प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सर्वदर्शनसंग्रहः

अथ शैवदर्शनम् ॥7॥

तमिमं 'परमेश्वरः कर्मादिनिरपेक्षः कारणमिति' पक्षं वैषम्य-नैघृण्य-दोषदूषित्वात्
प्रतिक्षिपन्तः, के चन माहेश्वराः शैवागमसिद्धान्तत्वं यथावदीक्षमाणाः, 'कर्मादिसापेक्षः परमेश्वरः
कारणमिति' पक्षं कक्षीकु र्वाणः, पक्षान्तरमुपक्षिपन्ति पतिपशुपाशभेदात् त्रयः। पदार्था इति।
तदुक्तं तन्त्रतत्त्वज्ञैः -
त्रिपदार्थं चतुष्पादं महातन्त्रं जगद्गरुः। सूत्रेणैके न संक्षिप्य प्राह विस्तरतः पुनः॥इति॥
अस्यार्थः - उक्तास्त्रयः पदार्था यस्मिन्सन्ति तत्त्रिपदार्थं, विद्याक्रियायोगचर्याख्याश्चत्वारः पादा
यस्मिँस्तच्चतुश्चरणं महातन्त्रमिति। तत्र पशूनामस्वतन्त्रत्वात्पाशानामचैतन्यात् तद्विलक्षणस्य
पत्युः प्रथममुद्देशः। चेतनत्वसाधर्म्यात् पशूनां तदानन्तर्यम्। अवशिष्टानां पाशानामन्ते विनिवेश
इति क्रमनियमः।
दीक्षायाः परमपुरुषार्थहेतुत्वात् तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपायभूतेन मन्त्रमन्त्रेश्वरादि-
माहात्म्यनिश्चायके न ज्ञानेन विना निष्पादयितुमशक्यत्वात् तदवबोधकस्य विद्यापादस्य
प्राथम्यम्। अनेकविधसाङ्गदीक्षाविधिप्रदर्शकस्य क्रियापादस्य तदानन्तर्यम्। योगेन विना
नाभिमतप्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम्। विहिताचरणनिषिद्धवर्जनरूपां
चर्यां विना योगोऽपि न निर्वहतीति तत्प्रतिपादकस्य चर्यापादस्य चरमत्वमिति विवेकः।
तत्र प्रतिपदार्थः शिवोऽभिमतः। मुक्तात्मनां विद्येश्वरादीनां च यद्यपि शिवत्वमस्ति, तथापि
परमेश्वरपारतन्त्र्यात् स्वातन्त्र्यं नास्ति। ततश्च तनुकरणभुवनादीनां भावानां संनिवेशविशिष्टत्वेन
कार्यत्वमवगम्यते। तेन च कार्यत्वेनैषांबुद्धिमत्पूर्वकत्वमनुमीयत इत्यनुमानवशात्परमेश्वर-
प्रसिद्धिरुपपद्यते।
ननु देहस्वैव तावत्कार्यत्वमसिद्धम्। नहि क्वचित्के नचित् कदाचित् देहः क्रियमाणो दृष्टचरः।
सत्यम्, तथापि न के नचित् क्रियमाणत्वं देहस्य इष्टमिति कर्तृदर्शनापह्नवो न युज्यते।
तस्यानुमेयत्वेनाप्युपपत्तेः। तथा हि- देहादिकं कार्यं भवितुमर्हति संनिवेशविशिष्टत्वात्
विनश्वरत्वाद्वा घटादिवत्। तेन च कार्यत्वेन बुद्धिमत्पूर्वकत्वमनुमातुं सुकरमेव। विमतं सकर्तुकं
कार्यत्वाद् घटवत्। यदुक्तसाधनं तदुक्तसाध्यं यथार्थादि। न यदेवं न तदेवं यथार्थादि।
परमेश्वरानुमानप्रामाण्यसाधन- मन्यत्राकारीत्युपरम्यते।
अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः। ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेववा॥
इति न्यायेन प्राणिकृतकर्मापेक्षया परमेश्वरस्य कर्तृत्वोपपत्तेः। न च स्वातन्त्र्यविहतिरिति
