माभिधेयत्वेन विरुद्धयोर्जीवपरयोः स्वरूपैक्यस्य प्रतिपत्तुमशक्यतया-
र्थापत्तेरनुदयदोषदूषितत्वात्। तथा हि- तत्पदं निरस्तसमस्तदोषमनवधिकातिशया-
संख्येयकल्याणगुणास्पदं जगदुदयविभवलयलीलं ब्रह्म प्रतिपादयति। तदैक्षत बहु स्यां प्रजायेय
(छा.6/2/3) इत्यादिषु तस्यैव प्रकृतत्वात्। तत्समानाधिकरणं त्वंपदं चाचिद्विशिष्टजीवशरीरकं
ब्रह्माचष्टे। प्रकारद्वयविशिष्टैकवस्तुपरत्वात्सामानाधिकरण्यस्य।
ननु सोयं देवदत्त इतिवत्तत्त्वमिति पदयोर्विरुद्धभागत्यागलक्षणया निर्विशेषस्वरूपमात्मैक्यं
सामानाधिकरण्यार्थः किं न स्यात्। यथा सोयमित्यत्र तच्छब्देन देशान्तरकालान्तरसंबन्धी
पुरुषः प्रतीयते। इदंशब्देन च संनिहितदेशवर्तमानकालसंबन्धी। तयोः सामानाधिकरण्येनैक्य-
मवगम्यते। तत्रैकस्य युगपद्विरुद्धदेशकालप्रतीतिर्न संभवतीति द्वयोरपि पदयोः स्वरूपपरत्वे
स्वरूपस्य चैक्यं प्रतिपत्तुं शक्यम्। एवमत्रापि किं चिञ्जत्वसर्वज्ञत्वादिविरुद्धांशप्रहाणेना-
खण्डस्वरूपंलक्ष्यत इति चेत् -
विषमोयमुपन्यासः। दृष्टान्तेपि विरोधवैधुर्येण लक्षणागन्धासंभवात्। एकस्य तावद्
भूतवर्तमानकालद्वयसंबंन्धो न विरुद्धः। देशान्तरस्थितिर्भूता संनिहितदेशस्थितिर्वर्तत इति
देशभेदसंबन्धविरोधश्च कालभेदेन परिहरणीयः। लक्षणापाक्षेप्येकस्यैव पदस्य लक्षणत्वाश्रयणेन
विरोधपरिहारे पदद्वयस्य लाक्षणिकत्वस्वीकारो न संगच्छते। इतरथैकस्य वस्तुनस्तत्तेदंताविशिष्ट-
त्वावगाहनेन प्रत्यभिज्ञायाः प्रामाण्यानङ्गीकारे स्थायित्वासिद्धौ क्षणभङ्गवादी बौद्धो विजयेत।
एवमत्रापि जीवपरमात्मनोः शरीरात्मभावेन तादात्म्यं न विरुद्धमिति प्रतिपादितम्। जीवात्मा
हि ब्रह्मणः शरीरतया प्रकारत्वाद्रह्यात्मकः। य आत्मनि तिष्ठन्नात्मनोन्तरो यमात्मा न वेद
यस्यात्मा शरीरम् ( बृ.भा.3/7/22) इति श्रुत्यन्तरात्।
अत्यल्पमिदमुच्यते। सर्वे शब्दाः परमात्मन एव बाचकाः। न च पर्यायत्वम्। द्वारभेदसंभवात्।
यथा हि जीवस्य शरीरतया प्रकारभूतानि देवमनुष्यादिसंस्थानानीव सर्वाणि वस्तूनीति
ब्रह्मात्मकानि तानि सर्वाणि। अतः -
देवो मनुष्यो यक्षो वा पिशाचोरगराक्षसाः। पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पटः।
इत्यादयः सर्वे शब्दाः प्रकृतिप्रत्यययोगेनाभिधायकतया प्रसिद्धा लोके तद्वाच्चतया
प्रतीयमानतत्तत्संस्थानवद्वस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्य वाचकाः।
देवादिशब्दानां परमात्मपर्यन्तत्वमुक्तं तत्त्वमुक्तावल्यां चतुर्थसरे -
जीवं देवादिशब्दो वदति तदपृथक्सिद्धाभावाभिधानान्निष्कर्षाभावयुक्ताद् बहुरिह च दृढो
