प्रमुखा विकल्पसूचिः उद्घाट्यताम्

सर्वमतसंग्रहः

प्रमाणनिरूपणम् ।
इह सम्यगनुभवः प्रमाणम् ।
सम्यग्रहणं संशयविपर्ययापोहार्थम् ।
तत्रानवधारणज्ञानं संशयः ।
यथा स्थाणुर्वा पुरुषो वायमित्यादि ।
मिथ्याध्यवसायो विपर्ययः ।
यथा द्वौ चन्द्रमसावित्यादि ।
स्मृतिव्यवच्छेदार्थमनुभवग्रहणम् ।
संस्कारमात्रजं ज्ञानं स्मृतिः ।
यथा सा मे मातेत्यादि ।
प्राचीनानुभववासना संस्कारः ।
स च सदृशवस्तुसन्दर्शनोद्बुद्धः स्मृतिहेतुः ।
कथं पुनरनुभवग्रहणेन स्मृतिव्यवच्छेदः, स्मृत्यन्यज्ञानस्यानुभवत्वात् ।
यथाहुः- अनुभूतिः प्रमाणं सा स्मृतेरन्येऽति ।
संस्कारमात्रजमिति मात्रचा प्रत्यभिज्ञा व्यावर्तिता ।
संस्कारसम्प्रयोगाभ्यां जायमानं ज्ञानं प्रत्यभिज्ञा ।
यथा स एवायं घट इति ।
नन्वनुभवस्यैव प्रमापात्वे कुत आगमादिषु प्रमाणत्वव्यवहारः ।
प्रमाणजनकत्वादेवेति ब्रूमः ।
तदुक्तं श्रीभगवत्पादैः- अत्र ब्रह्मविद्योपेनिषच्छब्दवाच्या ।
तत्पराणां सहेतोः संसारस्यात्यन्तावसादनात् ।
उपनिपूर्वस्य सदेस्तदर्थत्वात् ।
तादर्थ्याद् ग्रन्थोऽप्युपनिषदुच्यते इति ।
तच्च प्रमाणमष्टविधं प्रत्यक्षमनुमानमागम उपमानमर्थापत्तिरभावः सम्भव ऐतिह्यमिति ॥


प्रत्यक्षनिरूपणम् ।
तत्र सम्यगपरोक्षानुभवः प्रत्यक्षम् ।
तद् द्विविधं सविकल्पकं निर्विकल्पकं चेति ।
तत्र संज्ञादिविशिष्टार्थविषयसविकल्पकं, यथा घटोऽयमिति ।
तदनुलिखितार्थविषयकं निर्विकल्पकं, यथेदमिति वस्तुमात्रानुभवः ।
तत् पुनर्द्विविधं योगिप्रत्यक्षमयोगिप्रत्यक्षं चेति ।
तत्रेन्द्रियसन्निकृष्टार्थविषयमयोगिप्रत्यक्षम् ।
द्विविधानि चेन्द्रियाणि बाह्याभ्यन्तरभेदात् ।
बाह्यानि श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणाख्यानि पञ्च ज्ञानेन्द्रियाणि ।
आन्तरणि मनोबुद्ध्यहङ्कारचित्ताख्यानि ।
अर्थाश्च बाह्याभ्यन्तरभेदेन द्विविधाः ।
बाह्याः शब्दादय आकाशादयश्च ।
आन्तराः सुखादयो बुद्ध्यादयश्च ।
इन्द्रियार्थसन्निकर्षस्तु पञ्चविधः संयोगः संयुक्तसमवायः संयुक्तसमवेतसमवायः समवायः समवेतसमवायश्चेति ।
षष्ठोऽपि तादात्म्यलक्षणः सम्बन्धः ।
सोऽयं बुद्ध्यात्मनिष्ठः ।
न च जडाजडयोस्तयोस्तादात्म्यानुपपत्तिः ।
काष्ठदहनन्यायेन तदुपपत्तेः ।
तत्सम्बन्धस्य मायीयत्वेन दुर्घटताया भूषणत्वाच्च ।
तेना(य)महमस्मीति प्रत्यय उत्पद्यते ।
तत्रानिदमंश आत्मा स्वतो भासते, चिदेकरसत्वात् ।
इदमंशो बुद्धिरात्मसंवित्सम्भेदात्वभासते, अचित्स्यभावत्वात् ।

न चाहमित्यात्मैव भाति न बुद्धिरपीति युक्तम् ।
तस्य स्वप्रकाशत्वेनाहम्प्रत्ययविषयत्वायोगात् सुषुप्तिमूर्छामरणादिष्वहम्प्रत्ययविषयेऽप्यात्मनो भासमानत्वाच्च ।
न(च) बुद्धिरेव भासत इति युक्तम् ।
तस्या जडत्वेनात्मसंभेदं विना भानानुपपत्तेः ।
तस्मादहमित्यन्योन्यतादात्म्येन बुद्ध्यात्मानौ भासेते इत्यास्थेयम् ।
आत्मतादात्म्यवत्यां बुद्धौ समवेतत्वात् सुखादीनां ग्रह्या सुख्यहमित्यादि ।
आत्मतेजोनुविद्धबुद्धिमच्चक्षुसंयोगाद् घटादिद्रव्यग्रहणम् ।
तथाविधचक्षुःसंयुक्तसमवायात् तद्गतरूपादिग्रहणं, यथा शुक्लो महानयं घट इति ।
तथाविधचक्षुःसंयुक्तसमवेतसमवायाद् घटरू(पत्वा ?पा)दिस्थरूपत्वादिसामान्यग्रहणम् ।
आत्माभिन्नबुद्धिमच्छ्रोत्रसमवायाच्छब्दग्रहणम् ।
तथाविधश्रोत्रसमवेतसमवायाच्छब्दत्वादिसामान्यग्रहणं , यथा सशब्दमिदं गिरिगह्वरमिति ।
एवं चक्षुषैव रूपज्ञानम् ।
श्रोत्रेणैव शब्दज्ञानम् ।
त्वचैव स्पर्शज्ञानम् ।
रसनेनैव रसज्ञानम् ।
घ्राणेनैव गन्धज्ञानम् ।
अन्तःकरणेनैव सुखादिज्ञानम् ।
तच्च मनोरूपमर्थप्रतिभासमात्रसाधनम् ।
बुद्धिरूपं तन्निश्चयसाधनम् ।
अहङ्काररूपं तस्यात्मन्यारोपहेतुः ।
चित्तरूपमनुसन्धानसाधनम् ।
यथा घटोऽयं, धट एवायं, घटमहं जानामि, ज्ञातो मया घट इति च ।
यदा रूपस्य चक्षुषैव ग्रहणं, तदाधारस्य द्रव्यस्यापि तेनैव ग्रहणम् ।
एवमन्यान्यपि ।
शब्दाश्रयस्य तु व्योम्नो मनसैव ।

तत्तद्द्रव्यगुणसमवायस्येन्द्रियसंसृष्टैः स्वसम्बन्धभिः सह विशेषणविशेष्यभावाद् ग्रहणम् ।
यथा घटे रूपसमवायः रूपसमवायवान् घट इति ।
लोकालोकतत्त्वसाक्षाज्ज्ञानं योगिप्रत्यक्षम् ।
तत्र समाधिदशायां चिरकालनिरन्तराभ्यस्तभक्तिज्ञानयोगानुभावपरिशोधिततिमिरपटलेन मनश्चक्षुषैवाहं ब्रह्मास्मीत्यलौकिकस्यात्मतत्त्वस्यैव ग्रहणम् ।
व्यवहारदशायां भोक्तृभोग्यभोजयित्रात्मकस्य लोकालोकतत्त्वस्य योगपरिभावितमनःसनाथेन शास्त्रचक्षुषा ग्रहणम् ॥

अनुमाननिरूपणम् ।
अविनाभावेन सम्यक् परोक्षानुभवोऽनुमानम् ।
यथा व्याप्यधूमादिना व्यापकाग्न्यादिज्ञानम् ।
स्वभावतः साध्येन साधनस्य व्याप्तिरविनाभावः ।
स द्विविधः, अन्वयव्यतिरेकभेदात् ।
तत्र साध्यसामान्येन साधनसामान्यस्य व्याप्तिरन्वयः ।
यत्र यत्र धूमस्तत्र तत्राग्निरिति ।
साधनसामान्याभावेन साध्यसामान्याभावस्य व्याप्तिर्व्यतिरेकः यत्र यत्र अग्निर्नास्ति तत्र तत्र धूमोऽपि नास्तीति ।
बाष्पधूमादिना अग्न्याद्यनुमानव्यवच्छेदार्थं सम्यग्ग्रहणम् ।
प्रत्यक्षव्यवच्छेदार्थं परोक्षग्रहणम् ।
आगमव्यवच्छेदार्थमविनाभावग्रहणम् ।
तच्च द्विविधं स्वार्थानुमानं परार्थानुमानं चेति ।
परोपदेशानपेक्षं स्वार्थम् ।
तदपेक्षं परार्थम् ।
परोपदेशस्तु त्र्यवयवं वाक्यम् ।
प्रतिज्ञाहेतूदाहरणानि वा उदाहरणोपनयनिगमनानि वावयवाः ।

तत्र (वतिवि?साध्यवत्तया) पक्षवचनं प्रतिज्ञा ।
यथाग्निमानयं पर्वत इति ।
लिङ्गवचनं हेतुः ।
यथा धूमवत्त्वादिति ।
सम्यग्दृष्टाभिधानमुदाहरणम् ।
यो यो धूमवान् स सोऽग्निमान् यथा महानस इति, योऽग्निमान् न भवति स धूमवानपि न भवति यथा जलाशय इति वा ।
दृष्टान्ते प्रसिद्धाविनाभावस्य साधनसाध्यस्य दृष्टान्तोपमानेन पक्षे व्याप्तिव्यापकवचनमुपनयः? ।
तथाचायं धूमवानिति, न तथायं धूमवान् न भवतीति वा ।
सहेतुकं प्रतिज्ञायाः पुनर्वचनं निगमनम् ।
तस्मादग्निमानिति, तस्मादग्निमान् न भवतीति नेति वा ।
तत् पुनस्त्रिविधम् अन्वयव्यतिरेकिकेवलान्वयिकेवलव्यतिरेकिभेदात् ।
तत्र पञ्चरूपमन्वयव्यतिरेकि ।
रूपाणि तु पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद् व्यावृत्ति(म ?र)बाधितविषयत्वमसत्प्रतिपक्षत्वं चेति ।
साध्यधर्मविशिष्टो धर्मी पक्षः ।
तत्र व्याप्यवृत्तित्वं हेतोः पक्षधर्मत्वम् ।
साध्यसजातीयधर्मा धर्मी(विव ?पक्षः ।
तत्र सर्वत्र एकदेशे वा वृत्तिः सपक्षे सत्त्वम् ।
साध्यविजातीयधर्मा धर्मी विपक्षः ।
तत्र सर्वत्र हेतोरवृत्तिर्विपक्षाद् व्यावृत्तिः ।
प्रमाणाविरोधिनि प्रतिज्ञातेऽर्थे हेतोर्वृत्तिरबाधितविषयत्वम् ।
प्रतियोगिशून्यत्वमसत्प्रतिपक्षत्वमिति ।

