सहृदयलीला

(सहृदयलीला (रुय्यकप्रणीता) इत्यस्मात् पुनर्निर्दिष्टम्)
सहृदयलीला
रुय्यकः
१९३७

[१]श्रीराजानकरुय्यकप्रणीता

सहृदयलीला।

श्रीमतामुत्कर्षपरिज्ञानाद्वैदग्ध्येन सहृदयत्वान्नागरिकतासिद्धिः ॥ युवत्यादीनामुत्कर्षो देहे[२] गुणालंकारजीवितंपरिकरेभ्यः ॥ तत्र शोभाविधायिनो धर्मा गुणाः ॥

रूपं वर्णः प्रभा राग आभिजात्यं विलासिता ।
लावण्यं लक्षणं छाया सौभाग्यं चेत्यमी गुणाः ॥

 अवयवानां रेखास्पाष्टयं रूपम् ॥ गौरतादिधर्मविशेषो वर्णः ॥ का[३]चकाच्यरूपा रविवल्कान्तिः प्रभा । नै [४]सर्गिकस्मेरत्वमुखप्रसादादिः सर्वेषामेव चक्षुर्बन्धको धर्मो रागः ॥ कुसुमधर्मा मार्दवादिर्लालनादिरूपः स्पर्शविशेषः पेशलताख्य आभिजात्यम् । अङ्गोयाङ्गानां यौवनोद्भेदी मन्मथवासनाप्रयुक्तः कटाक्षादिवद्विभ्रमाख्यश्चेष्टाविशेषो वि-


लासिता ॥ तरङ्गिद्रवस्वभावाप्यायिनेत्रपेयव्यापिस्निग्धमधुर इव पीतिमोत्कर्षैकसार इव पूर्णेन्दुवदाह्लादको धर्मः संस्थानमुग्धिमव्यङ्ग्यो लावण्यम् ॥ अङ्गोपाङ्गानामसाधारणशोभामाशस्त्यहेतुरौचित्यात्मा स्मथी धर्मो लक्षणम् ॥ तस्यः क्तप्रमाणतादोषस्पर्शस्निग्धवक्रनियतलोमााङ्गसुश्लिष्टसंधानतानाहपरिणाहौचित्यचक्रपद्मादिलेखाङ्कनायोगेभ्यः प्रसिद्धाङ्गपूर्णतादोषवैकल्यधर्मसौन्दर्यप्र[५]माणौचित्यलोकाप्रसिद्धविशिष्टाङ्गयोगाख्याः क्रमेण षड्भेदाः ॥ अग्राम्यतया वक्रिमत्वख्यायिनी

रुपरिधाननृत्तमणितिगमनादिस्थानकेषु सूक्ष्मा भनि[६]श्छाया ॥ स्फुरलक्ष्म्यु[७]पभोगपरिमलादिगम्योऽन्तःसारो रञ्जकतया वशीकर्ता सहृदयसंवेद्यधर्मभेदश्च सौभाग्यम् ॥ तत्राद्ये स्मरमदपुलकादयो भेदाः । अन्त्ये तु मणितरूू[८] परिभोगाधरावादसौरभादिभिर्युगपद्रसवत्त्वात्प[९] ञ्चेन्द्रियसुखलाभः ॥

इति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां गुणोल्लेखः प्रथमः


रत्नं हेमांशुके माल्यं मण्डनद्रव्ययोजने ।
प्रकीर्णं चेत्यलंकाराः सप्तैवैते मया मताः ॥

तत्र वज्रमुक्तापद्मरागमरकतेन्द्रनीलवैदूर्यपुष्परागक[१०] कतन[११]पुलक-


रुधिराक्षमीष्मस्फटिकप्र[१२] वालरूपाणि त्रयोदशः रलानि । हेमः। नवधा । जाम्वूनदशातकौम्भहाटकवणवशृङ्गीशु[१३]

