प्रमुखा विकल्पसूचिः उद्घाट्यताम्
अयं लेखः सम्भाषणसन्देशः इत्येतस्यां संस्कृतमासपत्रिकायां प्रकाशितपूर्वः ।

रशियादेशस्य प्रख्यात: विज्ञानी लिखति - ‘‘सस्यानि परिसरम् अवगच्छन्ति । अयम् अंश: आ सृष्टे: ज्ञातं सत्यम् । संवेदनेन विना तानि यथासन्निवेशं परिसरानुसरणं व्यवहारं न कुर्यु:’’ इति । (Report of academy of Science - 1959) इत: पूर्वादेव सस्येषु जैविकसंवेदनं शतशै: प्रायोगिकविधानै: दृढीकृतम् आसीत् । ‘ब्याक्सटर्’नामक: अन्य: सस्यशास्त्रज्ञ: अस्मिन् क्षेत्रे अधिकप्रसिद्धिं गत: वर्तते । स: प्रयोगमुखेन सस्यानां विविधानां प्रतिक्रियाणाम् अध्ययनं कृत्वा अभिप्रेतवान् यत् तानि मनुष्याणां मन: अपि विजानन्ति इति । अस्य महाशयस्य संशोधनम्, ‘सस्येषु जैविकसम्पर्क:’ इति प्रसिद्धम्, यच्च ‘ब्याक्सटर्परिणाम:’ इति कथ्यते (Evidence of a primary perception in plant life – vol.10, No. 4, 1968 pp 329, 348 )

Willow.jpg

क्रि.श.1981 तमे संवत्सरे अमेरिकादेशीयाया: संस्थाया: सदस्या: रशियादेशम् अगच्छन् । तेषु चत्वार: वैद्या:, द्वौ मनोविज्ञानिनौ, एक: भौतशास्त्रज्ञ:, द्वौ उपाध्यायौ च आसन् । [Association of Research & Enlightenment (ARE)] ‘प्यानिष्कन्’नामक: विज्ञानी तेभ्य: चलचित्रम् एकं प्रदर्शितवान् । तस्य चित्रस्य नाम आसीत् - ‘सस्यानि संवेदनशीलानि किम् ?’ इति । अस्मिन् चलचित्रे सूर्यस्य प्रकाशे, वाते, मेघाच्छन्नायां रात्रौ, क्रिमिकीटानाम् आकर्षणे, रासायनिकवस्तूनां प्रयोगे, अग्निसम्पर्के, एतादृशेषु अन्यप्रसङ्गेषु च सस्यानां प्रतिक्रिया: प्रदर्शिता: आसन् । एतत् प्रदर्शनम् अद्भुतं परिणामम् अजनयत् ।

प्रसिद्ध: तत्त्वशास्त्रज्ञ: अरिस्टाटल्महाशय: ‘जीवशास्त्रस्य जनक:’ इत्यपि प्रसिद्ध: ॥ (क्रि.पू. 384-322) स: ‘सस्यानाम् आत्मा अस्ति, किन्तु न तानि संवेदनशीलानि’ इति अभिप्रेतवान् । अष्टादश-शतकपर्यन्तं विज्ञानिन: एतस्मिन् विषये संशयग्रस्ता: एव आसन् । ‘सस्यशास्त्रपितामह:’ इति ख्यात: ‘केरोलास्लिनायस्’नामक: विज्ञानी (1707 - 1778), सस्यप्राणिनो: मध्ये स्थित: एक एव व्यत्यास: ‘चलनराहित्यम्’ इति स्पष्टीकृतवान् । किन्तु सुप्रसिद्ध: डार्विन्महाशय: एतं सिद्धान्तं खण्डयन्, सस्यानाम् अपि केचन भागा: स्वातन्त्र्येण चलन्ति इति प्रतिपादितवान् । स: प्रतानानां (Tendrill) चलनसामर्थ्यम् उदाहृतवान् ।

