सर्वधर्मस्वभावसमताविपञ्चितसमाधिराजसूत्रम्

सर्वधर्मस्वभावसमताविपञ्चितसमाधिराजसूत्रम्
[[लेखकः :|]]



सर्वधर्मस्वभावसमताविपञ्चितसमाधिराजसूत्रम् ।

१ निदानपरिवर्तः ।

एवं मया श्रुतम् । एकस्मिन् समये भगवान् राजगृहे विहरति स्म गृध्रकूटे पर्वते महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुनियुतशतसहस्रेण अशीत्या च बोधिसत्त्वनियुतैः सार्धम् । सर्वैरकजातिप्रतिबद्धैरभिज्ञाभिज्ञातैर्दशदिग्लोकधातुसंनिपतितैर्धारणीसूत्रान्तगतिं गतैः सर्वसत्त्वधर्मदानसंतोषकैर्महाभिज्ञाज्ञानोदाहारकुशलैः सर्वपारमितापरमपारमिताप्राप्तैः सर्वबोधिसत्त्वसमाधिसमापत्तिव्यवस्थानज्ञानकुशलैः सर्वबुद्धस्तुतस्तोभितप्रशस्तैः सर्वबुद्धक्षेत्रव्याक्रमणकुशलैः सर्वमारसंत्रासनज्ञानकुशलैः सर्वधर्मयथावज्ज्ञानकुशलैः सर्वसत्त्वेन्द्रियपरापरज्ञानकुशलैः बुद्धसर्वकर्मपूजासमादानप्रज्ञानकुशलैः सर्वलोकधर्मानुपलिप्तैः कायवाक्चित्तसमलंकृतैः महामैत्रीमहाकरुणासंनाहसंनद्धैः महावीर्यासंख्येयकल्पापरिक्षीणमानसैः महासिंहनादनादिभिः सर्वपरप्रवादानभिभूतैः अवैवर्तिकमुद्रामुद्रितैः सर्वबुद्धधर्माभिषेकप्राप्तैः । तद्यथा मेरुणा च नाम बोधिसत्त्वेन महासत्त्वेन । सुमेरुणा च । महामेरुणा च । मेरुशिखरिंधरेण च । मेरुप्रदीपराजेन च । मेरुकूटेन च । मेरुध्वजेन च । मेरुगजेन च । मेरुशिखरे संघट्टनराजेन च । मेरुस्वरेण च । मेघराजेन च । दुन्दुभिस्वरेण च । रत्नपाणिना च । रत्नाकरेण च । रत्नकेतुना च । रत्नशिखरेण च । रत्नसंभवेन च रत्नप्रभासेन च । रत्नयष्टिना च । रत्नमुद्राहस्तेन च । रत्नव्यूहेन च । रत्नजालिना च । रत्नप्रभेण च । रत्नद्वीपेण च । रतिंकरेण च । धर्मव्यूहेन च । व्यूहराजेन च । लक्षणसमलंकृतेन च । स्वरव्यूहेन च । स्वरविशुद्धिप्रभेण च । रत्नकूटेन च । रत्नचूडेन च । दशशतरश्मिकृतार्चिषा ज्योति रसेन च । चन्द्रभानुना च । सहचित्तोत्पादधर्मचक्रप्रवर्तिना च । शुभकनकविशुद्धिप्रभेण च । सततमभयंददानेन च नाम
बोधिसत्त्वेन महासत्त्वेन । अजितबोधिसत्त्वपूर्वंगमैश्च सर्वैर्भद्रकल्पिकैर्बोधिसत्त्वैर्महासत्त्वैः । मञ्जुश्रीपूर्वंगमैश्च षष्टिभिरनुपमचित्तैः । भद्रपालपूर्वंगमैश्च षोडशभिः सत्पुरुषैः । चतुर्महाराजपूर्वंगमैश्च चातुर्महाराजकायिकैर्देवपुत्रैः । पेयालम् । यावद्ब्रह्मपूर्वंगमैश्च ब्रह्मकायिकैर्देवपुत्रैस्तदन्यैश्च महेशाख्यमहेशाख्यैरुदारोदारैर्देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यैर्भगवान् (वैद्य २) सत्कृतो गुरुकृतो मानितः पूजितोऽर्चितोऽपचायितश्चतसृणामपि पर्षदां सदेवलोकस्य लोकस्य वन्दनीयः पूजनीयो नमस्करणीयः । तत्र खलु भगवाननेकशतसहस्रया पर्षदा परिवृतः पुरस्कृतो धर्मं देशयति स्म आदौ कल्याणं मध्ये कल्याणं पर्यवसाने कल्याणम् । स्वर्थं सुव्यञ्जनं केवलं परिपूर्णं परिशुद्धं पर्यवदातं ब्रह्मचर्यं संप्रकाशयति स्म ॥

तेन खलु पुनः समयेन तस्मिन्नेव पर्षत्संनिपाते चन्द्रप्रभो नाम कुमारभूतः संनिपतितोऽभूत्संनिषण्णः पूर्वजिनकृताधिकारोऽवरोपितकुशलमूलो जातिस्मरो लब्धप्रतिभानो महायानसंप्रस्थितो महाकरुणाभियुक्तः । अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशम्, सचेन्मे भगवानवकाशं कुर्यात्पृष्टप्रश्नव्याकरणाय । एवमुक्ते भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म पृच्छ त्वं कुमारभूत तथागतमर्हन्तं सम्यक्संबुद्धं यद्यदेव काङ्क्षसि । अहं तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि । सर्वज्ञोऽस्मि सम्यक्संबुद्धः कुमार सर्वदर्शी सर्वधर्मबलवैशारद्यवृषभतामनुप्राप्तोऽनावरणविमोक्षज्ञानसमन्वागतः । नास्ति कुमार तथागतस्य सर्वधर्मेष्वज्ञातं वा अदृष्टं वा अश्रुतं वा अविदितं वा असाक्षात्कृतं वा अनभिसंबुद्धं वा अनन्तापर्यन्तेषु लोकधातुषु । नित्यकृतस्ते कुमार अवकाशो भवतु तथागतं प्रश्नपरिपृच्छनाय । अहं ते तस्य तस्यैव प्रश्नस्य पृष्टस्य व्याकरणेन चित्तमाराधयिष्यामि ॥

अथ खलु चन्द्रप्रभः कुमारभूतस्तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातस्तस्यां वेलायां भगवन्तं गाथाभिरध्यभाषत

कथं चरन्तः संबुद्ध लोकनाथ प्रभंकर ।
लभतेऽचिन्तियं ज्ञानं व्याकुरुष्व हितंकर ॥ स्र्स्_१.१ ॥
कथं चरन्तु नरेन्द्र सत्यवादि नरवृषभ नरदेवपूजनीय ।
अतुलियु वरु लब्धमग्रयाणं गिरवर पृष्ट वियाकुरुष्व नाथ ॥ स्र्स्_१.२ ॥
अध्याशयेन पृच्छामि शाठ्यं मम न विद्यते ।
साक्षी न कश्चिदन्यो मे अन्यत्र पुरुषोत्तमात् ॥ स्र्स्_१.३ ॥
विपुल प्रणिधि मह्यमस्ति छन्दश्चरिय प्रजानसि मह्य शाक्यसिंह ।
न च अहं वचनवित्तको भविष्ये लघु प्रतिपत्ति भणाहि मे नरेन्द्र ॥ स्र्स्_१.४ ॥
(वैद्य ३)
कतराहारका धर्मा बुद्धयाने बहुंकराः ।
व्याकुरुष्व महावीर सर्वधर्माण पारग ॥ स्र्स्_१.५ ॥
उपकरे धर्म मम ब्रूहि नाथ यथ नरु निषेवतु भोति तीक्ष्णप्रज्ञः ।
अपगतभयभैरवो अत्रस्तो न च परित्यागु करोति शीलस्कन्धात् ।
व्यपगतमदरागदोषमोहश्चरति च चारिक सर्वशान्तदोषः ॥ स्र्स्_१.६ ॥
कथं न त्यजते शीलं कथं ध्यानं न रिञ्चति ।
कथं निषेवतेऽरण्यं कथं प्रज्ञा प्रवर्तते ॥ स्र्स्_१.७ ॥
कथं दशबलशासने उदारे अभिरति विन्दति शील रक्षमाणः ।
कथं भवति अच्छिद्रु शीलस्कन्धः कथं च तुलेति स्वभावु संस्कृतस्य ॥ स्र्स्_१.८ ॥
कथं कायेन वाचा परिशुद्धो भोति पण्डितः ।
असंक्लिष्टेन चित्तेन बुद्धज्ञानं निषेवते ॥ स्र्स्_१.९ ॥
कथं भवति विशुद्धकायकर्मा कथं च विवर्जित भोन्ति वाचदोषाः ।
कथं भवति असंक्लिष्टचित्तः पुरुषवर मम पृष्ट व्याकुरुष्व ॥ स्र्स्_१.१० ॥

अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् एकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । कतमेनैकधर्मेण? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वसत्त्वेषु समचित्तो भवति हितचित्तोऽप्रतिहतचित्तोऽविषमचित्तः । अनेन कुमार एकधर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व एतान् गुणान् प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभं कुमारभूतं गाथाभिरध्यभाषत (वैद्य ४)

एकधर्मं समादाय बोधिसत्त्वो य वर्तते ।
एतान् गुणान् स लभते क्षिप्रं बोधिं च बुध्यते ॥ स्र्स्_१.११ ॥
न च कश्चि प्रतिहन्यतेऽस्य चित्तमप्रतिहतचित्तु यो भोति बोधिसत्त्वः ।
न च खिलु जनयति न प्रदोषं लभति यथा परिकीर्तितान् विशेषान् ॥ स्र्स्_१.१२ ॥
समं चित्तं निषेवित्वा विपाको दर्शितः समः ।
समाः पादतला भोन्ति समश्चाचारगोचरः ॥ स्र्स्_१.१३ ॥
सममविषमचित्तु भावयित्वा अपगतदोषखिलः प्रहीणकाङ्क्षः ।
चरणवरतलाः समास्य भोन्ति परमप्रभास्वर शुद्धदर्शनीयः ॥ स्र्स्_१.१४ ॥
दशदिशित विरोचि बोधिसत्त्वः स्फुरति शिरीय प्रभाय बुद्धक्षेत्रम् ।
यद भवति स लब्धु शान्तभूमि तद बहुसत्त्व स्थपेति बुद्धज्ञाने ॥ स्र्स्_१.१५ ॥

तत्र कुमार सर्वसत्त्वेषु समचित्तो बोधिसत्त्वो महासत्त्वो हितचित्तोऽप्रतिहतचित्तोऽविषमचित्तमिमं सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिं प्रतिलभते । कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितं नाम समाधिः प्रतिलभते । कतमश्च स कुमार सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः? यदुत कायसंवरः । वाक्संवरः । मनःसंवरः । कर्मपरिशुद्धिः । आलम्बनसमतिक्रमः । स्कन्धपरिज्ञा । धातुसमता । आयतनापकर्षः । तृष्णाप्रहाणम् । अनुत्पादसाक्षात्क्रियावतारः । हेतुदीपना । कर्मफलाविप्रणाशः । धर्मदर्शनम् । मार्गभावना । तथागतसमवधानम् । तीक्ष्णप्रज्ञता । सत्यानुप्रवेशः । धर्मज्ञानम् । प्रतिसंविदवतारज्ञानम् । अक्षरपदप्रभेदज्ञानम् । वस्तूनां समतिक्रमः । घोषपरिज्ञा । प्रामोद्यप्रतिलाभः । धर्मप्रीत्यनुभवनता । आर्जवता । मार्दवता । ऋजुकता । अकुटिलता विगतभृकुटिता । सुरतता । सुशीलता । साखिल्यम् । माधुर्यम् । स्मितमुखता । पूर्वाभिलापिता । एहीति स्वागतवादिता । अनालस्यम् । गुरुगौरवता । गुरुशुश्रूषा । उपपत्तिसंतुष्टिः । शुक्लधर्मातृप्तता । आजीवविशुद्धिः । अरण्यवासानुत्सर्गः । भूमिव्यवस्थानज्ञानम् । स्मृतेरविप्रणाशः । स्कन्धकौशल्यम् । धातुकौशल्यम् । आयतनकौशल्यम् । अभिज्ञासाक्षात्क्रियावतारः । क्लेशापकर्षणम् । वासनानुसंघिसमुद्धातः । ज्ञानविशेषगामिता । भावनानिष्यन्दः । आपत्तिव्युत्थानकौशल्यम् । पर्युत्थानविष्कम्भणम् । अनुशयप्रहाणम् । (वैद्य ५) भवसमतिक्रमः । जातिस्मरता । निष्काङ्क्षता । कर्मविपाके धर्मचित्तता । श्रुतपर्येष्टिज्ञानतीक्ष्णता । ज्ञानतृष्णा । ज्ञानानुबोधः । आजानेयभूमिः । शैलोपमचित्तता । अकम्प्यता । अचलता । अविनिवर्तनीयभूमिव्यवस्थानज्ञानम्
। कुशलधर्मनिष्यन्दः । पापधर्मजुगुप्सनता । असमुदाचारता क्लेशानाम् । शिक्षाया अपरित्यागः । समाधिव्यवस्थानम् । आशयज्ञानम् । सत्त्वेषूपपत्तिविशेषज्ञानम् । समताज्ञानम् । वचनप्रतिसंधिज्ञानम् । गृहावासपरित्यागः । त्रैधातुकेऽनभिरतिः । अनवलीनचित्तता । धर्मेष्वनभिनिवेशः । सद्धर्मपरिग्रहः । धर्मगुप्तिः । कर्मविपाकप्रत्ययनता । विनयकौशल्यम् । अधिकरणव्युपशमः । अविग्रहः । अविवादः । क्षान्तिभूमिः । क्षान्तिसमादानम् । गतिसमता । धर्मप्रविचयकौशल्यम् । प्रव्रज्याचित्तम् । धर्मविनिश्चयकौशल्यम् । धर्मपदप्रभेदज्ञानम् । धर्मपदाभिनिर्हारकौशल्यम् । अर्थानर्थसंभेदपदनिर्हारकौशल्यज्ञानम् । पूर्वान्तज्ञानम् । अपरान्तज्ञानम् । प्रत्युत्पन्नज्ञानम् । त्र्यध्वसमताज्ञानम् । त्रिमण्डलपरिशुद्धिज्ञानम् । कायावस्थानज्ञानम् । चित्तावस्थानज्ञानम् । ईर्यापथरक्षणम् । ईर्यापथविकोपनम् । ईर्यापथविकल्पनम् । ईर्यापथप्रासादिकता । अर्थानर्थकौशल्यज्ञानम् । युक्तभाणिता । लोकज्ञता । मुक्तत्यागिता । प्रततपाणिता । अनवगृहीतचित्तता । ह्रीव्यपत्रपिता । अकुशलचित्तजुगुप्सनता । धूतगुणानुत्सर्गः । चारित्रसमादानम् । प्रियसमुदाचारता । गुरूणां प्रत्युत्थानासनप्रदानता । माननिग्रहः । चित्तसंप्रग्रहः । चित्तसमुत्पादज्ञानम् । अर्थप्रतिवेधज्ञानम् । ज्ञानप्रतिवेधज्ञानम् । ज्ञानानुबोधः । अज्ञानविगमः । चित्तप्रवेशज्ञानम् । चित्तस्वभावानुबोधज्ञानम् । आहारनिर्हारकौशल्यज्ञानम् । सर्वरुतज्ञानम् । निरुक्तिव्यवस्थानज्ञानम् । अर्थविनिश्चयज्ञानम् । अनर्थविवर्जनम् । सत्पुरुषसमवधानम् । सत्पुरुषसंसेवनता । कापुरुषविवर्जनम् । ध्यानानां निष्पादनम्, तत्र चानास्वादनम् । अभिज्ञाविकुर्वणम् । नामसंकेतप्रज्ञप्तिस्वभावावतारज्ञानम् । प्रज्ञप्तिसमुद्धातः । संस्कारेषु निर्वेदः । सत्कारेष्वनभिलाषः । असत्कारेषूपेक्षा । लाभेऽनर्थिकता । अलाभेऽनवलीनता । यशस्यनभिलाषः
। अयशस्यप्रतिघः । प्रशंसायामनुनयः । निन्दायामविषादः । सुखेऽनभिष्वङ्गः । दुःखेऽवैमुख्यम् । संस्काराणामनादानता । भूतवर्णेऽसङ्गः । अभूतवर्णेऽधिवासनता । गृहस्थप्रव्रजितैरसंस्तवः । अगोचरविवर्जनम् । गोचरप्रचारः । आचारसंपत् । अनाचारविवर्जनता । कुलानामदूषणता । शासनस्यारक्षणता । अल्पभाषणता । मितभाषणता । प्रतिवचनकौशल्यम् । प्रत्यर्थिकनिग्रहः । कालप्रतिक्रमणता । अकालविवर्जनता । पृथग्जनेष्वविश्वासः । दुःखितानामपरिभवनता, तेभ्यश्च धनप्रदानम् । दरिद्राणामनवसादनता । दुःशीलेष्वनुकम्पा । हितवस्तुता । कृपाबुद्धिता । धर्मेणानुग्रहः । आमिषपरित्यागः । असंचयस्थापिता । (वैद्य ६) शीलप्रशंसनता । दौःशील्यकुत्सनता । शीलवतामशाठ्यसेवनता । सर्वस्वपरित्यागिता । अध्याशयनिमन्त्रणता । यथोक्तकारिता । अभीक्ष्णप्रयोगिता । सत्कृत्य प्रीत्यनुभवनता । दृष्टान्तज्ञानम् । पूर्वयोगकौशल्यम् । कुशलमूलपूर्वंगमता । उपायकौशल्यम् । निमित्तप्रहाणम् । संज्ञाविवर्तः । वस्तूनां परिज्ञा । सूत्रान्ताभिनिर्हारः । विनयकौशल्यम् । सत्यविनिश्चयः । विमुक्तिसाक्षात्क्रियावतारः । एकांशवचनप्रव्याहारता । यथावज्ज्ञानदर्शनानुत्सर्जनम् । निष्काङ्क्षवचनता । शून्यताया आसेवनता । अनिमित्तनिषेवणता । अप्रणिहितस्वभावोपलक्षणता । वैशारद्यप्रतिलम्भः । ज्ञानेनावभासः । शीलदृढता । समापत्त्यवतारः । प्रज्ञाप्रतिलम्भः । एकारामता । आत्मज्ञता । अल्पज्ञानता । संतुःटिः । चित्तस्यानाविलता । दृःटिकृतविवर्जनता । धारणीप्रतिलम्भः । ज्ञानावतारः । स्थानास्थानप्रस्थानप्रतिपत्तिज्ञानम् । हेतुयुक्तिनयद्वारम् । कारणम् । मार्गः । प्रतिपत्तिः । संदेशः । अववादः । अनुशासनी
। चर्या । आनुलोमिकी क्ःान्तिः । क्ःान्तिभूमिः । अक्ःान्तिविगमः । ज्ञानभूमिः । अज्ञानप्रहाणम् । ज्ञानप्रतिःठानम् । योगाचारभूमिः । बोधिसत्त्वगोचरः । सत्पुरुःसेवना । असत्पुरुःविवर्जना । सर्वधर्मस्वभावानुबोधप्रतिवेधज्ञानम् । तथागतेनाख्याता बुद्धभूमिः । पण्डितैरनुमोदिता । बालैः प्रतिक्ःिप्ता । दुर्विज्ञेया श्रावकैः । आज्ञाता प्रत्येकबुद्धैः । अभूमिस्तीर्थिकानाम् । बोधिसत्त्वैः । परिगृहीता । दशबलैरनुबद्धा । देवैः पूजनीया । ब्रह्मणा वन्दनीया । शक्रैरधिगमनीया । नागैर्नमस्करणीया । यक्ःैरनुमोदनीया । किन्नरैः स्तोतव्या । महोरगैः प्रशंसनीया । बोधिसत्त्वैर्भावनीया । पण्डितैः पर्यवाप्तव्या । धनमनुत्तरम् । दानं निरामिःम् । भैःज्यं ग्लानानाम् । मोदिता शान्तचित्तानाम् । कोशो ज्ञानस्य । अक्ःयः प्रतिभानस्य । नयः सूत्रान्तानाम् । विगमः कोशस्य । विःयः शूराणाम् । परिज्ञा त्रैधातुकस्य । कोलः पारगामिनाम् । नौरोघमध्यगतानाम् । कीर्तिर्यशस्कामानाम् । वर्णो बुद्धानाम् । प्रशंसा तथागतानाम् । स्तवो दशबलानाम् । गुणो बोधिसत्त्वानाम् । उपेक्ःा कारुणिकानाम् । मैत्री दोःं शमयितुकामानाम् । मुदिता प्रशान्तचारिणाम् । आश्वासो महायानिकानाम् । प्रतिपत्तिः सिंहनादनादिनाम् । मार्गो बुद्धज्ञानस्य । मोक्ःः सर्वसत्त्वानाम् । मुद्रा सर्वधर्माणाम् । आहारिका सर्वज्ञानस्य । उद्यानं सर्वबोधिसत्त्वानाम् । वित्रासनं मारसेनायाः । विद्या क्ःेमगामिनाम् । अर्थः सिद्धार्थानाम् । परित्राणममित्रमध्यगतानाम् । प्रत्यर्थिकनिग्रहः सह धर्मेण । सत्याकरो वैशारद्यानाम् । भूते पर्येःटिर्बालानाम् । पूर्वनिमित्तमःटादशानामावेणिकानां बुद्धधर्माणाम् । अलंकारो धर्मकायस्य । निःयन्दश्चर्यायाः । आभरणं बुद्धपुत्राणाम् । रतिर्मोक्ःकामानाम्
। प्रीतिर्ज्येःठपुत्राणाम् । परिपूरिर्बुद्धज्ञानस्य । अभूमिः सर्वश्रावकप्रत्येकबुद्धानाम् । विशुद्धिश्चित्तस्य । परिशुद्धिः कायस्य । परिनिःपत्तिर्विमोक्ःमुखानाम् । असंक्लेशो बुद्धज्ञानस्य । अनागमो रागस्य (वैद्य ७) । विगमो द्वेःस्य । अभूमिर्मोहस्य । आगमो ज्ञानस्य । उत्पादो विद्यायाः । प्रहाणमविद्यायाः । तृप्तिर्विमुक्तिसाराणाम् । तुःटिः समाधिसाराणाम् । चक्ःुर्द्रःटुकामानाम् । अभिज्ञा विकुर्वितुकामानाम् । ऋद्धिरभिनिर्हर्तुकामानाम् । धारणी श्रुतार्थिकानाम् । स्मृतेरसंप्रमोःः । अधिःठानं बुद्धानाम् । उपायकौशल्यं नायकानाम् । सूक्ःमं दुर्विज्ञेयमनभियुक्तानाम् । अज्ञेयममुक्तैः । विवर्ताक्ःराणां दुर्विज्ञेयं घोःेण । आज्ञातं विज्ञैः । ज्ञातं सूरतैः । प्रतिविद्धमल्पेच्छैः । उद्गृहीतमारब्धवीर्यैः । धृतं स्मृतिमद्भिः । क्ःयो दुःखस्य । अनुत्पादः सर्वधर्माणाम् । एकनयनिर्देशः सर्वभवगत्युपपत्त्यायतनानाम् । अयं स कुमार उच्यते सर्वधर्मस्वभावसमताविपञ्चितो नाम समाधिः ॥

अस्मिन् खलु पुनः सर्वधर्मपर्याये समाधिनिर्देशे भगवता भाष्यमाणे अशीतेर्नयुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृताया अनुत्पत्तिकेषु धर्मेषु क्षान्तेः प्रतिलम्भोऽभूत् । षण्णवतेश्च नयुतानामानुलोमिकायाः क्षान्तेः प्रतिलम्भोऽभूत् । त्रिणवतेर्नयुतानां घोषानुगायाः क्षान्तेः प्रतिलम्भोऽभूत् । परिपूर्णस्य भिक्षुशतसहस्रस्य अनुपादायास्रवेभ्यश्चित्तानि विमुक्तानि । षष्टेश्च प्राणिशतसहस्राणां देवमानुषिकायाः प्रजाया विरजो विगतमलं धर्मेषु धर्मचक्षुर्विशुद्धम् । अशीतेश्च भिक्षुसहस्राणामनुपादायास्रवेभ्यश्चितानि विमुक्तानि । पञ्चभिश्चोपासकशतैरनागामिफलं प्राप्तम् । षष्ट्या चोपासिकाशतैः सकृदागामिफलं प्राप्तम् । अयं च त्रिसाहस्रमहासाहस्रो लोकधातुः षड्विकारं कम्पितः प्रकम्पितः संप्रकम्पितः । चलितः प्रचलितः संप्रचलितः । वेधितः प्रवेधितः संप्रवेधितः । क्षुभितः प्रक्षुभितः संप्रक्षुभितः । रणितः प्ररणितः संप्ररणितः । गर्जितः प्रगर्जितः संप्रगर्जितः । पूर्वा दिगवनमति पश्चिमा दिगुन्नमति । पश्चिमा दिगवनमति पूर्वा दिगुन्नमति । उत्तरा दिगवनमति दक्षिणा दिगुन्नमति । दक्षिणा दिगवनमति उत्तरा दिगुन्नमति । अन्तादवनमति मध्यादुन्नमति । अन्तादुन्नमति मध्यादवनमति । अप्रमेयस्य चावभासस्य लोके प्रादुर्भावोऽभूत् । सर्वश्च लोकधातुः सदेवकश्च समारकः सब्रह्मकः सश्रमणब्राह्मणिकाः प्रजास्तेनावभासेनावभासिताः स्फुटा अभूवन् । इमौ च चन्द्रसूर्यौ एवंमहर्द्धिकौ
एवंमहानुभावौ एवंमहेशाख्यौ न भासतो न तपतो न विरोचतः । या अपि लोकान्तरिका अन्धकारतमिस्राः, ता अपि तेनावभासेन स्फुटा अभूवन् । येऽपि तासूपपन्नाः सत्त्वाः, तेऽप्यन्योन्यं संजानते स्म । एवं चाहुः अन्योऽपि किल भो अयं सत्त्व इहोपपन्नः । यावदवीचेर्महानरकादिति ॥

इति श्रीसमाधिराजे निदानपरिवर्तो नाम प्रथमः ॥


(वैद्य ८)
२ शालेन्द्रराजपूर्वयोगपरिवर्तो द्वितीयः ।

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म

स्मरति दशबलान षष्टिकोटी पुरिमभवे निवसिंसु गृध्रकूटे ।
पुरि मम चरमाणु बोधिचर्यामिम वरशान्त समाधि देशयिंसु ॥ स्र्स्_२.१ ॥
तेषां पश्चिमको आसील्लोकनाथः प्रभंकरः ।
शालेन्द्रराज नामेन स मया परिपृच्छितः ॥ स्र्स्_२.२ ॥
अहं च क्षत्रियो आसं राजश्रेष्ठो महीपतिः ।
मंम चो शत पुत्राणां पञ्चाभूवन्ननूनकाः ॥ स्र्स्_२.३ ॥
कोटीमया विहारणां तस्य बुद्धस्य कारिता ।
चन्दनस्य विशिष्टस्य केचिद्रत्नमया अभूत ॥ स्र्स्_२.४ ॥
प्रियो मनापश्च बहुजनस्य भीष्मोत्तरो नाम अभूषि राजा ।
अकार्षि बुद्धस्य विशिष्टपूजा अष्टादशवर्षसहस्रकोट्यः ॥ स्र्स्_२.५ ॥
जिनस्य तस्य द्विपदोत्तमस्य शालेन्द्रराजस्य विनायकस्य ।
षटूसप्ततिवर्षसहस्रकोटियो आयुस्तदा आसि अनिन्दितस्य ॥ स्र्स्_२.६ ॥
नियुतान्तशीतिसहस्र श्रावकाणां त्रैविद्य षडभिज्ञ जितेन्द्रियाणाम् ।
क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि नरोत्तमस्य ॥ स्र्स्_२.७ ॥
(वैद्य ९)
बहुप्रकारा मयि तस्य पूजा कृता जिनस्य द्विपदोत्तमस्य ।
अर्थाय लोकस्य सदेवकस्य इमं समाधिं प्रतिकाङ्ता सदा ॥ स्र्स्_२.८ ॥
सपुत्रदारेण मि प्रव्रजित्वा शालेन्द्रराजस्य जिनस्य अन्तिके ।
चतुर्दशवर्षसहस्रकोटियो अयं समाधिः परिपृच्छितो मया ॥ स्र्स्_२.९ ॥
अशीति गाथा नियुता सहस्राण्यन्ये च कोटीशत बिम्बराणाम् ।
तस्योद्गृहीतः सुगतस्य अन्तिकादितः समाधेः परिवर्त एषः ॥ स्र्स्_२.१० ॥
हस्ता शिरा भार्य तथैव पुत्रा रत्नं प्रभूतं तथ खाद्यभोज्यम् ।
न किंचि द्रव्यं मि न त्यक्तपूर्वमिम समाधिं प्रतिकाङ्क्षता वरम् ॥ स्र्स्_२.११ ॥
स्मरामि बुद्धान सहस्रकोटियो तदुत्तरे यत्तिक गङ्गवालुकाः ।
येहि स्थिहित्वा इह गृध्रकूटे अयं समाधिर्वरु शान्त देशितः ॥ स्र्स्_२.१२ ॥
सर्वे च शाक्यर्षभनामघेयाः सर्वेषु चो राहुल नाम पुत्राः ।
आनन्दनामा परिचारकाश्च कपिलाह्वयाः प्रव्रजिताश्च सर्वे ॥ स्र्स्_२.१३ ॥
अग्रेयुगं कोलितशारिपुत्रा समनाम सर्वे च अभूषि तायिनः ।
समनामिका चो तद लोकधातुः सर्वेऽपि चोत्पन्न कषायकाले ॥ स्र्स्_२.१४ ॥
(वैद्य १०)
सर्वे मया सत्कृत ते नरेन्द्रा इमां चरन्तेन मि बोधिचारिकाम् ।
यावन्ति चो काचि जिनान पूजा सर्वा कृता एतु समाधिमेषता ॥ स्र्स्_२.१५ ॥
प्रतिपत्तिय एष समाधि लभ्यते बहुप्रकारा प्रतिपत्तिरुक्ता ।
गुणेषु सर्वेषु प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः ॥ स्र्स्_२.१६ ॥
रसेष्वगृध्रस्य अलोलुपस्य कुलेष्वसक्तस्य अनीर्षुकस्य ।
मत्रीविहारस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः ॥ स्र्स्_२.१७ ॥
सत्कारलाभेषु अनर्थिकस्य आजीवशुद्धस्य अकिंचनस्य ।
विशुद्धशीलस्य विशारदस्य न दुर्लभस्तस्य समाधिरेषः ॥ स्र्स्_२.१८ ॥
आरब्धवीर्यस्य अतन्द्रितस्य रण्याधिमुक्तस्य धुते स्थितस्य ।
नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न दुर्लभस्तस्य समाधिरेषः ॥ स्र्स्_२.१९ ॥
सुदान्तचित्तस्य अनुद्धतस्य ईर्याय चर्याय प्रतिष्ठितस्य ।
त्यागाधिमुक्तस्य अमत्सरस्य न दुर्लभस्तस्य समाधिरेषः ॥ स्र्स्_२.२० ॥
अनुव्यञ्जनलक्षणा बुद्धधर्मा येऽष्टादशा कीर्तित नायकेन ।
बलाविशारद्य न तस्य दुर्लभा धारेति यः शान्तमिमं समाधिम् ॥ स्र्स्_२.२१ ॥
(वैद्य ११)
बुद्धेन ये चक्षुष दृष्ट सत्त्वास्त एककालस्मि भवेयु बुद्धाः ।
तेषैक एकस्य भवेयुरायुः अचिन्तियाकल्पसहस्रकोटियः ॥ स्र्स्_२.२२ ॥
तेषैक एकस्य शिरो भवेयुः सर्वु समुद्रेषु यथैव वालुकाः ।
यावन्ति ते सर्व शिरो भवेयुः शिरे शिरे जिह्व भवेयु तात्तिकाः ॥ स्र्स्_२.२३ ॥
ते तस्य सर्वे भणि आनुशंसा यो गाथ धारेय्य इतः समाधितः ।
न किंचिमात्रं परिकीर्तितं भवेत्किं वा पुनर्यो हि शिक्षित्व धारये ॥ स्र्स्_२.२४ ॥
धूतान् समादाय गुणांश्च वर्तते स्पृहेन्ति देवासुरयक्षगुह्यकाः ।
राजान भोन्ति अनुयात्रु तस्य धारेति यः शान्त समाधि दुर्लभम् ॥ स्र्स्_२.२५ ॥
परिगृहीतो भवति जिनेभिर्देवाश्च नागाः सद आनुयात्राः ।
प्रत्यर्थिकास्तस्य श्रिय नो सहन्ति धारेति यः शान्त समाधि दुर्लभम् ॥ स्र्स्_२.२६ ॥
अनन्तु तस्य प्रतिभानु भोति अनन्त सूत्रान्तसहस्र भाषते ।
न तस्य विष्ठा नु कदाचि भोति धारेति यः शान्तमिमं समाधिम् ॥ स्र्स्_२.२७ ॥
द्रक्ष्यन्ति बुद्धममिताभु नायकं सुखावतीं चाप्यथ लोकधातुम् ।
ये पश्चिमे कालि महाभयानके समाधि श्रुत्वा इमु धारयेयुः ॥ स्र्स्_२.२८ ॥
(वैद्य १२)
प्रकाशयित्वा इमु आनुशंसा अध्येषते शास्तु स्वयं स्वयंभूः ।
परिनिर्वृतस्य मम पश्चिकाले समाधि धारेथ इमं विशुद्धम् ॥ स्र्स्_२.२९ ॥
ये केचि बुद्धा दशसु दिशासु अतीतकालेऽपि च प्रत्युत्पन्नाः ।
सर्वे जिना अत्र समाधिशिक्षिता बुध्यन्ति बोधिं विरजामसंस्कृताम् ॥ स्र्स्_२.३० ॥

इति श्रीसमाधिराजे शालेन्द्रराज(पूर्वयोग)परिवर्तो नाम द्वितीयः ॥


(वैद्य १३)
३ भूतगुणवर्णप्रकाशनपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मात्तर्हिं कुमार यो बोधिसत्त्वो महासत्त्व आकाङ्क्षति तथागतस्यार्हतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रकाशयितुं नो चार्थतो वा व्यञ्जनतो वा पर्यादानं गन्तुं सर्वं च मे वचनं बुद्धपरिगृहीतं निश्चरितुमिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन सर्वसत्त्वानामर्थाय अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यः अरणाभावनया भावयितव्यो बहुलीकर्तव्यः परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । कतमे च ते कुमार तथागतस्य भूता बुद्धगुणाः? इह कुमार बोधिसत्त्वो महासत्त्वोऽरण्यगतो वा वृक्षमूलगतो वा अभ्यवकाशगतो वा शून्यागारमध्यगतो वा एवं प्रतिसंशिक्षते एवं स भगवांस्तथागतोऽर्हन् सम्यक्संबुद्धो विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । निष्यन्दः स तथागतः पुण्यानाम् । अविप्रणाशः कुशलमूलानाम् । अलंकृतः क्षान्त्या । आगमः पुण्यनिधानानाम् । चित्रितोऽनुव्यञ्जनैः । कुसुमितो लक्षणैः । प्रतिरूपो गोचरेण । अप्रतिकूलो दर्शनेन । अभिरतिः श्रद्धाधिमुक्तानाम् । अनभिभूतः प्रज्ञया । अनवमर्दनीयो बलैः । शास्ता सर्वसत्त्वानाम् । पिता बोधिसत्त्वानाम् । राजा आर्यपुद्गलानाम् । सार्थवाह आदिकर्मिकाणाम् । अप्रमेयो ज्ञानेन । अनन्तः प्रतिभानेन । विशुद्धःस्वरेण । आस्वादनीयो घोषेण । असेचनको रूपेण । अप्रतिसमः कायेन । अलिप्तः कामैः । अनुपलिप्तो रूपैः । असंसृष्ट आरूप्यैः । विमुक्तो दुःखेभ्यः
। विप्रमुक्तः स्कन्धेभ्यः । विसंयुक्तो धातुभिः । संवृत आयतनैः । प्रतिच्छन्नो ग्रन्थैः । विमुक्तः परिदाहैः । परिमुक्तस्तृष्णायाः । ओघादुत्तीर्णः । परिपूर्णो ज्ञानेन । प्रतिष्ठितोऽतीतानागतप्रत्युत्पन्नानां बुद्धानां भगवतां ज्ञाने । अप्रतिष्ठितो निर्व्ःणे । स्थितो भूतकोट्य्ःम् । स्थितः सर्वसत्त्वोल्लोकनीय्ःय्ःं भूमौ । इमे ते कुम्ःर तथ्ःगतस्य भूत्ः बुद्धगुण्ःः । एभिर्बुद्धगुणवर्णैः समन्व्ःगतो बोधिसत्त्वो मह्ःसत्त्व इमं सम्ःधिम्ःगम्य अन्ःच्छेद्येन प्रतिभ्ःनेन तथ्ःगतस्य्ःहतः सम्यक्संबुद्धस्य भूतं बुद्धगुणवर्णं संप्रक्ःशयन्नो च्ःर्थतो नो व्यञ्जनतश्च पर्य्ःद्ःनं गच्छति । सर्वं च्ःस्य वचनं बुद्धपरिगृहीतं निश्चरति ॥

अथ भगवांस्तस्यां वेलायामिमा गाथा अभाषत

न सुकरु जिनवर्ण सर्वि वक्तुं बहुमपि कल्पसहस्र भाषमाणैः ।
(वैद्य १४)
तथ गुण समुदानिता जिनेभिः इमु वरु शान्त समाधिमेषमाणैः ॥ स्र्स्_३.१ ॥
परमस्वभिरूपदर्शनीयाः कन्य अलंकृतगात्र प्रेमणीयाः ।
दत्त पुरि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे ॥ स्र्स्_३.२ ॥
तथ मयि धनधान्यदासिदासा तथ मणिमुक्तिसुवर्णरूप्यकं च ।
त्यक्त मयि अदीनमानसेन इमु वरु शान्त समाधिमेषता मे ॥ स्र्स्_३.३ ॥
मणिरतनविचित्रमुक्तहारा रुचिर पु वसन शङ्खसुवर्णसूत्रा ।
त्यक्त मयि पुरा विनायकेषु इमु वरु शान्त समाधिमेषता मे ॥ स्र्स्_३.४ ॥
अपरिमित अनन्त कल्पकोट्यः परमसुगन्धिक वार्षिकाश्च ।
त्यक्त मयि जिनान चेतियेषु परमनिरुत्तरु चित्तु संजनित्वा ॥ स्र्स्_३.५ ॥
तथरिव मयि दत्तु धर्मदानं पर्षगतेन जनित्व चित्रिकारम् ।
न च मम समुत्पन्न जातु चित्तं सिय मम ज्ञात्रु ददित्व धर्मदानम् ॥ स्र्स्_३.६ ॥
एत गुण समुदानितुं मि पूर्वा वन वरु सेवित नित्यमल्पशब्दम् ।
कृपबहुलु भवामि नित्यकालं सद मम चित्तु लभेय बुद्धज्ञानम् ॥ स्र्स्_३.७ ॥
न च मम क्वचिदाग्रहो अभूषि प्रियतरवस्तुन आत्मनोऽपि भोक्तुम् ।
(वैद्य १५)
ददमि अहु प्रभूत देयधर्मं सद मम चित्तु लभेय बुद्धज्ञानम् ॥ स्र्स्_३.८ ॥
अखिलमधुरसंविभागशीलः स्मितवदनः श्रुतिधारि स्निग्धघोषः ।
सुमधुरवचनः प्रियो बहूनां जन मम सर्वि अतृप्त दर्शनेन ॥ स्र्स्_३.९ ॥
क्षणमपि च न मत्सरी भवामि भवनियुतेन न जातु ईर्ष्यमासीत् ।
सद अहु परितृप्त पिण्डपाते सकल निमन्त्रण वर्जितान्यशेषा ॥ स्र्स्_३.१० ॥
बहुश्रुत श्रुतधारि ये भवन्ति गाथ इतो धरये चतुष्पदां पि ।
ते मयि सद सत्कृता अभूवन् परम निरुत्तर प्रेम संजनित्वा ॥ स्र्स्_३.११ ॥
बहुविधमनन्त दानु दत्तं तथपि च रक्षितु शीलु दीर्घरात्रम् ।
पूज बहु कृता विनायकेषु इमु वरु शान्त समाधिमेषता मे ॥ स्र्स्_३.१२ ॥
पृथु विविध अनन्त लोकधातून्मणिरतनैः परिपूर्य दानु दद्यात् ।
इतु धरयि समाधितश्च गाथामिमु तत्पुण्य विशिष्यते उदारम् ॥ स्र्स्_३.१३ ॥
यावत्पृथु केचिदस्ति पुष्पा तथरिव गन्ध मनोरमा उदाराः ।
तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान् ॥ स्र्स्_३.१४ ॥
यावत्पृथु केचिदस्ति वाद्या तथ बहु भोजन अन्नपानवस्त्राः ।
तेहि जिनु महेय्य पुण्यकामा बहुमपि कल्प अनन्त अप्रमेयान् ॥ स्र्स्_३.१५ ॥
(वैद्य १६)
यश्च नरु जनित्व बोधिचित्तमहु जिनु भेष्यु स्वयंभु धर्मराजः ।
गाथमिमु धरे समाहितैकां ततो विशिष्यते पुण्यमुदारम् ॥ स्र्स्_३.१६ ॥
यावत पृथु गङ्गवालिकाः स्युस्तावत कल्प भणेय आनुशंसा ।
न च परिक्षय शक्यु कीर्त्यमाने बहुतर पुण्यसमाधि धारयित्वा ॥ स्र्स्_३.१७ ॥