लोकवेदप्रयोगः। आत्मासंबन्धकाले स्थितिरनवगता देवमर्त्यादिमूर्तेर्जीवात्मानुप्रवेशाज्जगति
विभुरपि व्याकरोन्नामरूपे॥ (तत्त्वमु.4/82) इति।
अनेन देवादिशब्दानां शरीरविशिष्टजीवपर्यन्तत्वं प्रतिपाद्य संस्थानैक्याद्यभावे (तत्त्वमु.4/83)
इत्यादिना शरीरलक्षणं दर्शयित्वा शब्दैस्तन्वंशरूपप्रभृतिभिः (तत्त्वमु. 4/84) इत्यादिना
विश्वस्येश्वरादपृथक्सिद्धत्वमुपपाद्य निष्कर्षाकू त (तत्त्वमु.4/85) इत्यादिना पद्येन सर्वेषां शब्दानां
परमात्मपर्यन्तत्वं प्रतिपादितं तत्सर्वं तत एवावधार्यम्। अयमेवार्थः समर्थितो वेदार्थसंग्रहे
नामरूपश्रुतिव्याकरणसमये रामानुजेन।
किं च सर्वप्रमाणस्य सविशेषविषयतया निर्विशेषवस्तुनि न किमपि प्रमाणं समस्ति।
निर्विकल्पप्रत्यक्षेपि सविशेषमेव वस्तु प्रतीयते। अन्यथा सविकल्पके सोयमिति
पूर्वप्रतिपन्नप्रकारविशिष्टप्रतीत्यनुपपत्तेः।
किं च तत्त्वमस्यादिवाक्यं न प्रपञ्चस्य बाधकम्। भ्रान्तिमूलकत्वात् भ्रान्तिप्रयुक्तरज्जु-
सर्पवाक्यवत्। नापि ब्रह्मात्मैक्यज्ञानं निवर्तकम्। तत्र प्रमाणाभावस्य प्रागेवोपपादनात्। न च
प्रपञ्चस्य सत्यत्वप्रतिष्ठापनपक्ष एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाव्याकोपः। प्रकृतिपुरुषमहदहंकार-
तन्मात्रभूतेन्द्रियचतुर्दशभुवनात्मकब्रह्माण्डतदन्तरवर्तिदेवतिर्यङ्गमनुष्यस्थावरादिसर्वप्रकारसंस्थान
संस्थितं कार्यमपि सर्वं ब्रह्मैवेति कारणभूतब्रह्मात्मज्ञानादेव सर्वविज्ञानं भवतीत्येकविज्ञानेन
सर्वविज्ञान- स्योपपन्नतरत्वात्। अपि च ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे सर्वस्यासत्त्वादेवैक-
विज्ञानेन सर्वविज्ञानप्रतिज्ञा वाध्येत। नामरूपविभागानर्हसूक्ष्मदशावत्प्रकृतिपुरुषशरीरं ब्रह्म
कारणावस्थम्। जगतस्तदापत्तिरेव प्रलयः। नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म
कार्यावस्थम्। ब्रह्मणस्तथाविधस्थूलभावश्च सृष्टिरित्यभिधीयते एवं च कार्य कारणयोरनन्य-
त्वमप्यारम्भणाधिकरणे प्रतिपादितमुपपन्नतरं भवति। निर्गुणवादाश्चप्राकृतहेयगुणनिषेध-
विषयतया व्यवस्थिताः। नानात्वनिषेध- वादाश्चैकस्यैव ब्रह्मणः शरीरतया प्रकारभूतं सर्वं
चेतनाचेतनात्मकं वस्त्विति सर्वस्यात्मतया सर्वप्रकारं ब्रह्मैवावस्थितमिति सर्वात्मकब्रह्म-
पृथग्भूतवस्तुसद्भावनिषेधपरत्वाभ्युपगमेन प्रतिपादिताः।
किमत्र तत्त्वं भेदोऽभेद उभयात्मकं वा। सर्वं तत्त्वम्। तत्र सर्व शरीरतया सर्वप्रकारं