वाच्यम्। करणापेक्षया कर्तुः स्वातन्त्र्याविहतेरनुपलम्भात्। कोषाध्यक्षापेक्षस्य राज्ञः प्रसादादिना
दानवत्। यथोक्तं सिद्धगुरुभिः -
स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता। कर्तुः स्वातन्त्र्यमेतद्धि न कर्माद्यनपेक्षता॥इति॥
तथा च तत्तत्कर्माशयवशाद् भोग-तत्साधन-तदुपादानादि-विशेषज्ञः कर्तानुमानादिसिद्ध इति
सिद्धम्। तदिदमुक्तं तत्रभवद्भिर्बृहस्पतिभिः -
इह भोग्यभोगसाधनतदुपादानादि यो विजानाति। तमृते भवेन्नहीदं पुंस्कर्माशयविपाकज्ञम॥इति्॥
अन्यत्रापि -
विवादाध्यासितं सर्वं बुद्धिमत्कर्तृपूर्वकम्। कार्यत्वादावयोः सिद्धं कार्यं कु म्भादिकं यथा॥ इति॥
सर्वकर्तृत्वादेवास्य सर्वज्ञत्वं सिद्धम्। अज्ञस्य करणासंभवात्। उक्तं च श्रीमन्मृगेन्द्रैः-
सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह। यो यज्जानाति कु रुते स तदेवेति सुस्थितम्॥ इति॥
अस्तु तर्हि स्वतन्त्रः ईश्वरः कर्ता। स तु नाशरीरः। घटादिकार्यस्य शरीरवता कु लालादिना
क्रियमाणत्वदर्शनात्। शरीरवत्त्वे चास्मदादिवदीश्वरः। क्लेशयुक्तोऽसर्वज्ञः परिमितशक्तिं
प्राप्नुयादिति चेत्- मैवं मंस्था। अशरीरस्याप्यात्मनः स्वशरीरस्पन्दादौ कर्तृत्वदर्शनात्।
अभ्युपगम्यापि ब्रूमहे। शरीरवत्त्वेऽपि भगवतो न प्रागुक्दोषानुषङ्गः। परमेश्वरस्य हि
मलकर्मादिपाशजालासंभवेन प्राकृतं शरीरं न भवति, किं तु शाक्तम्। शक्तिरूपैरीशानादिभिः
पञ्चभिः मन्त्रैः मस्तकादिकल्पनायामईशानमस्तक्ः, तत्पुरुषवक्त्रः, अघोरहृदयः, वामदेवगुह्यः,
सद्योजातपादः ईश्वरः- इति प्रसिद्धया यथाक्रमानुग्रहतिरोभावादानलक्षणस्थिति-
लक्षणोद्भवलक्षणकृत्यपञ्चककारणं, स्वेच्छानिमित्तां तच्छरीरं न चास्मच्छरीरसदृशम्। तदुक्तं
श्रीमन्मृगेन्द्रैः -
मलाद्यसंभवाच्छाक्तं वपुर्नैतादृशं प्रभोः॥ इति॥ अन्यत्रापि-
तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः। ईशतत्पुरुषाघोरवामाद्यैर्मस्तकादिमत॥इति्॥
ननु पञ्चवक्त्रस्त्रिपञ्चदृर्गित्यादिनागमेषु परमेश्वरस्य मुख्यत एव शरीरेन्द्रियादियोगः श्रूयत इति
चेत्- सत्यम्, निराकारे ध्यानपूजाद्यसंभवेन भक्तानुग्रहकारणाय तत्तदाकारग्रहणाविरोधात्। तदुक्तं
श्रीमत्पौष्करे -
साधकस्य तु रक्षार्थं तस्य रूपमिदं स्मृतम्। इति।
अन्यत्रापि - आकारवास्त्वं नियमादुपास्यो न वस्त्वनाकारमुपैति बुद्धिः॥ इति।
कृत्यपञ्चकं च प्रपञ्चितं भोजराजेन -
पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः। तद्वदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य॥ इति।
एतच्च कृत्यपञ्चकं शुद्धाब्धविषये साक्षाच्छिवकर्तृकं कृच्ɩारध्वविषये त्वनतादिद्वारेणेति
विवेकः। तदुक्तं श्रीमत्करणे -
शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोहिते प्रभोः॥ इति॥
एवं च शिवशब्देन शिवत्वयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां सवाचकानां
शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदार्थे संग्रहः कृत इति बोद्धव्यम्। तदित्थं
पतिपदार्थों निरूपितः।
संप्रति पशुपदार्थों निरुप्यते- अनणुः क्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशुः। न तु चार्वाकादिवद्
देहादिरूपः। 'नान्यदृष्टं स्मरत्यन्यः' इति न्यायेन प्रतिसंधानानुपपत्तेः। नापि
नैयायिकादिवत्प्रकाश्यः। अनवस्थाप्रसङ्गात्। तदुक्तम् -
आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः। पर आत्मा तदानीं स्यात्स परो यदि दृश्यते॥
इति॥
न च जैनवदव्यापकः। नापि बौद्धवत्क्षणिकः। देशकालाभ्यामनवच्छिन्नत्वात्। तदप्युक्तम् -
अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः। तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यता॥ इति॥
नापि अद्वैतवादिनामिवैकः। भोगप्रतिनियमस्य पुरुषबहुत्वज्ञापकस्य संभवात्। नापि
सांख्यानामिवाकर्ता। पाशजालापोहने नित्यनिरतिशयदृक्क्रियारूपचैतन्यात्मकशिवत्वश्रवणात्।
तदुक्तं श्रीमत्मृगेन्द्रैः - 'पाशान्ते शिवताश्रुतेः' इति।
चैतन्यं दृक्किरयारूपं् तदस्त्यात्मनि सर्वदा। सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम्। इति।
तत्त्वप्रकाशेऽपि -
मुक्तात्मानोऽपि शिवाः किं त्वेते यत्प्रसादतो मुक्ताः। सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः।
इति।
पशुस्त्रिविधः-विज्ञानकल-प्रलयाकल-सकलभेदात्। तत्र प्रथमो विज्ञानयोगसंन्यासैर्भोंगेन वा
कर्मक्षये सति कर्मक्षयार्थस्य कलादिभोगबन्धस्य अभावात् के वलमलमात्रयुक्तो 'विज्ञानाकल' इति
व्यपदिश्यते। द्वितीयस्तु प्रलयेन कलादेरुपसंहारा- न्मलकर्मयुक्तः 'प्रलयाकल' इति व्यवह्रियते।
तृतीयस्तु मलमायाकर्मात्मकबन्धत्रय सहितः 'सकल' इति संलप्यते।
तत्र प्रथमो द्विप्रकारो भवति-समाप्तकलुषासमाप्तकलुषभेदात्। तत्राद्यान् कालुष्यपरिपाकवतः
पुरुषधौरेयानधिकारयोग्यान् अनुगृह्य अनन्तादिविद्वेश्वराष्टपदं प्रापयति। तद्विद्येश्वराष्टकं निर्दिष्टं
बहुदैवत्ये -
अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः। एकनेत्रस्तथैवेकरुद्रश्चापि त्ररि◌मूत्तिक्ः॥ श्रीकण्ठश्च
शिखण्डी च प्रोक्ता विद्येश्वरा इमे॥ इति॥
अन्यान्सप्तकोटिसंक्ष्यातान्मन्त्राननुग्रहकरणान्विधत्तो। तदुक्तं तत्तवप्रकाशे-
पशवस्त्रिविधाः प्रोक्ता विज्ञानप्रलयके वलौ सकलः। मलयुक्तस्तत्राद्यो मलकर्मयुतो द्वितीयः स्यात्॥
मलमायाकर्मयुतः सकलस्तेषु द्विधा भवेदाद्यः। आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयः स्यात्॥
