मनोदूतम् (तैलङ्गव्रजनाथविरचितम्)

(सहृदयहृदयाह्लादनम् इत्यस्मात् पुनर्निर्दिष्टम्)
मनोदूतम्
तैलङ्गव्रजनाथः
१९१६

तैलङ्गव्रजनाथविरचितं
मनोदूतम् ।
(सहृदयहृदयाहादनापरनामकम् ।)
सेटीकम् ।

 ब्रह्मादिदेवतावृन्दबन्दनीयपदाम्बुजः ।
 दूरीकरोतु हृदयजाड्यं मे जन्दनन्दनः ।।
 जयन्ति श्रीगुरोः पादनखचन्द्रमरीचयः।
 येर्निहत्य तमो गाढं खान्तं मे विशदीकृतम् ।।
 स्वयं कृते मनोदूतकाव्ये भव्य समासत्तः ।
 व्याख्या बालाववोधाय क्रियते मजुभाषिणी ।।
 भूयोभूयः प्रणम्याहं याचे बद्धाजलिर्बुवान् ।
 बालभाषितमित्येव क्षमध्वं चापलं मम ।।

अथ 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृत्तये कान्तार्स- मित्ततयोपदेशयुजे ॥ इत्याधुक्त काव्यफलं पश्यन्सहृदयहृदयाहादकैरद्भुतकरुणशान्तरसप्र- धानैः सहदयानां भगवद्भक्तिरसिकानां मनसि सथः सहजानन्दसमुल्लासप्रवर्ण मनोदूताख्यं काव्यं चिकीर्षुस्तस्य निर्विघ्नसमाप्तये शिष्टाचारपरिप्राप्तं स्वेष्टदेवतास्मरणगर्भ वस्तुनिर्देशा- त्मकभाशीर्वादात्मकं च भङ्गलमुपनिबध्नाति--

 दधद्वासः पीतं सजलजलदश्यामलरुचि-
 र्मुदा पूर्णो कुर्वन्नधरसुधया सन्मुरलिकाम् ।


 समन्तादामीरीजनपरिवृतो भानुतनया-
 तटान्तःसंचारी मम हरतु हारी हरिरधम् ।। १ ॥

दधदिति । अत्र वासःपदेन द्रौपदीवनदानसामर्थ्यम् , सुदा पूर्णामिति द्रौपद्या आन- न्दपूर्तिदातृत्वं च व्यज्यते । तेन च मुद्रालंकारेण समासोक्तिय॑ज्यते । सूच्यार्थसूचनं मुद्रा अकृतार्थपरैः पदैः' इति समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य च' इति, तेनालंकारे- शालंकारध्वनिः । तेनास्योत्तमकाव्यत्वम् । इदमुत्तममविशयिनि व्यङ्ग्ये वाच्यावनिर्बुधैः कथितः' इति । शिखरिणीवृत्तम्- 'रसै रुद्रैश्छन्ना यमनसभलागः शिखरिणी इति धदिति च पदं थारणपोषणरूपमङ्गलसूचकम् ॥

पुनरपि विन्नबाहुल्यशङ्कया तनिरासायाशीवादरूपं मङ्गलमुपनिवघ्नाति-

 श्रुतिप्रोक्तैः सूक्तैर्मुखरितमुखैर्नारदमुखै-
 र्मुनीन्द्रन्द्रैर्निस्तन्द्रैर्निटिलतटबद्धाञ्जलिपुटैः ।
 कृतस्तोत्रो वित्रासितसकलसुत्रामविमतो
 जगत्राता धाता द्रुतमभिमतानि प्रदिशतु ॥ २॥

श्रुतिप्रोक्तैरिति । मुखरितमुखैोरदो मुखेऽग्रे येषां तैर्युनीन्द्रैः निटिलतटे ललाट- तठे बद्धाञ्जलिघुः कर्तृभिः श्रुतिप्रोतः सूतैः करणभूतैः कृषा कृतं सोनं यस्य । स्तवः स्तोत्रं जुतिः स्तुतिः' इत्यमरः । वित्रासिताः सकलाः सुत्राम्ण इन्द्रस्य विमताः शत्रवो येन । 'सुत्रामा गोत्रभिद्वनी' इत्यमरः । 'विमतारातिदुहृदः' इति केशवः । सोऽभिमतान्यमी शानि प्रदिशतु । "दिश अतिसर्जने' ।।

 हरिद्राभन्दाभाद्भुतवसनभृद्राधवत्रिभु-
 र्महेन्द्राधाराध्याः सुरविमतकृद्रावणरिपुः ।
 धुचन्द्रातन्द्रामाधिकवदनमुद्रामिलसितः
 स तन्द्रानिद्रां मे दलयतु फणीन्द्राधिशयनः ॥ ३ ॥

हरिद्रेति। हरिद्रया भद्राथा आमा तद्वदद्भुतं वसनं बिभतीति तथा । सुराणां विम- तविरोधकारी यो रावणस्तस्य रिपुः । धुचन्द्रस्य प्रसिद्धगगनचन्द्रस्य या अतन्द्रा पूर्णी आभा ततोऽप्यधिका या बदनमुद्रा मुखशोभा तयामिलसितः शोभितः । स्पष्टमन्यतः । नमस्कारात्मक मङ्गलमाह---

 सभामानीतामाकुलहृदमवामार्जुनवधू-
 मकामामुद्दामाथिकजनितमामारिकलिताम् ।
 सुसामाभिप्रीतो दुरितहरभामा स्म दयते
 अणामानो पात्रं स भवतु सुदामाभिमतदः ॥ ४ ॥

सभामिति । सभां प्रति आनीताम् । अत एवाकुलं हृद्यस्यास्ताम् । अवामां ऋज्वीम् । 'वामः सुन्दरवक्रयोः' । अकामामनिच्छन्तीम् । उद्दामाश्च ते अधिकं जनितो भामः क्रोधो येषां तैररिभिः कलिता पीडितां यो दयते स । करुणायां तु दयते- अनुगृह्णात्यात्मनेऽपि च इति आख्यातकोशः ॥
अत्र वक्ष्यमाणकथायां द्रौपद्या भगवच्छरणगमनस कयनीयत्वावस्थापि तच्छरण:- खमाह-

 गृहापत्यस्वात्मखजनमयपाशैः परिवृते
 हनन्धोऽप्यन्धोऽहं बत निपतितोऽन्धौ सृतिमये
 न चान्यं स्खोद्धारे कमपि परिपश्यन्विधिमहो.
 दयासिन्धुं बन्धुं निखिलजगतस्त्वामुपसृतः ॥ ५ ॥

गृहापत्येति । गृहाः स्त्री। आत्मा देहः । आत्मा चिते धृतो यत्ने धिषणायां कलेवरे इति विश्वः । स्वजना बन्धवः । अन्धौ कूपै । पुस्येबान्धुः प्रही कूधः' इत्यमरः ६. विधि प्रकारम् । 'जाया जनी गृहा दाराः भुन्नि दयिता व सा' इति महीपः ॥

 अदान्तः सच्छुद्धिः श्रुतिसमुदितैः साधनगणै-
 विहीनः पात्रं न त्वमसि कथमप्युद्धृतिविधैः ।
 त्वयेत्थं नो वाच्यं कथमपि गजाजामिलसुख-
 प्रवृत्त्या विश्वास समजान दृढो मे यदुमणे ॥६॥

अदान्त इति । गजाचामिलौ मुखे थेषां तेषां प्रवृत्त्या वृत्तान्तेन । 'वाती प्रवृत्ति तान्तः' इत्यमरः । स्पष्टमन्यत् ।।
शरण्यश्च जगति त्वमेव नान्य इत्यत्रोदाहरणमाह-

 पुरा पापासक्तैः शकुनिरविपुत्रान्धतनयै-
 र्बलादृयूते जित्वा कुरुसदसि कृष्टा द्रुपदजा ।
 कृपापारावारं श्रुतिहृदयहारं त्रिजगता-
 मुदारं त्वां हित्वा कथय शरणं क गतवती ।।७।।

पुरेति । कुरुसदन्ति कृष्टा आकृष्टा । त्रिजगतामिति निर्धारणे षष्ठी। लदारं महान्तम् । 'उदारों दातृमहतोः इति विश्वः॥
तस्यैव श्रीभगवतो माहात्म्यैकदेशं कविवर्णयति----

 यदा त्वत्साहाय्यादखिलहरितां पाण्डतनयै-
 र्जयो लब्धो भीमादिमिरमरदुष्प्राप इह तैः
 तदारब्धे यज्ञे नृपविजयहेतौ नृपतिना
 ध्रुवं सर्वा संगद्धरणितलगा तत्र दहशे ॥ ८॥

यदेति । हरितां दिशाम ॥
अथ राजसूयावभृथसमयसोभा पाण्डवदिग्विजयं मयकृताद्भुतसभाशोभातिशयं युधिष्ठिरमहामान्यं भगवत्साहाय्यं च दृष्ट्वा संतप्तेन दुर्योधनेन च्छलबूतेन पाण्डवानिजिव सभायां द्रौपदीमानाय्य कष्टं प्रापयित्वा धर्मपरान्पाण्डवान्पीडयतातिदुर्नय आरब्ध इति भगवता तेषां कष्टं परिहतमितिः राजसूयादारभ्य कविः कथां प्रस्तौति-

 ततो यज्ञस्यान्ते झवभूषदिने त्वं स्वमहिषी-
 समेतो द्रौपद्याः खपतिसहिताया अनुसरः
 धरासंस्थैर्दृष्टः स्तिमितनयनैः कौतुकभरा-
 स्पृथापुत्रस्याज्ञापर इव जनैर्विष्टपपते ॥ ९ ॥

तत इति । स्पष्टम् ॥

 स्वया त्रातेग्नेर्दितितनयतक्षणाभिरचित्तां
 सभां दिव्यामिन्द्रज्वलनवरुणैरप्यसुलभाम् ।
 मणिस्तम्भोपेतामचलदिनरत्नाधिकरुचिं
 'पृथापुत्रो लेभे तदिह किला हेतुस्तव दया ॥ १० ॥

त्वयेति । अग्नेः खाण्डवदवाग्नेः सकाशात्त्वया त्रातेन रक्षितेन दितितनयतक्ष्णा विनयेन । 'तक्षा त्वक्षाथ वार्धकिः' इति रभसः । दिनरत्नं सूर्यः ॥

तत्र षड्भिः सभां वर्णयन्दुर्योधनस्यानुतापमाह---

 कदाचिद्गान्धारीतनयशतमुख्यो हृदि वह-
 न्महात्मानं द्रष्टुं मयविरचितामद्भुतसभाम् ।
 विवेश क्रोधेष्यनिलद्वथुदूनः करतले-
 ऽसिधेनुं बिभ्राणः शकुनिसहजाभ्यामनुगतः ॥ ११ ॥

कदाचिदिति । शतमुख्य इति । ज्येष्ठ इत्यर्थः । देवथुः संतापस्तेन दून उपतप्तः असिधेनुश्छुरिका । 'छुरिका चातिधेनुका' इत्यमरः । 'कटारी' इति भाषायाम् ।।

 मणीनां ज्योत्स्नानभिश्छुरितविवरे द्वारि निविश-
 न्दृढं भित्तिभ्रान्त्यां भ्रमितमतिरासीत्कुरुपतिः
 अथो रत्नज्योतिर्विवृतविवरद्वारसदृशे
 प्रदेशे संजातः पृथुतरशिरोधातविवशः ॥ १२ ॥

मणीनामिति । ज्योत्स्नाभिः कान्तिभिः । “ज्योत्ना चन्द्रप्रभा कान्तिः शुक्लपक्षनि- शासु च' इति हैमः । छुरितं मिश्रित विवरमवकाशो यस्य तादृशे द्वार । अथो रत्नज्योति

र्भिर्विवृतं उद्घाटितं विवरमवकाशो यस्य तादृशे ॥

 स्थले चासीद्गाढं गरुडमणिसत्खण्डरचिते
 जलभ्रान्त्यां मूढो निजवसनसंकोचनपरः
 सनीरे राजीवादिभिरुपचितेऽत्रापि सरसि
 स्खलन्मनः सोऽभूत्स्फटिकनिचिताश्मस्थलधिया ॥ १३ ॥

स्थलेति गाढमलन्तम् । स्फटिकैनिचिताः खचिता ये अश्मानः । नीलाश्मान इत्यर्थः । नीलमणिकुट्टिमेषु स्फटिंकशकलखचितत्वाद्भ्रान्तिर्जातेत्यर्थः ।

 प्रदेशे कसिंश्चित्स्फटिकरचिते रत्ननिकरैः
 परीते चातुर्यान्मयविरचिताद्विभ्रमकरे
 व्रजन्मन्दं मन्दं ह्यररपिहितं द्वारमिति त-
 दृढभ्रान्त्या दोर्भ्यां विघटनपरोऽभून्निपतितः ॥ १४ ॥