ब्रह्मैवावस्थितमित्यभेदोभ्युपेयते। एकमेव ब्रह्म नानाभूतचिदचित्प्रकारान्नानात्वेनावस्थितमिति
भेदाभेदौ। चिदचिदीश्वराणां स्वरूपस्वभाववैलक्षण्यादसंकराच्च भेदः। तत्र चिद्रपाणां ू
जीवात्मनामसंकु चितापरिच्छिन्ननिर्मलज्ञानरूपाणामनादिकर्मरूपाविद्यावेष्टितानां
तत्तत्कर्मानुरूपज्ञानसंकोचविकासौ भोग्यभूताचित्संसर्गस्तदनुगुणसुखदुःखोपभोगद्वयरूपा भोक्तृता
भगवत्प्रतिपत्तिर्भगवत्पदप्राप्तिरित्यादयः स्वभावाः। अचिद्वस्तूनां तु भोग्यभूतानामचेतनत्व-
मपुरुषार्थत्वं विकारास्पदत्वमित्यादयः। परस्येश्वरस्य भोक्तृभोग्ययोरन्तर्यामिरूपेणावस्थान-
मपरिच्छे द्यज्ञानैश्वर्यवीर्यशक्तितेजः प्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणगणता स्वसंकल्प-
प्रवृत्तस्वेतरसमस्तचिदचिद्वस्तुजाततास्वाभिमतस्वानुरूपैकरूपदिव्यरूपनिरतिशयविविधानन्तभूषण
तेत्यादयः।
वेङ्कटनाथेन त्वित्थं निरटङ्कि पदार्थविभागः -
द्रव्याद्रव्यप्रभेदान्मितमुभयविधं तद्विदस्तत्त्वमाहुः द्रव्यं द्वेधा विभक्तं जडमिति प्राच्यम-
व्यक्तकालो। अन्त्यं प्रत्यक्पराक्च प्रथममुभयथा तत्र जीवेशभेदान्नित्या भूतिर्मतिच्चेत्यपरमिह
जडामादिमां के चिदाहुः॥ (तत्त्वमु. 1/6) तत्र द्रव्यं दशावत्प्रकृतिरिह गुणैः सत्त्वपूर्वैरुपेता
कालोब्दाद्याकृतिः स्यादणुरवगतिमाञ्जीव ईशोन्य आत्मा। संप्रोक्ता नित्यभूति- स्त्रिगुणसमधिका
सत्त्वयुक्ता तथैव ज्ञातुर्ज्ञेयावभासो मतिरिति कथितं संग्रहाद् द्रव्यलक्ष्म॥ (तत्त्वमु. 1/7)
इत्यादिना।
तत्र चिच्छब्दवाच्या जीवात्मानः परमात्मनः सकाशद्भिन्ना नित्याश्च। तथा च श्रुतिः- द्वा सुपर्णा
सयुजा सखाया (मु.3/1/1/,श्वे,4/6) इत्यादिका। अत एवोक्तं नानात्मानो व्यवस्थातः
(वैःसू.3/2/20) इति। तन्नित्यत्वमपिश्रुतिप्रसिद्धम्-
न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो
न हन्यते हन्यमाने शरीरे॥ (का.2.18) इति।
अपरथा कृतप्रणाशाकृताभ्यागमप्रसङ्गः। अत एवोक्तं वीतरागजन्मादर्शनात् ( न्या.सू.3/1/25)
इति। तदणुत्वमपि श्रुति प्रसिद्धम् -
बालाग्रशतभागस्य शतधा कल्पितस्य च। भागो जीवः स विज्ञेयः स चानन्त्याय कल्यते॥
(श्वे.5/9)
इति। आराग्रमात्रः पुरुषः (श्वे.5/8) अणुरात्मा चेतसा वेदितव्यः (मु.3/1/9) इति च।
अचिच्छब्दवाच्यं दृश्यं जडं जगत्त्रिविधं भोग्यभोगोपकरणभोगायतनभेदात्। तस्य जगतः
कâर्तोंपादानं चेश्वरपदार्थः पुरुषोत्तमो वासुदेवादिपदवेदनीयः। तदुप्युक्तम् -
वासुदेवः परं ब्रह्म कल्याणगुणसंयुतः। भुवनानामुपादानं कर्ता जीवनियामकः॥इति॥