तस्मात्तर्हि कुमार बोधिसत्त्वेन्महासत्त्वेन उद्ग्रहीतव्यो धारयितव्यो वाचयितव्यः पर्यवाप्तव्यः । उद्गृह्य धारयित्वा वाचयित्वा पर्यवाप्य अरणाभावनायोगमनुयुक्तेन च भवितव्यम् । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां च । अथ खलु भगवास्तस्यां वेलायामिमा गाथा अभाषत

तस्माच्छ्रुत्वेति बुद्धानामानुशंसान् सुभद्रकान् ।
क्षिप्रमुद्दिशथा एतं समाधिं बुद्धवर्णितम् ॥ स्र्स्_३.१८ ॥
त्रिसप्ततिबुद्धकोट्यः पूर्वजातिषु सत्कृताः ।
सर्वेहि तेहि बुद्धेहि इदं सूत्रं प्रकाशितम् ॥ स्र्स्_३.१९ ॥
महाकरुणजेतारमिदं सूत्रं निरुच्यते ।
बाहुश्रुत्यस्मि शिक्षित्वा बुद्धधर्मा न दुर्लभाः ॥ स्र्स्_३.२० ॥
भेष्यन्ति पश्चिमे काले निर्वृते लोकनायके ।
बहु असंयता भिक्षु बाहुश्रुत्ये अनर्थिकाः ॥ स्र्स्_३.२१ ॥
शीलस्य वर्णं वक्ष्यन्ति शीलेन च अनर्थिकाः ।
समाधिवर्णं वक्ष्यन्ति समाधिय अनर्थिकाः ॥ स्र्स्_३.२२ ॥
प्रज्ञाय वर्णं वक्ष्यन्ति प्रज्ञाय च अनर्थिकाः ।
विमुक्त्या बहु भाषन्ते विमुक्त्या च अनर्थिकाः ॥ स्र्स्_३.२३ ॥
चन्दनस्य यथा कश्चिद्भाषते पुरुषो गुणान् ।
ईदृशं चन्दनं नाम गन्धजातं मनोरमम् ॥ स्र्स्_३.२४ ॥
अथान्यः पुरुषः कश्चिदेवं पृच्छेत तं नरम् ।
गृहीत चन्दनं किंचिद्यस्य वण प्रभाषसे ॥ स्र्स्_३.२५ ॥
(वैद्य १७)
स नरं तं प्रतिब्रूयाद्गन्धवर्णं ब्रवीम्यहम् ।
जीविकां येन कल्पेमि तं च गन्धं न वेद्म्यहम् ॥ स्र्स्_३.२६ ॥
एवं योगेऽप्ययुक्तानां शीलवर्णेन जीविका ।
पश्चिमे भेष्यते काले शीलं चैषां न भेष्यते ॥ स्र्स्_३.२७ ॥
एवं योगेऽप्ययुक्तानां समाधिवर्णेन जीविका ।
पश्चिमे भेष्यते काले समाधिश्चैषां न भेष्यते ॥ स्र्स्_३.२८ ॥
एवं योगेऽप्ययुक्तानां प्रज्ञावर्णन जीविका ।
भेष्यते पश्चिमे काले प्रज्ञा चैषां न भेष्यते ॥ स्र्स्_३.२९ ॥
एवं योगेऽप्ययुक्तानां विमुक्तिवर्णेन जीविका ।
भेष्यते पश्चिमे काले विमुक्तिश्चैषां न भेष्यते ॥ स्र्स्_३.३० ॥
यथ पुरुषु दरिद्रु कश्चिदेव सचे परिभूतु भवेन्महाजनस्य ।
स च लभति निधानु पश्चकाले धनपति भूत्व जनान सत्करेय्या ॥ स्र्स्_३.३१ ॥
एवमिमु न समाधि याव लब्धो न च बहुमतो भवतीह बोधिसत्त्वः ।
मरुमनुजकुम्भाण्डराक्षसा नो यथ पुरुषु दरिद्रु अर्थहीनः ॥ स्र्स्_३.३२ ॥
यद पुनरिय लब्ध भोति भूमी अतुलियु धर्मनिधानु पण्डितेन ।
मरु मनुज स्पृहं जनेन्ति तत्र स च धनु देति निरुत्तरं प्रजानाम् ॥ स्र्स्_३.३३ ॥
तस्म इमि श्रुणित्व आनुशंसां परमप्रणीतयः कीर्तिता जिनेन ।
सर्व जहिय ज्ञात्रलाभसौख्यमिमु वरमुद्दिशथा समाधि शान्तम् ॥ स्र्स्_३.३४ ॥
ये केचि बुद्धा दिशता सुनिर्वृता अनागता येऽपि च प्रत्युत्पन्नाः ।
सर्वे च शिक्षित्व इह समाधौ बोधिं विबुद्धा अतुलामचिन्तियाम् ॥ स्र्स्_३.३५ ॥
(वैद्य १८)
चन्द्रप्रभः कुमारु हृष्टचित्तः पुरतु जिनस्य स्थिहित्व वाच भाषी ।
अहु पुरुषवरस्य निर्वृतस्य सुकिसरि कालि इदं धरिष्ये सूत्रम् ॥ स्र्स्_३.३६ ॥
काय अहु त्यजित्व जीवितं च तथपि च सौख्य यदस्ति लोके ।
तत्र अहु महाभयेऽपि काले इमु वरु शान्त समाधि धारयिष्ये ॥ स्र्स्_३.३७ ॥
महकरुण जनित्व सत्त्वकाये सुदुखित सत्त्व अनाथ प्राप्त दृष्ट्वा ।
तेष्वहमुपसंहरित्व मैत्रीमिमु वर शान्त समाधि देशयिष्ये ॥ स्र्स्_३.३८ ॥
पञ्चशत अनून तस्मिन् काले य उत्थित तत्र समाधिधारकाणाम् ।
पूर्वंगम कुमार तेष आसीदिह वरसूत्रपरिग्रहे उदारे ॥ स्र्स्_३.३९ ॥

इति श्रीसमाधिराजे भूतगुणवर्णप्रकाशनपरिवर्तो नाम तृतीयः ॥


(वैद्य १९)
४ बुद्धानुस्मृतिपरिवर्तः ।

अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् समाधिः समाधिरिति भगवन्नुच्यते । कतमस्यैतद्धर्मस्याधिवचनं समाधिरिति? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् समाधिः समाधिरिति कुमार उच्यते यदुत चित्तनिध्याप्तिः । अनुपपत्तिः । अप्रतिसंधिः । प्रतिसंधिज्ञानम् । अपहृतभारता । तथागतज्ञानम् । बुद्धवृषभिता । रागचिकित्सा । दोषव्युपशमः । मोहस्य प्रहाणम् । युक्तयोगिता । अयुक्तविवर्जनता । अकुशलधर्मच्छन्दः । संसारान्मोक्षकामता । अध्याशयप्रतिपत्तिः । जागरिकाया आसेवनम् । प्रहाणस्यानुत्सर्गः । आरक्षा शुक्लधर्माणाम् । उपपत्तिष्वविश्वासः । अनभिसंस्कारः । कर्मणामाध्यात्मिकानामायतनानाममनसिकारः । बाह्यानामायतनानामसमुदाचारः । आत्मनोऽनुत्कर्षणम् । परेषामपंसनता । कुशलेष्वनध्यवसानम् । पृथग्जनेष्वविश्वासः । शीलस्य निष्यन्दः । दुरासदता । महौजस्कता । आत्मज्ञानम् । अचपलता । ईर्यापथसंपदवस्थानम् । अव्यापादः । अपारुष्यम् । परेष्वनुत्पीडा । मित्राणामनुरक्षणा । गुह्यमन्त्राणामारक्षणा । अविहिंसा । शीलवतामनुत्पीडना । श्लक्ष्णवचनता । सर्वत्रैधातुके अनिःश्रितता । सर्वधर्मेषु शून्यता । आनुलोमिकी क्षान्तिः । सर्वज्ञज्ञाने तीव्रच्छन्दता समाधिः समाधिरिति कुमार उच्यते । या एवेष्वेवंरूपेषु धर्मेषु प्रतिपत्तिरप्रतिपत्तिः, अयं स कुमार उच्यते समाधिरिति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत

अपावृतं मे अमृतस्य द्वारमाचक्षितो धर्मस्वभावु यादृशः ।
निदर्शिता मे उपपत्ति यादृशी प्रकाशिता निर्वृति सानुशंसा ॥ स्र्स्_४.१ ॥
विवर्जनीयाः सद पापमित्राः कल्याणमित्राश्च निषेवितव्याः ।
वनेषु वस्तव्य गणान् जहित्वा मैत्रं च चित्तं सद भावनीयम् ॥ स्र्स्_४.२ ॥

शुद्धं च शीलं सद रक्षितव्यं धूतेषु पुष्टिः सद विन्दितव्या ।
त्यागश्च प्रज्ञा च निषेवितव्या । न दुर्लभो एष समाधि भेष्यति ॥ स्र्स्_४.३ ॥
(वैद्य २०)
ततो लभित्वा इम शान्तभूमि यस्यामभूमिः पृथु श्रावकाणाम् ।
प्रत्यक्षभूता सुगतस्य धर्म प्रतिलप्स्यथा बुद्धगुणानचिन्तियान् ॥ स्र्स्_४.४ ॥
दृष्ट्वा नरान् भाजनबुद्धिमन्तान् तान् बोधिचित्तस्मि समादहेथ ।
अनुत्तरे ज्ञानि प्रतिष्ठपित्वा न दुर्लभो एष समाधिराजः ॥ स्र्स्_४.५ ॥
यस्यार्थि ईर्षा पुन संजनेय्या आहारि निष्यन्दिह प्रत्यवेक्षतः ।
पर्येष्टितश्चो परिभोगतश्च न दुर्लभो एष समाधि भेष्यते ॥ स्र्स्_४.६ ॥
समाधिराजो यदि वैष शून्यतो विशुद्धशीलानयु मूर्ध्नि तिष्ठति ।
स्वभावतो धर्म सदा समाहिता बाला न जानन्ति अयुक्तयोगाः ॥ स्र्स्_४.७ ॥
येषामयं शान्त समाधिरिष्टो न तेष जातु भयबुद्धि तिष्ठति ।
सदानुपश्यन्ति नराणमुत्तममिमां निषेवित्व प्रशान्तभूमिम् ॥ स्र्स्_४.८ ॥
आकारतो यः स्मरते तथागतान् स भोति शान्तेन्द्रियु शान्तमानसः ।
अभ्रान्तचित्तः सततं समाहितः श्रुतेन ज्ञानेन च सागरोपमः ॥ स्र्स्_४.९ ॥
अस्मिन् समाधौ हि प्रतिष्ठिहित्त्वा यश्चंक्रमे चंक्रमि बोधिसत्त्वः ।
स पश्यति बुद्धसहस्रकोटियस्तदुत्तरे यात्तिक गङ्गवालुकाः ॥ स्र्स्_४.१० ॥
उन्मादु गच्छेय नरस्य चित्तं यो बुद्धधर्माण प्रमाणु गृह्णीयात् ।
(वैद्य २१)
नैवाप्रमाणस्य प्रमाणमस्ति अचिन्तिया सर्वगुणेहि नायकाः ॥ स्र्स्_४.११ ॥
न सोऽस्ति सत्त्वो दशसु दिशासु यो लोकनाथेन समः कुतोत्तरि ।
सर्वे हि सर्वज्ञगुणरुपेतमाकाङ्क्षथ लप्स्यथ बुद्धज्ञानम् ॥ स्र्स्_४.१२ ॥
सुवर्णवर्णेन समुच्छ्रयेण समन्तप्रासादिकु लोकनाथः ।
यस्यात्र आलम्बनि चित्तु वर्तते समाहितः सोच्यति बोधिसत्त्वः ॥ स्र्स्_४.१३ ॥
असंस्कृतं संस्कृतु ज्ञात्व विज्ञो निमित्तसंज्ञाय विभाविताय ।
सो आनिमित्ते भवति प्रतिष्ठितः प्रजानती शून्यक सर्वधर्मान् ॥ स्र्स्_४.१४ ॥
यो धर्मकाये भवति प्रतिष्ठितो अभाव जानाति स सर्वभावान् ।
अभावसंज्ञाय विभाविताय न रूपकायेन जिनेन्द्र पश्यति ॥ स्र्स्_४.१५ ॥
आरोचयामि प्रतिवेदयामि वो यथा यथा बहु च वितर्कयेन्नरः ।
तथा तथा भवति तन्निमित्तचित्तस्तेहि वितर्केहि तन्निश्रितेहि ॥ स्र्स्_४.१६ ॥
एवं मुनीन्द्रं स्मरतो नरस्य आकारतो ज्ञानतो अप्रमेयतः ।
अनुस्मृतिं भावयतः सदा च तन्निम्नचित्तं भवती तत्प्रोणम् ॥ स्र्स्_४.१७ ॥
स चंक्रमस्थो न निषद्यमाश्रित आकाङ्क्षते पुरुषवरस्य ज्ञानम् ।
आकाङ्क्षमाणः प्रणिघेति बोधये भविष्यहं लोकि निरुत्तरो जिनः ॥ स्र्स्_४.१८ ॥
(वैद्य २२)
स बुद्ध संजानति बुद्ध पश्यते बुद्धान चो धर्मत प्रत्यवेक्षते ।
इह समाधिस्मि प्रतिष्ठिहित्वा नमस्यते बुद्ध महानुभावान् ॥ स्र्स्_४.१९ ॥
कायेन वाचा च प्रसन्न मानसा बुद्धान वर्णं भणती अभीक्ष्णम् ।
तथाहि सो भावितचित्तसंतती । रात्रिंदिवं पश्यति लोकनाथान् ॥ स्र्स्_४.२० ॥
यदापि सो भोति गिलान आतुरः प्रवर्तते वेदन मारणान्तिका ।
न बुद्धमारभ्य स्मृतिः प्रमुष्यते न वेदनाभिरनुसंहरीयति ॥ स्र्स्_४.२१ ॥
तथा हि तेन विचिनित्व ज्ञाता अनागता आगत धर्मशून्यता ।
सो तादृशे धर्मनये प्रतिष्ठितो न खिद्यते चित्त चरन्तु चारिकाम् ॥ स्र्स्_४.२२ ॥
तस्माच्छ्रुणित्वा इमु आनुशंसा जनेथ छन्दमतुलाय बोधये ।
मा पश्चकाले परितापु भेष्यत सुदुर्लभं सुगतवराण दर्शनम् ॥ स्र्स्_४.२३ ॥
अहं च भाषेय प्रणीत धर्मं यूयं च श्रुत्वान समाचरेथाः ।
भैषज्य वस्त्रां च गृहीत्व आतुरोऽपनेतु व्याधिं न प्रभोति आत्मनः ॥ स्र्स्_४.२४ ॥
तस्माद्विधिज्ञेन विचक्षणेन इमं समाधिं प्रतिकाङ्क्षता सदा ।
शीलं श्रुतं त्यागु निषेवितव्यं न दुर्लभो एष समाधि भेष्यति ॥ स्र्स्_४.२५ ॥

इति श्रीसमाधिराजे बुद्धानुस्मृतिपरिवर्तो नाम चतुर्थः ॥


(वैद्य २३)
५ घोषदत्तपरिवर्तः ।

तत्र भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म भूतपूर्वं कुमार अतीतेऽध्वन्यसंख्येये कल्पे असंख्येयतरे विपुलेऽप्रमेयेऽचिन्त्येऽपरिमाणे यदासीत्तेन कालेन तेन समयेन भगवान् घोषदत्तो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तेन कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य अशीतिः श्रावककोट्यः प्रथमसन्निपातोऽभूत्सर्वेषामर्हताम् । द्वितीयः श्रावकसन्निपातः सप्ततिकोट्योऽर्हतामभूत् । तृतीयः सन्निपातः षष्टिः श्रावककोट्योऽर्हतामभूत् । तेन खलु पुनः समयेन तस्य भगवतो घोषदत्तस्यार्हतः सम्यक्संबुद्धस्य चत्वारिंशद्वर्षसहस्राण्यायुःप्रमाणमभूत् । अयं च जम्बुद्वीप ऋद्धः स्फीतश्च क्षेमश्च सुभिक्षश्च रमणीयश्च बहुजनाकीर्णमनुष्यश्चाभूत् । तेन खलु पुनः समयेन अस्मिन् जम्बुद्वीपे द्वौ राजानावभूताम् । दृढबलश्च नाम महाबलश्च नाम । तत्रैको राजा अर्धं जम्बुद्वीपं परिभुङ्क्ते, द्वितीयोऽप्यर्धं परिभुङ्क्ते ऋद्धं च स्फीतं च क्षेमं च सुभिक्षं च रमणीयं च बहुजनाकीर्णमनुष्यं च ॥ तेन कालेन तेन समयेन राज्ञो महाबलस्य विजिते भगवान् घोषदत्तस्तथागतोऽर्हन् सम्यक्संबुद्ध उत्पन्नोऽभूत् । इति हि कुमार राज्ञा महाबलेन स घोषदत्तस्तथागतः परिपूर्णं वर्षसहस्रं निमन्त्रितोऽभूत्सार्धं बोधिसत्त्वसंघेन भिक्षुसंघेन च कल्पिकेन परिभोगेणानवद्येन चीवरपिण्डपात्रशयनासनग्लानप्रत्ययभैषज्यपरिष्कारेण
। तेन च कुमार कालेन तेन समयेन तस्य भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य बोधिसत्त्वसंघस्य सश्रावकसंघस्य चोत्सदो लाभसत्कारश्लोकोऽभूत् । श्राद्धाश्च ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य सबोधिसत्त्वसंघस्य चोत्सदं लाभसत्कारमकार्षुः । ते च श्राद्धा ब्राह्मणगृहपतयो भगवतो घोषदत्तस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य लाभसत्कारायोद्युक्ता अभूवन् लोकामिषपूजायै यदुत राज्ञ एव च महाबलस्यानुशिक्षमाणरूपम् । इति हि कुमार तस्य भगवतो घोषदत्तस्य एतदभूत् परिहीयन्ते बतेमे सत्त्वाः शीलपोषधसमादानतस्तथागतानामुपसंक्रमणतस्तथागतपर्युपासनतो ब्रह्मचर्यावासतः प्रव्रज्योपसंपन्नभिक्षुभावतश्च । त एते सत्त्वास्तदनन्तरं सुखगुरुकाः । तत्कस्य हेतोः? तथा हि तदनन्तरं सुखमिदं यदुत लोकामिषपूजा । त एते सत्वा दृष्टधर्मगुरुकाश्च संपरायगुरुकाश्च नात्यन्तनिष्ठाः कुशलमूलाय । तत्रेयं कुमार कतमा दुष्टधर्मगुरुकता? यदुत पञ्चकामगुणाभिप्रायता । (वैद्य २४) तत्र कुमार कतमा सांपरायिकगुरुकता? यदुत स्वर्गलोकाध्यालम्बनता । कतमा चात्यन्तनिष्ठकुशलमूलगुरुकता? यदुतात्यन्तविशुद्धिः । अत्यन्तविमुक्तिः । अत्यन्तयोगक्षेमता । अत्यन्तब्रह्मचर्यावासः । अत्यन्तपर्यवसानम् । अत्यन्तकुशलमूलनिष्ठा । अत्यन्तपरिनिर्वाणम् । यन्नवहमेतेषां सत्त्वानां तथा तथा धर्मं देशयेयं यदमी सत्त्वा यथानुत्तरया धर्मपूजया धर्मप्रतिपत्त्या च तथागतं पूजयेयुः ॥

अथ खलु कुमार घोषदत्तस्तथागतोऽर्हन् सम्यक्संबुद्धस्तस्यां वेलायां राज्ञो महाबलस्य तेषां च ब्राह्मणगृहपतीनां संवेजनाभिप्राय इमा गाथा अभाषत

दानप्रदानेन अन्योन्य सेवतां तेषान्यमन्यस्मि न भोति गौरवम् ।
ना तादृशीं सेवन वर्णयन्ति बुद्धा विदू येष प्रहीण वासना ॥ स्र्स्_५.१ ॥
ते तादृशा भोन्ति नराः सुसेविता ये धर्म देशेन्ति हिताय प्राणिनाम् ।
तेषान्यमन्यस्मि अभेद्य प्रेम यन्मारकोटीभिरशक्यु भिन्दितुम् ॥ स्र्स्_५.२ ॥
लोकामिषेणो नर सेवतां नृणां सर्वेषं सांदृष्टिक भोति अर्थः ।
निरामिषं धर्म निषेवतां हि महान्त अर्थो भवती नराणाम् ॥ स्र्स्_५.३ ॥
निरामिषं चित्तु उपस्थपित्वा निरामिषं धर्म प्रकाशयित्वा ।
निरामिषं येष भवेत प्रेम ते तादृशाः क्षिप्र भवन्ति बुद्धाः ॥ स्र्स्_५.४ ॥
न जातु कामान् प्रतिसेवमानः पुत्रेषु दारेषु जनित्व तृष्णाम् ।
गृहं च सेवन्तु जुगुप्सनीयमनुत्तरां प्राप्स्यति सोऽग्रबोधिम् ॥ स्र्स्_५.५ ॥
ये काम वर्जेन्ति यथाग्निकर्षूं पुत्रेषु दारेषु जहित्व तृष्णाम् ।
(वैद्य २५)
उत्त्रस्तु गेहादभिनिष्क्रमन्ति न दुर्लभा तेष्वियमग्रबोधिः ॥ स्र्स्_५.६ ॥
न कश्चि बुद्धः पुरिमेण आसी अनागते भेष्यति वावतिष्ठते ।
येहि स्थितैरेवमगारमध्ये प्राप्ता इयमुत्तम अग्रबोधिः ॥ स्र्स्_५.७ ॥
प्रहाय राज्यं यथ खेटपिण्डं वसेत रण्येषु विवेककामः ।
क्लेशान् प्रहाय प्रतिहत्य मारं बुद्ध्यन्ति बोधिं विरजामसंस्कृताम् ॥ स्र्स्_५.८ ॥
यो बुद्धवीरान् यथ गङ्गवालुका उपस्थिहेय्या बहुकल्पकोटियः ।
यश्चो गृहातः परिखिन्नमानसोऽभिनिष्क्रमेय्या अयु तत्र उत्तमः ॥ स्र्स्_५.९ ॥
अन्नेहि पानेहि च चीवरेहि पुष्पेहि गन्धेहि विलेपनेहि ।
नोपस्थिता भोन्ति नरोत्तमा जिना यथ प्रव्रजित्वा चरियाण धर्मम् ॥ स्र्स्_५.१० ॥
यश्चैव बोधिं प्रतिकाङ्क्षमाणः सत्त्वार्थ निर्विण्णु कुसंस्कृतातः ।
रण्यामुखः सप्त पदानि प्रक्रमे अयं ततः पुण्यविशिष्ट भोति ॥ स्र्स्_५.११ ॥

अश्रौषीत्खलु पुनः कुमार राजा महाबलो भगवता घोषदत्तेन तथागतेनार्हता सम्यक्संबुद्धेन इमामेवंरूपां प्रवर्तितां नैष्क्रम्यप्रतिसंयुक्तां कथाम् । श्रुत्वा च विमृशति यथाहं भगवतो भाषितस्यार्थमाजानामि, न भगवान् दानपारमितां वर्णयति, न शीलपारमितां वर्णयति । अत्यन्तनिष्ठां संवर्णयति । अत्यन्तविशुद्धिम् । अत्यन्तब्रह्मचर्यावासम् । अत्यन्तनिर्वाणं संवर्णयति । तस्यैतदभूत् नेदं सुकरमगारमध्यावसता अनुत्तरधर्मप्रतिपत्तिं संपादयितुम्, अर्थं वा अनुप्राप्तुम् । परिहीणोऽस्म्यनुत्तराया धर्मप्रतिपत्तितः । यन्न्वहं केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजेयम् । इति हि (वैद्य २६) कुमार राजा महाबलः सार्धमशीत्या ब्राह्मणगृहपतिशतसहस्रैः परिवृतः पुरस्कृतो येन भगवान् घोषदत्तो नाम तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोपसंक्रामत् । उपसंक्रम्य भगवतः पादौ शिरसाभिवन्द्य त्रिः प्रदक्षिणीकृत्य एकान्तेऽस्थात् । अथ खलु कुमार भगवान् घोषदत्तो राज्ञो महाबलस्य अध्याशयं विदित्वा इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं देशयते । अथ खलु कुमार राजा महाबल इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः केशश्मश्रण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितोऽभूत् । स तथा प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् । उद्गृह्य पर्यवाप्य धारयित्वा वाचयिओत्वा भावनायोगमनुयुक्तो व्यहार्षीत् । स तेनैव कुशलमूलेन दशकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत्, विंशतिं च बुद्धकोटीरारागयामास । तेषां च तथागतानामन्तिकादिमं समाधिमश्रौषीत् । श्रुत्वा तेभ्यो बुद्धेभ्यस्तेनोद्गृहीतः
पर्यवाप्तो धारितो वाचितो भावनायोगमनुयुक्तो व्यहार्षीत् । स ततः पश्चात्तेनैव कुशलमूलेन दशानां कल्पकोटीनामत्ययेन परिपूर्णेन कल्पशतसहस्रेण अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽभूत् । सोऽप्रमेयाणां सत्त्वानामर्थं कृत्वा पश्चाद्बुद्धपरिनिर्वाणेन परिनिर्वृतोऽभूत् । तत्र कुमार यान्यशीतिप्राणिशतसहस्राणि राज्ञा महाबलेन सार्धं भगवन्तं घोषदत्तं तथागतमुपसंक्रान्तानि, तेऽपि सर्वे इमं समाधिं श्रुत्वा तुष्टा उदग्रा आत्तमनसः प्रमुदिताः
प्रीतिसौमनस्यजाताः केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजिता अभूवन् । तेऽपि तथा प्रव्रजिता इमं समाधिमुद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव कुशलमूलेन विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमन् । सर्वत्र च कल्पे कल्पे बुद्धकोटीर्बुद्धकोटीरारागयामास । सर्वेषां च तेषां तथागतानामन्तिके इमं समाधिं श्रुत्वोद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्ता विहृत्य तेनैव पूर्वक्रेण कुशलमूलेन विंशतीनां कल्पकोटीनामत्ययेन ततः पश्चात्परिपूर्णदशभिः कल्पसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंबुद्धा दृढशूरनामानस्तथागता अर्हन्तः सम्यक्संबुद्धा लोके उत्पन्ना अभुवन् । तेऽप्यप्रमेयानसंख्येयान् सत्त्वान् परिपाच्य तेषां चार्थं कृत्वा बुद्धपरिनिर्वृता अभूवन् । तदनेनापि ते कुमार पर्यायेण एवं वेदितव्यं यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य सर्वज्ञज्ञानस्याहरणाय संवर्तत इति ॥ अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तस्यां वेलायामेतदेव पूर्वयोगपरिवर्तं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म

स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराण उत्तमः ।
(वैद्य २७)
उत्पन्नु लोकार्थकरो महर्षि नामेन सो उच्यति घोषदत्तः ॥ स्र्स्_५.१२ ॥
अशीति कोट्यः परिपूर्ण तस्य प्रथमो गणो आसि य श्रावकाणाम् ।
द्वितीय चासीत्परिपूर्ण सप्ततिस्तृतीय चो षष्ट्यरहन्तकोटियः ॥ स्र्स्_५.१३ ॥
सर्वे च क्षीणास्रव निष्किलेशाः सर्वे च ऋद्धीबलपारमिं गताः ।
वर्षं सहस्रा दुवि विशं चायुः क्षेत्रं च आसीत्परिशुद्ध शोभनम् ॥ स्र्स्_५.१४ ॥
अभिषेकप्राप्ता परहित अप्रमेया वशितेहि भूमिहि च सुप्रतिष्ठिताः ।
आसन्न ते द्रुमवरि बोधि बोधितुं ये बोधिसत्वास्त अभूषि तायिनः ॥ स्र्स्_५.१५ ॥
इह जम्बुद्वीपस्मि अभूषि राजा दृढबलो नाम महाबलश्च ।
उपार्धु राज्यस्य तदेकु भुञ्जते द्वितीय चाधस्य अभूषि राजा ॥ स्र्स्_५.१६ ॥
महाबलस्यो विजितस्मि बुद्धो उत्पन्न सो देवमनुष्यपूजितः ।
लभित्व राजा सुगतस्मि श्रद्धामुपस्थिही वर्षसहस्र पूर्णम् ॥ स्र्स्_५.१७ ॥
तस्यानुशिक्षी बहु अन्यसत्त्वाः कुर्वन्ति सत्कार तथागतस्य ।
लोकामिषेणैव हि धर्मपूजया सश्रावकस्य अतुलोऽभू उत्सदः ॥ स्र्स्_५.१८ ॥
अभूषि चित्तं पुरुषोत्तमस्य देशिष्य धर्ममिमि धर्मकामाः ।
यन्नून सर्वे प्रजहित्व कामानिह प्रव्रजेयुर्मम शासनस्मिन् ॥ स्र्स्_५.१९ ॥
(वैद्य २८)
स भाषते गाथ नराणमुत्तमः संलेखिधर्मं सुगतान शिक्षाम् ।
गृहवासदोषांश्च अनन्तदुःखान् प्रतिपत्ति धर्मेष्विह धर्मपूजा ॥ स्र्स्_५.२० ॥
श्रुणित्व गाथां तद राजपार्थिवो एको विचिन्तेति रहोगतो नृपः ।
न शक्य गेहस्मि स्थिहित्व सर्वे प्रतिपद्यितुमुत्तधर्मपूजा ॥ स्र्स्_५.२१ ॥
स राज्य त्यक्त्वा यथ खेटपिण्डं प्राणिसहस्रेभिरशीतिभिः सह ।
उपसंक्रमी तस्य जिनस्य अन्तिकं वन्दित्व पादौ पुरतः स्थितोऽभूत् ॥ स्र्स्_५.२२ ॥
तेषां जिनो आशयु जानमानो देशेतिमं शान्त समाधि दुर्दृशम् ।
ते प्रीतिप्रामोद्यसुखेन प्रीणितास्तुष्टा उदग्रास्तद प्रव्रजिंसु ॥ स्र्स्_५.२३ ॥
ते प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्व ।
न जातु गच्छे विनिपातदुर्गतिं कल्पान कोट्यः परिपूर्ण विंशतिम् ॥ स्र्स्_५.२४ ॥
ते तेन सर्वे कुशलेन कर्मणा अद्राक्षु बुद्धान सहस्रकोटियः ।
सर्वेषु चो तेषु जिनानुशासने ते प्रव्रजित्वेमु समाधि भावयी ॥ स्र्स्_५.२५ ॥
ते पश्चिमे कालि अभूषि बुद्धा दृढशूरनामान अनन्तवीर्याः ।
कृत्वा च अर्थं बहुप्राणिकोटिनां ते पश्चिकालेस्मि शिखीव निर्वृताः ॥ स्र्स्_५.२६ ॥
(वैद्य २९)
महाबलो राजा य आसि पूर्वं स ज्ञानशूरो अभु बुद्ध लोके ।
तदा बहु प्राणिसहस्रकोटियः स्थपेत्व बोधाय स पश्चि निर्वृतः ॥ स्र्स्_५.२७ ॥
तस्माच्छ्रुणित्वा इमु पश्चिकाले धारेय सूत्रमिमु बुद्धवर्णितम् ।
धारेत्विममीदृश धर्मकोषं भविष्यथा क्षिप्र नराणमुत्तमाः ॥ स्र्स्_५.२८ ॥

इति श्रीसमाधिराजे घोषदत्तपरिवर्तो नाम पञ्चमः ॥


(वैद्य ३०)
६ समाधिपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन इमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिपरिकर्म करणीयम् । तत्र कुमार कतमत्समाधिपरिकर्म? इह कुमार बोधिसत्त्वो महाकरुणासंप्रस्थितेन चित्तेन तिष्ठतां वा तथागतानां परिनिर्वृतानां वा पूजाकर्मणे उद्युक्तो भवति, यदुत चीवरपिण्डपातशयनासनग्लानप्रत्ययभैषज्यपरिष्कारैः पुष्पधूपगन्धमाल्यविलेपनचूर्णचीवरच्छत्रध्वजपताकाभिस्तूर्यतालावचरैर्वैजयन्तीभिः तच्च कुशलमूलं समाधिप्रतिलम्भाय परिणमयति । स न कंचिद्धर्ममाकाङ्क्षंस्तथागतं पूजयति न रूपं न कामान्न भोगान्न स्वर्गान्न परिवारान् । अपि तु खलु पुनर्धर्मचित्तको भवति । स आकाङ्क्षन् धर्मकायतोऽपि तथागतं नोपलभते, किमङ्ग पुना रूपकायत उपलप्स्यते । तस्मात्तर्हि कुमार एषां सा तथागताना पूजा यदुत तथागतस्यादर्शनमात्मनश्चानुपलब्धिः कर्मविपाकस्य चाप्रतिकाङ्क्षमाणता । अनया कुमार त्रिमण्डलपरिशुद्धया पूजया तथागतं पूजयित्वा बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते ॥

अथ खलु भगवांस्तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य एतदेव समाधिपरिकर्मनिर्देशं भूयस्या मात्रया गाथाभिगीतेन विस्तरेण संप्रकाशमति स्म

अनन्तज्ञानस्य ददित्व गन्धाननन्तगन्धो भवती नराणाम् ।
न कल्पकोटीय व्रजन्ति दुर्गतिं दुर्गन्धियं तेषु न जातु भोति ॥ स्र्स्_६.१ ॥
ते कल्पकोट्यश्चरमाणु चारिकां पूजित्व बुद्धान सहस्रकोटियः ।
ते ज्ञानगन्धेन समुद्गतेन भवन्ति बुद्धा वरशीलगन्धिकाः ॥ स्र्स्_६.२ ॥
सचेत्पुनर्जानति वास्ति सत्त्वो यो गन्ध देती तथ यस्य दीयते ।
एतेन चित्तेन ददाति गन्धमेषास्य क्षान्तिर्मृदु आनुलोमिकी ॥ स्र्स्_६.३ ॥
(वैद्य ३१)
तस्यैतं क्षान्तिमधिमात्र सेवतः सचेन्नरः काकणिच्छेद्यु छिद्यते ।
कल्पान कोट्यो यथ गङ्गवालिका न तस्य चित्तं भवति विवर्तियम् ॥ स्र्स्_६.४ ॥
किं कारणं वुच्यति क्षान्ति नाम कथं पुनो वुच्यति आनुलोमिकी ।
अविवर्तिको वुच्यति केन हेतुना कथं पुनो वुच्यति बोधिसत्त्वः ॥ स्र्स्_६.५ ॥
क्षान्त्यस्मि धर्मे प्रकृतौ निरात्मके नैरात्म्यसंज्ञस्य किलेशु नास्ति ।
खं यादृशं जानति सर्वधर्मास्तस्मादिह स्या क्व तु क्षान्ति नाम ॥ स्र्स्_६.६ ॥
आनुलोमि सर्वेष जिनान शिक्षतो न चास्ति धर्मश्चरते विचक्षणः ।
न बुद्धधर्मेषु जनेति संशयानियं स क्षान्तिर्भवतानुलोमिकी ॥ स्र्स्_६.७ ॥
एवं चरन्तस्य य लोकि मारास्ते बुद्धरूपेण भणेय्य वाचा ।
सुदुर्लभा बोधि भवाहि श्रावका न गृह्णोती वाक्यु न चो विवर्तते ॥ स्र्स्_६.८ ॥
बोधेति सत्त्वान् विषमातु दृष्टितो न एष मार्गो अमृतस्य प्राप्तये ।
कुमार्ग वर्णित्व पथे स्थपेति तं कारणमुच्यति बोधिसत्त्वः ॥ स्र्स्_६.९ ॥
क्षमिष्यनूलोमपथे स्थितस्य नैरात्म्यसङ्गाय विबोधितस्य ।
स्वप्नान्तरेऽप्यस्य न जातु भोति अस्ति नरो पुद्गल जीव सत्त्वः ॥ स्र्स्_६.१० ॥
(वैद्य ३२)
सचे मारकोट्यो यथ गङ्गवालुकास्ते बुद्धरूपेण उपागमित्वा ।
भणेयुरभ्यन्तरकायु जीवो ते मं वदे नास्ति न यूय बुद्धा ॥ स्र्स्_६.११ ॥
ज्ञानेन जानाम्यहु स्कन्धशून्यकं ज्ञात्वा च क्लेशेहि न संवसामि ।
व्याहारमात्रेण च व्योहरामि परिनिर्वृतो लोकमिमं चरामि ॥ स्र्स्_६.१२ ॥
यथा हि पुत्र पुरुषस्य जातु कृतंसि नामा अयमेव नाम ।
नामं न तस्यो दिशता सुलभ्यते तथास्य नामं न कुतश्चिदागतम् ॥ स्र्स्_६.१३ ॥
तथैव नामं कृतु बोधिसत्त्वो न चास्य नामं दिशता सुलभ्यते ।
पर्येषमाणो अयु बोधिसत्त्वो जानाति यो एष स बोधिसत्त्वः ॥ स्र्स्_६.१४ ॥
समुद्रमध्येऽपि ज्वलेत अग्नि र्न बोधिसत्त्वस्य सत्कायदृष्टिः ।
यतोऽस्य बोधाय उत्पन्नु चित्तमत्रान्तरे तस्य न जीवदृष्टिः ॥ स्र्स्_६.१५ ॥
न ह्यत्र जातो न मृतो च कश्चिदुत्पन्न सत्त्वो मनुजो नरो वा ।
मायोपमा धर्म स्वभावशून्या न शक्यते जानितु तीर्थिकेहि ॥ स्र्स्_६.१६ ॥
न चापि आहारविमूर्छितेहि लुब्धेहि गृद्धेहि च पात्रचीवरे ।
न चोद्धतेहि नपि चोन्नतेहि शक्या इयं जानितु बुद्धबोधिः ॥ स्र्स्_६.१७ ॥
(वैद्य ३३)
न स्त्यानमिद्धाभिहतैः कुसीदैः स्तब्धेहि मानीहि अनात्रपेहि ।
येषां न बुद्धस्मि प्रसादु अस्ति न शक्यते ही वरबोधि जानितुम् ॥ स्र्स्_६.१८ ॥
न भिन्नवृत्तेहि पृथग्जनेहि येषां न धर्मस्मि प्रसादु अस्ति ।
सब्रह्मचारीषु च नास्ति गौरवं न शक्यते ही वरबोधि बुद्धितुम् ॥ स्र्स्_६.१९ ॥
अभिन्नवृत्ता हिरिमन्त लज्जिनो येषां स्ति बुद्धे अपि धर्मे प्रेम ।
सब्रह्मचारीषु च तीव्रगौरवं ते प्रापुणन्ती वरबोधिमुत्तमाम् ॥ स्र्स्_६.२० ॥
स्मृतेरुपस्थान इह येष गोचरः प्रामोद्य प्रीति शयनमुपस्तृतम् ।
ध्यानानि चाहारु समाधि पानियं बुध्यन्ति तेऽपि वरबोधिमुत्तमाम् ॥ स्र्स्_६.२१ ॥
नैरात्म्यसंज्ञा च दिवाविहारो अनुस्मृतिश्चंक्रमशून्यभावः ।
बोध्यङ्गपुष्पा सुरभी मनोरमा ते युज्यमाना वरबोधि प्रापयी ॥ स्र्स्_६.२२ ॥
या बोधिसत्त्वान चरी विदूनामभूमिरन्यस्य जनस्य तत्र ।
प्रत्येकबुद्धान च श्रावकाण च को वात्र विज्ञो न जनेय छन्दम् ॥ स्र्स्_६.२३ ॥
सचेन्ममा आयु भवेत एत्तकं कल्पान कोट्यो यथ गङ्गवालुकाः ।
एकस्य रोमस्य भणेय वर्णं बौद्धेन ज्ञानेन पर्यन्तु नास्ति ॥ स्र्स्_६.२४ ॥
(वैद्य ३४)
तस्माच्छुणित्वा इमु आनुशंसामनाभिभूतेन जिनेन देशिताम् ।
इमं समाधिं लघु उद्दिशेया न दुर्लभा भेष्यति अग्रबोधिः ॥ स्र्स्_६.२५ ॥

इति श्रीसमाधिराजे समाधिपरिवर्तो नाम षष्ठः ॥


(वैद्य ३५)
७ त्रिक्षान्त्यवतारपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मातर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन त्रिक्षान्तिज्ञानकुशलेन भवितव्यम् । तेन प्रथमा क्षान्तिः प्रज्ञातव्या । द्वितीया क्षान्तिः प्रज्ञातव्या । तृतीया क्षान्तिः प्रज्ञातव्या । त्रिक्षान्तिविशेषकुशलेन भवितव्यं त्रिक्षान्तिज्ञानविशेषकुशलेन च । तत्कस्य हेतोः? तथाहि कुमार यदा बोधिसत्त्वो महासत्त्वस्त्रिक्षान्तिविशेषकुशलो भवति त्रिक्षान्तिज्ञानविशेषकुशलश्च भवति, तदायं कुमार बोधिसत्त्वो महासत्त्वः क्षिप्रं समाधिं प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेनायं त्रिक्षान्त्यवतारो धर्मपर्याय उद्ग्रहीतव्यः । उद्गृह्य न परेभ्यो विस्तरेण संप्रकाशयितव्यः । तद्भविष्यति बहुजनहिताय बहुजनसुखाय लोकानुकम्पायै महतो जनकायस्यार्थाय हिताय सुखाय देवानां च मनुष्याणां चेति ॥