प्रदेश इति । रत्नानां निकरैः समूहः परीते व्याप्ते । समूहनिकरव्यूह-' इत्यमरः । अरराभ्यां कपाटाभ्यां पिहितं दत्तकपाटमिति भ्रान्त्या विघटनं कपाटोद्धादन तत्परः सन् निपतितोऽभूत् । कपाटमररं तुल्ये' इत्यमरः ।।

 अयं वृक्षावासः श्रम इह मया नोद्य इति च
 प्रयातोऽपि स्वैरं न खलु गतवानन्तमलसः !
 पुरः पश्यन्पश्चात्मणिनिचयकान्त्यावनमति-
 भ्रमंस्तत्याजासौ मनसि भृशरूढं जडमतिः ॥ १५ ॥

अयमिति । वृक्षावासो ह्युपवनम् । 'आरामः कृत्रिमं वनम्' इति शाश्वतः । इह. मया श्रमो नोद्यः परिहरणीय इति स्वरं प्रयातोऽप्यन्तं अवसानं न गतवान् । नानावि- धमाणिकिरणाङ्कुरसमुद्भूतया किसलयप्रसूनफलाढ्यलतातातरुभ्रान्त्या वाटिकाभ्रमेण सर्वत्र मणिमयस्थले गच्छन्भ्रान्तोऽभूदिति भावः ।।

 कचिद्रक्ताम्भोजप्रकरखचितैर्गारुडमणि-
 प्रभाभिः काप्यच्छस्फटिककिरणैः श्वेतकमला।
 क्वचिन्नीले रत्नैरसितनलिनेवातिललिता
 विचित्रा सा दृष्टा नृपतितनयेनाद्भुतसभा ॥ १६ ॥

क्वचिदिति । तत्र स्फटिकमाणिकुट्टिमेषु नीलमणिकुट्टिमेषु वा खचितैः पद्मरायकु- रुविन्दशकलै रक्तकमलभ्रान्तिः नीलमणिकुहिमेषु खचितैः स्फटिकहीरकखण्डैः श्वेतपद्म-

भ्रान्तिः स्फटिककुट्टिमेषु नीलकमलभ्रान्तिरिति ज्ञेयम् ॥

 इति प्रायोनानाविधपरिभवोद्धान्तहृदयः
 सवैलक्ष्यो दुःखाकिमपि च विधातुं न निपुणः ।
 स भीमेनाक्षिप्तः परिकलितहास्येन सुभृशं
 निवृत्तः संतापं हृदि दधदसाधारणमहो ॥ १७ ॥

इतीति । सवैलक्ष्यः सलज्जः॥

 तथा दृष्ट्वा संपद्भरमनुपमं तत्क्रतुवरे
 वशीभूतान्भूपान्विपुलतरकीर्ति च जगति ।
 महत्वं पार्थस्यातिशयितमथालोक्य कुरुराड्
 विषण्णो वैलक्ष्यं निरतिशयमागान्मनसि सः ॥ १८ ॥

तथेति । महत्वमिति दुर्योधनेन धृतराष्ट्रस्य पुरतोऽने वक्ष्यमाणमित्यर्थः ।।

 समागत्यागारं निजमतिशयेर्ष्याकुलमना
 मनागम्याधातुं मनसि न च शक्तः शमविधिम् ।।
 दधन्मौनं पृष्ठोऽप्यथ शकुनिना हेतुमबद-
 न्निजे दुःखे चिन्ताजलनिधिनिमग्नोऽभवदसौ ॥ १९ ॥

समागस्येति । ईय॑या परोत्कर्षदर्शनजनितया । मनागीधपि शमविधिमाधातुं नशक्तः। हेतुं अवदन् अकथयन् ।।

 यदासौ निर्बन्धात्सुबलतनयेनातिशयितं
 निरुद्धस्तत्सर्वं परिभवभवं दुःखमवदत् ।
 कृतं पार्थैराशाविजयमथं यज्ञस्य विभवं
 नृपाणां वश्यत्वं तदिति सकलं कारणगणम् ॥ २० ॥

यदेति । निर्बन्धादाग्रहेण । निरुद्धः कथयितुसुद्याचितस्तदा तत्सर्व पाथैः कृतं दिग्वि- जयादि सर्व परिभवभव खतिरस्कारजनित दुःखमवदत् ।।

 सखे वारंवारं किमिह मम दुःखस्य शकुने
 निदानं ज्ञात्वापि खयमनभिजानान इव माम् ।
 समापृच्छस्येवं ननु विदित एवास्ति भवतः
 समस्तोदन्तोऽयं मम हृदयदाहेऽधिकपटुः ॥ २१ ॥

सख इति । निदानं हेतुं अनभिजानानोऽनभिज्ञः ।। परिभवदुःखं चतुर्भिराह---

 दिशां पूर्वादीनां विजयविधिरन्यैरसुलभो
 नृपैः किं वा देवैरपि स इह पार्थैरधिगतः ।
 वधोऽयं दुःसाध्यः किल मगधराजस्य च पुन-
 र्हतिः सा यज्ञेऽसिन्महति शिशुपालस्य सुहृदः ॥ २२ ॥

दिशामिति । मगधराजस्य जरासंधस्य ।।

 सखेऽन्यत्ते वच्मि प्रततवरयज्ञे नृपतयो-
 ऽवकाशं न प्रापुर्बहुमणिधनोपायनमृतः
 विधेयाः सेवायामवहिततराः कार्यकरणे
 प्रतीक्षन्तो धर्मात्सजनयनपात सकरुणम् ॥ २३ ॥

सखे इति । उपायनमुपहारः। 'उपायनमुपप्रायमुपहारस्तथोपदा' इत्यमरः अवका- शमवसरं युधिष्ठिरदर्शनावसरम् ३ विधेयो वचनग्राही' इत्यमरः ।।

 इदं वारंवारं परिकलयतश्चेतसि सदा
 न मे शान्तिर्भ्रान्तिर्मनस इह गाढं विलसति
 वरं वह्नौ पातो गरलमशितं बोचितमहो
 न सोनभ्रंशेऽस्मिनुचित इह मे जीवनविधिः ॥ २४ ॥

इंदमिति । गरलं विषम् ।

 अशक्तोऽहं दुःखोपनयनविधौ हीनकरणः
 सहाया संपत्त्या शिथिल इव शक्त्या विरहितः ।
 विरुद्धं संपश्यन्त्रहह बहुधा दैवहतकं
 विचिन्त्य प्राणानां परिहरणमेवाद्य शरणम् ।। २५ ॥

अशक्त इति। हीनकरणः साधनरहितः । देवं दिष्टम् । विरुद्धं विपरीतम् । परिहरणं त्याग:-

 इदं वाक्यं दुर्योधनमुखसरोजोद्गतमथो
 समाकर्ण्य प्राह प्रणयपरतन्त्रः स शकनिः
 कथं तान्वीर्याध्यान्भृशमनुगृहीतान्मुरजिता
 जितारातीन्दृष्ट्वा कुरुवर वृथा खेदसयसे ।। २६ ॥

इदमिति । प्रणयेन प्रीत्या । अयसे प्राप्नोषि । अष गतौ अथ दुर्योधनदुःखोपशमार्थ पाण्डवानां सहायसंपत्तिमर्जुनपराक्रम भगवत्साहाय्यं चाह पञ्चभिः-

 शराणां प्रक्षेपैर्गगनमनुकीर्णं रचयतः
 सुनासीरं वीरं गतमदमधीरं कृतवतः
 करालात्कालाग्ने स्वतनुमभितो रक्षितवतो-
 ऽर्जुनस्यातिप्रीत्यै व्यरचि मयतक्ष्णाद्भुतसभा ॥ २७ ॥

शराणामिति । अनुकीर्ण व्याप्तम् । सुनासीर इन्द्रम् । 'वृद्धश्रवाः सुनासीरः ॥

 गिरीन्द्रस्योद्धार्ता परममदहर्तामरपतेः
 समुद्धर्ता स्वेषां सततहितकर्ता प्रणमताम्-
 निराकर्ता भास्वन्महस इति भर्ता त्रिजगतां
 स कर्ता कार्याणां यदि वद किमेपामसुलभम् ॥ २८ ॥

मिरीन्द्रस्येति । गोवर्धनस्योद्धर्ता स चेत्तेषां पाण्डवानां कार्यकर्ता तदा किमसु- लभम् । न किमपीयर्थः ।।

 स कर्तुं चाकर्तुं प्रभुरपरथा कर्तुमपि चे-
 त्समर्थः पार्थानामभिलषितसिद्ध्यै धृतमतिः
 नमेयुस्तान्देवा अपि विहितसेवादरभरा
 नृदेवाः स्युः के वा जगदाखिलसेवास्ति वशगम् ॥ २९ ॥

स इति । अपरथा अन्यथा कर्तुमकमन्यथा कर्तुं समथः स भगवान्यदि पार्था- नामभीप्सितसिद्ध्यै धृतमतिस्तदा सर्वं तेषां सुलभमित्यर्थः ।।

 हुताशात्सुप्रीतादधिगतवतः स्यन्दनवरं
 तथा दिव्यान्यस्त्राण्यपि च धनुरक्षययमिषुधिम् ।।
 गुडाकेशस्याहो क इह तुलनां यास्यति स चे-
 दिशां जेता वीरो भवति किमु ते विस्मय इह ॥ ३० ॥

हुताशादिति । तुलनां साम्यम् ॥

 विधेयं पार्थाना परिकलय दैवं यदिह ते--
 ऽभ्युपायाः प्रारब्धाः क्षयमुपगताः पूर्वविहिताः
 स लाभो द्रौपद्या द्रुपदनृपतेरभ्युपगमः
 समग्राया भूमेर्विजय इह सख्यं भगवता ॥ ३१ ॥

विधेयमिति । देवं विधेयं अनुकूलं परिकलय जानीहि । तदेवाह स इति ।

 तथाप्येकं यन्मे मनसि तदिहाकर्णय वचः
 सहायैर्नो हीनस्त्वमसि कुरुवंशाम्बुधिविधो ।
 शतं ते सोदर्या गुरुरपि सपुत्रः सुरनदी-
 तनूजो राधेयो ह्यहमपि विधेयाः स्म निरतम् ॥ ३२ ॥

तथापीति सहायानाह-शतं त इति ।।

 सहायैरेभिस्त्वं जयसि हरितो निश्चितमिदं
 ततो यज्ञश्रेष्ठं कुरुकुलमपाकर्तुमुचितः ।
 ददद्दानं भूरि प्रथितजयसंजातसुयशा
 न तापस्य स्मर्ता बकरिपुकृताक्षेपजनुषः ।। ३३ ॥

सहायैरिति । इरितो दिशः । दददिति । "नाभ्यस्तात्-' इति नुमभावः । ताप- स्यति स्मृयोगे अधीगर्थ-' इति षष्ठी। लापं न स्मर्तेत्यर्थः ।।

 मुदं धेहि खान्ते परिहर विषादं अज धृतिं
 समर्थोऽसि स्वीयं सकलमभिलाषं कलयितुम्
 महोत्साहा धीराः किमिति परसंपत्समुदया-
 ल्लभन्ते वैधुर्य करकलितकल्याणत्रिधयः ॥ ३४ ॥

मुदमिति । वैधुर्य दुःखम् ।

 इतीदं संजल्पं सुबलतनयोक्तं श्रुतिपथं
 समानीय प्रज्ञानयनतनयः संमदमधात् ।
 मितं च प्रोवाच प्रकटितनिजार्तिस्तु शकुने
 विजेतव्याः पार्थास्तदभिविजयात्सर्वविजयः ॥ ३५ ॥

इतीदमिति । संजल्प वाक्यम् । समदं हर्षम् । प्रसोदामोदसंभदाः इत्यमरः ॥

त्वदुरूसहायसंपत्यत्त्वेऽपि ते दुर्जया इति जये प्रकारान्तरे पृच्छति--

 न ते शक्या युद्धे कथमपि कृतास्त्राः सुरगणै-
 रजेया दैत्यैश्च प्रकटभुजवीर्याः कृतधियः
 यथा शक्नोम्येतान्परिभवितुमन्येन विधिना
 यथा चेजानीघे द्रुतमुपदिशाशु प्रणयतः ॥ ३६॥

न ते इति । स्पष्टम् ।

 विना युद्धं पार्थानभिभवितुमिच्छन्तमचिरा-
 दिदं प्राह खैरं शकुनिकितवोऽन्धस्य तनयम् ।
 अयं ज्येष्ठः कुन्तीसुत इह यदि द्यूतसदने
 समाहुयानेयस्त्वरितमथ जेष्यामि तमहम् ।। ३७ ।।