स एव वासुदेवः परमकारुणिको भक्तवत्सलः परमपुरुषस्तदपासकानुगुणत्तत्फलप्रदानाय ु
स्वलीलावशादर्चाविभवव्यूह सूक्ष्मान्तर्यामिभेदेन पञ्चधावतिष्ठते। तत्रार्चा नाम प्रतिमादयः।
रामाद्यवतारो विभवः। व्यूहश्चुर्विधो वासुदेवसंकर्षणप्रद्युम्नानिरुद्धसंज्ञकः। सूक्ष्मं संपूर्णषड्गुणं
वासुदेवाख्यं परं ब्रह्म। गुणा अपहतपाप्मत्वादयः। सोपहतापाप्मा विजरो विमृत्युर्विशोको
विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः (छा.8/7/3) इति श्रुतेः। अन्तर्यामी
सकलजीवनियामकः। य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति (बृ.मा.3/7/22) इति श्रुतेः।
तत्र पूर्वपूर्वमूत्युपासनया पुरुषार्थपरिपन्थिदुरितनिचयक्षये सत्युत्तरोत्तरमूत्युपास्त्यधिकारः।
तदुक्तम् -
वासुदेवः स्वभक्ते षु वात्सल्यात्तत्तदीहितम्। अधिकार्यानुगुण्येन प्रयच्छति फलं बहु॥ तदर्थं लीलया
स्वीयाः पञ्चर
् मूत्तीः करोति वै। प्रतिमादिकमर्चा स्यादवतारास्तु वैभवाः। संकर्षणो वासुदेवः
प्रद्युम्नश्चानिरुद्धकः। व्यूहश्चतुर्विधो ज्ञेयः सूक्ष्मं संपूर्णषड्गुणम्॥ तेदव वासुदेवाख्यं परं ब्रह्म
निगद्यते। अंतर्यामी जीवसंस्थो जीवप्रेरक ईरितः॥ य आत्मनीति वेदान्तवाक्यजालैर्निरूपितः।
अर्चोंपासनया क्षिप्ते कल्मषेधिकृतो भवेत्॥ विभवोपासने पश्चाद्वयूहोपास्तौ ततः परम्। सूक्ष्मे
तदनु शक्तः स्यादन्तर्यामिणमीक्षितुम्॥ इति॥
तदुपासनं च पञ्चविधमभिगमनमुपादानमिज्या स्वाध्यायो योग इति श्रीपञ्चरात्रेभिहितम्।
तत्राभिगमनं नाम देवतास्थानमार्गस्य संमार्जनोपलेपनादि। उपादानं गन्ध्पुष्पादिपूजा-
साधनसंपादनम्। इज्या नाम देवतापूजनम्। स्वाध्यायो नाम अर्थानुसंधानपूर्वको मन्त्रजपो
वैष्णवसूक्तस्तोत्रपाठो नामसंकीर्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च। योगो नाम देवतानुसंघानम्।
एवमुपासनाकर्मसमुच्चीतेन विज्ञानेन द्रष्टृदर्शने नष्टे भगवद्भक्तस्य तन्निष्ठस्य भक्तवत्सलः
परमकारुणिकः पुरुषोत्तमः स्वयाथात्म्यानुभवानुगुणनिरवधिकानन्दरूपं पुनरावृत्तिरहितं स्वपदं
प्रयच्छति। तथा च स्मृतिः -
मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम्। नाप्नुवन्ति महात्मानः संसिंद्धिं परमां गताः॥
(भ.गी.8/15) इति। स्वभक्तं वासुदेवोपि संप्राप्यानन्दमक्षयम्। पुनरावृत्तिरहितं स्वीयं धाम
प्रयच्छति॥ इति च॥
तदेतत्सर्वं हृदि निधाय महोपनिषन्मतावलम्बनेन भगवद्धौधायनाचार्यकृतां ब्रह्मसूत्रबृत्तिं
विस्तीर्णामालक्ष्य रामानुजः शारीरकमीमांसाभाष्यमकार्षीत्। तत्राथातो ब्रह्मजिज्ञासा (ब्र.सू.1/1/1)