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्येमं त्रिक्षान्त्यवतारं धर्मपर्यायं गाथाभिगीतेन विस्तरेण संप्रकाशयति स्म

न केनचित्सार्धं करोति विग्रहं न भाषते वाचमनर्थसंहिताम् ।
अर्थे च धर्मे च सदा प्रतिष्ठितः प्रथमाय क्षान्तीय सद निर्दिशीयति ॥ स्र्स्_७.१ ॥
मायोपमान् जानति सर्वधर्मान्न चापि सो भोति निमित्तगोचरः ।
न हीयते ज्ञानविवृद्धभूमेः प्रथमाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.२ ॥
स सर्वसूत्रान्तनयेषु कोविदः सुभाषितेऽस्मिन्नधिमुक्तिपण्डितः ।
अनन्तज्ञानी सुगतान ज्ञाने प्रथमाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.३ ॥
यः कश्चि धर्मं शृणुते सुभाषितं बुद्धान चो भाषित तन्न काङ्क्षति ।
अधिमुच्यते सर्वजिनान धर्मतां प्रथमाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.४ ॥
(वैद्य ३६)
नीतार्थसूत्रान्तविशेष जानति यथोपदिष्टा सुगतेन शून्यता ।
यास्मिन् पुनः पुद्गल सत्त्व पूरुषो नेयार्थतां जानति सर्वधर्मान् ॥ स्र्स्_७.५ ॥
ये अस्मि लोके पृथु अन्यतीर्था न तस्य तेषु प्रतिहन्यते मनः ।
कारुण्यमेतेषु उपस्थपेति प्रथमाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.६ ॥
आभासमागच्छति तस्य धारणी तस्मिंश्च आभासि न जातु काङ्क्षति ।
सत्यानुपरिवर्तिनि वाच भाषते प्रथमाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.७ ॥
चतुर्ण धातून सियान्यथात्वं वाय्वम्बुतेजःपृथिवीय चापि ।
न चो विवर्तेत स बुद्धबोधेः प्रथमाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.८ ॥
ये शिल्पस्थाना पृथु अस्ति लोके सर्वेषु सो शिक्षितु बोधिसत्त्वः ।
न चात्मन उत्तरि किंचि पश्यति प्रथमाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.९ ॥
अकम्पियः समथबलेन भोति शेलोपमो भोति विपश्यनाय ।
न क्षोभितुं शक्यु स सर्वसत्त्वैर्द्वितीयाय क्षान्तीय स निर्दिशीयति ॥ स्र्स्_७.१० ॥
समाहितस्तिष्ठति भाषते च समाहितश्चंक्रमते निषीदति ।
समाधिये पारमितागतो विदु द्वितीयाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.११ ॥
(वैद्य ३७)
समाहितो लभति अभिज्ञ पञ्च क्षेत्रशतं गच्छति धर्मदेशकः ।
नो चापि सो ऋद्धिबलात्तु हीयते द्वितीयाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.१२ ॥
स तादृशं शान्त समाधिमेषते समाहितस्य न स अस्ति सत्त्वः ।
यस्तस्य चित्तस्य प्रमाणु गृह्णीया द्वितीयाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.१३ ॥
ये लोकधातुष्विह केचि सत्त्वास्ते बुद्धज्ञानेन भणेयु धर्मान् ।
उद्गृह्णतो सर्व यतो हि भाषिउतं द्वितीयाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.१४ ॥
पुरिमोत्तरा दक्षिणपश्चिमासु हेष्ठे तथोर्ध्वं विदिशासु चैव ।
सर्वत्र सो पश्यति लोकनाथान् तृतीयाय क्षान्तीय स निर्दिशीयति ॥ स्र्स्_७.१५ ॥
सुवर्णवर्णेन समुच्छ्रयेण अचिन्तियां निर्मित निर्मिणित्वा ।
देशेति धर्मं बहुप्राणिकोटिनां तृतीयाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.१६ ॥
य जम्बुद्वीप इह बुद्धक्षेत्रे सर्वत्र सो दृश्यति बोधिसत्त्वः ।
ज्ञातश्च भोती ससुरासुरे जगे तृतीयाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.१७ ॥
बुद्धान आचारु तथैव गोचरा ईर्यापथो यादृश नायकानाम् ।
सर्वत्र सो शिक्षितु भोति पण्डितस्तृतीयाय क्षान्तीय इमे विशेषाः ॥ स्र्स्_७.१८ ॥
ये लोकधातुष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् ।
(वैद्य ३८)
सचेऽस्य तस्मिन्नानुनीयते मनो न शिक्षितो उच्यति बुद्धज्ञाने ॥ स्र्स्_७.१९ ॥
ये लोकधातुइष्विह केचि सत्त्वास्ते बोधिसत्त्वस्य भणेयु वर्णम् ।
सचेऽस्य तेषु प्रतिहन्यते मनो न शिक्षितोऽद्यापि स बुद्धज्ञाने ॥ स्र्स्_७.२० ॥
अर्थेन लब्धेन न भोति सूमनो न चाप्यनर्थेन स भोति दुर्मनाः ।
शैलोपमे चित्ति सदा प्रतिष्ठितो अयं विशेषस्तृतीयाय क्षान्तियाः ॥ स्र्स्_७.२१ ॥
घोषानुगामी इय क्षान्तिरुक्ता चिन्तामयी भावनानुलोमिकी ।
श्रुतंमया सा अनुत्पत्तिका या शिक्षा च अत्राप्ययु बोधिमार्गः ॥ स्र्स्_७.२२ ॥
तिस्रोऽपि क्षान्तीय सदा निरुत्तराः स बोधिसत्त्वेन भवन्ति लब्धाः ।
दृष्ट्वा ततस्तं सुगता नरोत्तमा वियाकरोन्ति विरजाय बोधये ॥ स्र्स्_७.२३ ॥
ततोऽस्य तं व्याकरणं श्रुणित्वा प्रकम्पिता मेदिनी षड्विकारम् ।
आभाय क्षेत्रं भवते प्रभास्वरं पुष्पाणि च वर्षिषु देवकोट्यः ॥ स्र्स्_७.२४ ॥
तस्यो च तं व्याकरणं श्रुणित्वा सत्त्वान कोटी नियुता अचिन्तिया ।
उत्पादयी चित्त वराग्रबोधये वयं पि भेष्याम जिन आर्यचेतिकाः ॥ स्र्स्_७.२५ ॥
क्षान्त्या इमास्तिस्र निरुत्तरा यदा संबोधिसत्त्वेन भवन्ति लब्धाः ।
न चापि सो जायति नापि म्रीयते न चापि स च्यवति नोपपद्यते ॥ स्र्स्_७.२६ ॥
(वैद्य ३९)
यदा इमा क्षान्ति त्रयो निरुत्तरा संबोधिसत्त्वेन भवन्ति लब्धाः ।
न पश्यतेः जायति यश्च म्रीयते स्थितधर्मतां पश्यति सर्वधर्मान् ॥ स्र्स्_७.२७ ॥
तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः ।
न शून्यता जायति नो च म्रीयते स्वभावशून्या इमि सर्वधर्माः ॥ स्र्स्_७.२८ ॥
यदात्त्यसौ सत्कृतु भोति केनचिदुपस्थितो मानितु पूजितोऽर्चितः ।
न तस्य तस्मिन्ननुनीयते मनो जानाति सो धर्मस्वभावशून्यताम् ॥ स्र्स्_७.२९ ॥
आक्रुष्ट सत्त्वेहि प्रहारतर्जितो न तेषु क्रोधं कुरुते न मानम् ।
मैत्रीं च तेषु दृढ संजनेति तथैव सत्त्वान प्रमोचनाय ॥ स्र्स्_७.३० ॥
लोष्टेहि दण्डेहि च ताड्यमानः प्रतिघातु तेषु न करोति पण्डितः ।
नैरात्म्यक्षान्तीय प्रतिष्ठितस्य न विद्यते क्रोधखिलं न मानः ॥ स्र्स्_७.३१ ॥
तथाहि तेनो वितथेति ज्ञाता मायोपमा धर्म स्वभावशून्याः ।
स तादृशे धर्मनये प्रतिष्ठितः सुसत्कृतो भोति सदेवलोके ॥ स्र्स्_७.३२ ॥
यदापि सत्त्वाः प्रगृहीतशस्त्राश्छिन्देयु तस्यो पृथु अङ्गमङ्गम् ।
न तस्य तेषु प्रतिहन्यते मनो न चापि मैत्री करुणा तु हीयते ॥ स्र्स्_७.३३ ॥
एवं च सो तत्र जनेति चित्तं छिन्दन्ति ते हि पृथु अङ्गमङ्गम् ।
(वैद्य ४०)
तथा न मह्यं शिव शान्ति निर्वृती यावन्न स्थाप्ये इमि अग्रबोधये ॥ स्र्स्_७.३४ ॥
एतादृशे क्षान्तिबले निरुत्तरे नैरात्म्यक्षान्तीसमताविहारिणाम् ।
संबोधिसत्त्वान महायशानां कल्पान कोट्यः सततं सुभाविताः ॥ स्र्स्_७.३५ ॥
ततोत्तरे यात्तिक गङ्गवालिका न ताव बोधी भवतीह स्पर्शिता ।
ये बुद्धज्ञानेन न करोति कार्यं किं वा पुनर्ज्ञान तथागतानाम् ॥ स्र्स्_७.३६ ॥
क्षपेतु वर्णं सुकरं न तेषां प्रभाषता कल्पशतान्यचिन्तिया ।
अनन्तकीर्तेन महायशानां नैरात्म्यक्षान्तीय प्रतिष्ठितानाम् ॥ स्र्स्_७.३७ ॥
तस्माद्धि यो इच्छति बोधि बुद्धितुं तं ज्ञानस्कन्धं प्रवरं निरुत्तरम् ।
स क्षान्ति भावेतु जिनेन वर्णितां न दुर्लभा बोधि वरा भविष्यति ॥ स्र्स्_७.३८ ॥

इति श्रीसमाधिराजे त्रिक्षान्त्यवतारपरिवर्तो नाम सप्तमः ॥ ७ ॥


(वैद्य ४१)
८ अभावसमुद्गतपरिवर्तः ।

तत्र पुनरपि भगवान् चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म भूतपूर्वं कुमार अतीतेऽध्वनि असंख्येयैः कल्पैरसंख्येयतरैर्विपुलरैप्रमेयैरचिन्त्यैरपरिमाणैर्यदासीत् । तेन कालेन तेन समयेन अभावसमुद्गतो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोके उदपादि विद्याचरणसंपन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवानां च मनुष्याणां च बुद्धो भगवान् । तत्किं मन्यसे कुमार केन कारणेन स तथागतोऽभावसमुद्गत इत्युच्यते? स खलु पुनः कुमार तथागतो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रं वैहायसमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा इमामेवंरूपां वाचमभाषत अभावसमुद्गताः सर्वधर्माः, अभावसमुद्गताः सर्वधर्मा इति । तेन च कुमार शब्देन त्रिसाहस्रमहासाहस्रो लोकधातुः स्वरेणाभिविज्ञप्तोऽभूत् । तत्र भौमान् देवानुपादाय यावद्ब्रह्मलोकं परंपरया शब्दमुदीरयामासुः घोषमनुश्रावयामासुः अभावसमुद्गतो बतायं तथागतो भविष्यति, यो जातमात्र एवोपर्यन्तरीक्षे सप्ततालमात्रमभ्युद्गम्य सप्त पदानि प्रक्रमित्वा अभावशब्दमुदीरयति । इति ह्यभावसमुद्गतोऽभावसमुद्गत इति तस्य तथागतस्य नामधेयमुदपादि । तस्य च भगवतो बोधिप्राप्तस्य सर्ववृक्षपत्रेभ्यः सर्वतृणगुल्मौषधिवनस्पतिभ्यः सर्वशैलशिखरेभ्यश्चाभावसमुद्गतशब्दो निश्चरति । यावति च तत्र लोकधातौ शब्दप्रज्ञप्तिः सर्वतोऽभावसमुद्गतविज्ञप्तिशब्दो निश्चरति । तेन च कुमार कालेन तेन समयेन तस्य भगवतोऽभावसमुद्गतस्य तथागतस्यार्हतः सम्यक्संबुद्धस्य प्रवचने महाकरुणाचिन्ती नाम राजकुमारोऽभूदभिरूपः प्रासादिको दर्शनीयः परमशुभवर्णपुष्कलतया समन्वागतः । अथ खलु कुमार स महाकरुणाचिन्ती नाम राजकुमारो येन भगवानभावसमुद्गतस्तथागतोऽर्हन् सम्यक्संबुद्धस्तेनोसंक्रामत्
। उपसंक्रम्य तस्य भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्तेऽस्थात् ॥

अथ खलु कुमार स भगवानभावसमुद्गतस्तथागतोऽर्हन् सम्यक्संबुद्धो महाकरुणाचिन्तिनो राजकुमारस्याध्याशयं विदित्वा इमं समाधिं देशयामास । अथ खलु कुमार स महाकरुणाचिन्ती राजकुमारः इमं समाधिं श्रुत्वा तुष्ट उदग्र आत्तमनाः प्रमुदितः प्रीतिसौमनस्यजातः प्रसीदति स्म । प्रसन्नचित्तश्च केशश्मश्रूण्यवतार्य काषायाणि वस्त्राणि परिधाय सम्यगेव श्रद्धया अगारादनगारिकां प्रव्रजितोऽभूत् । स प्रव्रजितः सन्निमं समाधिमुद्गृहीतवान् । उद्गृह्य पर्यवाप्य धारयित्वा वाचयित्वा भावनायोगमनुयुक्तो व्यहार्षीत् । स तैनैव कुशलमूलेन (वैद्य ४२) विंशतिकल्पकोट्यो न जातु दुर्गतिविनिपातमगमत् । विंशतीनां कल्पानामत्ययेन अनुत्तरां सम्यक्संबोधिमभिसंबुद्धोऽभूत् । सुविचिन्तितार्थो नाम तथागतोऽर्हन् सम्यक्संबुद्धो लोक उदपादि । सर्वेषु च तेषु कल्पेषु विशतिं च बुद्धकोटीरारागयामास । पश्य कुमार यथायं समाधिर्बहुकरो बोधिसत्त्वानां महासत्त्वानामनुत्तरस्य बुद्धज्ञानस्य परिपूरणाय संवर्तते ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत

स्मराम्यहं पूर्वमतीतमध्वनि अचिन्तिये कल्पि नराणमुत्तमः ।
उत्पन्नु लोकार्थकरो महर्षिर्नाम्ना हि सोऽभावसमुद्गतोऽभूत् ॥ स्र्स्_८.१ ॥
स जातमात्रो गगने स्थिहित्वा सर्वेष धर्माण अभावु देशयी ।
तदानुरूपं कृतु नामधेयं शब्देन सर्वं त्रिसहस्र विज्ञपी ॥ स्र्स्_८.२ ॥
देवापि सर्वे प्रमुमोच शब्दमभावु नाम्नेति जिनो भविष्यति ।
यो जातमात्रः पद सप्त प्रक्रमन्नभावु धर्माण ब्रवीति नायकः ॥ स्र्स्_८.३ ॥
बुद्धो यदा भेष्यति धर्मराजः सर्वेष धर्माण प्रकाशको मुनिः ।
तृणवृक्षगुल्मौषधिशैलपर्वते अभावु धर्माण रवो भविष्यति ॥ स्र्स्_८.४ ॥
यावन्ति शब्दास्तहि लोकधातौ सर्वे ह्यभावा न हि कश्चि भावः ।
तावन्ति खो तस्य तथागतस्य स्वरु निश्चरी लोकविनायकस्य ॥ स्र्स्_८.५ ॥
तस्मिंश्च काले अभु राजपुत्रः करुणाविचिन्ती सद नामधेयः ।
अभिरूप प्रासादिक दर्शनीय उपागमी तस्य जिनस्य अन्तिकम् ॥ स्र्स्_८.६ ॥
(वैद्य ४३)
वन्दित्व पादौ मुनिपुंगवस्य प्रदक्षिणं कृत्य च गौरवेण ।
प्रसन्नचित्तो निषसाद तत्र श्रवणाय धर्मं विरजमनुत्तरम् ॥ स्र्स्_८.७ ॥
स चो जिनो आशयु ज्ञात्व धीरः प्रकाशयामास समाधिमेतम् ।
श्रुत्वा च सो इमु विरजं समाधिं लघु प्रव्रजी जिनवरशासनेऽस्मिन् ॥ स्र्स्_८.८ ॥
स प्रव्रजित्वान इमं समाधिं धारित्व वाचित्व पर्यापुणित्वा ।
कल्पान कोट्यः परिपूर्ण विंशतिं न जातु गच्छे विनिपातभूमिम् ॥ स्र्स्_८.९ ॥
स तेन चैवं कुशलेन कर्मणा आरागयी विंशति बुद्धकोट्यः ।
तेषां च सर्वेषु जिनान अन्तिकादिमं वरं शान्त समाधि भावयी ॥ स्र्स्_८.१० ॥
स पश्चिकाले अभु बुद्ध लोके सुचिन्तितार्थो सदनामधेयः ।
कृत्वा च अर्थं बहुप्राणकोटिनां स पश्चकालस्मि शिखीव निर्वृतः ॥ स्र्स्_८.११ ॥
तस्माद्धि य इच्छति बोधि बुद्धितुं सत्त्वांश्च उत्तरायितुं भवार्णवात् ।
धारेत सूत्रमिमु बुद्धवर्णितं न दुर्लभा भेष्यति सोऽग्रबोधिः ॥ स्र्स्_८.१२ ॥

इति श्री समाधिराजे अभावसमुद्गतपरिवर्तो नामाष्टमः ॥ ८ ॥


(वैद्य ४४)
९ गम्भीरधर्मक्षान्तिपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन गम्भीरधर्मक्षान्तिकुशलेन भवितव्यम् । कथं च कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशलो भवति? इह कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्मा यथाभूततः प्रज्ञातव्याः । स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः प्रज्ञातव्याः । यदा च कुमार बोधिसत्त्वेन महासत्त्वेन मायोपमाः सर्वधर्माः परिज्ञाता भवन्ति, स्वप्नोपमा मरीच्युपमाः प्रतिश्रुत्कोपमाः प्रतिभासोपमा उदकचन्द्रोपमा निर्मितोपमाः प्रतिबिम्बोपमा आकाशोपमाः सर्वधर्माः परिज्ञाता भवन्ति यथाभूततः तदायं कुमार बोधिसत्त्वो महासत्त्वो गम्भीरधर्मक्षान्तिकुशल इत्युच्यते । स गम्भीरया धर्मक्षान्त्या समन्वागतो रञ्जनीयेषु धर्मेषु न रज्यते, दोषणीयेषु धर्मेषु न दुष्यते, मोहनीयेषु धर्मेषु न मुह्यते । तत्कस्य हेतोः? तथा हि स तं धर्मं न समनुपश्यति, तं धर्मं नोपलभते । यो रज्येत, यत्र वा रज्येत,
येन वा रज्येत । यो दुष्येत, यत्र वा दुष्येत, येन वा दुष्येत । यो मुह्येत, यत्र वा मुह्येत, येन वा मुह्येत । स तं धर्मं न समनुपश्यति, तं धर्म नोपलभते । तं धर्ममसमनुपश्यन्ननुपलभमानोऽरक्तोऽदुष्टोऽमूढोऽविपर्यस्तचित्तः समाहित इत्युच्यते । निष्प्रपञ्चः...... । तीर्णः पारगतः...... । स्थलगतः...... । क्षेमप्राप्तः । अरूपप्राप्तः । शीलवान् । ज्ञानवान् । प्रज्ञावान् । पुण्यवान् । ऋद्धिमान्...... । स्मृतिमान्...... । मतिमान्...... । गतिमान् । ह्रीमान् ...... । धृतिमान् । चारित्रवान् । धूतगुणसंलेखवान् । अनङ्गनः । निष्किंचनः । अर्हन् । क्षीणास्रवः । निष्क्लेशो वशीभूतः सुविमुक्तचित्तः सुविमुक्तप्रज्ञः आजानेयो महानागः कृतकृत्यः कृतकरणीयोऽपहृतभारोऽनुप्राप्तस्वकार्थः परिक्षीणभवसंयोजनः सम्यगाज्ञासुविमुक्तचित्तः सर्वचेतोवशिपरमपारमिताप्राप्तः श्रमणः । ब्राह्मणः स्नातकः । पारगः वेदकः श्रोत्रियः । बुद्धपुत्रः । शाक्यपुत्रः । मर्दितकण्टकः । उत्क्षिप्तपरिखः । उदीर्णपरिखः । आक्षिप्तशल्यः । निर्जरः । भिक्षुः । अपरिवेष्टनः । पुरुषः । सत्पुरुषः । उत्तमपुरुषः । महापुरुषः । पुरुषसिंहः । पुरुषनागः । पुरुषाजानेयः । पुरुषधौरेयः पुरुषशूरः । पुरुषवीरः । पुरुषपुष्पः । पुरुषपद्मः । पुरुषपुण्डरीकः । पुरुषदमकः । पुरुषचन्द्रः
। अकापुरुषः । पुरुषानुपलिप्तः इत्युच्यते । अथ खलु भगवास्तस्यां वेलायमिमा गाथा अभाषत

यद लोकधातु न विवर्त भोति आकाशु भोति अयु सर्वलोकः ।
(वैद्य ४५)
यथैव तं पूर्वु तथैव पश्चात्तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१ ॥
इदं जगद्याव च किंचि वर्तते अधस्तमेति अभूदापस्कन्धः ।
यथैव तं हेष्ठे तथैव ऊर्ध्वं तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.२ ॥
यथान्तरीक्षस्मि न किंचिदभ्रं क्षणेन चो दृश्यति अभ्रमण्डलम् ।
पूर्वान्तु जानीय कुतः प्रसूतं तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.३ ॥
तथागतस्यो यथ निर्वृतस्य मनसि करोन्तः प्रतिबिम्बु दृश्यते ।
यथैव तं पूर्वु तथैव पश्चात्तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.४ ॥
यथैव फेनस्य महान्तु पिण्डमोघेन उच्छेत्तु नरो निरीक्षते ।
निरीक्ष्य सो तत्र न सारसंदर्शी तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.५ ॥
देवे यथा वर्षति स्थूलबिन्दुके पृथक्पृथग्बुद्बुद संभवन्ति ।
उत्पन्नभग्ना न हि सन्ति बुद्बुदास्तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.६ ॥
यथैव ग्रामान्तरि लेखदर्शनात्क्रियाः प्रवर्तन्ति पृथक्शुभाशुभाः ।
न लेखसंक्रान्ति गिराय विद्यते तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.७ ॥
यथा नरो मानमदेन मोहितो भ्रमन्ति संजानतिमां वसुंधराम् ।
न चो महीया चलितं न कम्पितं तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.८ ॥
(वैद्य ४६)
आदर्शपृष्ठे तथ तैलपात्रे निरीक्षते नारि मुखं स्वलंकृतम् ।
सा तत्र रागं जनयित्व बाला प्रधाविता काम गवेषमाणा ॥ स्र्स्_९.९ ॥
मुखस्य संक्रान्ति यदा न विद्यते बिम्बे मुखं नैव कदाचि लभ्यते ।
यथा स मूढा जनयेत रागं तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१० ॥
यथैव गन्धर्वपुरं मरीचिका यथैव माया सुपिनं यथैव ।
स्वभावशून्या तु निमित्तभावना तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.११ ॥
यथैव चन्द्रस्य नभे विशुद्धे ह्रदे प्रसन्ने प्रतिबिम्ब दृश्यते ।
शशिस्य संक्रान्ति जले न विद्यते तल्लक्षणान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१२ ॥
यथा नरः शैलवनान्तरे स्थितो भणेय्य गायेय्य हसेय्य रोदये ।
प्रतिश्रुत्का श्रूयति नो च दृश्यते तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१३ ॥
गीते च वाद्ये च तथैव रोदिते प्रतिश्रुत्का जायति तं प्रतीत्य ।
गिराय घोषो न कदाचि विद्यते तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१४ ॥
यथैव कामान् सुपिनन्त सेविय प्रतिबुद्धसत्त्वः पुरुषो न पश्यति ।
स बाल कामेष्वतिकामलोभी तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१५ ॥
रूपान् यथा निर्मिणि मायकारो हस्तीरथानश्वरथान् विचित्रान् ।
(वैद्य ४७)
न चात्र कश्चिद्रथ तत्र दृशते तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१६ ॥
यथा कुमारी सुपिनान्तरस्मिन् सा पुत्र जातं च मृतं च पश्यति ।
जातेऽतितुष्टा मृते दौर्मनःस्थिता तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१७ ॥
यथा मृतां मातरमात्मजं वा स्वप्ने तु वै रोदिति उच्चशब्दम् ।
न तस्य माता म्रियते न पुत्रस्तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१८ ॥
यथैव रात्रौ जल चन्द्र दृश्यते अच्छस्मि वारिस्मि अनाविलस्मि ।
अग्राह्य तुच्छो जल चन्द्रशून्य तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.१९ ॥
यथैव ग्रीष्माण मध्याह्नकाले तृषाभितप्तः पुरुषो व्रजेत ।
मरीचिकां पश्यति तोयराशिं तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.२० ॥
मरीचिकायामुदकं न विद्यते स मूढ सत्त्वः पिबितुं तदिच्छति ।
अभूतवारिं पिबितुं न शक्यते तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.२१ ॥
यथैव आर्द्रं कदलीय स्कन्धं सारार्थिकः पुरुषु विपाटयेत ।
बहिर्वा अध्यात्म न सारमस्ति तथोपमान् जानथ सर्वधर्मान् ॥ स्र्स्_९.२२ ॥
न चक्षुं प्रमाणं न श्रोत्र घ्राणं न जिह्व प्रमाणं न कायचित्तम् ।
प्रमाण यद्येत भवेयुरिन्द्रिया कस्यार्यमार्गेण भवेत कार्यम् ॥ स्र्स्_९.२३ ॥
(वैद्य ४८)
यस्मादिमे इन्द्रिय अप्रमाणा जडाः स्वभावेन अव्याकृताश्व ।
तस्माद्य निर्वाणपथैव अर्थिकः स आर्यमार्गेण करोतु कार्यम् ॥ स्र्स्_९.२४ ॥
पूर्वान्तु कायस्य अवेक्षमाणो नैवात्र कायो नपि कायसंज्ञा ।
न यत्र कायो नपि कायसंज्ञा असंस्कृतं गोत्रमिदं प्रवुच्यति ॥ स्र्स्_९.२५ ॥
निवृत्ति धर्माण न अस्ति धर्मा येनेति नास्ति न ते जातु अस्ति ।
अस्तीति नास्तीति च कल्पनावतामेवं चरन्तान न दुःख शाम्यति ॥ स्र्स्_९.२६ ॥
अस्तीति नास्तीति उभेऽपि अन्ता शुद्धी अशुद्धीति इमेऽपि अन्ता ।
तस्मादुभे अन्त विवर्जयित्वा मध्येऽपि स्थानं न करोति पण्डितः ॥ स्र्स्_९.२७ ॥
अस्तीति नास्तीति विवाद एष शुद्धी अशुद्धीति अयं विवादः ।
विवादप्राप्तान न दुःख शाम्यति अविवादप्राप्तान दुःखं निरुध्यते ॥ स्र्स्_९.२८ ॥
स्मृतेरुपस्थानकथां कथित्वा मन्यन्ति बाला वय कायसाक्षी ।
न कायसाक्षिस्य च अस्ति मन्यना प्रहीण तस्यो पृथु सर्व मन्यना ॥ स्र्स्_९.२९ ॥
चतुर्षु ध्यानेषु कथां कथित्वा वदन्ति बाला वयं ध्यानगोचराः ।
न क्लेशध्यायि न च अस्ति मन्यना विदित्व ज्ञानेन मदः प्रहीयते ॥ स्र्स्_९.३० ॥
चतुर्षु सत्त्वेषु कथां कथित्वा वदन्ति बाला वय सत्यदर्शिनः ।
(वैद्य ४९)
न सत्यदर्शिस्य च काचि मन्यना अमन्यना सत्य जिनेन देशिता ॥ स्र्स्_९.३१ ॥
रक्षेत शीलं न च तेन मन्ये श्रुणेय्य धर्मं न च तेन मन्ये ।
यनैव सो मन्यति अल्पप्रज्ञो तन्मूलकं दुःख विवर्धतेऽस्य ॥ स्र्स्_९.३२ ॥
दुःखस्य मूलं मदु संनिदर्शितं सर्वज्ञिना लोकविनायकेन ।
मदेन मत्तान दुःखं प्रवर्धते अमन्यमानान दुखं निरुध्यते ॥ स्र्स्_९.३३ ॥
कियद्बहून् धर्म पर्यापुणेय्या शीलं न रक्षेत श्रुतेन मत्तः ।
न बाहुश्रुत्येन स शक्यु तायितुं दुःशील येन व्रजमान दुर्गतिम् ॥ स्र्स्_९.३४ ॥
सचेत्पुनः शीलमदेन मत्तो न बाहुश्रुत्यस्मि करोति योगम् ।
क्षयेत्व सो शीलफलमशेषं पुनोऽपि स प्रत्यनुभोति दुःखम् ॥ स्र्स्_९.३५ ॥
किंचापि भावेय्य समाधि लोके न चो विभावेय्य स आत्मसंज्ञाम् ।
पुनः प्रकुप्यन्ति किलेशु तस्य यथोद्रकस्येह समाधिभावना ॥ स्र्स्_९.३६ ॥
नैरात्म्यधर्मान् यदि प्रत्यवेक्षते तान् प्रत्यवेक्ष्य यदि भावयेत ।
स हेतु निर्वाणफलस्य प्राप्तये यो अन्यहेतुर्न स भोति शान्तये ॥ स्र्स्_९.३७ ॥
यथा नरश्चौरगणैरुपद्रुतः पलायितुमिच्छति जीवितार्थिकः ।
न तस्य पादाः प्रभवन्ति गच्छितुं गृहीत्व चौरेहि स तत्र हन्यते ॥ स्र्स्_९.३८ ॥
(वैद्य ५०)
एवं नरः शीलविहीन मूढः पलायितुमिच्छति संस्कृतातः ।
स शीलहीनो न प्रभोति गच्छितुं जराय व्याध्या मरणेन हन्यते ॥ स्र्स्_९.३९ ॥
यथैव चौराण बहू सहस्रो नानामुखेहि प्रकरोति पापम् ।
एवं किलेशा विविधैर्मुखेभिर्यथैव चौरो हनि शुक्लपाक्षम् ॥ स्र्स्_९.४० ॥
येन सुनिध्याप्तु निरात्मस्कन्धा आक्रुष्ठु परिभाष्टु न शङ्कु भोति ।
स क्लेशमारस्य वशं न गच्छते यः शून्यतां जानति सो न कुप्यते ॥ स्र्स्_९.४१ ॥
बहू जनो भाषति स्कन्धशून्यतां न च प्रजानाति यथा निरात्मकाः ।
ते अप्रजानन्त परेहि चोदिताः क्रोधाभिभूताः परुषं वदन्ति ॥ स्र्स्_९.४२ ॥
यथा नरो आतुरु कायदुःखितो बहूहि वर्षेहि न जातु मुच्यते ।
स दीर्घगैलान्यदुखेन पीडितः पर्येषते वैद्यु चिकित्सनार्थिकः ॥ स्र्स्_९.४३ ॥
पुनः पुनस्तेन गवेषता च आसादितो वैद्य विदू विचक्षणः ।
कारुण्यतां तेन उपस्थपेत्वा प्रयुक्तु भैषज्यमिदं निषेव्यताम् ॥ स्र्स्_९.४४ ॥
गृहीत्व भैषज्य पृथुं वरां वरां न सेवते आतुरु येन मुच्यते ।
न वैद्यदोषो न च भैषजानां तस्यैव दोषो भवि आतुरस्य ॥ स्र्स्_९.४५ ॥
एवमिह शासनि प्रव्रजित्वा पर्यापुणित्वा बल ध्यान इन्द्रियान् ।
न भावनायामभियुक्त भोन्ति अयुक्तयोगीन कुतोऽस्ति निर्वृतिः ॥ स्र्स्_९.४६ ॥
(वैद्य ५१)
स्वभावशून्याः सद सर्वधर्मा वस्तुं विभावेन्ति जिनान पुत्राः ।
सर्वेण सर्वं भव सर्वशून्यं प्रादेशिकी शून्यता तीर्थिकानाम् ॥ स्र्स्_९.४७ ॥
न विज्ञ बालेहि करोन्ति विग्रहं सत्कृत्य बालान् परिवर्जयन्ति ।
ममान्तिके एन्ति प्रदुष्टचित्ता न बालधर्मेहि करोति संस्तवम् ॥ स्र्स्_९.४८ ॥
न विज्ञ बालान करोति सेवनां विदित्व बालान स्वभावसंततिम् ।
कियच्चिरं बालु सुसेवितोऽपि पुनोऽपि ते भोन्ति अमित्रसंनिभाः ॥ स्र्स्_९.४९ ॥
न विज्ञ बालेष्विह विश्वसन्ति विज्ञाय बालान स्वभावधर्मताम् ।
स्वभावभिन्न प्रकृतीय बाला न चास्ति मित्रं हि पृथग्जनानाम् ॥ स्र्स्_९.५० ॥
सहधर्मिकेनो वचनेन उक्ताः क्रोधं च दोषं च अप्रत्ययं च ।
प्राविष्करोन्ति इमि बालधर्मानिममर्थु विज्ञाय न विश्वसन्ति ॥ स्र्स्_९.५१ ॥
बाला हि बालेहि समं समेन्ति यथा अमेध्येन अमेध्यु सार्धम् ।
विज्ञाः पुनर्विज्ञजनेन सार्धं समेन्ति सर्पिर्यथ सर्पिमण्डैः ॥ स्र्स्_९.५२ ॥
संसारदोषाण अप्रत्यवेक्षणात्कर्माण विपाकमनोतरन्तः ।
बुद्धान चो वाक्यमश्रद्दधानास्ते च्छेद्यभेद्यस्मि चरन्ति बालाः ॥ स्र्स्_९.५३ ॥
सुदुर्लभं लभ्य मनुष्यलाभं न शिल्पस्थानेषु भवन्ति कोविदाः ।
(वैद्य ५२)
दरिद्रभूतान धनं न विद्यते अजीवमानास्तद प्रव्रजन्ति ॥ स्र्स्_९.५४ ॥
ते प्रव्रजित्वा इह बुद्धशासने अध्युषिता भोन्तिह पात्रचीवरे ।
ते पापमित्रेहि परिगृहीतास्तां नाचरन्ते सुगतान शिक्षाम् ॥ स्र्स्_९.५५ ॥
ते आत्मनः शीलमपश्यमानाश्चित्तव्यवस्थां न लभन्ति बालाः ।
रात्रिंदिवं भोन्ति अयुक्तयोगा न ते जुगुप्सन्ति च पापकर्मतः ॥ स्र्स्_९.५६ ॥
कायेन चित्तेन असंयतानां न किंचि वाचाय स जल्पितव्यम् ।
सदा गवेषन्ति परस्य दोषानपराद्धु किं केन वा चोदयिष्ये ॥ स्र्स्_९.५७ ॥
आहारि अध्युषित भोन्ति बाला न चास्ति मात्रज्ञतु भोजनस्मिन् ।
बुद्धस्य पुण्येहि लभित्व भोजनं तस्यैव बाला अकृतज्ञ भोन्ति ॥ स्र्स्_९.५८ ॥
ते भोजनं स्वादुरसं प्रणीतं लब्ध्वा च भुञ्जन्ति अयुक्तयोगाः ।
तेषां स आहारु वधाय भोति यथ हस्तिपोतान बिसा अधौतकाः ॥ स्र्स्_९.५९ ॥
किं चापि विद्वान्मतिमान् विचक्षणो भुञ्जीत आहारु शुचि प्रणीतम् ।
न चैव अध्युषित तत्र भोति अगृघ्नु सो भुञ्जति युक्तयोगी ॥ स्र्स्_९.६० ॥
किं चापि विद्वान्मतिमान् विचक्षणो आभाषते बालु कुतो हि स्वागतम् ।
(वैद्य ५३)
तथ संगृहीत्वा प्रियवद्यताय कारुण्यतां तत्र उपस्थपेति ॥ स्र्स्_९.६१ ॥
यो भोति बालान हितानुकम्पी तस्यैव बाला व्यसनेन तुष्टाः ।
एतेन दोषेण जहित्व बालान्मृगोवदेको विहरेदरण्ये ॥ स्र्स्_९.६२ ॥
इम ईदृशान् दोष विदित्व पण्डितो न जातु बालेहि करोति संगतिम् ।
विहीनप्रज्ञानुपसेवतो मे स्वर्गात्तु हानिः कुत बोधि लप्स्ये ॥ स्र्स्_९.६३ ॥
मैत्रीविहारी च भवन्ति पण्डिताः करुणाविहारी मुदिताविहारी ।
उपेक्षकाः सर्वभवेषु नित्यं समाधि भावेत्व स्पृशन्ति बोधिम् ॥ स्र्स्_९.६४ ॥
ते बोधि बुद्धित्व शिवामशोकां विदित्व सत्त्वान् जनव्याधिपीडितान् ।
कारुण्यतां तत्र उपस्थपेत्वा कथां कथेन्ति परमार्थयुक्ताम् ॥ स्र्स्_९.६५ ॥
ये तां विजानन्ति जिनान धर्मतामनाभिलप्यं सुगतान सत्यम् ।
ते धर्म श्रुत्वा इम एवरूपां लप्स्यन्ति क्षान्ति अरियां निरामिषाम् ॥ स्र्स्_९.६६ ॥

इति श्रीसमाधिराजे गम्भीरधर्मक्षान्तिपरिवर्तो नाम नवमः ॥ ९ ॥


(वैद्य ५४)
१० पुरप्रवेशपरिवर्तः ।

तत्र भगवान् पुनरपि चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मात्तर्हि कुमार प्रतिपत्तिसारो भविष्यामीत्येवं त्वया कुमार सदा शिक्षितव्यम् । तत्कस्य हेतोः? प्रतिपत्तिसारस्य हि कुमार बोधिसत्त्वस्य महासत्त्वस्य न दुर्लभा भवत्यनुत्तरा सम्यक्संबोधिः, किं पुनरयं समाधिः । अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् आश्चर्यं भगवन् यावत्सुभाषिता चेयं भगवता बोधिसत्त्वानां महासत्त्वानामववादानुशासनी सर्वबोधिसत्त्वशिक्षा देशिता स्वाख्याता सुप्रज्ञप्ता । सर्वतथागतगोचरोऽयं भगवन् यत्र अभूमिः सर्वश्रावकप्रत्येकबुद्धानां कः पुनर्वादोऽन्यतीर्थिकानाम्? प्रतिपत्तिसाराश्च वयं भगवन् भविष्यामः अनपेक्षाः कायजीविते च भूत्वा तथागतस्यानु शिक्षिष्यामहे । तत्कस्य हेतोः? शिक्ःितुकामाश्च वयं भगवंस्तथागतस्य, अभिसंबोद्धुकामा वयं भगवन्ननुत्तरां सम्यक्संबोधिम् । अर्थिका वयं भगवननुत्तरायाः सम्यक्संबोधेः । विध्वंसयितुकामाश्च वयं भगवन्मारं पापीयांसम् । मोचयितुकामा वयं भगवन् सर्वसत्त्वान् सर्वभयेभ्यः सर्वदुःखेभ्यः । अधिवासयतु मे भगवान् श्वस्तने मम गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन सार्धं भिक्ःुसंघेन चानुकम्पामुपादाय । अधिवासयति स्म भगवांश्चन्द्रप्रभस्य कुमारभूतस्य तूःणींभावेन श्वस्तने गृहे भक्तं भोक्तुं सार्धं बोधिसत्त्वगणेन भिक्ःुसंघेन
चानुकम्पामुपादाय । अथ खलु चन्द्रप्रभः कुमारभूतो भगवतस्तूःणींभावेनाधिवासनं विदित्वा उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्ःिणीकृत्य भगवतोऽन्तिकात्प्राक्रामत् ॥