क्त्तिजजातरूपरसविद्धाकरोहतभेदात् ॥ चतुर्वा लहेसमकः । आवेध्यनिबन्धनीयप्रक्षेप्यान रोप्यभे[१४] दात् ॥ तत्र [१५] ताडीकुण्डलश्रवणवालिकादिरावध्यः । अङ्गदश्रीग्रीसूत्रमूर्वमणिशिखाइद्धिकादिर्निवन्धनीयः । जमिकाकटकमजोरसदृशः प्रक्षेप्यः । प्रा[१६]लम्बमालिकाहारनक्षत्रमालाप्रभृतिरारोप्यः ॥ चतु, धांशुक्रमयः । त्वक्फलक्रिमिरोमजत्त्वात्क्रमेण झामकासकौशेयराङ्कबादिभे[१७] दात् ॥ पुनस्त्रिधा ।निवन्धनीवप्रक्षेप्यारो[१८]प्यवैचिच्यात् ॥ [१९] तत्र निबन्धनीयः शिरःशाटकजधनवसनादिः । प्रक्षेष्यः कञ्चलिकादिः । आरोप्य उत्तरीयाटादिः ॥ सर्वस्यास्यानेकविधल वर्णविच्छितिनामात्वात् ॥ ग्रथिताप्रश्रितव[२०]शाद्विविधः सन्नष्टया माल्यमयः । वेष्टितवि[२१]ततसंघीयप्रन्थिमदवलम्बमुक्तकमञ्जरीस्तबकलक्षणमात्यभेदेन ॥ त[२२]त्रोद्वर्तितं वेष्टितम् । पार्थतो विस्तारित विततम् । बहुमिः पुष्पैः समूहेन रचित संघा[२३] ट्यम् । अन्तरांन्तरा वि[२४]षम अन्थिमत् । स्पष्टोम्मितमदलम्बम् । केवलं मुक्तक । अनेकयुष्पमयी लता मञ्जरी । कुसु-


कतकर्कतनपारागाधिराख्यः । वैदूर्यपुलकविषमकराजमणिस्फाटिकशशिकान्ताः॥ इति रत्नगणनायां वराहमिहिर: (बृहत्संहिता ८०४) विषमक'. इत्यस्य स्थाने विमलक इति कचिदृश्यते. भीष्मक' इति. पाटोऽपि संभाव्यते. भगुलुच्छं स्तबकः ॥ तस्यावेध्यादयोऽपि चत्वारो भेदाः ॥कस्तूरीकुटुमचन्दनक[२५]पुरागुरुकुलकदन्तसमपटवाससहकारतलताम्बूलालतकाजनगोरोचनादिनिर्वृत्तो मण्डनद्वव्यमयः ॥ भ्रूघटनालकरचनाधम्मिल्लदधाद्वियोजनामयः ॥ द्विधा प्रकीर्णमयः ॥ जन्यनिवेश्यभेदेन । श्रगजलमधुमदादिर्जन्यः ॥ दूर्वाशोकपल्लवयवाङ्कुररजतत्रपुशतालदलदन्तपत्रिकाभृणालवलय करक्रीडनकादिर्निवेश्यः । एतत्समवायो वेषः[२६] ॥ सच देशकालप्रकृत्यवस्थासात्म्येन । एतेषों विच्छित्त्वा यथास्थाननिवेशनपरमागलाभादामणीयकवृद्धिः ॥

[२७]ति श्रीराजानकरुण्यविरचितायां लहृदयलीलायामलंकारोल्लेखो द्वितीयः ।


  शोभाया अनुपाणके यौवनाख्यं जीवितम् ॥ बा[२८]ल्यानन्तरं गाप्राणां वैपुल्यसौष्ठवनिभक्ततावि[२९] धायी स्फुटितदाडिमोपमः स्मरवसतिवस्थाभेदो यौवनम् ॥ तस्य वयःसंधिरारम्भः ॥ मध्यं तु. प्रौढिकालः ॥ प्रथम घम्मिलरचनालकमानीवीनहनदन्तपरिकर्मपरिष्करणदर्षणेक्षणपुष्पोच्चमाल्योम्भनजलक्रीडा तालीलच्छेकभणित्यनिमितलजानुभावशारशिक्षादय आवर्तमानाश्चेष्टाः ॥ अन्त्ये तु शृङ्गारानुभावतारतम्य श्रेयः ॥

[३०]ति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां जीवितोल्लेखस्तृतीयः



 शोभाया आरादुपकारकत्वाद्व्यञ्जकः परिकरः॥

तस्य चेतनाचेतनयोः स्थाणुचलयोः प्रत्येकं श्लिष्टसंनिहितमा[३१]त्ररूपत्वेनाष्टविधत्वम् ॥ उत्सङ्गोपासीनकान्तहथपरिवारवातायनविताननौछत्रादीनि दर्शनानि ॥ तानि द्विधा । व्यस्तसमस्तभेदात् । एवं शोभासमुत्पादकसमुद्दीपकानुप्राणकव्यञ्जकाः क्रमाद्गुणालंकारजीवितपरिकराः ॥ एवं परस्परोपकारकत्वादितरेतरानुप्राहकत्वं सिद्धम् ॥