विनेति । कितवोऽक्षदेवी । स्वादक्षदेवी कितवः इत्यसरः ॥

 समाहूतो द्यूते ध्रुवमिह समायास्यति पृथा-
 तनूजः संपश्यन्ननभिगमने धर्मविरहम् ।
 ततो राज्यं कोशं मणिवसुगजाश्चादि सकलं
 हरिष्याम्यद्धाहं तव हितकरोऽस्म्यक्षकुशलः ॥ ३८ ॥

सभाहत इति । धर्मस्य विरहं अभावं अधर्मम् । वसु धनम् । 'वसु स्वर्णे रत्ने वृद्ध्यौषवे धने' इति हैमः ॥

 इति श्रुत्वा दुर्योधननयतिर्मातुलमयो
 जगाद त्वं प्रज्ञानयनपुरतो ब्रूहि सकलम ।
 स मत्स्नेहाधीनो यदि तव वचः श्रोष्यति तदा
 करिष्यत्युद्योगं त्वयि निहितमारः कुरुपतिः ॥ ३९ ॥

इतीति । धृतराष्ट्रस्य पुरतस्त्वं बहीति मातुल जगादेति संबन्धः ॥

 तथोक्तेऽसौ दुर्योधननृपतिना साकमवनी-
 पतेः पार्श्वे गत्वा शकुनिरवदद्वाक्यकुशलः
 महाराज श्रीमन्कुरुकुलशिरोभूषणमणे
 न जानीषे पुत्रं कथमिह विवर्ण कृशतरम् ॥ ४० ॥

तथोक्ते इति । साकं सहेत्यर्थः । 'साकं सत्रा समं सह' इत्यमरः । बाक्यकुशल इत्यनेन यथार मनसि क्षोभः स्याद्विदुराद्युक्तं च न कुर्यातथोक्तवानिति सूच्यते । तच्च सभापर्वणि स्फुटम् ॥

 इति प्रज्ञाचक्षुः शकुनिवचसार्वेव सहसा-
 प्रतोदेन प्रायो द्रुत इव सशङ्कः समभवत् ।
 अपृच्छञ्चाप्येनं किमिति हरिणस्त्वं कृशतरो
 विवर्णः पुत्रासि स्कुटतरमथावेदय ममः ॥ ४१ ॥

इतीति । प्रतोदेन कशया द्रुतः पीडितोर्वा अश्व इव 'वाजिवाहार्वगन्धर्व-

इत्यमरः हरिणः पाण्डुः। 'हरिणः पाण्डुरः पाण्डुः' इत्यमरः ।।

 समश्नोसि प्राज्यं पिशितमथ भक्ष्यं बहुविधं
 दधासि प्रावारान्मणिखचितभूषागणधरः ।
 वयस्वैः संभूय ब्रजसि मृगयां पश्यसि बहु
 प्रकारं संवृत्यं किमिति हरिणस्त्वं कृशतरः ॥ ४२ ॥

समश्नासीति । प्राज्यं भूरि । पिशितं मांसम् । प्रावारानितिः । द्वौ प्रावारोत्तरासङ्गौ' इत्यमरः । मृगयां आखेटकम् ॥

 अयं कालः क्षिप्रं कथयितुमिति प्राप्तसमयः
 स गान्धारीपुत्रः शकुनिजनितोत्साहतरलः ।
 पितुर्वाक्यं श्रुत्वानिलतनयदुर्वाक्यजनितं
 तिरस्कारं स्वीयं समकथयदाक्षेपविधुतः ॥ ४३ ।।

अयमिति । अनिलतनयो भीमसेनः ।।

 अये राजन्भीमः सदसि विचरन्तं यदसह-
 त्प्रवादं चाकार्षीत्तदिह हृदयं प्रज्वलति मे।
 न चेच्छामि प्राणान्कथमपि विधर्तुं मृतिरहो
 वरा मे न श्रेयो जगति नियतं जीवनमिह ॥ १४ ॥

अय इति । विचरन्तम् । समां द्रष्टुमिति शेषः । प्रवादं निन्दाम् । प्रज्वलति संतप्तं भवति । संतापहेतुमाह--

 ममाभूद्यैः साकं प्रचुरतरवैरं विधिवशा-
 त्त एवाद्य प्राज्यं सुखमनुभवन्तीह रिपवः ।
 अहो मे धिग्जन्म क्षितितलवृथाभारकरणं
 धिगायुर्धिक्सौख्यं यदिह रिपुभिः स्यात्परिभवः ॥ ४५ ॥

ममेति ! स्पष्ठम् ॥

 न राज्यं नो यानं न च विविधवासांसि न हया
 न नृत्यं नो भक्ष्यं विविधरसमन्नदि च न मे ।