अन्वयव्यतिरेक्यनुमानं तु हेतुसाध्ययोरन्वयव्याप्तिमद् व्यतिरेकव्याप्तिमच्च भवतीति पञ्चरूपमुच्यते ।
तद् यथा-विमतं मिथ्या दृश्यत्वाद्, यद् यद् दृश्यं तत्तन्मिथ्या यथा गन्धर्वनगरादि ।
यत्रे मिथ्या तत्र दृश्यं, यथात्मेति ।
केवलान्वयि चतूरूपम् ।
अविद्यमानविपक्षत्वेन विपक्षाद् व्यावृत्त्यभावाद्, तत्सत्त्वे केवलान्वयित्वासिद्धेः ।
तद् यथा-विमतं सकर्तृकं कार्यत्वाद्, यद् यद् कार्यं तत् तत् सकर्तृकं यथा घट इति ।
केवलव्यतिरेक्यपि चतूरूपम् ।
अविद्यमानसपक्षत्वेन सपक्षे सत्त्वाभावात् ।
यथा-सर्वं कार्यं सर्ववित्कर्तृपूर्वकं कार्यत्वात् ।
यत् सर्ववित्कर्तृपूर्वकं न भवति तत् कार्यमपि न भवति यथात्मेति ।
एषु चानुमानेषु प्रतिज्ञाहेतूदाहरणदोषाः परिहरणीयाः ।
प्रमाणान्तराधिगतार्थत्वं तद्बाधितार्थत्वं व्यर्थविशेषणत्वं व्यर्थविशेष्यत्वं च प्रतिज्ञादोषाः ।
यथा-अग्निर्दाहकः अनुष्णोऽग्निः अयं महीधरः पिङ्गलाग्निमान् विमतं जगन्मिथ्येति ।
(असिद्धत्वं विरुद्धत्वं हीनत्वं?) तदेवं प्रतिज्ञाद्युदाहरणान्तैस्तदादिनिगमनाब्तैर्वा त्रिभिरवयवैर्युक्तं परोपदेशक्षममनुमानम् ।
तच्च व्याप्तिभेदात् त्रिधा भिन्नमिति सिद्धम् ॥

आगमनिरूपणम् ।
शब्दविज्ञानात् सम्यगसन्निकृष्टार्थानुभव आगमः ।
प्रत्यक्षव्यवच्छेदार्थमसन्निकृष्टेत्युक्तम् ।
विप्रलम्भकदाक्यीयज्ञानव्यवच्छेदार्थं सम्यगिति ।

अनुमानव्यवच्छेदार्थं शब्दविज्ञानादिति ।
विषं पिब आकाशं भक्षयेत्यादिव्यवच्छेदायार्थेति ।
यथाहुः-
"शब्दविज्ञानजा यार्थेऽसन्निकृष्टे सुनिश्चिता ।
बुद्धिस्तच्छाब्दमानं हि सङ्गिरन्ते विपश्चितः" ॥
इति ।
स आगमो द्विविधः पौरुषेयापौरुषेयभेदात् ।
अपौरुषेयो वेदश्चतुर्विधः ऋग्यजुःसामाथर्वभेदात् ।
षट् च तेषामङ्गानि शीक्षाव्याकरणनिरुक्तच्छन्दोज्योतिःकल्पभेदात् ।
पौरुषेयस्त्रिविधः पञ्चमवेदोपवेदस्मृतिभेदात् ।
तत्र पञ्चमवेद इतिहासपुराणभेदेन द्विविधः ।
इतिहासो महाभारतात्मा ।
पुराणान्यष्टादशविधानि ।
तथाच वायवीये-
"दशधा चाष्टधा चैतत् पुराणमुपदिश्यते ।
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥
भविष्यद् नारदीयं च मार्कण्डेयमतः परम् ।
आग्नेयं ब्रह्मवैवर्त्तं लैङ्गं वाराहमेव च ॥
स्कान्दं च वामनं चैव कौर्मं मात्स्यं च गारुडम् ।
ब्रह्माण्डं चेति पुण्योऽयं पुराणानामनुक्रमः" ॥
इति ।
उपवेदश्चतुर्विधः आयुर्वेदधनुर्वेदार्थवेदगान्धर्ववेदभेदात् ।
मन्वादिप्रणीतानि वर्णाश्रमधर्मशास्त्राणि स्मृतयः ।
मन्वत्रिविष्णुहारीता याज्ञवल्क्योशनाङ्गिराः ।
यमापस्तम्बसंवर्त्ताः कात्यायनबृहस्पती ॥

पराशरव्यासशङ्खलिखिता दक्षगौतमौ ।
शातातपो वसिष्ठश्च धर्मशास्त्रप्रवर्त्तकाः ॥
यः पुनरृगादिलक्षणश्चतुर्विधो वेदः, स पूर्वोत्तरकाण्डात्मना प्रत्येकं द्विविधः धर्मब्रह्मविषयभेदात् ।
एवं पञ्चमवेदोऽपि, तद्व्याख्यानरूपत्वात् ।
यथोक्तं वायवीये-
"यो विद्याच्चतुरो वेदान् साङ्गोपनिषदान् द्विजः ।
न चेत् पुराणं संविद्यान्नैव स स्याद् विचक्षणः ॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ।
बिभेत्यल्पश्रुताद वेदो मामयं प्रतरिष्यति" ॥
इति ।
तत्र धर्मस्य शुभकर्मसंस्काराकारस्यानात्मत्वे(पि?)न रूपरहितत्वेन चक्षुराद्यग्राह्यत्वादसन्निकृष्टत्वम् ।
अभ्युदयनिःश्रेयसनिमित्तत्वादर्थत्वम् ।
ब्रह्मण आत्मत्वेनेन्द्रियाध्यक्षस्य तद्ग्राह्यत्वासंभवादसन्निकृष्टत्वम्, आनन्दरूपत्वादर्थत्वमिति विवेकः ।
अनयोश्च धर्मस्य परोक्षस्वभावत्वात् तज्ज्ञानपरोक्षम् ।
ब्रह्मणो नित्यापरोक्षात्मतत्त्वलक्षणत्वात् तज्ज्ञानमपरोक्षम् ।
अन्यथा उभयज्ञानस्यायथार्थत्वापत्तेः ।
तत्रापिऽभूतं भव्यायोपदिश्यत’ इति न्यायेन मन्त्रार्थत्वादसहकृतविधिरूपाच्छब्दात् सम्यगसन्निकृष्टार्थानुभवो धर्मज्ञानम् ।
ऽभव्यं भूतायोपदिश्यत इति न्यायेन विध्यर्थवादमन्त्ररूपश्रुतिनिवहकृतान्महावाक्यरूपाच्छब्दात् सम्यगसन्निकृष्टाथार्नुभवो ब्रह्मज्ञानम् ।

धर्मश्च इष्टानिष्टप्राप्तिपरिहारोपायत्वेन द्विधा भिद्यते ।
तत्र दर्शपूर्णमासादयः स्वर्गादीष्टप्राप्तिसाधनम् ।
सर्वभूताहिंसाविधिलक्षणोऽनिष्टपरिहारसाधनम् ।
ततश्च कृतियोग्येष्टानिष्टप्राप्तिपरिहारसाधनं विधिनिषेधार्थो न कार्यमात्रं, विषं भुङ्क्ष्वेति विधौ बुद्धिपूर्वकारिणामप्रवृत्तेः ।
नापीष्टानिष्टप्राप्तिपरिहारसाधनम् ।
उद्गत उडुपतिरिति वाक्यादप्रवृत्तेः ।
वत्स! स्तनं पिब, अग्निं मा स्पृशेत्यादिलौकिकवाक्येष्वप्येषैव रीतिः ।
एवञ्च शब्दशक्तिग्रहणमपि कृतियोग्यहितोपाय एव, न कार्ये ।
यथा गामानयेत्यत्र तद्ग्रहणं हितोपायमात्र एव, यथा पुत्रस्ते जात इत्यत्र तद्ग्रहणम् ।
ततश्च सिद्धे ब्रह्मणि वेदान्तानां प्रामाण्ये न विवदितव्यम् ।
विधिवाक्यानि च दृष्टादृष्टफलत्वेन द्विविधानि ।
तत्र पूर्वकाण्डे कारीरीष्ट्यादीनि दृष्टफलानि ।
उत्तरकाण्डे आत्मदर्शनाय भवणादिविधायकवाक्यानि दृष्टफलानि ।
तत्प्रामाण्यदर्शनादन्येषां च वेदत्वलिङ्गेन प्रामाण्यमनुमेयम् ।
ब्रह्म च सगुणनिर्गुणभेदेन द्विविधम् ।
सगुणं च जीवेश्वरभेदेन द्विविधम् ।
तत्र सत्यज्ञानानन्तादिलक्षणत्वेन श्रुत्युपदिष्टं निर्गुणम् ।
जगत्कारणत्वादिरूपेणोपदिष्टं सगुणमैश्वरम् ।
स्वसृष्टप्रपञ्चप्रवेष्टृत्वादिरूपेणोपदिष्टं जीवरूपम् ।
तैरेतैस्तत्त्वपदार्थपरिशोधनपरैरुपकृतानि तत्त्वमस्यादिमहावाक्यानि प्रमाणान्तरानवगतं परमपुरुषार्थप्रयोजनं च ब्रह्मात्मैक्यमुपदिशन्ति ।

तदवगमात् परमपुरुषार्थलाभं च तान्येवोपदिशन्ति ।
एवं पूर्वोत्तरकाण्डात्मना भिन्नस्य वेदस्याध्ययनविधिपरिगृहीतत्वाद् विवक्षितार्थत्वेन निश्चितस्यार्थविचाराय मीमांसाशास्त्रं प्रवृत्तम् ।
तच्च विंशत्यध्यायपरिमितं काण्डत्रयात्मकं भवति ।
तत्र पूर्वमीमांसा द्वादशाध्यायमिता कर्मकाण्डनिष्ठा ।
तत्सूत्रकर्त्ता जैमिनिः ।
भाष्यकारः शबरस्वामी ।
तद्व्याख्यातारौ भट्टकुमारप्रभाकरौ ।
तयोर्भट्टकुमारेण विधिवाक्यानि भावनापरतया व्याख्यातानि, प्रभाकरेण नियोगपरतया ।
उत्तरमीमांसा तु द्विरूपा सगुणनिर्गुणब्रह्मनिष्ठा अष्टाध्यायमिता व्यासप्रणीता ।
तत्र सगुणब्रह्मनिष्ठा देवताकाण्डात्मिकाध्यायचतुष्टयवती ।
इह भाष्यकारः सङ्कर्षः ।
तत्र प्रथमेऽध्याये सर्वेषां मन्त्रविप्रशेषाणां देवतातत्त्वप्रतिपादने तात्पर्यमिति प्रतिपादितम् ।
द्वितीये विध्यर्थवादादेर्वेदशेषस्य मन्त्रदेवताशेषत्वमुपपाद्यते ।
तृतीये देवतातत्त्वं स्वेच्छाविग्रहत्वादिगुणगणालङ्कृतमिति दर्शितम् ।
चतुर्थे तत्तद्देवताप्रसादतस्तत्तल्लोकवेषविभूषणैश्वर्यानन्दावाप्तिलक्षणं देवतोपासनफलं निर्णीतम् ।
एवं मध्यममीमांसा सर्वदेवतात्मनो हरेः प्रतिपादिकेति सगुणब्रह्मपरा भवति ।
ज्ञानकाण्डात्मिका तु निर्गुणब्रह्मनिष्ठा ।
सापि चतुरध्यायमिता ।
अस्या भाष्यकारः शङ्करभगवत्पादः ।