इति प्रथमसूत्रस्यायमर्थः अत्राथशब्दः पूर्ववृत्तकर्माधिगमनानन्तर्यार्थः। तदुक्तं वृत्तिकारेण-
वृत्तात्कर्माधिगमादनन्तरं ब्रह्म विविदिषतीति। अतःशब्दो हेत्वर्थः। अधीतसाङ्गवेदस्या-
धिगततदर्थस्य विनश्वरफलात्कर्मणो विरक्तत्वाद्धेतोः स्थिरमोक्षाभिलाषुकस्य तदुपायभूत -
ब्रह्मजिज्ञासा भवति। ब्रह्मशब्देन स्वभावतो निरस्तसमस्तदोषानवधिकातिशयासंख्येयकल्याण-
गुणः पुरुषोत्तमोभिधीयते। एवं च कर्मज्ञानस्य तदनुष्ठानस्य च वैराग्योत्पादनद्वारा
चित्तकल्मषापनयद्वारा च ब्रह्मज्ञानं प्रति साधनत्वेन तयोः कार्यकारणत्वेन पूर्वोंत्तरमीमांसयोरेक-
शास्त्रत्वम्। अतएव वृत्तिकारा एकमेवेदं शास्त्रं जैमिनीयेन षोडशलक्षणेनेत्याहुः।
कर्मफलस्य क्षयित्वं ब्रह्मज्ञानफलस्य चाक्षयित्वं परीक्ष्य लोकान्कर्मचितान्ब्राह्मणो निर्वेद-
मायान्नास्त्यकृतः कृतेन (मु.1/2/12) इत्यादिश्रुतिभिरनुमानार्थापत्त्युपबृंहिताभिः प्रत्यपादि।
एकै कनिन्दया कर्मविशिष्टस्य ज्ञानस्य मोक्षसाधनत्वं दर्शयति श्रुतिः-
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते। ततो भूय इव ते तमो य उ विद्यायां रताः॥
(बृ.4/4/10,ई.9) विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीत्वा विद्ययामृतमश्र्नुते। (ई.11) इत्यादि। तदुक्तं पाञ्चरात्ररहस्ये- स एव
करुणासिन्धुर्भगवान् भक्तवत्सलः। उपासकानुरोधेन भजते मूर्तिपञ्चकम्॥ तदर्चाविभव-
व्यूहसूक्ष्मान्तर्यामिसंज्ञकम्। यदाश्रित्यैव चिद्वर्गस्तत्तज्ज्ञेयं प्रपद्यते॥ पूर्वपूर्वोंदितोपास्तिविशेष-
क्षीणकल्मषः। उत्तरोत्तर्रमूत्तीनामुपास्त्यधिकृतो भवेत्। एवं ह्यरहरः श्रौतस्मार्तधर्मानुसारतः।
उक्तोपासनया पुंसां वासुदेवः प्रसीदति। प्रसन्नात्मा हरिर्भक्त्या निदिध्यासनरूपया। अविद्यां
कर्मसंघातरूपां सद्यो निवर्तयेत्। ततः स्वाभाविकाः पुंसां ते संसारतिरोहिताः। आविर्भवन्ति
कल्याणाः सर्वज्ञत्वादयो गुणाः। एवं गुणाः समानाः स्युर्मुक्तानामीश्वरस्य च। सर्वकर्तृत्वमेवैकं
तेभ्यो देवे विशिष्यते॥ मुक्तास्तु शेषिणि ब्रह्मण्यशेषे शेषरूपिणः। सर्वानश्नुवते कामान् सह तेन
विपश्चिता॥इति॥
तस्मात्तापत्रयातुरैरमृतत्वाय पुरुषोत्तमादिपदवेदनीयं ब्रह्म जिज्ञासितव्यमित्युक्तं भवति।
प्रकृतिप्रत्ययौ प्रत्ययार्थं प्राधान्येन सह ब्रूत इतः सनोन्यत्रेति वचनबलादिच्छाया
इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधेयम्। तच्च ध्यानोपासनादिशब्दवाच्यं वेदनं न तु
वाक्यजन्यमापातज्ञानम्। पदसंदर्भश्राविणो व्युत्पन्नस्य विधानमन्तरेणापि प्राप्तत्वात्। आत्मा
वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः (बृ.2/4/5) आत्मेत्यवोपासीत
(बृ.1/4/7) विज्ञाय प्रज्ञां कु र्वीत (बृ.4/4/21) अनुविद्य विजानाति छा.8/7/1)
इत्यादिश्रुतिभ्यः। अत्र श्रोतव्य इत्यनुवादः। अध्ययनविधिना साङ्गस्य स्वाध्यायस्य
ग्रहणेधीतवेदस्य पुरुषस्य प्रयोजन वदर्थदर्शनात्तान्निर्णयाय स्वरसत एव श्रवणे प्रवर्तमानतया
तस्य प्राप्तत्वात्। मन्तव्य इति चानुवादः। श्रवणप्रतिष्ठार्थत्वेन मननस्यापि प्राप्तत्वात्। अप्राप्ते
शास्त्रमर्थवदिति न्यायात्। ध्यानं च तैलधारावदविच्छिन्नस्मृतिसंतानरूपम्। ध्रुवा स्मृतिः
स्मृतिप्रतिलम्भे सर्वग्रन्थीनां विप्रमोक्ष इति ध्रुवायाः स्मृतेरेव मोक्षोपायत्वश्रवणात्। सा च
स्मृतिर्दर्शनसमानाकारा।
भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः। क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे॥ (मु.
2/2/8)
इत्यनेनैकवाक्यत्वात्। तथा च आत्मा वा अरे द्रष्टव्यः (वृ.2/4/5) इत्यनेनास्यादर्शनरूपता
विधीयते। भवति च भावना प्रकर्षात्स्मृतेर्दर्शनरूपत्वम्। वाक्यकारेणैतत्सर्वं प्रपञ◌ाि◌◌्चतं्
वेदनमुपासनं स्यादित्यादिना। तदेव ध्यानं विशिनष्टि श्रुतिः -
नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन। यमेवैष वृणुते तेन लम्भस्तस्यैव आत्मा
विवृणुते तनूंस्वाम्॥ (कठ.2/23) इति।
प्रियतम एव हि वरणीयो भवति। यथायं प्रियतम आत्मानं प्राप्नोति तथा स्वयमेव
भगवान्प्रयतत इति भगवतैवाभिहितम् -
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम्। ददामि बुद्धियोगं तं येन मामुपयान्ति ते॥
(भ.गी.10.10) इति। पुरुषः स परः पार्थ भक्त्या लम्यस्त्वनन्यया। (भ.गी.8.22) इति च।
भक्तिस्तु निरतिशयानन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्जानविशेष एव। तत्सिद्धिश्च
विवेकादिभ्यो भवतीति वाक्यकारेणोक्तं तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणान-
वसादानुद्धर्षेभ्यः संभवान्निर्वचनाच्चेति। तत्र विवेको नामादष्टादन्नात्सत्त्वशुद्धि ुः। अत्र
निर्वचनम ्- आहारशुद्धेः सत्त्वशुद्धिः सत्त्वशुद्धया ध्रुवा स्मृतिरिति। विमोकः कामानभिष्वङ्गः।
शान्त उपासीतेति निर्वचनम्। पुनः पुनः संशीलनमभ्यासः। निर्वचनं च स्मार्तमुदाहृतं
भाष्यकारेण 'सदा तद्भावनावितः (गी.8/6) इति। श्रौतस्मार्तकर्मानुष्ठानं शक्तितः क्रिया।
क्रियावानेष ब्रह्मविदां वरिष्ठ इति निर्वचनम्। सत्यार्जवदयादानादीनि कल्याणानि। सत्येन लभ्यत