मनोदूतम् ।

न कान्ता नो हर्म्याण्यपि रिपुपरीहासजनित-- प्रतीकारस्याद्य प्रमदमुपधातुं पटुतराः ॥ ४६ ।। नेति । प्रतीकारस्तिरस्कारः। निकारो मच्चित्ते नृपतिवर कुन्तीसुतभवः पदं चित्रे धत्ते स्मृतिमुपगतश्चेदनुलवम् तदा लेखाधीशप्रभृतिसुरसंपत्परिभव- प्रचण्डोऽपि प्रायो मम सुखसमूहो गरलति ॥ ४७ ।। निकार इति निकारः स्यात्परिभवे' इति धरणिः । लेखाधीश इन्द्रः । गरलति मगरलमिवान्चरति । श्वेडस्तु गरलं विषम् इत्यमरः ।। विभो दृष्टे तस्मिन्क्रतुवरमहे तस्य तपसः सुतस्य क्षौणीन्द्रेर्य इह धनरत्नार्पणविधिः । कृतः प्रायो जिष्णोरपि न स भवेदेव किमतः परं वाच्यं दुःखं किमिह मम हृत्कृन्तनविधौ ॥ ४८ ॥ विभो इति । ऋतुचरस्य महे उत्सवे । मह उद्धव उत्सवः' इत्यमरः । तपसः सु- तस्य युधिष्ठिरस्य ॥ .. अथ राज्ञ उत्तेजनार्थ खनिश्चितद्यूतकार्यं राजानमनुकूलयितुं राजसूयशोभां त्रयस्त्रिं- शत्पद्यैराह कलिङ्गाः सौराष्ट्रा मगधमरुमत्स्वाधिपतयः परं चौलाः पाण्ड्याः क्रकथशकहूणाङ्गवरटाः । अथान्धाः पौण्ड्राश्च द्रविडवसुधानाः शिबिभवाः प्रतीक्षन्ते धर्मात्मजनयनपातं सकरुणम् ॥ १९ ॥ कलिङ्गा इति । स्पष्टम् ॥ तुरङ्गा मातङ्गा अपि स्थवरा वस्त्रनिचयाः सुवर्णं प्रावाराजिनविविधसत्कम्बलचयाः अनर्धा रत्नौघा अपि वसुमतीपालमृतकै- रुपानीता यल्लानृपतिनयनातिथ्यमभजन् ॥ ५० ॥ तुरङ्गा इति । भुतकैर्भृत्यैः ॥ काव्यमाला तदवसरे राज्ञामपि प्रवेशो दुर्लभोऽभूदिल्याह त्रिमिः-- क्षणं तूष्णीमाःख द्विजगणसमाराधनपरो नृपः पत्नीशालामंधिवसति दीक्षामुपगत्तः इदानीं मौद्गल्यत्रितकुशिकजन्मात्रिपुलह- ऋतुव्यासस्फोटायनलिखितजाबालिसहितः॥५१॥ क्षणमिति । तत्र राजसूये राज्ञां प्रवेशसमये इति परिजनानां द्वारपालानां उक्ती- वचनान्यशृणवमिति तृतीयेनान्वयः । ननु श्रीकृष्णादीन्प्रति वक्तव्यं तत्राह- स भत्त्या विप्राणां चरणकमलान्यर्चति हरि- र्हिडम्बद्विडक्ष्याण्युपहरति भव्यान्यविस्तम्' । गुडाकेशः क्लेशानपरिगणवंस्तान्धरिचर- त्यजस्रं तत्पूजोपकरणपरौ चापि यमलौ ।। ५२ ॥ स इति । यमलौ नकुलसहदेवौ ॥ सदस्यैः शाण्डिल्यद्वितभरतपैङ्गारुणिवसु- प्रधानैर्लौगाक्षिध्रुवकवषजैमिन्यनुस्तैः । समाकीर्णे पुण्ये क्रतुसदसि नास्माकमधुना- ऽवकाशो विज्ञप्तेरिति परिजनोतीरशृणवम् ॥५३॥(विशेषकम्) सदस्यैरिति । स्पष्टम् ॥ अथ द्वारपालानां त्रिमिर्विज्ञप्तिमाह--- अयं काशीरस्त्वां प्रणमति तथा कोसलपतिः सभीहां त्वत्पादाम्बुजयुगलसंवीक्षणमहे । दधानो द्वार्यास्ते नृपतिलकचोलाधिपतिर- प्यसंख्यान्मातङ्गांश्चरणयुगले ढौकयति ते ॥ ५४ अयमिति । ढोकयति तपायभीकरोति । तुरङ्गाङान्धाराधिपतिरुपदीकृत्य सततं प्रतीक्षां कर्तुं ते निवसति नृप द्वारि नियतम् . तथा काञ्चीनाथः सममिह विभो चेदिपतिना स्थितोऽसौ काम्बोजो नृपवर तथा कैकयपतिः ॥ ५५ ॥ ‘मनोदूतम् । तुरङ्गानिति । उपदीकृत्य उपायनीकृत्य ।। इति द्वास्थैरुच्चैरधिगमितनत्यादरविधी- न्निरुद्धान्द्वार्येव प्रततविविधोषायनयुतान् । समायातान्राज्ञः कथमपि निविष्टान्नृपतिना कृतायामाज्ञायामहमिति तदापश्यमखिलान् ।। ५६ ॥ इतीति । उच्चैरिति यथा द्वार स्थितास्तेऽपि विज्ञप्तिं शृण्वन्ति तदर्थं अधिगमितः प्रापितो नत्यादरनिधिर्येषाम् । निरुद्धानिति । आज्ञां विना प्रवेष्टुमशक्यत्वात् । अपश्य- मिति त्रयाणामन्वयः ।। अर्थ तंत्र वेदशास्त्रसंपन्नानां ब्राह्मणानां समाजं तत्तच्छानप्रमेयैकदेशनिरूपणपूर्वकं च शास्त्रस्वरूपकथनं सुयोधनोक्त्या निरूपयति 'ऋत्रः' इत्येकादशभिः । तत्र वैदिकानां पठनप्रकारमाह - ऋचः शिक्षाभ्यासाधिकललितकण्ठादिनियत- स्थलप्रोद्यद्वर्णस्वरमधुरताराः श्रुतिसुस्वाः ।। यजूंषि स्वच्छन्दं क्रमपदजटाजूंषि मुनयः सुसामान्याथर्वाण्यपि किल पठन्तः क्रतुवरे ॥ ५७ ।। ऋच इति। शिक्षायः 'अथ शिक्षां प्रवक्ष्यानि पाणिनीयं मतं यथा' इत्युक्तरूपायाः शिक्षा कल्पो व्याकरणम् इति वेदाङ्गभूतप्रन्थविशेषस्य योऽभ्यासो गुरुमुखात्संप्रदाया- सुस्वरेण पठनं तेनाधिकं ललिता मनोहराः कण्ठादीनि योनि नियत्तस्थलानि वेभ्यः प्रो- धन्त उच्चायमाया ये वर्णी अकाराधाविषष्टिः खराचोदाचादयस्तैमधुरास्तारा उच्चैः प- यमानाः । ततः कर्मधारयः । अतएव श्रुत्योः कर्णयोः सुखकारिणी ऋचः: पठन्तः ऋक्प्रधाचं वेदम् । ऋग्वेदमित्यर्थः । क्रमपदजटाजूषि तथुवानि यजुःसामाथर्वाणि च पठन्तः । क्रसपदेत्यादि त्रयाणां विशेषणम् । लिङ्गविपरिणामेन ऋचामपि विशेष- णम् । ऋविशेषणं च लिङ्गव्यत्ययेन यजुरादीनां विशेषणम् । त्रिषष्टिवर्णातु हवदीर्घ- तभेदेन अणो नव दीर्घाभावात् । अवर्णलवर्णाश्चलार हखाभाषादेवाष्टौ । विसर्गा- मुखारजिह्वामूलीयोपध्मानीयाश्चलारः । एवं पञ्चर्दिशतावन्तश्च सगैः, यवलाः सानु- नासिका निरनुनासिकाश्च पद । एको रेफ: सुषसहलक्षाः षट् । एवं त्रिषष्टिः । शि- क्षाप्रकारस्तु-'आत्मा बुद्ध्या समेत्यार्थान्मनों युझे विवक्षया । मनः कायामिमाहन्ति सप्रेरयति मास्तम् ॥ भारतस्तूरसि चरन्सन्द्र जनयति खरम् । सोदीगो मध्यभि- हतो बक्रमापा मारतः । वर्णाजनयवे तेषां विभागः पञ्चधा मतः कालतः स्थालाप्रयत्नानुदानतः । उदात्तश्चानुदात्तश्च स्वरितश्च स्वराम्नयः । हखौ दीर्घः भूत इति कालतो नियमा अचि ॥ अष्टौ स्थानानि वर्णानामुरः कण्ड: शिरस्तवा । काव्यमाला। जिजामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ प्रयत्नानुप्रदानौ तु यत्नवैविध्यभेदतः प्रयत्न आभ्यन्तरीयो बाह्य इत्यपि भेदतः । एवं पठनप्रकारं फलं चाह-व्याघ्री यथा हरेत्पुत्रान्दन्ताभ्यां न च पौडयेत् । एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च' पीडिताः ॥ सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥ अन्यथा पाठे दोष उक्तः-- "कुतीर्थादागतं दग्धमपर्णं च भक्षितम् । न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥ सुतीर्थादागतं व्यक्तं स्वान्नायं मुव्यवस्थितम् । सुखरेण सुवक्रेण प्रयुक्तं ब्रह्म राजते. ॥ अन्यच्च तत्रैव-मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्यानयुक्तो न तम- थंमाह । स वाग्वजो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ इति । एता- दृशीः ऋचः यजूंषि सुसामान्याथर्वाण्यपि ऋतुवरे पठन्तो मुनयो दृष्टाः इति नवमश्लोके- नान्वयः । शिक्षोक्तकण्ठताल्वादिनियतस्थानसमुच्चाप्रमाणवर्णवरसहितोच्चतरपठनेन सुखकारिपदक्रमजटासंहितापाठनिरतास्त्वृत्विजो दृष्टा इति भावः ।। परे यत्र प्रातःसवनकजना व्यनमनसः समुद्युत्ता माध्यंदिनसक्नहोमस्य समये । मुनीन्द्रास्तार्तीये नृवरसवने दत्तहृदयाः परं धाय्याभिज्ञाः कलितशुभसांनाय्यविधयः ॥ ५८ ।। परे इति । प्रातःसवनमाध्यंदिनसवनतृतीयसवनानि गायनवैष्टुभजागदच्छन्दोरू. पाणि कालविशेषाः ऋखिजाम् । एतत्कर्मकल्पग्रन्थादवसेयम् । धाय्या ऋक् अभिसमि- धनपाच्या । सानाव्यं हविः । ऋक् सामिधेनी धाग्या च या स्यादग्निसमिन्धन इत्यमरः । सानाध्य हबिरनों तु हुतं त्रिषु वषट्कृतम्' इति च । 'पाय्यसांनाय्यनिकाय्यधास्या- मानहविर्निवाससानिधेनीधु' इति निपातः । सम्यक् नीयते होमार्थमग्निं प्रतीति सांना हविर्विशेषः । हुतं त्रिषु वषट्कृतमित्यस्यार्थः । वषट्कृत हुतं वषट्कारमण हुतं त्रिषु बषट्कृतं पयः षट्कृतः पुरोडाशः वषटकृता यवागूः । एवं व तत्तत्कालीनहोमसमयः सावधाना वै याशिका धाय्यादिमश्नाभिज्ञाः चानुहौत्रकर्मकुशला दृष्टा इति संबन्धः ।। मीमांसाप्रमेयमाह- श्रुति लिङ्गं वाक्यं प्रकरणमथ स्थानकमहो समाख्यां जानन्तः कलितपरदौर्बल्यविधयः लिङथै धात्वर्थं त्रिविधविधिवादं च निगमा- नुरूपं मन्बानाः ऋतुसदसि मीमांसकवराः ॥ ५९ ।। श्रुतिमिति । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमश्रीवि- प्रकर्षान' इति सूत्रेण भगवाजैमिनिः श्रुत्यादीनां पूर्वपूर्वजलीयत्वमाह । तसूत्र विषयवान पद्ये । तथा हि- श्रुतिलिङ्गादयः पडिह विनियोजकाः तत्र विरुद्धयोः समवाय समुच्चये मनोदूतम् । न संभवतीत्येकेनापरस्य बाधो क्तव्यः । स च बलवता दुर्बलस्येति स्थितिः । तदुक्तम्- पारदौर्बल्यमिति । यदपेक्षया यत्परं तदुर्बलम् । तत्र हेतुः अर्थविप्रकर्षादिति । पूर्वापेक्षया बिलस्बेनार्थप्रत्यायकत्वात् । तत्र निरपेक्षो रवः श्रुतिः । यथा ब्रीहीनदह- न्तीति । अत्र क्रियाजन्यफलभागित्वं कर्मत्वं बोधयन्ती द्वितीया निरपेक्षैव ब्रीहीणामवधा- तशेषित्वं प्रतिपादयति । अर्थविशेषप्रकाशनसामर्थ्य लिङ्गम् । यथा बहिर्दैवसदनं दामोति। अन्न लवनार्थप्रकाशतया बर्हिलवने विनियोगः । परस्पराकाहावंशात्कांचेदेकस्मिन्नर्थे पर्यवसितानि पदानि वाक्यम् । यथा देवस्य वासवितुः प्रसवेविनोबाहुभ्यां पूष्णों हस्ताभ्यामनये जुष्टं निर्वपाभीति । अत्र लिझेन निवापे विनियुज्यमानस्य समवेतार्थभागस्यै- कवाक्यताबलेन "देवस्य वा इत्यादिभागस्यापि तत्र विनियोगः । लब्धवाक्यभावानां पदानां कार्यान्तरापेक्षावशाद्वाक्यान्तरेण संबन्धः। आकासापर्यवसन प्रकरणम् । यथा स- मियो यजतीलादि । अस्य हि दर्शपौर्णमासकथंभावाकाङ्क्षायां पाठवशाच्छेषत्वम् । स्थान क्रमः । स बानेकस्यानातस्य संविधिविशेषान्मानम्। यथा दधिरस्यदब्धो भूयासमित्याने यानीषोमीययोरुपांशुयागः क्रमेण ब्राह्मणेषु पठितः, मनभागेऽपि कमेणानुमन्यत्रयं पठि- तम्, तत्राग्नेयाग्नीषोमयोलिङ्गेनैव विनियोगसिद्धिः । दब्धिरसीयन तुन लिङ्गादिविनि- योजकम् । किंतु यस्मिन्प्रदेशे ब्राह्मणे उपांशुयागविधानं तत्रैव मन्त्रेऽप्यस्य पाठ इति क्रमादुपांशुयांगानुभश्रणेऽस्य विनियोगः । समाख्या योगबलम् । यथा होत्रमौद्गात्रामि- त्यादि। तत्र होतुरिदं हौत्रमित्यादियोगवलेन होत्रादिसमाख्यालानि कर्माणि होत्रादिभिरनु- ठेयानीति । विरोधोदाहरणान्चाकरे द्रष्टव्यानि । अयमेव सूत्रनिर्देशः पूर्वपद्यार्थे कृतः । लिङथमिति । ज्योतिष्टोमेन वर्गकामो यजेत' इत्यत्र 'यागेनेष्टं भावयेत्' इति यज- धातोर्यागरूपोऽर्थः । लिडश्च इष्टभावनरूपोऽर्थोऽभ्युपगम्यते । त्रिविधविधिवादमिति । अपूर्वविधिनियमविधिः परिसंख्याविधिरिति । व्याकरणखरूपमाह---- समुद्भूतं यत्तज्जगदुपकृतौ पाणिनिमुने- र्मुखाम्भोजात्कात्यायनकृतविशेषार्थकलनम्। भुजङ्गेन्द्राधीशोद्भवगहनसद्धाष्यविवृति- प्रकर्षाव्यं शास्त्रं सदसि कथयन्तोऽतिसुधियः ।। ६० ।। समुद्भूतसिति । जगदुपकृताविति निमित्तार्थे सप्तमी । पाणिनिकात्यायनपतञ्ज- लिभिः सूत्रवृत्तिमहाभाष्याणि कृतानीति तथात्रोक्तं तच्छास्त्रं पाणिनिव्याकरण कथयन्तो दृष्टा इति पूर्ववदन्वयः ।। ज्योतिःशास्त्रमाह द्वाभ्याम्- धनुर्ज्यासत्कोटिप्रततमुजसंज्ञादिललितं ग्रहाधीशप्रोक्तं गणितगुरुगर्गाद्यविगतम् । काव्यमाला। भचक्रोद्यत्कक्षाकलनसहितं ज्योतिषमहो समग्रं जानन्तः स्कुटगणितबीजेषु कुशलाः ॥ ६१ ॥ धनुर्ज्येति । धनुर्ज्याकोटिभुजकक्षादिसंशास्तच्छास्त्रे. उपनिबद्धास्तत्तः एव ज्ञेयाः समग्रं स्कन्धत्रयात्मकम् । स्फुटगणितं पातीगणितम् , बीजमव्यकमाणितम् ॥ भदन्ताः सर्वज्ञा जवृषन्युम्मेन्दुसदन- द्विपद्विट्कञ्जाक्षी वणिगलिधनुर्धारिमकरैः सकुम्भैः सन्मीनैर्द्युमणिशशिभौमज्ञगुरुभिः सुयुक्तं जानन्तः पर इह खगोलं सुमतयः ॥ ६२ ॥ अदन्तर इति । 'स्थाद्भदन्तो ज्यौतिषिको दैवज्ञो दैवलेखकः' इति केशवः । अजो मेषः । वृषः प्रसिद्ध नृथुम्म मिथुनम् । इन्दुसदन कर्कः । द्विपद्विन्द सिंह । का शाक्षी कन्या वणिकू सुला । अलिश्चिक । धनुधौरी धनुः । शेष स्पष्टम् ॥ अथ तकशास्त्रविषयमाह- वितण्डाजल्पौधेर्विरहितसुवादोद्धरगिरः प्रमाणैः प्रत्यक्षादिभिरपि च मैयक्रमविदः अभावान्यव्याप्तिस्मटलसितहेत्वच्छविलस- न्मतिप्रौढा वैशेषिकमतविशेषप्रणयिनः ॥ ६३ ।। वितण्डेति । तत्र खपक्षस्थापनाहीनो परपक्षदूषणमात्राबसाना वितण्डा, उभय- साधनवती नानावतूकपूर्वोत्तरपक्षप्रतिपादकवचनसंदर्भात्मिका ऋथा जल्पः, तत्त्व - भुत्सोः कथा बादः । तत्रैवं व्याख्या---वितण्डाजल्पौधैर्विरहितः शोभनो यो वादस्तेनो. दुरा उत्कृय गीर्येषाम् । प्रत्यक्षादिभिश्चतुर्भिः प्रमाणे यानां प्रमेयाना प्रत्यक्षानुमित्युप- नितिशब्दानां क्रमं विदन्ति । अभावाभ्यो अत्यन्ताभानान्योन्याभावाभ्यां आख्या अ भावघटिता या व्याप्तिस्तया स्फुट लसितस्तद्विशिष्टये यो हेतुधूमो वहिव्याय्यः इत्येवं- रूपतत्र अच्छम विलसन्ती प्रतिभारूपा मतिझनम् । न्यासिविशिष्टहेतुत्ताज्ञानमित्यर्थः । तन प्रौदा । वैशेषिके सप्तपदा ये कामादमते विशेषेण प्रणय आसक्तिर्येषाम् ॥ पुराणज्ञा धर्माधिकरणाविदः कापिलमत- प्रगल्भा योगज्ञाः खरविततसंगीतकुशलाः कवित्वालंकाराद्भुतविविधसंनाटकभिदा- मिधानग्रन्थज्ञा भरतमुनिसूत्रार्थनिपुणाः ।। ६४ ॥ पुराणमा इति । धर्माधिकर स्मतिः अपिलमतं सांस्यशाला। योगः पात

मनोदूतम् ।

जलसूत्राणि । स्वरैः षड्जादिसप्तभिर्वितते विस्तीर्णे संगीते कुशलाः । नाटकानां भिदा दशबिधत्वम् । अभिधानं नामलिङ्गानुशासनम् । भरतसूत्रं रसशास्त्रम् । सष्टमन्यत् ॥

धनुर्वेदाभिज्ञाः सकलमनुशास्त्रोक्तविविध-
प्रकारैर्विष्ण्वोशद्विपवदनसूर्याद्रिपभुवाम् ।
उपास्ति जानन्तः कविगुरुसमा बुद्धिविभवै-
रये नानादेश्याः क्रतुंसदसि दृष्टा द्विजवराः ॥ ६५ ।