तदेकदेशिनश्च ब्रह्मदत्तभास्कररामानुजानन्दतीर्थादयो मतभेदेन तद्भाष्याभासान् रचयाञ्चकुः ।
इह प्रथमाध्यायेन सर्वेषां वेदान्तानां प्रत्यक्तत्तवे ब्रह्मणि समन्वयः प्रदर्शितः ।
द्वितीयेन तत्र प्रत्यक्षादिप्रमाणान्तरविरोधः परास्तः ।
तृतीयेन ब्रह्मज्ञानस्यान्तरङ्गसाधनानि श्रवणमनननिदिध्यासनानि समूलान्युपदिष्टानि ।
चतुर्थाध्यायेन सद्यः क्रमेण वा मुक्तिलक्षणं ज्ञानफलमुपासनाफलं चोपवर्णितम् ।
मुक्तिश्चात्मविद्यास्तमय एव ।
ततश्चात्मजिज्ञासामपास्यात्मनः सुखदुःखप्राप्तिपरिहारोपायमात्रमन्विच्छन्तमज्ञं पुमांसं प्रति कर्मकाण्डं प्रवृत्तम् ।
ब्रह्मविष्णुरुद्रेन्द्रसोमसूर्यानिलानलादिदेवतासालोक्यादिसुखकामं प्रति देवताकाण्डं प्रवृत्तम् ।
अशेषविषयसुखविरक्तं बन्धमोक्षसुखमेव काङ्क्षमाणमात्मतत्त्वजिज्ञासुं पुरुषप्रवरमधिकृत्य ब्रह्मकाण्डं प्रवृत्तमित्यलमतिविस्तरेण ।
अनाप्तवाक्यत्वपरस्परविरुद्धार्थत्वादिभिर्बौद्धाद्यारोपिताप्रामाण्यशङ्कापङ्कपरिक्षालनपरत्वात् तदपेक्षितप्रमाणप्रमेयप्रमात्रादिलक्षणनिरूपकत्वाच्च तर्कशास्त्रं वेदोपाङ्गं भवति ।
तत् तु नैयायिकवैशेषिकभेदेन द्विविधम् ।
तत्र नैयायिकं षोडशपदार्थनिष्ठमक्षपादोपज्ञम् ।
वैशेषिकं षट्पदार्थनिष्ठं कणादोपज्ञम् ।
यत् तु निरीश्वरसेश्वरभेदेन द्विविधं साङ्ख्यशास्त्रं, तदितिहासपुराणेऽन्तर्भूतमिति न पृथग् गण्यते ।

अनयोर्निरीश्वरसाङ्ख्यं पञ्चविंशतितत्त्वनिष्ठं कपिलश्च कार ।
सेश्वरसाङ्ख्यं षड्विंशतितत्त्वनिष्ठं पतञ्जलिरकरोद्, येन पाणिनिप्रणीतस्याष्टाध्यायमितस्य व्याकरणस्य भाष्यमनुगृहीतम् ।
एवमष्टादश विद्यास्थानानि ।
तान्येतानि कल्पादौ परमपुरुषेण ब्रह्मणेऽनुगृहीतानि ।
तथाच श्रीवायवीये-
"अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्यां ह्येताश्चतुर्दश ॥
आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् ।
अर्थशास्त्रं परं तस्माद् विद्यास्त्वष्टादश स्मृताः ॥
अष्टादशानामेतासां विद्यानां भिन्नवर्त्मनाम् ।
आदिकर्त्ता कविः साक्षाच्छूलपाणिरिति श्रुतिः ॥
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ।
ब्रह्माणं विदधे साक्षात् पुत्रमग्रे सनातनम् ॥
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ।
विद्याश्चेमा ददौ पूर्वं विश्वस्थित्यर्थमीश्वरः" ॥
इति ।
तानि च विद्यास्थानानि मरीच्यादिमुखेन ब्रह्मणा अस्मिंल्लोके प्रवर्त्तितानि युगेऽस्मिन्नल्पायुष्याल्पबुद्धित्वादिदोषाद् मनुष्यैः साकल्येन धारयितुमशक्यानीति परमेश्वरः स्वयमेव व्यासरूपी भूत्वा संक्षिप्तवान् ।
यथोक्तं द्वितीयस्कन्धे-

"कालेन मीलितदृशामवमृश्य नृणां स्तोकायुषां स्वनिगमो बत दूरपारः ।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां वेदद्रुमं विटपशो विभजिष्यति स्म" ॥
इति ।
एवमागमप्रमाणं निरूपितम् ।

उपमानादिमानान्तरनिरूपणम् ।
अथोपमानम् ।
गवयो नाम किंलक्षण इति कृतप्रश्नस्य ग्रामवासिनो यथा गौरेवं गवय इति वनचारिणोऽन्यस्माल्लब्धोत्तरस्य पुंसः पश्चाद् वनं गतस्य यदृच्छया गवयदर्शने यद् गोर्गवयस्य च सादृश्यविषयं प्रत्यक्षप्रत्यभिज्ञानमुत्पद्यते अनेन सदृशी मदीया गौरिति, तदुपमानम् ।
यथाहुः-
"अव्युत्पन्नपदोपेतवाक्यार्थस्य च संज्ञिनि ।
प्रत्यक्षप्रत्यभिज्ञानमुपमानमिहोच्यते" ॥
इति ।
अन्यथानुपपत्तिसम्भूतोऽनुभवोऽर्थापत्तिः ।
सा द्विधा दृष्टश्रुतभेदात् ।
तत्र परिदृश्यमाना सवितुर्देशाद् देशान्तरप्राप्तिर्गमनं विना नोपपद्यत इति निश्चयो दृष्टार्थापत्तिः ।
क्षणिकस्य यागस्य कालान्तरदेशान्तरभाविफलसाधनत्वं श्रूयमाणं तत्संस्कारमन्तरेण नोपपद्यत इति मध्येऽपूर्वनिश्चयः श्रुतार्थापत्तिः ।
योग्यत्वे सत्यनुपलम्भादभावनिश्चयोऽभावप्रमाणम् ।
यथा इह भूतले घटो नास्तीति ।

संभावितोऽयम् अर्थ इति जायमानोऽतीन्द्रियार्थनिश्चयः संभवः ।
यथा सोमसूर्य(वंश)वर्णनादिभिः कृष्णरामाद्यवतारादिनिश्चयः ।
अनिर्दिष्टप्रवक्तृकात् प्रवादपारम्पर्याज्जायमानं ज्ञानमैतिह्यम् ।
यथा इह वटे यक्षस्तिष्ठतीति ।
कुतः पुनरैतावन्ति प्रमाणानीति निर्णीतम् ।
"प्रत्यक्षमेकं चार्वाकाः कणादसुगतौ पुनः ।
अनुमानं च तच्चाथ साङ्ख्याः शब्दं च ते अपि ॥
न्यायैकदेशिनोऽप्येवमुपमानं च केचन ।
अर्थापत्त्या सहैतानि चत्वार्याह प्रभाकरः ॥
अभावषष्ठान्येतानि भाट्टा वेदान्तिनस्तथा ।
सम्भावैतिह्ययुक्तानि तानि पौराणिका जगुः" ॥
इति न्यायविदां वचनात् ॥

मतभेदाः
अनया प्रमाणचिन्तया प्रमाटप्रमेये अपि लक्षिते स्याताम् ।
प्रमाश्रयः प्रमाता ।
प्रमाविषयः प्रमेयम् इति ।
इह द्विविधानि विचारशास्त्राणि वैदिकावैदिकभेदात् ।
तानि च प्रत्येकं त्रिविधानि मीमांसासाङ्ख्यतर्कभेदाद्, बौद्धार्हतलोकायतभेदाच्च ।
तत्राद्यत्रिकं वेदमूलत्वाद् वैदिकम् ।
अपरत्रिकं बुद्धक्षपणकबृहस्पतिविरचितवेदाभासमूलत्वादवैदिकमिति ।

एवं षड् दर्शनानि ॥

चार्वाकमतनिरूपणम् ।
तत्र प्रत्यक्षैकप्रमाणवादिनो लोकायतशास्त्रप्रवर्तकस्य चार्वाकस्य मनुष्योऽहं स्थूलोऽहं कृशोऽहमिति प्रत्यक्षसिद्धश्चैतन्यगुणाश्रयो देह एव प्रमाता ।
उच्चावचदेहरूपेण संभवादेव संहतिं पुनर्विहीतं च प्रतिपद्यमानानि पृथिवीवारिवह्निवायुलक्षणानि चत्वारि तत्त्वानि प्रमेयम् ।
अर्थकामावेव पुरुषार्थौ, न धर्मः ।
तन्निष्ठावर्थगान्धर्ववेदावेव च वेदौ ।
धर्माभावान्नाधर्मोऽपि कश्चित् ।
अतस्तत्फलत्वेन स्वर्गनरकावपि न स्तः ।
तदभावाद् देहिनां तत्कल्पको न परमेश्वरोऽपि कश्चित् ।
मरणमेव च मोक्षः ।
अर्थकामशास्त्रं लोकायतशास्त्रं च प्रत्यक्षमूलत्वात् तत्रैवान्तर्भूतम् ।
इदमन्नं क्षुन्निवर्तकम् अन्नत्वान् ह्यस्तनान्नवदित्याद्यनुमानं च तत्रैवान्तर्भवति, प्रत्यक्षमूलत्वाविशेषात् ।
अभ्युदयनिःश्रेयसफलो धर्मब्रह्मविषयो वेदस्त्वतीन्द्रियार्थनिष्ठत्वादप्रमाणमेवेति सिद्धान्त ।
तथाच तद्वचनम्-
"अग्निहोत्रं त्रयो वेदास्त्रिपुण्ड्रं भस्मगुण्ठनम् ।
बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥
त्रयो वेदस्य कर्तारो मुनिभण्डनिशाचराः ।
स्वर्गः कर्तृक्रियाद्रव्यनाशेऽपि यदि यज्वनाम् ॥

भवेद् दावाग्निदग्धानां फलं स्याद् भूरिभूरुहाम् ।
प्रत्यक्षादिप्रमासिद्धविरुद्धार्थाभिधायिनः ॥
वेदान्ता यदि शास्त्राणि बौद्धैः किमपराध्यते" ।
इत्यादि ॥

क्षपणकमतनिरूपणम् ।
प्रत्यक्षानुमानवादिनोः क्षपणकबौद्धयोर्मध्ये क्षपणकस्यायं सिद्धान्तः - ममायं देह इत्यनुभवाद्देहःस्वव्यतिरिक्तद्रष्टृकः, दृश्यत्वाद्भौतिकत्वाद्वा घटवदित्यनुमानात् प्राणचेष्टाचैतन्यस्मृत्यादीनां मृतशरीरेऽनुपलब्धेश्च देहव्यतिरिक्तस्तत्परिमाणोऽणुपरिमाणो वा प्रकाशद्रव्यविशेष आत्माख्यः प्रमाता ।
अतीन्द्रियार्थो नाभ्युपेयः, अतिप्रसङ्गादिति न युक्तम् ।
प्रत्यक्षप्रामाण्यस्यातीन्द्रियत्वेनाभ्युपेयत्वापत्तेः ।
तेनार्हन्मुनिप्रणीतागमप्रामाण्याद् धमाधर्मस्वर्गनरका अपि सन्ति ।
धर्माश्च केशोल्लुञ्छनभिक्षाटनमयूरपिञ्छधारणब्रह्मचर्यानशनानाच्छादनामलस्नानार्हन्नमनतप्तशिलारोहणादयः ।
अग्निहोत्रादयस्तु वेदोदिता धर्माभासा एव, चराचरप्राणिपीडासाध्यत्वात् ।
अनाप्तवाक्यत्वपरस्परविरुद्धा र्थत्वादिभिर्वेदस्याप्रामाण्यनिर्णयाच्च ।
अधर्मः प्राणिहिंसादिलक्षणः ।
पार्थिवाप्यतैजसवायव्यपरमाणुभिः पुद्गलापरनामधेयैः धर्माधर्माख्यप्राणिकर्मप्रेरितैरारब्धानि चराचरशरीराणि सकारणानि प्रमेयम् ।
परमाणवश्चा नुमानतः सिध्यन्ति ।

