प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सर्वदर्शनसंग्रहः

अथ शांकरदर्शनम् ॥16॥

सोऽयं परिणामवादः प्रामाणिकगर्हणमर्हति। न ह्यचेतनं प्रधानं चेतनानधिष्ठितं प्रवर्तते।
सुवर्णादौ रुचकाद्युपादाने हेमकारादिचेतनाधिष्ठानोपलम्भेन नित्यत्वसाधककृतकत्ववत्सुखदुःख-
मोहात्मनान्वितत्वादेः साधनस्य साध्यविपर्ययव्याप्ततया विरुद्धत्वात् स्वरूपासिद्धत्वाच्च।
आन्तराः खल्वमी सुखदुःखमोहा बाह्येभ्यश्चन्दनादिभ्यो विभिन्नप्रत्ययवेदनीयेभ्यो व्यतिरिक्ता
अध्यक्षमीक्ष्यन्ते। यद्यमी सुखादिस्वभावा भवेयुस्तदा हेमन्तेपि चन्दनः सुखः स्यात्। न हि
चन्दनः कदाचिदचन्दनः। तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो भवेत्। न ह्यसौ
कदाचिदकुङ्कुमपङ्क इति। एवं कण्टकः क्रमेलकस्येव मनुष्यादीनामपि प्राणभृतां सुखः स्यात्।
न ह्यसौ कांश्चित्प्रत्येव कण्टक इति। तस्माच्चन्दनकुङ्कुमादयो विशेषाः कालविशेषाद्यपेक्षया
सुखादिहेतवो न तु सुखादिस्वभावा इति रमणीयम्। तस्माद्धेतुरसिद्ध इति सिद्धम्।
नापि श्रुतिः प्राधानकारणत्ववादेः प्रमाणम्। यतः- यदग्ने रोहितं रूपं तेजसस्तद्रूपं यच्छुक्लं
तदपां यत्कृष्णं तदन्नस्य (छा06/4/1) इति च्छान्दोग्यशाखायां तेजोबन्नात्मिकायाः
प्रकृतेर्लोहितशुक्लकृष्णरूपाणि समाम्नातानि तान्येवात्र प्रत्यभिज्ञायन्ते। तत्र श्रौतप्रत्यभिज्ञायाः
प्राबल्याल्लोहितादिशब्दानां मुख्यार्थसंभवाच्च तेजोबन्नात्मिका जरायुजाण्डज-
स्वेदजोद्भिज्जचतुष्टयस्य भूतग्रामस्य प्रकृतिरवसीयते। यद्यपि तेजोबन्नानां प्रकृतेर्जातत्वेन
योगवृत्त्या न जायत इत्यजत्वं न सिध्यति तथापि रुढिवृत्त्यावगतमजात्वमुक्तप्रकृतौ
सुखावबोधाय प्रकल्प्यते। यथा असौ वादित्यो देवमधु (छा.3/1/1) इत्यादिवाक्येनादित्यस्य
मधुत्वं परिकल्प्यते तथा तेजोबन्नात्मिका प्रकृतिरेवाजेति। अतोऽजामेकामित्यादिका श्रुतिरपि न
प्रधानप्रतिपादिका।
यदवादि निदर्शनं पूर्ववादिना क्षीरादिकमचेतनं चेतनानधिष्ठितमेव वत्सविवृद्धयर्थं प्रवर्तत इति।
नैतद्रमणीयम्। बुद्धिविशेषशालिनः परमेश्वरस्य तत्राप्यधिष्ठातृत्वाभ्युपगमात्। न च परमेश्वरस्य
करुणया प्रवृत्त्यङ्गीकारे प्रागुक्तविकल्पावसरः। सृष्टेः प्राक् प्राणिनां दुःखसंबन्धासंभवेपि
तन्निदानादृष्टसंबन्धसंभवेन तत्प्रहाणेच्छया प्रवृत्त्युपपत्तेः। किं च पुरुषार्थप्रयुक्ता
प्रधानप्रवृत्तिरित्युक्तं तद्विवेक्तव्यम्। किं प्रधानं के वलं भोगार्थे प्रवर्तते। किं वा के वलमोक्षार्थ-
माहोस्विदुभयार्थम्। न तावदाद्यः कल्पोवकल्पते। अनाधेयातिशयस्य कू टस्थनित्यस्य पुरुषस्य
तात्त्विभोगासंभवात्। अनिर्मोंक्षप्रसङ्गाच्च। येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन
विधातव्यम्। भोगेन चैतत्प्रवर्तितमिति तमेव विदध्यान्न मोक्षमिति। नापि द्वितीयः।
चिद्धातोर्नित्यशुद्धबुद्धमुक्तस्वभावतया कर्मानुभववासनानामसंभवेन प्रधानप्रवृत्तेः प्रागपि
मुक्ततया तदर्थं प्रवृत्त्यनुपपत्तेः। शब्दाद्युपभोगार्थमप्रवृत्तत्त्वेन प्रधानस्य तदजनकत्वप्रसङ्गाच्च।
नापि तृतीयः। प्रागुक्तदूषणलङ्घनालङ्घितत्वात्। प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगाच्च। ननु
सत्त्वपुरुषान्यथाख्यातिः पुरुषार्थः। तस्यां जातायां सा निवर्तते कृतकार्यत्वादिति चेत्-
तदसमञ्जसम्। अचेतनायाः प्रकृतेर्विचार्य कार्यकारित्वायोगात्। यथेयं कृतेपि शब्दाद्युपलम्भे
तदर्थं पुनः प्रवर्तत एवमत्रापि पुनः प्रवर्तेत। स्वभावस्यानपायात्। किं च सा
प्रकृतिर्विवेकख्यातिवशादुच्छिद्यते न वा। उच्छेदे सर्वस्य संप्रति संसारोस्तमियात्। अनुच्छे दे न
कस्यचिन्मोक्षः। ननु प्रधानाभेदेपि तत्तत्पुरुषाविवेकख्यातिलक्षणविद्यासदसत्त्वनिबन्धनौ
बन्धमोक्षावुपपद्येयातामिति चेत्- हन्त तर्हि कृतं प्रकृत्या। अविद्यासदसद्भावाभ्यामेव तदुपपत्तेः।
नन्वविद्यापक्षेप्येष दोषः प्रादुःष्यादिति चेत्- तदेतत्प्रत्यवस्थानमस्थाने। न हि वयं
प्रधानवदविद्यां सर्वेषु जीवेष्वेकामाचक्ष्महे येनैवमुपालभ्येमहि। अपि त्वियं प्रतिजीवं भिद्यते। तेन
यस्यैव जीवस्य विद्योत्पद्यते तस्यैवाविद्यासमुच्छिद्यते नान्यस्य। भिन्नायतनयोस्तयो-
र्विरोधाभावात्। अतो न समस्तसंसारोच्छे दप्रसङ्गदोषः। तस्मात्परिणामः परित्यक्तव्यः।
स्वीकर्तव्यश्च विवर्तवादः। ननु जीवजडयोः सारूप्याभावेन चिद्विवर्तत्वं प्रपञ्चस्य न संपरिपद्यते
इति प्रागवादिष्मेति चेत्- नैतत्साधु। न हि सारूप्यनिबन्धनाः सर्वे विभ्रमा इति व्याप्तिरस्ति।
असरुपादपि कामादेः कान्तालिङ्गनादिष्विव स्वप्नविभ्रमस्योपलम्भात्। किं च कादाचित्के
विभ्रमे सारूप्यापेक्षा नानाद्यविद्यानिबन्धने प्रपञ्चे। तदवोचदाचार्यवाचस्पतिः।
विवर्तस्तु प्रपञ्चोयं ब्रह्मणोऽपिरिणामिनः। अनादिवासनोद्भूतो न सारूप्यमपेक्षते॥ इति।
तदेवत्सर्वं वेदान्तशास्त्रपरिश्रमशालिनां सुगमं सुघटं च।
तच्च वेदान्तशास्त्रं चतुर्लक्षणम्। भगवता बादरायणेन प्रणीतस्य वेदान्तशास्त्रस्य प्रत्यग्ब्रह्मैक्यं
विषय इति शंकराचार्याः प्रत्यपीपदन्। तत्र प्रथमे समन्वयाध्याये सर्वेषां वेदान्तानां ब्रह्मणि
तात्पर्येण पर्यवसानम्। द्वितीयेऽविरोधाध्याये सांख्यादितर्क विरोध निराकरणम्। तृतीये
साधनाध्याये व्रह्मविद्यासाधनम्। चतुर्थे फलाध्याये विद्याफलम्। तत्र प्रत्यध्यायं पादचतुष्टयम्।
तत्र प्रथमस्याध्यायस्य प्रथमे पादे स्पष्टब्रह्मलिङ्गं वाक्यजातं मीमांस्यते। द्वितीयेऽस्पष्टब्रह्मलिङ्ग-
मुपास्यविषयम्। तृतीये तादृशं ज्ञेयविषयम्। चतुर्थेऽव्यक्ताजापदादि संदिग्धं पदजातमिति।
अविरोधस्य द्वितीयस्य प्रथमे सांख्ययोगकणादादिस्मृतिविरोधपरिहारः। द्वितीये सांख्यादिमतानां
दुष्टत्वम्। तृतीये पञ्चमहाभूतश्रुतीनां जीवश्रुतीनां च परस्परविरोधपरिहारः। चतुर्थे
लिङ्गशरीरश्रुतीनां विरोधपरिहारः। तृतीयस्य प्रथमे जीवस्य परलोकगमनागमनविचारपुरःसरं
वैराग्यम्। द्वितीये त्वंपदतत्पदार्थपरिशोधनम्। तृतीये सगुणविद्यासु गुणोपसंहारः। चतुर्थे
निर्गुणब्रह्मविद्याया बहिरंगान्तरंगाश्रमयज्ञशमादिसाधनजातम्। चतुर्थस्य प्रथमे ब्रह्मसाक्षात्कारेण
जीवतः पापपुण्यक्लेशवैधुर्यलक्षणा मुक्तिः। द्वितीये मरणोत्क्रमणप्रकारः। तृतीये
सगुणब्रह्मोपासकस्योत्तरमार्गः। चतुर्थे निर्गुणसगुणब्रह्मविदो विदेहकै वल्यब्रह्मलोकावस्थानानि।
तदित्थं ब्रह्मविचारशास्त्राध्यायपादार्थसंग्रहः।
तत्र प्रथममधिकरणमथातो ब्रह्मजिज्ञासा (व्र.सू.1/1/1) इति ब्रह्ममीमांसारम्भोपपादनपरम्।
अधिकरणं च पञ्चावयवं प्रसिद्धम्। ते च विषयादयः पञ्चावयवा निरूप्यन्ते। आत्मा वारे
द्रष्टव्यः (बृ.2/4/5) इत्येतद्वाक्यं विषयः। ब्रह्म जिज्ञासितव्यं न वेति संदेहः।
जिज्ञास्यत्वव्यापकयोः संदेहप्रयोजनयोः संभवासंभवाभ्याम्।
तत्र कस्येदं जिज्ञास्यत्वमवगम्यते। अहमनुभवगम्यस्य श्रुतिगम्यस्य वा। नाद्यः।
सर्वजनीनेनाहमनुभवेनेदमास्पददेहादिभ्यो विवेके नात्मनः स्पष्टं प्रतिभासमानत्वात्। ननु स्थूलोहं
कृशोहमित्यादिदेहधर्मसामानाधिकरण्यानुभवादध्यस्तात्मभावदेहालम्बनोयमहंकार इति चेन्न।
बाल्याद्यवस्थासु भिन्नपरिमाणतया बदरामलकादिवत्परस्परभेदेन शरीरस्य प्रत्यभिज्ञानानुपपत्तेः।
अथोच्चेत यथा पीलुपाकपक्षे पिठरपाकपक्षे वा कालभेदेनैकास्मिन्वस्तुनि पाकजभेदो युज्यते
तथैकस्मिञ्शरीराभिधे वस्तुनि कालभेदेन परिमाणभेदः। अत एव लौकिकाः शरीरमात्मनः
सकाशादभिन्नं प्रतिपद्यमानाः प्रत्यभिजानते चेति। न तद्भद्रम्। मणिमन्त्रौषधाद्युपायभेदेन
भूमिकाधानवन्नानाविधान्देहान्प्रतिपद्यमानस्याहमालम्बनस्य भिन्नस्यात्मनः शरीराद्भेदेन
भासमानत्वात्। अत एव चक्षुरादीनामप्यहमालम्बनत्वमशक्यशङ्कम्। नान्यदृष्टं स्मरत्यन्यः
(न्या.कु सु 1/15) इति न्यायेन चक्षुरादौ नष्टेपि रूपादिप्रतिसंधानानुपपत्तेः।