धनुवेर्देति । मनुशास्त्र मन्त्रशास्त्रम् । हरौ मध्यगते शंकरेभास्येनागसुता इति विष्णुमुख्यत्वेनात्रोक्तं विष्ण्वीशेति । नानादेशेभ्य आगता नानादेश्याः अथ निर्गुणब्रह्मवरूपं विशेषणद्वारा कथयंस्तच्छास्त्रविषयमाह---

निराकं नित्यं गुणरहितमद्वैतममल-
प्रकाशं स्वानन्दानुभवसहितं नाशरहितम् ।
परं ब्रह्म स्वान्ते सततमुपशान्ते कलयतः
समाधिस्थान्ब्रह्मात्मजशुकमुखानेक्षिषमहम् ॥ ६६ ॥

निराकारमिति । 'अपाणिपादो जबनो प्रहीता 'अविनाशी वारेयमात्मा', मेवाद्वितीयम्' इत्यादिश्रुतिप्रतिपाद्यं ब्रह्म ध्यायन्तः ब्रह्मात्मजाः सनकायाः । स्फुर्द्बर्होत्तंसं श्रुतमुरलिकानादविवश-- स्मराक्रान्तस्वान्तव्रजयुवतिनेन्नान्तकलितम् । त्रयीमृग्यं ध्यानात्परिकलयतो मक्तिसुभगा- न्कृतार्थाञ्शाण्डिल्यप्रभृतिमुनिवर्नियानकलयम् ॥ ६७ ॥ स्फुरदिति । श्रुतो यो मुरलिकानादस्तेन विवशाः स्मराकान्तस्वान्ता या व्रजयुवतयस्तासां नेत्रान्तेन कलितम् ।

स्रवद्गण्डाभोगैर्मधुकरकलध्वानसुभगैः
समन्तादाकीर्णं गिरिवरनिभोपायनगजैः ।
सदश्वैः काम्बोजैर्जवजितसमीरैर्बहुविधै-
स्तथा नानादेश्यनिचितमभवत्पाण्डवसदः ॥ ६८ ॥..

स्रवदिति । निचितं व्याप्तम् ॥ ययोद दध्यन्नाज्यं विविधरसभक्ष्यं बहुविधं तथा लेह्यं पेयं द्विजसुहितकृच्चोष्यमपि च ।

काव्यमाला।

असंख्यातं सूदैरुपहृतमभूद्भोजनविधौ
दिवारात्रंं राजंस्तदिह कुतुकं मे जनयति ॥ ६९।।

पय इति । द्विजानां सुहितं तृप्तिं करोतीति तथा । सूदैः पाककृद्भिः ।। दानं निरूपयति---- गजानामश्वानां द्रविणनिचयानां सुविलस- द्युवतीनां रत्नानामपि सुवसनानां च निचयः । द्विजातिभ्यः सृष्टः प्रतिदिनमसंख्यः सुमतिना

पृथायाः पुत्रेण क्षितिपवचसो नास्ति विषयः ॥ ७० ॥
गजानामिति ।

द्रविणं द्रव्यम् । हिरण्यं द्रविणं द्युम्नम् इत्यमरः । सृष्टः प्रतिपादितः ॥ 

शिशुपालवधहेतुभूतं श्रीकृष्णपूजनमाह- 

इदं चित्रं चान्यच्छृणु नरपतेः तत्र यदभू-
समाजे पूजोपक्रमणसमये पार्थमनसि ।
विमर्शोऽभूदित्थं प्रथममिह कस्यार्चनविधि-
र्विधेयो देवर्षिक्षितिपतियुते यज्ञसदसि ।। ७१ ।।

इदमिति । चित्रमाश्चर्यम् । विमर्शो विचारः कस्य प्रथमं पूजनमित्येवरूपः ।।

ततस्तूष्णीं सर्वेष्वनधिगततत्त्वेषु सदसि
स्थितेषु प्रोवाच क्षितिप सहदेवः समयवित् ।
विहाय श्रीकान्तं निखिलजनकान्तं नरपते
नितान्तं कः पूज्यः कथय यदि चित्तेऽस्ति विकृतः ।। ७२ ॥

ततः इति । अनधिगततत्त्वेषु अप्राप्तनिश्चयेषु ।।

निधानं भक्तानां सुकृतमपिधानं समयिनां
-समाधानं बुद्धेः किमपि च विधानं श्रुतिगिराम्
प्रधानं पुण्यानां विमलपरिधानं नयनयो-
र्मुदाधानं हित्वा क इव परिपूज्योऽन्यविबुधः ॥ ७३ ॥

निधानमिति । निधानं निधिः । अपिधानमनावृतम् । विधानं श्रुतिप्रतिपाद्यम् ।।

मनोदूतम्

 

पुनस्तस्यैवासाधारणान्कतिपयगुणानाह---

न यच्छक्यं दानैर्बहुविधविधानैरसुलभं
तपोभिर्दुष्प्रापं जपयजनपूजादिसहितैः
अलभ्यं धाम स्वं दिशति दयया यः प्रभुरसौ
स्वभक्तानां तस्मात्क इह परिपूज्योऽपरबुधः ॥ ७४ ।।

न यच्छक्यमिति । स्पष्टम् ।

स्मृतिं यातः सद्यः शमयति मनोमोहपटलं
हृदि ध्यातो भक्तैर्दलयतितमां दीर्घदुरितम्
वचः प्राप्तो विघ्नानपनयति सर्वास्तनुभृतां
तमीशं हित्वान्यः क इह परिपूज्योऽस्ति जगति ॥ ७५ ॥

स्मृतिमिति । स्पष्टम् ॥

इतीदं तद्वाक्यं श्रुतिपुटसुधासेकसदृशं
निपीय प्रेमार्द्रां सुरमनुजसंसत्समभवत् ।
विहायैकं चैद्यं भगवति कृतद्वेषमतुला-
भिमानं संस्पर्धातिशयकलुषीभूतहृद्यम् ।। ७६ ॥

इतीति ।चैद्यं शिशुपालम् ।

ततः पार्थः प्रीतिप्रसरविवशः प्रेमपुलका-
चिताङ्गो भीमाथैर्मुदित इह सर्त्विक्परिवृतः ।
शुभे हैमे पीठे स्थितमखिलकान्तं बहुविधै-
र्विधानैरानर्चाखिलविबुधदवन्द्यं यदुवरम् ॥ ७७ ।।

ततः इति । प्रीतेः प्रसर आधिक्य तेन विवशः ।।

सदूर्वाश्यास्माकं सरसिजसुगन्धाद्यविविध-
प्रसूनौघनाम्यन्नलिकुलकलध्वानसुभगम्
स्थितं विष्णुकान्तायुतकनकपात्रे भगवतः
पदाम्भोजद्वन्द्वेऽर्पितममलपाद्यं नृपतिना ॥ ७८ ॥

सदूर्वेति । श्यामाकविष्णुकान्ताब्जदूर्वाः पाद्यजले क्षिपेत् इति पाद्यरूपकथनपूर्वकं पाद्यकल्पनमादावुक्तम् ॥ नक गु०१० काव्यमाला 'अर्धपात्रे क्षिपेद्दूर्वातिलदर्भाग्रसर्षपान् इत्युक्तप्रकारमर्थमाह-

सगन्धं सिद्धार्थाक्षतयवसुदूर्वाङ्कुशतिलैः
सुयुक्तं पुष्पाढ्यं शिरसि निदधेऽर्घं नरपतिः
सजातीकंकोलं सुरकुसुमसंयुक्तममलं
जलं राज्ञा तस्याचमनविधये दत्तमभवत् ।। ७९ ॥

सगन्धमिति। 'लवङ्गजातीककोलं निक्षिप्याचमेत' इत्युक्तप्रकारमाचमनमाह- सजातीति । जातिः स्त्री गोत्रजन्मनोः । जातीफले च मालत्याम् इति हैम: । कङ्कोलकं कोशफलम्' इत्यमरः । शीतलचीनी इति भाषायाम् । सुरकुसुमं लवङ्गम् । लवङ्गं देवकुसुमम्' इत्यमरः ॥

ततस्तं स्नानाद्यैर्विविधमणिभूषासुवचनैः
सुगन्धैर्माल्यैरप्यतिसहितकृद्भक्ष्यनिचयैः
समाराध्य प्रेम्णा प्रणयभरबद्धाञ्जलिपुटः
सपत्नीकः कुन्तीसुत इह कृतार्थः समभवत् ।। ८० ॥

तत इति । स्पष्टम् ॥

अभूदुच्चैर्घोषो निखिलमनुजानां जय विभो
चिरं जीवेत्याम्रेडित इह महाहर्षजनकः
फलं कोपप्रीत्योः सममिह विभक्तं भगवता
तदा चैद्ये पार्थेऽपि च सकललोकैकविदितम् ॥ ८१ ॥

अभूदिति । आम्रेडितं जय जय जीव जीवेत्येवरूपम् । 'आम्रेडितं द्विस्त्रिरुक्तम् इत्यमरः॥

अथ द्वाभ्यां खस्य दुःखकारणमाह-
इदं सर्व तिष्ठत्वपरमिदमेकं मम हृदि
प्रविष्टं शल्यं यत्कथमिव पुनर्निःसरति तत् ।
सभां द्रष्टुं याते मयि जलनिमग्ने भ्रमवशा-
द्विहस्योच्चैर्भीमो वसनयुगलं यत्किल ददौ ।। ८२ ॥

इदं सर्वमिति । स्पष्टम् ॥

प्रतीहारभ्रान्त्या मम हृतिरभूद्भित्तिसहिते
प्रदेशेऽथ द्वारि प्रचुरतरभित्तिभ्रमवशात् ।

मनोदूतम् ।

स्थितस्य द्रौपद्याः परिजनयुतायाः सहसितं
वचः प्रज्ञानेत्रात्मज इति मनो विलयति ।। ८३ ॥

प्रतीहारेति । प्रतीहारस्य द्वारस्य भ्रान्त्या । स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । भित्तिप्रदेशे गच्छतो द्वारभ्रान्त्या हतिरभूत् । अथ द्वारि पूर्ववद्विपरीतभ्रान्त्या भित्ति- रेवेयमिति स्थितस्यागच्छतः । प्रज्ञानेत्रस्यान्वस्यात्मज इति वचो दुःखबीजम् ।।

इमे सस्त्रीकाश्चेत्कुटिलहृदयाः पाण्डुतनयाः
परीहासं चक्रुर्विविधमदमत्ता बहुविधम् ।
प्रतीकारं कर्तुं यदि च न भवेयं क्षम इह
स्ययं धिङ्मे जन्म ध्रुवमनुचितं जीवनमपि ॥ ८४ ॥

इमे इति । प्रतीकारं प्रत्यपकारम् ॥

इति प्रज्ञाचक्षुर्निजतनयदुःखौघमखिलं
निपीय श्रोत्राभ्यां मनसि विदधे खेदमतुलम्
अबोचच्चाप्येन शममुपदिशन्वाक्यमनघं
स्थितिज्ञो लोकानामतिविशदबुद्धिर्धृतिपरः ॥ ८५ ॥

इतीति । अनर्घ शमप्रधानत्वान्निर्दोषम् ।। तदेवाह--

सुखं दुःखं दैवादुपनमति गच्छत्यपि परं
न धीरस्तत्र स्याद्व्यधित इह हृष्टोऽपि न भवेत् ।
ध्रुवं पश्यन्बुद्ध्या सततमनिवार्यं विधिशतै-
र्जगत्यां पर्यायागतमखिलसाधारणमपि ।। ८६ ॥

सुखमिति । भावानामागमापायिलाहुर्निवार्यत्वाच्च शमेनैव निवृत्तिरिति भावः ।।

यदा यस्माद्येन स्वयमिह विना यत्नमनघ-
स्वभाग्यात्संप्राप्तं यदतिबहु चाल्पं च सुधिया।
विधेयः संतोषो निजमनसि चेत्सौख्यमतुलं
न दुःखं तस्य स्यात्क्वचिदपि नः तापो न च रिपुः ॥ ८७ ॥

यदेति । खज्ञानकल्पिता एव शत्रुमित्रोदासीनाः । विवेकदृष्ट्या तु सर्वस्यात्मरूपत्वाब्रह्माद्वयत्वेन द्वितीयस्थाभावान्न भयशङ्कापि। द्वितीयाद्वै भयं भवति इति श्रुतेः । तस्मात्संतोषेणैव सुखं भवति नान्यथा यत्नशतैरिति भावः।। काव्यमाला न दैवविहितं दुःखं ज्वरादि सोढुं शक्यम् , कथं शत्रुकृतं दुःखं सोढव्यमिति चेत्तत्राह-