[३२]ति श्रीराजानकरुय्यकविरचितायां सहृदयलीलायां परिकरोल्लेखश्चत्तुर्थ:।

[३३]माप्तेयं सहृदयलीला






  1. अद्भटविवेकाख्यमग्रान्धप्रणेतृराजानकतिलकसून, रुचकापरनामा राजानक रुय्यका कश्मीरेषु निस्ताब्दीयद्वादशशतकपूर्वाध आनीत, अयमेव मडकविना श्रीकण्ठचरितस्यान्तिम सर्गे खगुरुत्वेन वर्णिता, अद्यावधि ज्ञाता एतत्प्रणीता ग्रन्यारवेते-- (१)अलंकारसर्वस्त्रम् (२)अलंकारानुसारेणीनाम्नी जह्मणकविप्रशीतसोमपालविलासकाव्यस्य टीका (३)काव्यप्रकाशसंकेतः,(४)श्रीकण्ठन्तवः,(५)सहृदयलीला, (६)साहित्पनीमांसा, (७)हचरितवार्तिकम्, इति सप्त, एतेषु सहृदयलीलायाः पुस्तकद्वय माण्डारकरोयाश्रीमद्रामकृष्णनामशालिभिः पण्डितधुरीणैः पुण्यपत्तनस्य राजकीयग्रन्थसंग्रहादस्मभ्यं प्रहितम् तत्रैक नागराक्षर लिखित पचनयात्सक नातिशुद्ध नवीन कचिहितम् अपरं शारदाक्षरलिखितमले कारशेखरेण सह संबई प्रायः शुद्धं प्राचीन पत्रत्रयात्मक ख-चिह्नितम्, पुस्तके द्वयमपि कश्मीरलिखितमस्ति.. तदाधारणैतन्मुद्रणमारभ्यतें. पागन्तराणि चात्र लेखककृतं प्रमादमपहायैव गृहीतानि अन्तीति तैयम,
  2. ’देहगुणा-’ इति क -पाठः
  3. "काचकच्य' इति ख-पाठः
  4. नैसागका इति हगुस्व पाठ:
  5. प्रमाणौचित्याख्या लोकाप्रसिद्धा विशिष्टा' इति क-पाठ:.
  6. 'छायास्मरलक्ष्मीः इति क-पाठः,
  7. उपभोगपरिगम्योऽन्तस्मारो रञ्जक--' इति कु-पाठः
  8. परिभोगधाराकसमसौरभादिभि- इति क-पाठः,
  9. 'पञ्चेन्द्रियी' इति स्व-पाठः,
  10. "कर्केतक' इति -पुस्तके, “करकेतन' इति च क-पुस्तके पाठः
  11. “पुलकः प्रस्तरभेदे इति मेदिनी. रुधिराख्यो मणिमेदः, तलक्षणं गरुडपुरापेऽटसप्ततिमितेऽन्याचे द्रष्टव्यम्, भीष्ममपि रामेदः, भीष्मरत्नम्, हिमालयोतरदेशजातवर्णप्रस्तर विशे' इति शब्दार्थचिन्तामणि विजेन्दनीसमर-
  12. 'विद्रुमरूपाणि इति क-पाठः
  13. 'शुभिजातरूम्य इति क-पाठः.
  14. मेदेन' इति ख-पाठः
  15. 'ताडी' इति क-पुस्तके नास्तिः
  16. प्रलम्ब' इति ख-पाठः
  17. 'मेदः' इति क-पाठः
  18. 'शेप्यभेदात्' इति क-पाठः
  19. तत्र इति ख-पुस्तके नास्ति
  20. विशात्पुनर्टिविधः इति क-पाठः
  21. संघाख इति खपाठः
  22. तत्र इति ख-पुस्तके नास्ति
  23. संघायम् इति ख पाठ:
  24. प्रन्थिमद्विषसम् इति क-पाठः
  25. 'क-पूरागुरुमठवास' इति क पाठः
  26. 'वेशः' इति पुस्तकद्धयेऽपि
  27. 'इति सहृदय- इति क-पाठ सिहृदय- इति ख-पाठ ’क्षीराजानक -’ इत्यादि पुस्तकदयेऽपि नास्ति,
  28. बाल्यान्त इति ख-पाठः
  29. विधायी सदस्फुटो. दाङिमोपमः इति क पाठः
  30. अनापि पूछिलसमाक्षिका "पुस्तकट्ठये वर्तते.
  31. मानत्वेन' इति क पाठः,
  32. सहृदयलीलायां इत्येव ख-पाठः
  33. ’समाप्तेयं सहृदयचसत्कारिणी सहृदयलीला । कृतिः श्रीमद्विपश्चिद्वरराजानकतिल- कात्मजश्रीमदालंकारिकसमाजाग्रगण्यश्रीराजानकरुय्यकस्य राजानकरुचकापरनानोऽलंकारसर्वस्कृतः' इति खस्तकेऽस्तिः क-पुस्तके तु सहृदयाचमत्कारिणी इति विशेषण नास्ति.
"https://sa.wikisource.org/w/index.php?title=सहृदयलीला&oldid=290899" इत्यस्माद् प्रतिप्राप्तम्