नाप्यन्तःकरणस्याहमालम्बनत्वमास्थेयम्। अयमेव भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः
कारणभेदश्चेति न्यायेन कर्तृकरणभूतयोरात्मान्तःकरणयोस्तक्षवासिवत्संभेदासंभवात्। यद्यभेदएव
नाद्रियते तर्हि स्थूलोहं कृशोहं कृष्णोहमित्यादि संख्यानमुत्सन्नसंकथं स्यात्। न स्यात्। एवं
लोके शास्त्रे चोभयथा शब्द प्रयोगदर्शनेन मुख्यार्थत्वानुपपत्तौ मञ्चाः
क्रोशन्तीत्यादिवदौपचारिकत्वेनोपपत्तेः। न द्वितीयः। अहमनुभवगम्यस्यैव श्रुतिगम्यत्वात्। सत्यं
ज्ञानमनन्तं ब्रह्म (तै.2/1/1) इत्यादिश्रुतिभ्यो हि ब्रह्मावगम्यते। ब्रह्मभावश्चाहमात्मा ब्रह्म
(बृ.2/5/19) तत्त्वमसि (छा.6/8/7) इत्यादिश्रुतिष्वहंप्रत्यय- गम्यस्यैव बोध्यते। तथा
चेदमनुमानं समसूचि। विमतमजिज्ञास्यमसंदिग्धत्वात्करतलामलकवत्।
तथा फलं न फलभावमीक्षते। पुरुषैरर्थ्यत इति व्युत्पत्त्या निःशेषदुःखोपशमलक्षितं
परमानन्दैकरसं च पुरुषार्थशब्दस्यार्थः सकलपुरुषधौरेयैः प्रेप्स्यते नैतत्सांसारिकं सुखजातम्।
तस्यैहिकस्य पारलौकिकस्य च सातिशयतया च सदृक्षतया च प्रेक्षावद्भिरर्थ्यमानत्वानुपपत्तेः।
यत्तत्परिपन्थि दुःखजातं तज्जिहास्यते। तच्चाविद्यापरपर्यायसंसार एव। कर्तृत्वादिसकलानर्थक-
रत्वादविद्यायाः। समित्येकीकरणे वर्तते। संभेदादौ तथा चोपलम्भात्। तथा चात्मानं
देहेनैकीकृत्य स्वर्गनरकर्मागयोः सरति येन पुरुषः स संसारोऽविद्याशब्दार्थः। तन्निवृत्तिः फलं
फलवतामभिमतम्। तथा कथितम् -
अविद्यास्तमयोमोक्षः सा च बन्ध उदाहृतः। इति।
तच्च काशकु शावलम्बनकल्पम्। आत्मयाथात्म्यानुभवेन सह वर्तमानस्य संसारस्य
रूपरसवद्विरोधाभावेन निवर्त्यनिवर्तकभावाभावात्। ननु सहानुवर्तमानो बोधः संसारं मा बाधिष्ट।
सहावर्तमानस्तु बोधः प्रकाशस्तमोवद्वाधिष्यत इति चेत्- तदेतद्रिक्तं वचः।
अहमनुभवादन्यस्यात्मज्ञानस्य मूषिकविषाणायमानत्वात्। नन्वन्योयमनुभवः पामराणां मा स्म
भवन्नाम। वेदान्तवचननिचयपर्यालोचनक्षमाणां परीक्षकाणां संभवत्येवेत्यपि न वक्तव्यम्।
अबाधितानुभवविरोधेन वेदान्तवाक्यानां ग्रावप्लवनादिवाक्यकल्पत्वात्। न ह्यागमाः परःशतं घटं
पटयितुमुत्सहन्ते। न चाध्ययनविधिव्याकोपः। गुरुमतानुसारेण हुंफडादिवाक्यवज्ज -
पमात्रोपयोगित्वेनाचार्यमतानुसारेण वा यजमानः प्रस्तर इत्यादिवाक्यवत्स्तावकत्वेन
वेदान्तसिद्धान्तस्याध्येतव्यत्वसंभवात्। तथा च प्रयोगः - विवादास्पदं ब्रह्म विचार्यपदं न
भवत्यफलत्वात्काकदन्तवदिति। तदाहुराचार्याः -
अहंधियात्मनः सिद्धेस्तस्यैव ब्रह्मभावतः। तज्ज्ञानान्मुक्त्यभावाश्च जिज्ञासा नावकल्पते॥ इति।
न च भेदेनाध्यस्तदेहादिनिवृत्तिः फलमित्यफलत्वहेतुरसिद्ध इति वेदितव्यम्। भेदग्रहो हि
व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति न्यायेन भेदाग्रहपरिपन्थिनं भेदसंस्कारमपेक्षते।
अनाकलितकलधौतस्य शुक्तिशकले तत्समारोपानुपलम्भात्। संस्कारश्च प्रमितिमाकाङ्क्षति।
अननुभूते संस्कारानुदयात्। न च भ्रान्तिरूपोनुभवस्तत्करणामिति भणितव्यम्।
भ्रान्तेरभ्रान्तिपूर्वकत्वेन क्वचित्प्रमितेरवश्याभ्युपगमयितव्यत्वात्। प्रयोगश्चविमतावात्मानात्मानौ
भेदेन प्रमितावभेदायोग्यत्वात्। तमःप्रकाशवत्। न चात्मानात्मनोरभेदायोग्यत्वलक्षणो हेतुरसिद्ध
इति शङ्कनीयम्। विकल्पासहत्वात्। तथा हि- आनात्मात्मपरिशेषः स्यादात्मानात्मपरिशेषो
वा। आद्ये मुक्तिदशायामिव परिदृश्यमानं जगदस्तमियात्। द्वितीये जगदान्ध्यं प्रसज्येत। तमः
प्रकाशवद्विरुद्धस्वभावत्वाच्च दृग्दृश्ययोरात्मानात्मनोरभेदायोग्यत्वमवधेयम्। ततश्चार्थाध्या
सानुपपत्तौ तत्पूर्वकस्य ज्ञानाध्यासस्यासंभवेन ब्रह्मणो विचार्यत्वासंभवाद्विचारात्मिका
चतुर्लक्षणशारीरकमीमांसा नारम्भणीयेति पूर्वपक्षे प्राप्ते सिद्धान्तोभिधीयते -
अहंपदाधिगम्यादन्यदात्मतत्त्वं नास्तीति न वक्तव्यम्। निरस्तसमस्तोपाधिकस्यात्मतत्त्वस्य
श्रुत्यादिषु प्रसिद्धत्वात्। न च तेषामुपचरितार्थता। उपक्रमोपसंहारादिषड्विघतात्पर्यलिङ्गवत्तया
तत्त्वं बोधयतामुपचरितार्थत्वानुपपत्तेः। लिङ्गषट्कं च पूर्वाचार्यैर्दर्शितम् -
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम्। अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये॥ इति।
तत्र सदेव सौम्येदमग्र आसीदित्युपक्रमः। ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि
श्वेतके तो इत्युपसंहारः। तयोर्ब्रह्मविषयत्वेनैक्यरूप्यमेकलिङ्गम्। असकृत्तत्त्वमसीत्युक्तिरभ्यासः।
मानान्तरागम्यत्वमपूर्वत्वम्। एकविज्ञानेन सर्वविज्ञानं फलम्। सृष्टिस्थितिप्रलयप्रवेश
नियमानानि पञ्चार्थवादाः। मृदादिदृष्टान्ता उपपत्तयः। तस्मादेतैर्लिङ्गैर्वेदान्तानां
नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्वं निश्चेतव्यम्। तदित्थमौपनिषदस्यात्मतत्त्वस्याहमनुभवे-
ऽनवभासमानत्वात्तस्यानुभवस्याध्यस्तात्मविषयत्वं सिद्धम्।
कणभक्षाक्षचरणादिकक्षीकृतस्यात्मनो भानाभावादहमनुभवस्याध्यस्तात्मविषयत्वमेषितव्यम्। न
तावदहमनुभवः सर्वगतत्वगात्मनोवगमयितुमीष्टे। अहमिहास्मि सदने जानान इति प्रादेशिकत्व-
ग्रहणात्। न चेदं देहस्य प्रादेशिकत्वं प्रतिभासत इति वेदितव्यम्। अहमित्युल्लेखायोगात्। ननु
यथा राज्ञः सर्वप्रयोजनविधातरि भृत्ये ममात्मा भद्रसेन इत्युपचारस्तद्वदात्मवचन-
स्याहंशब्दस्य देह उपचार इति चेत् मैवं वोचः। उपचरितात्मभावस्य देहादेः स्वसमानाकृति-
शिलापुत्रकादिवज्ज्ञातृत्वायोगात्। न च ज्ञातृत्वमप्युपचरितम्। प्रयोक्तुः स्वप्रतिपत्तिप्रकाशके
प्रयोगे प्रतिपत्तृत्वोपचारानुपपत्तेः। अथ देहधर्मः प्रादेशिकत्वमात्मन्युपचर्येत तदा देहात्मनोर्भेदेन
भवितव्यम्। प्रसिद्धभेदे माणवके सिंहशब्दवत्सांप्रतिकगौणत्वे तिरोहितभेदेन सार्षपादौ रसे
तैलशब्दवन्निरूढगौणत्वे वा गौणमुख्ययोर्भेदाध्यवसायस्य नियतत्वात्। अथ मम शरीरमिति
भेद भानसंभवाद्गौणत्वं मन्येथास्तदयुक्तम्। अहंशब्दार्थस्य देहादिभ्यो निष्कृष्यासाधारणधर्मवत्त्वेन
प्रतिभासमानत्वाभावात्। अपरथा लोकायतिकमतं नोदयमासादयेत्। मम शरीरमित्युक्तिस्तु राहोः
शिर इतिवदौपचारिकी। मम शरीरमिति ब्रुवाण◌ोनापि् कस्त्वमिति पृष्टेन वक्षस्थलन्यस्तहस्तेन
शृङ्गग्राहिकयायमहमिति प्रतिवचनस्य दीयमानत्वेन देहात्मप्रत्ययस्य सकलानुभवसिद्धत्वात्।
तदुक्तम् -
देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः। लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात्॥ इति।
तथा च व्यापकस्य भेदभानस्य निवृत्तेर्व्याप्यस्य गौणत्वस्य निवृत्तिरिति निरवद्यम्।
नन्वभिज्ञया भेदसिद्धिर्मा संभून्नाम। प्रत्यभिज्ञया तु सोहमित्येवंरूपया तत्सिद्धिः
संभविष्यतीति चेन्न। विकल्पासहत्वात्। किमियं प्रत्यभिज्ञा पामराणां स्यात्परीक्षकाणां वा।
नाद्यः। देह व्यतिरिक्तात्मैक्यमवगाहमानायाः प्रत्यभिज्ञाया अनुदयात्। प्रत्युत श्यामस्य
लौहित्यवत्कारणविशेषादल्पस्यापि महापरिमाणत्वमविरुद्धमनुभवतां तद्देह एव तस्याः
संभवाच्च। न द्वितीयः। व्यवहारसमये पामरसाम्यानतिरेकात्। अपरोक्षभ्रमस्य
परोक्षज्ञानविनाश्यत्वानुपपत्तेश्च। यदुक्तं भगवता भाष्यकारेण पञ्चादिभिश्चाविशेषात्।
(ब्र.सू.भा.1/1/1) इति। भामतीकारैरप्युक्तं शास्त्रंचिन्तकाः खल्वेवं विचारयन्ति न प्रतिपत्तार
इति। तथा चात्मगोचर स्याध्यासात्मरूपत्वं सुस्थम्।
न चार्हतमतानुसारेणाहंप्रत्ययप्रामाण्यायात्मनो देहपरिमाणत्वमङ्गीकरणीयमिति सांप्रतम्।
मध्यमपरिमाणस्य सावयवत्वेन देहादिवदनित्यत्वे कृतहानाकृताभ्यागमप्रसङ्गात्।
अथैतद्दोषपरिजिहीर्षयावयवसमुदाय आत्मेत्यभ्युपगम्येत तदा वक्तव्यम्। किं प्रत्येकमवयवानां
चैतन्यं सांघातस्य वा। नाद्यः। बहूनां चेतनानामहमहमिकया प्रधानभावमनुभवतामैकमत्याभावेन
समसमयं विरुद्धदिक्क्रियतयाशरीरस्यापि विशरणनिष्क्रियत्वयोरन्यतरापातात्। द्वितीयेपि