अस्मिन् विषये प्रगतिपरा: आलोचना: भारतदेशादेव आगता:, यत्र जगदीशचन्द्रबोसमहाशयस्य नाम सुप्रसिद्धं वर्तते । (1858 - 1937) एष: सस्यानां वर्धनस्य स्वभावस्य च विषये बहून् प्रयोगान् अकरोत् । तदर्थं ‘क्रेस्कोग्राफ्’नामकं (Crescograph) यन्त्रमपि स: अन्विष्टवान् आसीत् । तस्य प्रयोगफलितानां महत्त्वं वैदेशिका: पञ्चाशत: संवत्सराणाम् अनन्तरं ज्ञातवन्त: ।

इत: पूर्वकालादपि भारतीया: सस्यानां संवेदनशक्तिं ज्ञातवन्त: आसन् एव । महाभारतस्य शान्तिपर्वणि अस्य उल्लेख: लभ्यते । भरद्वाजस्य गुरु: भृगुमुनि: । तयो: सम्भाषणं तु सस्यानां स्वभावं वैज्ञानिकविधानेन विवृणोति । इदानीं समग्रे विश्वे एतस्य सत्यासत्यतां ज्ञातुं प्रयत्न: आरब्ध: अस्ति ।

भृगुमहर्षि: भरद्वाजं प्रति वदति -

चेष्टा वायु: खमाकाशम् ऊष्माग्नि: सलिलं द्रव: ।
पृथिवी चात्र सङ्घात: शरीरं पाञ्चभौतिकम् ॥
इत्येतै: पञ्चभिर्भूतै: युक्तं स्थावरजङ्गमम् ।
श्रोत्रं घ्राणं रस: स्पर्शो दृष्टिश्चेन्द्रियसंज्ञिता: ॥ - (शान्तिपर्व 182.4)

एतस्मिन् श्लोकयुगले स्पष्टम् उच्यते - ‘सर्वे स्थावरजङ्गमप्रभृतय: पञ्चभि: भूतै: विनिर्मिता:’ इति । वायु: जीवस्य प्रमुखम् अङ्गम् इति तस्य अभिप्राय: । सर्वेषु शरीरेषु य: अवकाश: वर्तते स: आकाश:, शक्तिजनक: अग्नि:, सर्वत्र व्याप्ता: द्रवरूपिण्य: आप:, घनरूपेण वर्तमाना पृथिवी च सर्वेषु स्थावरजङ्गमेषु सन्ति एव । नासिकारसनानेत्रचर्मश्रोत्ररूपाणि पञ्चेन्द्रियाणि क्रमश: पृथिव्यप्तेजोवाय्वाकाशसम्बन्धीनि । एवं सर्वे स्थावरजङ्गमा: अपि पाञ्चभौतिका: । वामनपुराणमपि एतेषां पञ्चभूतानां लक्षणानि विशदयति अस्मिन् प्रात:स्तोत्रे -

पृथ्वी सगन्धा सरसास्तथाप:
सस्पर्शवायुर्ज्वलनं सुतेज: ।
नभ: सशब्दं महता सहैव
यच्छन्तु सर्वे मम सुप्रभातम् ॥ - (वामन - 24.24)

एतत् पाञ्चभौतिकं विवरणं गुरो: मुखात् श्रुत्वा भरद्वाज: सस्यानां पाञ्चभौतिकत्वविषये संशयग्रस्तो भवति ।

अनूष्मणामचेष्टानां घनानां चैव तत्त्वत: ।
वृक्षाणां नोपलभ्यन्ते शरीरे पञ्च धातव: ॥

सस्यानि अचेतनवत् दृश्यन्ते । जीविनामिव तेषां शरीरेषु उष्णता न दृश्यते । ते न चलन्ति ।

न शृण्वन्ति न पश्यन्ति न गन्धरसवेदिन: ।
न च स्पर्शं विजानन्ति ते कथं पाञ्चभौतिका: ॥

तेषु शब्द-रस-गन्ध-स्पर्श-दर्शनानि इन्द्रियकर्माणि न विद्यन्ते । एवं स्थावरजङ्गमे प्रपञ्चे बहव: व्यत्यया: सन्ति । अत: भरद्वाजस्य मतं तु –

अद्रवत्वादनग्नित्वादभूमित्वादवायुत: ।
आकाशस्याप्रमेयत्वात् वृक्षाणां नास्ति भौतिकम् ॥