अथ खलु चन्दप्रभः कुमारभूतो येन राजगृहं महानगरं येन च स्वकं निवेशनं तेनोपसमक्रामत् । उपसंक्रम्य चन्द्रप्रभः स्वगृहं प्राविशत् । प्रविश्य च तामेव रात्रिं प्रभूतं प्रणीतं खादनीयं भोजनीयं स्वादनीयमभिसंस्कारयति स्म । शतरसं च भोजनं संपाद्य तस्या एव रात्र्या अत्ययेन राजगृहं महानगरं सुसिक्तं सुसंमृष्टं मुक्तकुसुमाभिकीर्णं गन्धघटिकानिर्घूपितमुच्छ्रितच्छत्रध्वजपताकं (वैद्य ५५) धूपनधूपितं वितानविततमवसक्तपट्टदामकलापं सरथ्यान्तरापणमपगतपाषाणःर्करकठल्लं विचित्रपुष्पाभिकीर्णं चन्दनचूर्णाभिकीर्णं गवाक्षतोरणनिर्यूहपञ्जरजालार्धचन्द्रसमलंकृतं चन्दनानुलिप्तमकार्षीत् । सर्वावन्तं नगरमुत्पलकुमुदपद्मपुण्डरीकाभ्यवकीर्णमकार्षीत् । स्वं च गृहं सर्वालंकारव्यूहितमकार्षीत् । अथ खलु चन्द्रप्रभः कुमारभूत इमानेवंरुपान्नगरव्यूहान् गृहव्यूहान् भोजनव्यूहान् समलंकृत्य राजगृहान्महानगरान्निष्क्रम्य येन गृध्रकूटपर्वतो येन भगवांस्तेनोपसमक्रामत् । उपसंक्रम्य भगवन्तं त्रिः प्रदक्षिणीकृत्य एकान्तेऽस्थात् । एकान्ते स्थितः चन्द्रप्रभः कुमारभूतो भगवतः कालमारोचयामास कालो भगवन्, कालः सुगत, सिद्धं भक्तं यस्येदानीं कालं मन्यसे । अथ खलु भगवानुत्थायासनात्कल्यमेव निवास्य पात्रचीवरमादाय महता भिक्षुसंघेन सार्धं परिपूर्णेन भिक्षुशतसहस्रेण संबहुलैश्च बोधिसत्त्वैर्महासत्त्वैः परिवृतः पुरस्कृतोऽनेकैश्च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यशतसहस्रैः
पूज्यमानोऽभिष्टूयमानो महता बुद्धानुभावेन महता बुद्धप्रातिहार्येण महता बुद्धेर्यापथेन रश्मिकोटिनियुतशतसहस्रैर्निश्चरद्भिर्नानातूर्यशतसहस्रैः पुष्पगन्धमाल्यविलेपनचूर्णचीवरैः प्रवर्षद्भिर्येन राजगृहं महानगरं तेनोपसंक्रामति स्म । चन्द्रप्रभस्य कुमारभूतस्य निवेशने प्रक्षिप्तश्च भगवता दक्षिणश्चक्ररत्नसमलंकृतः अपरिमितकुशलसंचितपादरत्न इन्द्रकीले, अथ तावदेव तस्मिन्महानगरे अनेकानि आश्चर्याद्भुतानि प्रातिहार्याणि संदृश्यन्ते स्म । इयमत्र धर्मता । तत्रेदमुच्यते

पुरवर प्रविशन्ति नायकस्मिन् चरणवरु स्थपितश्च इन्द्रकीले ।
चलति वसुमती शिरीय तस्य प्रमुदित भोन्ति पुरोत्तमस्मि सत्त्वाः ॥ स्र्स्_१०.१ ॥
ये नरः क्षुधिताः पिपासिता वा न भवति तेष जिघत्स तस्मि काले ।
अपगत भवती क्षुघा पिपासा यद जिनु निक्षिपतीन्द्रकीलि पादम् ॥ स्र्स्_१०.२ ॥
तथ पुन नर ये भवन्ति अन्धाः श्रोत्रविहीन अनाथ अल्पपुण्याः ।
सर्वि प्रतिलभन्ति चक्षु श्रोत्रं यद जिनु निक्षिपतीन्द्रकीलि पादम् ॥ स्र्स्_१०.३ ॥
यमविषये ये केचि भोन्ति प्रेताः सुदुःखित खेटसिंघाणकभोजनाशाः ।
सर्वि सुखित भोन्ति आभस्पृष्टा यद जिनु निक्षिपतीन्द्रकीलि पादम् ॥ स्र्स्_१०.४ ॥
(वैद्य ५६)
शैलशिखरशृङ्गपर्वताश्च तथ वरपादपशालकर्णिकाराः ।
सर्वि अभिनमन्ति येन बुद्धो यद जिनु निक्षिपतीन्द्रकीलि पादम् ॥ स्र्स्_१०.५ ॥
सनगरनिगमा ससागरान्ता प्रचलि वसुंधरि षड्विकार सर्वा ।
न भवति विहेठ कस्यपि चेह यद जिनु निक्षिपतीन्द्रकीलि पादम् ॥ स्र्स्_१०.६ ॥
मरुमनुजकुम्भाण्डराक्षसाश्च नभःस्थित तुष्ट उदग्रचित्ताः ।
छत्र धरिय च लोकनायकस्य परमप्रीणित जनेत्व बोधिछन्दम् ॥ स्र्स्_१०.७ ॥
श्रूयति च मनोज्ञ वाद्यशब्दस्तूर्यसहस्र अघट्टिता रणन्ति ।
प्रमुदितास्तद भोन्ति सर्वसत्त्वा यद जिनु निक्षिपतीन्द्रकीलि पादम् ॥ स्र्स्_१०.८ ॥
वृक्षशतसहस्र ओनमन्ति सर्वि प्रपुष्पित भोन्ति तस्मि काले ।
देवशतसहस्र अन्तरीक्षे पूज करोन्ति अमानुषी जिनस्य ॥ स्र्स्_१०.९ ॥
ऋषभगण तदा नदन्ति हृष्टा हयद्विरदाधिपती प्रवृद्धकायाः ।
मृगपतयो नदन्ति सिंहनादं यद जिनु निक्षिपतीन्द्रकीलि पादम् ॥ स्र्स्_१०.१० ॥
महीपतय ये केचि भूमिपाला दिशिविदिशासु च आगता भवन्ति ।
धरणितलि पतन्ति हृष्टचित्ता दृष्टु जिनस्य शिरीमिममेवरूपाम् ॥ स्र्स्_१०.११ ॥
अन्ये अभिष्टुवन्ति लोकनाथमपरि क्षिपन्ति जिनस्य पुष्पवृष्टिम् ।
(वैद्य ५७)
अपरि दशनखाञ्जलिं करित्वा अहो जिनु कारुणिको भणन्ति वाचम् ॥ स्र्स्_१०.१२ ॥
केचि वर क्षिपन्ति मुक्तहारान् बहुविध आभरणान् जनेत्व प्रीतिम् ।
चीवर रतनान् क्षिपन्ति अन्ये अतुलियु अग्रु जिनत्व बोधिचित्तम् ॥ स्र्स्_१०.१३ ॥
केचि वर क्षिपन्ति हेमजालमपरि पुनर्मुखफुल्लकं क्षिपन्ति ।
केचि वर क्षिपन्ति हेमनिष्कांस्तथ अपरे परिहारकान् क्षिपन्ति ॥ स्र्स्_१०.१४ ॥
कटकवर क्षिपन्ति केचि तत्र अपरि केयूर क्षिपन्ति रत्नचित्रान् ।
अम्बर कुसुमान् क्षिपन्ति अन्ये चित्त जनेत्वऽसियां वयं पि बुद्धाःऽ ॥ स्र्स्_१०.१५ ॥
अपरि नरः क्षिपन्ति हेमचित्रांस्तथ मणिसूत्रवरान् प्रसन्नचित्ताः ।
केचि च रतनजालकं क्षिपन्ति द्वारि यदा स्थितु भोति लोकनाथः ॥ स्र्स्_१०.१६ ॥
परमदुःखित ये भवन्ति सत्त्वा बहुविधुपद्रुवु शोकशल्य प्राप्ताः ।
सर्वि सुखसमर्पिता भवन्ति पुरुषवरस्य शिरीय नायकस्य ॥ स्र्स्_१०.१७ ॥
परभृतशुकसारिकामयूरास्तथपि च सारसचाषहंसक्रौञ्चाः ।
सर्वि द्विजगणा नभे स्थिहित्वा परममनोज्ञरुतानि व्याहरन्ति ॥ स्र्स्_१०.१८ ॥
प्रमुदित तद भोन्ति पक्षिसंघा मधुरमनोज्ञरुतं प्रमुञ्चमानाः ।
रागु तथ समेन्ति दोषमोहं ये च शृणन्ति मनोज्ञ पक्षिशब्दान् ॥ स्र्स्_१०.१९ ॥
(वैद्य ५८)
श्रुणिय रञ्जनीय सत्त्वकोट्यः सर्वि च लभन्ति क्षान्तिमानुलोमाम् ।
तांश्च सुगत व्याकरोति सर्वान् भविष्यथ यूय जिना अनागताश्च ॥ स्र्स्_१०.२० ॥
न भवति किलेशु तस्मि काले सर्वि सगौरव भोन्ति धर्मराजे ।
अपगतभयदोषमोहजालाः प्रणिपतिताः सुगतमभिष्टुवन्तः ॥ स्र्स्_१०.२१ ॥
पश्यिय तद रूप नायकस्य स्पृह जनयन्ति वरस्मि बुद्धज्ञाने ।
कद वय लभे ज्ञानमेवरूपमाशयु ज्ञात्व जिनोऽस्य व्याकरोति ॥ स्र्स्_१०.२२ ॥
रश्मि शतसहस्र निश्चरन्ति एकैकतः सुगतस्य रोमकूपात् ।
तदुत्तरि यथ गङ्गवालिका वा न पि च निमित्तु गृहीतु शक्यु तासाम् ॥ स्र्स्_१०.२३ ॥
सूर्यप्रभ न भान्तिं तस्मि काले न पि मणि नाग्नि न सर्वदेवतानाम् ।
सर्वि प्रभ न भान्ति तस्मि काले यद प्रविशन्त पुरं विभाति बुद्धः ॥ स्र्स्_१०.२४ ॥
पद्मशतसहस्र प्रादुर्भूता धरणितु कोटिसहस्रपत्र शुद्धाः ।
यत्र दशबलः स्थपेति पादं मार्ग गतः सुगतो महागणेन ॥ स्र्स्_१०.२५ ॥
अशुचि कलिमला न भोन्ति तस्मि काले नगरवरं प्रविशन्ति नायकस्मिन् ।
नगरु सुरभि सर्वि धूपनेन गन्ध मनोज्ञ प्रवायते समन्तात् ॥ स्र्स्_१०.२६ ॥
वीथि नगरि तद भोति सर्वा अपगतलोष्टकठल्ल सिक्त गन्धैः ।
(वैद्य ५९)
पुण्य दशलबस्य एवरूपा विविध विकीर्ण भवन्ति मुक्तपुष्पाः ॥ स्र्स्_१०.२७ ॥
यक्ष शतसहस्र रौद्रचित्ताः कनकनिभं द्विपदेन्द्रु दृष्ट्व बुद्धम् ।
जनयि विपुलु नायकस्मि प्रेमं शरणमुपेति च बुद्धधर्मसंघान् ॥ स्र्स्_१०.२८ ॥
ये च देवशतसहस्र कोटियो वा उपगत सर्वि नरेन्द्रदर्शनाय ।
वर्षति सुगतस्य पुष्पवर्षं गगनतले च स्थिहन्ति मुक्तपुष्पाः ॥ स्र्स्_१०.२९ ॥
ये मनुज क्षिपी जिनस्य पुष्पं गगनतले भवतीति पुष्पछत्रम् ।
ये पुन कुसुमान् क्षिपन्ति देवा धरणितले स्तृत भोन्ति दिव्यपुष्पाः ॥ स्र्स्_१०.३० ॥
न भवति कदाचि दृष्ट्व तृप्ती देवमनुष्यकुभाण्डराक्षसानाम् ।
यद दशबलु दृष्ट्व लोकनाथं प्रमुदित भोन्ति उदग्रकल्यचित्ताः ॥ स्र्स्_१०.३१ ॥
न मनसि तद भोन्ति दिव्यपुष्पा न च पुन विस्मयु जायते च तत्र ।
यद पुरुषवरस्य कायु दृष्ट्वा तुष्ट भवन्ति उदग्र सर्वसत्त्वाः ॥ स्र्स्_१०.३२ ॥
ब्रह्म दशबलस्य दक्षिणेनो तथ पुन वामतु शक्र देवराजा ।
गगनतलगता अनल्प देवकोट्यः पुरुषवरस्य जनेन्ति चित्रिकारम् ॥ स्र्स्_१०.३३ ॥
परिवृत जिनु देवदानवेहि मरुमनुजान शिरिं ग्रसित्व सर्वाम् ।
धरणि क्रमतलेहि चित्रयन्तो प्रविशि पुरं भगवान्निमन्त्रणाय ॥ स्र्स्_१०.३४ ॥
(वैद्य ६०)
कुसुमित अनुव्यञ्जनेहि काये यथ गगनं परिपूर्ण तारकेहि ।
प्रतपति स्थितु राजमार्गि बुद्धश्चन्द्रो नभःस्थ यथैव पूर्णिमास्याम् ॥ स्र्स्_१०.३५ ॥
मणिरतनु यथा विशुद्धु श्रेष्ठं व्यपगतदोषमलं प्रभासमानम् ।
दिशि विदिशि प्रमुञ्चि आभ शुद्धां तथ जिनु भासति सर्वलोकधातुम् ॥ स्र्स्_१०.३६ ॥
परिवृतु जिनु देवदानवेहि प्रविशति राजगृहं नराण श्रेष्ठः ।
धरणि क्रमतलेहि चित्रयन्तो प्रविशति चन्द्रप्रभस्य गेहि बुद्धः ॥ स्र्स्_१०.३७ ॥
पुरुवरु समलंकृतं समन्ताद्बहु ध्वज कोटिसहस्र उच्छितात्र ।
गन्धवरविलिप्त सर्वभूमी सुमनःप्रकीर्ण तथैव वार्षिकारम् ॥ स्र्स्_१०.३८ ॥
यद सुगतु कथां कथेति नाथो वीथिगतो मनुजान् कृपायमानः ।
निर्मितु जिनु तत्र निर्मिणित्वा वितरति तेषु प्रणीत बुद्धधर्मान् ॥ स्र्स्_१०.३९ ॥
दशनियुत जिनान निर्मितान कनकनिभा अभिरूप दर्शनीया ।
परिवृतु जिनु बुद्धु निर्मितेहि वितरति शून्यत शान्त बुद्धबोधिम् ॥ स्र्स्_१०.४० ॥
प्राणिशतसहस्र तं श्रुणित्वा प्रणिदधि चित्तु वराग्रबुद्धज्ञाने ।
कद वय लभि ज्ञानमेवरूपमाशयु ज्ञात्व जिनोऽस्य व्याकरोति ॥ स्र्स्_१०.४१ ॥
केचि स्पृह जनेन्ति तत्र काले परम अचिन्तिय लब्ध तेहि लाभाः ।
(वैद्य ६१)
येहि जिनु निमन्त्रितो नरेन्द्रो न च पर्यन्त स तेषु दक्षिणायाः ॥ स्र्स्_१०.४२ ॥
केचि पुनरुपपादयि सुचित्तं श्वो वय कारुणिकं निमन्त्रयामः ।
हितकरमनुकम्पकं प्रजानां यस्य सुदुर्लभु दर्शनं भवेषु ॥ स्र्स्_१०.४३ ॥
केचि स्थित निर्यूहखोटके हि सुभगु विभूषितगात्र प्रेमणीयाः ।
दिव्य दशबलस्य मुक्तपुष्पाण्यवकिरतेऽग्रु जनित्व बोधिचित्तम् ॥ स्र्स्_१०.४४ ॥
सुरुचिर वर चम्पकस्य मालां तथ अतिमुक्तक गन्धवर्षिकां च ।
अपरि पुन क्षिपन्ति पट्टदामान् परम निरुत्तरु चित्तु संजनित्वा ॥ स्र्स्_१०.४५ ॥
केचि स्थित गृहे गृहीतपुष्पाः परमविभूषितकायु चीवरेहि ।
पुष्प विविधु गृहीत्व पट्टदामान् प्रवर्षि येन जिनो महानुभावः ॥ स्र्स्_१०.४६ ॥
पदुमकुमुदोत्पलान् क्षिपन्ति केचि अपरि क्षिपन्ति विशिष्ट हेमपुष्पान् ।
मणिरतन क्षिपन्ति केचि तस्मिनपरि क्षिपन्ति च चूर्ण चन्दनस्य ॥ स्र्स्_१०.४७ ॥
अपरिमित भवन्ति अच्छरीया अतुलिय ये न च शक्यु कीर्तनाय ।
पुरवरु प्रविशन्ति नायकस्मिन् बहुजनकोट्य स्थिहिंसु बुद्धज्ञाने ॥ स्र्स्_१०.४८ ॥
अबृह अतपाश्च दृष्टसत्त्याः सुदृश सुदर्शन ये च अन्य देवाः ।
तथ पुनरकनिष्ठ वीतरागा उपगत सर्वि नरेन्द्रदर्शनाय ॥ स्र्स्_१०.४९ ॥
(वैद्य ६२)
तथ शुभमरुताश्च अप्रमेया अपरिमित शुभा उदग्रचित्ताः ।
शुभकृत्स्न नियुताश्च अप्रमेया उपगत पश्यितु नायकं महर्षिम् ॥ स्र्स्_१०.५० ॥
अपरिमितु तथाप्रमाणआभा तथ पुन देव परीत्त आभ ये च ।
बहु नियुत आभस्वराण तस्मिनुपगत पश्यितु तेऽपि लोकनाथम् ॥ स्र्स्_१०.५१ ॥
बहव शतसहस्र पारिषद्यास्तथ पुन ब्रह्मपुरोहिताः प्रसन्नाः ।
बहुशत पुन ब्रह्मकायिकानामुपगत नायकदर्शनाय सर्वे ॥ स्र्स्_१०.५२ ॥
तथ पुन परनिर्मितापि देवास्तथ निर्माणरतिश्च शुद्धसत्त्वाः ।
प्रमुदित तुषिताथ यामदेवा उपगत सर्वि नमस्यमान बुद्धम् ॥ स्र्स्_१०.५३ ॥
त्रिदश अपु च शक्र देवराजा अप्सरकोटिशतैः सहागतोऽत्र ।
कुसुमवर्ष संप्रवर्षमाणो उपगत बुद्धमुनीन्द्रदर्शनाय ॥ स्र्स्_१०.५४ ॥
चतुरि चतुर्दिशासु लोकपाला वैश्रवणो धृतराष्ट्र नागराजा ।
विरूढकु विरूपाक्षु हृष्टचित्ता उपगत सर्वि नरेन्द्र ते स्तुवन्ता ॥ स्र्स्_१०.५५ ॥
ऐलविल बलवन्त यक्षराजा परिवृत यक्षशतेहि प्रेमजातः ।
गगनतलि स्थिहित्व हृष्टचित्तः क्षिपति अनेक विचित्र पुष्पवर्षम् ॥ स्र्स्_१०.५६ ॥
अपरि पुनरनन्त मालधारी विविध विचित्र गृहीत्व माल्यगन्धान् ।
(वैद्य ६३)
सर्वि सपरिवार हृष्टचित्ताः पुरुषवरस्य करोन्ति तत्र पूजाम् ॥ स्र्स्_१०.५७ ॥
बहव शत करोटपाणि यक्षा अपि च सुभूषि तेष यक्षकन्याः ।
सुमधुर सुमनोज्ञ यक्षवाद्यैस्तूर्यशतेहि करोन्ति बुद्धपूजाम् ॥ स्र्स्_१०.५८ ॥
ललितमधुरगीतवादितस्मिन् सुकुशलैः सह किन्नरीसहस्रैः ।
द्रुम उपगत गन्धमादनातो जिनवरु पूजितु किन्नराण राज्ञा ॥ स्र्स्_१०.५९ ॥
शंबर बल वेमचित्र राहु दानवकन्य सहस्रपारिवाराः ।
असुरगण महर्द्धिकाश्च अन्ये उपगत ते रतनानि वर्षमाणाः ॥ स्र्स्_१०.६० ॥
शतनियुत अनन्त राक्षसानां राक्षसकोटिशतैरुपास्यमानाः ।
पृथु विविध विचित्र मुक्तपुष्पान् पुरुषवरस्य क्षिपन्ति गौरवेण ॥६१ ॥
तथपि च अनवतप्तु नागराजा परमसुशिक्षिताश्च नागकन्याः ।
तूर्यशतसहस्र नादयन्त्यो उपगत पूजन तत्र लोकनाथम् ॥ स्र्स्_१०.६२ ॥
पञ्चशत अनवतप्तु पुत्रा विपुलु अनुत्तरु ज्ञान प्रार्थयन्तः ।
स्वजनपरिवृता उदग्र भूत्वा उपगत पूजयितुं स्वयं स्वयंभूम् ॥ स्र्स्_१०.६३ ॥
तथपि च अपलालु नागराजा पुरुषवरस्य कृताञ्जलिः प्रणम्य ।
(वैद्य ६४)
वर रुचिर गृहीत्व नागपुष्पान् स्थित गगने मुनिराज सत्करोन्तः ॥ स्र्स्_१०.६४ ॥
तथपि च मुचिलिन्द नागराजा प्रीतमनाः परितुष्ट हर्षजातः ।
विविध रत्नमौक्तिकं गृहीत्वा उपगमि नायकु अभिकिरन्तु तत्र ॥ स्र्स्_१०.६५ ॥
तथपि च कालिकोऽपि नागराजा उपगतु मुखु तथागतस्य हृष्टचित्तः ।
वर रूचिर गृहीत्व रत्नदामान् पुरुषवरस्य पूज करित्व श्रेष्ठाम् ॥ स्र्स्_१०.६६ ॥
सोऽपि परम गौरवं जनित्वा अनुस्मरमाणु गुणांस्तथागतस्य ।
स्वजनपरिवृतः सनागसंघो बहुविधु भाषति वर्ण नायकस्य ॥ स्र्स्_१०.६७ ॥
नन्दु तथा उपनन्दु नागराजा तथ पुनस्तक्षक कृष्णगौतमौ च ।
उपगत जिनु ते नमस्यमानाः प्रणिपतिताः सुगतस्य पादयोर्हि ॥ स्र्स्_१०.६८ ॥
उपगत एलपत्रु नागराजा परिवृत नागशतेहि रोचमानः ।
मुनिवर जिनु काश्यपं स्मरन्तो स्वक उपपत्ति अपश्यि अक्षणेषु ॥ स्र्स्_१०.६९ ॥
अहो अहु पुरि आसि काङ्क्षप्राप्तो मयि पुरि च्छिन्नु परित्तमेलपत्रम् ।
सो अहु उपपन्नु अक्षणस्मिन्न सुकरु धर्म विजानितुं जिनस्य ॥ स्र्स्_१०.७० ॥
क्षिप्र अहु जहित्व नागयोनिं परम जुगुप्सितमेतु जन्तुकायम् ।
(वैद्य ६५)
धर्ममहु विजानि शान्तिभावं पुरुषवरेण य ज्ञातु बोधिमण्डे ॥ स्र्स्_१०.७१ ॥
सागर अहिराजचक्रवर्ती परिवृतु नागत्रिकोटिसहस्रैः ।
वरुण मनस्वी गृहीत्व मुक्ताहारानुपगतु ते भगवन्तु पूजनाय ॥ स्र्स्_१०.७२ ॥
क्षिप्त शिल जिनस्य तत्र येनो गगनस्थितेन गृहीत्व तस्मि काले ।
राजगृहि स किम्पिलोऽपि यक्षः पुरतः स्थितः सुगतस्य गौरवेण ॥ स्र्स्_१०.७३ ॥
अलकवती समग्र राजधानी शून्य अभूषि न तत्र कश्चि यक्षः ।
सर्वि क्रिय करित्व अन्यमन्यमुपगत पश्यितु सर्वलोकनाथम् ॥ स्र्स्_१०.७४ ॥
तथपि च खरकर्ण सूचिरोमा आटविकस्तथ यक्ष भेषकश्च ।
हैमवत शतगिरिश्च यक्ष उपगत गर्दभको जिनं स्वयंभूम् ॥ स्र्स्_१०.७५ ॥
इन्द्रकेतु विकटश्च सुरूपो वक्कुलु पञ्चिकु शाक्य प्रवृद्धो ।
एते परेऽपि च यक्षेन्द्र सहस्ता उपगत धूपघटं परिगृह्य ॥ स्र्स्_१०.७६ ॥
विकृत बहु दुःसंस्थितात्मभावा विगलितआभरणा अनेकरूपाः ।
बहव शतसहस्र तस्मि काले उपगत तत्र गृहीत्व यक्ष पुष्पान् ॥ स्र्स्_१०.७७ ॥
(वैद्य ६६)
जलनिधि निवसन्ति ये सुपर्णा उपगत ब्राह्मणवेश निर्मिणित्वा ।
मुकुटधर विचित्र दर्शनीया गगनस्थिताः सुगतं नमस्यमानाः ॥ स्र्स्_१०.७८ ॥
नगरशत ये केचि जम्बुद्वीपे वनविहरेषु य तत्र देवताश्च ।
सर्व नगरदेवताः समग्रा उपगत पूज करोन्त नायकस्य ॥ स्र्स्_१०.७९ ॥
उपगत वनदेवता अनन्तास्तथपि च सर्वि य शैलदेवताश्च ।
तथपि च नदिदेवताः समग्रा उपगत पूज करोन्त नायकस्य ॥ स्र्स्_१०.८० ॥
अटविमरुषु देवताशतानि गिरिशिखरेषु य देवता समग्राः ।
उत्ससरतडागदेवताश्च उपगत सागरदेवताश्च बुद्धम् ॥ स्र्स्_१०.८१ ॥
देवअसुरनागयक्षसंघा गरुडमहोरगकिन्नराः कुम्भाण्डाः ।
तथपि च बहु प्रेतपूतनाश्चो पुरुषवरस्य करोन्ति चित्रिकारम् ॥ स्र्स्_१०.८२ ॥
तेऽपि च जिनवरे करित्व पूजां नगरवरं प्रविशन्ति नायकस्मिन् ।
देव असुरनागयक्षराजा । सततमतृप्त भवन्ति दर्शनेन ॥ स्र्स्_१०.८३ ॥
यथ पुरिमभवेषु लोकनाथः पुरिमजिनेषु अकार्षि पूज श्रेष्ठाम् ।
पुण्यफलविपाक एवरूपो न च जनु तृप्तु नरेन्द्र पश्यमानः ॥ स्र्स्_१०.८४ ॥
मेरु तथ सुमेरु चक्रवाला हिमगिरिस्तथ गन्धमादनश्च ।
(वैद्य ६७)
आवरणा न ते जिनस्य भोन्ति आभ यदा जिनु मुञ्चि बुद्धक्षेत्रे ॥ स्र्स्_१०.८५ ॥
ये च इह समुद्र बुद्धक्षेत्रे तेऽपि महीय समास्तदा भवन्ति ।
सर्वमिमु समन्तु बुद्धक्षेत्रं समु भवती कुसुमेहि संप्रकीर्णम् ॥ स्र्स्_१०.८६ ॥
रश्मि शतसहस्र अप्रमेया अवकिरि पादतलेहि धर्मराजा ।
सर्वि निरय शीतला भवन्ति धर्मदुःख उपनीत सुखं च वेदयन्ति ॥ स्र्स्_१०.८७ ॥
धर्म दशबल संप्रभाषि तत्रो मरुमनुजान विशुद्ध भोति चक्षुः ।
प्राणि शतसहस्र अप्रमेया नियत भवन्ति च सर्वि बुद्धज्ञाने ॥ स्र्स्_१०.८८ ॥
बहु इमि सुगतस्य प्रतिहार्या न सुकरु वक्तु च कल्पकोटियेभिः ।
पुरवर प्रविशन्ति नायकस्मिन् प्रमुदित सर्व जगज्जिनप्रवेशे ॥ स्र्स्_१०.८९ ॥
इमि गुण सुगतस्य अप्रमेया नरवृषभस्य गुणाग्रपारगस्य ।
सर्वगुणविशेषपारगस्य शिरसि नमस्यथ बुद्धपुण्यक्षेत्रम् ॥ स्र्स्_१०.९० ॥

इति श्रीसमाधिराजे पुरप्रवेशपरिवर्तो नाम दशमः ॥


(वैद्य ६८)
११ सूत्रधारणपरिवर्तः ।

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य निविशनरथ्यामवगाहमानश्चन्द्रप्रभस्य कुमारभूतस्य निवेशनं प्रविष्टोऽभूत् । प्रविश्य च न्यषीदत्प्रज्ञप्त एवासने । यथार्हे चासने बोधिसत्त्वसंघो भिक्षुसंघश्च निषण्णोऽभूत् । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं बोधिसत्त्वसंघं भिक्षुसंघं च निषण्णं विदित्वा स्वयमेव शतरसेन भोजनेन प्रणीतेन प्रभूतेन खादनीयेन भोजनीयेन लेह्येन चोष्येण पेयेन भगवन्तं संतर्प्य संप्रवार्य भगवन्तं भुक्तवन्तमपनीतधौतपाणिं विदित्वा दिव्येन नवनवतिकोटीशतसहस्रमूल्येन दूष्ययुगेन भगवन्तमभिच्छादयामास । तेषां च बोधिसत्त्वानां भिक्षुसंघस्य च प्रत्येकं प्रत्येकं त्रिचीवरमदातू ॥

अथ खलु चन्द्रप्रभः कुमारभूत एकांसमुत्तरासङ्ग कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य भगवतः पादौ शिरसाभिवन्द्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तं गाथाभिगीतेन प्रश्नं परिपृच्छति स्म

कथं चरन्तो विदु बोधिसत्त्वः स्वभावु धर्माण सदा प्रजानते ।
कथं क्रियामाचरते विचक्षणः क्रियामाचरते भोतारु वदाहि नायक ॥ स्र्स्_११.१ ॥
कथं च जातिस्मरु भोति नायक न चापि गर्भे उपपद्यते कथम् ।
कथं परीवारु भवेदभेद्य प्रतिभानु भोतीह कथमनन्तकम् ॥ स्र्स्_११.२ ॥
सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ति ज्ञानु वर्तते ।
अनाभिभूता द्विपदानमुत्तमा पृच्छामि प्रश्नं मम व्याकरोहि ॥ स्र्स्_११.३ ॥
स्वभाव धर्माणमभावु जानसे अनाभिलप्यां गिर संप्रभाषसे ।
सिंहेन वा धर्षित सर्व क्रोष्टका स्तथैव बुद्धेनिह अन्यतीर्थिकाः ॥ स्र्स्_११.४ ॥
(वैद्य ६९)
सर्वेष सत्त्वान चरिं प्रजानसे सर्वेषु धर्मेषु ज्ञानानुवर्तते ।
असङ्गज्ञानी परिशुद्धगोचरा तं व्याकरोहि मम धर्मस्वामी ॥ स्र्स्_११.५ ॥
अतीतु जानासि तथा अनागतं यच्च इहा वर्तति प्रत्युत्पन्नम् ।
त्रियध्वज्ञानं ति असङ्गु वर्तते तेनाहु पृच्छामिह शाक्यसिंहम् ॥ स्र्स्_११.६ ॥
त्रियध्वयुक्तान जिनान धर्मता त्वं धर्मतां जानसि धर्मराज ।
धर्मस्वभावकुशलः स्वयंभूस्तेनाहु पृच्छामिह ज्ञानसागरम् ॥ स्र्स्_११.७ ॥
यत्किंचि धर्मं स्खलितं न तेऽस्ति ततो ति चित्तं निखिलं प्रहीणम् ।
प्रहीण ग्रन्था खिलमोहसादका देशेहि मे बोधिचरिं नरेन्द्र ॥ स्र्स्_११.८ ॥
यल्लक्षणा धर्म जिनेन बुद्धास्तल्लक्षणं धर्म मम प्रकाशय ।
यल्लक्षणं धर्ममहं विदित्वा तल्लक्षणं बोधि चरिष्यि चारिकाम् ॥ स्र्स्_११.९ ॥
विलक्षणां सत्त्वचरीमनन्तां कथं चरन्तश्चरिमोतरन्ति ।
चरीप्रवेशं मम देशय स्वयं श्रुत्वा च सत्त्वान चरिं प्रजानियाम् ॥ स्र्स्_११.१० ॥
विलक्षणं धर्मस्वभावलक्षणं स्वभावशून्यं प्रकृतीविविक्तम् ।
प्रत्यक्ष भोन्ति कथ बोधिसत्त्वः प्रकाशयस्व मम बुद्धनेत्रीम् ॥ स्र्स्_११.११ ॥
सर्वेषु धर्मेष्विह पारमिंगताः सर्वेषु निर्देशपदेषु शिक्षिताः ।
(वैद्य ७०)
निःसंशयी संशयकाङ्क्षक्षछेदके प्रकाशयाही मम बुद्धबोधिम् ॥ स्र्स्_११.१२ ॥

अथ खलु भगवांश्चन्द्रप्रभस्य कुमारभूतस्य चेतसैव चेतःपरिवितर्कमाज्ञाथ चन्द्रप्रभं कुमारभूतमामन्त्रयते स्मएकधर्मेण कुमार समन्वागतो बोधिसत्त्वो महासत्त्वः एतान् गुणान् प्रतिलभते, क्षिप्रं चानुत्तरां सम्यक्संबोधिमभिसंबुध्यते । कतमेनैकेन धर्मेण इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं यथाभूतं प्रजानाति?कथं च कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माणां स्वभावं जानाति? इह कुमार बोधिसत्त्वो महासत्त्वः सर्वधर्माननामकान्नामापगतान् प्रजानाति । घोषापगतान् वाक्पथापगतानक्षरापगतानुत्पादापगतान्निरोधापगतान् हेतुविलक्षणान् प्रत्ययविलक्षणान् विपाकलक्षणानारम्भणलक्षणान् विवेकलक्षणानेकलक्षणान् यदुतालक्षणान्निमित्तापगतानचिन्त्यांश्चिन्तापगतान्मनोपगतान् सर्वधर्मान् यथाभूतं प्रजानाति । अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत

एकु निर्देश धर्माणां सर्वधर्मा अलक्षणाः ।
देशिता वरप्रज्ञेन यथाभूतं प्रजानता ॥ स्र्स्_११.१३ ॥
य एवं धर्मनिर्देशं बोधिसत्त्वः प्रजानति ।
न तस्य भोति विष्ठानं सूत्रकोट्या प्रभाषतः ॥ स्र्स्_११.१४ ॥
अधिष्ठितो नायको हि भूतकोटीं प्रजानति ।
प्रजानाति च तां कोटीं न चात्रो किंचि भाषितम् ॥ स्र्स्_११.१५ ॥
एकेन सर्वं जानाति सर्वमेकन पश्यति ।
कियद्बहुं पु भाषित्वा न तस्योत्पद्यते महः ॥ स्र्स्_११.१६ ॥
तथास्य चित्तं निध्याप्तं सर्वधर्मा अनामकाः ।
शिक्षितो नामनिर्देशे भूतां वाचं प्रभाषते ॥ स्र्स्_११.१७ ॥
शृणोति घोषं यं कंचित्पूर्वान्तं तस्य जानति ।
ज्ञात्वा घोषस्य पूर्वान्तं घोषेण ह्रियते न सः ॥ स्र्स्_११.१८ ॥
यथा घोषस्य पूर्वान्तमेवं धर्माण लक्षणम् ।
एवं धर्मान् प्रजानन्तो न गर्भेषूपपद्यते ॥ स्र्स्_११.१९ ॥
अजातिः सर्वधर्माणामनुत्पत्तिं प्रजानति ।
प्रजानन् जातिनिर्देशं भवेज्जातिस्मरः सदा ॥ स्र्स्_११.२० ॥
यदा जातिस्मरो भोति तदा च चरते क्रियाम् ।
क्रियामोतरमाणस्य परिवारो न भिद्यते ॥ स्र्स्_११.२१ ॥
(वैद्य ७१)
यमेवं शून्यकान् धर्मान् बोधिसत्त्वः प्रजानति ।
न तस्य किंचिदज्ञातमेषा कोटिरकिंचना ॥ स्र्स्_११.२२ ॥
अकिंचनायां कोट्यां हि किंचिद्बालैर्विकल्पितम् ।
येन ते कल्पकोटीयः संसरन्ति पुनः पुनः ॥ स्र्स्_११.२३ ॥
सचेत्ते कल्प जानीयुर्यथा जानति नायकः ।
न तेषां दुःखु जायेत नापि गच्छेयु दुर्गतिम् ॥ स्र्स्_११.२४ ॥
एवं पृथग्जनाः सर्वे अजानन्त इमं नयम् ।
क्षिपन्ति ईदृशान् धर्मान् यत्र दुःखं निरुध्यते ॥ स्र्स्_११.२५ ॥
अलब्धिः सर्वधर्माणां धर्मसंज्ञा प्रवर्तते ।
सा एवंजातिका संज्ञा संज्ञामेव विजानथ ॥ स्र्स्_११.२६ ॥
विजानना च संज्ञा च बालैरेतद्विकल्पितम् ।
प्रकल्पितेषु धर्मेषु नात्र मुह्यन्ति पण्डिताः ॥ स्र्स्_११.२७ ॥
पण्डितानामियं भूमिर्बालानां नात्र गोचरः ।
गोचरो बुद्धपुत्राणां शून्या धर्मा अनाविलाः ॥ स्र्स्_११.२८ ॥
बोधिसत्त्वानामियं भूमिर्बुद्धपुत्रचरी इयम् ।
बुद्धधर्माणलंकारो देशिता शान्त शून्यता ॥ स्र्स्_११.२९ ॥
यदा च बोधिसत्त्वानां प्रहीणा भोति वासना ।
न ते ह्रियन्ति रूपेहि बुद्धगोत्रस्मि ते स्थिताः ॥ स्र्स्_११.३० ॥
अस्थान सर्वधर्माणां स्थानमेषां न विद्यते ।
य एवं स्थान जानाति बोधिस्तस्य न दुर्लभा ॥ स्र्स्_११.३१ ॥
दानं शीलं श्रुतं क्षान्तिं सेवित्वा मित्र भद्रकान् ।
इमां क्रियां विजानन्तः क्षिप्रं बोधिं स बुध्यते ॥ स्र्स्_११.३२ ॥
देवाथ नागाः सद सत्करोन्ति गन्धर्व यक्षा असुरा महोरगाः ।
सर्वे च राजान सुपर्णि किन्नरा निशाचराश्चास्य करोन्ति पूजाम् ॥ स्र्स्_११.३३ ॥
यशोऽस्य भाषन्ति च बुद्धकोटियो बहुकल्पकोट्योऽपि अधिष्ठिहन्तः ।
(वैद्य ७२)
धर्म प्रकाशन्तिय भोति वर्णो न शक्यु पर्यन्तु क्षपेतु तस्य ॥ स्र्स्_११.३४ ॥
यः शून्यतां जानति बोधिसत्त्वः करोति सोऽर्थं बहुप्राणिकोटिनाम् ।
देशेति धर्मं पर्यायसूत्रतो श्रुत्वास्य प्रेम जनयन्ति गौरवम् ॥ स्र्स्_११.३५ ॥
ज्ञानं च तेषां विपुलं प्रवर्तते येनेति पश्यन्ति नरोत्तमान् जिनान् ।
क्षेत्रे च पश्यन्ति वियूह शोभनं धर्मं च देशेन्ति ते लोकनाथाः ॥ स्र्स्_११.३६ ॥
मायोपमान् जानथ सर्वधर्मान् यथान्तरीक्षं प्रकृतीय शून्यम् ।
प्रकृतिं पि सो जानति तेष तादृशीमेवं चरन्तो न कहिंचि सज्जति ॥ स्र्स्_११.३७ ॥
ज्ञानेनासङ्गेन करोति सोऽर्थं लोके चरन्तो वरबोधिचारिकाम् ।
ज्ञानेन ते वीक्षिय सर्वधर्मान् प्रेषेन्ति ते निर्मित अन्यक्षेत्रान् ॥ स्र्स्_११.३८ ॥
ते बुद्धकृत्यं करियाण निर्मिता प्रकृतीय गच्छन्ति यथैव धर्मताम् ।
यथाभिप्रायं च लभन्ति तेऽर्थं ये बोधिचित्तस्मि नराः प्रतिष्ठिताः ॥ स्र्स्_११.३९ ॥
स भोति बुद्धान् सदा कृतज्ञो यो बुद्धवंशस्य स्थितीय युज्यते ।
विरोचमानेन समुच्छ्रयेण द्वात्रिंश कायेऽस्य भवन्ति लक्षणाः ॥ स्र्स्_११.४० ॥
अन्याननन्तान् बहु आनुशंसान् श्रेष्ठं समाधौ चरमाणु लप्स्यते ।
महाबलो भोति सदा अकम्पियो राजान् तस्यो न सहन्ति तेजः ॥ स्र्स्_११.४१ ॥
(वैद्य ७३)
प्रासादिको भोति महाभिषट्कः पुण्येन तेजेन शिरीय चोद्गतः ।
देवापि नो तस्य सहन्ति तेजो यो बुद्धधर्मेषु चरेय पण्डितः ॥ स्र्स्_११.४२ ॥
मित्रं स भोति सद सर्वप्राणिनां यो बोधिचित्तस्मि दृढं प्रतिष्ठितः ।
न चान्धकारोऽस्य कदाचि भोति प्रकाशयन्तस्मि स बुद्धबोधिम् ॥ स्र्स्_११.४३ ॥
अपगतगिरवाक्पथा अनभिलप्या यथ गगनं तथ ताः स्वभावधर्माः ।
इम गति परमां विजानमानो तथ तु भवति प्रतिभानु अक्षयं से ॥ स्र्स्_११.४४ ॥
सूत्रशतसहस्र भाषमाणः सूक्ष्म प्रजानति पूर्विकां स कोटिम् ।
सद विदु भवती असङ्गवाक्यः सुसुखुम धर्मस्वभावु जानमानः ॥ स्र्स्_११.४५ ॥
नयशतकुशलश्च नित्यु भोति बहुविधघोषनिरुक्तिकोविदश्च ।
कर्मफलविभक्ति निश्चिताश्चो भोन्ति विशिष्ट विशेष एवरूपाः ॥ स्र्स्_११.४६ ॥
अविकलवेशधारी भोति दशबलआत्मज पण्डितो महात्मा ।
सद स्भृति परिशुद्ध तस्य भोति सुसुखुम धर्मस्वभावु जानमानः ॥ स्र्स्_११.४७ ॥
न श्रुणति अमनोज्ञ शब्द जातु श्रुणति प्रणीत मनापु नित्य शब्दान् ।
सद भवति मनोज्ञ तस्य वाचा सुसुखुम धर्मस्वभावु जानमानः ॥ स्र्स्_११.४८ ॥
स्मृतिमतिगतिप्रज्ञवन्तु भोति तथपि च चित्तमनाविलं प्रसन्नम् ।
(वैद्य ७४)
सूत्रशतसहस्रु भाषते अनेकान् सुसुखुम धर्मस्वभावु जानमानः ॥ स्र्स्_११.४९ ॥
अक्षरपदप्रभेदकोविदश्चो रुत बहु जानति नैक अन्यमन्ये ।
अर्थकुशल भोति व्यञ्जनो च इम गुण धर्मस्वभावु जानमानः ॥ स्र्स्_११.५० ॥
देवमनुजनागराक्षसानामसुरमहोरगकिन्नराण नित्यम् ।
तेष सद प्रिय मनाप भोति सुसुखुम धर्मस्वभावु जानमानः ॥ स्र्स्_११.५१ ॥
भूतगणपिशाचराक्षसाश्चो परमसुदारुण ये च मांसभक्षाः ।
तेऽस्य भयु न जातु संजनेन्ति सुसुखुम धर्मस्वभावु जानमानः ॥ स्र्स्_११.५२ ॥
विपुल कथं श्रुणित्व पण्डितानां विपुल प्रजायति रोमहर्ष तेषाम् ।
विपुल तद जनेन्ति बुद्धप्रेमं विपुल अचिन्तियु तेषु भोति अर्थः ॥ स्र्स्_११.५३ ॥
पुण्यबल न शक्यु तेष वक्तुं बहुमपि कल्पसहस्र भाषमाणैः ।
अपरिमित अनन्त अप्रमेय इमु सुगतान धरेत्व धर्मगञ्जम् ॥ स्र्स्_११.५४ ॥
सर्व जिन अतीत पूजितास्ते अपरिमिता य अनागताश्च बुद्धाः ।
दशसु दिशासु ये स्थिताश्च बुद्धा इम वर शान्त समाधि धारयित्वा ॥ स्र्स्_११.५५ ॥
यथ नरु इह कश्चि पुण्यकामो दशबल कारुणिकानुपस्थिहेय्या ।
अपरिमित अनन्त कल्पकोटीरपरिमितं च जनेतु प्रेम तेषु ॥ स्र्स्_११.५६ ॥
(वैद्य ७५)
द्वितीय नरु भवेत पुण्यकामो इतु परमार्थनयात्तु गाथमेकाम् ।
धरिय चरिमकालि वर्तमाने परिमकु पुण्यकला न भोति तस्य ॥ स्र्स्_११.५७ ॥
परम इयं विशिष्ट बुद्धपूजा चरिमकि दारुणि कालि वर्तमाने ।
चतुपदमित गाथमेकु श्रुत्वा धारयि पूजित तेन सर्वबुद्धाः ॥ स्र्स्_११.५८ ॥
परम सद सुलब्ध तेहि लाभा परम सुभुक्तु सदा व राष्ट्रपिण्डम् ।
परम दशबलस्य ज्येष्ठपुत्रा बहु जिन पूजित तेहि दीर्घरात्रम् ॥ स्र्स्_११.५९ ॥
अहमपि इह दृष्ट गृघ्रकूटे तथ मय व्याकृत तेऽपि बुद्धज्ञाने ।
अपि च मय परीतु मैत्रक स्यां पुनरपि व्याकरणाय तस्मि काले ॥ स्र्स्_११.६० ॥
तथ पुनरमितायु तेष तत्रो भाषते बुद्ध अनेक आनुशंसाम् ।
सर्वि इमि सुखावतीं प्रविष्टो अभिरति गत्व अक्षोभ्य पश्यि बुद्धम् ॥ स्र्स्_११.६१ ॥
कल्पशतसहस्र अप्रमेया न च विनिपातभयं कदाचि भोति ।
इमु वरु चरमाणु बोधिचर्यामनुभवति स हि नित्य सौमनस्यम् ॥ स्र्स्_११.६२ ॥
तस्य इमु विशिष्ट एवरूपा य इमु प्रकाशित श्रेष्ठ आनुशंसाम् ।
प्रतिपदमनुशिक्षमाण मह्यं पश्चिमि कालि धरेयु एत सूत्रम् ॥ स्र्स्_११.६३ ॥