संघातापत्तिः किं शरीरोपाधिकी स्वाभाविकी यादृच्छिकी वा। नाद्यः। एकस्मिन्नवयवे छिन्ने
चिदात्मनोप्यवयवश्छिन्न इत्यचेतनत्वापातात्। न द्वितीयः। अनेके षामवयवानामन्योन्य-
साहित्यनियमादर्शनात्। न तृतीयः। संश्लेषवद्विश्लेषस्यापि यादृच्छिकत्वेन सुखेन
वसतामकस्मादचेतनत्वप्रसङ्गात्।
न चाणुपरिमाणत्वमात्मनः शङ्कनीयम्। स्थूलोहं दीर्घोंहमिति प्रत्ययानुपपत्तेः।
न च विज्ञानात्मभाषिणां नैष दोषः। विशुद्धसावयवत्वाभावादिति गणनीयम्। यः सुषुप्तः सोहं
जागर्तीति स्थिरगोचरस्याहमुल्लेखस्य क्षणभङ्गिविज्ञानगोचरत्वे अतस्मिस्तद्बुद्धिरूप -
मिथ्याध्यासस्य तदवस्थानात्। तदनेन कृशोहं कृष्णोहमित्यादीनां प्रख्यानानां बुद्धया
सरूपताख्यानेनौपचारिकत्वं प्रत्याख्यातम्। ताव्यापकभेदभानासंभवस्य प्रागेव प्रपञ्चितत्वात्।
तथा च प्रयोगः - विमतं शास्त्रं विषयप्रयोजनसहितमाविद्यक-
बन्धनिवर्तकत्वात्सुप्तोत्थितबोधवत्। यथा स्वप्नावस्थायां मायापरिकल्पितयोषादिकृत-
बन्धनिवर्तकस्य सुप्तोत्थितबोधस्य मन्दिरमध्ये सुखेन शय्यायामवतिष्ठमानो देहो विषयः। तस्य
सुप्तबोधेनानिश्चयात्। स्वप्नमायाविजृम्भितानर्थनिवृत्तिः प्रयोजनम्। एवं मननादिजन्यपरोक्ष-
ज्ञानद्वारेणाध्यासिककर्तृत्वभोक्तृत्वाद्यनर्थनिषेधकस्य शास्त्रस्य सच्चिदानन्दैकरसं प्रत्यगात्मभूतं
ब्रह्म विषयः। तस्याहमनुभवेनानिश्चयात्। अध्यासनिवृत्तिः प्रयोजनम्। तथा चाफलत्वादिति
हेतुरसिद्ध इति सिद्धम्। तदुक्तम् -
श्रुतिगम्यात्मतत्त्वं तु नाहंबुद्धयावगम्यते। अपि श्वे कामतो मोहा नात्मन्यस्तविपर्यये॥ इति।
इतोयमसंदिग्धत्वादिति हेतुरप्यसिद्ध इति सिद्धम्।
यद्यपि सर्वः प्राणी प्रत्यगात्मास्तित्वं प्रत्येत्यहमस्मीति। न हि कश्चिदपि नाहमस्मीति
विप्रतिपद्यते। प्रत्यगात्मैव ब्रह्म तत्त्वमसि (छा.6/8/7) इति सामानाधिकरण्यात्।
तस्मादात्मतत्त्वमसंदिग्धं सिद्धम्। तथापि धर्मं प्रति विप्रतिपन्ना बहुविधा इति न्यायेन
विशेषप्रतिपत्तिरूपपद्यत एव। तथा हि। चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते।
इन्द्रियाण्यात्मेत्यन्ये। अन्तःकरणमात्मेत्यपरे। क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धा
बुध्यन्ते। देहपरिमाण आत्मेति जैना जिनाः प्रतिजानते। कृर्तत्वादिविशिष्ट परमेश्वराद्भिन्नो
जीवात्मेति नैयायिकादयो वर्णयन्ति। द्रव्यबोधस्वभावमात्मेत्याचार्याः परिचक्षते। भोक्तै व के वलं
न कर्तेति सांख्याः संगिरन्ते। चिद्रप ूः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौपनिषदा
भाष्यन्ते। एवं प्रसिद्धे धर्मिणि विशेषतो विप्रतिपत्तौ तद्विशेषसंशयो युज्यते। तथा च
संदेहसंभवाज्जिज्ञास्यत्वं ब्रह्मणः सिद्धम्। तदित्थं ब्रह्मणो विचार्यत्वसंभवेन तद्विचारात्मकं
ब्रह्ममीमांसाशास्त्रमारम्भणीयमिति युक्तम्। जन्माद्यस्य यतः। (ब्र.सू.1/1/2) इत्यादिसर्वस्य
शास्त्रस्यैतद्विचारापेक्षत्वाच्छास्त्रप्रथमाध्यायसंगतमिदमधिकरणम्।
नन्वित्थंभूते ब्रह्मणि किं प्रमाणं प्रत्यक्षमनुमानमागमो वा। न कदाचित्तत्र प्रत्यक्षं श्रमते।
अतीन्द्रियत्वात्। नाप्यनुमानम्। व्याप्तस्य लिङ्गस्याभावात्। नाप्यागमः। यतो वाचो निवर्तन्ते
(तै.2/1/1) इति श्रुत्यैवागमगम्यत्वनिषेधात्। उपमानादिकमशक्यशङ्कम्। नियतविषयत्वात्।
तस्माद्ब्रह्मणि प्रमाणं न संभवतीति चेत्- मैवं वोचः। प्रत्यक्षाद्यसंभवेप्यागमस्य सत्त्वात्। यतो
वाचो निवर्तन्ते इति वागोचरत्वनिषेधात्कथमेतदिति चेत्- श्रुतिरेव निषेधति वेदान्तवेद्यत्वं
ब्रह्मणः श्रुतिरेव विधत्ते। न हि वेदप्रतिपादितेर्थेनुपपन्ने वैदिकानां बुद्धिः खिद्यते। अपि तु
तदपपादुनमार्गमेव विचारयति। तस्मादुभयमपि प्रतिपादनीयम्। विषात्वनिषेधकानि वाक्यानि।
वाक्यजन्यवृत्तिव्यक्तस्फु रणलक्षणफलासंभवविवक्षया प्रवृत्तानि। विषयत्वबोधकानि तु
वृत्तिजन्यावरणभङ्गलक्षणफलसंभवविवक्षया। तदुक्तं भगवद्भिः -
अनाधेयफलत्वेन श्रुतेर्ब्रह्म न गोचरम्। प्रमेयं प्रमितौ तु स्यादात्माकारसमर्पणात्॥ इति। न
प्रकाश्यं प्रमाणेन प्रकाशो ब्रह्मणः स्वयम्। तज्जन्यावृतिभङ्गत्वात्प्रमेयमिति गीयते॥ इति च।
ननु स्यादेष मनोरथो यदि सिद्धेर्थे वेदस्य प्रामाण्यं सिध्येत्। संगतिग्रहणायत्तत्वात्प्रामाण्य-
निश्चयस्य। संगतिग्रहणस्य च वृद्धव्यवहारायत्तत्वात्। वृद्धव्यवहारस्य च लोके
कार्यैकनियतत्वात्। न ह्यस्ति संभवः शब्दानां कार्येर्थे संगतिग्रहः सिद्धार्थाभिधायकत्वं तत्र वा
प्रामाण्यमिति। न हि तुरङ्गत्वे गृहीतसंगतिकं तुरङ्गपदं गोत्वमाचष्टे तत्र वा प्रामाण्यं भजते।
तस्मात्कार्यगृहीतसंगतिकानां शब्दानां कार्य एव प्रामाण्यम्। ननु मुखविकासादिलिङ्गाद्धर्षहेतुं
प्रसिद्धार्थमनुमाय यत्र शब्दस्य संगतिग्रहो यथा पुत्रस्ते जात इत्यादिषु तत्रावश्यं कार्यमन्तरेणैव
शब्दस्य सिद्धेर्थे प्रामाण्यमाश्रीयत इति चेन्न। पुत्रजन्मवदेव प्रियासुखप्रसवादेरनेकस्य
हर्षहेतोरुपस्थीयमानत्वेन परिशेषावधारणानुपपत्तेः। पुत्रस्ते जात इत्यादिषु सिद्धार्थपरेषु प्रयोगेषु
द्वारं- द्वारमित्यादिवत्कार्याध्याहारेण प्रयोगोपपत्तेश्च। शास्त्रत्वप्रसिद्धया च न वेदान्तानां
सिद्धार्थपरत्वम्। प्रवृत्तिनिवृत्तिपराणामेव वाक्यानां शास्त्रत्वप्रसिद्धेः। तदुक्तं भट्टाचार्यैः -
प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतके न वा। पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते॥ इति।
न चैतेषां स्वरूपपरत्वे प्रयोजनमस्ति। श्रुतवेदान्तार्थस्यापि पुंसः सांसारिकधर्माणामनिवृत्तेः।
तस्माद्वेदान्तानामप्यात्मा ज्ञातव्य इति समाम्नातेन विधिनैकवाक्यतामाश्रित्य कार्यपरतैवाश्रय-
णीयेति सिद्धम्। ततश्च के वलसिद्धरूपे ब्रह्मणि वेदान्तानां प्रामाण्यं न सिध्यतीति चेत्।
अत्र प्रतिविधीयते- न तावत्सिद्धे व्युत्पत्त्यसिद्धिः। प्रागुन्नीतया नीत्या पुत्रस्ते जात इति
वाक्यात्सिद्धपरादपि व्युत्पत्तिसिद्धेः। न च परिशेषावधारणानुपपत्तिः। प्रियासुखप्रसवादेरपि
संभवादिति भणितव्यम्। पुत्रपदाङ्कितपटप्रदर्शनवत्प्रियासुखप्रसवादि- सूचकाभावात्। पुत्रजन्मैव
तत्सूचकमिति चेत्- प्रथमप्रतीतपुत्रजन्मपरित्यागे कारणाभावात्। पुत्रजननस्यैवाधिकानन्द-
हेतुत्वाच्च।
पुत्रोत्पत्तिविपत्तिभ्यां नापरं सुखदुःखयोः।
इति विद्यमानत्वात्। तथा चाकथच्चित्सुखाचार्यः -
दृष्टचैत्रसुतोत्पत्तेस्तत्पदाङ्कितवाससा। वार्ताहारेण यातस्य परिशेषविनिश्चितेः॥ (चित्सुपृ.88)
इति।
यदुक्तं सिद्धार्थपरेषु कार्याध्याहार इति तदयुक्तम्। मुख्यार्थविषयतया सिद्धेपि
प्रयोगसिद्धावध्याहारानुपपत्तेः। यदुक्तं शास्त्रत्वप्रसिद्धया च न स्वरूपपरत्वमिति तदप्ययुक्तम्।
हितशासनादपि शास्त्रत्वोपपत्तेः। न च प्रयोजनाभावः। श्रुतमतवेदान्तद्रजन्याद्वितीया-
त्मविज्ञानाभ्यासेन विद्योदये संसारनिदानाविद्यानिवृत्त्युपलक्षितब्रह्मात्मतालक्षणपरमपुरुषार्थसिद्धेः।
न चात्र विधिः संभवति। विकल्पासहत्वात्। तथा हि-किं शाब्दज्ञानं विधेयं किं वा
भावनात्मकमाहोस्वित्साक्षात्काररूपम्। नाद्यः। विदितपदार्थसंगतिकस्याधीतशब्दन्याय-
तत्त्वस्यान्तरेणपि विधिं शब्दादेवोपपत्तेः। नापि द्वितीयः। भावनाया ज्ञानप्रकर्षहेतु-
भावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात्। अप्राप्तप्रापकस्यैव विधित्वाङ्गीकारात्।
तृतीये साक्षात्कारः किं ब्रह्मस्वरूपः किं वान्तःकरणपरिणामभेदः। नाद्यः। तस्य
नित्यत्वेनाविधेयत्वात्। नापि द्वितीयः। आनन्दसाक्षात्काररूपतया फलत्वेनाविधेयत्वात्।
तस्माज्ज्ञातव्य इत्यादीनामविधायकत्वादर्हे कृत्यतृचश्च (पा.सू. 3/3/169) इति
कृत्यप्रत्ययानमर्हार्थे विधानादर्हार्थतैव व्याख्येया। तथा च सर्वेषांवेदान्तवाक्यानामुपक्रमोप-