तथाच प्रयोगः-अणुपरिमाणतारतम्यं क्वचिद् विश्रान्तं, परिमाणतरतमभावत्वाद्, महत्परिमाणतरतमभाववदिति ।
चेतनाचेतनात्मकं चेदं जगदनेकान्तम् ।
तज्ज्ञानादहिंसादिधर्मनिष्ठानां देहिनां सततोर्ध्वगतिलक्षणो मोक्षः सिध्यतीति ।
यथाहुः -
"स्याद्वादः सर्वदैकान्तत्यागात् किंवृत्तचिद्विधेः ।
सप्तभङ्गीनयापेक्षस्तत्त्वज्ञानाय कल्पते" ॥
इति ।
अनैकान्तिकत्वं चास्तिनास्त्यादिरूपेणानियताकारत्वम् ।
तच्च सप्तभङ्गीनयेन सिध्यति ।
कथम् ।
स्यादस्ति, स्यान्नास्ति, स्यादवक्तव्यं, स्यादस्ति च नास्ति च, स्यादस्ति चावक्तव्यं च, स्यान्नास्ति चावक्तव्यं च, स्यादस्ति च नास्ति चावक्तव्यं चेति सप्तभङ्गीन्यायः ।
स्यादित्यनैकान्तिकत्वद्योतको निपातः ।
किं चेतनाचेतनात्मकं जगदस्तीति पृष्टोऽसौ ब्रूते-स्यादस्तीति ।
अस्क्तित्वेनानिश्चितं, जन्मादिमत्त्वादित्यर्थः ।
एवं स्यान्नास्तीत्यादावपि द्रष्टव्यम् , अनुभूयमानत्वान्नास्तित्वानिश्चयः ।
नीलसुखादिशब्दवाच्यत्वादवाच्यत्वानिश्चयः ।
अस्तित्वनास्तित्वयोर्विरुद्धत्वेनैकाधिकरण्यायोगादुभयात्मकत्वानिश्चयः ।
नास्तीत्यपि वक्तुं योग्यत्वादस्ति चावक्तव्यं(चेत्य)निश्चयः ।

अस्तीत्यपि वक्तुमुचितत्वान्नास्ति चावक्तव्यं चेत्यनिश्चयः ।
अस्तीति नास्तीति च वक्तुमुचितत्वादस्ति च नास्ति चावक्तव्यं चेत्यनिश्चयः ।
एवमेकान्तस्थितिशून्यं विश्वमवधार्य ततो निर्वेदं प्राप्तः पुमान् योगबलेन सततोर्ध्वगतिलक्षणां मुक्तिमुपैतीति ।

सुगतमतनिरूपणम् ।
आत्मनोऽणुपरिमाणत्वेन युगपदखिलावयवगतवेदनानुसन्धानासंभवाद्, देहपरिमाणत्वे बाह्यवस्तुज्ञानासम्भवाद् घटवदनित्यत्वप्रसङ्गाच्च, सर्वस्यानैकान्तिकत्वे अनैकान्तिकत्वस्यापि तथात्वापत्तेः,ऽपतनान्ताः समुच्छ्रयाः’ इति न्यायेन सततोर्ध्वगतिरूपस्य मोक्षस्य पतनान्तत्वेन नित्यपुरुषार्थत्वासिद्धेश्च नायं पक्षः प्रक्षीणदोष इति सुगतमतमारभ्यतेतदिदं शिष्यभेदेन चतुर्धा भिद्यते ।
शिष्याश्च माध्यमिकयोगाचारसौत्रान्तिकवैभाषिकाः क्रमेण विशुद्धितारतम्यभाजः ।
तत्रोत्तमाधिकारिणो माध्यमिकस्य - शून्यस्वभावः प्रमाता, सुप्तोत्थितस्य शून्योऽहमेतावन्तं कालमासमिति स्मृतिदर्शनात् ।
पुनरहमस्मीत्यात्मनि सत्त्वप्रतिभानं तत् संवृत्तितत्त्वविषयम् ।
एवं घटोऽस्तीत्यादिप्रत्ययोऽपि ।
ततः प्रमेयमपि शून्यमेव, सतो नाशासम्भवात् ।
एवं प्रमाणमपि वस्तुतः शून्यमेव, सत्त्वे जन्मविनाशानुपपत्तेः ।
सत्त्वप्रतीतिः संवृत्तिमात्रम् ।

संवृत्तिर्नामासतः सत्त्वेन भानहेतुः सदसदादिप्रकारानिर्वाच्यस्वलक्षणः पदार्थः ।
अतः प्रमात्रादित्रिकं वस्तुतोऽसदेव सदात्मना भातीति तदुपदेष्टारं सुगतमुनिं पञ्चबुद्धपरिषेवितं मनोवाक्कायैः सेवमानस्य सर्वं शून्यमिति चिरकालं निरन्तरमुपासीनस्य साधोर्मनसि शून्ये विलीने सति सर्वशून्यतावाप्तिलक्षणो मोक्षः सेत्स्यतीति सिद्धान्तः ।
ततोऽर्वाचीनस्य योगाचारस्य तु--प्रमातुरसत्त्वे प्रमेयस्य शून्यस्य सिद्धिरेव नास्तीति प्रमाता कश्चिदभ्युपेयः ।
स च स्वप्रकाशः ।
अन्यथा साधकान्तरापेक्षाप्रसङ्गात् ।
स्वप्रकाशत्वं च ज्ञानादन्यस्य न (सं)भाव्यत इत्यतोऽहमस्मीति प्रत्यक्षतः देहो नात्मा दृश्यत्वाद् घटवदित्यनुमानतश्च प्रतिपन्नं क्षणे क्षणो प्रलीयमानमुत्पद्यमानं चालयविज्ञानं प्रमाता ।
प्रवाहस्य स्थिरत्वादेव तस्मिन् स्थिरत्वाभिमानः ।
योऽहं प्रातर्गजमद्राक्षं स एवाधुना तिमिरनिकरं दृष्टवा तं स्मरामीति सेयं ज्वालेतिवदभ्रान्तिरेव ।
रूपविज्ञानवेदनासंज्ञासंस्काराख्या पञ्चस्कन्धी क्षणे क्षणे प्राणिकर्मानुसारेण विलीयमानोत्पद्यमाना च स्वभावेन सुरनरनारकरूपेण परिणतिमुपरतिं च यान्ती प्रमेयम् ।
तत्रेन्द्रियतद्विषयात्मा रूपस्कन्धः ।
तज्ज्ञानं विज्ञानस्कन्धः ।
तत्फलं सुखं दुःखं मोहश्च वेदनास्कन्धः ।
संज्ञागुणक्रियाजातिविशिष्टप्रत्ययाः संज्ञास्कन्धः ।
इह गौरश्वः पुरुष इत्यादिका संज्ञा ।
गोत्वाश्वत्वपुरुषत्वादिका जातिः ।

शुक्लो रक्तः कृष्ण इत्यादिको गुणः ।
तिष्ठति गच्छत्युपविशतीत्यादिका क्रिया ।
शृङ्गी चतुष्पाद्लाङ्गूलीत्यादिको विशिष्टप्रत्ययः ।
वेगवेष्टनस्थितस्थापकतादिलक्षणः संस्कारस्कन्धः वेगः शशादेः ।
वेष्टनं भूर्जादेः ।
स्थितस्थापकः शाखादेः ।
तदुक्तलक्षणं प्रमेयम् ।
तच्चेत्प्रकाशातिरिक्तं, नैव तर्हि प्रकाशेतेति सर्वं ज्ञानाकारमेव ।
ज्ञानस्य स्थिरत्वे नीलपीतादयः सर्वदा सर्वस्य भासेरन्, न कर्हिचित्कस्यचिदित्यस्थिरमेव ।
अतो ग्राह्यग्राहकग्रहणात्मकं सर्वमिदं जगदहमित्यालयविज्ञानसन्ताने नित्यनिमग्नम् ।
तस्माच्चैत्यवन्दनबुद्धगामाभ्यासादिसद्धर्मनिरतस्य सर्वमिदं विज्ञानमेवेति चिरमुपासीनस्य पुंसो विशुद्धविज्ञानसन्तानोदयमयी मुक्तिरिहैव सिध्यतीति सिद्धान्तः ।
तस्मादर्वाचीनस्य सौत्रान्तिकनाम्नोऽन्तेवासिनो विश्वस्यान्तस्थत्वे बहिरसत्त्वेनार्थक्रियाकारित्वासम्भवाद, भ्रान्तिबाधवैलोम्यप्रसङ्गाद्, ज्ञानस्य ज्ञेयाकारत्वे जडत्वापत्तेश्च तयोः पृथक्त्वमुपेयमिति बाह्यमाभ्यन्तरं चास्त्येव विश्वम् ।
तच्च स्थिरं चेद् न बीजस्योच्छूनत्वजाताङ्कुरत्वद्रुमत्वपल्लवितत्वपुष्पितत्वफलितत्वाद्यवस्थान्तरापत्तिः परिदृश्यमाना सङ्गच्छत इति क्षणिकस्वलक्षणमास्थेयम् ।
एवं ज्ञातुः स्थिरत्वे ज्ञानस्यापि स्थिरत्वेन सर्वदा नीलं प्रतीयाद्, न कदाचिदपि पीतं, विपर्ययेण वा ।
अतो ज्ञाताप्यस्थिर एव ।
इयान् विशेषः -आन्तरं ज्ञानं स्वलक्षणं प्रत्यक्षं , बाह्यं नीलाद्यनुमेयमेव ।

तद्यथा - ज्ञाने ज्ञेयप्रतिबिम्बो बिम्बपुरःसरः, प्रतिबिम्बत्वाद्, दर्पणगतमुखप्रतिबिम्बवदिति ।
एवञ्च प्रत्यक्षग्राह्यो बाह्यार्थो नास्ति ।
वैभाषिकस्यार्वाचीनतमस्यान्तेवासिनो-बाह्यार्थश्च सन्निहितः प्रत्यक्षः, इदं नीलमित्यपरोक्षतयैव प्रतिभासदर्शनात् ।
तेनानयोरियदेव वैषम्यम् ।
अन्यत् सर्वं तुल्यम् ।
एषु च पक्षेषु बुद्ध्याद्यागमानामनुमानमूलत्वेन तत्रैवान्तर्भावाद् न प्रमाणाधिक्यम् ।
तत्र सौत्रान्तिकवैभाषिकयोः सर्वं क्षणिकमितिशास्त्रेणावगम्य शास्तारं भगवन्तं तथागतं तद्भक्तांश्च सेवमानः सर्वस्य क्षणिकत्वसाक्षाद्बोधे सञ्जाते सति विशुद्धविज्ञानसन्तानतावाप्तिरूपां मुक्तिमेतीति सिद्धान्तः ।
एषां त्रयाणामप्यन्ततः शून्यवादित्वम् ।
कथम् ।
बाह्यार्थस्य शून्यत्वं योगाचारो ब्रूते ।
प्रत्यक्षस्य बाह्यार्थस्य शून्यत्वं सौत्रान्तिकः ।
बाह्यस्यान्तरस्य चास्थिरस्य जगतः शून्यत्वं वैभाषिको भाषत इति ।
अत्र सङ्ग्रहः- अमुख्यो माध्यमिको विवर्तमखिलं शून्यस्य मेने जगद् योगाचारमते हि सन्ति हि धियस्तासां विवर्तोऽखिलम् अर्थोऽस्ति क्षणभङ्गुरस्त्वनुमितो बुद्ध्येति सौत्रान्तिकः प्रत्यक्षं क्षणभङ्गुरं च सकलं वैभाषिको भाषते ॥
इति ॥