आद्याननुगृह्य शिवो विद्येशत्वे नियोजयत्यष्टौ। मन्त्राँश्च करोत्यपराँस्ते चोक्ताः कोटयः सप्त॥इति॥
सोमशंभुनाप्यभिहितम् -
विज्ञानाकलनामैका द्वितीयः प्रलयाकलः। तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः॥ तत्राद्यो
मलमात्रेण युक्तोऽन्यो मलकर्मभिः॥ कलादिभूमिपर्यन्ततत्त्वैस्तु सकलो युतः॥ इति॥
प्रलयाकलोऽपि द्विविधः- पक्वपाशद्वयस्तद्विलक्षणश्च। तत्र प्रथमो मोक्षं प्राप्नोति। द्वितीयस्तु
पुर्यष्टकयुतः कर्मवशान्नानाविधजन्मभाग्भवति। तदप्युक्तं तत्त्वप्रकाशे-
प्रलयाकलेषु येषामपक्वमलकर्मणी ब्रजन्त्येते। मुर्यष्टकदेहयुता योनिषु निखिलासु कर्मवशात्॥
इति॥
पुर्यष्टकमपि तत्रैव निर्दिष्टम् -
स्यात्पुर्यष्टकमन्तःकरणं धीकर्मकरणानि। इति।
विवृतं चाघोरशिवाचार्येणपुर्यष्टकं नाम प्रतिपुरुषं नियतः, सर्गादारभ्य कल्पान्तं मोक्षान्तं वा
स्थितः, पृथिव्यादिकला- पर्यन्तस्त्रिशत्तत्त्वात्मकः, सूक्ष्मो देहः। तथा चोक्तं तत्त्वसंग्रहे -
वसुधाद्यस्तत्त्वगणः प्रतिपुंनियतः कलान्तोऽयम्। पर्यटति कर्मवशाद् भुवनजदेहेष्वयं च सर्वेषु॥
इति॥
तथा चायमर्थः समपद्यत - अन्तःकरणशब्देन मनोबुद्धचहंकारवाचिनाऽन्यान्यपि पुंसो
भोगक्रियायामन्तरङ्गाणि कला-काल-नियति-विद्या-राग-प्रकृति-गुणाख्यानि सप्त तत्त्वान्युप-
लक्ष्यन्ते। धीकर्मशब्देन ज्ञेयानि पञ्चभूतानि तत्कारणानि च तन्मात्राणि विवक्ष्यन्ते।
करणशब्देन ज्ञानकर्मेन्द्रियदशकं संगृह्यते।
ननु श्रीमत्कालोत्तरे -
शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम्। बुद्धिर्मनस्त्वहंकारः पुर्यष्टकमुदाहृतम्॥
इति श्रूयते। तत्कथमन्यथा कथ्यते ? अद्धा, अत एव च तत्रभवता रामकाण्डेन तत्सूत्रं
त्रिंशतत्त्वपरतया व्याख्यायीत्यलमति- प्रपञ्चेन।
तथापि कथमस्य पुर्यष्टकत्वम् ? भूततन्मात्रबुद्धीन्द्रियकर्मेन्द्रियान्तःकरणसंज्ञैःपञ्चभिर्वर्गैः
तत्कारणेन प्रधानेन कलादि- पञ्चकात्मना वर्गेण चारब्धत्वादित्यविरोधः।
तत्र पुर्यष्टकयुतान्विशिष्टपुण्यसंपन्नान् कांश्चिदनुगृह्य भुवनपतित्वमत्र महेश्वरोऽनन्तःप्रयच्छति।
तदुक्तम् -
कांश्चिदनुगृह्य वितरति भुवनपतित्वं महेश्वरस्तेषाम्॥ इति॥
सकलोऽपि द्विविधः। पक्वकलुषापक्वकलुषभेदात्। तत्राद्यान्परमेश्वरस्तत्परिपाकपरिपाटया
तदनुगुणशक्तिपातेन मण्डल्याद्यष्टादशोत्तरशतमन्त्रेश्वरपदं प्रापयति तदुक्तम् -
शेषा भवन्ति सकलाः कलादियोगादहर्मुखे काले। शतमष्टादश तेषां कु रुते स्वयमेव मन्त्रेशान्॥
तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः। श्रीकण्ठः शतरुद्राः शतमित्यष्टादशाभ्यधिकम्॥
इति॥
तत्परिपाकाधिक्यानुरोधेन शक्त्युपसंहारेण दीक्षाकरणेन मोक्षप्रदो भवत्याचार्यमूर्तिमास्थाय