संहारदिषड्विधतात्पर्योंपेतत्वान्नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्वमास्थेयम्।
निष्प्रदेशे परमाणौ प्रदेशवृत्तित्वेनाभिमतस्य संयोगस्य दरुपपादुनतया तन्निबन्धनस्य
द्वणुकस्यासिद्धौ द्यणुकादिक्रमेणारम्भवादसंभवादचेतनायाः प्रकृतेर्महदादिरूपेण परिणामवादा-
संभवाच्च ख्यातिबाधान्यथानुपपत्त्यानिर्वचनीयः प्रपञ्चश्चिद्विवर्त इति सिद्धम्।
स्वरूपापरित्यागेन रूपान्तरापत्तिर्विवर्त इति सत्यमिथ्याख्यावभास इति। अवभासोध्यास इति
पर्यायः। स चाध्यासो द्विविधः अर्थाध्यासो ज्ञानाध्यासश्चेति। तदुक्तम् -
प्रमाणदोषसंस्कारजन्मान्यस्य परात्मता। तद्धीश्चाध्यास इति हि द्वयमिष्टं मनीषिभिः॥ इति।
पुनरपि द्विविधोध्यासः। निरुपाधिकसोपाधिकभेदात्। तदप्युक्तम् -
दोषेण कर्मणा वापि क्षोभिताज्ञानसंभवः। तत्त्वविद्याविरोधी च भ्रमोयं निरुपाधिकः॥
उपाधिसंनिधिप्राप्तक्षोभाविद्याविजृम्भितम्। उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम्॥ इति।
तत्र स्वरूपेण कल्पिताहमाद्यध्यासो निरूपाधिकः। तदप्युक्तम् -
नीलिमेव वियत्येषा भ्रान्त्या ब्रह्मणि संसृतिः। घटव्योमेव भोक्तायं भ्रान्तो भेदेन स स्वतः॥
इति।
अत एव भाष्यकारः शुक्तिका रजतवदवभासत एकश्चन्द्रः स द्वितीयवदिति निदर्शनद्वयमुदाजहार।
शिष्टं शास्त्र एव स्पष्टमिति विस्तरभियोपरम्यते। एवं च दृग्दृश्यौ द्वावेव पदार्थाविति वेदान्तिनां
सिद्धान्त इति सर्वमवदातम्।
अत्र प्रभाकरः- शुक्तिका रजतवदवभासत इति दृष्टान्तो नेष्टः। रजतप्रत्ययस्य
शुक्तिकालम्बनत्वानुपपत्तेः। तथा हि- इदं रजतमिति प्रतीतौ शुक्ते रालम्बनत्वं पुरोदेशसत्तामात्रेणा-
वलम्ब्यते कारणत्वेन भासमानत्वेन वा। नाद्यः। पुरोवर्तिनां लोष्टादीनामप्यालम्बनत्वप्रसङ्गात्।
अथ कलधौतबोधकरणसंस्कारोद्बोधकारणत्वेन तद्द्वारा रजतज्ञानकारणत्वादालम्बनत्वं मन्यसे।
तदपि न संगच्छते। चक्षुरादीनामपि कारणत्वेन विषयत्वापातात्। अथ भासमानतया
विषयत्वमिष्यते तदप्यश्लिष्टम्। रजतनिर्भासस्य शुक्तिकालम्बनत्वानुपपत्तेः। यस्मिन्विज्ञाने
यदवभासते तत्तदालम्बनम्। अत्र च कलधौतानुभवः शक्तिकालम्बनत्वकल्पनायां विरुध्यते। तथा
चाचकथन्नयायवीथ्यां शालिकनाथः-
अत्र ब्रूमो य एवार्थों यस्यां संविदि भासते। वेद्यः स एव नान्यद्धि वेद्यावेद्यत्वलक्षणम्॥ इदं
रजतमित्यत्र रजतं त्ववभासते। तदेव तेन वेद्यं स्यान्न तु शुक्तिरवेदनात्॥ तेनान्यस्यान्यथा
भासः प्रतीत्यैव पराहतः। अन्यस्मिन्भासमाने हि न परं भासते यतः॥ (प्रक.प.4/23-25)
इति।
किं च मिथ्याज्ञानोत्पत्तौ सामग्री न समस्ति। किं के वलानीन्द्रियादीनि कारणानि दोषदूषितानि
वा। नाद्यः। तेषां समीचीनज्ञान- जननसामर्थ्योंपलम्भात्। अन्यथा समीचीनं रजतज्ञानं
कदाचिददयमासादुयेत् । न द्वितीयः। दोषाणामौत्सर्गिककार्यप्रसव- शक्तिप्रतिबन्धमात्रप्रभावत्वात्।
न हि दुष्टं कु टजबीजं वटाङ्कु रं जनयितुमीष्टे। न वा तैलकलुषितं शालिबीजमशाल्यङ्कु र-
जननायालम्। किं तु स्वकार्यं न करोति। ननु दावदहनदग्धस्य वेत्रबीजस्य कदलीकाण्डजनकत्वं
दृष्टमिति चेत्- तन्न स्थाने। दग्धस्यावेत्रबीजत्वेन दोषाणां विपरीतकार्यकारित्वं प्रत्यनुदाहरणात्।
न च भस्मकदोषदूषितस्य कौक्षेयस्याशुशुक्षणेर्बह्वन्नपचन- सामर्थ्यं दृष्टमित्येष्टव्यम्।
अशितपीताद्याहारपरिणतौ जाठरस्य जातवेदसः शक्तत्वात्। तदुक्तम् -
अयथार्थस्य बोधस्य नोत्पत्तावस्ति कारणम्। दोषाश्चेन्न हि दोषाणां कार्यशक्तिविघातता॥
भस्मकादिषु कार्यस्य विघातादेव दोषता। अग्नेर्हि रसनिष्पत्तिः कार्यं जठरवर्तिनः॥ (प्रक. प.
4/73-74) इति।
अपि चासत्यप्यर्थे ज्ञानप्रादुर्भावाभ्युपगमे समीचीनस्थलेपि ज्ञानानां स्वगोचरव्यभिचारशङ्का-
ङ्कु रसंभवेन निरङ्कु शो व्यवहारो लुप्यते। तदाह -
यदि चार्थं परित्यज्य काचिद्बद्धि ुः प्रकाशते। व्यभिचारवति स्वार्थे कथं विश्वासकारणम्॥ (प्रक.
प. 4/66) इति।
ननु रजतगोचरैकविशिष्टज्ञानानङ्गीकारे विशिष्टव्यवहारो न सिध्येत्। अतस्तत्सिद्धयेपि
विपर्ययोङ्गीकार्य इति चेन्न। इदं रजतमिति ग्रहणस्मरणाभिधस्य बोधद्वयस्य
व्यवहारकारत्वाङ्गीकारात्। यद्येवमिदं शुक्तिकाशकलं तद्रजतमित्यतोपि विशिष्टव्यवहारः
स्यादिति। तन्न। तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणस्य दोषदूषितचक्षुर्जन्यत्वेनानाकलित -
शुक्तित्वादिविशेषितस्य सामान्यमात्रग्रहणरूपत्वाद्रजतमिति ज्ञानस्यासंनिहितविषयस्य संप्रयोग-
लिङ्गाद्यप्रसूततया सदृशावबोधितसंस्कारमात्रप्रभवत्वेन परिशेषप्राप्तस्मृतिभावस्य दोषहेतुकतया
गृहीततत्तांशप्रमोषाद्ग्रहणमात्रत्वोपपत्तेः। तदप्युक्तम् -
नन्वत्र रजताभासः कथमेष घटिष्यते। उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम्॥ शुक्तिकाया
विशेषा ये रजताद्भेदहेतवः। ते न ज्ञाता अभिभवाज्ज्ञाता सामान्यरूपता॥ अनन्तरं च
रजतस्मृतिर्जाता तयापि च। मनोदोषात्तदित्यंशपरामर्शविवर्जितम्॥ रजतं विषयीकृत्य नैव
शुक्ते र्विवेचितम्। स्मृत्यातो रजताभास उपपन्नो भवष्यिति॥ (प्रक. प. 4/26-29)
न ह्यसंनिहितं तावत्प्रत्यक्षं रजतं भवेत्। लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः॥
परिशेषात्स्मृतिरिति निश्चयो जायते पुनः। (प्रक. प. 4/31-32)
ननु किमिदमेकै कं व्यवहारकारणमुत संभूय। न प्रथमः। देशभेदेन प्रवृत्तिप्रसङ्गात्। न चरमः।
प्रयत्नायौगपद्याज्ज्ञाना- योगपद्यात् ( वै.सू.3/2/3) इत्यादिना ज्ञानयौगपद्यनिषेधात्। अतो
ज्ञानद्वयं हेतुरित्ययुक्तं वच इति चेत्- मैवं वोचः। अविनश्यतोः सहावस्थाननिषेधेपि
विनश्यदविनश्यतोः सहावस्थानस्यानिषिद्धत्वेन निरन्तरोत्पन्नयोस्तदुपपत्तेः। ननु
रजतज्ञानाद्रजतार्थी रजते प्रवर्ततां नाम। पौरस्त्ये वस्तुनि कथं प्रवृत्तिः स्यादिति चेन्न।
स्वरूपतो विषयतश्चागृहीतभेदयोर्ग्रहण- स्मरणयोः संनिहितरजतगोचरज्ञानसारूप्येण वस्तुतः
परस्परं विभिन्नयोरप्यभेदोचितसामानाधिकरण्य- व्यपदेशहेतुत्वोपपत्तेः। ग्रहणस्मरणयोः
संनिहितरजतज्ञानसारूप्यं कथम्। यथा चैतत्तथा निशम्यताम्। संनिहितरजतगोचरं हि
विज्ञानमिदमंशरजतांशयोरसंसर्ग नावगाहते। तयोः संसृष्टत्वेनासंसर्गस्यैवाभावात्। नापि स्वगतं
भेदम्। एकज्ञानत्वात्। एवं ग्रहणस्मरणे अपि दोषवशाद्विद्यमानमपीदमंशरजतांशयोरसंसर्ग भेदं
नावगाहत इति। भेदाग्रहणमेव सारूप्यम्। तदुक्तं गुरुमतानुसारिभिः -
ग्रहणस्मरणे चेमे विवेकानवभासिनी। सम्यग्रजतबोधाच्च भिन्ने यद्यपि तत्त्वतः॥ तथापि भिन्ने
नाभाते भेदाग्रहसमत्वतः। सम्यग्रजतबोधस्तु समक्षैकार्थगोचरः॥ ततो भिन्ने अबुद्धा च
ग्रहणस्मरणे इमे। समानेनैव रूपेण के वलं मन्यते जनः॥ अपरोक्षावभासेन समानार्थग्रहेण च।
अवैलक्षण्यसांवीत्तिरिति तावत्समर्थिता॥ व्यवहारोपि तत्तुल्यस्तत एव प्रवर्तते।
(प्रक.प.4/33/37)
एवमगृहीतविवेकमापन्नसंनिहितरूप्यज्ञानसारूप्यं ग्रहणस्मरणद्वयमयथाव्यवहारहेतुरिति सिद्धम्।
यद्येवमयथाव्यवहारो ग्रहण- स्मरणजन्यस्तर्हि पीतः शङ्ख इत्यादौ स न सिद्धस्तत्र
तयोरभावादिति चेन्न। अगृहीतविवेकयोः प्राप्तसमीचीनसंसर्गज्ञानसारुप्यत्वे ग्रहणयोरेव
व्यवहारसंपादकत्वोपपत्तेः। नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतिमादोष वशाद्द्रव्यरहितो गृह्यते।
शङ्खोप्यकलितशुक्लगुणः स्वरूपतो गृह्यते। तदनयोर्गुणगुणिनोः संसर्गयोग्ययोरसंसर्गाग्रह-
सारूप्यात्पीततपनीयपिण्डप्रत्ययावैलक्षण्याब्दवहार उपपद्यते। यथोक्तम् -
पीतशङ्खावबोधे हि पित्तास्येन्द्रियवर्तिनः। पीतिमा गृह्यते द्रव्यरहितो दोषतस्तथा॥
शङ्खस्येन्द्रियदोषेण शुक्लिमा न च गृह्यते। के वलं द्रव्यमात्रं तु प्रथते रूपवर्जितम्॥ गुणे
द्रव्यव्यपेक्षे च द्रव्ये च गुणकाङ्क्षिणि। भासमाने तयोर्बुद्धिरसंबन्धं न बुध्यते॥
सत्यपीतावभासेन समे भाते मती इमे। व्यवहारोपि तत्तुल्यं एवमत्रापि युज्यते॥ (प्रक. प.