कणादमतनिरूपणम् ।
अत्र जगतः शून्यस्वभावत्वे साधकाभावेनासिद्धिप्रसङ्गात् , सत्त्वानुभवविरोधाच्च, ज्ञानस्य ज्ञेयाकारत्वे जडत्वप्रसङ्गाद्, ज्ञेयस्य बहिरनुपलम्भप्रसङ्गाद्, इदमिति साक्षाद भासमानस्य नीलस्यानुमेयत्वे अहमिति भासमानस्य ज्ञानस्वलक्षणस्याप्यनुमेयत्वकल्पनावताराद्, ज्ञातुरस्थिरत्वे स्मृतेरनुभूतार्थगामिन्याः संभवायोगाद्, ज्ञेयस्य क्षणिकत्वे स एवायं घट इति प्रत्यभिज्ञायोगाद्, बुद्धिवृत्तिरूपाणां नीलादिविषयज्ञानानामागमापायित्वेऽपि बद्धिसाक्षिचैतन्यस्य स्थिरत्वोपपत्तेर्विषयोपरागविहीनस्य ज्ञानस्य भेदकाभावेन सन्तानरूपत्वानुपपत्तेश्च, स्वप्रकाशत्वेन स्वतः परतश्चास्य जन्मविनाशावगमासंभवादनवगतार्थस्यासत्त्वानिवारणाच्च क्षपणकादिपक्षवत् सुगतपक्षोऽप्युपेक्षणीय इति वेदप्रामाण्यवादित्वेपि तस्यानुमानात्मत्वोररीकरणात् प्रत्यक्षानुमानमात्रप्रमाणवाद्यन्तर्भूतस्य कणादस्य मतमवतार्यतेइह द्रव्यगुणकर्मसामान्यविशे(षा ? षसमवाया)स्थाः षडेव पदार्थाः ।
तत्र गुणवद् द्रव्यम् ।
तन्नवधा भिद्यते ।
पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनोभेदात् ।
तेष्वात्माख्यमष्टमं द्रव्यं प्रमाता ।
स च पृथिव्यादिलक्षणेभ्यो देहादिभ्योऽन्यो नित्यो विभुः प्रतिक्षेत्रं भिन्नः परमेश्वरपरतन्त्रो जडस्वभावोऽहंप्रत्ययग्राह्यश्च ।
द्रव्यान्तराणि गुणादयश्च प्रमेयम् ।
सामान्यवानसमवायिकारणमस्पन्दात्मा गुणः ।

स च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोग (विभाग) परत्वापरत्वगुरुत्वद्रवत्वस्नेह(त्व? )बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारशब्दभेदाच्चतुर्विंशतिधा भिद्यते ।
तत्र रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वनैमित्तिकद्रवत्वसंस्काराः पृथिवीगुणाः ।
गन्धवर्जितस्नेहयुक्तोक्तगुणयुक्ता आपः ।
रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वनैमित्तिकद्रवत्वसंस्कारास्तेजोगुणाः ।
स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगसंस्कारा वायुगुणाः ।
संख्यापरिमाणपृथक्त्वसंयोगविभा(गा? गशब्दा) व्योमगुणाः ।
संख्यापरिमाणपृथक्त्वसंयोगविभागाः कालगुणाः ।
त- एव च दिग्गुणाः ।
संख्यापरिमाणपृथक्त्वसंयोगविभागबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा आत्मगुणाः ।
संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्ववेगसंस्कारा मनोगुणाः ।
आत्मनो बुद्ध्यादयो नव विशेषगुणाः ।
आकाशस्य शब्दो विशेषगणः ।
वायोः स्पर्शः ।
तेजसो रूपम् ।
अपां रसः ।
भूमेर्गन्धः ।
दिक्कालमनसां विशेषगुणा न सन्ति ।
संयोगविभागयोरसमवायिकारणजातीयं कर्म ।
तदुत्क्षेपणावक्षेपणाकुञ्चनप्रसारणगमनभेदात् पञ्चविधम् ।
नित्यमनेकवृत्ति सामान्यम् ।
तद् द्विविधं परमपरं च ।
परं सत्ता, अधिकवृत्तित्वात् ।
अपरं द्रव्यत्वादि , न्यूनवृत्तित्वात् ।
नित्याश्रया अत्यन्तव्यावृत्तबुद्धिहेतवोऽनन्ता अन्त्या विशेषाः ।

नित्यः सम्बन्धः समवायः ।
पृथिव्यादिचतुष्टयं नित्यानित्यरूपम् ।
आकाशादिपञ्चकं तु नित्यमेव ।
पार्थिवाप्यतैजसवायव्यभेदेन चतुर्विधा नित्याः परमाणवो द्व्यणुकादिक्रमेण परमेश्वरेच्छया देहघटाद्यन्तावयविपर्यन्तं विश्वमारभन्ते ।
धर्मादयश्चत्वारः पुरुषार्थाः ।
अग्निहोत्रादिलक्षण ईश्वराराधनादिलक्षणश्च धर्मः ।
अर्थकामो धर्माविरुद्धौ ।
षट्पदार्थतत्त्वज्ञस्य पुंसः परमेश्वरप्रसादाद् नवगुणोच्छेदस्वलक्षणो मोक्षः ।
येनोक्तोऽर्थः प्रतिपन्नः स वेदश्च नित्येच्छाज्ञानक्रियाशक्तिमता परमेश्वरेण शब्दार्थात्मकं जगत् सृष्ट्वा अस्य शब्दस्यायमर्थ इति शब्दशक्तिसङ्केतं च विधाय प्राणिनामभ्युदयनिःश्रेयसप्रयोजनाय प्रणीत इति परमाप्तवाक्यत्वान्न शङ्काकलङ्कवान् ।
ईश्वरसद्भावश्चानुमानतो निश्चीयते ।
विप्रतिपन्नं भूधरादिकार्यं सकर्तृकं कार्यत्वाद्, यदित्थं (तत्) तथा यथा घटादीति ।
अयं घट एतद्घटजनकानित्यज्ञानेतरज्ञानजन्यः घटत्वात्, घटान्तरवदित्यनुमानादैश्वरं ज्ञानमप्यनुमेयम् ।
न च स्वभावादेव सर्वं कार्यं जायत इति युक्तम् ।
स्वस्य भावः स्वभाव इति स्वभावशब्दाज्जायत्तानवस्तुग्रहणे स्वस्मात् स्वोत्पत्तिकथापत्तेः, तत्सम्बन्धिवस्त्वन्तरग्रहणेऽकारणात् कार्योत्पत्तिकथा(त्वा?)पत्तेः, अन्यापेक्षां विनैव कार्योपत्त्यर्थत्वे घटाद्यर्थिनां मृदाद्यादानवैयर्थ्यापत्तेश्च ।

अतः कार्यस्य कारणावश्यंभावात् , सावयवत्वात् कार्यत्वेन निश्चितस्य जगतः कारणमनुमेयम् ।
नियतप्राक्सत् कारणम् ।
तत् त्रिविधं समवाम्यसमवायिनिमित्तभेदात् ।
कार्यं यत्र समवैति तत् समवायिकारणम् ।
यथा घटस्य मृत् ।
समवायिप्रत्यासन्नमवधृतसामर्थ्यमसमवायिकारणम् ।
यथा मृदवयवानामन्योन्यसंयोगः ।
समवाय्यसमवायिभ्यामन्यदवधृतसामर्थ्यं निमित्तकारणम् ।
यथा कुलालदण्डचक्रादि ।
तत्र जगदुत्पत्तौ परमाणवः समवायिकारणम् ।
तेषामन्योन्यसंयोगोऽसमवायिकारणम् ।
ईश्वरो निमित्तकारणम् ।
जन्म च प्रागसतः सत्तासम्बन्धः ।
सृष्टस्य विश्वस्य सुखदुःखमयत्वात् प्राणिकर्मणामप्यत्र निमित्तत्वमित्येषा दिक् ।
ऽयतो वेऽत्यादिश्रुतयःऽहमादिश्चेऽत्यादिस्मृतयश्च तथाविधाःऽपरास्य शक्तिरिऽत्यादिका अपि नित्येच्छाज्ञानप्रयत्नानुमानात्मिकाः ।
एवमन्यास्वपि श्रुतिषु न्यायः ।
ऽज्योतिष्टोमेनेऽत्यादिश्रुतिवाक्यान्यनुमानात्मकानि ।
तैर्हि ज्योतिष्टोमादीनां परमेश्वरसमाराधनक्रियाणां स्वर्गादिफलसाधनत्वं प्रकाश्यते ।
तत्रैवं प्रयोगः-विमता यज्ञादिक्रिया समीहितफलसाधनम् , ईश्वरपरिचरणत्वाद् , लौकिकेश्वरपरिचरणवदिति ।
एवमात्मदर्शनाय श्रवणादिविधायकवाक्यान्यपि ।
तानि हि परमात्मश्रवणादेस्तत्प्रसादजननद्वारेण निखिलदुःखोच्छेदलक्षणमोक्षसाधनत्वं प्रकाशयन्ति ।

तत्रैवं प्रयोगः-परमात्मबोधो बन्धनिवर्तकः, आत्मबोधत्वाद्, अस्मज्जाग्रद्बोधवदिति ।
परमात्मज्ञानं तच्छ्रवणादिजन्यं, प्रमाणज्ञानत्वाद्, धर्मज्ञानवदिति च ।
ऽयो वै भूमेऽत्यादिश्रुतिवाक्येषु परमात्मनो दुःखासंस्पृष्टस्वभावत्वमेवोच्यत इति निःशेषदुःखोच्छेद एव मोक्षः ।
स च बुद्ध्यादिगुणान्तरसद्भावे न संभवतीति नवगुणोच्छेदलक्षण इत्याचार्यः कणादः स्मरतीति ॥

अक्षपादमतनिरूपणम् ।
प्रत्यक्षानुमानागमोपमानप्रमाणवादिनोऽक्षपादस्य कणादवत् प्रमातृकल्पना, परमेश्वरस्य प्रमातुरन्यत्वकल्पना, प्रमात्ःणामनेकत्वनित्यत्वविभुत्वज्ञानादिगुणत्वकल्पना, जडत्वकल्पना, अहंप्रत्ययवेद्यत्वकल्पना, वेदकल्पना, प्रमेयेषु नित्यानित्य(त्व )कल्पनाः परमाणुनां जगदारम्भकत्वकल्पना, धर्मादित्रिवर्गकल्पना, बन्धमोक्षकल्पना, तमस आलोकाभावत्वेन द्रव्यान्तरत्वाभावकल्पना च ।
इयान् विशेषःनिर्विशषोऽक्षपादः षोडशपदार्थवादी ।
तथाच तत्सूत्रं - प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादज ल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानानां तत्त्वज्ञानान्निश्रेयसाधिगमः’ इति ।
षोडशपदार्थतत्त्वज्ञानादनात्मनि देहादावात्मभ्रान्तिप्रभृतीनां मिथ्याज्ञानानां निवृत्तिः,

ततो रागादिदोषनिवृत्तिः, ततः शुभाशुभकर्मनिवृत्तिः, ततो निमित्ताभावान्नैमित्तिकनानायोनिजन्मनिवृत्तिः, ततो गर्भाधिवासादिमरणान्तदुःखनिवृत्तिरित्येवं क्रमेण मोक्षः ।
तथाचाक्षपादसूत्रं - अदुःखजन्मप्रवृत्तिडोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तराभावादपवर्गः इति ।
प्रत्यक्षानुमानागमप्रमाणवादिनो नैयायिकैकदेशिनोऽक्षपादवदेव प्रमाणादिस्वरूपस्थितिः ।
मोक्षस्तु न दुःखनिवृत्तिमात्रम्, अपितु नित्यसुखस्याविर्भावोऽपि ।
तस्य जन्यत्वेपि, निखिलदुःखप्रध्वंसरूपत्वादविनाशित्वं चोपपद्यत इति ॥