जनः सर्वः स्वीयं सुकृतमनुभुङ्क्तेऽथ दुरितं
ततो दोषः कस्मिन्सुत वद विधेयः सुमतिना ।
मदीयोऽयं शत्रुर्मम जनितमेतेन सुतरा-
मनिष्टं कष्टं चेत्यहह कुमते विलसितम् || ८८ ।।

जन इति । इदं सर्व स्वप्रारब्धमेव नान्यकृतम् । शत्रुणेदं कृतमिति तु मोहविलसितमेवेत्यर्थः ।।

वचो गम्भीरार्थं मधुरतरमुक्तं नृपतिना
कटुत्वं भेजे तद्वृद्धि कलुषिते कौरवपतेः
सितापि द्राक्षातो मधुरसुरसा पित्तविकृते-
ऽतितिक्ता किं न स्याज्ज्वरयुतमनुष्यस्य रसने ।। ८१ ।।

वच इति । अपिभिन्नक्रमः । द्राक्षातोऽपि मधुरसुरसा सिता शरत्यर्थः ।। समोपदेशमसहमानः साधिक्षेपं दुर्योधन आह-

अथैनं गान्धारीसुतशतवरिष्ठोऽरुणदृशा
निरीक्षन्क्षोभेणाकुलितहृदयः क्रूरमवदत्
समर्थः सन्कस्मात्परिभववचास्यानिलिमुखो-
द्गतानि क्षोणीश श्रुतिपथविदाहीन्यभिसहे ।। ९० ।

अथेति । स्पष्टम् ॥ तद्वाक्यमनूद्य दूषयति-

सुखं दुःखं दैवोपनतमिति सत्यं तदपि च
प्रबुद्धाः सद्बुद्धिद्रविणबलसाहाय्यत इह ।
बलाज्जित्वा देवं प्रबलमनिवाथै कुमतिभि-
विराजन्ते सर्वोपरि पुरुषधीराः कतिपये ।। ९१ ॥

सुखमिति ।स्पष्टम् ॥

त्वया यत्संदिष्टं सरलमतिना ज्ञानमनघं
यतीनामारण्यप्रगुणनिधिभाजा समुचितम्
कथं मादृक्पात्रं भवति जगतीपालकुलजः
समुत्पन्नारातिप्रभवपरितापार्दितमनाः ॥ ९२ ।।

मनोदूतम् ।

त्वयेति। सरलमतिनेति साकूतोक्तिः । आरण्यानां वानप्रस्थानां यः प्रगुणविधि- स्तद्भाजाम् ॥ कारणबाहुल्यात्त्वां प्रतीदं दुःखं श्रावितम् , प्रतीकारस्त्वस्मदधीन इत्याह---

पिता वृद्धो मान्यस्त्वमसि मतिमान्कृत्यविदिति
खदुःखं प्रोक्तं ते तदिह बहुभिहेतुभिरिह ।
अहं कर्णो दुःशासनसुबलजौ चापि नियत
समर्थाश्चत्वारो ह्यभिलषितसिथै किमपरैः ।। ९३ ॥

पितेति । स्पष्टम् ॥

मनु कथं चत्वार एव भीष्मद्रोणादीनां सत्त्वातत्राह-
गुरुणिः स्नेहं वहति कपिकेतावतितरां
सं भीष्मोऽपि प्रायः कलयति मुदं धर्मतनये ।
प्रकारैः सर्वैस्तान्मजति विदुरः पाण्डुतनया-
नुदासीनस्त्वं चेदहह विधिरेवाद्य कुटिलः ॥ ९४ ॥

गुरुरिति । स्पष्टम् ॥

वचः साधिक्षेपं नृपतिरिति पुत्रस्य मनसा
विचिन्त्य ज्ञात्वात भृशमनुनयन्त्राह मतिमान
तवापि क्षोणीशाः सुत भुवि विनेयाः क्रतुवरं
त्वमप्येवं कर्तुं प्रभवसि सहायैः परिवृतः ॥ ९५ ॥

वच इति । अधिक्षेपस्तिरस्कारस्तत्सहितम् । अनुनयंप्रकारमाह-तवापीति ।। सहायानेवाह--

अहं भीष्मो द्रोणस्तदनु तनयोऽस्याङ्गनृपतिः
प्रियोऽयं ते दुःशासन इह विधेयाः सविदुराः ।
तथान्ये शल्याद्या मगधमरुकर्णाटपतयः
कलिङ्गाः काम्बोजा-अपि बत तवाज्ञापरवंशाः ॥ ९६ ॥

अहमिति । गुरोस्तनयोऽश्वत्थामा ॥ क्रियन्तां संभारा विविधवसुभाराश्च यजन- क्षितिः सम्य या विविधशुभयूपैः परिवृता ।

काव्यमाला।

समाहूय व्यासप्रभृतिमुनिवर्यानथ शुभे
मुहूर्ते दीक्षाया ग्रहणमिह कर्तुं कुरु मनः ।। ९७ ॥

क्रियन्तामिति | संभारा उपकरणानि । वसूनां द्रव्याणां भाराः ॥

हिरण्यं सन्मुक्ता विविधमणयोऽलंकृतिशता-
न्यनर्घा रत्नौघा विविधवसनान्यननिचयाः ।
गजाश्वं गावश्च प्रचुरपयसो वत्ससहिता
द्विजेभ्यो देयाः स्युः ऋतुसदसि तुष्टेन भवता ॥ ९८ ॥

हिरण्यमिति । गजाश्वम् । सेनाङ्गत्वादेकवद्भावः । ऋतुसदसि यज्ञशालायाम् ॥

पितुस्तद्वाक्यं स श्रुतिपथमथानीय पुनर-
प्यवोचद्भो राजशकुनिरिह किंचित्कथयति
समग्रां द्तेयूतेन श्रियमपहामि ध्रुवमहं
छलात्कौन्तेयानामिति वितर तत्संमतिमिह ॥ ९९ ।।

पितुरिति । स्पष्टम् ॥ न चात्र विदुरः प्रष्टव्य इत्याह-

यदि त्वं कार्येऽस्मिन्विदुरमनुष्टच्छस्यनुपदं
निषेद्धा निश्चित्य व्यथितहृदसौ पाण्डवकृते
तदा मृत्युर्मे स्याच्छरणमिह राजस्वमपि च
ध्रुवं तुष्टो जीया विदुरसहितो हायनशतम् ।। १०० ।।

यदीति । अनुपदं तत्कालम् । निषेद्धा निषेधं करिष्यति ॥ राज्ञ उत्तेजनार्थ पुनरपि खदुःखमेवाह---

यदा द्वारभ्रान्त्या मणिरचितभित्तावधिविश-
न्नथाघातं प्राप्तः पतित: इह तस्मिन्नवसरे।
भृशं संशोचन्तौ निभृतहसितौ दस्रतनयौ
गृहीत्वा हस्ते मां सृतिमदिशता तद्दहति हृत् ॥ १०१ ॥

यदेति । आघातं प्रहारम् ।सृति मार्गम् । पन्थानः पदवी सृतिः' इत्यमरः । दस्रतनयौ नकुलसहदेवौ । अथ धृतराष्ट्रस्तनिबन्धात्सर्वमङ्गीकृतवानित्याह----

अथैतन्निर्बन्धं गुरुतरमवेत्य क्षितिपतिः
समां द्यूतस्यार्हां रचयितुमनुज्ञामथ ददौ ।

मनोदूतम् ।

समानेतुं पार्थान्विदुरमनुनीयाप्यनुचिते
निदेशे चक्रे स प्रवणमनयाधीनहृदयः ॥ १०२ ॥

अथैतदिति । अनुनीयापीति अपिर्भिन्नक्रमः । अनुचितेऽपि निदेशे यथाकथंचित्प्रवर्ण अनुकूलं चक्रे ।।

स गत्वा पार्थानां सदनमवदद्यत्कुमतिना
कुरूणां नाथेन वहदि निहित छूतविधये
ततः श्रुत्वाहानं विदुरवचनापाण्डुतनयः
स्मितं कृत्वा वाक्यं मितमिदमवोचनिपुणाधीः ।। १०३ ।।

स इति । स्पष्टम् ॥

विभो क्षत्तः सर्वं तव विदितमेवास्ति जगति
प्रकर्षं बुद्धेश्च त्वदधिगतवन्तो वयमिह ।
स राजा लोकानां स्थितिविदतुलप्राज्यधिषण:
कथं द्यूतक्रीडां कलहजननी कन्दलयति ॥ १०४

विभो इति । क्षत्तः हे विदुर । त्वत् त्वत्तः ॥

समाहूतश्चाहं कथय न कथं यामि विमृश-
न्कलेर्ध्यूते वासः सकलजनमेधाधिकलितः ।
तथापि त्वं यन्मे ह्युपदिशसि कार्यं हितविधौ
विधेयं वा नो वा तदिह करणीयं ध्रुवमिह ॥ १०५ ।।

समाहूत इति । आहूतो न निवर्तेत द्यूतादपि रणादपि इत्युक्तेः । द्यूते कले: कलहस्य कलियुगस्य वा घासः सर्वजन विदित इत्यर्थः ।। किंचास्मिन्कार्ये दैवमेव प्रधानम्, तदधीनश्च जनो न स्वाधीनःमतिरुत्पद्यते तादृग्व्यवसायोऽपि तादृशः। सहायास्तादृश एव यादृशी भवितव्यता ॥ इति वाक्यादिति विदुरः प्रत्याह-

तथा पार्थेनोक्तः सदसि विदुरः प्राह मतिमा
न्मयासौ संदिष्टः सुतपरवशः कौरवपतिः ।
अभव्यं भव्यं वा परिणतिशुभं वाप्यशुभकृ-
न जानाति प्रायो व्यपगतविचारो नियतिभाक् ।। १०६ ।।

तथेतिः । अशुभकृदिति कार्यस्य विशेषणम् । नियतिदैवम् । “भाग्यं स्त्री नियतिर्विधिः' इत्यमरःकाव्यमाला।

इति श्रुत्वा धीमान्सहजपरियुक्तो द्रुपदजा-
समेतः स्वं सैन्यं संकलमुपदिश्यानुगमने ।
रथालढो दिव्याभरणवसनो धर्मतनयः
प्रयातः साशङ्को विदुरसहितो हास्तिनपुरम् ॥ १०७ ॥

इतीति । स्पष्टम् ।।

प्रविश्याथ अज्ञानयनभवनं योग्यविधिना
कृतातिथ्यः सर्वान्प्रणतिमिरथाभ्यर्च्य मुदितः ।
निशां नीत्या प्रातः शकुनिरचितं धूतसदन
विवेश बीमादिभिरपि चतुर्भिः परिवृतः ॥ १०८॥

प्रविश्येति । सैः । भ्रातृमिरिति शेषः ।

अथातो दुर्योधनसहितगान्धारपतिना
नृपः सोऽक्षक्रीडामभजत यथायाः प्रथमजः ।
वृतो भीष्मद्रोणार्यमतनयबाहीककुरुराट्

कृपाश्वत्थामाधैर्विदुरनृपपुत्रप्रभृतिभिः ॥ १०९ ॥ अथेति । स्पष्टम् ॥

हिरण्यं कुप्याद्यं मणिनिचयमर्थौघमखिलं
निखर्वाब्जानेकप्रयुतनियुतायं यदपि च ।
महीमश्वाञ्जात्यान्गिरिसमशरीरानपि गजा-
नजैषीदुर्घते कुटिलतरबुद्धिः स शकुनिः ।। ११० ॥

हिरण्यामिति । कुप्यमिति साभ्यां यदन्यत्तत्कुप्यमित्यर्थः । अर्थानां ओघम् । अर्थरैविभवा अपि' इत्यमरः । जात्यानुत्तमजातीयान् ।।

ततोऽजैषीद्यूते नकुलसहदेवावनिलजं
गुडाकेशं पश्चाच्छकुनिकितवो धर्मतनयम् ।
अथैनं प्राहैवं द्रुपदतनयांद्यूतविधिना
पणीकृत्यात्मानं परिकलय मोक्तुं जयसि चेत् ॥ ११९ ॥

तत इति । परिकलय विचारय ।।

मराजैषीत्तामप्यथ शकुनिकान्धतनया-
म्बिकापुत्री हर्षं परतरमगुस्तत्र सदसि ।

मनोदूतम्

विहायैतानन्ये क्षितिनिहतनेत्रा विमनसः
स्रवन्नेत्राम्भोभिर्विगिति परमं दुःखमभजन् ।। ११२ ॥

पराजैषीदिति । अम्बिकापुत्रो धृतराष्ट्रः ।।

अथासौ संप्रेक्ष्य क्षितितलसमालोकनपरा-
ञ्जितान्द्यूते पार्थानवितनयमूचे कुरुपतिः ।
जितेयं दासीत्वं भजतु मम कृष्णा किमधुना
विलम्बः कार्येऽस्मिन्क्रियत इह सागच्छतु सदः ।। ११३ ।।