परमेश्वरः। तदप्युक्तम् -
परिपक्वमलानेतानुत्सादनहेतुशक्तिपातेन। योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः॥ इति॥
श्रीमन्मृगेन्द्रेऽपि -
पूर्वं व्यत्यासितस्याणोः पाशजालमपोहति॥ इति॥
व्याकृतं च नारायणकण्ठेन। तत्सर्वं तत एवावधार्यम्। अस्माभिस्तु विस्तरभिया न प्रस्तूयते।
अपक्वकलुषान्बद्धानणूनभोगभाजो विधत्ते परमेश्वरः कर्मवशात्। तदप्युक्तम् -
बद्धाञ्छे षानपरान् विनियुङ्क्ते भोगभुक्तये पुंसः। तत्कर्मणामनुगमादित्येवं कीर्तिताः पशवः॥
इति॥
अथ पाशपदार्थः कथ्यते। पाशश्चतुर्विधः - मलकर्ममायारोधशक्तिभेदात्। ननु -
शैवागमेषु मुख्यं पतिपशुपाशा इति क्रमात्त्रितयम्। तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं
पाशाः। इति पाशः पञ्चविधः कथ्यते। तत्कथं चतुर्विध इति गण्यते ?
उच्यते- बिन्दोर्मायात्मनः शिवतत्त्वपदवेदनीयस्य शिवपदप्राप्ति लक्षणपरममुक्त्यपेक्षया
पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदप्राप्तिहेतुत्वेन अपरमुक्तित्वात्पाशत्वेनानुपादानम् इत्यविरोधः।
अत एवोक्तं तत्त्वप्रकाशेपाशाश्चतुर्विधाः स्युः इति। श्रीमन्मृगेन्द्रेऽपि-प्रावृतीशै बलं कर्ममायाकार्यं
चतुर्विधम्। पाशजालं समासेन धर्मा नाम्नैव कीर्तिताः। इति।
अस्यार्थः- प्रावृणोति प्रकर्षेणाच्छादयत्यात्मनः स्वाभाविक्यौ दृक्क्रिये इति प्रावृत्तिरशुचिर्मलः। स
च ईष्टे स्वातन्त्र्येणेति ईशः। तदुक्तम् -
एको ह्यनेकशक्तिर्दृक्क्रिययोश्छादको मलः पुंसः। तुषतण्डु लवज्ज्ञेयस्ताम्राश्रितकालिकावद्वा॥(1)।
बलं रोधशक्तिः। अस्याः शिवशक्तेः पाशाधिष्ठानेन पुरुषतिरोधायकत्वादुपचारेण पाशत्वम्। तदुक्तम्
तासामहं वरा शक्तिः सर्वानुग्राहिका शिवा। धर्मानुवर्तनादेव पाश इत्युपचर्यते॥(2)।
क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकं बीजाङ्कु रवत्प्रवाहरूपेणानादि। यथोक्तं श्रीमत्किरणे -
यथानादिर्मलस्तस्य कर्माल्पकमनादिकम्। यद्यनादि न संसिद्धं वैचित्र्यं के न हेतुना॥(3)
मात्यस्यां शक्त्यात्मना प्रलये सर्वं जगत्सृष्टौ व्यक्तिमायातीति माया। यथोक्तं श्रीमत्सौरभेये -
शक्तिरूपेण कार्याणि तल्लीनानि महाक्षये। विकृतौ व्यक्तिमायाति सा कार्येण कलादिना॥ (4)
यद्यप्यत्र बहु वक्तव्यमस्ति तथापि ग्रन्थभूयस्त्वभयादुपरम्यते। तदित्थं पति पशुपाशपदार्थास्त्रयः
पदर्शिताः।
पतिविद्ये तथाविद्या पशुः पाशश्च कारणम्। तन्निवृत्ताविति प्रोक्ताः पदार्थाः षट् समासतः॥
इत्यादिना प्रकारान्तरं ज्ञानरत्नावल्यादौ प्रसिद्धम्। सर्वं तत एवागन्तव्यमिति सर्वं समञ्जसम्॥

॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे शैवदर्शनम् ॥