4/48/51) इति।
नन्विदं रजतमिति भ्रान्तिज्ञानानभ्युपगमे रजतप्रसक्ते रसत्त्वान्नेदं रजतमिति निषेधः कथं
कलधौताभावं बोधयतीति चेत्- नैष दोषः। भेदाग्रहप्रसञ्जितस्य शुक्तौ रजतव्यवहारस्य
निषेधस्वीकारेण कल्पना लाघवसद्भावात्। तदुक्तं पञ्चिकाप्रकरणे -
मिथ्याभावोपि तत्तुल्यव्यवहारप्रवर्तनात्। रजतव्यवहारांशे विसंवादयतो नरात्॥ बाधक-
प्रत्ययस्यापि बाधकत्वमतो मतम्। प्रसज्यमानरजतव्यवहारानवारणात्॥ (प्रक. प. 4/38-39)
इति।
तदनेन प्राचीनयोर्ज्ञानयोः सत्यत्वे कथं भ्रमत्वप्रसिद्धिरिति शङ्का पराकृता। अयथाव्यवहार-
प्रवर्तकत्वेन तदुपपत्तेः।
किं च नेदं रजतमिति बाधकावबोधो नाभावमवगाहते। भावव्यतिरेके णाभावस्य दुर्ग्रहणत्वात्।
यद्येवमङ्ग नास्तीति प्रत्ययस्य किमालम्बनम्। अपरथा माहाभानिकपक्षानुप्रवेश इति चेत्- मैवं
भाषिष्ठाः। अभावस्य धार्मिप्रतियोगिनिरूपणाधीननिरुप्यत्वेवावश्याभ्युपगमनीये दृश्ये प्रतियोगि-
न्यदृश्ये वा स्मर्यमाणेधिकरणमात्रबुद्धेरेवनास्तीति व्यवहारोपपत्तावतिरिक्ता- भावकल्पनायां
प्रमाणाभावात्। तदुक्तममृतकलायाम् -
अत्रोच्यते द्वयी संविद्वस्तुनो भूतलादिनः। एका संसृष्टविषया तन्मात्रविषया परा। तन्मात्रविषया
वापि द्वयी साथ निगद्यते। प्रतियोगिन्यदृश्ये च दृश्ये च प्रतियोगिनि॥ तत्र तन्मात्रधीर्येयं स्मृते
च प्रतियोगिनि। नास्तित्वं सैव भूभागे घटादिप्रतियोगिनः॥ (प्रक. प. 6/37/39) इति।
अत एव च प्राभाकरमतानुसारिभिः प्रमाणपारायणे प्रत्यक्षादीनिपञ्चैव प्रमाणानि प्रपञ्चितानि।
नन्वेवमभावस्याभावे नकारस्य वैयर्थ्यमापद्येत। अनुशासनविरोधश्चापतेदिति चेत् - तदेतद्वार्तम्।
एकोनपञ्चाशद्वर्णानां मध्ये कस्यापि वर्णस्याभावार्थत्वादर्शनेन वर्णस्य सतो नकारस्य
तदर्थत्वानुपपत्तेः। न चैवमनुशासनविरोधः। तदन्यतदभावतद्विरुद्धेष्वर्थेष्वनुशासनस्यैवमर्थः
स्यात्। तथा हि- चेतनानां मध्ये कश्चन कस्यचिच्छत्रुः कश्चन कस्याचिन्मित्रं कश्चन कस्य
चिदुदासीनस्तथैवा चेतनानामपि। तदन्यपदेन तदुदासीनो नकारार्थः। विरुद्धपदेन शत्रुर्नकारार्थः।
तदभावपदेन मित्रं नकारार्थः। तथा चाब्राह्मणपद एवैतत्त्रयं प्रतीयते शूद्र इत्युदासीनो यवन इति
शत्रुः क्षत्रिय इति मित्रम्। एवं सर्वत्र नञ्प्रयोगस्थले द्रष्टव्यमिति न कश्चिदभावो भावव्यतिरिक्तः
संभवति। तस्मादुक्तया रीत्या भ्रमप्रसिद्धया विवादाध्यासिताः प्रत्यया यथार्थाः
प्रत्ययत्वाद्दण्डीति प्रत्ययवदिति सिद्धम्।
तदपरे न क्षमन्ते। इह खलु निखिलप्रेक्षावान्समीहिततत्साधनयोरन्यतरप्रवेदने प्रवर्तते। न च
रजतमर्थयमानस्य शुक्तिकाशकलज्ञानं तद्रूपमनु भावयितुं प्रभवति। शुक्तिकाशकलस्य
समीहिततत्साधनयोरन्यतरभावाभावात्। नापि रजतस्मरणं पुरोवर्तिनि प्रवृत्तिकारणम्।
तस्यानुभवपारन्त्र्यतयानुभवदेश एव प्रवर्तकत्वात्। नापि भेदाग्रहो व्यवहारकारणम्।
ग्रहणनिबन्धत्वाच्चेतनेव्यवहारस्य। ननु न वयमेकै कस्य कारणत्वं ब्रूमहे येनैवमुपालभ्येमहि।
किं त्वगृहीतविवेकस्य ज्ञानद्वयस्य प्राप्तसमीचीनपुरःस्थितरजतज्ञानसारूप्यस्येत्यनुक्तो-
पालम्भोयमिति चेत्- तदप्ययुक्तम्। विकल्पासहत्वात्। तथा हि- समीचीनरजतावभाससारूप्यं
भासमानं प्रवर्तकं सत्तामात्रेण वा। आद्ये विकल्पे भेदाग्रहापरपर्यायस्य सारूप्यस्य समीचीनसंनिभे
इमे ज्ञाने इति विशेषाकारेण गृह्यमाणस्य प्रवृत्तिकारणत्वं किं वानयोरेव स्वरूपतो विषयतश्च
मिथो भेदाग्रहो विद्यत इति सामान्याकारेण गृह्यमाणस्य सारूप्यस्य। नाद्यः।
समीचीनज्ञानवत्तत्संनिभज्ञानस्य तदुचितव्यवहारप्रवर्तकत्वानुपपत्तेः। न खलु गोसंनिभो गवय
इत्यवभासो गवार्थिनं गवये प्रवर्तयति। न द्वितीयः। व्याहतत्वात्। न
खल्वनाकलितभेदस्यानयोरिति अनयोरिति ग्रहे भेदाग्रह इति च प्रतिपत्तिर्भवति। अतः
परिशेषात्सत्तामात्रेण भेदाग्रहरूपस्य सारूप्यस्य व्यवहारकारणत्वमङ्गीकर्तव्यम्। एवमेवास्त्विति
चेत्- तर्हीदमिह संप्रधार्यम्- किमयं भेदाग्रहः समारोपोत्पादनक्रमेण व्यवहारकारणमस्तूतानु-
त्पादितारोप एव स्वयमिति। न च द्वितीयः पक्ष एव श्रेयान्। तावतैव व्यवहारोत्पत्तावारोपस्य
गौरवदोषदुष्टत्वादिति मन्तव्यम्। विशिष्टव्यवहारस्य विशिष्टाज्ञानपूर्वकत्वनियमेनाज्ञानपूर्वक-
त्वानुपपत्तेः।
नन्वयं व्यवहारो नाज्ञानपूर्वक इत्यनाकलितपराभिसंधिः स्वसिद्धान्तसिद्धार्थाद्यदि कश्चिच्छङ्के त
स प्रतिवक्तव्यः। शुक्तिकाविषयस्य ग्रहणस्यासमीहितविषयत्वेन रजतार्थिप्रवृत्तिहेतुत्वासंभवाद-
न्वयव्यतिरेकाभ्यां रजतज्ञानस्य समीहितविषयत्वेन प्रवृत्तिहेतुत्वसंभवाच्चेदमर्थाभिसंभिन्न-
ग्रहविविक्तस्यापि रजतस्मरणस्य कारणत्वं वक्तव्यम्। तच्च वक्तुं न शक्यते। जानाति इच्छति
ततः प्रवर्तत इति न्यायेन ज्ञानेच्छाप्रवृत्तीनां समानविषयत्वेन भाव्यम्। तथा
चेदंकारास्पदाभिमुखप्रवृत्तस्य रजतार्थिनस्तदिच्छानिबन्धनम्। अन्यथान्यदिच्छन्नन्यद्व्यव-
हरतीति व्याहन्येत। तथा च यदीदंकारास्पदं रजतावभासगोचरतां नाचरेत्कथं रजतार्थी
तदिच्छेत्। यद्यरजतत्वाग्रहणादिति ब्रूयात्। रजतत्वाग्रहात्कस्मादयं नोपेक्षेतेति। युगपत्त-
द्भवभेदाग्रहाभेदाग्रहनिबन्धनाभ्यामुपादानोपेक्षाभ्यां पुरतः पृष्टतश्चाकृष्यमाणः पुरुषो दोलाय-
मानतया रूप्यारोपमन्तरेणोपादानपक्ष एव न व्यवस्थाप्यत इत्यनिच्छताप्यच्छमतिना समारोपः
समाश्रयणीयः। यथाह- भेदाग्रहादिदंकारास्पदे रजतत्वमारोप्य तज्जातीयस्योपकारहेतुभाव-
मनुस्मृत्य तज्जातीयत्वेनास्यापि तदनुमाय तदर्थी प्रवर्तत इति प्रथमः पक्षः प्रशस्यः।
न च तटस्थरजतस्मरणपक्षेपि हेतोर्गुहीतत्वेनायं मार्गः समान इति वाच्यम्। रजतत्वस्य हेतोः
पक्षधर्मत्वाभावात्। न च पक्षधर्मताया अभावेपि व्याप्तिबलाद्वमकत्वं शङ्कयम्। व्याप्तिपक्ष-
धर्मतावल्लिङ्गस्यैव गमकत्वाङ्गीकारात्। तदाहुः शबरस्वामिनः- ज्ञातसंबन्धस्यैव पुंसो
लिङ्गविशिष्टधर्म्येकदेशदर्शनाल्लिङ्गिविशिष्टधर्म्येकदेशबुद्धिरनुमानमिति। आचार्योंप्यवोचत्-
स एष चोभयात्मा यो गम्ये गमक इष्यते। असिद्धेनैकदेशेन गम्यासिद्धेर्न बोधकः॥ इति।
ननु भवत्पक्षेपि पुरःस्थितस्येदमर्थस्य परमार्थतो रजतत्वं नास्तीति न रजतत्वं धर्म्येकदेश इति
चेन्न। यक्षानुरूपो बलिरिति न्यायेनानुमित्याभासानुगुणस्यैकदेशस्य विद्यामानत्वात्। तथा च
प्रयोगः - विवादाध्यासितं रजतज्ञानं पुरोवर्तिविषयं रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात्।
यदुक्तसाधनं तदुक्तसाध्यं यथोभयवादिसंमतं सत्यरजतज्ञानम्। विवादपदं शुक्तिशकलं
रजतज्ञानविषयोऽव्यवधानेन रजतार्थिप्रवृत्तिविषयत्वाद्रजतपदसमानाधिकरणपदान्तरवाच्यत्वाद्वा
वस्तुरजतवत्।
यदुक्तं रजतज्ञानस्य शुक्तिकालम्बनत्वेनुभवविरोध इति तदप्ययुक्तम्। विकल्पासहत्वात्। तथा
हि- तत्र किं रजताकारप्रतीतिं प्रति शुक्ते रालम्बनत्वेनुभवविरोध उद्भाव्यत इदमंशस्य वा। नाद्यः।
अनङ्गीकारपराहतत्वात्। न द्वितीयः। इदंतानियतदेशाधिकरणस्य चाकचक्यविशिष्टस्य वस्तुनो
रजतज्ञानालम्बनत्वमनवलम्बमानस्य भवत एवानुभवविरोधात्। इदं रजतमिति सामानाधि-
करण्येन पुरोवर्तिन्यङ्गुलिनिर्देशपूर्वकमुपादानादिव्यवहारदर्शनाच्च।
यच्चोक्तम्- दोषाणामौत्सर्गिककार्यप्रसवशक्तिप्रतिबन्धकतया विपरीतकारित्वं नास्तीति।
तदप्ययुक्तम्। दावदग्धवेत्रबीजादौ तथा दर्शनात्। न च दग्धस्य वेत्रबीजत्वं नास्तीति मन्तव्यम्।
श्यामस्य घटस्य रक्ततामात्रेण घटत्वनिवृत्तिप्रसङ्गात्। ननु घटोयमित्यनुवृत्तयोः प्रत्ययप्रयोगयोः
सद्भावाद्धटत्वस्य सद्भाव इति चेन्न। अत्रापीदं वेत्रबीजमिति तयोः समानत्वात्। तथा
भस्मकदोषदूषितस्य जाठराग्नेर्बह्वन्नपचनसामर्थ्यं दृश्यते। न च बह्वन्न पचनसामर्थ्यं जाठरस्यैव
जातवेदसो न भस्मकव्याधेरिति वक्तुं युक्तम्। तस्य मन्दमल्पपचनसामर्थ्येपि सहसा
महत्पचनस्य भस्मकव्याधिसाहायकमन्तरेणानुपपत्तेः। अन्यथा सर्वेषां तथापत्तेः किं च ज्ञानानां
यथार्थव्यवहारकारणत्वेपि दोषवशादयथार्थव्यवहारकारणत्वमङ्गीकु र्वाणो भवानेव पर्यनुयोज्यो
भवति। तदुक्तं भाष्ये-यश्चोभयोः समानो दोषो द्योतते तत्र कश्चोद्यो भवतीति। अत्राप्युक्तम् -