इति श्रीसमाधिराजे सूत्रधारणपरिवर्तो नामैकादशः ॥ ११ ॥


(वैद्य ७६)
१२ समाध्यनुशिक्षणापरिवर्तः ।

तत्र कुमार यो बोधिसत्त्वो महासत्त्वः सर्वधमाणां स्वभावं प्रजानाति, तस्येमे एवंरूपा गुणानुशंसा भवन्ति स तथागतानां भूतं गुणवर्णं भाषते । न च तथागतान् व्याख्याति असता अभूतेन । तत्कस्य हेतोः? यया धर्मतया तथागतः प्रभाव्यते, तां धर्मतां यथाभूतं प्रजानाति । अनन्तात्बुद्धगुणान् प्रजानाति । तत्कस्य हेतोः? अनन्ता हि कुमार बुद्धगुणा अचिन्त्याश्चिन्तापगताः । तेनाशक्यं चिन्तयितुं वा प्रमातुं वा । तत्कस्य हेतोः? चित्तं हि कुमार निःस्वभावमरूप्यनिदर्शनम् । इति हि कुमार यत्स्वभावं चित्तं तत्स्वभावा बुद्धगुणाः, यत्स्वभावा बुद्धगुणास्तत्स्वभावास्तथागताः, तत्स्वभावाः सर्वधर्माः । यः कुमार बोधिसत्त्वो महासत्त्व एवं सर्वगुणस्वभावनिर्देशं यथाभूतं प्रजानाति, अयं कुमार उच्यते बोधिसत्त्वो महासत्त्वो निध्याप्तिमानसः । निःसरणकुशलः । त्रैधातुकनिःसरणं यथाभूतं प्रजानाति । यथावदर्शी अवितथवादी अनन्यथाभाषी, यथावादी तथाकारी, अनभिनिविष्टस्त्रैधातुके त्रैधातुकसमतिक्रान्तः । समतिक्रान्तः कामभूमिं रूपभूमिमारूप्यभूमिं क्लेशभूमिं नामभूमिं घोषभूमिम् । अक्षरपदनयकुशलः । अक्षरविभावितज्ञानः । अनभिलप्यधर्मकोविदः । अक्षरज्ञः । अक्षरकुशलः । अक्षरपदप्रभेदज्ञानकुशलः । अक्षरपदप्रभेदविस्तारज्ञानकुशलः । सर्वधर्मपदप्रभेदकुशलः । सर्वधर्मपदप्रभेदविस्तारकुशलः । सर्वधर्मव्यवस्थानज्ञानकुशलः । निश्चितया बुद्ध्या समन्वागतोऽनभिभूतः सर्वमारैः पापीयोभिर्मारकायिकाभिश्च देवताभिः


अस्मिन् खलु पुनर्धर्मपर्याये भाष्यमाणे अष्टानवतेर्नियुतानां देवमानुषिकायाः प्रजायाः पूर्वपरिकर्मकृतायाः कोटीशतसहस्रावर्ताया धारण्या अनावरणायाश्च धर्मविपश्यनायाः क्षान्तेः प्रतिलम्भोऽभूत् । ते च सर्वे भगवता व्याकृउता अष्टाचत्वारिंशता कल्पैरसंख्येयशतसहस्रैरनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । सर्वे च अन्यान्यनामान एकायुष्प्रमाणा अन्यान्येषु बुद्धक्षेत्रेषु अनुत्तरां सम्यक्संबोधिमभिसंभोत्स्यन्ते । तत्रेदमुच्यते

यो बोधिसत्त्व मतिमान् प्राप्नोति अनुत्तरां वरां बोधिम् ।
अर्थे च धर्मि कुशलो चरति स धर्मस्वभावस्मि ॥ स्र्स्_१२.१ ॥
नाभूत्भणति वाचं बुद्धानां यादृशा गुणविशेषाः ।
स हि धर्मु तं जिनानां जानति शूरो विगतकङ्क्षाः ॥ स्र्स्_१२.२ ॥
एकार्थ सर्वधर्मान् प्रजानति च शून्यतां स एकांशम् ।
नानार्थु नास्ति तेषामेकार्थे शिक्षितो भवति ॥ स्र्स्_१२.३ ॥
(वैद्य ७७)
निष्कल्पानविकल्पाननोपलम्भांश्च जानाति मतिमान् ।
क्षति अक्षयेऽस्य संज्ञा प्रहीण सर्वा निरवशेषा ॥ स्र्स्_१२.४ ॥
न हि रूपतो दशबलान् पश्यति सो धर्मकाय नरसिंहान् ।
नापि लक्षणेहि तस्य प्रहीण सर्वे विपर्यासाः ॥ स्र्स्_१२.५ ॥
धर्मा अचिन्त्य एते चिन्तापगता स्वभाव उपशान्ताः ।
एवं प्रजानमानः पश्यति बुद्धान् द्विपदश्रेष्ठान् ॥ स्र्स्_१२.६ ॥
यथ ज्ञात्वात्मसंज्ञास्तथैव सर्वत्र प्रेषिता बुद्धिः ।
सर्वे च तत्स्वभावा धर्म विशुद्धा गगनकल्पाः ॥ स्र्स्_१२.७ ॥
न हि जात मानसेऽस्य निःसरणं ज्ञात्व सर्वधर्माणाम् ।
त्रैधातुके विमुक्तिप्रणिधानु न विद्यते तस्य ॥ स्र्स्_१२.८ ॥
यथावदर्शि भोति अवितथवचनोऽनन्यथाभाषी ।
सर्वं च तस्य वचनं निश्चरति जिनानुभावेन ॥ स्र्स्_१२.९ ॥
अतिक्रान्तु कामभूमिं किलेशभूमिं च रूप आरूप्यान् ।
धर्मेष्वसक्तमनसः प्रमुदित चरते जगहिताय ॥ स्र्स्_१२.१० ॥
अतिक्रान्तु नामभूमिं घोषो ज्ञान स्वभावेन चयिकः ।
यावच्चिरं पि भणतो न विद्यते निश्रयस्तस्य ॥ स्र्स्_१२.११ ॥
संज्ञाप्रचारु नास्ति दृष्टिविपर्यासु सर्वशः क्षीणः ।
सुनिश्चिता बुद्धिश्च ते गगनोपमधीराः ॥ स्र्स्_१२.१२ ॥
विहार कोटीनियुता भवेयु विक्षेपणार्थ चित्तस्य ।
अभिभवति सर्वमारान्न चापि तेषां वशमुपैति ॥ स्र्स्_१२.१३ ॥
सर्वि जह्यु मारजालं परिशुद्धः शीलवानपरिदाहः ।
ध्यानसुखस्मि निरतः प्रजानति च शून्यकं लोकम् ॥ स्र्स्_१२.१४ ॥
लोकाश्च स्कन्ध उक्तास्तांश्चापि स शून्यकान् प्रजानति ।
अनुत्पादाननिरोधान् सर्वान् गगनोपमान् धर्मान् ॥ स्र्स्_१२.१५ ॥
आत्मानं स त्यजते न चैव शिक्षां श्रुतां दशबलस्य ।
सो शीलपारमिं गत उपपद्यति यत्र प्रणिधेति ॥ स्र्स्_१२.१६ ॥
विचरन्तु बुद्धक्षेत्रान् पश्यति बुद्धकोटीनियुतानि ।
न स्वर्गं प्रार्थयते न चापि प्रणिधानतो मुक्तः ॥ स्र्स्_१२.१७ ॥
(वैद्य ७८)
न भ्रंशयति स वीर्यं मुहूर्तमात्रमपि धर्म चरमाणः ।
प्रशंसितश्च भोति बुद्धभिर्दशदिशे लोके ॥ स्र्स्_१२.१८ ॥
तस्मात्तर्हि कुमार श्रुत्वा धर्मानिमान् समाधिस्मिन् ।
जहियान ज्ञात्रलाभं प्रकाशय महाजने धर्मम् ॥ स्र्स्_१२.१९ ॥
य इच्छति स्वयंभूर्भवेय बुद्धो महागुणसमङ्गी ।
इह शिक्षित्वा कुशलो दशबलधारी भवति बुद्धः ॥ स्र्स्_१२.२० ॥

इति श्रीसमाधिराजे समाध्यनुशिक्षणापरिवर्तो नाम द्वादशः ॥ १२ ॥


(वैद्य ७९)
१३ समाधिनिर्देशपरिवर्तः ।

तत्र खलु भगवान् पुनरेव चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन अनुत्तरां सम्यक्संबोधिमभिसंबोद्धुकामेन समाधिनिर्देशकुशलेन भवितव्यम् । तत्र कुमार कतमः समाधिनिर्देशः?या यथावत्तता सर्वधर्माणां समता अविषमता । अकल्पना अविकल्पना । अविठपना असमुत्थापना । अनुत्पादः अनिरोधः । कल्पविकल्पपरिकल्पसमुच्छेदः । चित्तानालम्बनता । अमनसिकारः । प्रज्ञप्तिसमुच्छेदः । वितर्कविकल्पसमुच्छेदः । रागद्वेषमोहसमुच्छेदः । नान्तानन्तमनसिकारः । मनसिकारसमुच्छेदः । स्कन्धधात्वायतनस्वभावज्ञानम् । स्मृतिमतिगतिह्रीधृतिचारित्राचारगोचरप्रतिपत्तिस्थानम् । अरणाभूमिः । शान्तभूमिः । सर्वप्रपञ्चसमुच्छेदः । सर्वबोधिसत्त्वशिक्षा । सर्वतथागतगोचरः । सर्वगुणपरिनिष्पत्तिः । अयमुच्यते कुमार समाधिनिर्देशः । यत्र समाधिनिर्देशे प्रतिष्ठितो बोधिसत्त्वो महासत्त्वोऽविरहितो भवति समाधिना, अभ्रान्तचित्तश्च भवति, महाकरुणासमन्वागतोऽप्रमेयाणां च सत्त्वानमर्थं करोति ॥


अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत

समाध्यविषमा भूमिः शान्ता सूक्ष्मा सुदुर्दृशा ।
सर्वसंज्ञासमुद्धातः समाधिस्तेन चोच्यते ॥ स्र्स्_१३.१ ॥
अकल्पश्चाविकल्पश्चाग्राह्यत्वमनिदर्शनम् ।
अनुपलब्धिश्चित्तस्य समाधिस्तेन चोच्यते ॥ स्र्स्_१३.२ ॥
समाहितो यदा भोति सर्वधर्मा न मन्यते ।
अमन्यना यथाभूतं समाधिरिति शब्दितः ॥ स्र्स्_१३.३ ॥
न धर्मेऽस्ति रजोमात्र रजश्चापि न विद्यते ।
अनुपलब्धिर्धर्माणां समाधिस्तेन चोच्यते ॥ स्र्स्_१३.४ ॥
चित्तस्यानुपलब्धिश्च विकल्पो ह्येष चोच्यते ।
अविकल्पिताश्च ते धर्मा समाधिरेष जानथः ॥ स्र्स्_१३.५ ॥
शब्देन सूचितो ह्यर्थः स च शब्दो अवस्तुकः ।
प्रतिश्रुत्कोपमः शब्दो अन्तरीक्षं यथा नभः ॥ स्र्स्_१३.६ ॥
अस्थिता हि इमे धर्माः स्थितिरेषां न विद्यते ।
अस्थितिः स्थितिशब्देन स्वभावेन न लभ्यते ॥ स्र्स्_१३.७ ॥
च्यवते अगतीत्येवं गतिश्चासौ न विद्यते ।
अगतिर्गतिशब्देन समाधिर्नदितस्तथा ॥ स्र्स्_१३.८ ॥
(वैद्य ८०)
असमाहितो वुच्यति एष मन्यना समाहितो एष द्वितीय मन्यना ।
अमन्यमाना विचरन्ति बोधये अमन्यमाना स्पृशि बोधिमुत्तमाम् ॥ स्र्स्_१३.९ ॥
समविषम एष शान्तभूमिः शमथविपश्यनानिमित्त एषा ।
सेविय इमु शान्त बुद्धबोधिं स इह प्रयुक्त समाधिभावनायाम् ॥ स्र्स्_१३.१० ॥
न च पुनरियमक्षरेहि शक्यं प्रविशितु अर्थगति प्रवेशे ।
सर्वरुत जहित्व भाष्यघोषं भवति समाहित नो च मन्यनास्य ॥ स्र्स्_१३.११ ॥
यश्च इह समाधि बोधिसत्त्वो यथ उपदिष्टु तथा स्थिहेत युक्तः ।
सचेदिह भवि कल्पदाहु क्षेत्रे गिरिवरमध्यगतं न तं दहेऽग्निः ॥ स्र्स्_१३.१२ ॥
यथ गगनु न जातु दग्धपूर्वं सुबहुकल्पशतेहि दह्यमानम् ।
गगनसमा अधिजानमान धर्मांस्ते न जातु दह्यति सोऽग्निमध्ये ॥ स्र्स्_१३.१३ ॥
सचि पुन ज्वलमान बुद्धक्षेत्रे प्रणिधि करोति समाधिये स्थिहित्वा ।
ज्वलनु अयु प्रशाम्यतामशेषं पृथिवी विनश्यि न चास्य अन्यथात्वम् ॥ स्र्स्_१३.१४ ॥
ऋद्धिबलु अनन्तु तस्य भोति खगपथि गच्छति सो असज्जमानः ।
इमि गुण अनुभोति बोधिसत्त्वो यथानुशिष्टु समाधिये स्थिहित्वा ॥ स्र्स्_१३.१५ ॥
जायते च्यवते वापि न च जाति न च्युतिः ।
यस्य विजानना एषा समाध्यस्य न दुर्लभा ॥ स्र्स्_१३.१६ ॥
(वैद्य ८१)
न च्युतिर्नापि चो जाति लोकनाथेन देशिता ।
लोकनाथं विदित्वैवं समाधिं तेन जानथ ॥ स्र्स्_१३.१७ ॥
अनोपलिप्ता लोकेन लोकधर्मे न सज्जति ।
असज्जमानः कायेन बुद्धक्षेत्राणि गच्छति ॥ स्र्स्_१३.१८ ॥
क्षेत्रेषु पश्यते नित्यं संबुद्धान् लोकनायकान् ।
धर्मं च शृणुते तत्र बुद्धक्षेत्रेषु भाषितम् ॥ स्र्स्_१३.१९ ॥
न जातु तस्य अज्ञानं धर्मधातुं च भाषते ।
गतिज्ञः सततो धर्मे धर्मधातुमयो हि सः ॥ स्र्स्_१३.२० ॥
भाषतः कल्पकोट्योऽपि प्रतिभानं न हीयते ।
निर्मिणोति बहूनन्यान् बोधिसत्त्वान् विचक्षणः ॥ स्र्स्_१३.२१ ॥
क्षेत्रातः क्षेत्र गच्छन्ति बोधिसत्त्वान निर्मिताः ।
सहस्रपत्रपद्मेषु पर्यङ्केन निषण्णकाः ॥ स्र्स्_१३.२२ ॥
बुद्धबोधिं प्रकाशेन्ति धारणीसूत्रशोभनम् ।
अन्याश्च सूत्रकोटीयो समाधिं शान्त भावयन् ॥ स्र्स्_१३.२३ ॥
अविवर्तिकपथे स्थापेन्ति बहून् सत्त्वानचिन्तियान् ।
प्रतिभानं क्षयं नैति बुद्धबोधिं प्रकाशिय ॥ स्र्स्_१३.२४ ॥
कूटागारे हि गच्छन्ति रतनेहि विचित्रिते ।
ओकिरन्ति च पुष्पेहि गन्धवद्भिर्विनायकम् ॥ स्र्स्_१३.२५ ॥
ओकिरन्ति च चूर्णेहि गन्धवन्तेहि नायकम् ।
कुर्वन्ति विपुलां पूजां सर्वे ते बोधिकारणात् ॥ स्र्स्_१३.२६ ॥
अप्रमेया गुणा एते बोधिसत्त्वान तायिनाम् ।
निष्किलेशा यदा भोन्ति तदा ऋद्धिं लभन्ति ते ॥ स्र्स्_१३.२७ ॥
अनुपत्तिकिलेशान अच्छाः शुद्धाः प्रभास्वराः ।
असंस्कृता अकोप्याश्च बोधिसत्त्वान गोचराः ॥ स्र्स्_१३.२८ ॥
प्रशान्ता उपशान्ताश्च निष्किलेशा अनङ्गनाः ।
अप्रपञ्चा निष्प्रपञ्चाः प्रपञ्चसमतिक्रमाः ॥ स्र्स्_१३.२९ ॥
अप्रचारोऽक्षराणां च सर्वधर्माण लक्षणम् ।
दुर्विज्ञेयश्च घोषेण समाधिस्तेन चोच्यते ॥ स्र्स्_१३.३० ॥
अक्षया उपशान्ता च अनाभोगा अदर्शना ।
गोचरः सर्वबुद्धानां भूतकोटिरनाविला ॥ स्र्स्_१३.३१ ॥
(वैद्य ८२)
सर्वबुद्धानियं शिक्षा सर्वधर्मस्वभावता ।
इह शिक्षित्व संबुद्धा गुणानां पारमिं गताः ॥ स्र्स्_१३.३२ ॥
न संपारं न वापारं पूर्वान्तो न विकल्पितः ।
तेन ते सर्व संबुद्धा गुणानां पारमिं गताः ॥ स्र्स्_१३.३३ ॥
अनागतानगतिकान् धर्मान् ज्ञात्वा स्वभावतः ।
निष्प्रपञ्चाननाभोगांस्तत्र ते पारमिं गताः ॥ स्र्स्_१३.३४ ॥

इति श्रीसमाधिराजे समाधिनिर्देशपरिवर्तस्त्रयोदशः ॥ १३ ॥


(वैद्य ८३)
१४ स्मितसंदर्शनपरिवर्तः ।

अथ खलु चन्द्रप्रभः कुमारभूत उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणम्य भगवन्तमेतदवोचत् आश्चर्यं भगवन् यावत्सुभाषितेयं भगवता तथागतेनार्हता सम्यक्संबुद्धेन सर्वधर्मस्वभावसमता सर्वबोधिसत्त्वशिक्षासमाधिनिर्देशः । यथापि नाम भगवन् दीर्घरात्रमत्र शिक्षित्वा समुदागतोऽनुत्तरायां सम्यक्संबोधौ । प्रतिभाति च मे भगवन्, प्रतिभाति च मे सुगत । भगवानाह प्रतिभातु ते कुमार यस्येदानीं कालं मन्यसे । अथ खलु चन्द्रप्रभः कुमारभूतो भगवता कृतावकाशो भगवन्तं संमुखं सारूप्याभिर्गाथाभिरभ्यष्टावीत्

दृष्ट्वान सत्त्वान् दुखितानुपद्रुतान् रागेण दोषेण सदाभिभूतान् ।
चित्तं त्वयोत्पादितु बोधिकारणादू बुद्धो भवेयं ति प्रजान मोचकाः ॥ स्र्स्_१४.१ ॥
चीर्णोऽसि वीर्ये बहुकल्पकोटियो दाने दमे संयमि नित्यु शिक्षितः ।
शीले च क्षान्तौ तथ वीर्येऽतन्द्रितो दानं च दत्तं विपुलमनन्तकम् ॥ स्र्स्_१४.२ ॥
न चो तव मानसु जातु खिन्नं हस्तांश्च पादांस्त्यजमानु जीवितम् ।
हिरण्यसुवर्णं तथ पुत्रदारं राज्थं च त्यक्तमनपेक्ष भूत्वा ॥ स्र्स्_१४.३ ॥
शीलं तवाच्छं विमलं विशुद्धमात्मा च त्यक्तो न च शील खण्डितम् ।
कायेन वाचा मनसा सुसंवृता सुदान्तचित्ता सुगता नमोऽस्तु ते ॥ स्र्स्_१४.४ ॥
क्षान्तीरताः क्षान्तिपथे प्रतिष्ठिताः काये कृते खण्ड पि नैव क्रुध्यसे ।
क्षीरं ततः प्रस्रवि मैत्रभावना आश्चर्यभूता सुगता नमोऽस्तु ते ॥ स्र्स्_१४.५ ॥
(वैद्य ८४)
बलैरुपेता दशभिर्बलैः स्थिता असङ्गुज्ञानी विदि सर्वधर्मान् ।
करुणानि लोकहितकर धर्मस्वामिननुकम्पसे प्रजा इम अर्थकामः ॥ स्र्स्_१४.६ ॥
शून्यं ति ज्ञानं न च पुनिहास्ति सत्त्वो लोकं च दृष्ट्व तथा ति प्रनष्टमार्गम् ।
विबोधितास्ते प्रकृतिनिरात्मधर्मे विमुक्तिजाता न च क्वचि सा विमुक्तिः ॥ स्र्स्_१४.७ ॥
प्रत्यादिशं जहिय सदा प्रमत्तं जित्वा च मारं सबलमनन्तसैन्यम् ।
बुद्धित्व बोधि विपुलामनन्तज्ञानं दिशेहि धर्मं परम विशुद्धशान्तम् ॥ स्र्स्_१४.८ ॥
गगनं पतेय्या सह शशितारकेहि पृथिवी विनश्येत्सनगरशैलसंस्था ।
आकाशधातुरपि च सियान्यथात्वं नो चैव तुभ्यं वितथ भणेय्य वाचा ॥ स्र्स्_१४.९ ॥
दृष्ट्वा त्वं दुःखितान् सत्त्वानुपलम्भरताः प्रजाः ।
अनोपलम्भं देशेसि गम्भीरां शान्तशून्यताम् ॥ स्र्स्_१४.१० ॥
शिक्षितोऽसि महावीर कल्पकोटीरचिन्तिया ।
अनोपलम्भशिक्षायां स्खलितं ते न विद्यते ॥ स्र्स्_१४.११ ॥
यादृशे शिक्षितो धर्मे तादृशं धर्मु भाषसे ।
अभूमिरत्र बालानां यावन्त अन्यतीर्थिकाः ॥ स्र्स्_१४.१२ ॥
ये स्थिता आत्मसंज्ञायां ते स्खलन्ति अविद्वसु ।
ज्ञात्वा धर्माण नैरात्म्यं स्खलितं ते न विद्यते ॥ स्र्स्_१४.१३ ॥
भूतवादी महावीर भूतधर्मप्रतिष्ठितः ।
भूते सत्ये स्थितो नाथ भूतां वाचं प्रभाषसे ॥ स्र्स्_१४.१४ ॥
भूता ते चारिका आसीद्यथा ते प्रणिधिः कृतः ।
तस्य भूतस्य निष्यन्दा भूतां वाचं प्रभाषसे ॥ स्र्स्_१४.१५ ॥
भूतचर्यासु संपन्नो भूतकोटीसुशिक्षिता ।
भूताशया भूतचरी भूतप्रज्ञ नमोऽस्तु ते ॥ स्र्स्_१४.१६ ॥
(वैद्य ८५)
समस्ते प्रज्ञया नास्ति ज्ञानवादि प्रभाकर ।
ज्ञाने विशेषतां प्राप्त ज्ञानवादि नमोऽस्तु ते ॥ स्र्स्_१४.१७ ॥
मित्रस्त्वं सर्वसत्त्वानां मैत्री तव सुभाविता ।
अप्रकम्प्यो यथा मेरुरचलः सुप्रतिष्ठितः ॥ स्र्स्_१४.१८ ॥
गणे सुविपुले शास्तुर्गणान् संपरिकर्षसि ।
गभीरप्रज्ञा सुगता नदसे परिषद्गता ॥ स्र्स्_१४.१९ ॥
सिंहनादं नदि बुद्धः सिंहविक्रान्तविक्रमः ।
जितास्ते तीर्थिकाः सर्वे सिंहेन क्रोष्टुका यथा ॥ स्र्स्_१४.२० ॥
अदान्तदमको वीर अदान्ता दमितास्त्वया ।
ते च मित्रा दृढा भोन्ति अभेद्या भोन्ति सुस्थिताः ॥ स्र्स्_१४.२१ ॥
दृष्ट्वा त्वं दुःखितान् सत्त्वानात्मदृष्टिसमाश्रितान् ।
नैरात्म्य धर्मं देशेमि यत्र नास्ति प्रियाप्रियम् ॥ स्र्स्_१४.२२ ॥
अशिक्षितानां बालानां कुमार्गपथचारिणाम् ।
मार्गं त्वं संप्रकाशेसि येन गच्छन्ति नायकाः ॥ स्र्स्_१४.२३ ॥
ये स्थिता आत्मसंज्ञायां दुःखे ते सुप्रतिष्ठिताः ।
न ते जानन्ति नैरात्म्यं यत्र दुःखं न विद्यते ॥ स्र्स्_१४.२४ ॥
अखिलितपदधर्मदेशकोऽसि स्खलितु न लभ्यति लोकनाथ ।
अवितथ गिर संप्रभाषसे त्वं दुःखमोक्षकरा नमस्ते नाथ ॥ स्र्स्_१४.२५ ॥
बहुनियुतशता सहस्रकोट्यो गगनस्थिताः पृथु देवनागयक्षाः ।
सर्विं स्पृह जनेन्ति नायकस्मिन् भगवतु वाच श्रुणित्व अर्थयुक्ताम् ॥ स्र्स्_१४.२६ ॥
स्निग्धमृदुमनोज्ञकालयुक्तां सुमधुर वाच प्रणीत प्रेमणीयाम् ।
अपरिमितस्वराङ्गसंप्रयुक्तां हितकर मोक्षकरीं बहुजनस्य ॥ स्र्स्_१४.२७ ॥
तुरियशतसहस्र अप्रमेया सुमधुर युक्त भवेयुरेककाले ।
(वैद्य ८६)
दिव्यस्वर विशिष्ट प्रेमणीया अभिभवति सुगतस्य एकवाचा ॥ स्र्स्_१४.२८ ॥
द्विजगणकलविङ्कमञ्जुधोषाः सुरुचिर प्रेमणीयाः सुगीतशब्दाः ।
शङ्खपटहभेरिवीणशब्दाः कलमपि न लभन्तिः बुद्धशब्दे ॥ स्र्स्_१४.२९ ॥
परभृतशुकशारिकाण शब्दास्तथ पुनः क्रौञ्चमयूरकिन्नराणाम् ।
रुत रवित य केचि प्रेमणीयाः कलमपि बुद्धस्वरस्य नानुभोन्ति ॥ स्र्स्_१४.३० ॥
प्रिय मधुर मनोज्ञ प्रेमणीयाः सुमधुर शान्तगिरा प्रशंसनीयाः ।
सर्वि गिर प्रयुक्त एककाले गिरवर हर्षणियास्तथागतस्य ॥ स्र्स्_१४.३१ ॥
सुरमनुजनरेन्द्रदानवानां सकलभवे त्रिभवे य अस्ति सत्त्वाः ।
या प्रभा अभवत्प्रभाकराणामभिभवति सुगतस्य एकरश्मिः ॥ स्र्स्_१४.३२ ॥
कुसुमितु सुगतस्य आत्मभावः परिवृतु विचित्रु सर्वलक्षणैः ।
पुण्यशतनिर्वृतु अच्छ शुद्धः प्रतपति सर्वजगे जिनस्य कायः ॥ स्र्स्_१४.३३ ॥
शङ्खान शब्द पणवसुघोषकाणां भेरीण शब्द तथपि च किम्पलानाम् ।
सर्वे च शब्द सुमधुर प्रेमणीया बुद्धस्य शब्दे शतिम कलां न भोन्ति ॥ स्र्स्_१४.३४ ॥
तूर्याण कोटिनियुतसहस्रशब्दा आस्वादनीय सुमधुर दिव्यकल्पाः ।
प्रामोदनीय मरुगण अप्सराणां बुद्धस्य शब्दे शतिम कलां न भोन्ति ॥ स्र्स्_१४.३५ ॥
(वैद्य ८७)
क्रौञ्चा मयूर परभृत चक्रवाका हंसाः कुणाला बहुविधपक्षिसंघाः ।
ये ते सशब्दाः सुमधुर एककाले बुद्धस्य शब्दे शतिम कलां न भोन्ति ॥ स्र्स्_१४.३६ ॥
नागान यक्षाण असुरमहोरगाणां देवेन्द्रब्रह्ममरुपतीनां च शब्दाः ।
यावन्त शब्दास्त्रिभवे मनोज्ञ कान्ता बुद्धस्वरस्य कलमपि ते न भोन्ति ॥ स्र्स्_१४.३७ ॥
या ब्रह्मणो वा मरुपतिनश्च आभा प्रभास्वराणां मणिरतनान आभाः ।
सर्वा य आभा विविधमनेकरूपाः सर्वास्त एका अभिभवि बुद्धरश्मिः ॥ स्र्स्_१४.३८ ॥
कायेन शुद्धो वचसा मनेन चैव ज्ञानेन शुद्धस्त्रिभवि अनोपलिप्तः ।
गुणसारराशि गुणरतनो नरेन्द्रः सर्वगुणेहि असमसमः स्वयंभूः ॥ स्र्स्_१४.३९ ॥
एवं स्तवित्वा दशबल सत्यवादिं वाचं प्रभाषि मुदितमनः कुमारः ।
पूजित्व बुद्धमतुलियमप्रमेयं बुद्धो भवेय यथ इव शाक्यसिंहः ॥ स्र्स्_१४.४० ॥
तस्यो विदित्वा सुगतु विशिष्ट चर्यामसङ्गज्ञानी स्मितमकरोन्नरेन्द्रः ।
मैत्रेयु पृच्छी दशबलज्येष्ठपुत्रं कस्यार्थि एतं स्मितु कृतु नायकेन ॥ स्र्स्_१४.४१ ॥
आकम्पिताभूद्वसुमति षड्विकारं देवाश्च नाग गगनस्थिता उदग्राः ।
प्रेक्षन्ति बुद्धं प्रमुदित हृष्टचित्तास्तं व्याकरोहि सुगत अनाभिभूतः ॥ स्र्स्_१४.४२ ॥
अभूमिरस्मि भगवतु श्रावकाणां यत्र प्रवृत्तं पुरुषवरस्य ज्ञानम् ।
सुविशुद्धज्ञानिन्ननुपमप्रज्ञभूमि अखिला ते स्मितु कृतु जिन कस्य अर्थे ॥ स्र्स्_१४.४३ ॥
(वैद्य ८८)
पृच्छमि दशबलं विनायकं शाक्यसिंह द्विपदानमुत्तमम् ।
ज्ञानपारमिं गतं प्रभाकरं रागद्वेषखिलमोहसादकम् ॥ स्र्स्_१४.४४ ॥
कल्पकोटि चरितोऽसि नायको गङ्गवालुकसमास्ततोत्तरम् ।
एषमाणु वरबोधिमुत्तमां कस्य अर्थि स्मितु एतु दर्शितम् ॥ स्र्स्_१४.४५ ॥
हस्तपाद परिकृत्त शास्तुना पुत्रदार प्रियज्ञाति बान्धवान् ।
एषमाणु वरज्ञानमुत्तमं को नु हेतु स्मितदर्शने मुने ॥ स्र्स्_१४.४६ ॥
अश्वहस्तिरथपत्तियो त्वया दासदासिमणिरत्न रूप्यकम् ।
नैव द्रव्यरतनं च लभ्यते यन्न त्यक्तु चरता ति चारिकाम् ॥ स्र्स्_१४.४७ ॥
ज्ञानु श्रेष्ठु त्रिभवेऽतिवर्तते सर्वसत्त्वचरियां प्रजानसे ।
धातुचित्तु अधिमुक्तिकोविदा कस्य अर्थि स्मितु एतु दर्शितम् ॥ स्र्स्_१४.४८ ॥
केन पूजित नराणमुत्तमाः कस्य वार्थ विपुलो भविष्यति ।
को च अस्य चरियाय ग्राहकः कस्य अर्थि स्मितु दर्शितं मुने ॥ स्र्स्_१४.४९ ॥
षड्विकार पृथिवी प्रकम्पिता पद्मकोट्य धरणीतु उत्थिताः ।
कोटिपत्रपरमा प्रभास्वरा हेमवर्णरुचिरा मनोरमा ॥ स्र्स्_१४.५० ॥
यत्रिमे स्थित जिनस्य औरसा बोधिसत्त्व परमा महर्द्धिकाः ।
धर्मभाणक बहू समागतास्तेष कारुणिक पृच्छि नायकम् ॥ स्र्स्_१४.५१ ॥
(वैद्य ८९)
भेरिशङ्खतुणवाः सुघोषकास्तूर्य कोटिनियुताः प्रवादिताः ।
तेष शब्द गगनस्मि श्रूयते यादृशः सुगतघोष अचिन्तियः ॥ स्र्स्_१४.५२ ॥
हंसक्रौञ्चकलविङ्ककोकिलाः पक्षिसंघ बहुकाः समागताः ।
मुञ्चि घोष परमं प्रभास्वरं बुद्धघोषकल नानुभोन्ति ते ॥ स्र्स्_१४.५३ ॥
केन दान दम संयमः पुरे कल्पकोटि बहुका निषेविताः ।
केन पूजित नराण उत्तमा कस्य अर्थि स्मितु एतु दर्शितम् ॥ स्र्स्_१४.५४ ॥
केन पूर्वि द्विपदेन्द्रु पृच्छितो गौरवं परमु संजनित्वन ।
बुद्धबोधि कथमेष लभ्यते कस्य अर्थि स्मितु एतु दर्शितम् ॥ स्र्स्_१४.५५ ॥
यात्तिका दशबला अतीतकाः प्रत्युत्पन्न सुगता अनागताः ।
सर्व जानसि नराणमुत्तमो तेन पृच्छमि प्रजाय कारणात् ॥ स्र्स्_१४.५६ ॥
चित्तसंतति प्रजाय जानते सर्वि प्राणिन अनन्तगोचराः ।
यस्य यादृशु नरस्य आशयस्तेन पृच्छमि नराणमुत्तमम् ॥ स्र्स्_१४.५७ ॥
ये चरन्ति चरियामनुत्तमां हेतुयुक्तिविनयस्मि कोविदाः ।
बुद्धज्ञान कथमेतु लभ्यते एतदर्थि द्विपदेन्द्रु पृच्छिहम् ॥ स्र्स्_१४.५८ ॥
ये हि धर्म सुखुमाः सुदुर्दृशाः शून्य शान्त अतुला अचिन्तियाः ।
भाविता दशबलान गोचरास्तेष अर्थ अहु पृच्छि नायकम् ॥ स्र्स्_१४.५९ ॥
(वैद्य ९०)
येष मैत्रि करुणा सुभाविता सर्वप्राणिषु जगे अचिन्तिया ।
सत्त्वसंज्ञ न च येष वर्तते तेष अर्थि द्विपदेन्द्रु पृच्छियाम् ॥ स्र्स्_१४.६० ॥
येष ज्ञानमतुलमचिन्तियं तेष ग्राह्य न कदाचि विद्यते ।
चित्तगोचरिय पारमिं गता तेष अर्थि अहु नाथ पृच्छमि ॥ स्र्स्_१४.६१ ॥
शीलज्ञानगुणपारमिं गता त्र्यध्वज्ञानमतुलं भिवर्तते ।
नैव तुभ्य स्खलितूपलभ्यते कस्य अर्थि स्मितु एतु दर्शितम् ॥ स्र्स्_१४.६२ ॥
शारिपुत्र अनिरुद्ध कोलिता ये च अन्य सुगतस्य श्रावकाः ।
नैव तेष इह ज्ञानु वर्तते बुद्धगोचरु अयं निरूत्तरः ॥ स्र्स्_१४.६३ ॥
सर्वधर्मवशिपारमिं गताः सर्वशिक्षचरियाय उद्गताः ।
संजनेत्व करुणां विनायका मुञ्च घोष परमार्थकोविदा ॥ स्र्स्_१४.६४ ॥
येऽपि पूर्व बहुकल्पकोटियो एव चिन्ति द्विपदेन्द्रु पृच्छितः ।
भष्यमग्रु शरणं परायणं तेष अद्य फल ब्रूहि नायका ॥ स्र्स्_१४.६५ ॥
यक्षराक्षसकुम्भाण्डगुह्यकाः प्रेक्षमाण द्विपदानमुत्तमम् ।
सर्वि प्राञ्जलिस्थिताः सगौरवाः श्रोतु व्याकरणमग्रपुद्गलान् ॥ स्र्स्_१४.६६ ॥
(वैद्य ९१)
बोधिसत्त्व बहवोऽद्य आगता ऋद्धिमन्त बहुक्षेत्रकोटिभिः ।
जेष्ठपुत्र सुगतस्य औरसाः सर्वि प्राञ्जलिस्थिताः सगौरवाः ॥ स्र्स्_१४.६७ ॥
गन्धहस्ति पुरिमादिशा गतोऽक्षोभ्यक्षेत्र दिशि लोकविश्रुतः ।
बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना ॥ स्र्स्_१४.६८ ॥
सुखावतीय वरलोकधातुतो महास्थाम प्राप्त अवलोकितेश्वरः ।
बोधिसत्त्वनयुतैः पुरस्कृतः शाक्यसिंहु द्विपदेन्द्रु पृच्छना ॥ स्र्स्_१४.६९ ॥
येन पूर्व बहुकल्पकोटियो अप्रमेय सुगता उपस्थिताः ।
सागराण सकला च वालिका एषता परम ज्ञानमुत्तमम् ॥ स्र्स्_१४.७० ॥
सर्वबुद्धस्तुत संप्रशंसितः सर्वधर्मगुणपारमिं गतः ।
सर्वलोकदिशतासु विश्रुतो मञ्जुघोष स्थितु प्राञ्जलीकृतः ॥ स्र्स्_१४.७१ ॥
बुद्धक्षेत्रनियुतैश्चरित्वना सुदुर्लभमीदृशकान दर्शनम् ।
बुद्धपुत्रगुणवत्सुशिक्षिताः सर्वि प्राञ्जलिस्थिताः सगौरवाः ॥ स्र्स्_१४.७२ ॥
नास्ति अन्य इह कश्चि भाजनमेवरूपि यथ एत सूरताः ।
धर्मकोषधर सर्वशास्तुनां स्निग्धभाव गिर मुञ्च नायका ॥ स्र्स्_१४.७३ ॥
न ह्यकारणक जिना विनायका दर्शयन्ति स्मितमग्रपुद्गलाः ।
मुञ्च घोषवर दुन्दुभिस्वर कस्य अर्थि स्मितु एतु दर्शितम् ॥ स्र्स्_१४.७४ ॥
(वैद्य ९२)
हंसकोकिलमयूरसारसा मेघनाद वृषभाः प्रगर्जिताः ।
दिव्यवाद्यमधुराः प्रवादिता व्याकरोहि गिर सत्त्वमोचनी ॥ स्र्स्_१४.७५ ॥
मैत्रसंजननि प्रेमवर्धनी ज्ञानदर्शनि अविद्यरिञ्चनी ।
अर्थतीरणि प्रज्ञाविवर्धनी कल्पकोटिनियुता विशोधनी ॥ स्र्स्_१४.७३ ॥
विनिश्चितभावविभावितदुःखनिरोधपदार्थनिदर्शनी ।
सर्वकुतीर्थकवादध्वंसनी शून्य निसत्त्व निजीव विभावनि ॥ स्र्स्_१४.७७ ॥
पुण्यसहस्रशतेहि अलंकृतः बुद्धसहस्रशतेहि चरित्विह ।
देवसहस्रशतेहि सुसंस्तुतः ब्रह्मसहस्रशतेहि नमस्कृतः ॥ स्र्स्_१४.७८ ॥
राक्षसयक्षकुम्भाण्डप्रसादनि नागसुपर्णमहोरगमोचनि ।
नित्यमसक्तप्रयुक्तौदीरणि कर्मफलेहि शुभेहि समुद्गतः ॥ स्र्स्_१४.७९ ॥
ये च केचि जिनाः परिनिर्वृता ये च अनागत ये च अवस्थिताः ।
सर्वि प्रजानसि सङ्गु न तेऽस्तीति सर्वगुणेहि समुद्गत नायक ॥ स्र्स्_१४.८० ॥
भूतधरा ससमुद्रपर्वत सर्वि मही षड्विकार प्रकम्पिता ।
देवगणा नभि पुष्प क्षिपन्ति च दिव्यु प्रवायति गन्धु मनोरमु ॥ स्र्स्_१४.८१ ॥
हतरागदोषतिमिरा निखिला परिशुद्धशील परिशुद्धमनाः ।
(वैद्य ९३)
प्रशान्त शून्य अनिमित्तरता नरसिंहनादु नद कारुणिका ॥ स्र्स्_१४.८२ ॥
प्रतिभानवन्त सुविशालयशा सुसमाप्तप्रज्ञ तथज्ञान जिना ।
तव लोकि नास्ति समु कारुणिका भण कस्यु अर्थि स्मितु दर्शयसे ॥ स्र्स्_१४.८३ ॥
कलविङ्ककोकिलमयूररवास्तथ जीवंजीवं जीवकमनोज्ञरुताः ।
रञ्जनीय शब्दु भुवि एकक्षणे कल तेन भोन्ति सुगतस्य स्वरे ॥ स्र्स्_१४.८४ ॥
भेर्यो मृदङ्गपणवाश्च तथा शङ्ख सवेणु तथा वल्लरियो ।
तूर्यासहस्र सिय एकरवाः कल नानुभोन्ति सुगतस्य रुते ॥ स्र्स्_१४.८५ ॥
तूर्यसहस्र वर दिव्यरुता रञ्जनीय गीत सिय अप्सरसाम् ।
सुगीति शब्दरति संजने कल न भोन्ति सुगतस्य रुते ॥ स्र्स्_१४.८६ ॥
एकस्वरा तु तव लोकहिता नानाधिमुक्ति स्वरु निश्चरति ।
एकैकु मन्यि मम भाषि जिनो ब्रूहि स्मितं ति कृतु कस्य कृते ॥ स्र्स्_१४.८७ ॥
देवान शब्द तथ नागरुता ये चापि किन्नररुता मधुराः ।
प्रशमेन्ति क्लेश न कदाचिदपि बुद्धस्वरास्तु सद क्लेशनुदाः ॥ स्र्स्_१४.८८ ॥
प्रीतिं जनेति न च रागरतिं मैत्रीं जनेति न च दोषमतिम् ।
प्रज्ञां जनेति न च मोहरतिं बुद्धान सर्व मलनाशि स्वरः ॥ स्र्स्_१४.८९ ॥
न बहि च शब्दु परिषातु प्रजा सर्वेष छिन्दति स काङ्क्षशतान् ।
(वैद्य ९४)
न च ओनतो न हि च औन्नमतो समसौख्यदर्शन स्वरो मुनिनः ॥ स्र्स्_१४.९० ॥
भज्यादियं मही सशैलरणा क्षीयते सागरजलं च तथा ।
चन्द्रोऽथ सूर्यु धरणीं प्रपतेद्गिरमन्यथा न पुन भाषि जिनः ॥ स्र्स्_१४.९१ ॥
सर्वाङ्गवाक्य परिशुद्धगिरा सिंहस्वरा मधुरमञ्जगिरा ।
ब्रह्मस्वरा सुगत कारुणिका भण कस्य अर्थि स्मितु दर्शयसे ॥ स्र्स्_१४.९२ ॥
यावन्त सत्त्व इह सर्व जगे सर्वेष चित्त चरते कुशलः ।
ये अतीतनागत ये सांप्रतिका भण कस्य अर्थि स्मितु दर्शयसे ॥ स्र्स्_१४.९३ ॥
यावन्त केचिज्जिन कारुणिका ज्ञानस्मि सर्वि वशि पारमिं गताः ।
न च ते जिना विमलचन्द्रमुखा नाहैतुकं स्मित सद दर्शयसे ॥ स्र्स्_१४.९४ ॥
अपि कल्पकोटि भणि अप्रतिमा यथ गङ्गवालिक भणेय्य गुणान् ।
न च शक्यु कीर्तितु प्रमाणु गुणे भण कस्य अर्थि स्मितु दर्शयसे ॥ स्र्स्_१४.९५ ॥