प्रश्नस्यास्य उत्तरं गुरु: सुदीर्घतया विवृणोति । बाह्यान् विषयान् उद्दिश्य सस्यानां प्रतिक्रिया: अत्र सुस्पष्टं विवृता: । तेषां स्वरक्षणविधा: अपि स्पष्टीकृता: ।

ऊष्मतो म्लायते वर्ण: त्वक्फलं पुष्पमेव च ।
म्लायते शीर्यते चापि स्पर्शस्तेनात्र विद्यते ॥
वाय्वग्न्यशनिनिष्पेषै: फलं पुष्पं विशीर्यते ।
श्रोत्रेण गृह्यते शब्द: तस्मात् शृण्वन्ति पादपा: ॥
Sasya2.jpg

वातावरणस्य तापव्यत्ययेन एव वृक्षेषु, फलपुष्पाणि उद्भवन्ति । काले एव ते फलन्ति इति विषय: एव तेषु स्पर्शगुण: विद्यते इत्यस्य प्रमाणं भवति । वायु:, अग्नि: अशनिश्च सस्यानां पर्णानि पातयन्ति । अत: एतानि सस्यानि अशन्यादीनां शब्दनां विषये स्पन्दनं दर्शयन्ति इति वक्तुं शक्यते । एतत् सस्यानां श्रोत्रत्वविषये प्रमाणं भवति ।

विषयस्यास्य वैज्ञानिकं विवरणम् एवं दातुं शक्यते । यद्यपि सस्यानां नाडीमण्डलं न वर्तते, तथापि एकदेशे अनुभूतस्य विषयस्य सन्देश: तेषां शरीरे सर्वत्र प्रसरति । पत्ररन्ध्राणां सङ्कोचविकासादय: अस्य कारणं स्यादिति पूर्वं भाव्यते स्म । इदानीं तु आमूलाग्रं सर्वत्र चलनस्य अस्तित्वं परीक्षितम् अस्ति । जलाभावप्रदेशेषु पत्ररन्ध्राणि सङ्कुच्य जलव्ययं तनूकुर्वन्ति इति तु सर्वविदित: विषय: । यदा मूलस्य अग्रभाग: जलाभावम् अनुभवति तदा अयं सन्देश: पत्रेभ्य: तत्क्षणे एव सस्यस्य शरीरद्वारा दीयते । पत्राणि विषयं गृहीत्वा यथानुरूपं कार्ये प्रवृत्तानि भवन्ति । एवं सस्यानां स्पर्शशक्ति: प्रमाणीकृता ।

सस्यानां श्रवणशक्तिविषये मद्रासप्रदेशस्य ‘अण्णामलै’विश्वविद्यालयस्य प्राध्यापक: टी.सी.एन्.सिङ्गनामक: विज्ञानी कांश्चन प्रयोगान् कृतवान् । स: विद्युच्चालितं श्रुत्युपकरणम् उपयुज्य (Turning Fork) सस्यानां समीपे शब्दं जनयामास । अनेन पत्रेषु स्थित: द्रव: वेगेन स्पन्दति इति स: अन्विष्टवान् । (सूक्ष्मदर्शकस्य साहाय्येन) 1989 तमे संवत्सरे ‘हार्पर्’नामक: ‘रो’नामकश्च विज्ञानिनौ सस्यानाम् उपरि सङ्गीतस्य प्रभावं प्रमाणीकृतवन्तौ । गान्धर्ववेदस्यास्य प्रसरणात् सस्यानि ध्वनिवर्धकस्य दिशायां नमन्ति इति तौ प्रतिपादितवन्तौ । तथैव कठोरशब्दस्य जननेन सस्यानि विरुद्धायां दिशायां वलन्ति इत्यपि प्रयोगसिद्धम् अस्ति । अत: सस्यानि आकर्णयन्ति इति तु स्पष्टम् ।

तेषां दर्शनशक्तिविषये शान्तिपर्वणि उच्यते -

वल्ली वेष्टयते वृक्षं सर्वतश्चैव गच्छति ।
न ह्यदृष्टेश्च मार्गोऽस्ति तस्मात् पश्यन्ति पादपा: ॥ इति ।