अथेति । कृष्णा द्रौपदी । इह कार्ये किमधुना विलम्बः क्रियते। आगच्छतु आयातु।

अवाच्यं तद्दुर्योधनकथितमाकर्ण्य विदुरः
समुत्थाय क्रोधान्निखिलमनुजे शृण्वति सति ।
जगादोच्चैः क्रोधाद्वचनमिदमालोक्य च पुनः
समुद्भूतामन्दप्रतिषभरसंरक्तनयनः ॥ ११४ ॥

अचाच्यमिति । निखिलमनुज इति जात्यभिप्रायमेकवचनम् । प्रतिघः कोपः । कोपः क्रोधामर्षरोषप्रतिघा' इत्यमरः ॥ विदुरवाक्य पञ्चमिराह--

अरे मन्द प्रज्ञानयनसुत किं ते व्यवसितं
न जानीषे शीर्षे निवसित इहाशीविषधरान् ।
किमर्थं कोपेनाकुलितमनसः पाण्डुतनया-
न्वृणीषे मन्दात्मन्मरणविषये स्वस्य सहसा ॥ ११५

अरे इति । स्पष्टम् ॥

दासीत्वं प्राप्ता द्रुपदधरणीपालतनया
यतो न्यस्ता राजा ध्रुवनियमनीशेन कुसते ।
कृतं ह्येतद्द्यूतं तव मरणवीजं कलय भो
{{bold|समासन्ने मृत्यौ भवति विपरीता किल मतिः ।। ११६ ॥

नेति ।}} पूर्वं स्वस्य द्यूते विजितत्वादनीशत्वम् ।।

पुरैवास्मै राज्ञे कथितमसंकृन्मे ध्रुवमहो
विनाशो द्यूतेऽसिस्तव सुतशतस्यापि नियतः ।