इति श्रीसमाधिराजे स्मितसंदर्शनपरिवर्तश्चतुर्दशः ॥ १४ ॥


(वैद्य ९५)
१५ स्मितव्याकरणपरिवर्तः ।

अथ खलु भगवांस्तस्यां वेलायां मैत्रेयं बोधिसत्त्वं महासत्त्वमाभिः सारूप्याभिर्गाथाभिः प्रत्यभाषत

चन्द्रप्रभो एष कुमारभूतः संस्तुत्य बुद्धमतुलीय प्रीतिया ।
भाषित्व बुद्धान विशिष्ट वर्णं प्रशंसनीयः सद कालि भेष्यति ॥ स्र्स्_१५.१ ॥
इहैव चो राजगृहस्मि पूर्वं दृष्ट्वैव बुद्धान सहस्रकोटयः ।
सर्वेष चानेन जिनान अन्तिके अयं वरः शान्तसमाधि पृच्छितः ॥ स्र्स्_१५.२ ॥
सर्वत्र चो एष ममासि पुत्रो इमां चरन्तो वरबोधिचारिकाम् ।
सर्वत्र चासीत्प्रतिभानवन्तः सर्वत्र चासीत्सद ब्रह्मचारी ॥ स्र्स्_१५.३ ॥
स पश्चिमे कालि महाभयानके त्वमेव साक्षी अजिता ममात्र ।
स्थिहित्व शुद्धे सद ब्रह्मचर्ये वैस्तारिकमेष समाधि काहिते ॥ स्र्स्_१५.४ ॥
समाधिमेषन्तु इदं प्रणीतमेतेन मार्गेण स बोधि लप्स्यते ।
परिगृहीतो बहुबुद्धकोटिभिः पूजां वरां काहिति नायकानाम् ॥ स्र्स्_१५.५ ॥
ज्ञाने स्थिहित्वा अहु व्याकरोमि चन्द्रप्रभस्याचरितं विशिष्टम् ।
न पश्चकालेऽस्य भवेऽन्तरायो न ब्रह्मचर्यस्य न जीवितस्य ॥ स्र्स्_१५.६ ॥
हस्ते यथा आमलकानि पञ्च प्रजानाति बुद्धसहस्रकोटयः ।
(वैद्य ९६)
तदुत्तरे यात्तिक गङ्गवालिका अनागता येष्विय पूजना होति ॥ स्र्स्_१५.७ ॥
देवान नागान अशीतिकोटयः यक्षाण चो कोटिसहस्र सप्ततिः ।
औत्सुक्यमेषन्ति य पश्चकाले पूजां करोन्ता द्विपदोत्तमानाम् ॥ स्र्स्_१५.८ ॥
स पूज कृत्वा द्विपदान उत्तमान् समुदाचरि ज्ञानमिमं निरुत्तरम् ।
स पश्चिमे चोच्छ्रयि लोकनाथो विमलप्रभो नाम जिनो भविष्यति ॥ स्र्स्_१५.९ ॥
इदं स्वकं व्याकरणं श्रुतित्वा प्रीतिस्फुटो आसि कुमारभूतः ।
चन्द्रप्रभो उद्गत सप्त ताल उदानुदानेति नभे स्थिहित्वा ॥ स्र्स्_१५.१० ॥
अहो जिना उत्तमधर्मदेशका विमुक्तिज्ञानाधिपतीबले स्थिता ।
सुनिश्चिते उत्तमज्ञानि तिष्ठसि अनाभिभूतोऽसि परप्रवादिभिः ॥ स्र्स्_१५.११ ॥
विवर्जिता सङ्ग विमुक्ति स्पर्शिता विभावितं वस्तु भवे न सज्जसि ।
प्रपञ्च सर्वे सकला न भोन्ति ते असङ्गज्ञानं त्रिभवेऽभिवर्तते ॥ स्र्स्_१५.१२ ॥
सर्वप्रपञ्चेभिरनोपलिप्ता दृष्टिः प्रपञ्चाः सकलाः प्रहीणाः ।
सुभाविअते मार्ग निकेतु नास्ति अनाभिभूता अविरुद्ध केनचित ॥ स्र्स्_१५.१३ ॥
निकेतु त्रैधातुकि नास्ति तुभ्यमोघाश्च ग्रन्थाश्च प्रहीण सर्वे ।
तृष्णालताबन्धन सर्वि छिन्ना भव प्रहीणो भवसंघि नास्ति ॥ स्र्स्_१५.१४ ॥
(वैद्य ९७)
स्वभावु धर्माणमभावु जानसे अनाभिलप्या गिर संप्रभाषसे ।
सिंहेन वा क्रोष्टुक तीर्थ नाशिता ये ते विपर्यासस्थिता अविद्वसु ॥ स्र्स्_१५.१५ ॥
निधान श्रेष्ठं मयि लब्धमद्य धर्मं निधानं सुगतेन देशितम् ।
प्रहीण सर्वा विनिपातु दुर्गति काङ्क्षा न मेहास्ति भविष्य नायकः ॥ स्र्स्_१५.१६ ॥
मूर्धस्मि पाणिं प्रतिस्थापयित्वा सुवर्णवर्णं रुचिरं प्रभास्वरम् ।
अभिषिञ्च बोधाय नरर्षभस्तं सदेवकं लोक स्थपेत्व साक्षिणम् ॥ स्र्स्_१५.१७ ॥

इति श्रीसमाधिराजे स्मितव्याकरणपरिवर्तो नाम पञ्चदशः ॥ १५ ॥


(वैद्य ९८)
१६ पूर्वयोगपरिवर्तः ।

स्मरामि पूर्वं चरमाणु चारिकां सिंहध्वजस्य सुगतस्य शासने ।
अभूषि भिक्षु विदु धर्मभाणको नामेन सो उच्यति ब्रह्मदत्तः ॥ स्र्स्_१६.१ ॥
अहं तदासीन्मति राजपुत्रो आबाधिको बाढ गिलान दुःखितः ।
मह्यं च सि आचरियो अभूषि यो ब्रह्मदत्तस्तद धर्मभाणकः ॥ स्र्स्_१६.२ ॥
पञ्चोत्तरा वैद्यशता अनूनका व्याधिं चिकित्सन्ति उद्युक्तमानसाः ।
व्याधिं न शक्नन्ति मम चिकित्सितुं सर्वे मम ज्ञातय आसि दुःखिताः ॥ स्र्स्_१६.३ ॥
श्रुत्वा च गैलान्यु स मह्य भिक्षु गिलानपृच्छो मम अन्तिकागतः ।
कृपां जनेत्वा मम ब्रह्मदत्तो इमं समाधिं वरु तत्र देशयी ॥ स्र्स्_१६.४ ॥
तस्य ममा एतु समाधि श्रुत्वा उत्पन्न प्रीति अरिया निरामिषा ।
स्वभावु धर्माण प्रजानमानो उच्छ्वासि व्याधी तुहु तस्मि काले ॥ स्र्स्_१६.५ ॥
दीपंकरः सो चरमाणु चारिकामभूषि भिक्षुर्विदु धर्मभाणकः ।
अहं च आसीन्मतिराजपुत्रः समाधिज्ञानेन हु व्याधि मोचितः ॥ स्र्स्_१६.६ ॥
तस्मात्कुमारा बहु पश्चकाले अनुस्मरन्तो इमु पारिहाणिम् ।
सहेसि बालान दुरुक्त वाक्यं धारेन्तु वाचेन्तु इमं समाधिम् ॥ स्र्स्_१६.७ ॥
(वैद्य ९९)
भेष्यन्ति भिक्षु बहु पश्चकाले लुब्धाश्च दुष्टाश्च असंयताश्च ।
पापेच्छ अध्योषित पात्रचीवरे प्रतिक्षिपिष्यन्ति इमं समाधिम् ॥ स्र्स्_१६.८ ॥
ईर्ष्यालुका उद्धत प्राकटेन्द्रियाः कुलेषु चाध्योषित लाभकामाः ।
प्रायोगिके संस्तवि नित्य संश्रिताः प्रतिक्षिपिष्यन्ति इमं समाधिम् ॥ स्र्स्_१६.९ ॥
हस्तांश्च पादांश्च तथ विद्यमाना हास्ये च लास्ये च सदा प्रयुक्ताः ।
परस्परं कण्ठित श्लिष्यमाणा ग्रामेषु चर्यापथि अन्यु भेष्यति ॥ स्र्स्_१६.१० ॥
अयुक्तयोगानिमि भोन्ति लक्षणाः परकुमारीषु च नित्य ध्योषिताः ।
रूपेण रक्ता ग्रथिता भवन्ति हिण्डन्ति ग्रामान्निगमांश्च राष्ट्रान् ॥ स्र्स्_१६.११ ॥
ते खाद्यपेयस्मि सदा प्रयुक्ता नाट्ये य गीते च तथैव वादिते ।
क्रयविक्रये चो सद भोन्ति उत्सुकाः पानेऽपि चाध्योषित नष्टलज्जाः ॥ स्र्स्_१६.१२ ॥
लेखान पिष्यन्ति अयुक्तयोगाः शीलं तथेर्यापथु छोरयित्वा ।
मर्याद भिन्दित्व गृहीभि सार्धं ते भिन्नवृत्ता वितथप्रतिष्ठिताः ॥ स्र्स्_१६.१३ ॥
ये कर्म बुद्धेहि सदा विवर्जितास्तुलमानकूटे च सदा प्रयुक्ताः ।
तत्कर्म कृत्वान किलिष्टपापकानपायु यास्यन्ति निहीनकर्माः ॥ स्र्स्_१६.१४ ॥
प्रभूतवित्तं मणिहेमशंखं गृहांश्च ज्ञातींश्च विहाय प्रव्रजि ।
(वैद्य १००)
ते प्रव्रजित्वानिह बुद्धशासने पापानि कर्माणि सदाचरन्ति ॥ स्र्स्_१६.१५ ॥
धने च धान्ये च ते सारसंज्ञिनो धेनूश्च गावः शकटानि सज्जयी ।
किमर्थ तेहि इम केश छोरिता शिक्षाय येषां प्रतिपत्ति नास्ति ॥ स्र्स्_१६.१६ ॥
मया च पूर्वे चरियां चरित्वा सुदुष्करं कल्पसहस्र चीर्णम् ।
अयं च मे शान्त समाधिरेषितो यत्तेष श्रुत्वा तद हास्यु भेष्यति ॥ स्र्स्_१६.१७ ॥
चिरं मृषावादि अब्रह्मचारिणो अपायनिम्नाः सद कामलाभाः ।
ते ब्रह्मचारीण ध्वजं गृहीत्वा दुःशील वक्ष्यन्ति न एष धर्मः ॥ स्र्स्_१६.१८ ॥
भेदाय स्थास्यन्ति च ते परस्परमयुक्तिभिर्लाभ गवेषमाणाः ।
अवर्ण भाषित्व त अन्यमन्यं च्युता गमिप्यन्ति अपायभूमिम् ॥ स्र्स्_१६.१९ ॥
शतःसहस्रेषु सुदुर्लभास्ते क्षान्तीबलं येषु तदा भविष्यति ।
अतो बहू ये कलहस्मि उत्सुकाः प्रपञ्च काहिन्ति जहित्व क्षान्तिम् ॥ स्र्स्_१६.२० ॥
वक्ष्यन्ति वाचा वय बोधिसत्त्वाः शब्दोऽपि तेषां व्रजि देशदेशे ।
अभूतशब्देन मदेन मत्ता विपन्नशीलान कुतोऽस्ति बोधिः ॥ स्र्स्_१६.२१ ॥
न मे श्रुतं नापि कदाचि दृष्टमध्याशयो यस्य विशुद्ध नास्ति ।
इमेषु धर्मेषु च नास्ति क्षान्तिः स लप्स्यते बोधि क्षिपित्व धर्मान् ॥ स्र्स्_१६.२२ ॥
(वैद्य १०१)
भीताश्च त्रस्ताश्च गृहं त्यजन्ति ते प्रव्रजि दृढतरा भवन्ति ।
विशेषकामा विलयं प्रयान्ति क्षिपित्व यानं पुरुषोत्तमानाम् ॥ स्र्स्_१६.२३ ॥
निहीनप्रज्ञा गुणविप्रहीना वक्ष्यन्ति दोषं सद अग्रयाने ।
यस्मै च ते तच्छरणं प्रपन्नास्तत्रैव ये दोषशतान् वदन्ति ॥ स्र्स्_१६.२४ ॥
आजीवका ये बहु प्रव्रजित्वा अनर्थिकाः सर्वसुबुद्धबोधये ।
ते आत्मदृष्टीय स्थिहित्व बाला उत्त्रस्त भेष्यन्ति श्रुणित्व शून्यताम् ॥ स्र्स्_१६.२५ ॥
विहारु कृत्वान त अन्यमन्यं व्यापाददोषांश्च खिलं जनेत्वा ।
अभ्याख्य दत्वा च परस्परेण लप्स्यन्ति प्रामोद्य करित्व पापकम् ॥ स्र्स्_१६.२६ ॥
यः शीलवन्तो गुणवन्तु भेष्यति मैत्रीविहारी सद क्षान्तिकोविदः ।
सुसंवृतो मार्दवसूरतश्च परिभूत सो भेष्यति तस्मि काले ॥ स्र्स्_१६.२७ ॥
यो खो पुनर्भेष्यति दुष्टचित्तः सुदारुणो रौद्रातिहीनकर्मा ।
अधर्मचारी कलहे रतश्च स पूजितो भेष्यति तस्मि काले ॥ स्र्स्_१६.२८ ॥
आरोचयामि प्रतिवेदयामि सचेत्कुमारा मम श्रद्ध गच्छसि ।
इमां स्मरित्वा सुगतानुशासनीं मा जातु विश्वस्तु भवेसि तेषाम् ॥ स्र्स्_१६.२९ ॥
ते तीव्ररागास्तथ तीव्रदोषास्ते तीव्रमोहाः सद मानमत्ताः ।
(वैद्य १०२)
अदान्तकायाश्च अदान्तवाचः अदान्तचित्ताश्च अपायनिम्नाः ॥ स्र्स्_१६.३० ॥
अहं च भाषेय्य गुणान वर्णान्न चो गुणान् भिक्षु समाचरेय्या ।
न घोषमात्रेण च बोधि लभ्यते प्रतिपत्तिसाराण न बोधि दुर्लभा ॥ स्र्स्_१६.३१ ॥

इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम षोडशः ॥ १६ ॥


(वैद्य १०३)
१७ बहुबुद्धनिर्हारसमाधिमुखपरिवर्तः ।

अथ खलु भगवांस्तां महतीं सागरोपमां पर्षदं धर्मकथया संदर्श्य समुत्तेज्य संप्रहर्ष्य समादाप्य उत्थायासनात्प्राक्रामत् । येन च गृध्रकूटपर्वतराजस्तेनैव उपसमक्रामत् । उपसंक्रम्य च प्रज्ञप्त एवासने न्यषीदत् । भिक्षुसंघपरिवृतो देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगमनुष्यामनुष्यनमस्कृतः सागरोपमायां पर्षदि धम संदेशयति स्म । अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तं निर्गतं विदित्वा अशीत्या प्राणिकोटीशतैः सार्धं सर्वैर्देवभूतैरन्यलोकधात्वागतैश्च संबहुलैर्बोधिसत्त्वमहासत्त्वनियुतैः सार्धं पुष्पधूपगन्धमाल्यविलेपनं गृहीत्वा तूर्यशतैर्वाद्यमानैश्छत्रध्वजघण्टापताकाभिरत्युच्छ्रिताभिः महामाल्याभिनिर्हारमादाय भगवतः पूजाकर्मणे येन गृध्रकूटपर्वतो येन च भगवांस्तेनोपजगाम । उपेत्य च भगवतः पादौ शिरसाभिवन्द्य भगवन्तं त्रिः प्रदक्षिणीकृत्य तैः पुष्पधूपगन्धमाल्यविलेपनैस्तूर्यतालावचरैः प्रवाद्यमानैर्महतीं पूजां कृत्वा एकान्ते न्यषीदत्सगौरवः सप्रतीशो धर्मपरिपृच्छायै ॥

अथ खलु चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् पृच्छेयमहं भगवन्तं तथागतमर्हन्तं सम्यक्संबुद्धं कंचिदेव प्रदेशं सचेन्मे भगवानवकाशं कुर्यात्पृष्टप्रश्नव्याकरणाय । एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् पृच्छ त्वं कुमार तथागतमर्हतं सम्यक्संबुद्धं यद्यदेवाकाङ्क्षसि । नित्यकृतस्ते कुमार तथागतेनावकाशः । एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् कतिभिर्भगवन् धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते? एवमुक्ते भगवांश्चन्द्रप्रभं कुमारभूतमेतदवोचत् चतुर्भिः कुमार धर्मैः समन्वागतो बोधिसत्त्वः इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते । कतमैश्चतुर्भिः? इह कुमार बोधिसत्त्वो महासत्त्वः सूरतो भवति सुविसंवासो दान्तो दान्तभूमिमनुप्राप्तः । स परैराक्रुष्टो वा परिभाषितो वा दुरुक्तानां दुर्भाषितानां वचनपथानां क्षमो भवत्यधिवासनजातीयः कर्मदर्शी निहतमानो धर्मकामः । अनेन कुमार प्रथमेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमः समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः शीलवान् भवति । परिशुद्धशीलः (वैद्य १०४) अखण्डशीलः अच्छिद्रशीलः अशबलशीलः अकल्मषशीलः अच्युतशीलः अनाविलशीलः अगर्हितशीलः अभ्युद्गतशीलः अनिश्रितशीलः अपरामृष्टशीलः अनुपलम्भशीलः आर्यप्रशस्तशीलो विज्ञप्रशस्तशीलः । अनेन कुमार द्वितीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इम
समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वस्त्रैधातुके उत्त्रस्तचित्तो भवति संत्रस्तचित्तो निर्विण्णचित्तो निःसरणचित्तः । अनर्थिकः अनभिरतः अनध्यवसितः अनभिषक्तः । सर्वत्रैधातुके उद्विग्नमानसः । अन्यत्र त्रैधातुकात्सत्त्वानि मोचयिष्यामीति व्यायमते । समुदागच्छत्यनुत्तरायां सम्यक्संबोधौ । अनेन कुमार तृतीयेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्व इमं समाधिं प्रतिलभते । पुनरपरं कुमार बोधिसत्त्वो महासत्त्वः श्राद्धो भवति । अतृप्तो भवति धर्मपर्येष्ट्याम् । बहुश्रुतो भवति । विशारदो भवति । धर्मकामश्च धर्मगुरुकः । न लाभसत्कारश्लोकगुरुको न ज्ञानगुरुकः । यथाश्रुतांश्च धर्मान् यथापर्यवाप्तान् परेभ्यश्च विस्तरेण देशयति संप्रकाशयति हितवस्तुपूर्वगमेन चित्तेन न ज्ञात्रलाभकामनया । अपि तु खलु पुनः किमितीमे सत्त्वा इमान् धर्मान् श्रुत्वा अविनिवर्तनीया भवेयुरनुत्तरायाः सम्यक्संबोधेरिति । अनेन कुमार चतुर्थेन धर्मेण समन्वागतो बोधिसत्त्वो महासत्त्वः इमं समाधिं प्रतिलभते ॥

एभिः कुमार चतुर्भिर्धर्मैः समन्वागतो बोधिसत्त्वो महासत्त्व इमं सर्वधर्मस्वभावसमताविपञ्चितं समाधिं प्रतिलभते क्षिप्रं चानुत्तरां सम्यक्संबोधिभभिसंबुध्यते । तदनेनापि ते कुमार पर्यायेणैवं वेदितव्यं यथायं समाधिर्बहुबुद्धदेशितो बहुबुद्धवर्णितो बहुबुद्धसंप्रकाशितो बहुबुद्धप्रविचितः । बहूनां च बुद्धानां भगवतामन्तिकान्मया प्रव्रजित्वा अयं कुमार सर्वधर्मस्वभावसमताविपञ्चितः समाधिर्विस्तरेण श्रुत उद्गृहीतः पृष्टो धारितो वाचितः प्रवर्तितोऽरणभावनया भावितो बहुलीकृतः परेभ्यश्च विस्तरेण संप्रकाशितः । अथ खलु भगवानिममेव बहुबुद्धनिर्हारसमाधिमुखं पूर्वयोगकथानिर्देशं भूयस्या मात्रया तस्यां वेलायां चन्द्रप्रभस्य कुमारभूतस्य विस्तरेण गाथाभिगीतेन संप्रकाशयति स्म