यश्चोभयोः समो दोषः परिहारोपि वा समः। नैकः पर्यनुयोक्तव्यस्तादृगर्थविचारणे॥ इति।
तथापि मामकस्यानुमानस्य किं दूषणं दत्तमासीत्। यद्यनुमानदूषणं विना न परितुष्यति हन्त
कालात्ययापदिष्ठता। कृष्णवर्त्मानुष्णात्वानुमानवत्। एतावन्तं कालं यदिदं रजतमित्यभादसौ
शुक्तिरिति प्रत्यक्षेण प्राचीनप्रत्ययस्यायथार्थत्वं प्रवेदयता यथार्थत्वानुमानस्यापहृत-
विषयत्वाद्वाध्यत्वसंभवात्।
यच्चोक्तं स्वगोचरव्यभिचारे सर्वानाश्वासप्रसङ्ग इति। तदसाम्प्रतम्। संविदां
क्वचित्संवादिव्यवहारजनकत्वेपि न सर्वत्र तच्छङ्कया प्रवृत्त्युच्छे द इति यथा तावके मते तथा
मामके प्यसौ पन्था न वारित इति समानयोगक्षेमत्वात्। तौतातितमतमवलम्ब्य विधिविवेकं
व्याकु र्वाणैराचार्यवाचस्पतिमिश्रैर्बोंधकत्वेन स्वतः प्रमाण्यं नाव्यभिचारेणेति न्यायकणिकायां
प्रत्यपादि। तस्मादविश्वासशङ्कानवकाशं लभते।
ननु माध्यमिकमतावलम्बनेन रजतादिविभ्रमालम्बनमसदिति चेत्- तदुक्तम्। असतोऽपरोक्ष-
प्रतिभासायोग्यत्वात्। तदुपादित्सयाप्रवृत्त्यनुपपत्तेश्च। ननु विज्ञानमेव वासनादिस्वकारणसामर्थ्या-
सादितदृष्टान्तसिद्धस्वभावविशेषमसत्प्रकाशनसमर्थनमुपजातम्। असत्प्रकाशनशक्तिरविद्या
संवृतिरिति पर्यायाः। तस्मादविद्यावशादसन्तो भान्तीति चेत्- तदपि वक्तु मशक्यम्। शक्यस्य
दुर्निरूप्यत्वात्। किमत्र शक्यं कार्यं ज्ञाप्यं वा। नाद्यः। असतः कारणत्वानुपपत्तेः। न द्वितीयः।
शक्यस्य कारणत्वेनाङ्गीकृतत्वात्। ज्ञानादन्यस्य ज्ञानस्यानुपलब्धेश्च। उपलब्धौ वा तस्यापि
ज्ञाप्यत्वेन ज्ञापकारान्तरापेक्षायामनवस्थापत्तेश्च। अथैतद्वोषपरिजिहीर्षया विज्ञानं सद्रपमेवासत ूः
प्रकाशकमिति कक्षीक्रियत इति चेत् अत्र देवानांप्रियः प्रष्टव्यः पुनः। असौ सदसतोः संबन्धो
निरूप्य निरूपकभावोऽविनाभावो वा। नाद्यः। असत उपकाराधारत्वायोगेनानुपकृततया
निरूप्यत्वानुपपत्तेः। न चरमः। धूमधूमध्वजयोरिव तदुत्पत्तिलक्षणस्य शिंशपावृक्षयोरिव
तादात्म्यलक्षणस्य वा अविनाभावनिदानस्य सदसतोरसंभवात्। तस्माद्विज्ञानमेवासत्प्रकाशक-
मित्यसद्वादिनामयमसत्प्रलाप इत्यारोप्यमाणं नासत्।
ननु विज्ञानवादिनयानुसारेण प्रतीयमानं रजतं ज्ञानात्मकम्। तत्र च युक्तिरभिधीयते-
यद्यथानुभूयते तत्तथा। अन्यथात्वं तु बलवद्वाधकोपनिपातादास्थीयत इत्युभयवादिसंमतोर्थः। तत्र
च नेदं रजतमिति निषिद्धेदंभावं रजतमर्थादान्तरज्ञानरूपमवतिष्ठते। न चेदंतया निषेधे
सत्यनिदंतया च बहिरपि व्यवस्थोपपत्तेः कु तः संविदाकारतेति वाच्यम्। व्यवहितस्यापरोक्ष-
त्वानुपपत्तावपरोक्षस्य विज्ञानस्य कक्षीकर्तव्यत्वात्। तथा च प्रयोगः- विवादपदं विज्ञानाकारः
संप्रयोगमन्तरेणापरोक्षत्वाद्विज्ञानवदिति। तदनुपपन्नम्। विकल्पासहत्वात्। बाधकोवबोधः किं
साक्षाज्ज्ञानाकारतां बोधयत्यर्थाद्वा। नाद्यः। नेदं रजतमितिप्रत्ययस्य रजतविवेकमात्रगोचरस्य
ज्ञानाभेदगोचरायामनुभवविरोधात्। नेदं रजतमिति रजतस्य पुरोवर्तित्वप्रतिषेधो ज्ञानाकारतां
कल्पयतीति चेत्- तदेतद्वार्तम्। प्रसक्तप्रतिषेधात्मनो बाधकावबोधस्य तत्रैव सत्वात्प्रतिषेधोपपत्तेः।
विज्ञानाकारत्वसाधनमप्यविज्ञानाकारे बहिष्ठे साक्षिप्रत्यक्षे भावरूपाज्ञाने वर्तत इति सव्यभिचारः।
नन्वन्यथाख्यातिवादिमतानुसारेण रजतस्य देशान्तरसत्त्वेन भाव्यम्। अन्यथा तस्य
प्रतिषेधप्रतियोगित्वानुपपत्तेः। न हि कश्चित्प्रेक्षावाञ्शशविषाणं प्रतिषेद्धंु प्रभवति। तदुक्तम् -
व्यावर्त्याभावत्तैव भाविकी हि विशेष्यता। अभावविरहात्मत्वं वस्तुनः प्रतियोगिताः।
(न्या.कु .3/2) इति।
तथा च तस्य देशान्तरसत्त्वमाश्रयणीयमिति चेत्- तदपि न प्रमाणपद्धतिमध्यास्ते। असतः
संसर्गस्येव कलधौतस्य निषेधप्रतियोगित्वोपपत्तेः।
नन्विदं रजतमिति ज्ञानमेकमनेकं वा। न तावदाद्यः। अपसिद्धान्तापत्तेरसंभवाच्च। तथा हि।
शुक्तीदमंशेन्द्रियसंप्रयोगादिदमाकारान्तःपरिणामरूपमेकं ज्ञानं जायते। न च तत्र कलधौतं
विषयभावमाकल्पयितुमुत्सहते। असंप्रयुक्तत्वात्तस्य। विषयत्वाङ्गीकारे सर्वज्ञत्वापत्तेः। न च
चक्षुरन्वयव्यतिरेकानुविधायितया तज्ज्ञानस्य तज्जन्यत्वं वाच्यम्। इदमंशज्ञानोत्पत्तौ
तदुपक्षयोपपत्तेः। न चापि संस्काराद्रजतज्ञानस्य जन्म। स्मृतित्वापत्तेः। अथेन्द्रियदोषस्य
तत्करणत्वम्। तदप्ययुक्तम्। स्वातन्त्र्येण तस्य ज्ञानहेतुत्वानुपपत्तेः। न हि
ग्रहणस्मरणाभ्यामन्यः प्रकारः समस्ति। तस्मादिदमंशरजततादात्म्यविषयमेकं विज्ञानं न घटते।
नाप्यनेकमख्यातिमतापत्तेरिति चेत् -
उच्यते। प्रथमं दोषकलुषितेन चक्षुषेदंतामात्रविषयान्तःकरणवृत्तिरुत्पद्यते। अनन्तरं तया वृत्त्या
चैतन्यावरणाभिभवे सति तच्चैतन्यमभिव्यज्यते। पश्चादिदमंशचैतन्यनिष्ठा अविद्या
रागादिदोषकलुषिता कलधौताकारेण परिणमते। इदमाकारन्तःकरणापरिणामावच्छिन्न-
चैतन्यनिष्ठा कलधौतगोचरपरिणामसंस्कारसचिवा कलधौतज्ञानाभासाकारेण परिणमते। तौ च
रजतवृत्तिपरिणामौस्वाधिष्ठानेन साक्षिचैतन्येनाव्यवधानेन भास्येते। तथा च सवृत्तिकाया
अविद्यायाः साक्षिभास्यत्वाभ्युपगमे वृत्त्यन्तरवेद्यत्वाभावान्नानवस्था। यद्यप्यन्तःकरणवृत्ति-
रविद्यावृत्तिश्चेति द्वे इमे ज्ञाने तथापि विषयाधीनं फलम्। ज्ञातो घट इति विषयावच्छिन्नतया
फलप्रतीतेः तद्विषयश्च सत्यमिथ्याभूतयोरिदमंशरजतांशयोरन्योन्यात्मकतयैकत्वमापन्नः।
तस्माद्विषयावच्छिन्नफलस्याप्येकत्वाज्ज्ञानैक्यमुपचर्यते। तदुक्तम्।
शुक्तीदमंशचैतन्यस्थिताविद्या विजृम्भते। रागादिदोषसंस्कारसचिवा रजतात्मना॥ इदमाकार-
वृत्त्यक्तचैतन्यस्था तथाविधा। विवर्तते तद्रजतज्ञानाभासात्मनाप्यसौ॥ सत्यमिथ्या-
त्मनोरैक्यादेकस्तद्विषयो मतः। तदायत्तफलैकत्वाज्ज्ञानैक्यमुपचर्यते॥ इति॥
पञ्चपादिकायामपि फलैक्याज्ज्ञानैक्यमुपचर्यत इत्यभिप्रायेण सा चैकमेव ज्ञानमेकफलं जनयति
(प.पा.पृ9प.15) इत्युक्तम्।
ननु शुक्तिकामस्तके भाव्यमानस्य कलधौतस्य तत्रैव सत्यत्वाभ्युपगमे नेदं रजतमिति निषेधः
कथं प्रभवेतिदि चेन्न। प्रातिभासिकसत्यत्वेपि व्यावहारिकसत्यत्वाभावेन प्रतिपन्नोपाधौ
प्रतियोगित्वसंभवात्। तदुक्तं पञ्चपादिकाविवरणे (पृ.31.प.1)- त्रिविधं सत्त्वम्। परमार्थसत्त्वं
ब्रह्मणः। अर्थक्रियासामर्थ्यं सत्त्वं मायोपाधिकमाकाशादेः। अविद्योपाधिकं सत्त्वं रजतादेरिति।
अन्यत्राप्युक्तम् -
कालत्रये ज्ञातृकाले प्रतीतिसमये तथा। बाधाभावात्पदार्थानां सत्त्वत्रैविध्यमिष्यते॥ तात्त्विं ब्रह्मणः
सत्त्वं व्योमादेर्व्यावहारिकम्। रूप्यादेरर्थजातस्य प्रातिभासिकमिष्यते॥ इति। लौकिके न प्रमाणेन
यद्वाध्यं लौकिके वधौ। तत्प्रातिभासिकं सत्त्वं बाध्यं सत्येव मातरि॥ वैदिके न प्रमाणेन यद्वाध्यं
वैदिके वधौ। तद्व्यावहारिकं सत्त्वं बाध्यं मात्रा सहैव तत्॥ इति च।
ततः ख्यातिबाधान्यथानुपपत्त्या भ्रान्तिगोचरस्य मायामयस्य रजतादेः सदसद्विलक्षणत्व-
लक्षणमनिर्वचनीयत्वं सिद्धम्। तमवोच च्चित्सुखाचार्यः-
प्रत्येकं सदसत्त्वाभ्यां विचारपदवीं न यत्। गाहते तदुनिर्वाच्यमाहर्वेदान्तवादिनः॥
(चित्सु.पृ.79) इति।
ननु मायाविद्ययोः स्वाश्रयव्यामोहहेतुत्वतदभावाभ्यां भेदस्य जागरुकत्वेनाविद्यामयत्वे वक्तव्ये
मायामयत्वोक्तिरारोप्यस्यायुक्ते ति चेत्- तदयुक्तम्। अनिर्वचनीयत्वतत्त्वाभासप्रतिबन्धकत्वादि-
लक्षणजातस्य मायाविद्ययोः समानत्वात्। किं चाश्रयशब्देन द्रष्टोच्यते कर्ता वा। नाद्यः।
मन्त्रौषधादिनिमित्तमायादर्शिनस्तस्य व्यामोहदर्शनात्। न द्वितीयः। विष्णोः स्वाश्रितमाययैव
रामावतारे मोहितत्वेन तत्र मायावित्वस्याप्रयोजकत्वात्। बाधनिश्चयमन्त्रादिप्रतीकारबोधयोरेव
प्रयोजकत्वात्। अपरथा पङ्ग्वन्धवत्कर्तापिव्यामुह्येत। न चेच्छानुविधानाननुविधानाभ्यां तयोर्भेद
इति भणितव्यम्। मायास्थले मणिमन्त्रौषधादिप्रयोगवदविद्यास्थलेपि द्विचन्द्रके शोण्ड्रकादिविभ्रम-
निमित्ताङ्गुल्यवष्टम्भादावपि स्वातन्त्र्योपलम्भात्। अत एव तत्र तत्र श्रुतिस्मृतिभाष्यादिषु
मायाविद्ययोरभेदेन व्यवहारः संगच्छते। क्वचिद्विक्षेपप्राधान्येनावरण- प्राधान्येन च
मायाविद्ययोर्भेदे तद्व्यवहारो न विरुध्यते। तदुक्तम् -
माया विक्षिपदज्ञानमीशेच्छावशवर्ति वा। अविद्याच्छादयत्तत्त्वं स्वातन्त्र्यानुविधायि वा॥ इति।