सेश्वरनिरीश्वरसांख्यमतनिरूपणम् ।
त्रिष्वप्येतेषु पक्षेषु आत्मनो जडत्वेन ज्ञातत्वानुपपत्तेः, बुद्ध्यादिगुणाश्रयत्वेन विकारित्वापत्तेः, चेतनादन्यत्वेन परमेश्वरस्याचेतनत्वापत्तेः, चेतनाभेदस्य च स्वतः परतश्च ग्रहणासंभवाद, आत्मनोऽहप्रत्ययवेद्यत्वे घटवदचेतनत्वापरिहाराद्, ज्ञानानां चानुव्यवसायज्ञानवेद्यत्वे तस्य स्वप्रकाशत्वाभ्युपगमेऽपसिद्धान्तापत्तेः,परप्रकाश्यत्वेऽनवस्थापत्तेः, ज्ञेयत्वे ज्ञानत्वानुपपत्तेः, वेदस्य पौरुषेयत्वे मूलप्रमाणापेक्षापत्तेः, ईश्वरस्य नित्येच्छादिमत्त्वे नित्यशरीरित्वापत्तेः, मोक्षस्य नवयुणोच्छित्तिरूपत्वे पाषाणादितुल्यतापत्तिदोषात् , सुखस्य दुःखाभावत्वे चेतनस्य नवगुणाश्रयत्वासिद्धेः, सुखाभावो दुःखमित्यपि वक्तुं शक्यत्वात्,

परमाणूनां निरवयवत्वे अन्योन्यसम्बन्धेऽपि स्थौल्यासिद्धेः, सावयवत्वे परमाणुत्वासिद्धेः,ऽमायां तु प्रकृतिं विद्यादिऽत्यादिक्षुतेर्मायाया एव जगन्निदानत्वश्रवणात्, परमाणुकारणवादस्य श्रुतिविरोधाच्चाविचारितरमणीयत्वमिति सांख्यपक्षोऽवतार्यतेयद्यपि न्यायैकदेशिनः सांख्यस्य च प्रत्यक्षानुमानागमप्रमाणवादित्वं तुल्यं, तथापि वेदस्याप्तप्रणीतत्वेन प्रामाण्यमक्षपादवत् तदेकदेशिनोऽपि ।
प्रत्यक्षादीनां च परत एव प्रामाण्यं, तस्य बाधाभावाधीननिश्चयत्वाद् , भ्रान्तिज्ञानानामपि प्रामाण्यं मा प्रसाङ्क्षीदिति ।
सांख्यस्य तु सर्वे प्रत्यया यथार्थाः, प्रत्ययत्वात् , संप्रतिपन्नवदित्यनुमानेन भ्रान्तिसंशयादिज्ञानान्यनङ्गीकुर्वतः प्रत्यक्षादीनां स्वत एव प्रामाण्यं प्रभाकरवद्, यो निरीश्वरं विश्वं मन्यते ।
नित्यः शब्दः अमूर्तत्वादाकाशवदित्याद्यनुमानैः,
"नाचिकेतमुपाख्यानं मृत्युप्रोक्तं सनातनम् ।
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा" ।
इत्यादिश्रुतिस्मृतिभिश्च वेदस्य नित्यत्वं च समं भट्टकुमारवत् ।
न च ग्रहणस्मरणरूपाण्येव ज्ञानानि, भ्रान्तिसंशयज्ञानानभ्युपगमे देहाद्यात्मत्वप्रत्ययानां चेत्यवन्दनादिधर्मप्रत्ययानां च प्रमात्वापत्तेः सन्दिग्धे धर्मिणि न्यायः प्रवर्तत इति संशयाभावेन मीमांसादिशास्त्राणां धूमाद्यनुमानानां चानुदयप्रसङ्गाच्च ।

न चेह प्रत्यक्षादिप्रामाण्यस्य बाधाभावाधीनसिद्धिकत्वदोषः अज्ञातार्थज्ञापकत्वलक्षणस्य प्रामाण्यस्य भ्रान्त्यादिष्वप्रवृत्तेः ।
न च भ्रान्त्यादिविषयः पूर्वोत्तरकालयोरस्ति, येनाज्ञाततया तिष्ठेत् ।
अनयैव रीत्या स्मृत्यप्रामाण्यमूह्यम् ।
यः पुनः प्रामाण्यस्य बाधाभावात्मकत्वं मन्यते, तस्य कथं स्मृतेरप्रामाण्यम् ।
न तस्याः पुनर्बाधो दृश्यते ।
अतो भ्रान्तिसंशयादिज्ञानाभ्युपगमे न दोषः कश्चित् ।
नित्योदितानस्तमितनिर्विषयज्ञानस्वरूपः पुरुषः प्रमातेत्यनयोर्निरीश्वरसेश्वरयोरविशिष्टम् ।
तस्मिन् जीवपरभेदेन द्वैविध्यं सेश्वरो मन्यते ।
जीवे सुरनरनारकाविभेदेन त्रैविध्यं चावधारयति ।
उभयत्रापि पक्षे पुंसः कूटस्थत्वेन सत्त्वरजस्तमोगुणात्मिकायाः प्रकृतेरेव जगदाकारेण परिणामित्वं सृष्टस्य जगतः सुखदुःखमोहात्मकत्वं चानुमतम् ।
पुरुषप्रकृतिमहदहङ्कारमनःश्रोत्रत्वक्चक्षुर्जिह्वाघ्राणवाक्पाणिपादपायूपस्थशब्दस्पर्शरूपरसगन्धाकाशवायुवह्निसलिलभूमय इति निरीश्वरस्य पञ्चविंशतिस्तत्त्वानि ।

सेश्वरस्य परः पुरुषोऽतिरिच्यत इति षड्विंशतिः ।
यथाह -
"मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त ।
षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः" ॥
इति ।
जन्ममरणादिव्यवस्थया पुरुषबहुत्वं चाह -
"जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च ।
पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव" ॥
इति ।
पुंसां शुभाशुभमिश्रकर्मभिः संसारं प्रकृतिपुरुषतत्त्वज्ञानेन मोक्षं च -
"धर्मेण गमनभूर्ध्वं गमनमधस्ताद् भवत्यधर्मेण ।
ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः" ॥
इति च ।
उभयत्राग्निहोत्रदर्शपूर्णमासादयो यमनियमादयश्च प्रवृत्तिनिवृत्तिलक्षणा धर्णाः ।
प्रवृत्तिलक्षणः संसारहेतुः ।
निवृत्तिलक्षणस्तत्त्वज्ञानद्वारेण मोक्षहेतुः ।
इयान् विशेषः- सेश्वरस्य तत्त्वज्ञानसहकृतो योगो मुक्तिहेतुः ।
इतरस्य योगसहितं तत्त्वज्ञानं मुक्तिहेतुरिति ।
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयो योगाङ्गानि ।
योगफलानि च द्विविधानि विद्याविद्याभेदात् ।
तत्र विद्यामयानि भक्तिज्ञानवैराग्याणि ।
अविद्यामयान्यणिमाद्यष्टैश्वर्याणि ।
एवमन्या अपि बाह्या योगसिद्धयः ।
यथाहुः -

"आत्मनो वै शरीराणि बहूनि मनुजेश्वर! ।
प्राप्य योगबलं कुर्यात् तैश्च सर्वां महीं चरेत्" ॥
इत्यादीनि ।
इह सेश्वरस्य तत्त्वज्ञानसहितेन योगेन योगिनः परमेश्वरतावाप्तिर्मुक्तिः ।
निरीश्वरस्य योगसहितेन ज्ञानेन प्रकृतिपुरुषविवेकलाभी मोक्षः ।
कः पुनः सेश्वरपक्षे क्षेत्रज्ञात् परमपुरुपस्यातिशयः ।
क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः, क्लेशादिसंसृष्टः क्षेत्रज्ञ इति ।
अविद्यास्मितारागद्वेषाभिनिवेशाः पञ्च क्लेशाः ।
कर्म पुण्यापुण्यात्मकम् ।
विपाकः सुखदुःखमोहलक्षणं कर्मफलम् ।
आशयोऽन्तःकरणमिति ॥

प्रभाकरादिमीमांसकमतनिरूपणम् ।
अर्थापत्त्या सह प्रत्यक्षादिचतुष्टयप्रामाण्यवादिनः प्रभाकरस्य, अभावेन सह प्रत्यक्षादिपञ्चकप्रामाण्यवादिनो भट्टकुमारस्य च जैमिनीयभाष्यव्याख्यातृत्वे तुल्येऽपि प्रमातृप्रमेययोः प्रमाणवद् विसंवादः ।
कथम् ।
यस्याभा(नो?वो) न प्रमाणं तस्य गुरोर्नाभावो नाम कश्चिद् विषयः ।
किं तर्हि, भूतले घटो नास्तीति केवलभूतलमात्रं प्रकाशते , तमश्च रूपदर्शनाभावमात्रं, न द्रव्यान्तरम् ।
यस्य पुनर्भावः प्रमाणं, तस्य कुमारस्याभावलक्षणोऽपि विषयोऽस्ति ।
स चात्यन्ताभावादिभेदात् पञ्चविधः ।

तत्र शशे सङ्गस्यात्यन्ताभावः ।
उत्पत्तेः प्राचीनो घटादीनां प्रागभावः ।
विनाशोत्तरकालीनः प्रध्वंसः ।
घटस्य पटाद्यात्मत्वाभावोऽन्योन्याभावः ।
अपवर(कस्थादीना?कादिस्थाना)मङ्गणादावभावः संसर्गाभाव इति ।
तमश्च द्रव्यान्तरं, नालोकाभावमात्रम् ।
नापि रूपदर्शनाभावमात्रम् ।
कुतः ।
ऽतम आसीद्’ इत्यादिश्रुतिविरोधात् ।
किञ्च आलोकाभावत्वे एकालोकाभावः सर्वालोकाभावो वा तमः ।
आद्ये सदोपलम्भप्रसङ्गः, एकालोकाभावस्य सर्वदा सर्वत्र सम्भवात् ।
द्वितीये न कदाचिदपि तम उपलभ्येत, सर्वालोकाभावस्य क्वचिदप्यसम्भवात् ।
एवं रूपदर्शनाभावपक्षोऽपि दूष्यः ।
भावत्वेनोपलभ्यमानस्य तमसोऽभावत्वकल्पने प्रकाशस्य तमसोऽभावत्वकल्पना कथं निवार्येत ।
अभावमनङ्गीकुर्वतो गुरो रूपदर्शनाभावश्च नास्तीति तमसस्तद्रूपत्वकथा कथङ्कारं सङ्गच्छताम् ।
अभावज्ञानस्य निर्विषयत्वं वदन्नसौ भावज्ञानस्य निरालम्बनत्वं साधयन्तं माध्यमिकं वा कथं निराकुर्यात् ।
अतो यत्किञ्चिदेतत् ।
तदुक्तं भट्टपादैः- अतमः खलु चलं नीलं परापरविभागवत् ।
प्रसिद्धद्रव्यवैधर्म्यान्नवभ्यो भेत्तुमर्हति ॥
ऽ’ इति ।
वेदस्य नित्यत्वे स्वतः प्रामाण्ये च सत्यपि मन्त्रार्थवादभागस्योपनिषद्भागस्येतिहासपुराणानां चाप्रामाण्यं,