स्मरामि कल्पेऽतुलियाप्रमेये यदा जिनो आसि स्वराङ्गघोषः ।
स्वराङ्गघोषस्य तथागतस्य वर्षं शता षष्टि अभूषि आयुः ॥ स्र्स्_१७.१ ॥
तस्यानु बुद्धो परिमेण आसीत्ज्ञानेश्वरो नाम नराणमुत्तमः ।
ज्ञानेश्वरस्य द्विपदोत्तमस्य वर्षं सहस्रा दश द्वौ च आयुः ॥ स्र्स्_१७.२ ॥
ज्ञानेश्वरस्यापि परेण बुद्धो तेजेश्वरो नाम जिनो अभूषि ।
(वैद्य १०५)
तेजेश्वरस्य द्विपदोत्तमस्य षट्सप्तती वर्षसहस्र आयुः ॥ स्र्स्_१७.३ ॥
तेजेश्वरस्योपरतेन बुद्धो मतीश्वरो नाम जिनो अभूषि ।
मतीश्वरस्य द्विपदोत्तमस्य वर्षाण कोटी परिपूर्ण आयुः ॥ स्र्स्_१७.४ ॥
मतीश्वरस्योपरतेन बुद्धो ब्रह्मेश्वरो नाम जिनो अभूषि ।
ब्रह्मेश्वरस्य द्विपदोत्तमस्य चतुर्दशो वर्षसहस्र आयुः ॥ स्र्स्_१७.५ ॥
ब्रह्मेश्वरस्योपरतेन बुद्धो अग्नीश्वरो नाम जिनो अभूषि ।
अग्नीश्वरस्य द्विपदोत्तमस्य षष्टिस्तदा वर्षसहस्र आयुः ॥ स्र्स्_१७.६ ॥
अग्नीश्वरस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि ।
ब्रह्माननस्य द्विपदोत्तमस्य रात्रिंदिवा सप्त अभूषि आयुः ॥ स्र्स्_१७.७ ॥
ब्रह्माननस्योपरतेन बुद्धो गणेश्वरो नाम जिनो अभूषि ।
गणेश्वरस्य द्विपदोत्तमस्य षड्वर्षकोट्यः परिपूर्ण आयुः ॥ स्र्स्_१७.८ ॥
गणेश्वरस्योपरतेन बुद्धो घोषेश्वरो नाम जिनो अभूषि ।
घोषेश्वरस्य द्विपदोत्तमस्य नववर्षकोट्यः परिपूर्ण आयुः ॥ स्र्स्_१७.९ ॥
घोषेश्वरस्योपरतेन बुद्धो घोषाननो नाम जिनो अभूषि ।
घोषाननस्य द्विपदोत्तमस्य दशवर्षकोट्यः परिपूर्ण आयुः ॥ स्र्स्_१७.१० ॥
(वैद्य १०६)
घोषाननस्योपरतेन बुद्धश्चन्द्राननो नाम जिनो अभूषि ।
चन्द्राननस्य द्विपदोत्तमस्य रात्रिंदिवा एक अभूषि आयुः ॥ स्र्स्_१७.११ ॥
चन्द्राननस्योपरतेन बुद्धः सूर्याननो नाम जिनो अभूषि ।
सूर्याननस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः ॥ स्र्स्_१७.१२ ॥
सूर्याननस्योपरतेन बुद्धो ब्रह्माननो नाम जिनो अभूषि ।
ब्रह्माननस्य द्विपदोत्तमस्य त्रिविंशति वर्षसहस्र आयुः ॥ स्र्स्_१७.१३ ॥
ब्रह्माननस्योपरतेन बुद्धो ब्रह्मश्रवो नाम जिनो अभूषि ।
ब्रह्मश्रवस्य द्विपदोत्तमस्य अष्टादशो वर्षसहस्र आयुः ॥ स्र्स्_१७.१४ ॥
एकस्मि कल्पस्मि इमे उपन्ना दुवे शते लोकविनायकानाम् ।
श्रुणोहि नामानिह कीर्तयिष्ये अनाभिभूतान् तथागतानाम् ॥ स्र्स्_१७.१५ ॥
अनन्तघोषश्च विघुष्टघोषो विघुष्टतेजश्च विघुःटशब्दः ।
स्वराविघुष्टश्च स्वरार्चितश्च स्वराङ्गशूरश्च स्वराङ्गशब्दः ॥ स्र्स्_१७.१६ ॥
ज्ञानाबलो ज्ञानविशेषगश्च ज्ञानाभिभूर्ज्ञानसमुद्गतश्च ।
ज्ञानार्चिमान् ज्ञानअभ्युद्गतश्च विघुष्टज्ञानस्तथ ज्ञानशूरः ॥ स्र्स्_१७.१७ ॥
ब्रह्माबलो ब्रह्मवसुः सुब्रह्म ब्रह्मा च देवस्तथ ब्रह्मघोषः ।
(वैद्य १०७)
ब्रह्मेश्वरो ब्रह्मनरेन्द्रनेत्रे ब्रह्मस्वराङ्गः स्वरब्रह्मदत्तः ॥ स्र्स्_१७.१८ ॥
तेजोबलस्तेजवतिः सुतेजाः तेजेश्वरस्तेजसमुद्रतश्च ।
तेजोविभुस्तेजविनिश्चितश्च । तेजस्वरेन्द्रः सुविघुष्टतेजाः ॥ स्र्स्_१७.१९ ॥
भीष्मो बलो भीष्ममतिः सुभीष्मो भीष्माननो भीष्मसमुद्रतश्च ।
भीष्मार्चि र्भीष्मोत्तरु र्भीष्मघोषा एते जिना लोकविनायकाऽभूत् ॥ स्र्स्_१७.२० ॥
गम्भीरघोषः शिरिधारणश्च विशुद्धघोषेश्वरु शुद्धघोषः ।
अनन्तघोषः सुविमुक्तघोषो मारो बलो मारवित्रासनश्च ॥ स्र्स्_१७.२१ ॥
सुनेत्र शुद्धाननु नेत्रशुद्धो विशुद्धनेत्रश्च अनन्तनेत्रः ।
समन्तनेत्रश्च विघुष्टनेत्रो नेत्राभिभूर्नेत्र अनिन्दितश्च ॥ स्र्स्_१७.२२ ॥
दान्तोत्तरो दान्त सुदान्तचित्तः सुदान्त शान्तेद्रिय शान्तमानसः ।
शान्तोत्तरः शान्तशिरी प्रशान्तः शान्तीय पारंगतु शान्तिशूरः ॥ स्र्स्_१७.२३ ॥
स्थितोत्तरः शान्त सुदान्तचित्तः सुदान्तशान्तेन्द्रियु शान्तमानसः ।
शान्तोत्तरः शान्तश्रिया ज्वलन्तः शान्तप्रशान्तेश्वरु शान्तिशूरः ॥ स्र्स्_१७.२४ ॥
गणेन्द्र गणमुख्यु गणेश्वरश्च गणाभिभूर्गणिवर शुद्धज्ञानी ।
महागणेन्द्रश्च गणेन्द्रशूरो अन्यो पुनो गणिवर प्रमोचकः ॥ स्र्स्_१७.२५ ॥
धर्मध्वजश्चो तथ धर्मकेतुः धर्मोत्तरो धर्मस्वभाव उद्गतः ।
(वैद्य १०८)
धर्मबलश्चैव सुधर्मशूरः स्वभावधर्मोत्तरनिश्चितश्च ॥ स्र्स्_१७.२६ ॥
स्वभावधर्मोत्तरनिश्चितस्य अशीतिकोट्यः सहनामधेयाः ।
द्वितीयकल्पस्मि उत्पन्न नायका एते मया पूजित बोधिकारणात् ॥ स्र्स्_१७.२७ ॥
स्वभावधर्मोत्तरनिश्चितस्य यो नामधेयं शृणुते जिनस्य ।
श्रुत्वा च धारेति विघुष्ट नाम स क्षिप्रमेतं लभते समाधिम् ॥ स्र्स्_१७.२८ ॥
एतेष बुद्धान् परेण अन्यो अचिन्तिये अपरिमितस्मि कल्पे ।
अभूषि बुद्धो नरदेवपूजितः स नामधेयेन नरेन्द्रघोषः ॥ स्र्स्_१७.२९ ॥
नरेन्द्रघोषस्य तथागतस्य षट्सप्तती वर्षसहस्रमायुः ।
त्रयश्च कोटीशत श्रावकाणां यः सन्निपातः प्रथमो अभूषि ॥ स्र्स्_१७.३० ॥
षडभिज्ञ त्रैविद्य जितेन्द्रियाणां महानुभावान महर्द्धिकानाम् ।
क्षीणास्रवाणान्तिमदेहधारिणां संघस्तदा आसि प्रभाकरस्य ॥ स्र्स्_१७.३१ ॥
अशीति कोटीनियुता सहस्रा यो बोधिसत्त्वान गणो अभूषि ।
गम्भीरबुद्धीन विशारदानां महानुभावान महर्द्धिकानाम् ॥ स्र्स्_१७.३२ ॥
अभिज्ञप्राप्ताः प्रतिभानवन्तो गतिगताः सर्वित शुन्यतायाः ।
ऋद्धीय गच्छन्ति ते क्षेत्रकोटियो ततोत्तरे यात्तिक गङ्गवालुकाः ॥ स्र्स्_१७.३३ ॥
(वैद्य १०९)
पृच्छित्व प्रश्नं द्विपदाननुत्तमान् पुनेन्ति तस्यैव जिनस्य अन्तिके ।
सूत्रान्तनिर्हारनिरुक्तिकोविदा आलोकभूता विचरन्ति मेदिनीम् ॥ स्र्स्_१७.३४ ॥
सत्त्वानमर्थाय चरन्ति चारिकां महानुभावाः सुगतस्य पुत्राः ।
न कामहेतोः प्रकरोन्ति पापं देवा पि तेषां स्पृह संजनेन्ति ॥ स्र्स्_१७.३५ ॥
अनर्थिका भवगतिषु न निश्रिताः समाहिता ध्यानविहारगोचराः ।
विनिश्चितार्थाश्च विशारदाश्च निरामगन्धाः सद ब्रह्मचारिणः ॥ स्र्स्_१७.३६ ॥
अच्छेद्यवाक्याः प्रतिभानवन्तो निरुक्तिनिर्देशपदार्थकोविदाः ।
सर्वत्रसंदर्शक बुद्धपुत्राः परिगृहीताः कुशलेन कर्मणा ॥ स्र्स्_१७.३७ ॥
अनन्तकल्पाश्चरियाय उद्गताः स्तुताः प्रशस्ताः सद नायकेहि ।
विमोक्षतत्त्वार्थपदान देशकाः असंकिलिष्टाः सुविशुद्धशीलाः ॥ स्र्स्_१७.३८ ॥
अनोपलिप्ताः पदुमेन वारिणा विमुक्त त्रैधातुकतोऽप्रमत्ताः ।
अनोपलिप्ताष्टहि लोकधर्मैर्विशुद्धकायाः परिशुद्धकर्माः ॥ स्र्स्_१७.३९ ॥
अल्पेच्छ संतुष्ट महानुभावा अगृद्ध ते बुद्धगुणाः प्रतिष्ठिताः ।
सर्वेष सत्त्वान गतिः परायणा न घोषमात्रप्रतिपत्तिसाराः ॥ स्र्स्_१७.४० ॥
यत्र स्थितास्तं च परेषु देशयु सर्वेहि बुद्धेहि परिगृहीताः ।
(वैद्य ११०)
वैश्वासिकाः कोशधरा जिनानां ते सर्वि त्रैधातुकि त्रस्तमानसाः ॥ स्र्स्_१७.४१ ॥
प्रशान्तचित्ताः सद रण्यगोचरा अधिष्ठिता लोकविनायकेभिः ।
भाषन्ति सुत्रान्तसहस्रकोटियो यं चैव भाषन्ति त बुद्धवर्णितम् ॥ स्र्स्_१७.४२ ॥
विवर्जिताः सर्वपदेभि लौकिकाः शून्याधिमुक्ताः परमार्थदेशकाः ।
अनन्तवर्णा गुणसागरोपमाः बहुश्रुताः पण्डित विज्ञवन्तः ॥ स्र्स्_१७.४३ ॥
सचेत्कुमारो बहुकल्पकोटिय अधिष्ठिहन्तः प्रवदेय वर्णम् ।
स अल्पकं तत्परिकीर्तितं भवेद्यथा समुद्रादुदबिन्दुरेकः ॥ स्र्स्_१७.४४ ॥
तस्मिंश्च काले स नरेन्द्रघोषो देशेतिमं शान्त समाधि दुर्दृशम् ।
महात्रिसाहस्रिय लोकधातु देवेहि नागेहि स्फुटो अभूषि ॥ स्र्स्_१७.४५ ॥
तस्यो इमं शान्त समाधि भाषतः प्रकम्पिता मेदिनि षड्विकारम् ।
देवा मनुष्या यथ गङ्गवालिका अविवर्तिकाये स्थित बुद्धज्ञाने ॥ स्र्स्_१७.४६ ॥
तत्रासि राजा मनुजान ईश्वरः शिरीबलो नाम महानुभावः ।
पुत्राण तस्यो शत पञ्च आसन्नभिरूप प्रासादिक दर्शनीयाः ॥ स्र्स्_१७.४७ ॥
अशीति कोटीशत इस्त्रियाणामन्तःपुरं तस्य अभूषि राज्ञः ।
चतुर्दशो कोटिसहस्र पूर्णा दुहितरो तस्य अभूषि राज्ञः ॥ स्र्स्_१७.४८ ॥
स कार्तिकायां तद पूर्णमास्यामष्टाङ्गिकं पोषधमाददित्वा ।
(वैद्य १११)
अशीतिकोटीनियुतेहि सार्धमुपागमल्लोकगुरुस्य अन्तिकम् ॥ स्र्स्_१७.४९ ॥
वन्दित्व पादौ द्विपदोत्तमस्य न्यषीदि राजा पुरतो जिनस्य ।
अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि ॥ स्र्स्_१७.५० ॥
स पार्थिवः श्रत्व समाधिमेतमुत्सृज्य राज्यं यथ खेटपिण्डम् ।
परित्यजित्वा प्रिय ज्ञातिबान्धवान् स प्रव्रजी तस्य जिनस्य शासने ॥ स्र्स्_१७.५१ ॥
पुत्राण पञ्चाशत प्रव्रजिंसु अन्तःपुरं चैव तथैव धीतरो ।
अन्ये च तत्र पुत्रज्ञातिबान्धवाः षट्सप्ततिर्नयुत त्रयश्च कोट्यः ॥ स्र्स्_१७.५२ ॥
स प्रव्रजित्वेह सपुत्रदारं स्थपेत्व आहारनिर्हारभूमिम् ।
अधिष्ठितश्चंक्रमि अष्टवर्षं स चंक्रमे वस्थितु काल कार्षीत् ॥ स्र्स्_१७.५३ ॥
स कालु कृत्वा तद राजकुञ्जरो समाधिचित्तो सुसमाहितः सदा ।
तत्रैव सो राजकुले उपन्नो उपपादुको गर्भमलैरलिप्तः ॥ स्र्स्_१७.५४ ॥
दृढबलो नाम पितास्य भूषि महामती नाम जनेत्रि आसीत् ।
स जातमात्रो अवची कुमारो कच्चिन्नु सो तिष्ठति लोकनाथः ॥ स्र्स्_१७.५५ ॥
जानाति मे आशयु लोकनाथो येनो ममा शान्त समाधि देशितः ।
(वैद्य ११२)
अप्रत्यया अपगतप्रत्यया च यो एक निर्देशु भवे गतीनाम् ॥ स्र्स्_१७.५६ ॥
या सर्वधर्माण स्वभावमुद्रा यः सूत्रकोटीनियुतान आगमः ।
यो बोधिसत्त्वान धनं निरूत्तरं कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.५७ ॥
कायस्य शुद्धी तथ वाच शुद्धी चित्तस्य शुद्धिस्तथ दृष्टिशुद्धिः ।
आरम्बणानां समतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.५८ ॥
अविप्रणाशः फलधर्मदर्शनमष्टाङ्गिका मार्गवरस्य भावना ।
तथागतैः संगमु तीक्ष्णप्रज्ञता सत्यप्रवेशः सद धर्मज्ञानम् ॥ स्र्स्_१७.५९ ॥
स्कन्धपरिज्ञा समता च धातुनामपकर्षणं चायतनान सर्वशः ।
अनुत्पाद साक्षात्क्रिययावतारः कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६० ॥
प्रतिसंविदा शान्त्यवतारज्ञानं सर्वाक्षराणां च प्रभेदज्ञानम् ।
वस्तुनिवेशसमतिक्रमो यः कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६१ ॥
घोषः परिज्ञाथ प्रामोद्यलाभः प्रीतिश्च भोती सुगतान वर्णम् ।
आर्या गतिर्मार्दवता च उज्जुका कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६२ ॥
ना जातु कुर्याद्भुकुटिं स सूरतः साखिल्य माधुर्य स्मितं मुखं च ।
दृष्ट्वा च सत्त्वान् प्रथमालपेति कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६३ ॥
(वैद्य ११३)
अनालस्यता गौरवता गुरूणां शुश्रूषणा वन्दन प्रेमदर्शना ।
उपपत्ति संतुष्टित शुक्लता च कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६४ ॥
आजीवशुद्धिस्तथ रण्यवासो धूते स्थितानुस्मृतेरप्रमोषः ।
स्कन्धेषु कौशल्यमथापि धातुषु कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६५ ॥
आयतनकौशल्यमभिज्ञज्ञानं किलेशअपकर्षण दान्तभूमि ।
पृथुसर्वमन्त्राणमसावुच्छेदः कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६६ ॥
समतिक्रमः सर्वभवग्गतीनां जातिस्मृति धर्मनिष्काङ्क्षता च ।
धर्मे च चित्तं श्रुत एषणा च कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६७ ॥
विशेषगामी सद भावनारति आपत्ति कौशल्यत निःसृतौ स्थितः ।
यत्र स्थितोऽनुशयितां जहाति कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६८ ॥
तीक्ष्णस्य ज्ञानस्य वरागमो यतो अचालियो शैलसमो अकम्पितः ।
अविवर्तितालक्षण धारणीमुखं कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.६९ ॥
शुक्लान धर्माण सदा गवेषणा पापान धर्माण सदा विवर्जना ।
संक्लेशपक्षस्य सदा प्रचारु यो कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.७० ॥
सर्वासु शिक्षासु गतिंगतो विदुः समाध्यवस्थानगतिंगतश्च ।
(वैद्य ११४)
सत्त्वान चो आशयु ज्ञात्व चोदको देशेति धर्मं वरबुद्धबोधौ ॥ स्र्स्_१७.७१ ॥
विशेषज्ञानमुपपत्तिज्ञानमनन्तज्ञानं सुसमाप्तज्ञानम् ।
सर्वग्गतीनां प्रतिसंधिज्ञानं कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.७२ ॥
गृहान् समुत्सृज्य प्रव्रज्यचित्तं त्रैधातुके अनभिरती ननुग्रहः ।
चित्तस्य संप्रग्रहणं सहर्षणा देशेति धर्मं द्विपदानमुत्तमः ॥ स्र्स्_१७.७३ ॥
धर्मेषु चो नाभिनिवेश तायि परिग्रहो धर्मवरे सदा च ।
कर्मविपाके च दृढाधिमुक्तिं देशेति धर्म द्विपदानमुत्तमः ॥ स्र्स्_१७.७४ ॥
विनयस्मि कौशल्य विपाकज्ञानं कलहं विवादान तथोपशान्तिः ।
अविग्रहं वाप्यविवादभूमिं देशेति धर्म द्विपदानमुत्तमः ॥ स्र्स्_१७.७५ ॥
क्षान्तीसमादानमक्रोधस्थानं विनिश्चये धर्मि सदा च कौशलम् ।
पदप्रभेदेषु च ज्ञानदर्शनं देशेति धर्मं करुणां जनेत्वा ॥ स्र्स्_१७.७६ ॥
पूर्वान्तज्ञानमपरान्तज्ञानं त्रियध्वसमता सुगतान शासने ।
परिच्छेद उक्तः स त्रिमण्डलस्य एवं जिनो देशयि धर्मस्वामी ॥ स्र्स्_१७.७७ ॥
चित्तव्यवस्थान एकाग्रता च कायव्यवस्थान यथार्यभूमिः ।
ईर्यापथस्थो सद कालि रक्षणा देशेति धर्मं पुरुषर्षभो मुनिः ॥ स्र्स्_१७.७८ ॥
(वैद्य ११५)
हिरिश्च ओत्राप्यु प्रासादिकं च युक्तां गिरं भाषति लोकज्ञानम् ।
प्रवृत्तिधर्मं प्रकृतिं च प्राणिनां देशेति धर्मं वरबोधिउमग्र्याम् ॥ स्र्स्_१७.७९ ॥
अनुग्रहं चो हिरिमोत्राप्यं च चित्तस्य चाकुशलता जुगुप्सना ।
धूतस्यानुत्सर्गत पिण्डचर्यां देशेति धर्मं द्विपदानमुत्तमः ॥ स्र्स्_१७.८० ॥
हिरिश्च ओत्राप्यु सदाचरेता गुरूणाभिवादन प्रत्युत्थानम् ।
मानस्य चो निग्रह आदितैव एवं जिनो देशयि धर्मस्वामी ॥ स्र्स्_१७.८१ ॥
चित्तसमुत्थानत चित्तकल्यता ज्ञानप्रतीवेधु तथानुबोधम् ।
अज्ञानपक्षस्य सदा विवर्जना देशेति धर्मान् वरबुद्धबोधिम् ॥ स्र्स्_१७.८२ ॥
चित्तप्रवेशं च रूतस्य ज्ञानं निरुक्त्यवस्थान विनिश्चितार्थम् ।
सर्वेष्वनर्थान सदा विवर्जनमेवं जिनो देशयि धर्मस्वामी ॥ स्र्स्_१७.८३ ॥
ससङ्गता सत्पुरुषेहि नित्यं विवर्जना कापुरुषान चैव ।
जिने प्रसादं सद प्रेमतां च एवं जिनो देशयि धर्म श्रेष्ठम् ॥ स्र्स्_१७.८४ ॥
संकेतप्रज्ञप्तिव्याहारतां च संसारदुःखानि सदा विवर्जना ।
अलाभि लाभे च असक्तभावमेवं जिनो देशयि धर्ममुत्तमम् ॥ स्र्स्_१७.८५ ॥
सत्कारु लब्ध्वा च न विस्मयेय्या असत्कृतश्चापि भवेदुपेक्षकः ।
भूतेऽपि वर्णं न कदाचि मोदिये इय देशना लोकहितस्य ईदृशी ॥ स्र्स्_१७.८६ ॥
(वैद्य ११६)
आक्रोशनां पंसन सर्वशो सहेदसंस्तवः सर्वगृहीहि सार्धम् ।
संसर्गतां प्रव्रजितेन कुर्यादेवं जिनो देशयि धर्मस्वामी ॥ स्र्स्_१७.८७ ॥
बुद्धान चो गोचरि सुप्रतिष्ठितो अगोचरं सर्व विवर्जयित्वा ।
आचारसंपन्न सुदान्तचित्तो इय धर्मनेत्री सुगतेन देशिता ॥ स्र्स्_१७.८८ ॥
ये बालधर्माः सद तान् विवर्जयेत्कुलदूषणं सर्व विवर्जयेच्च ।
आरक्षितव्यं सद बुद्धशासनमेवं जिनो देशयि धर्मस्वामी ॥ स्र्स्_१७.८९ ॥
अल्पं च भाष्ये मधुरं सुयुक्तं कल्याणतां मृदुवचनं परेषाम् ।
प्रत्यर्थिकानां सहधर्मनिग्रहो इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९० ॥
प्रतिक्रमेत्कालि न चो अकाले न विश्वसेत्सर्वपृथग्जनेषु ।
दुःखेन स्पृष्टो न भवेत दुर्मना इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९१ ॥
दरिद्र दृष्ट्वा सधनं करेय्या दुःशील दृष्ट्वा अनुकम्पितव्या ।
हितवस्तुतायां सद ओवदेय्य इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९२ ॥
धर्मेण सत्त्वा अनुगृह्णितव्या लोकामिषत्यागु सदा च कार्यो ।
न संचयं नो निचयं च कुर्यादियं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९३ ॥
शीलप्रशंसा च कुशीलकुत्सना अशाठ्यता शीलवतां निषेवणम् ।
सर्वस्वकात्यागि धनेऽप्यनिश्रितो इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९४ ॥
(वैद्य ११७)
अध्याशयेनो गुरुणा निमन्त्रणा यथा च भाषे तथ सर्व कुर्याम् ।
अभीक्ष्ण सेवेय्य च धर्मभाणकमियं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९५ ॥
सगौरवः प्रीतमनाः सदा भवेत्सोम्याय दृष्टीय सदा स्थितो भवेत् ।
पूर्वासु चर्यासु सुनिश्चितः सदा इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९६ ॥
पूर्वंगमः कुशलचरीषु नित्यमुपायकौशल्य निमित्तवजने ।
संज्ञाविवर्ते तथ वस्तुलक्षणे इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९७ ॥
सूत्रान्तनिर्हारपदेषु कौशलं सत्यान निर्देशपदेषु निश्चयः ।
विमुक्तिज्ञानस्य च साक्षिकारिता इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९८ ॥
शून्याश्च धर्माः सद सेवितव्या विशारदाः शीलबले प्रतिष्ठिताः ।
समाधिस्थानेन समोत्तरेय्या इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.९९ ॥
न ज्ञात्रलाभं पि कदाचि देशयेच्चित्तस्य चापी कुहनां न कुर्यात् ।
दृष्टीकृतां सर्व विवर्जयेच्च इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.१०० ॥
प्रतिभानु श्रेष्ठं वर धारणीये ज्ञानस्य चोभासु अनन्तपारो ।
अधिष्ठानमन्त्र प्रतिभानयुक्तिरियं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.१०१ ॥
(वैद्य ११८)
शीलस्य द्वारमिम मार्गभावना प्रतिपत्ति ओवादनयश्च भद्रको ।
अनुशासनी अत्र चरित्व शासनी इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.१०२ ॥
अनुलोमिकी क्षान्ति य बुद्धवर्णिता क्षान्तिस्थितो दोष विवर्जयेत ।
अज्ञान वर्जेय्य स्थिहित्व ज्ञाने इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.१०३ ॥
ज्ञानप्रतिष्ठा तथ योगभूमी योगेश्वरी बोधयि प्रस्थितानाम् ।
निषेवणा सत्पुरुषाण नित्यमियं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.१०४ ॥
अयुक्तयोगीन सदा विवर्जना तथागतैर्भाषित बुद्धभूमि ।
अनुमोदिता सर्विहि पण्डितेहि इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.१०५ ॥
बालैः प्रतिक्षिप्त अज्ञातकेहि अभूभिरत्र पृथुश्रावकाणाम् ।
परिगृहीताः सद बोधिसत्त्वैः इयं जिने ईदृश आनुशासनी ॥ स्र्स्_१७.१०६ ॥
तथागतेहि अनुबुद्धमेतं देवेहि चो सत्कृतु पूजितं च ।
अनुमोदितं ब्रह्मसहस्रकोटिभिः कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.१०७ ॥
नागसहस्रेहि सदा सुसत्कृतं सुपर्णयक्षेहि च किन्नरेहि ।
या भाषिता बोधिवरा जिनेभिः कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.१०८ ॥
पर्याप्त या नित्यु सुपण्डितेहि धनं च श्रिष्ठं प्रवरं सुलब्धम् ।
(वैद्य ११९)
निरामिषं ज्ञान चिकित्स उत्तमा कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.१०९ ॥
ज्ञानस्य कोषः प्रतिभानमक्षयं सूत्रान्तकोटीन प्रवेश एषः ।
परिज्ञ त्रैधातुकि भूतज्ञानं कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.११० ॥
नौका इयं देशित पारगामिनां नावा पि चो ओघगतान एषा ।
कीर्तिर्यशो वर्धति वर्णमाला येषामयं शान्त समाधि देशितः ॥ स्र्स्_१७.१११ ॥
प्रशंस एषा च तथागतानां स्तवश्च एषो पुरुषर्षभाणाम् ।
स्तव बोधिसत्त्वान नयश्च अक्षयो येही अयं शान्त समाधि देशितः ॥ स्र्स्_१७.११२ ॥
मैत्री इयं दोषशमे प्रकाशिता उपेक्षियं कारुणिकान भूमिम् ।
आश्वासयन्तेष महाशयानां येषां कृतेनैष समाधि भाषितः ॥ स्र्स्_१७.११३ ॥
प्रतिपत्तियं देशित सिंहनादिनामितु बुद्धज्ञानस्य वरस्य आगमः ।
सर्वेष धर्माण स्वभावमुद्राः समाध्ययं देशितु नायकेहि ॥ स्र्स्_१७.११४ ॥
सर्वज्ञज्ञानस्य च आहरित्रिमा चर्या इयं बोधयि प्रस्थितानाम् ।
वित्रासनं मारचमूय चापि समाध्ययं शान्त जिनेन देशितः ॥ स्र्स्_१७.११५ ॥
विद्या इयं धर्मस्थितान तायिनाममित्रमध्ये परमा च रक्षा ।
प्रत्यर्थिंकानां सहधर्मनिग्रहाः समाध्ययं शान्त जिनेन देशितः ॥ स्र्स्_१७.११६ ॥
(वैद्य १२०)
प्रतिभानभूमी इय संप्रकाशिता बला विमोक्षा तथ इन्द्रियाणि ।
विशिष्ट अष्टादश बुद्धधर्माः समाधि शान्तेष निषेवमाणाः ॥ स्र्स्_१७.११७ ॥
दशान पर्येष्टि बलान भूता पूर्वनिमित्तं पि च बुद्धज्ञाने ।
ये बुद्धधर्माः पुरुषोत्तमेन प्रकाशिता लोकहितानुकम्पिना ॥ स्र्स्_१७.११८ ॥
बुद्धान पुत्रेभिरयं प्रतीहितो विमोक्षकामानयु मार्गु देशितः ।
प्रीतिश्च तस्मिन् सुगतात्मजानां श्रुणित्विमं शान्त समाधि दुर्दृशम् ॥ स्र्स्_१७.११९ ॥
या बुद्धज्ञानस्य च पारिपूरिता याभेषते पण्डितु बोधिसत्त्वः ।
विशुद्धचित्तश्च शुचिर्निरङ्गणो इमं निषेवेत समाधि शान्तम् ॥ स्र्स्_१७.१२० ॥
परिशुद्ध कायोऽस्य यथा जिनान विमोक्षज्ञानं च विमुक्तिदर्शनम् ।
असंकिलिष्टः सद रागबन्धनैः इमं निषेवेत समाधि भद्रकम् ॥ स्र्स्_१७.१२१ ॥
अभूमि दोषे विगमश्च मोहे ज्ञानस्य चो आगमु मुक्तिमिच्छतः ।
विद्याय उत्पादु अविद्यनाशकमिमं निषेवेत समाधि शान्तम् ॥ स्र्स्_१७.१२२ ॥
विमुक्तिसाराणिय तृप्ति भाषिता ध्यायीनयं शान्त समाधि देशितः ।
चक्षुश्च बुद्धानमनिन्दितानामिमं निषेवेत समाधि शान्तम् ॥ स्र्स्_१७.१२३ ॥
अभिज्ञ एषा बहुक्षेत्रे दर्शिता ऋद्धिश्च बुद्धान अनन्त दर्शिता ।
या धारणी सापि ततो न दुर्लभा निषेवमाणस्य समाधिमेतम् ॥ स्र्स्_१७.१२४ ॥
(वैद्य १२१)
शान्तेन्द्रियस्यो इह स्थानु बोधये इदमधिष्ठानमनन्तदर्शितम् ।
सूक्ष्मं च ज्ञानं विपुलं विशुद्धं निषेवमाणस्य इमं समाधिम् ॥ स्र्स्_१७.१२५ ॥
सु बुध्यते नैष अयुक्तयोगैर्विवर्तनं सर्वसु अक्षराणाम् ।
न शक्यु घोषेण विजाननाय येनो अयं शान्त समाधि न श्रुतः ॥ स्र्स्_१७.१२६ ॥
ज्ञातं तु विज्ञैरयु बोधिसत्त्वैर्यथा व यं देशितु धर्मस्वामिना ।
प्रतिबुद्धु शान्तेहि अनिन्दितेहि इमं समाधिं प्रतिषेवमाणैः ॥ स्र्स्_१७.१२७ ॥
आरब्धवीर्येहि समुद्गृहीतमुपस्थितं च सापि सदा सुधारितम् ।
दुःखक्षयो जातिनिरोधज्ञानमिमं समाधिं प्रतिषेवमाणैः ॥ स्र्स्_१७.१२८ ॥
सर्वेष धर्माणमजाति भाषिता एवं च सर्वासु भवग्गतीषु ।
ज्ञानाग्रु बुद्धान महाशयानां कच्चिज्जिनो भाषति तं समाधिम् ॥ स्र्स्_१७.१२९ ॥
तस्यो कुमारस्यिमि गाथ भाषतो अष्टाशीतिनियुतसहस्र पूर्णाः ।
घोषानुगा क्षान्ति लभिंसु तत्र अविवर्तिकाये स्थितु बुद्धज्ञाने ॥ स्र्स्_१७.१३० ॥
दृढबलस्तमवदी कुमारमद्यापि सो तिष्ठति लोकनाथः ।
पृच्छामि त्वं दारक एतमर्थं कुतस्त्वया एष श्रुतः समाधिः ॥ स्र्स्_१७.१३१ ॥
कुमारु राजनवदी शृणोहि दृष्टस्मि कोटीनियुतं जिनानाम् ।
(वैद्य १२२)
एकस्मि कल्पस्मि ते सर्वि सत्कृता अयं च मे शान्त समाधि पृच्छितः ॥ स्र्स्_१७.१३२ ॥
चत्वारि कल्पा नवतिं च अन्ये कल्पान कोटीनियुता सहस्राः ।
जातिस्मरो भोम्यहु तत्र तत्र न चापि गर्भे उपपद्यि जातु ॥ स्र्स्_१७.१३३ ॥
ततो मया एषा समाधि भावितः शुद्धं श्रुतस्तेष जिनान भाषताम् ।
श्रुत्वा च उद्दिष्टु जनेत्व छन्दं निष्काङ्क्षआप्तेन स्पृशिष्यि बोधिम् ॥ स्र्स्_१७.१३४ ॥
ये भिक्षु मह्यं परिपृच्छदेन्ति पर्यापुणन्तस्य इमं समाधिम् ।
उपस्थपेमी अहु तत्र गौरवं यथैव लोकार्थकराण अन्तिके ॥ स्र्स्_१७.१३५ ॥
येषां मया अन्तिक एक गाथा उद्दिष्ट चर्यां चरतानुलोमिकीम् ।
मान्यामि तानप्यहु शान्तु एते उपस्थपेमी अहु बुद्धगौरवम् ॥ स्र्स्_१७.१३६ ॥
यश्चापि मां पृच्छितु कश्चिदेति पर्यापुणन्तमिमु सत्समाधिम् ।
स्वप्नान्तरेऽपीह न मेऽस्ति काङ्क्षा नाहं भविष्ये जिनु लोकनायकः ॥ स्र्स्_१७.१३७ ॥
वृद्धेषु मध्येषु नवेषु भिक्षुषु सगौरवो भोम्यहु सुप्रतीतः ।
सगारवस्यो मम वर्धते यशः पुण्यं च कीर्तिश्च गुणास्तथैव ॥ स्र्स्_१७.१३८ ॥
कलीविवादेषु न भोमि उत्सुको अल्पोत्सुको भोम्यहु तत्र काले ।
अन्या गतिर्भोति करित्व पापकमन्या गतिर्भोति करित्व भद्रकम् ॥ स्र्स्_१७.१३९ ॥
अयुक्तयोगान असंयतानाममनोज्ञ तेषां वचनं श्रुणित्वा ।
(वैद्य १२३)
कर्मस्वको भोम्यहु तस्मि काले कृतस्य कर्मस्य न विप्रणाशः ॥ स्र्स्_१७.१४० ॥
न ह्यत्र क्रोधो भवती परायणं क्षान्तीबलं गृह्णयहु बुद्धवर्णितम् ।
क्षान्तिः सदा वर्णित नायकेहि क्षान्तिं निषेवित्व न बोधि दुर्लभा ॥ स्र्स्_१७.१४१ ॥
अहं च भोमी सद शीलवन्तो अन्यांश्च शीलस्मि प्रतिष्ठपेमि ।
शीलस्य वर्णु सदहं भणामि वर्णं च भोति मम तत्र भाषितम् ॥ स्र्स्_१७.१४२ ॥
अरण्यवर्णं च सदा पि भाषे शीलस्मि चो भोमि सदा प्रतिष्ठितः ।
समादपेमि अहु अन्य पोषधे तांश्चैव बोधाय समादपेमि ॥ स्र्स्_१७.१४३ ॥
तान् ब्रह्मचर्येऽपि समादपेमि अर्थस्मि धर्मस्मि प्रतिष्ठपेमि ।
तेषां च बोधिम्यहु बोधिमार्गं यस्मिन्निमे भोन्ति अनन्त सङ्गाः ॥ स्र्स्_१७.१४४ ॥
स्मराम्यहं कल्पमतीतमध्वनि यदा जिनो आसि स्वराङ्गघोषः ।
प्रतिज्ञ तस्यो पुरतः कृता मे क्षान्तीबलो भोम्यहु नित्यकालम् ॥ स्र्स्_१७.१४५ ॥
तत्र प्रतिज्ञाय प्रतिष्ठिहित्वा वर्षाण कोटी चतुरो अशीतिम् ।
मारेणहं कुत्सित पंसितश्च न चैव चित्तं मम जातु क्षुब्धम् ॥ स्र्स्_१७.१४६ ॥
जिज्ञासनां तत्र करित्व मारो ज्ञात्वान मह्यं दृढ क्षान्तिमैत्रीम् ।
प्रसन्नचित्तश्चरणानि वन्द्य मे पञ्चशता बोधिवराय प्रस्थिताः ॥ स्र्स्_१७.१४७ ॥
(वैद्य १२४)
अमत्सरी भोम्यहु नित्यकालं त्यागस्य चो वर्ण सदा प्रभाषे ।
आढ्यश्च भोमी धनवान्महात्मा दुर्भिक्षकाले बहु भोमि दायकः ॥ स्र्स्_१७.१४८ ॥
ये भिक्षु धारेन्ति इमं समाधिं ये चापि वाचेन्ति य उद्दिशन्ति ।
करोमि तेषामहु पारिचर्यां सर्वे च भेष्यन्ति नराणमुत्तमाः ॥ स्र्स्_१७.१४९ ॥
कर्मणा तेनाहमनुत्तरेण पश्यामि बुद्धान् बहु लोकनाथान् ।
लभित्व प्रव्रज्य जिनानुशासने भवामि नित्यं विदु धर्मभाणकः ॥ स्र्स्_१७.१५० ॥
धूताभियुक्तो अहु भोमि नित्यं कान्तारमारण्य सदा निषेवी ।
नाहारहेतोः कुहनां करोमि संतुष्टु भोमी इतरेतरेण ॥ स्र्स्_१७.१५१ ॥
अनीर्षुको भोम्यहु नित्यकालं कुलेषु चाहं न भवामि निश्रितः ।
कुलेषु सक्तस्य हि ईर्ष्य वर्धते अनीर्ष्युकस्तुष्टि वनेषु विन्दमि ॥ स्र्स्_१७.१५२ ॥
मैत्रीविहारी अहु भोमि नित्यमाक्रुष्टु सन्ता न जनेमि क्रोधम् ।
मैत्रीविहारिष्यमि सूरतस्य चतुर्दिशं वर्धति वर्णमाला ॥ स्र्स्_१७.१५३ ॥
अल्पेच्छु संतुष्टु भवामि नित्यमारण्यकश्चैव धुताभियुक्तः ।
न चोत्सृजामी अहु पिण्डपातं दृढं समाधान धुतेषु विन्दमि ॥ स्र्स्_१७.१५४ ॥
श्राद्धश्च भोमी मनसः प्रसादो बहुप्रसादः सद बुद्धशासने ।
(वैद्य १२५)
प्रसाद बहु लप्स्यमि आनुशंसा प्रासादिको भोमि अहीन इन्द्रियः ॥ स्र्स्_१७.१५५ ॥
यश्चैव भाषाम्यहु तत्र तिष्ठे प्रतिपत्तिसारो अहु नित्यु भोमि ।
प्रतिपत्तिसारस्यिमि देवनागाः कुर्वन्त्युस्थानु प्रसन्नचित्ताः ॥ स्र्स्_१७.१५६ ॥
गुणा इमे कीर्तित यावता मे एते च अन्ये च बहू अनेके ।
ये शिक्षितव्याः सद पण्डितेन यो इच्छती बुध्यितु बुद्धबोधिम् ॥ स्र्स्_१७.१५७ ॥
स्मराम्यतो बहुतरु दुष्कराणि ये पूर्वकल्पे चरितान्यनेके ।
बहुं पि दानीं भणितु न शक्यं गच्छामि तावत्सुगतस्य अन्तिकम् ॥ स्र्स्_१७.१५८ ॥
सुतीक्ष्णप्रज्ञो विदु बोधिसत्त्वो तस्मिन् क्षणे स्पर्शयि पञ्चभिज्ञा ।
ऋद्धीय सो गच्छि जिनस्य अन्तिके स प्राणिकोटीभिरशीतिभिः सह ॥ स्र्स्_१७.१५९ ॥
दृढबलो परमु उदग्र आसीत्सार्धं तदा कोटिशतेहि षष्टिभिः ।
उपसंक्रमी मूलु तथागतस्य वन्दित्व पादौ पुरतो न्यषीदत् ॥ स्र्स्_१७.१६० ॥
अध्याशयं तस्य विदित्व राज्ञो इमं समाधिं द्विपदेन्द्र देशयि ।
श्रुत्वा च सो पार्थिविमं समाधिमुज्झित्व राज्यं निरपेक्षु प्रव्रजी ॥ स्र्स्_१७.१६१ ॥
स प्रव्रजित्वान इमं समाधिं भावेति वाचेति प्रकाशयेति ।
स षष्टिभिः कल्पसहस्रु पश्चात्पद्मोत्तरो नाम जिनो अभूषि ॥ स्र्स्_१७.१६२ ॥
षष्टिस्तदा कोटिशत अनूनका ये राज्ञ सार्धमुपसंक्रमी जिनान् ।
(वैद्य १२६)
ते चापि श्रुत्वैव समाधिमेतं तुष्टा उदग्रास्तद प्रव्रजिंसु ॥ स्र्स्_१७.१६३ ॥
ते प्रव्रजित्वान इमं समाधिं धारेंसु वाचेंसु प्रकाशयिंसु ।
षष्टीन कल्पानि नयुतान अत्यया स्पृशिंषु बोधिं वरमेककल्पे ॥ स्र्स्_१७.१६४ ॥
अनन्तज्ञानोत्तरनामधेया अभूषि बुद्धा नरदेवपूजिताः ।
तदेकमेके द्विपदानमुत्तमो मोचेन्ति सत्त्वान्यथ गङ्गवालिकाः ॥ स्र्स्_१७.१६५ ॥
शीरीबलो राजु अहमभूषि इमां चरन्तो वरबोधिचारिकाम् ।
ये मम पुत्राः शत पञ्च आसनिममेव एते अनुधर्मपापाः ॥ स्र्स्_१७.१६६ ॥
एवं मया कल्पसहस्रकोटयो आरब्धवीर्येण अतन्द्रितेन ।
समाधि पर्येष्ट अयं विशुद्धः समुदानयन्नेति तमग्रबोधिम् ॥ स्र्स्_१७.१६७ ॥
कुमार तस्माद्धि ये बोधिसत्त्वा आकाङ्क्षते एतु समाधिमेषितुम् ।
आरब्धवीर्यो निरपेक्षु जीविते ममा कुमारा अनुशिक्षते सदा ॥ स्र्स्_१७.१६८ ॥

इति श्रीसमाधिराजे बहुबुद्धनिर्हारसमाधिमुखपरिवर्तो नाम सप्तदशः ॥


(वैद्य १२७)
१८ समाध्यनुपरिन्दनपरिवर्तः ।

तत्र भगवांश्चन्द्रप्रभकुमारमामन्त्रयते स्म तस्मात्तर्हि कुमार यो बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तेन भावनायोगमनुयुक्तेन च भवितव्यम् । तस्यैतं प्रतिपद्यमानस्य चत्वारो गुणानुशांसाः प्रतिकाङ्क्षितव्याः । कतमे चत्वारः? यदुत अनभिभूतो भविष्यति पुण्यैः ॥ अनवमर्दनीयो भविष्यति प्रत्यर्थिकैः । अप्रमेयो भविष्यति ज्ञानेन । अनन्तश्च भविष्यति प्रतिभानेन । यो हि कश्चित्कुमार बोधिसत्त्वो महासत्त्व इमं समाधिमुद्ग्रहीष्यति पर्यवाप्स्यति धारयिष्यति वाचयिष्यति प्रवर्तयिष्यति उद्देक्ष्यति स्वाध्यास्यति परेभ्यश्च विस्तरेण संप्रकाशयिष्यति, तस्येमे चत्वारो गुणानुशंसाः प्रतिकाङ्क्षितव्याः ॥

अथ खलु भगवांस्तस्यां वेलायामि गाथा अभाषत


अनाभिभूतः पुण्येहि नित्यकालं भविष्यति ।
समाधिं शान्तुभावेन सर्वबुद्धान गोचरम् ॥ स्र्स्_१८.१ ॥
पुण्येहि रक्षितः शूरो नित्यकालं भविष्यति ।
चरन् स परमां शुद्धां विशिष्टां बोधिचारिकाम् ॥ स्र्स्_१८.२ ॥
नास्य प्रत्यर्थिको जातु विहेठां कश्चित्करिष्यति ।
परिगृहीतो बुद्धेहि नित्यकालं भविष्यति ॥ स्र्स्_१८.३ ॥
अप्रमेयश्च ज्ञानेन नित्यकालं भविष्यति ।
अनन्तः प्रतिभानेन धारेन्तः शान्तिमां गतिम् ॥ स्र्स्_१८.४ ॥
सततमनभिभूतपुण्यस्कन्धो भविष्यति श्रेष्ठतरं तु बोधिचर्याम् ।
न भविष्यति प्रत्यर्थिंकान धृष्यो इमु वरु शान्त समाधि धारयित्वा ॥ स्र्स्_१८.५ ॥
ज्ञानु विपुलु तस्य भोति तीक्ष्णं तथ प्रतिभानमनन्त चक्षु शुद्धम् ।
भविष्यति सद तस्य पण्डितस्य स्मृतिबलमेव च धारणीबलं च ॥ स्र्स्_१८.६ ॥
(वैद्य १२८)
परम प्रियु मनापु पण्डितानां भविष्यति चार्थपदं प्रभाषमाणः ।
ज्ञानु बहुजनस्य प्रज्ञवन्तो इमु वरु शान्त समाधि भाषमाणः ॥ स्र्स्_१८.७ ॥
लाभि परम श्रेष्ठ चीवराणां शय्य निमन्त्रणमा(खा ?)द्यभोजनानाम् ।
भविष्यति सुकुमार दर्शनीयो इमु वरु शान्त समाधि धारयन्तो ॥ स्र्स्_१८.८ ॥
द्रक्ष्यति बहु बुद्ध लोकनाथानतुलिय काहिति पूज नायकानाम् ।
न च भविष्यति तस्य अन्तरायो इमु वरु शान्त समाधिमेषतो हि ॥ स्र्स्_१८.९ ॥
भाषिष्यति पुरतः स्थित्व लोकनाथान् सुरुचिर गाथशतेहि तुष्टचित्तः ।
न च भविष्यति तस्य जातु हानी इमु वरु शान्त समाधि धारयित्वा ॥ स्र्स्_१८.१० ॥
स्थास्यति पुरतोऽस्य लोकनाथः सुरुचिरलक्षणकायु व्यञ्जनेभिः ।
न च भविष्यति तस्य ज्ञानहानी इमु वरु शान्त समाधि धारयित्वा ॥ स्र्स्_१८.११ ॥
न कदाचि भविष्यति दीनचित्तः सतत भविष्यति आढ्यु नो दरिद्रः ।
न च भविष्यति उद्गृहीतचित्तो इमु वरु शान्त समाधि धारयित्वा ॥ स्र्स्_१८.१२ ॥
न च भविष्यति वा अक्षणेषु महीपति भेष्यति राजचक्रवर्ती ।
सद भविष्यति राज्य तस्य क्षेममिमु वरु शान्त समाधि धारयित्वा ॥ स्र्स्_१८.१३ ॥
ज्ञानु विपुलु नात्र संशयोऽस्ति क्षपयितु कल्पशतेहि भाषमाणैः ।
(वैद्य १२९)
श्रुत इमु समाधि शान्तभूमी यथ उपदिष्ट तथा स्थिहेत धीरो ॥ स्र्स्_१८.१४ ॥
अपरिमित अनन्त कल्पकोट्यो दशबल तस्य भणेयुरथानुशंसाम् ।
न च परिकीर्तिता कला भवेय्या यथ जलबिन्दु ग्रहीतु सागरातो ॥ स्र्स्_१८.१५ ॥
हर्षितु स कुमारु तस्मि काले उत्थितु प्राञ्जलिको नमस्यमानः ।
दशबलभिमुखो स्थितो उदग्रो गिरवराय उदानुदानयति ॥ स्र्स्_१८.१६ ॥
अचिन्तियो महावीरो लोकनाथ प्रभाकरः ।
यावच्चेमे नरेन्द्रेण अनुशंसाः प्रकाशिताः ॥ स्र्स्_१८.१७ ॥
आख्याहि मे महावीर हितैषी अनुकम्पकः ।
को नाम पश्चिमे काले इदं सूत्रं श्रुणिष्यति ॥ स्र्स्_१८.१८ ॥
तमेनमवदच्छास्ता कलविङ्करुतस्वरः ।
असङ्गज्ञानी भगवानिमां वाचं प्रभाषते ॥ स्र्स्_१८.१९ ॥
कुमार शृणु भाषिष्ये प्रतिपत्तिमनुत्तराम् ।
यो धर्माननुशिक्षन्तो इदं सूत्रं श्रुणिष्यति ॥ स्र्स्_१८.२० ॥
पूजां कुर्वन् जिनेन्द्राणां बुद्धज्ञानगवेषकः ।
मैत्रचित्तं निषेवन्तो इदं सूत्रं श्रुणिष्यति ॥ स्र्स्_१८.२१ ॥
धूतान् गुणांश्च संलेखान् गुणान् श्रेष्ठान्निषेवतः ।
प्रतिपत्तौ स्थिहित्वा च इदं सूत्रं श्रुणिष्यति ॥ स्र्स्_१८.२२ ॥
न पापकारिणां हस्तादिदं सूत्रं श्रुणिष्यति ।
न यैर्विरागितं शीलं लोकनाथानमन्तिके ॥ स्र्स्_१८.२३ ॥
ब्रह्मचारीण शूराणां येषां चित्तमलोलुपम् ।
अधिष्ठितानां बुद्धेहि तेषां हस्ताच्छ्रुणिष्यति ॥ स्र्स्_१८.२४ ॥
ये हि पुरिमका बुद्धा लोकनाथा उपस्थिताः ।
तेषां हस्तादिदं सूत्रं पश्चात्काले श्रुणिष्यति ॥ स्र्स्_१८.२५ ॥
ये तु पूर्वासु जातीसु अभूवन्नन्यतीर्थिकाः ।
तेष्विमं श्रुत्व सूत्रान्तं सौमनस्यं न भेष्यति ॥ स्र्स्_१८.२६ ॥
(वैद्य १३०)
मम च प्रव्रजित्वेह शासने जीविकार्थिकाः ।
लाभसत्काराभिभूता अन्यमन्यं प्रतिक्षिपि ॥ स्र्स्_१८.२७ ॥
अध्योषिता परस्त्रीषु बहु भिक्षु असंयता ।
लाभकामाश्च दुःशीला इदं सूत्रं न श्रद्दधी ॥ स्र्स्_१८.२८ ॥
पुण्यानुप्राप्ता बुद्धेषु ध्यानप्राप्त्याप्यनर्थिकाः ।
निश्रिताश्चात्मसंज्ञायामिदं सूत्रं न श्रद्दधे ॥ स्र्स्_१८.२९ ॥
लौकिक ध्यानफलसंज्ञी भेष्यते कालि पश्चिमे ।
अर्हत्पिण्डं च ते भुक्त्वा बुद्धबोधिं प्रतिक्षिपि ॥ स्र्स्_१८.३० ॥
यश्चैव जम्बुद्वीपस्मि भिन्देयात्सर्व चेतिया ।
यश्च प्रतिक्षिपेत्सूत्रमिदं पापं विशिष्यते ॥ स्र्स्_१८.३१ ॥
यश्चार्हतो निहनेय्या यथा गङ्गाय वालुकाः ।
यश्च प्रतिक्षिपेत्सूत्रमिदं पापं विशिष्यते ॥ स्र्स्_१८.३२ ॥
क उत्सहन्ति युष्माकं पश्चिमे कालि दारुणे ।
सद्धर्म लोके वर्तन्ते इदं सूत्रं प्रकाशितुम् ॥ स्र्स्_१८.३३ ॥
रोदन्तो उत्थितस्तत्र कुमारो जिनमब्रवीत् ।
सिंहनादं नदत्येवं पुत्रो बुद्धस्य औरसः ॥ स्र्स्_१८.३४ ॥
अहं निर्वृते संबुद्धे पश्चिमे कालि दारुणे ।
सूत्रं वैस्तारिकं कुर्यां त्यजित्वा कायु जीवितम् ॥ स्र्स्_१८.३५ ॥
सहिष्याम्यत्र बालनामभूतां परिभाषणाम् ।
आक्रोशांस्तर्जनां चैव अधिवासिस्ये नायक ॥ स्र्स्_१८.३६ ॥
क्षपेयं पापकं कर्म यन्मया पुरिमे कृतम् ।
अन्येषु बोधिसत्त्वेषु व्यापादो जनितो मया ॥ स्र्स्_१८.३७ ॥
स्थपेत्व पाणिं मूर्धस्मि बुद्धः काञ्चनसंनिभम् ।
शास्ता चन्द्रप्रभं प्राह मञ्जुघोषस्तथागतः ॥ स्र्स्_१८.३८ ॥
करोमि ते अधिष्ठानं कुमार कालि पश्चिमे ।
न ब्रह्मचर्यान्तरायो जीवितस्य च भेष्यति ॥ स्र्स्_१८.३९ ॥
अन्ये चाष्टौ शतान्यत्र उत्थिता धर्मधारकाः ।
वयं हि पश्चिमे काले अस्य सूत्रस्य धारकाः ॥ स्र्स्_१८.४० ॥
(वैद्य १३१)
देवनागान यक्षाण अशीतिकोट्युपस्थिता ।
अन्ये च नयुताः षष्टि वन्दन्ते लोकनायकम् ॥ स्र्स्_१८.४१ ॥
वयमिमेषां भिक्षूणां य इमे अद्य उत्थिताः ।
तस्मिंश्च पश्चिमे काले रक्षां काहाम नायक ॥ स्र्स्_१८.४२ ॥
अस्मिन् सूत्रे प्रभाष्यन्ते बुद्धक्षेत्राः प्रकम्पिताः ।
यथा वालुक गङ्गाया अधिष्ठानेन शास्तुनः ॥ स्र्स्_१८.४३ ॥
ये च प्रकम्पिताः क्षेत्राः सर्वेषु बुद्धनिर्मिताः ।
प्रेषिता लोकनाथेन ये हि धर्माः प्रकाशिताः ॥ स्र्स्_१८.४४ ॥
एकैकशश्च क्षेत्रातः सत्त्वकोट्यो अचिन्तियाः ।
एवं धर्मं तदा श्रुत्वा बुद्धज्ञाने प्रतिष्ठिताः ॥ स्र्स्_१८.४५ ॥
इतश्च बुद्धक्षेत्रातो नवतिर्देवकोटियः ।
बोधिचित्तं समुत्पाद्य बुद्धं पुष्पैरवाकिरन् ॥ स्र्स्_१८.४६ ॥
ते व्याकृता नरेन्द्रेण कल्पकोटेरशीतिभिः ।
सर्वेऽप्येकत्र कल्पेऽस्मिन् भविष्यन्ति विनायकाः ॥ स्र्स्_१८.४७ ॥
भिक्षुभिक्षुणिकाश्चैव उपासक उपासिकाः ।
षट्सप्तति प्राणकोट्यो येहि सूत्रमिदं श्रुतम् ॥ स्र्स्_१८.४८ ॥
तेऽपि व्याकृत बुद्धेन द्रक्ष्यन्ते लोकनायकान् ।
यथा वालुक गङ्गायाश्चरन्तो बोधिचारिकाम् ॥ स्र्स्_१८.४९ ॥
सर्वेषां पूज काहिन्ति बुद्धज्ञानगवेषकाः ।
तत्र तत्र श्रुणिष्यन्ति इदं सूत्रं निरुत्तरम् ॥ स्र्स्_१८.५० ॥
अशीत्या कल्यकोटीभि भेष्यन्ते लोकनायकाः ।
सर्वे एकत्र कल्पेऽस्मिं हितैषी अनुकम्पकाः ॥ स्र्स्_१८.५१ ॥
मैत्रेयस्य च बुद्धस्य पूजां कृत्वा निरुत्तराम् ।
सद्धर्म श्रेष्ठं धारित्वा गमिष्यन्ति सुखावतीम् ॥ स्र्स्_१८.५२ ॥
यत्रासौ विरजो बुद्धो अमितायुस्तथागतः ।
तस्य पूजां करिष्यन्ति अग्रबोधीय कारणात् ॥ स्र्स्_१८.५३ ॥
त्रिसप्ततिरसंख्येया कल्पा ये च अनागताः ।
न दुर्गतिं गमिष्यन्ति श्रुत्वेदं सूत्रमुत्तमम् ॥ स्र्स्_१८.५४ ॥
ये केचित्पश्चिमे काले श्रोष्यन्ते सूत्रमुत्तमम् ।
अश्रुपातं च काहिन्ति सर्वैस्तैः सत्कृतो ह्यहम् ॥ स्र्स्_१८.५५ ॥
आरोचयामि सर्वेषां यावन्तः पुरतः स्थिताः ।
परिन्दामि इमां बोधिं या मे कृछ्रेण स्पर्शिता ॥ स्र्स्_१८.५६ ॥

इति श्रीसमाधिराजे समाध्यनुपरिन्दना नाम परिवर्तोऽष्टादशः ।


(वैद्य १३२)
१९ अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तः ।

तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेनेमं समाधिमाकाङ्क्षता अचिन्त्यबुद्धधर्मनिर्देशकुशलेन भवितव्यम् । अचिन्त्यबुद्धधर्मपरिपृच्छकजातिकेन भवितव्यम् । अचिन्त्यबुद्धधर्माधिमुक्तिकेन भवितव्यम् । अचिन्त्यबुद्धधर्मपर्येषणाकुशलेन भवितव्यम् । अचिन्त्यांश्च बुद्धधर्मान् श्रुत्वा नोत्त्रसितव्यं न संत्रसितव्यं न संत्रासमापत्तव्यम् । एवमुक्ते चन्द्रप्रभः कुमारभूतो भगवन्तमेतदवोचत् यथा कथं भगवन् बोधिसत्त्वो महासत्त्वः अचिन्त्यबुद्धधर्मनिर्देशकुशलो भवति, अचिन्त्यबुद्धधर्मपरिपृच्छाकुशलश्च, अचिन्त्यबुद्धधर्माधिमुक्तश्च? अचिन्त्यबुद्धधर्मपर्येषणाकुशलश्च भवति, अचिन्त्यांश्च बुद्धधर्मान् श्रत्वा नोत्त्रस्यति न संत्रस्यति न संत्रासमापद्यते?