लता वृक्षम् आधारीकृत्य सर्वत: परिरभ्य ऊर्ध्वमुखं रोहति । एवं सा मार्गं पश्यति । एतदेव सस्यानां दर्शनशक्तिं प्रमाणीकुरुते । वैज्ञानिकरीत्या अपि सस्यानां ज्योति: प्रति परिस्पन्दनं प्रमाणीकर्तुं शक्यम् । कीटानाम् आक्रमणेऽपि ते परस्परं सन्देशं प्रेषयन्ति । प्राणिनां शरीरे या: या: चेष्टा: भवन्ति, ता: सर्वा: सस्यानां शरीरे अपि दृश्यन्ते । तानि सूक्ष्मातिसूक्ष्मं व्यत्यासम् अपि विदन्ति । तेषां शरीरेषु ज्योति: प्रति प्रतिक्रियार्थं रासायनिकवस्तूनि विद्यन्ते । तानि एव दर्शनसामर्थ्यं सस्येभ्य: यच्छन्ति । यथा - ‘फैटोक्रोम्’ (Phytochrome) इति रासायनिकवस्तु रक्तवर्णकं ज्योति:, तस्य सामीप्यं दूरं च ग्राहयति । अनेन तानि सस्यानि स्वसमीपस्थानां हरिद्वर्णकानां सस्यानां परिचयं प्राप्नुवन्ति । ‘रैबोफ्लेविन्’ नाम वस्तु अपि सस्येषु वर्तते । तदपि ज्योति: प्रति स्पन्दनं प्रकटयति । यदि सस्यं, तस्य भाग: वा ‘पोटासियम् अयोडैड्’द्रवे प्रक्षिप्येत, तर्हि एतत् ‘रोबैफ्लेविन्’रासायनिकं निष्क्रियं भवति । तदा सस्यस्य तद्भागस्य च ज्योति: प्रति स्पन्दनशक्ति: नश्यति । एतत् रासायनिकवस्तु मनुष्येषु अपि अवश्यं भवेत् । इदं ‘बी-12’ ( B 12) इति नाम्ना ‘विटमिन्’नाम्ना च प्रसिद्धम् अस्ति । यदि एतत् वस्तु देहे पर्याप्तं न स्यात्, तर्हि अक्षिणी शक्तिहीने भवेताम् । तादृशा: पुरुषा: दिवान्धा: भवन्ति । एष: विषय: अपि अस्माकम् अन्वेषणे पुष्टि ददाति ।

इदानीं सस्यानां घ्राणेन्द्रियसामर्थ्यं विचारयाम । शान्तिपर्वणि उच्यते -

पुण्यापुण्यै: तथा गन्धै: धूपैश्च विविधैरपि । अरोगा: पुष्पिता: सन्ति तस्माज्जिघ्रन्ति पादपा: ॥ इति ।

प्राकृतिकै: प्रकोपै: आत्मानं रक्षितुं, स्वावलम्बितया अरोगत्वेन स्थातुं च तेषां गन्धग्रहणम् अत्यावश्यकम् । तानि सुगन्धं दुर्गन्धं वा आत्मरक्षणार्थम् उत्पादयन्ति । विविधानां गन्धानां तु तानि एव मातृस्वरूपाणि ।

पादपानां रसना अपि विद्यते इति शान्तिपर्वण: अयं श्लोक: समर्थयति -

पादै: सलिलपानाच्च व्याधीनां चापि दर्शनात् । व्यधिप्रतिक्रियत्वाच्च विद्यते रसनं द्रुमे ॥

पादपा: मूलात् सलिलं पिबन्ति । ते भूम्या: आवश्यकानि धातूनि चित्वा स्वास्थ्यं रक्षन्ति । एतत् कार्यं तै: कर्तुं शक्यम् इति अंश: एव तेषां रुचिग्रहणसामर्थ्यस्य निदर्शनम् । जलेन साकं ते आवश्यकानि लवणानि खनिजांशान् च यथापेक्षं स्वीकुर्वन्ति एव । तेषां मूलानां रचनाविधानमपि रसनावत् दृश्यते ।