विधिशेषत्वेन वा कथञ्चित् प्रामाण्यं, स्वर्भूपाताललोकानां नित्यत्वं, निरीश्वरत्वं, चेतनाचेतनात्मकस्य विश्वस्यानेकत्वं, सत्त्वम् , इन्द्राग्न्यादिदेवतानां विग्रहपञ्चकाभावेन चतुर्थ्यन्तपदमात्रत्वं, धर्मस्याग्निहोत्रदर्शपूर्णमासपशुबन्धसोमयागाद्यात्मत्वं, मोक्षस्यात्मनः स्वरूपावस्थानात्मकत्वं च गुरुकुमारयोरविशिष्टम् ।
इयान् विशेषः ।
गुरोः सर्वज्ञानानि यथार्थानि, भ्रान्तिसंशयादिज्ञानानामविवेकमात्रत्वात् ।
प्रत्यभिज्ञा च प्रागज्ञातघटादिस्थाय्यवगाहित्वेनानुभव एवान्तर्भवतीति ग्रहणस्मरणरूपेण द्वैराश्यमेव ज्ञानम् ।
तेषां च स्वप्रकाशत्वं सांख्यादिवत् ।
ज्ञानस्यापि ज्ञानान्तरवेद्यत्वे तस्यापि तथात्वमित्यनवस्थापत्तेः, ज्ञेयत्वे घटवदज्ञानत्वापत्तेश्च ।
जाता तु वैशेषिकादिवज्जडद्रव्यविशेषो बुद्ध्यादिधर्माश्रयोऽत एव देहादिविलक्षणो नित्यो विभुर्लोकत्रयं कर्मवशाद् भ्रमन् प्रत्यक्षादिप्रमाणकः कर्तृभोक्तृ(त्व)स्वभावश्च भवति ।
तस्य जडत्वेऽपि ज्ञानाश्रयत्वेन प्रकाशनाद् ज्ञातृत्वम् ।
घटादेर्विषयत्वेनावभासनाद् ज्ञेयत्वमित्यतो घटमहं जानामीत्यत्र स्वतोज्ञानं, तदाश्रयत्वेन ज्ञाता, तद्विषयत्वेन घटश्च प्रकाशत इति त्रिपुटीप्रत्यक्षवादी गुरुर्भाषते ।
तथाच तद्वचनं -
"बुद्धीन्द्रियशरीरेभ्यो भिन्न आत्मा विभुर्ध्रुवः ।
नानाभूतः प्रतिक्षेत्रमर्थभित्तिषु भासते" ॥
इति ।

भेदश्चास्यान्यानपेक्षि स्वरूपमेव, न धर्मः ।
तथात्वे भेदान्तरापेक्षाप्रसङ्गात् ।
विध्यर्थश्च यागादिविषयो नियोग एव ।
असौ मानान्तरायोग्यत्वादपूर्वमिति, कृतिसाध्यत्वात् कार्यमिति, कृत्युद्देश्यत्वात् प्रधानमिति चोच्यते ।
स्वसाधकस्य नियोज्यस्वर्गादिफलदत्वं तु न स्वातन्त्र्यभङ्गाय ।
(अस्मिन्प्र? )अतोऽग्निष्टोमेन स्वर्गकामो यजेतेत्यस्मिन् वाक्ये यजेतेत्यत्र प्रत्ययांशेन लिङा नियोगः प्रतीयते ।
सुखवासकामो मां भजेतेति राजवाक्यवत् ।
स च कस्यचित् कस्मिंश्चिद् विषये प्रसिद्ध इति यजतिधातुलक्षणया प्रकृत्या विषयः, स्वर्गकाम इति नियोज्यश्च समर्प्यते ।
अग्निष्टोमेनेति तृतीयाश्रुत्या कस्मिन् यागे नियोग इति विशेषार्पणम्, अधिकारिणः स्वर्गकामत्वविशेषणेन नियोज्यविशेषार्पणं च कृतम् ।
तस्मादयमर्थः - स्वर्गकामस्य ज्योतिष्टोमयागे नियोग इति ।
अन्येऽपि विधयःऽफलवत्सन्निधावफलं तदङ्गम् ’ इति न्यायादेतदङ्गविधयः ।
मन्त्राश्चानुष्ठानस्मारका इत्येतदङ्गतां भजन्ते ।
अर्थवादाः फलप्राशस्त्यप्रकाशका इति तेऽपि तत्साधकनियोगचिकीर्षापादकत्वाद् विधिं प्रत्युपकुर्वन्ति ।
एवमन्यत्रापि न्याय इति ।

गुरोरपि गुरोः कुमारस्यानुभवस्मरणप्रत्यभिज्ञाभेदेन, अनुभवेपि सम्यङ्मिथ्यासंशयभेदेन चानेकविधानि ज्ञानानि कणादाक्षपादपतञ्जल्यादिवत् ।
ज्ञाता तु द्रव्यबोधस्वरूपः प्रत्यक्षानुमानार्थापत्त्यागमप्रमाणकश्च ।
तत्र ज्ञेयविलक्षणस्वभावत्वादज्ञानरूपत्वं, बुद्ध्यादिगुणाश्रयत्वाद् द्रव्यत्वम् ।
न च ज्ञानाश्रयस्य द्रव्यस्य ज्ञानादन्यत्वान्न ज्ञानसंभेदः सम्भवतीति वाच्यम् ।
प्रकाशनिदानत्वेन तस्मादन्यस्यापि सवितृमण्डलस्य प्रकाशत्वदर्शनात् ।
जडाजडाकारत्वमन्तरेणात्मनोऽस्मत्प्रत्ययविषयत्वासिद्धेश्च ।
यत् पुनर्भ्रान्तिज्ञानानामविवेकात्मकत्वमिति ।
तन्मन्दम् ।
अभावमभ्युपगच्छतोऽख्यातेर्विवेकाभावस्वरूपस्याविवेकस्य वक्तुमयोग्यत्वात् ।
कयोर्वेहाविवेकः ।
ग्रहणस्मरणयोश्चेद्, न ।
इदं रजतमिति पुरोवर्तिरजततादात्म्यानुभवात्मकत्वादभ्रमस्य ।
अतो रजतानुभवसंस्कारवतः पुंसः काचादिकरणदोषात् सादृश्यादिविषयदोषाच्च सितभास्वरवस्तुमात्रतया इदमितिप्र(ति)पन्नस्य शुक्तिशकलस्यैव स्मर्यमाणरजतात्मना भानं भ्रान्तिः ।
घटसुखादिज्ञानानि चानुव्यवसायज्ञानगम्यानि ।
अयं घट इति ज्ञानस्य घटमहं जानामीत्यौत्तरकालिकज्ञानेन विषयीक्रियमाणत्वात् ।
न चात्रानवस्था, द्रष्टररतः परं जिज्ञासाभावात् ।
भेदश्च न भेदिस्वरूपमात्रं, भेदशब्दस्य घटादिशब्दपर्यायत्वापत्तेः, अन्यापेक्षसिद्धिकस्य भेदस्य स्वरूपत्वायोगाच्च ।

न च भेदिधर्मत्वेऽस्य भेदान्तरापेक्षादोषः, स्वपरनिर्वाहकत्वोपपत्तेः आत्मवत् ।
स हि सर्वं वस्तु जानन्नात्मानमपि जानाति ।
भावना च विध्यर्थः ।
सा च किं केन कथं वेत्यंशत्रयवती(प्रतीयाः?) ।
तत्र किमित्यंशपूरणाय स्वर्गकामपदम् ।
केनेत्यंशपूरणाय यजतिः प्रकृत्यंशः ।
तद्विशेषप्रकाशनायाग्निष्टोमेनेति प्रकृत्यंशः ।
तृतीयालक्षणः प्रत्ययांशस्तस्य करणत्वख्यापनाय ।
न च क्षणिकस्य यागस्य कालान्तरीयफलसाधनत्वासंभवः ।
यजमानसमवेतस्वसंस्कारद्वारेण तत्संभवात् ।
कथं भावयेदित्यंशार्पकाः प्रयाजादिविधयः ।
तस्मादयमर्थः -ज्योतिष्टोमयागेन तत्कामः स्वर्गं भावयेदिति ।
अनयोः पक्षयोर्य आत्मनः स्वरूपावस्थितिलक्षणो मोक्षः सोऽपि कर्मणैव लभ्यः ।
कथम् ।
प्रतिषिद्धानि काम्यान्यपि कर्माण्यकुर्वतः पुण्यपापात्मकनिमित्ताभावान्नैमित्तिकोर्ध्वाधोमध्यलोकगतिविहीनस्य प्रत्यवायपरिहारार्थं ।
नित्यनैमित्तिकानि चानुतिष्ठतः प्राचीनानि शुभाशुभकर्माणि च फलभोगेन क्षपयतश्च यजमानस्यायत्नतो ज्ञानमन्तरेणैव स्वरूपावस्थितिर्भवतीति ।
स्यादेतत् ।
गुरुकुमारयोरसर्वज्ञत्वे सर्वज्ञत्वे वा निरीश्वरं विश्वमिति वचनमविश्वास्यम् ।
आद्ये अल्पज्ञ(त्व?)वावयत्वादन्त्ये विप्रलम्भकवाक्यत्वाच्च ।
यः सर्वज्ञः स एवेश्वर इत्यौपनिषदैरास्थितत्वात् ।
एवं ता(भ्यामु)पासितयोर्जैमिनिशबरस्वामिनोरपि वचनमविश्वास्यमेव ।

अथ तैस्तार्किकाभिमत ईश्वर एव निरस्तो नोपनिषदभिमतः क्षेत्रज्ञस्वरूपभूत इति चेत् ।
तन्न ।
ऽकर्मैव देहिनामिष्टानिष्टफल(दं) नेश्वर इति वदतां वेदस्य धर्मैकनिष्ठतो चाभ्युपगच्छतां क्षेत्रज्ञस्वरूपस्येश्वरस्याकिञ्चित्करत्वात्, प्रमाणप्रतिपन्नत्वाभावाच्च ।
अनुमानप्रमाणकत्वं च परमेश्वरस्य स्वैरेव निरस्तमागमस्य धर्मैकपरत्वं च साधितमिति किंप्रमाणकः स्यात् ।
स्वरूपावस्थानलक्षणो यो मोक्ष उक्तः, तत्रापि किमात्मा प्राक् स्वरूपावस्थितः , किंवा न ।
आद्ये न मोक्षस्य कर्मसाध्यत्वम्, उत्पत्त्याप्तिविकृतिसंस्कारात्मकत्वात् कर्मफलस्य सिद्धस्य चोत्पत्त्याद्यसंभवात् ।
नापि द्वितीयः ।
प्रागविद्यमानस्य रूपस्य स्वरूपत्वानिर्वाहात् ।
अव्यभिचारिरूपं हि स्वरूपं भाष्यते ।
कर्मसाध्यत्वे मोक्षस्य नित्यपुरुषार्थता च न स्यात्, यत् कृतकं तदनित्यमिति न्यायात् ।
जडात्मवादे कैवल्यस्य शून्यकल्पता चापरिहार्या पाषाणकल्पता वास्थेया ।
यत् पुनर्द्रव्यबोधस्वरूप आत्मेति ।
तदप्यसत् ।
बोधाबोधयोरभेदाभ्युपगमे सदसदादिष्वप्यैक्यप्रसक्तो ज्ञानस्यानुव्यवसायज्ञानगम्यत्वं चायुक्तम् ।
ज्ञेयं च तद् ज्ञानं चेति विरोधात् ।
अनुव्यवसायज्ञानस्य स्वसिद्धावन्यानपेक्षत्वे पूर्वज्ञानस्यापि तथात्वसंभवात् ।

आत्मन्यप्यसिद्धस्य ज्ञानस्यार्थप्रकाशकत्वे अर्थस्य ज्ञानप्रकाशकतापि स्याद्, अविशेषात् ।
अतः सर्वज्ञानानां स्वप्रकाशत्वमास्थेयम् ।
तेषां च बुद्धिवृत्तिविशेषत्वेन जडत्वान्न स्वतः प्रकाशात्मकता सङ्गच्छत इति चिदात्मसान्निध्यादेव तथात्वमास्थेयम् ।
ऽऽतमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभातिऽ’ इति श्रुतेः ।
यत् पुनर्भेदस्य भेदिधर्मत्वमादाय स्वपरनिर्वाहकत्वेनानवस्थादोषनिरसनं, तदप्यचारु ।
रूपरसादीनां धर्माणां धर्मिभ्योऽन्योन्यतश्च भेदासिद्धेः ।
न खलु धर्माणां धर्मान्तराश्रयत्वं सम्भवतीति ।
किञ्च सर्ववस्तूनां भेदो नामैकः, किं वानेकः ।
एकोऽपि किं जडः किं वाजडः ।
आद्येनाजड आत्मन्यसौ सम्भवति ।
दृशि दृश्यान्वयायोगात् ।
द्वितीये त्वात्मन एव भेदशब्दार्थतापत्तिः, एकस्य सर्वगतस्याजडस्य वस्तुनस्तल्लक्षणत्वात् ।
अचेतनश्चेत् स किं भेदान्तरमपेक्षते , किं वानापेक्षते ।
अपेक्षते चेदनवस्था ।
नापेक्षते चेद् भेदमनपेक्ष्यैव भेदिनोऽप्यने(का?के)स्युर्भेदवत् ।
तस्मात् स्वरूपत्वेन धर्मत्वेन वा भेदो न निर्वोढुं शक्यः शक्रेणापीति ।
कथं चेतनाचेतनप्रपञ्चस्य भेदः ।
कथं वा जीवेश्वरभेदः ।
तस्मात्कर्ममीमांसकमतमपि श्रेयस्कामैर्नोपादेयमिति ब्रह्मवादिमतमवतार्यते ।
ब्रह्मवादिनोऽपि द्विविधाः ।
औपनिषदाः पौराणिकाश्च ।
औपनिषदा अपि द्विविधाः सगुणब्रह्मप्रधाना निर्गुणब्रह्मप्रधानाश्चेति ।