इत्यादि निर्वचनम्। दैन्यविपर्ययोनवसादः। नायमात्मा बलहीनेन लभ्यः (मु.3/2/4) इति
निर्वचनम्। तद्विपर्ययजातुष्टिरुद्धर्षः। तद्विपर्ययोनुद्धर्षः। शान्तो दान्त इति निर्वचनम्।
तदेववंविधनियमविशेषसमासादितपुरुषोत्तमप्रसादविध्वस्ततमःस्वान्तस्यानन्यप्रयोजनानवरत-
निरतिशयप्रियविशदात्मप्रत्ययावभासतापन्नध्यानरूपया भक्त्या पुरुषोत्तमपदं लभ्यत इति
सिद्धम्। तदुक्तं यामुनेन उभयपरिकर्मितस्वान्तस्यैकान्तिकात्यन्तिक- भक्तियोगो लभ्य इति।
ज्ञानकर्मयोगसंस्कृतान्तःकरणस्येत्यर्थः।
किं पुनर्ब्रह्म जिज्ञासितव्यमित्यपेक्षायां लक्षणमुक्तं 'जन्माद्यस्य यतः' (व्र.सू.1/1/2) इति।
जन्मादीति सृष्टिस्थितिप्रलयम्। तद्गुणसंविज्ञानो बहुव्रीहिः। अस्याचिन्त्यविविधविचित्ररचनस्य
नियतदेशकालभोगब्रह्यादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतो यतो यस्मात्सर्वेश्वरान्निखिल-
हेयप्रत्यनीकस्वरूपात्सत्यसंकल्पाद्यनवधिकातिशयासंख्येयकल्याणगुणात्सर्वज्ञात्सर्वशक्तेः पुंसः
सृष्टिस्थितिप्रलयाः प्रवर्तन्त इति सूत्रार्थः।
इत्थंभूते ब्रह्मणि किं प्रमाणमिति जिज्ञासायां शास्त्रमेव प्रमाणमित्युक्तं शास्त्रयोनित्वात्
(व्र.सू.1/1/3) इति। शास्त्रं योनिः कारणं प्रमाणं यस्य तच्छास्त्रयोनि। तस्य भावस्तत्त्वं
तस्मात्। ब्रह्मज्ञानकारणत्वाच्छास्त्रस्य तद्योनित्वं ब्रह्मण इत्यर्थः। न च ब्रह्मणः
प्रमाणन्तरगम्यत्वं शङ्कितुं शक्यम्। अतीन्द्रियत्वेन प्रत्यक्षस्य तत्र प्रवृत्त्यनुपपत्तेः। नापि
महार्णवादिकं सकर्तृकं कार्यत्वाद्धटवदित्यनुमानम्। तस्य पूतिकू ष्माण्डायमानत्वात्। तल्लक्षणं
ब्रह्म 'यतो वा इमानि भूतानि' (तढ.2/1/1) इत्यादिवाक्यं प्रतिपादयतीति स्थितम्।
यद्यपि ब्रह्म प्रमाणन्तरगोचरतां नावतरति तथापि प्रवृत्ति निवृत्तिपरत्वाभावे सिद्धरूपं ब्रह्म न
शास्त्रं प्रतिपादयितुं प्रभवतीत्यतत्पर्यनुयोगपरिहायोक्तं - तत्तु समन्वयात् ( ब्र.सू. 1/1/4) इति।
तुशब्दः प्रसक्ताशङ्काव्यावृत्त्यर्थः। तच्छास्त्रप्रमाणकत्वं ब्रह्मणः संभवत्येव। कु तः समन्वयात्।
परमपुरुषार्थभूतस्यैव ब्रह्मणोभिधेयतयान्वयादित्यर्थः न च प्रवृत्तिनिवृत्त्योरन्यतरविरहिणः
प्रयोजनशून्यत्वम्। स्वरूपपरेष्वपि पुत्रस्ते जातो नायं सर्प इत्यादिषु हर्षप्राप्तिभयनिवृत्ति-
रूपप्रयोजनवत्त्वं दृष्टमेवेति न किं चिदनुपपन्नम्। दिङ्मात्रमत्र प्रदर्शितम्। विस्तरस्त्वाकरादेवा-
वगन्तव्य इति विस्तारभीरुणोदास्यत इति सर्वमनाकु लम्॥

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रामानुजदर्शनम्॥