वक्त्रेणोत्पलनालेन यथोर्ध्वं जलमाददेत् ।
तथा पवनसंयुक्त: पादै: पिबति पादप: ॥

इत्ययं श्लोक: ज्ञापयति - पादपेषु आहारयुक्तं जलं वायुसाहाय्येन ऊर्ध्वं यत् गच्छति तस्य वैज्ञानिकताम् । एवं सर्वविधै: अपि पादपा: जङ्गमजीवराशिसमा: सन्ति एव । तेषाम् अपि सुखं दु:खं च विद्येते ।

सुखदु:खयोश्च ग्रहणाच्छिन्नस्य च विरोहणात् ।
जीवं पश्यामि वृक्षाणामचैतन्यं न विद्यते ॥

सर्वथा जीविन: इव एव स्पन्दन्ते तानि । यथा आहारात् मनुष्याणां बुद्धि: जायते तथा वृक्षाणामपि भवति ।

तेन तज्जलमादत्तं जरयत्यग्निमारुतौ ।
आहारपरिणामाच्च स्नेहो वृद्धिश्च जायते ॥

यथा अस्मद्देहे अग्निमारुतसाहाय्येन पचनक्रिया सम्भवति, शक्तिश्च जायते, तथा वृक्षेषु अपि सूर्यरश्मि-वायुसाहाय्येन परिणाम: सम्भवति । अनेन ते वर्धन्ते । तेषां पत्राणि वातावरणस्य अनुसारं वृक्षस्य कार्यक्षमत्वं नियमयन्ति । यदि परिसर: आरोग्यकर: न स्यात्, तर्हि सस्यानि अपि क्षयं यान्ति । पत्ररन्ध्राणां साहाय्येन तानि पश्यन्ति, जिघ्रन्ति च । इदानीं विज्ञानिन: अपि एतत् अङ्गीकुर्वन्ति । ‘लङ्कास्टर्’विश्वविद्यालयस्य ‘टेरी म्यान्स्-फील्ड्’महाशयस्य कथनम् अस्ति यत् वृक्षेषु सर्वे इन्द्रियव्यवहारा: विद्यन्ते इति ।

एवं सस्यानि बहुविधानि स्पन्दनानि दर्शयन्ति । तेषां शरीरस्य अन्त:प्रदेशे अविच्छिन्नक्रिया: दृश्यन्ते । सूक्ष्मा: कणा: ज्योति: सङ्ग्रहीतुं निरन्तरं मधुमक्षिका: इव कर्म कुर्वन्ति । जीवद्रव: इतस्तत: सञ्चार्य देहस्य सर्वेषु अपि भागेषु सम्पर्कं स्थापयति । जलम् ऊर्ध्वमुखं प्रवहति, आहार: पत्रेभ्य: अधोमुखं गच्छति । एतत् रक्तप्रवाहस्य समानतां वहति । अत एव बृहदारण्यके - (3.9.28)

यथा वृक्षो वनस्पति: तथैव पुरुषोऽमृषा ।
तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहि: ॥
त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पट: ।
तस्मात् तदातृण्णात्प्रैति रसो वृक्षादिवाहतात् ॥
मांसान्यस्य शकराणि किनाटं स्नाव तत्स्थिरम् ।
अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता ॥ इति ।

वृक्षपुरुषयो: समानता अत्र सङ्कीर्तिता । पुरुषस्य लोमानि इव वृक्षस्य पर्णानि । सस्यानां जीवरस: रक्तसमान: । तस्यापि मज्जामांसादीनि विद्यन्ते । यथा क्षतात् रुधिरं स्रवति, तथा वृक्षात् छिन्नात् द्रव: स्रवति । अत: जीविषु सर्वेषु समान: विन्यास: वर्तते । अत्रैव विज्ञानं तत्त्वशास्त्रं च मेलनं प्राप्नुत: । तयो: आशय: प्राकृतिक-विषयाणां ज्ञानप्राप्ति: एव । यथा विज्ञानं प्रायोगिकविधिना प्रकृतिं वेत्ति तथैव करोति तत्त्वशास्त्रम् अपि आलोचनया । एतदेव तप: अस्मदृषीणाम् ।