तत्र सगुणब्रह्मप्रधाना रामानुजादयः ।
निर्गुणब्रह्मप्रधाना आचार्यभगवत्पादादयः ।

सगुणब्रह्मवादिमतनिरूपणम् ।
तेषु सगुणनिष्ठानां जीवेश्वरजगद्भेदः सत्य एव ।
तन्निदानभूता मायापि भगवच्छक्तित्वात् सत्यैव ।
सतस्तिलादेः शक्तीनां सद्भावदर्शनात् ।
अघटितघटयितृत्वेन तस्यां मायात्वव्यवहारः , नावस्तुत्वात् ।
ऽिन्द्रो मायाभिः पुरुरूप ईयते’ इति श्रुतेस्तस्याः प्रतिजीवं भेदश्चास्तीति युगे युगे मुमुक्षवो जीवा वासुदेवसङ्कर्षणप्रद्युम्नानिरुद्धाख्यचतुर्व्यूहात्मनो भगवतः श्रवणकीर्तेनध्यानपूजनानि भक्तिश्रद्धापूर्वमनुतिष्ठन्तो भगवत्प्रसादेन जन्मादिसंसारकर्त्रीं तन्मायामतिलङ्घ्य सेवानुरूपं सालोक्यसारूप्यसामीप्यसायुज्यलक्षणं मोक्षमिच्छन्ति ।
भगवत्प्रसादशून्यास्तु तन्मायाव्यामोहिता इह संसरन्तीति सिद्धान्तसङ्ग्रहः ।
यथोक्तं शारीरकसङ्ग्रहकृद्भिः -
अज्ञानीनि बहून्यसंख्यवपुषो जीवान्मुमुक्षूनपि ज्ञानाज्ञानसमाश्रयादनुयुगं तेषां च निःश्रेयसम् ।
मायामीश्वरसंभयादनुगमात् ससारसंवर्धिनीं केचिद्देवनिघातविघ्नमनसः संचक्रुरल्पश्रुताः" ॥
इति ।

दैवनिघातनिघ्नमनसोऽल्पश्रुता इति तन्मतस्यावस्तुभूतजगज्जीवेशभ्रान्तिमूलत्वेनोपेक्षणीयत्वमभिहितमभियुक्तैः ।

निर्गुणब्रह्मवादिमतनिरूपणम् ।
निर्गुणब्रह्मप्रधानानाशङ्करभगवत्पादादीनामौपनिषदानां पौराणिकानां च षड्विधाष्टविधप्रमाणवादिनां परमार्थतः सच्चिदानन्दब्रह्मैकमेव तत्त्वम् ।
तच्च न मानान्तरगतम् ।
प्रमातृप्रमाणप्रमेयात्मकस्य विश्वस्य तस्मिन् कल्पितत्वेन ततः पृथगसत्त्वात्, स्वतो जडत्वेन तदधीनप्रकाशत्वाच्च ।
तदभावोऽपि न चिदात्मानमनाश्रित्य प्रकाशेत, अप्रकाशस्वभावत्वात् ।
किं पुनर्भावा घटपटादयः, आत्मैव चेद् वस्तु ।
यदि च सोऽखण्डात्मा, कुतो जगज्जीवेश्वरात्मकं द्वैतमवभासते ।
स चेन्न वस्तु, न चैकस्सः, कुतस्तरां विश्वं भासेत ।
न खल्वेकं स्वप्रकाशं च तत्त्वमनपेक्ष्यानेकात्मकस्य जडस्य विश्वस्य सिद्धिः साधयितुं शक्यते ।
द्वैतस्य चेदेकान्ततोऽसत्त्वं, तर्हि कुतः सत्त्वप्रतिभासः ।
अधिष्ठानसत्तयेति ब्रूमः ।
यथा शुक्तिसत्तया रजतसत्त्वप्र(ती?)तिभासः ।
सा हि इदमि सितभास्वरवस्तुमात्रत्वेन ज्ञातापि स्वेन रूपेणाज्ञाता सती रजतानुभवसंस्कारवतः पुंसः स्वाविद्याविजृम्भितरजताभासात्मना भासते ।
एवमात्माप्यहमिति प्रकाशद्रव्यमात्रत्वेन ज्ञायमानोऽपि सच्चिदानन्दात्मकेन स्वेन रूपेणाज्ञातः सन्नात्माविद्याविजृम्भितजगज्जीवेश्वरात्मकं भेदप्रपञ्चमात्मनि पश्यतीति ।

अस्मिन् पक्षेऽपि व्यवहारदशायां दृग् दृश्यश्चेति द्वौ पदार्थौ ।
तत्र दृश्यं माया ।
दृक् तदधिष्ठाता पुरुषः ।
माया च न सती, सत आत्मनोऽन्यत्वात्, शुक्तिरूप्यवन्मिथ्याभूतजगन्निदानत्वात्, अधिष्ठानतस्वज्ञानबाध्यत्वाच्च ।
नाप्यसती, विश्वनिदानत्वाद्, मामहं न जानामीत्यपरोक्षत्वाच्च ।
नापि सदसती, सत्त्वासत्त्वयोरन्योन्यनिषेधरूपत्वेनैकाधिकरण्यासम्भवात् ।
परिशेषादनिर्वचेनीयेत्यायातम् ।
सा च नात्मनो भिन्ना ।
अनुपलब्धिप्रसङ्गाद्, अत्यन्तासत्त्वापत्तेश्च ।
नाप्यभिन्ना ।
जडाजडयोरैकात्म्यायोगात् ।
नापि भिन्नाभिन्ना, भेदाभेदयोः परस्परनिषेधात्मनोरविवादमेकत्र वर्तनानुपपत्तेः ।
न सावयवा, कार्यत्वापत्तेः ।
न निरवयवा, विश्वपरिणामित्वात् ।
नचोभयरूपा, विरोधात् ।
तस्मादविचारितरमणीया काचित् परमास्मनः शक्तिरेव माया ।
सा च त्रिगुणमयी ।
सत्त्वरजस्तमांसि गुणाः ।
तथात्वं च मायायास्तत्कार्ये जगति सुखदुःखमोहमयत्वदर्शनाच्छ्रुश्च ।
इयमेव क्वचिदविद्येति क्वचित् प्रकृतिरिति क्वचिदक्षरमिति क्वचिच्छक्तिरिति क्वचिन्मोह इति चोच्यते ।
(तद्वत आत्मनः सकाशादाकाशादीनि पञ्च भूतानि तेभ्यश्चिदात्माधिष्ठितेभ्यः समष्टिव्यष्टिशरीराणि चोत्पद्यन्त इति वेदान्तिनः ।
पौराणिकास्तु द्वैतस्य चाधिष्ठानसत्तयेव शब्दप्रतिभासः, यथा रजतस्य ।

अस्मिन् पक्षे व्यवहारदशायां दृग् दृश्यं चेति द्वौ पदार्थौ ।
दृश्यं माया ।
दृक् पुरुषः ।
अविचारितरमणीया परमात्मनः शक्तिरेव माया ।
?)सा च त्रिगुणमयी एका चऽजामेकामित्यादिश्रुतेः ।
ऽिन्द्रो मायाभिऽरिति तद्बहुत्वश्रवणं चावयवभेदादेव ।
इयमेवाविद्यादिशब्दैरभिधीयते ।
तद्वत आत्मन आकाशादीनि जायन्ते ।
तेभ्यः समष्टिव्यष्टिरूपाणि शरीराणि चोत्पद्यन्त इति वेदान्तिनः ।

पौराणिकमतनिरूपणम् ।
पौराणिकास्तु मायाशबलात् परमात्मनो महान् ।
महतोऽहंकारः ।
स च द्रव्यज्ञानक्रियाशक्तिभेदेन त्रिरूपः ।
तत्र द्रव्यशक्तेस्तामसाहंकाराच्छब्दादितन्मात्राण्याकाशादिभूतानि च जायन्ते ।
ज्ञानशक्तेः सात्त्विकाहंकाराद् दिगादिचतुर्दशकरणदेवता अन्तःकरणानि च जायन्ते ।
क्रियाशक्ते राजसाहङ्काराच्छ्रोत्रादीनि वागादीनि च जायन्ते ।
तान्येतानि महदाद्यवन्यन्तानि मायाविना पुरुषेण प्रेरितान्यन्योन्यं मिलित्वा हैमं ब्रह्माण्डमारभन्ते ।
तत्र च चतुर्दश भुवनानि चर्तुर्विधशरीराणि च भवन्तीति, तेषु च देहेषु सर्वनिदानभूतश्चिदात्मा साक्षित्वेनाभिमानित्वेन प्रविशति ।
साक्षी परमेश्वरः ।
अभिमानी जीवः,ऽद्वा सुपर्णेऽत्यीदिश्रुतेः,ऽीश्वरः सर्वभूतानाम्’ इत्यादिस्मृतेश्च ।
एवं चानयोः पक्षयोर्भूतभौतिकलक्षणं मायाकार्यं प्रमेयम् ।
प्रत्यक्षादीनि षडष्टौ वा प्रमाणानि ।

जीवः प्रमाता ।
स प्रत्यक्षानुमानगम्यः प्रतिक्षेत्रं मायया भिन्नः ।
परमेश्वरस्तर्कापरपर्यायानुमानसहकृतश्रुतिप्रमाणतो नित्यशुद्धबुद्धमुक्तस्वभावः सर्वज्ञः सर्वशक्तिर्गुणत्रयात्मिकया मायया विश्वसृष्टिस्थितिसंहारतिरोभावानुग्रहलक्षणैः पञ्चविधः कृत्यैः स्वात्मन्येव विहरति ।
सर्वक्षेत्रेष्वेक एव स्थितः सन् सर्वान्क्षेत्रज्ञान्नियमयति च ।
न चैकस्मिन् नियाम्यनियामकभावासंभवः ।
मायीयभेदाश्रयेण तत्संभवात् ।
एवं द्वैतप्रपञ्चः सर्वो मायामयः ।
अद्वितीयं ब्रह्मैव परमार्थतोऽस्ति ।
अनयोर्मतयोर्बन्धस्याविद्यानिबन्धनत्वात् तन्निवृत्तिरेव मोक्षः ।
स च 'ऽात्मा वा अरे द्रष्टव्यः’ इत्यादिश्रुत्या आत्मदर्शनमनूद्य तत्साधनत्वेन श्रवणादिविधानाद्, वेदान्तश्रवणादि कुर्वतो विवेकादिसाधनसम्पन्नस्य पुंसो भगवच्चरित्रश्रवणादिभिः परिशोधितान्तःकरणस्याहं ब्रह्मास्मीति जीवपरैक्यसाक्षाद्बोधे सति सिध्येदित्यखिलमनाविलम् ॥

स्रोतसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=सर्वमतसंग्रहः&oldid=43439" इत्यस्माद् पुनः प्राप्तिः