नन्वविद्यासद्भावे किं प्रमाणम्। अहमज्ञो मामन्यं च न जानामीति प्रत्यक्षप्रतिभास एव। ननु
ज्ञानाभावविषयोयं नाभिप्रेतमर्थं गमयतीति चेत्- न तावदनुपलब्धिवादिनश्चोद्यमेतत्। परोक्ष-
प्रतिभासहेतुत्वात्तस्याः। अयमपि परोक्षप्रतिभास एवेति चेत्- न तावल्लिङ्गशब्दानुपपद्य-
मानार्थजन्यः। ज्ञातकरणत्वात्तेषाम्। न चैतत्सामग्रीकाले ज्ञानमस्ति। अनुभूयते वा।
अनुपलब्ध्या जन्यत इति चेत्- न तावदियमज्ञाता करणम्। प्रत्यक्षेतरस्य ज्ञातकरणत्व-
नियमात्। नापि ज्ञातैव करणम्। अनुपलब्ध्यनवस्थानात्। न च यथा परेषामभावग्रहणे
योग्यानुपलब्धिः सहकारिणी तथा नः करणमिति शङ्कयम्। ज्ञानकरण इव सहकारिणि
ज्ञातत्वनियमाभावात्। अस्तु वा तथा ज्ञेयाभावग्रहणे करणम्। ज्ञानाभावग्रहणेकरणं न
भवत्येवेति वक्ष्यते।
प्रत्यक्षाभाववादे तु प्रत्यक्षेण तावद्धर्मिप्रतियोगिज्ञानयोः सतोरात्मनि ज्ञानमात्राभावग्रहणं न
ब्रूयात्। घटवति भूतले घटाभावस्येव ज्ञानमात्राभावस्य ग्रहीतुमशक्यत्वात्। तयोरसतोस्तु
सुतराम्। कारणाभावात्। अतोपि योग्यानुपलब्ध्या वा फललिङ्गाद्यभावेन वात्मनि
ज्ञानमात्राभावग्रहणं दुर्लभमिति परमतेप्ययं न्यायः समानः। तदेवमात्मनि प्रत्यक्षेण वान्येन वा
ज्ञानमात्राभावस्य ग्रहणमशक्यमिति स्थितम्।
ननु ज्ञानविशेषाभावः प्रत्यक्षेण गृह्यताम्। न तावत्स्मरणाभावः। अभावग्रहणे
प्रतियोगिस्मरणस्य कारणत्वात्। नाप्यनुभवाभावः। तस्यावर्जनीयत्वात्। नन्वात्मति
घटानुभवाभावः प्रत्यक्षविषयस्तर्ह्यहमज्ञ इति ज्ञानसामान्यवचनो ज्ञानातिर्ज्ञानविशेषेऽनुभवे
लक्षणया वर्तनीयः। लक्षणा च संबन्धेनुपपत्तौ च सत्यां वर्तते। संबन्धस्तावदनुभवत्व-
ज्ञानत्वयोरेकव्यक्तिसमावेशो व्याप्यव्यापकभावो वा विद्यत एव। अनुपपत्तिं तु न पश्यामः।
नन्वनुभवाभावे प्रत्यक्षस्य प्रमेयलाभस्तेनैव तस्यार्थवत्ता सिध्यति। सत्यम्। प्रयोजन-
मेतन्नानुपपत्तिः। अन्योन्याश्रयात्। नन्वहमज्ञ इत्यत्र नञ् आत्मनि ज्ञानमात्राभावं न ब्रूते।
ज्ञानवति तस्मिंस्तदभावात्। नाप्यनुभवाभावम्। ज्ञानोक्ते स्तदनभिधायकत्वात्। नैरर्थक्यं च न
युक्तमित्यनयैवानुपपत्त्या लक्षणेति चेत्- उक्तलक्षणैवाविद्या तदर्थोंस्तु। संदेह इति चेन्न।
असमत्वात्कोटिद्वयस्य। अन्यत्र हि प्रतियोगिनिवृत्तिर्नञर्थः। अत्र तु प्रतियोगिव्याप्यनिवृत्तिरिति।
जानाति समभिव्याहृतस्य नञः क्वचिदुक्तलक्षणाविद्याविषयत्वसिद्धिमन्तरेण न संदेह
इत्यवश्यंभावेन सैव जानातिसमभिव्याहृतस्य नञः सर्वत्र तद्विषयत्वमवगमयति विलुम्पति
ज्ञानाभावकोटयन्तरमिति क्व संदेहावकाशः। तदेवं लक्षणाहेत्वभावेऽनुभवाभावोप्यात्मनि न
प्रत्यक्षेण गृह्यत इति परिशेषादुक्तलक्षणाविद्यैवाज्ञ इति प्रतिभासस्य विषय इति स्थितम्।
अस्तु वा ज्ञानाभावप्रतिभासः। अयमभावश्च प्रतियोगी यत्र निषिध्यते न
ततस्तत्त्वान्तरमन्यदधिकरणभावात्। मा भूदन्य भावत्वमन्याभावत्वं तु स्यात्। ननु तदपि
विरुद्धम्। सत्यं सति भेदे। स च प्रमाणात्। तच्च सति प्रतियोग्यभावाधिकरणतस्तत्त्वान्तरे।
ननु घटवति भूतले घटाभावमितिव्यवहृती स्यातामिति चेत्- मा भूतामेते प्रतियोगिना
सहानुभूयमानेधिकरणे। प्रतियोगिस्मरणे सत्यनुभूयमानेधिकरणे तु स्याताम्। एवमप्युपपत्तौ न
तत्त्वान्तरविषयत्वं कल्प्यम्। कानुपपत्तिरिति चेद्वाधकाभावस्तावदुक्त एव। बाधकं तु
कल्पनागौरमेव। तथा हि तत्त्वान्तरत्वं तावेदकं कल्प्यम्। तस्यापरोक्षत्वायेन्द्रियसंनिकर्षः
कल्प्यः। स च संयोगादिर्न भवतीति संयुक्तविशेषणत्वादिः कल्प्य इत्यतो
वरमुक्तलक्षणस्याधिकरणस्य व्यवहारविषयेङ्गीकारः। सति चैवं ज्ञानाभावेनापि प्रतियोगिस्मृतौ
सत्यामनुभूयमानमधिकरणं ज्ञातैव। स च न के वलमन्तःकरणम्। जडत्वात्। नापि के वल
आत्मैव। अपरिणामित्वादगुणत्वाच्च। अत उभयोरभेदाध्यासः। आत्माध्यासश्चोक्तलक्षणा-
विद्यात्मेत्यायातमविद्यायामेवाहमज्ञ इति प्रतिभासः प्रमाणमिति।
अनुमानं च - विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिवर्त्यस्वदेश-
गतवस्त्वन्तरपूर्वक प्रकाशितार्थप्रकाशकत्वात्। अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति।
वस्तुपूर्वकमित्युक्त आत्मवस्तु पूर्वकत्वेनार्थान्तरता। तदर्थं वस्त्वन्तरेति। तथापि विषयभूते
वस्त्वन्तरेर्थान्तरता। तदर्थं स्वदेशगतेति। अदृष्टादिकं प्रत्यादेष्टुं स्वनिवर्त्येति। उत्तरज्ञाननिवर्त्यं
प्रथमज्ञानं निवर्तयितुं स्वविषयावरणेति। प्रागभावं प्रतिक्षेप्तुं स्वप्रागभावव्यतिरिक्ते ति।
स्वप्रागभावव्यतिरिक्तपूर्वकमित्युक्ते विषयेणार्थान्तरता। तदर्थं विषयावरणेति। तादृशमन्धकारं
व्यासेद्धंु स्वनिवर्त्येति। विषयगतामज्ञाततां निराकर्तृं स्वदेशगतेति। मिथ्याज्ञानमपोहितुं
वस्त्वन्तरेति। धारावाहिकविज्ञाने व्यभिचारं व्यासेद्धुमप्रकाशितेति। मध्यवर्तिप्रदीपप्रभायां
साध्यसाधनवैधुर्यप्रतिरोधाय प्रथमोत्पन्नविशेषणम्। सौरालोकव्याप्तदेशस्थप्रदीपप्रभाप्रतिक्षेपाया-
न्धकारेति। न च ज्ञानसाधके प्रमाणे व्यभिचारः शङ्कनीयः। विप्रतिपन्नं
प्रत्यसत्त्वनिवृत्तिमात्रस्य प्रमाणकृत्यत्वात्। तदुक्तं देवताधिकरणे कल्पतरुकारैरनुमानादि-
भिरसत्त्वनिवृत्तिः क्रियत इति। ननु साधनविकलो दृष्टान्त इति चेन्न। प्रकाशशब्देन
तमोविरोध्याकारस्य विवक्षितत्वात्। तदुक्तं विवरणविवरणे सहजसर्वज्ञविष्णुभट्टोपाध्यायैः - न
चात्र पक्षदृष्टान्तयोरेकप्रकाशरूपानन्वयः शङ्कनीयः। तमोविरोध्याकारो हि प्रकाशशब्दवाच्यः।
तेनाकारेणैक्यमुभयत्रास्तीति। नरेन्द्रगिरिश्रीचरणौस्त्वित्थमुक्तमअप्रकाशितप्रकाशव्यवहारहेतुत्वं्
हेत्वर्थः। तस्य चोभयत्रानुगतत्वान्नासिद्धयादिरिति।
श्रुतेश्च। भूयश्चान्ते विश्वमायानिवृत्तिः (श्वे.1/10) इत्यादिका श्रुतिः।
तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते। योगी मायाममेयाय तस्मै विद्यात्मने नमः॥ इति च।
एतेनैतत्प्रत्युक्तं यदुक्तं भास्करेण क्षपणकचरणं प्रमाणशरणे भेदाभेदवादिनां भावरूपज्ञानं नास्ति
किं तु ज्ञानाभाव इति। तथा च भास्करप्रणीतशारीरकमीमांसाभाष्यग्रन्थः। यदेव पररूपादर्शनं
सैवाविद्येति भावरूपाज्ञानानभ्युपगमे जीवेश्वरादिविभागा- नुपपत्तेः। न च भाविकः परमात्मनोंशो
जीव इति वाच्यम्।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम्॥ (6/19) इत्यादिश्रुतिविरोधात्।
के चन शाक्ताः - शक्तिं मायाशब्दार्थभूतां जगत्कारणत्वेनाङ्गीकृतां सत्यामभ्युपेत्य
मातुलिङ्गगदाखेटविधारिणी महालक्ष्मीस्तस्याः प्रथमावतार इति वर्णयन्ति। सा च कालरात्रिः
सरस्वतीति द्वे शक्ती उत्पाद्य ब्राह्मणं पुरुषं श्रियं च स्त्रियमुत्पादयामास। स्वयं मिथुनं जनयित्वा
स्वसुते अप्याह-अहमिव युवामपि मिथुनमुत्पादयतमिति। ततः कालरात्रिर्महादेवं पुरुषं स्वरां
स्त्रियं च जनयामास। सरस्वती च विष्णुं पुरुषं गौरीं च स्त्रियमुदपादयत्।
ततश्चादिर्विवाहमकरोदकारयच्च। एवं ब्रह्मणे स्वरां विष्णवे श्रियं शिवाय गौरीं दत्त्वा शक्तियुक्तानां
तेषां सृष्टिस्थितिसंहाराख्यानि कर्माणि प्रत्यपादयदिति। तदेतन्मतं श्रुत्यादिमूलप्रमाणविधुरतया
स्वोत्प्रेक्षामात्रपरिकल्पितमिति स्वरूपव्याक्रियैव निराक्रियेत्युपेक्षणीयम्। ततश्चानिर्वचनीयानाद्य-
विद्यालसितः प्रत्यगात्मनि प्रतीयमानः प्रमातृत्वादिप्रपञ्च इत्यलमतिप्रसङ्गेन।
ननु किमर्थं प्रमातृत्वादीनामाविद्यकत्वं निगद्यते। ब्रह्मज्ञानेन निवर्तनाय जीवस्य ब्रह्मभावाय वा।
न प्रथमः। शास्त्रप्रामाण्यादेव सत्यस्यापि ज्ञानेन निवृत्तेरूपपत्तेः। उपलम्भाच्च। तथाहि -
सेतुं दृष्ट्वा विमुच्यत ब्रह्महा ब्रह्महत्यया।
इत्यादिना पापं सनीस्त्रस्यते। विषयदोषदर्शनेन रागो दन्दह्यते। तार्क्ष्यध्यानेन विषं शम्यते। एवं
कतृत्वादिबन्धः पारमार्थिकोपि तत्त्वज्ञानेन निवर्त्येत। न चरमः। औपाधिकस्य
जीवभावस्योपाधिनिवृत्त्या निवृत्तौ ब्रह्मभावसंभवात्। तस्माद्वन्धस्याविद्यकत्व- वाचोयुक्तिः सावद्येति
चेत्- नैतदनवद्यम्। सत्यस्यात्मवज्ज्ञाननिवर्त्यत्वानुपपत्तेः। बन्धस्य मिथ्यात्वमन्तरेण
शास्त्रप्रामाण्यादपि तदसिद्धेश्च। शास्त्रमपि।