Emirgan 04589.jpg

पुनरन्यानि प्रमाणानिसम्पाद्यताम्

संस्यानां संवेदनाशक्तिमत्त्वविषये बहुत्र उल्लेख: दृश्यते । मनुस्मृतौ (1.4.7) यथा -

तमसा बहुरूपेण वेष्टिता: कर्महेतुना । अन्त:संज्ञा: भवन्त्येते सुखदु:खसमन्विता: ॥

अत्र कुल्लूकभट्ट: (मन्वर्थमुक्तावल्याम्) लिखति - ‘‘एते वृक्षादयस्तमोगुणेन विचित्रदु:खफलेनाधर्मकर्महेतुकेन व्याप्ता अन्तश्चैतन्या: भवन्ति । यद्यपि सर्वे चान्तरेव चेतयन्ते तथापि बहिर्व्यापारादिकार्यविरहात्तथा व्यपदिश्यन्ते । विगुणारब्धत्वेऽपि चैषां तमोगुणबाहुल्यात्तथा व्यपदेश: । अत एव सुखदु:खसमन्विता: । सत्त्वस्यापि भावात्कदाचित्सुखलेशोऽपि जलधरजनितजलसम्पर्कादेषां जायते’’ इति ।

अस्य श्लोकस्य आशयं विवृण्वन् मेधातिथि: कथयति - ‘‘वृक्षादय: निद्रामदमूर्च्छावस्थागता: मनुष्या: इव भवन्ति । तेषु चैतन्यं निगूढतया तिष्ठति । तेषाम् अपि सुखदु:खादिसंवेदना: सन्ति एव’’ इति ।

चरकसंहितायाम् (क्रि.पू.300) उच्यते - ‘‘वृक्षादीनां चेतनत्वं बोद्धव्यम् । तथा हि - सूर्यभक्त्या सूर्यभ्रमणादिक्सारिभ्रमणेन दिक् इति । सूर्यप्रकाशस्य अनुगुणं वृक्षेषु या गति: दृश्येत ताम् अवलम्ब्य तेषां सचेतनत्वम् अवगन्तव्यम्’’ इति ।

‘सेन्द्रियं चेतनं द्रव्यं, निरिन्द्रियमचेतनम्’ (1.1.48) इति तु चरकसंहिताया: अपरं वचनम् । एतस्य व्याख्यानं कुर्वन् आयुर्वेददीपिकायां चक्रपाणिदत्त: वदति - ‘‘अत्र सेन्द्रियत्वेन वृक्षादीनाम् अपि चेतनत्वं बोद्धव्यम् । तथा हि - सूर्यभक्ताया: । यथा यथा सूर्यो भ्रमति तथा तथा भ्रमणात् दृग् अनुभूयते । तथा लवली मेघस्तनितश्रवणात् फलवती भवति । बीजपूरकम् अपि शृगालादिवसागन्धेन अतीव फलवद् भवति । चूतानां च मत्स्यावसेकात् फलाढ्यतया रसनम् अनुमीयते । अशोकस्य च कामिनीपादतलाहतिसुखिन: स्तबिकतस्य स्पर्शनमनुमानम्’’ इति ।

योगवासिष्ठे (6.1.10) उच्यते -

यथा बीजेषु पुष्पादि मृदो राशौ घटो यथा । तथान्त: संस्थिता साधो स्थावरेषु स्ववासना ॥
चिच्छक्तिर्वासनाबीजरूपिणी स्वापधर्मिणी । स्थिता रसतया नित्यं स्थावरादिषु वस्तुषु ॥

[बीजेषु पुष्पादय यथा भवन्ति तथा स्थावराणां वासना तेषाम् अन्त: भवति ॥ चिच्छक्ति: एव वासनारूपेण स्थावरादिषु वस्तुषु तिष्ठति ॥]


आधारःसम्पाद्यताम्

'सम्भाषणसन्देशः' - जनवरी २०१०
मूलम् – डा. एन्. एस्. लीला
अनु – डा. एस्. हेमलता