तेन खलु पुनः समयेन पञ्चशिखो नाम गन्धर्वपुत्रः पञ्चभिस्तूर्यशतैः सार्धं गगनतलादवतीर्य भगवतः पुरतः स्थितोऽभूदुपस्थानपरिचर्यायै । अथ खलु पञ्चशिखस्य गन्धर्वपुत्रस्यैतदभवत् यन्न्वहं यथैवः देवानां त्रायस्त्रिंशानां शक्रस्य च देवानामिन्द्रस्य सुधर्मायां देवसभायामुपस्थानपरिचर्यां करोमि, संगीतिं संप्रयोजयामि, तथैवाद्य देवातिदेवस्यापि तथागतस्यार्हतः सम्यक्संबुद्धस्य पूजायै संगीतिं संप्रयोजयेयम् ॥

अथ खलु पञ्चशिखो गन्धर्वपुत्रस्तैः पञ्चभिस्तूर्यशतैस्तैश्च पञ्चमात्रैर्गन्धर्वपुत्रशतैः सार्धमेकस्वरसंगीतिसंप्रयुक्ताभिस्तूर्यसंगीतिभिर्वैदूर्यदण्डां वीणामादाय भगवतः पुरतो वादयामास । अथ खलु भगवत एतदभूत् यन्न्वहं तथारूपमृद्ध्यभिसंस्कारमभिसंस्कुर्यां यथारूपेण ऋद्ध्यभिसंस्कारेणाभिसंस्कृतेन चन्द्रप्रभः कुमारभूतोऽचिन्त्यबुद्धधर्मनिध्यप्तिकौशल्यमधिगच्छेत्, सर्वधर्मस्वभावसमताविपञ्चिताच्च समाधेर्न चलेत् । पञ्चशिखस्य च गन्धर्वपुत्रस्य तन्त्रीस्वरगीतिस्वरकौशल्यमुपदिशेयम् ॥

अथ खलु भगवांस्तथारूपमृद्ध्यभिसंस्कारमभिसंस्करोति स्म, यत्तेभ्यः पञ्चभ्यस्तूर्यशतेभ्यः संप्रयुक्तेभ्यः प्रवादितेभ्यो यथानकुम्पोपसंहृतः शब्दो निश्चरति धर्मप्रतिसंयुक्तः । इमाश्च बुद्धधर्मनिध्यप्तिगाथा निश्चरन्ति बुद्धानुभावेन

एकहि वालपथे बहुबुद्धा यात्तिक वालिक गङ्गनदीये ।
(वैद्य १३३)
क्षेत्रं तात्तिक तेष जिनानां ते च विलक्षण ते विसभागाः ॥ स्र्स्_१९.१ ॥
पञ्चगतीगत बालपथस्मिन्नैरयिका पि च तिर्यगताश्च ।
ते यमलौकिक देवमनुष्या नापि च संकरु नो च उपीडो ॥ स्र्स्_१९.२ ॥
तत्र पदे ससराः ससमुद्राः सर्व नदी तथ उत्स तडागाः ।
नो पि च संकरु नो च उपीडो एवमचिन्तियु धर्म जिनानाम् ॥ स्र्स्_१९.३ ॥
तत्र पदेऽपि च पर्वत नेके चक्रवाल अपि मेरु सुमेरु ।
ये मुचिलिन्द महामुचिलिन्द विन्ध्यथ गृध्रकूटो हिमवांश्च ॥ स्र्स्_१९.४ ॥
तत्र पदे निरयाश्च सुघोरास्तपन प्रतापन आनभिरम्याः ।
तत्र च ये निरये उपपन्ना वेदन ते पि दुखामनुभोन्ति ॥ स्र्स्_१९.५ ॥
तत्र पदेऽपि च देवविमाना द्वादशयोजन ते रमणीयाः ।
तेषु बहू मरुतान् सहस्रा दिव्यरतीषु सुखान्यनुभोन्ति ॥ स्र्स्_१९.६ ॥
तत्र पदे च बुद्धान उत्पादो शासनु लोकविदून ज्वलेति ।
तं च न पश्यति ज्ञानविहीनो येन न शोधित चर्य विशुद्धा ॥ स्र्स्_१९.७ ॥
तत्र पदेऽपि च धर्म निरुद्धो निर्वृतु नायकु श्रूयति शब्दः ।
तत्र पदेऽपि च केचि शृणोन्ति तिष्ठति नायकु भाषति धर्मम् ॥ स्र्स्_१९.८ ॥
तत्र पदेऽपि च केषचिदायुर्वर्ष अचिन्तिय वर्तति संज्ञा ।
(वैद्य १३४)
तत्र पदेऽपि वा कालु करोन्ति नो चिरु जीवति श्रूयति शब्दः ॥ स्र्स्_१९.९ ॥
तत्र पदेऽपि च केषचि संज्ञा दृष्टु तथागतु पूजितु बुद्धो ।
तोषितु मानसु संज्ञग्रहेण नो पि च पूजितु नो च उपन्नो ॥ स्र्स्_१९.१० ॥
स्वस्मि गृहे सुपिनेव मनुष्यो कामगुणेषु रतीरनुभूय ।
स प्रतिबुद्धु न पश्यति कामांस्तच्च प्रजानति सो सुपिनो ति ॥ स्र्स्_१९.११ ॥
यत्तथ दृष्टु श्रुत मत ज्ञातं सर्वमिदं वितथं सुपिनो वा ।
यस्तु भवेत समाधिय लाभी सो इमु जानति धर्मस्वभावान् ॥ स्र्स्_१९.१२ ॥
सूसुखिताः सद ते नर लोके येष प्रियाप्रियु नास्ति कहिंचित् ।
ये वनकन्दरकेऽभिरमन्ति श्रामणकं सुसुखमनुभोन्ति ॥ स्र्स्_१९.१३ ॥
येष ममापि तु नास्ति कहिंचिद्येष परिग्रहु सर्वशु नास्ति ।
खङ्गसमा विचरन्तिमु लोके ते गगने पवनेव व्रजन्ति ॥ स्र्स्_१९.१४ ॥
भावितु मार्ग प्रवर्तितु ज्ञानं शून्यक धर्म निरात्मनु सर्वे ।
येन विभावित भोन्तिमि धर्मास्तस्य भवेत्प्रतिभानमनन्तम् ॥ स्र्स्_१९.१५ ॥
सूसुखिता बत ते नर कोले येष न सज्जति मानसु लोके ।
वायुसमं सद तेष्विह चित्तं नो च प्रियाप्रियु विद्यति सङ्गो ॥ स्र्स्_१९.१६ ॥
(वैद्य १३५)
अप्रियु ये दुखितेहि निवासो ये हि प्रिया दुखि तेहि वियोगो ।
अन्त उभे अपि एति जहित्वा ते सुखिता नर ये रत धर्मे ॥ स्र्स्_१९.१७ ॥
ये अनुनीयति श्रुत्विमि धर्मान् स प्रतिहन्यति श्रुत्व अधर्मम् ।
सो मदमानहतो विपरीतो मानवशेन दुखि अनुभोति ॥ स्र्स्_१९.१८ ॥
ये समताय प्रतिष्ठित भोन्ति नित्यमनुन्नत नावनताश्च ।
ये प्रियतोऽप्रियतश्च सुमुक्तास्ते सद मुक्तमना विहरन्ति ॥ स्र्स्_१९.१९ ॥
शीले प्रतिष्ठितु सूपरिशुद्धे ध्याने प्रतिष्ठितु नित्यमचिन्त्ये ।
ये वनकन्दरि शान्ति रमन्ते तेष न विद्यति वीमति जातु ॥ स्र्स्_१९.२० ॥
ये च पुनर्वितथे प्रतिपन्नाः कामगुणेषु रताः सद बालाः ।
गृध्रु यथा कुणपेष्वधिमुक्ता नित्यवशानुगता नमुचिस्य ॥ स्र्स्_१९.२१ ॥

अस्मिन् खलु पुनर्गाथाभिनिर्हारे भाष्यमाणे चन्द्रप्रभः कुमारभूतः अचिन्त्येषु बुद्धधर्मेषु गम्भीरनिध्यप्तिनिर्देशकौशल्यमनुप्राप्तः, सूत्रान्तनिर्हारावभासं च प्रतिलब्धवान् । पञ्चशिखस्य च गन्धर्वपुत्रस्य घोषानुगायाः क्षान्तेः प्रतिलम्भोऽभूत् । अप्रमेयाणां च सत्त्वानां देवमानुषिकायाः प्रजाया अनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नानि । अप्रमेयाणां च सत्त्वानामर्थः कृतोऽभूत ॥

इति श्रीसमाधिराजे अचिन्त्यबुद्धधर्मनिर्देशपरिवर्तो नामोनविंशतितमः ॥


(वैद्य १३६)
२० इन्द्रकेतुध्वजराजपरिवर्तः ॥

तत्र खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन सर्वकुशलमूलशिक्षागुणधर्मनिश्रितेन भवितव्यम् । असंसर्गबहुलेन च भवितव्यम्, पापमित्रपरिवर्जकेन कल्याणमित्रसंनिश्रितेन परिपृच्छकजातीयेन धर्मपर्येष्ट्यामतृप्तेन प्रामोद्यबहुलेन धर्मार्थिकेन धर्मकामेन धर्मरतेन धर्मपरिग्राहकेण धर्मानुधर्मप्रतिपन्नेन । शास्तृसंज्ञा अनेन सर्वबोधिसत्त्वेषूत्पादयितव्या । यस्य चान्तिकादिमं धर्मपर्यायं शृणोति, तेन तस्यान्तिके प्रीतिगौरवं शास्तृसंज्ञा चोत्पादितव्या। यः कुमार बोधिसत्त्वो महासत्त्व इमान् धर्मान् समादाय वर्तते, स क्षिप्रमनाच्छेद्यप्रतिभावनिर्यातो भवति । अचिन्त्यबुद्धधर्माधिमुक्तश्च भवति । गम्भीरेषु च धर्मेषु निध्यप्तिं गच्छति । आलोकभूतश्च भवति सदेवकस्य लोकस्य काङ्क्षाविमतिविचिकित्सान्धकारविधमनतया ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत

अभ्यतीत बहुकल्पकोटियो अप्रमेय अतुला अचिन्तियाः ।
यदभूषि द्विपदानमुत्तमो इन्द्रकेतुध्वजराज नायकः ॥ स्र्स्_२०.१ ॥
सो समाधिमिमु शान्तु देशयि यत्र नास्ति नरु जीव पुद्गलः ।
माय बुद्बुद मरीचि विद्युता सर्व धर्म दकचन्द्रसंनिभाः ॥ स्र्स्_२०.२ ॥
नास्ति सत्त्व मनुजो च लभ्यते कालु कृत्व परलोकि गच्छि यो ।
नो च कर्म कृतु विप्रणश्यते कृष्ण शुक्ल फल देति तादृशम् ॥ स्र्स्_२०.३ ॥
एष युक्ति नयद्वार भद्रकं सूक्ष्म दुर्दृशु जिनान गोचरा ।
यत्र अक्षरपदं न लभ्यते बुद्धबोधि भगवान् प्रजानति ॥ स्र्स्_२०.४ ॥
(वैद्य १३७)
धारणी विपुलज्ञानसंचया सूत्रकोटिनियुतान आगता ।
बुद्धकोटिनियुतान गोचरस्तं समाधि भगवान् प्रभाषते ॥ स्र्स्_२०.५ ॥
आतुराणमय व्याधिमोचको बोधिसत्त्वसमुदानितं धनम् ।
सर्वबुद्धस्तुत संप्रकाशितो देवकोटिनियुतेहि पूजितः ॥ स्र्स्_२०.६ ॥
सर्व बालजन भूतचोदना तीर्थिकेहि परिवर्जितः सदा ।
श्रेष्ठ शीलधनु बुद्धवर्णितं विद्युतेव गगने न लिप्यते ॥ स्र्स्_२०.७ ॥
येहि पूजित जिनान कोटियो दानशीलचरिता विचक्षणाः ।
पापमित्र पुरि येहि वर्जिता तेष पैतृकधनं निरुत्तरम् ॥ स्र्स्_२०.८ ॥
तत्र भिक्षु स्थितु धर्मभाणको ब्रह्मचारि सुगतस्य औरसः ।
श्रुत्व धर्ममिममानुलोमिकं चित्त पादेसि य लोकनायकः ॥ स्र्स्_२०.९ ॥
इन्द्रकेतुध्वजराजु नायको अध्यभाषि अभु धर्मभाणकम् ।
भिक्षुभाव परमं ति दुष्करं चित्तुपाद वर अग्रबोधये ॥ स्र्स्_२०.१० ॥
शीलु रक्ष मणिरत्नसंनिभं मित्र सेव सद आनुलोमिकम् ।
पापमित्र न कदाचि सेवतो बुद्धज्ञानमचिरेण लप्स्यसे ॥ स्र्स्_२०.११ ॥

इति श्रीसमाधिराजे इन्द्रकेतुध्वजराजपरिवर्तो नाम विंशतितमः ॥


(वैद्य १३८)
२१ पूर्वयोगपरिवर्तः ।

आसि पूर्वमिह जम्बुसाह्वये अप्रमत्त दुवि श्रेष्ठिदारकौ ।
प्रव्रजित्व सुगतस्य शासने खङ्गभूत वनषण्डमाश्रितौ ॥ स्र्स्_२१.१ ॥
ऋद्धिमन्त चतुर्ध्यानलाभिनौ काव्यशास्त्रकुशलौ सुशिक्षितौ ।
अन्तरिक्षपदभूमिकोविदौ ते असक्त गगने व्रजन्ति च ॥ स्र्स्_२१.२ ॥
ते च तत्र वनषण्डि शीतले नानपुष्पभरिते मनोरमे ।
नानपक्षिद्विजसंघसेविते अन्यमन्य कथ संप्रयोजिते ॥ स्र्स्_२१.३ ॥
तेन राज मृगया अटन्तके शब्द श्रुत्व वनु तमुपागमी ।
दृष्ट्व पार्थिव तथ धर्मभाणकौ तेषु प्रेम परममुपस्थहि ॥ स्र्स्_२१.४ ॥
तेहि सार्धु कथ आनुलोमिकीं कृत्व राजु पुरतो निषीदि सो ।
तस्य राज्ञ बलकाय नन्तको षष्ठिकोटिनियुतान्युपागमी ॥ स्र्स्_२१.५ ॥
एकमेकु तेषु धर्मभाणको राजमब्रवी शृणोहि क्षत्रिया ।
बुद्धपादु परमं सुदुर्लभो अप्रमत्तु सद भोहि पार्थिव ॥ स्र्स्_२१.६ ॥
आयु गच्छति सदानवस्थितं गिरिनदीय सलिलेव शीघ्रगम् ।
व्याधिशोकजरपीडितस्य ते नास्ति त्राणु यथ कर्म भद्रकम् ॥ स्र्स्_२१.७ ॥
(वैद्य १३९)
धर्मपालु भव राजकुञ्जरा रक्षिमं दशबलान शासनम् ।
क्षीण कालि परमे सुदारुणे धर्मपक्षि स्थिहि राजकुञ्जर ॥ स्र्स्_२१.८ ॥
एव ते बहुप्रकार पण्डिता ओवदन्ति तद तं नराधिपम् ।
सार्धु षष्टनियुतेहि पार्थिवो बोधिचित्तमुदपादयत्तदा ॥ स्र्स्_२१.९ ॥
श्रुत्व धर्म तद राजकुञ्जरः सूरतानखिलान भाषतो ।
प्रीतिजात सुमना उदग्रको वन्द्य पाद शिरसाय प्रक्रमी ॥ स्र्स्_२१.१० ॥
तस्य राज्ञ बहवोऽन्यभिक्षवो लाभकाम प्रविशिन्तु तत्कुलम् ।
तेष दृष्ट चरिया न तादृशी तेषु राज न तथा सगौरवम् ॥ स्र्स्_२१.११ ॥
तच्च शासनमतीतशास्तुकं पश्चिमं च तद वर्षु वर्तते ।
जम्बुद्वीपि सुपरित्तभाजना प्रादुर्भूत बहवो असंयताः ॥ स्र्स्_२१.१२ ॥
उत्क लुब्ध बहु तत्र भिक्षवो लाभकाम उपलम्भदृष्टिकाः ।
विप्रनष्ट सुगतस्य शासनाद्ग्राहयिंसु बहुलं तदा नृपम् ॥ स्र्स्_२१.१३ ॥
घातयेति उभि धर्मभाणकौ ये उच्छेदु प्रवदन्ति तीर्थिकाः ।
दीर्घचारिक समादपेन्ति ते निर्वृतीय न ते किंचि दर्शिका ॥ स्र्स्_२१.१४ ॥
कर्म नश्यति विपाकु नश्यति स्कन्ध नास्तीति वदन्ति कुहकाः ।
(वैद्य १४०)
तां क्षिपाहि विषयातु पार्थिव एवमेव चिरु धर्म स्थास्यति ॥ स्र्स्_२१.१५ ॥
श्रुत्व तेष वचनं तदन्तरं काङ्क्ष प्राप्तु भुत राजकुञ्जरः ।
घातयिष्यि अमु धर्मभाणकौ मा उपेक्षितु अनर्थ भेष्यति ॥ स्र्स्_२१.१६ ॥
तस्य राज्ञ अनुबद्ध देवता पूर्वजाति सहचीर्णु चारिका ।
दीर्घरा हितकाम पण्डिता सा अवोचि तद राजपार्थिवम् ॥ स्र्स्_२१.१७ ॥
चित्तुपाद म जनेहि ईदृशं पापमित्रवचनेन क्षत्रिया ।
मा त्व भिक्षु दुवि धर्मभाणकौ पापमित्रवचनेन घातय ॥ स्र्स्_२१.१८ ॥
न त्व किंचि स्मरसी नराधिप यत्ति तेहि वनषण्डि भाषितम् ।
क्षीणकालि परमे सुदारुणे धर्मपक्षि स्थिहि राजकुञ्जर ।
राज भूतवचनेन चोदितः सो न रिञ्जति जिनान शासनम् ॥ स्र्स्_२१.१९ ॥
तस्य राज्ञ तद भ्रात दारुणः प्रातिसीमिकु स तेहि ग्राहितः ।
एष देव तव भ्रात पापको जीवितेन न जातु नन्दते ।
तौ च भिक्षु दुवि घोर वैद्यका ते व्रजन्ति गगनेन विद्यया ॥ स्र्स्_२१.२० ॥
ते स्म श्रुत्व तव मूलमागता सर्वि भूत तव विज्ञपेमथ ।
क्षिप्र घातय घोर वैद्यका मा ति पश्चि अनुतापु भेष्यति ॥ स्र्स्_२१.२१ ॥
संनहित्व तद राजकुञ्जरो पापमित्रवचनेन प्रस्थितः ।
(वैद्य १४१)
सर्वसैन्यपरिवारितो नृपो यत्र भिक्षु वनि तमुपागतो ॥ स्र्स्_२१.२२ ॥
ज्ञात्व घोरमतिदारुणं नृपं नाग यक्ष वनि तत्र ये स्थिताः ।
इष्टवर्ष तद तत्र पातित तेन राज सहसेनया हतो ॥ स्र्स्_२१.२३ ॥
पापमित्रवचनेन पश्यथा कालु कृत्व तद राज दारुणम् ।
येन क्रोधु कृतु धर्मभाणके सो अवीचि गतु षष्टिजातियो ॥ स्र्स्_२१.२४ ॥
तेऽपि भिक्षु बहवोपलम्भिका येहि ग्राहितु राज क्षत्रियो ।
जातिकोटिशत अप्यचिन्तियो वेदयिंसु नरकेषु वेदनाम् ॥ स्र्स्_२१.२५ ॥
देवता याय राजु चोदितो याय रक्षित धर्मभाणकौ ।
ताय बुद्ध यथ गङ्गवालिका दृष्ट्व पूजित चरन्तु चारिकाम् ॥ स्र्स्_२१.२६ ॥
षष्टिकोटिनियुता अनूनका येहि धर्म श्रुतु सार्धु राजिना ।
येहि बोधिवरचित्तु पादितं बुद्ध भूयि पृथुलोकधातुषु ॥ स्र्स्_२१.२७ ॥
तेषु आयु बहुकल्पकोटियो तेष ज्ञानमतुलमचिन्तियम् ।
तेहि सर्विमु समाधि भद्रकं देशयित्व द्विपदेन्दु निर्वृता ॥ स्र्स्_२१.२८ ॥
एतु श्रुत्व वचनं निरुत्तरं शीलब्रह्मगुणज्ञानसंचयम् ।
अप्रमत्त भवथा अतन्द्रिता बुद्धज्ञानमचिरेण लप्स्यथा ॥ स्र्स्_२१.२९ ॥
(वैद्य १४२)
द्रक्ष्यथा दशदिशे तथागतान् शान्तचित्त कृपमैत्रलोचनान् । सर्वलोकशरणं परायणं धर्मवर्षु जगि उत्सृजिष्यथा ॥ ३० ॥

इति श्रीसमाधिराजे पूर्वयोगपरिवर्तो नाम एकविंशतितमः ॥

(वैद्य १४३)
२२ तथागतकायनिर्देशपरिवर्तः ।

अथ खलु भगवांश्चन्द्रप्रभं कुमारभूतमामन्त्रयते स्म तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन कायेऽनध्यवसितेन जीविते निरपेक्षेण भवितव्यम् । तत्कस्य हेतोः? कायजीविताध्यवसानहेतोर्हि कुमार अकुशलधर्माभिसंस्कारो भवति । तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन न रूपकायतस्तथागतः प्रज्ञातव्यः । तत्कस्य हेतोः? धर्मकाया हि बुद्धा भगवन्तो धर्मकायप्रभाविताश्च न रूपकायप्रभाविताः । तस्मात्तर्हि कुमार बोधिसत्त्वेन महासत्त्वेन तथागतकायं प्रार्थयितुकामेन तथागतकायं ज्ञातुकामेन अयं समाधिरुद्ग्रहीतव्यः पर्यवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तितव्यः उद्देष्टव्यः स्वाध्यातव्यो वाचयितव्यो भावनायोगमनुयुक्तेन भवितव्यं परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । तत्र कुमार तथागतस्य कायः शतपुण्यनिर्जातया बुद्ध्यानेकार्थनिर्देशो धर्मनिर्जातः आनिमित्तः सर्वनिमित्तापगतो गम्भीरः अप्रमाणः अप्रमाणधर्मः आनिमित्तस्वभावः सर्वनिमित्तविभावितः । अचलोऽप्रतिष्ठितोऽत्यन्ताकाशस्वभावोऽदृश्यश्चक्षुःपथसमतिक्रान्तो धर्मकायः प्रज्ञातव्यः । अचिन्त्यः चित्तभूमिविगतः सुखदुःखाविप्रकम्प्यः सर्वप्रपञ्चसमतिक्रान्तोऽनिर्देश्योऽनिकेतो बुद्धज्ञानं प्रार्थयितुकामानां घोषपथसमतिक्रान्तः ससारो रागसमतिक्रान्तः अभेद्यो दोषपथसमतिक्रान्तो दृढो मोहपथसमतिक्रान्तो निर्दिष्टः । शून्यतानिर्देशेन अजातो जातिसमतिक्रान्तः अनास्रवः विपाकसमतिक्रान्तः नित्यो व्याहारेण । व्यवहारश्च शून्यः निर्विशेषो निर्वाणेन, निर्वृतः शब्देन, शान्तो घोषेण, सामान्यः संकेतेन, संकेतः परमार्थेन, परमार्थो भूतवचनेन । शीतलो निष्परिदानः अनिमित्तः अमन्यितः
अनिन्दितः अप्रपञ्चितः अल्पशब्दो निर्देशेन । अपर्यन्तो वर्णनिर्देशेन, महाभिज्ञापरिकर्मनिर्जातः अस्मृतितः अविदूरे महाभिज्ञापरिकर्मनिर्देशेन । अयमुच्यते कुमार तथागतकाय इति ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत

य इच्छे लोकनाथस्य कायं जानितुमीदृशम् ।
इमं समाधिं भावित्वा कायं बुद्धस्य ज्ञास्यति ॥ स्र्स्_२२.१ ॥
(वैद्य १४४)
पुण्यनिर्जातु बुद्धस्य कायः शुद्धः प्रभास्वरः ।
समेति सोऽन्तरीक्षेण नानात्वं नास्य लभ्यते ॥ स्र्स्_२२.२ ॥
यादृशा बोधिर्बुद्धस्य लक्षणानि च तादृशाः ।
यादृशा लक्षणास्तस्य कायस्तस्य हि तादृशः ॥ स्र्स्_२२.३ ॥
संबोधिलक्षणः कायो बुद्धक्षेत्रं हि तादृशम् ।
बला विमोक्षा ध्यानानि सर्वे तेऽप्येकलक्षणाः ॥ स्र्स्_२२.४ ॥
एवं संभवु बुद्धानां लोकनाथान ईदृशः ।
न जातु केनचिच्छक्यं पश्यितुं मांसचक्षुषा ॥ स्र्स्_२२.५ ॥
बहू एवं प्रवक्ष्यन्ति दृष्टो मे लोकनायकः ।
सुवर्णवर्णः कायेन सर्वलोकं प्रभासति ॥ स्र्स्_२२.६ ॥
अधिष्ठानेन बुद्धानामनुभावाद्विकुर्वितैः ।
येनासौ दृश्यते कायो लक्षणेहि विचित्रितः ॥ स्र्स्_२२.७ ॥
आरोहपरिणाहेन कायो बुद्धस्य दर्शितः ।
न च प्रमाणं कायस्य लब्धं तेन अचिन्तियः ॥ स्र्स्_२२.८ ॥
यदि प्रमाणं लभ्येत कायो बुद्धस्य एत्तकः ।
निर्विशेषो भवेच्छास्ता देवैश्च मनुजैरपि ॥ स्र्स्_२२.९ ॥
समाहितस्य चित्तस्य विपाकोऽपि तल्लक्षणः ।
तल्लक्षणं नामरूपं शुद्धं भोति प्रभास्वरम् ॥ स्र्स्_२२.१० ॥
न चैष केनचिज्जातु समाधिः शान्तु भावितः ।
यथेह लोकनाथेन कल्पकोट्यो निषेवितः ॥ स्र्स्_२२.११ ॥
बहुभिः शुक्लधर्मैश्च समाधिर्जनितोऽप्ययम् ।
समाधेरस्य वैपुल्यात्कायो मह्यं न दृश्यते ॥ स्र्स्_२२.१२ ॥
यस्य वो यादृशं चित्तं नामरूपं पि तादृशम् ।
निःस्वभावस्य चित्तस्य नामरूपं विलक्षणम् ॥ स्र्स्_२२.१३ ॥
यस्य चोदारसंज्ञादि नामरूपस्मि वर्तते ।
विसभागाय संज्ञाय उदारं चित्तु जायते ॥ स्र्स्_२२.१४ ॥
यस्य चो मृदुकी संज्ञा नामरूपस्मि वर्तते ।
अगृध्रं नामरूपस्मि चित्तं भोति प्रभास्वरम् ॥ स्र्स्_२२.१५ ॥
स्मरामी पूर्वजातीषु असंख्येयेषु सप्तसु ।
तिस्रो मे पापिकाः संज्ञा नैवोत्पन्नाः कदाचन ॥ स्र्स्_२२.१६ ॥
(वैद्य १४५)
अनास्रवं च मे चित्तं कल्पकोट्यो ह्यचिन्तियाः ।
करोमि चार्थं सत्त्वानां न च मे कायु दृश्यते ॥ स्र्स्_२२.१७ ॥
यथा च यस्य भावेहि विमुक्तं भोति मानसम् ।
न तस्य तेहि भावेहि भूयो भोति समागमः ॥ स्र्स्_२२.१८ ॥
विमुक्तं मम विज्ञानं सर्वभावेहि सर्वशः ।
स्वभावो ज्ञातु चित्तस्य भूयो ज्ञानं प्रवर्तते ॥ स्र्स्_२२.१९ ॥
क्षेत्रकोटीसहस्राणि गच्छन्ति मम निर्मिताः ।
कुर्वन्ति चार्थं सत्त्वानां यत्र कायो न लभ्यते ॥ स्र्स्_२२.२० ॥
अलक्षणो निर्निमित्तो यथैव गगनं तथा ।
कायो निरभिलाप्यो मे दुर्विज्ञेयो निदर्शितः ॥ स्र्स्_२२.२१ ॥
धर्मकायो महावीरो धर्मेण काय निर्जितो ।
न जातु रूपकायेण शक्यं प्रज्ञापितुं जिनो ॥ स्र्स्_२२.२२ ॥
कथानिर्देशु यस्यैतं श्रुत्वा प्रीतिर्भविष्यति ।
न तस्य मारः पापीयानवतारं लभिष्यति ॥ स्र्स्_२२.२३ ॥
श्रुत्वा च धर्मं गम्भीरं यस्य त्रासो न भेष्यति ।
न चासौ जीवितार्थाय बुद्धबोधिं प्रतिक्षिपेत् ॥ स्र्स्_२२.२४ ॥
भूतकोटीसहस्राणां भूतनिर्देश ज्ञास्यति ।
आलोकभूतो लोकानां येन येन गमिष्यति ॥ स्र्स्_२२.२५ ॥

तत्र कुमार तथागतस्य कायो निमित्तकर्मणापि न सुकरं ज्ञातुम् । नीलो वा नीलवर्णो वा नीलनिदर्शनो वा नीलनिर्भासो वा । पीतो वा पीतवर्णो वा पीतनिदर्शनो वा पीतनिर्भासो वा । लोहितो वा लोहितवर्णो वा लोहितनिदर्शनो वा लोहितनिर्भासो वा । अवदातो वा अवदातवर्णो वा अवदातनिदर्शनो वा अवदातनिर्भासो वा । मञ्जिष्ठो वा मञ्जिष्ठवर्णो वा मञ्जिष्ठनिदर्शनो वा मञ्जिष्ठनिर्भासो वा । स्फटिको वा स्फटिकवर्णो वा स्फटिकनिदर्शनो वा स्फटिकनिर्भासो वा । आग्नेयो वा अग्निवर्णो वा अग्निनिदर्शनो वा अग्निनिर्भासो वा । सर्पिर्मण्डोपमो वा सर्पिर्वर्णो वा सर्पिर्निदर्शनो वा सर्पिर्निर्भासो वा । सौवर्णो वा सुवर्णवर्णो वा सुवर्णनिदर्शनो वा सुवर्णनिर्भासो वा । वैदूर्यो वा वैदूर्यवर्णो वा वैदूर्यनिदर्शनो वा वैदूर्यनिर्भासो वा । विद्युद्वा वा विद्युद्वर्णो वा विद्युन्निदर्शनो वा विद्युन्निर्भासो वा । ब्रह्मो वा ब्रह्मवर्णो वा ब्रह्मनिदर्शनो वा ब्रह्मनिर्भासो वा । देवो वा देववर्णो वा देवनिदर्शनो वा देवनिर्भासो वा । इति हि कुमार तथागतस्य कायः शुद्धः सर्वनिमित्तैरप्यचिन्त्यः अप्यचिन्त्यनिर्देशो रूपकायपरिनिष्पत्त्या । न सुकरं सदेवकेनापि लोकेन कायस्य प्रमाणमुद्ग्रहीतुमन्यत्र सर्वाकारैरचिन्त्यः अप्रमेयः ॥

अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत
(वैद्य १४६)

यद्रजो लोकधातूषु पांसुसंज्ञानिदर्शनम् ।
उत्सह्रदतडागेषु समुद्रेषु च यज्जलम् ।
न तेषां लभ्यते अन्तो एत्तका परमाणवः ॥ स्र्स्_२२.२६ ॥
समुद्राद्वालकोटीभिर्मातुं शक्यं जलं भवेत् ।
न तुल्या लोकनाथेन उपमा संप्रकाशिता ।
जलबिन्दवोऽप्रमेयास्तथैव परमाणवः ॥ स्र्स्_२२.२७ ॥
पश्माम्येकस्य सत्त्वस्य ततो बहुतरानहम् ।
अधिमुक्तिचित्तोत्पादो नैककाले प्रजानितुम् ॥ स्र्स्_२२.२८ ॥
ये मया आत्मभावस्य भूतवर्णा निदर्शिताः ।
सर्वसत्त्वाधिमुक्तास्तानेतेषामुपमाक्षमाः ॥ स्र्स्_२२.२९ ॥
निमित्तकर्मणा चैव वर्णनिर्भास ईदृशः ।
शक्यं जानितुं बुद्धस्य विशेषो हीदृशो मम ॥ स्र्स्_२२.३० ॥
निमित्तापगता बुद्धा धर्मकायप्रभाविताः ।
गम्भीराश्चाप्रमेयाश्च तेन बुद्धा अचिन्तियाः ॥ स्र्स्_२२.३१ ॥
अचिन्तियस्य बुद्धस्य बुद्धकायोऽप्यचिन्तियः ।
अचिन्तिया हि ते काया धर्मकायप्रभाविताः ॥ स्र्स्_२२.३२ ॥
चित्तेनापि न बुद्धानां कायश्चिन्तयितुं क्षमः ।
तथा हि तस्य कायस्य प्रमाणं नोपलभ्यते ॥ स्र्स्_२२.३३ ॥
अप्रमेया हि ते धर्माः कल्पकोट्यो निषेविताः ।
तेनो अचिन्तियः कायो निर्वृतो मे प्रभास्वरः ॥ स्र्स्_२२.३४ ॥
अग्राह्यः सर्वसत्त्वेहि न प्रमाणेहि गृह्यते ।
तथा हि कायो बुद्धस्य अप्रमाणो ह्यचिन्तियः ॥ स्र्स्_२२.३५ ॥
अप्रमाणेहि धर्मेहि प्रमाणं तत्र कल्पितम् ।
अकल्पितेहि धर्मेहि बुद्धोऽप्येवमकल्पितः ॥ स्र्स्_२२.३६ ॥
प्रमाणं कल्पमाख्यातो अप्रमाणमकल्पितम् ।
अकल्प्यः कल्पापगतस्तेन बुद्धो अचिन्तियः ॥ स्र्स्_२२.३७ ॥
अप्रमाणं यथाकाशं मातुं शक्यं न केनचित् ।
तथैव कायु बुद्धस्य आकाशसमसादृशः ॥ स्र्स्_२२.३८ ॥
ये कायमेवं जानन्ति बुद्धानां ते जिनात्मजाः ।
तेऽपि बुद्धा भविष्यन्ति लोकनाथा अचिन्तियाः ॥ स्र्स्_२२.३९ ॥

इति श्रीसमाधिराजे तथागतकायनिर्देशपरिवर्तो नाम द्वाविंशतितमः ॥


(वैद्य १४७)
२३ तथागताचिन्त्यनिर्देशपरिवर्तः ।

तस्मात्तर्हि कुमार यो बोधिसत्त्वो महासत्त्वः आकाङ्क्षेत्किमित्यहं चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति । कतमाश्चतस्रः? यदुत अर्थप्रतिसंविदं धर्मप्रतिसंविदं निरुक्तिप्रतिसंविदं प्रतिभानप्रतिसंविदम् । इमाश्चतस्रः प्रतिसंविदः साक्षात्कुर्यामिति, तेन कुमार बोधिसत्त्वेन महासत्त्वेन अयं समाधिरुद्ग्रहीतव्यः पर्तवाप्तव्यो धारयितव्यो वाचयितव्यः प्रवर्तयितव्यः उद्देष्टव्यः स्वाध्यातव्यो भावयितव्यः, परेभ्यश्च विस्तरेण संप्रकाशयितव्यः । भावनायोगमनुयुक्तेन च भवितव्यम् । तत्र कुमार कतमा धर्मप्रतिसंविदः? इमाः कुमार बोधिसत्त्वो धर्मप्रतिसंविद एवं प्रतिसंशिक्षते यावन्तो वा रूपव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः । एवं वेदनासंज्ञासंस्काराः । यावन्तः कुमार विज्ञानव्याहारास्तावन्तस्तथागतस्य वर्णव्याहाराः । इति हि कुमार अप्रमेया अचिन्त्या असंख्येयाः अतुल्यामाप्यापरिमाणास्तथागतस्य रूपवर्णव्याहाराः । इति हि कुमार अपर्यन्ता अनन्ता रूपव्याहाराः । एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः । एवं वेदनासंज्ञासंस्काराः । इति हि अनन्ता अपर्यन्ता अचिन्त्या विज्ञानव्याहाराः । एवमचिन्त्यास्तथागतस्य वर्णव्याहाराः ॥

इति हि कुमार अप्रमेया असंख्येयाः संस्कृते दोषाः । अप्रमेया असंख्येया निर्वाणे अनुशंसाः । असंख्येयास्तथागतस्य वर्णाः । इति हि कुमार यावन्ति निर्वाणनामानि तावन्तस्तथागतस्य वर्णाः । इति हि कुमार असंख्येयानि निर्वाणनामानि । असंख्येयास्तथागतस्य वर्णाः ॥