लोकावगतसामर्थ्यः शब्दो वेदेपि बोधकः।
इति न्यायेन लोकावलोकितां पदशक्तिं पदार्थयोग्यतां चोररीकृत्य प्रचरतीति। अपरथा आदित्यो
यूपः (तै.ब्रा.2/1/5) यजमानः प्रस्तरः (तैसं.1/7/4) इयादिवाक्यस्तोमस्य यथाश्रुतेर्थे
प्रामाण्यापत्तेः। वैदिक्याः क्रियायाः समक्षक्षयितया पारत्रिकफलकरणत्वान्यथानुपपत्त्या
अपूर्वाङ्गीकरणानुपपत्तिश्च। लोके च शुक्तिव्यक्तितत्त्वाभिव्यक्तावपनीयमानस्यारोपितस्य मिथ्यात्व-
दृष्टौ तद्दृष्टान्तावष्टम्भेनात्मतत्त्वसाक्षात्कारविद्यापनोद्यस्याविद्यकस्य बन्धस्य मिथ्यात्वानुमान-
संभवात्। विमतं मिथ्या अधिष्ठानत्त्वज्ञाननिवर्त्यत्वाच्छु क्तिकारूप्यवदिति। न च विमतं सत्यं
भासमानत्वादिति प्रतिप्रयोगे समानबलतया बाधप्रतिरोधः। प्रतिरोधभियान्यतर-
दोषत्वसंभवादिति वदितव्यम्। मरुमरीचिकोदकादौ सव्यभिचारात्। अबाधितत्वेन विशेषणान्न
दोष इति चेत्- मैवं भाषिष्ठाः। विशेषणासिद्धेः। तत्रेदं भवान्पृष्टो व्याचष्टाम्। कतिपयपुरुष-
कतिपयकालाबाधितत्वं हेतुविशेषणं क्रियते सर्वथा बाधवैधुर्यं वा। न प्रथमः।
यत्नेनानुमितोप्यर्थः कु शलैरनुमातृभिः। अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते॥ (वाक्यप.1/34)
इति न्यायेन त्रिचतुरप्रतिपत्तृप्रतिपादितस्यापि प्रतिपत्त्रन्तरेण प्रकारान्तरमुररीकृत्य प्रतिपादनात्।
नापि चरमः। सर्वधा बाधबैधुर्यस्यासर्वज्ञदुर्ज्ञेयत्वात्। यद्येवं हन्त तर्हि ज्ञानात्मनोपि सत्यत्वं
नावगम्यत इति चेत्- मैवं मंस्थाः। तत्सत्यं स आत्मा (छा.6/8/7) इत्यागमसंवादगतेः। न च
प्रपञ्चेप्ययं न्याय इति मन्तव्यम्। तादृशस्यागमस्यानुपलम्भात्। प्रत्युताद्वितीयत्वं श्रावयन्त्याः
श्रुतेः प्रपञ्चमिथ्यात्व एव पक्षपातात्। ननु कल्पनामात्रशरीरस्य पक्षसपक्षविपक्षादेः
सर्वसुलभत्वेन जयपराजयव्यवस्थाया कथं कथा प्रथेत। कात्र कथंता।
एवं त्रिचतुरज्ञानजन्मनो नाधिका मतिः। (श्लो.वा.1/1/2 सूत्रे) इति न्यायेन
त्रिचतुरकक्ष्याविश्रान्तस्य तत्तदाभासलक्षणानालिङ्गितस्य दूषणभूषणादेस्तत्र कथाङ्गत्वा-
ङ्गीकारात्। अत एवोक्तं खण्डनकारेणव्यावहारिकीं प्रमाणसत्तामादाय विचारारम्भः (ख.पृ.44)
इति। न च भेदग्राहिभिः प्रमाणैरद्वैतश्रुतेर्जघन्यतेतिशङ्कयम्। ब्रह्मणि पारमार्थिकसत्यत्वेन
तदावेदिकायास्तत्त्वावेदन- लक्षणप्रामाण्यायाः श्रुतेर्व्यावहारिकप्रमाणभावानां प्रत्यक्षादीनां च
विभिन्नविषयतया परस्परं बाध्यबाधकभावासंभवात्। तदप्युक्तं तेनैव -
तदद्वैतश्रुतेस्तावद्वाधः प्रत्यक्षतः क्षतः। नानुमानादि तं कर्तुं तवापि क्षमते मते॥ (ख.1/20)
धीधना बाधनायास्यास्तदा प्रज्ञां प्रयच्छथ। क्षेप्तुं चिन्तामणिं पाणिलब्धमब्धौ यदीच्छथ॥
(ख.1/24)
तस्मात्तत्त्वज्ञानेन निवर्तनायास्य बन्धस्याज्ञानकल्पितत्वमङ्गीकर्तव्यम्। यत उक्तं यतो
ज्ञानमज्ञानस्य निवर्तकमिति।
यदुक्तं सत्यस्यापि दुरितस्य सेतुदर्शनेन निवृत्तिरूपलभ्यत इति। तदयुक्तम्। विहितक्रियानुष्ठानेन
जनितस्य धर्मस्याधर्म- निवर्तकत्व ध्रौव्यात्। धर्मेण पापमपनुदन्ति (म.ना.22/1) इति श्रुतेः।
प्रमाणवस्तुपरतन्त्रशालिन्या दर्शनक्रियायाश्चोदितपुरुषप्रयत्नतन्त्रत्वाभावेन विधानासंभवात्।
ब्रह्महत्यां प्रमुच्येत तस्मिन्स्नात्वा महोदधौ।
इत्यादिस्मृतिविहितब्रह्मचर्याङ्गसहितदरतरदेशगमनसाध्यब्रह्महनननिवृत्तिफलकसेतुस्नानप्रशंसार्थ ू
त्वात्। यस्य हि दर्शनमात्रेणैव दुरितोपशमः किमुत स्नानेन। अन्यथा दूरगमनानर्थक्यं
प्रसज्जेत। तत्र खरादीनामप्यनर्थनिवृत्तिरापतेत्। अन्धस्य न स्याच्च। ननु -
अग्निचित्कपिला राजा सती भिक्षुर्महोदधिः। दृष्टमात्राः पुनन्त्येते तत्मात्पश्येत नित्यशः॥
इति क्वचिद्दर्शनक्रियाया अपि विधानं दरीदृश्यत इति चेत्- मैवं वोचः। तत्राप्यनयै-
वानुपपत्त्याग्निचिदाद्यर्घपरिचर्यादावेव तात्पर्यावधारणात्। यच्चोक्तं विषयदोषदर्शनाद्रागो दन्दह्यत
इति। तत्र विषयदोषदर्शनेन विरोधभूतानभिरतिसंज्ञकवैराग्यैकप्रादुर्भावाद्रागनिवृत्तौ तददर्शन-
मात्रमिति न व्यभिचारः। यदपि तार्क्ष्यध्यानादिना विषादि सत्यं विनश्यतीति। तन्न श्लिष्यते।
तत्रापि मन्त्रप्रयोगादिक्रियाया एव विषाद्यपनोदकत्वात्। ध्यानस्य प्रमात्वाभावाच्च।
यदवाद्यौपाधिकस्य जीवभावस्योपाधिकनिवृत्या निवृत्तौ ब्रह्मभावोपपत्तेर्न तदर्थमर्थवैतथ्य-
कथनमिति। तदपि काशकु शावलम्बनकल्पम्। विकल्पासहत्वात्। किमुपाधेः सत्यत्वमभिप्रेत्य
मिथ्यात्वं वा। न प्रथमः। प्रमाणाभावात्। नापरः। इष्टापत्तेः। तस्मादाविद्यको भेद इति
श्रुतावद्वितीयत्वोपपत्तयेभिधीयते न तु व्यसनितया।
यदि वस्तुतः सर्वोंपद्रवरहितमात्मतत्त्वं तर्हि कथंकारं देहादिरूपं कारागारं कारंकारं पुनःपुनस्तत्र
प्रविशति। तदतिफल्गु। अविद्याया अनादित्वेन दत्तोत्तरत्वात्। अतो निवृत्त्युपाय एवान्वेषणीयः
प्रेक्षावता। न तु विस्मयः कर्तव्यः। ततश्च तत्त्वमस्यादिविद्यया तदविद्यानिवृत्तौ
निरतिशयानन्दात्मलाभरूपपरमपुरुषार्थः सेत्स्यति। तथा चापस्तम्बस्मृतिः - आत्मलाभान्न परं
विद्यत इति। नन्वसौ नित्यलब्धः। न हि स्वयमेव स्वस्यालब्धो भवति। सत्यम्। किं
त्वनादिमायासंबन्धात्क्षीरोदक- वत्समुदाचारवृत्तितां न लभते। तथा च यथा शबरादिभिर्बाल्या-
त्स्वसुतैः सह वर्धितो राजपुत्रस्तज्जातीयमात्मानमवगच्छन्बन्धुभिर्य एवंभूतो राजा स
त्वमसीति बोधिते स्वरूपे लब्धस्वरूप इव भवति तथा वेश्यास्थानीययानाद्यविद्यया स्वभावान्तरं
नीत आत्मा मातृस्थानीयया तत्त्वमसीत्यादिकया श्रुत्या स्वभावं नीयते एतदाहुस्त्रैविद्यवृद्धाः -
नीचानां वसतो तदीयतनयै सार्धं चिरं वर्धितस्तज्जातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा।
संवादे महदादिभिः सह वसंस्तद्वद्भवेत्पुरुषः स्वात्मानं सुखदुःखजालकलितं मिथ्यैव धिङ्मन्यते॥
दाता भोगपरः समग्रविभवो यः शासिता दुष्कृताम् राजा स त्वमसीति रक्षितृमुखाच्छ्रुत्वा
यथावत्स तु। राजीभूय जयार्थमेव यतते तद्वत्पुमान्बोधितः श्रुत्या तत्त्वमसीत्यपास्य दुरितं ब्रह्मैव
संपद्यते॥
एतेनैतत्प्रत्युक्तं यदुक्तं परैः किं द्वयोस्तादात्म्यमेकस्य वा। नाद्यः। अद्वैतभङ्गप्रसङ्गात्। न
द्वितीयः। असंभवादिति। तन्न। अविद्यापरिकल्पितभेदनिवृत्तिपरत्वेन तत्त्वमस्यादितादात्म्य-
वादप्रामाण्योपपत्तेः। तौ च पर्यनुयोगपरिहारावग्राहिषातां मनीषिभिः।
न द्वयोरस्ति तादात्म्यं न चैकस्याद्वयत्वतः। अप्रमाण्यं श्रुतेरेवं नारोपध्वंसमात्रतः॥ इति।
ततश्च तत्त्वमसीति तत्त्वंपदार्थश्रवणमननभावनाबलभुवा साक्षात्कारेणानाद्यविद्यानिवृत्तौ
सच्चिदानन्दैकरसव्रह्माविर्भावः संपत्स्यत इति ब्रह्मणो जिज्ञास्यत्वं प्रथमसूत्रोक्तं युक्तम्।
अज्ञातं विषयो ब्रह्म ज्ञातं तच्च प्रयोजनम्। मुमुक्षुरधिकारी स्यात्संबन्धः शक्तितः श्रुतेः॥ इति।
जन्माद्यस्य यतः (ब्र.सू.1/1/2) इति द्वितीयसूत्रे ब्रह्म स्वरूपलक्षणतटस्थलक्षणाभ्यां न्यरूपि।
तत्र स्वरूपान्तर्गतत्वे सति व्यावर्तकं स्वरूपलक्षणं सत्यं ज्ञानमनन्तं ब्रह्म (तै.2/1/1) इत्यादि
वेदान्तैः प्रतिपादितम्। तस्य सत्यज्ञानाद्यात्मकस्वरूपान्तर्गतत्वे सति व्यावर्तकत्वात्।
तटस्थलक्षणं यतो वा इमानि। (तै.2/1) इत्यादीनि वाक्यानि निरूपयन्ति जगज्जन्मादि-
कारणत्वेन। तदुक्तं विवरणे -
जगज्जन्मस्थितिध्वंसा यतः सिध्यन्ति कारणात्। तत्स्वरूपतटस्थाभ्यां लक्षणाभ्यां प्रदर्श्यते॥
इति।
शास्त्रयोनित्वात् ( ब्र.सू. 1/1/3) इति तृतीयसूत्रे प्रथमवर्णके न षष्ठीसमासमाश्रित्य सर्वज्ञत्वं
प्रत्यपादि। द्वितीयवर्णके न बहुब्रीहि समासमभ्युपगम्य ब्रह्मणो वेदांन्तप्रमाणकत्वं प्रत्यज्ञायि।
तत्तु समन्वयात् ( ब्र.सू.1/1/4) इति चतुर्थे सूत्रे प्रथमवर्णके न वेदान्तानां ब्रह्मणि तात्पर्यं
प्रत्यपादि। द्वितीयवर्णके न वेदान्तानां प्रतिपत्तिविधिशेषतया ब्रह्मप्रातिपादकत्वं प्रत्यक्षेपि।
दिङ्मात्रमत्र प्रदर्शितम्। शिष्टं शास्त्र एव स्पष्टमिति सकलं समञ्जसम्॥

॥ श्रीरस्तु ॥

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे सकलदर्शनशिरोलंकाररत्नं श्रीमच्छांकरदर्शनं समाप्तम् ॥
॥ समाप्तोयं सर्वदर्शनसंग्रहः॥