काव्यमाला।

कुलाङ्गारे पापे त्वयि शकुनिसापेक्षचरिते निबद्धप्रेमायं भवतु फलमाक्पातकतरोः ॥ ११७ ।। पुरैवेति । अस्मै राज्ञे धृतराष्ट्राय मे मया असकृत् बहुवारं किमुक्तं तदेवाह-अस्मि- न्द्यूते सुतानां शतस्याप्यवश्यं विनाशः । भविष्यतीति शेषः । दुर्योधनं प्रत्याह कुलाद्वारे इत्यादि। एतैः सह विरोधे महदनिष्टमित्याह-- दिशां जेता जिष्णुर्हतबकहिडिम्बादिसुभट- प्रसिद्धव्यापारप्रथिततरकीतिः पवनजः । यमौ नित्यं शत्रुक्षपणकरणे बद्धनियमौ न जानीषे किं रे अदिह विषमश्चासि सहसा ॥ ११८ ।। दिशामिति । जिष्णुरर्जुनः । पवनजो भीमः ॥ तिष्ठन्तु भीमादयः, युधिष्ठिरकोध एव त्वा भस्सीकरिष्यतीत्याह--- न यावत्या धर्माचरणशरणः साधुचरितः क्षमी दान्तो मिथ्यावचनरहितो लोकमहितः पुरा पश्यत्युग्रज्वलनकणमुन्दारुणदृशा परं तावत्क्रूर शमनवदनं पश्यसि न रे ॥ ११९ ।। न यावदिति । पुरा पश्यति । द्रक्ष्यतीत्यर्थः । चावत्पुरा-'इति पुरायोगे लङर्थे लट् ॥ इति क्षिप्तोऽत्यन्तं विदुरवबचनैरप्यनुसर- न्स कर्णादीन्दुष्टान्मनसि न च खिन्नोऽभवदसौ अथ प्रातीकाभ्यां द्रुपदतनयायाः स्वभवन- स्थिताया ह्वानार्थं ह्यदिशदवनीपालतनयः ॥ १२० ।। इतीति । हानाहानं तदर्थम् । हूतिराकारमाह्वान' इत्यमरः । प्रातीकाम्य इति द्यूतस्याभिधानम् ॥ स दूतस्तद्राज्ञो वचनसमकाल द्रुपदजा- सकाशं गत्वोच्चैरवददर्थ दुर्योधनवचः । जिला द्यूते त्वामाहयति धृतराष्ट्रस्य तनयो नियोक्तुं त्वां दासी भवसि पणिता द्यूतसदने ॥ १२१ ॥ स दूत इति । उच्चैरिति । अन्तःपुरे प्रवेष्टुमशक्यत्वादुच्चैरित्युक्तम् ॥ क मनोदूतम् । ११.३ अथैनं पप्रच्छ द्रुपदतनया द्यूतसदने नृपः करमाद्धेतोर्बत पणनमेवं समकरोत् । एवं लोकेऽस्मिन्कथय परिदीव्येद्धृतमति- यथा पार्थः स्वार्थाकुशलहृदयो बुद्धिविधुरः ।। १२२ ।। अधेति । स्पटम् ॥ अथो दूतः प्राह प्रश्रितकुलजेऽसौ लव पति- यंदा भीमं चान्यानपि निजमथात्मानमकरोत् । पणद्रव्यं पश्चात्त्वमसि पणितातो नरपतिः सभायामस्यां त्वाहृयति धृतराष्ट्रस्य तनयः ॥ १२३ ॥ अथो इति । स्पटम् ॥ किमात्मानं पूर्व परिपणितवान्मां नु नृपतिः समां गला पृष्ट्वा पुनरिह समायाहि सविधेः । ध्रुवं ज्ञात्वा पश्चादयि नय सभा मामिति तया नियुक्तो दूतॊऽसौ नृपसविधमागात्पुनरपि ।। १२४ ।। किमिति । स्पष्टम् ॥ द्रौपदीवाक्यमाह- अये राजकृष्णा बदति सकलान्यः पुनरियं न राज्ञोऽनीशस्य प्रभवति मयि खत्वमधुना । अनार्य चेत्सर्वैरधिगतमहो दैवहतकै- विनाशः सर्वेषां ध्रुवमपरिहार्यो हि भविता ॥ १२५ अये इति । स्पष्टम् ॥ तदविक्षेपवनः श्रुत्वा क्रुद्धः सन्तुःशासन प्रेषितानित्याह- तथा दूतेनोक्तः सहजमथ दुःशासनमिदं जगादासौ दुर्योधन इह मतेनाङ्गनृपतेः । अये दूतो भीमात्परमिह विभेति त्वमधुना बलादेनां कृष्णामुपनय करिष्यन्ति किममी ।। १२६ ॥ तथेति । अनृपतेः कर्णस्य । मतेन संमतेन ।। काव्यमाला। ततो गत्वा सोऽन्तःपुरभवनमेनामृतुमती बलाद्धृत्वा केशेष्वहह शठबुद्धिपसुतः । सनाथामप्यारादितरजनपतीमिव सभा- मनैषीत्यार्थानां पुरत इह हा दैवहतकः ॥ १२७ ।। तत इति स्पष्ट ॥ तथा नीतां कृष्णाभरिकरगतासेकवसनां रजोध्वस्तां वीक्ष्य क्षितिपतिसभा साश्रुनयना । न यातुं न स्थातुं समशकदथो किंचिदपि वा- भिधातुं श्रोतुं वा हृदयकृतधिक्कारबचना ॥ १२८ ।। तथेति । हृदये कृत धिक्कारवचनं यया । दुर्योधनभयादित्यर्थः । कर्णस्य द्रौपदीं प्रति वचनमाह द्वाभ्याम्--- अथावादीत्कर्णः किमिति न करोष्युन्नतमिदं मुखाब्जं किं लज्जास्पदमिह भवत्याः कथय नः । तदैवेयं लज्जा द्रुपदतनयेऽद्धा परिहृता वृता यल्लोभेन ध्रुवमिह तदा पञ्च पतयः ॥ १२९ ॥ अथेति । स्पष्टम् । इदानीं गान्धारीतनयवशगासीप्सितमहो समृद्धं ते कृष्णे परिहर पतीन्दीनमनसः । जितासि द्यूतेऽस्मिन्सुमुखि धृतराष्ट्रस्य धरणी- पतेः पुत्रेणाद्य क्षममिह तदाज्ञानुसरणम् ॥ १३०. इदानीमिति । स्पष्टम् ।। ततोऽसौ दुष्टात्मा निजमनुजमाहातिशठधी- रिमां दुष्टां पापां विगतवसनामाशु कुरु भोः परीहासस्यैव फलमनुभवत्वाशु कुटिला पतीनां दासत्वं मम गतवतामद्य पुरतः ।। १३१ ।। तत इति । स्पष्टम् । अथासौ दुःखार्ता द्रुपदतनया वीक्ष्य दुहिता- परित्रातुं योग्यानपि समयबद्धान्विधिवशात् मनोदूतम् । ११५ सभायामांनीता शरणरहिता जालपतिता कुरङ्गीव त्रासाद्भृशतरमसौ कम्पमभजत् ॥ १३२ ॥ अथेति । समयबद्धान् सत्यमयपाशबद्धान् । तदानीमनन्यशरणा सा भगवत्स्मरणं कृतवतीति कथयितुं कविमनसो दूतत्वं परिकलय्य कथां रचयति- विचारं वाकार्षीदहह न पिता नापि दयिता न पुत्रा न भ्राता शरणमिह मेऽद्यास्ति न गुरुः ऋते भक्ताधीनाद्यदुकुलवतंसादपर इ- त्यथो सारं सारं मुररिपुमहं यामि शरणम् ।। १३३ ।। विचारमिति । स्पष्टम् ॥ स चात्यन्तं दूरे क इह तमथावेदयति में समासन्नं दुःखंं भृशमपरिहार्यं प्रयतनैः । तदर्थं स्वान्तं तत्सविधमुपनेष्यामि निजमि- त्यसौ संबोध्य स्वं द्रुपदतनया चित्तमवदत् ॥ १३४ ॥ सचेति । प्रयतनैः प्रयत्नैः । स्वान्तं मनः । 'स्वान्तं हृन्मानसं मनः' इत्यमरः ॥ अथान्यविषयासक्तिं त्यक्त्वा तत्परस्यैव चित्तस्य भगवति प्रवृत्तिरिति वक्तुं मनसः प्रशंसापूर्वकं स्वदूत्येऽनुकूलयितुं प्रार्थनामाह सप्तभिः-- हृषीकाणामीशं त्वमसि सकलानां त्रिभुवन क्षणाद्गन्तुं शक्तस्तदिह कलये दूत्यनिपुणम् । इतो गत्वा शीधं मधुमथनपार्श्वे कथय मे प्रवृत्तिं दीनाया ध्रुवमशरणाया हृदय भोः ।। १३५ ।। हृषीकाणामिति । इन्द्रियाणां मनश्चस्मि' इति गीतोक्तेः । अयि स्वान्त क्लान्ता भृशमहामिह त्वां पटुतरं विधाने निश्चित्य ध्रुवमनुनयामि प्रणयतः । हृषीकाणामीशं कथमिदमयोग्यं तव पुनः करिष्ये दूतत्वं तदिति किल मा गा विधुरताम् ॥ १३६ ॥ अयीति । स्पष्टम् ॥ त्रगु०.११ काव्यमाला। 'न हि प्रयोजनमनुद्दिश्य मन्दोऽपि प्रवर्तते' इति न्यायात्तत्र प्रवर्तयितुं मह्त्यकरणे. समाधिस्थयोगिचित्तागोचरस्य भगवतो दर्शनेन ते महाँलाभो भविष्यतीति महत्प्रयोजन- माह- महांस्ते लाभोऽयं यदिह यमिनस्त्वां दृढतरं निरुध्यान्तर्युञ्जन्त्यसकृदनुकूलं प्रणयतः । समाधिस्था यस्य स्मरणविधये तं यदि पुरो मनः साक्षात्पश्येः किमधिकमितस्तेऽस्ति कथय ।। १३७ ।। महानिति । अस्य स्मरणविधये योगिनस्त्वां दृढतरमन्तर्निरुज्यासकृद्वारंवारं युञ्जन्ति तं यदि त्वं साक्षात्पश्येत्ततोऽधिकं किमस्ति । पूर्वोक्कै हृषीकेशत्वमेव प्रतिपादयति--- न नेत्रं रूपस्य ग्रहणकुशलं नामि रसनं रसज्ञाने गन्धग्रहणविषये प्राणमपि न । न शक्ता त्वक्स्पर्शानुभवजनने श्रोत्रमपि च त्वया हीनं शब्दग्रहणपटु न स्यात्किमपरम् ।। १३८ ॥ न नेत्रमिति। मनःसंयोगं विना इन्द्रियाणां स्वस्वविषयग्रहणासामर्थ्यमनुभवसिद्धम् । तथा च महाभारतेऽश्वमेधपर्वणि मनोवाक्यानि न घ्राते मामृते प्राणः रसं जिह्वा नः वेत्ति च । रूपं चक्षुर्न गृह्णाति त्वक्स्पर्श नावबुध्यते ॥ न श्रोत्रं बुध्यते शब्दं मया हीनं कथंचन । प्रवरं सर्वभूतानामहमस्मि सनातनम् ।।' इति । रसनं रसनेन्द्रियं रसज्ञाने शक्तं नेति योज्यम् ।। त्वदनुचराणीन्द्रियाणि त्वां स्वस्वविषये यतिष्यन्ते । तेषां मार्गं प्रवृत्तिरूपं विहाय निवृत्तिमार्गेण गमिष्यसि चेत्तत्प्राप्तिः सुलमा, नान्यथेत्याह- रसज्ञघ्राणत्वक्श्रवणनयनानि प्रतिलयं यतन्ते त्वां नेतुं यदपि च मनः स्वस्वविषयान् । तथापि त्वं साधो परिहरसि चेद्धर्मविषयं मदीयोऽयं चित्ताभिलषितविधिः सेत्स्यति तदा ।। १३९ ॥ रसज्ञेति । इन्द्रियाणि प्रमाथी हरन्ति प्रसभं मनः इति गीतोतः ।। प्रवृत्तिमार्गे भयं प्रदर्शयति- अये कामः क्रोधः प्रचुरतरलोभः स च मदो महामोहः सेोऽध्वनि किल वसन्त्यत्र नियतम् । मनोदूतम् । व्रजन्तं ते सार्थं प्रबलमपि मुष्णान्ति तदहो मदीयं त्वं मागा हृदय कलयेदं हितवचः ॥ १४०।। अये इति । कामादयश्रौरा मुष्णन्ति । धर्मरूपं धनमिति शेषः। हे हृदय, त्वं तत्र मा गाः । मदीयं इदं हितशवचः कलय । अस्मिन्मार्गे खेदशङ्कापि नेत्याह--- अहो खेदः सोढुं कथमपि न शक्योऽध्वजनितो मयेति ब्रूषे चेच्छृणु हृदय यद्वच्मि भवते । चिदानन्दाकारं भवजलधिसारं कलयतः समारम्भॊ भावी श्रमनिकरनाशैकनिपुणः ॥ १४१ ।। अहो इति । स्पष्टम् ॥ किं च तत्समीपं गच्छतस्ते स एव श्रेयः कर्तेत्याह ---- स ते मार्गे श्रेयो दिशतु शुभकृत्सर्वजगतां यदीयं सौन्दर्यं हृदयहरणं गोपसुदृशाम् । मुमुक्षूणां ध्येयं विपदुदधिसंसारतरणि- र्विपन्नानां चिन्तामणिरखिलवाञ्छार्पणविधौ ॥ १४२ ।। सते इति । तरणिर्नौका । पुनरपि शीघ्रं गमनं प्रार्थयते--- विलम्बं मा कार्षीः कुतुकतरलं क्वापि भव मा त्यजात्यन्तं रूपादिषु च परमासक्तिमनघ । इतो गन्तव्यास्ति त्रिभुवनललामाद्भुतनिधिः पुरी द्वार्वत्याख्या निखिलनगरी शेखरमणिः ॥ १४३ ॥ विलम्बमिति । कुतुकं कुतूहलम् ! गन्तव्यदेशमाह-इत इति । द्वार्वती द्वारिका । अथ त्रयोदशभिर्द्वारिकां वर्णयति- समुद्रेणाक्षिप्ता परित इह हेमाच्छवरणा निधानं दिव्यानां समुपकरणानां मणिमयी विचित्रा वृष्णीनां विजितसुरयानैर्गृहवरै- र्नरैरप्यच्छाभैर्विविधमणिवस्त्रौघसुलभैः ॥ १४४ ॥ समुद्रेति । वरणः प्राकारः । सुरयानं विमानम् ॥ काव्यमाला जना यत्रागारेष्यतिलसितसन्मङ्गलमह- असङ्गात्संजातैरविरतमृदङ्गानकभवैः प्रतिध्वानैरारादपि जलदगर्जाधिकरवै- मयूराणां नृत्योत्सवमनुभवन्ति प्रतिदिनम् ॥ १४५ ।। जना इति। अतिलसितसन्मङ्गलरूपा महा उत्सवाः । 'मह उद्धव उत्सवः' इत्यमरः । तेषां प्रसङ्गात् संजातैः ।। यदागारेष्वलिहविविधसौधोच्चशिखर- स्थितैः कुम्भैरन्तःशुषिरविलसद्दीपकलिकैः विनिद्राणां कान्ताविरह विधुराणामुड्डगण- भ्रमः प्रावृतम्यामतितिमिरमय्यां भवति च ॥ १४६ ॥ यदागारेश्चिति । विनिद्राणामिति । तत्र हेतुः-कान्ताविरहविधुराणामिति । प्रावृट्तम्याम् । रजनी यामिनी तमी' इत्यमरः । शुषिरं छिद्रम् ॥ सुरद्रोः सत्पुष्पावलिललितसद्गन्धसुभृत- नितान्तं कस्तूरीमृगमदमहामोदलसितैः । चतुर्भ्यो भागेभ्यो हृदय हरितां वायुभिरहो समायातः सार्था क्रियत इह सा गन्धवहता सुरद्रोरिति । कस्तूरीयुक्ता मृगाः कस्तूरीमृगास्तेषां मदः महानामोदस्तेन लतितैः हरितां दिशा चतुर्भ्यो भागेभ्यः प्रदेशेभ्यः समायातैर्वायुभिः सा गन्धवहता गन्धवहत्वं सार्था यथार्था क्रियते इत्यन्वयः। 'आशाश्च हरितश्च ताः' इत्यमरः । रोमभिर्विरलैः स्वल्पैर्युतः कस्तूरिकामदः' इति केशवः । हृदयेति संबोधनम् ।कस्तूरी स्यान्मृगमदः' इत्यमरः ॥ विचित्रैरुद्यानस्तिलकसहकारद्रुपनसा- लसप्लक्षद्राक्षाबकुलसरलेन्द्रद्रुमधुकैः । तमालश्रीपीवरणकृतमालाक्षकदली- शमौजम्बूजम्भकमुकलकुचाशोकसहितैः ॥ १४८ ॥ विचित्रैरिति । उद्यानैर्व्याप्तेति द्वितीयश्लोकेनान्वयः । कीदृशैरुद्यानैः । तिलकादिसहितैः । तिलकः क्षुरकः वृक्षविशेषः, सहकारः आम्रः, पनसः कण्टकीफलः, अनसो बन्धूकंः प्लक्षो बटः, द्राक्षा मृद्रीका, बकुलः केसरः, पूतद्रुः सरलः पूतिकाष्ठम्' इत्यमरः। इन्द्रद्रुः ककुभोऽर्जुनः । मधुकः प्रसिद्धः । मधूको मधुकोऽपि च' इति द्विरूपकोशः । . मनोदूतम् । तमालः प्रसिद्धः, श्रीपर्णी वृक्षविशेषः, वरुणो चरणः सेतुः । आरेवतव्याधिघातकृतमालसुपर्णकाः' इत्यमरः, अक्षो विभीतकः, कदली रम्भा, शमी जम्बूश्च प्रसिद्धे,जम्मः जम्भीरा इति प्रसिद्धः, लकुचः "बहुहरः” इति भाषायाम् ।। पियालदुश्लेष्मातकबदरनारङ्गविषम- च्छदप्लक्षस्त्रंसिसुबतरुकदम्बादिललितैः । लताभिर्मालत्यादिभिरपि सुमौघातिललित- प्रवालाभिर्व्याप्ता तव नयनयोर्यास्वति पथि ॥ १४९ ।। पियालेति । राजादनं पियालः स्यात्' इत्यमरः । श्लेष्मातकः लहसोडा' इति भाषायान् । विषमच्छदः सप्तपर्णः, लक्षः पिपलपादुपः। तेन पूर्वश्लोके न पौनरस्त्यम् । तथा च हैम:--'लक्षोऽश्वत्थे जटिनि पक्षके' इति । पीलः प्रसिद्धः । सुबतरुर्विककृतः खुवावृक्षः । कदम्बः प्रसिद्धः । सुमानामोषः । 'प्रसूनं कुसुमं सुगम्' इत्यमरः । 'प्रवा- लोऽन्त्री किसलये वीणादण्डे च विद्रुमे' इति हैमः । लतामियोप्तेति संबन्धः॥ खकीय कौशल्यं त्रिभुवनविचित्रं प्रथयता सहस्राक्षप्राचीपतिधमदवासाँल्लघयता कृता दिव्योपायैर्विविधमणिसंयोगवटिता यदूत्तंसप्रीत्यै सुभग सुरतक्ष्णास्ति रचिता ॥ १५० ॥ स्वकीयमिति । सुरतक्ष्णा विश्वकर्मणा !! सभारामागारत्रिदशसदनब्रह्मणगृह- प्रपावापीकूपाङ्गणक्तितरथ्यापरिवृता । अगण्यैः पण्यौवैर्भूतविपणिवीथीपरिसरा- धरारत्नं रत्नाकरपरिवृता सा विजयते ॥ १५१ ॥ समेति । सभा द्यूतसमूहयोः शालायां च इति हैम: । आराम उपवनम् । विपणिः पण्यवीथिका ।। प्रविश्य त्वं तस्यां रुचिरकुरुविन्दाश्मगरुडो- पलखच्छाच्छाभामरपतिमणीवनशकलैः । विना वर्षाकाले त्रिदशपतिचापायुतमति दधत्यां दृष्टायां निजनयनयोः प्राप्नुहि फलम् ॥ १५२ ।। प्रविश्येति । 'कुरुविन्दस्तु पीते स्यादतिरक्तेऽपि' इति केशवः । गरुडोपलो हरि- न्मणिः । अतिशयेन अच्छा अच्छाच्छातिनिर्मला भा यस्याः । अमरपतिमणी इन्द्रनीलकाव्यमाला। मणिः । मणिर्द्वयो रश्मिजातौ' इत्यमरे नीलमुक्तम् । वज्रं हीरकम् । एवं च पञ्चवर्णैमणिभिरिन्द्रायुधसाम्यम् ॥ यदीयान्यागाराण्युनिकरराहकान्तमणिमि- लसत्कुड्यान्यन्तःकरणजलमुश्चि प्रतिलदस् सदा कुर्वन्त्यम्भोघरसमयसुभ्रान्तिमतुला निशीथिन्यां चन्द्रोज्ज्वलकरसितायां प्रतिदिनम् ॥ १५३ ।। यदीयानीति । उडुनिकराणां तारकाणाम् । 'तारकाप्युड वा स्त्रियाम्' इत्यमरः । निकरः समूहस्तस्य राट् इन्दुः । चन्द्रकान्त इत्यर्थः ।। सुराधीशं जित्वा समिति संगणं यादवपति- र्धरायामानीतं प्रथितगुणयुक्तं सुस्तरुम् । निवासे सत्यायाः स्वयमथ समारोप्य जगता- मधीशस्तां धन्यामकृत रविकन्यापतिरसौ ॥ १५४ ॥ सुराधीशसिति । सत्यायाः सत्यभामायाः । समारोप्य रोपयित्वा । रविकन्या कालिन्दी। भ्रमद्धिः सौरभ्यादुपरि परितः षट्पदगणै- र्दधद्भिश्छत्रस्य श्रियमनुपमां निर्जरतरुः समस्तानां क्षोणीरुहवरगणानामवितथं प्रभुत्वं यन्नासौ कथयति निजं वान्त सततम् ॥ १५५ ।। भ्रमद्भिरिति । स्पष्टम् ॥ अथ तस्याः समग्रवर्णने सामर्थ्याभावमाह- यदीयं सौभाग्यं कथयितुमलं चेकिल भवे- दनन्तो द्रष्टुं वा यदि दशशताक्षः प्रभवति । निवस्तुं च श्रीशो यदुकुलसुधांशुः स भगवा- नवश्यं योग्यः सा कथय कथनीया कथमिव । १५६॥ यदीयमिति । अनन्तः शेषः । दशशताक्ष इन्द्रः ॥ सहलं सौधानां भवति किल यत्षोडशमितं सुयुक्तं चाप्यष्टोत्तरशतमितैर्दिव्यसदनैः मौदूतम् स तत्र प्रद्युम्नोद्धवहलधरारशिनिजी- असेनाधैर्युक्तो वसति किल यत्र प्रभुरसौ ॥ १५७ ।। सहनमिति । 'सौधोऽस्त्री राजसदनम् इत्यमरः ।। अथ द्वाभ्यां श्रीकृष्णं वर्णयति--- दुकूलं हेमाभं निजकटितटेऽसौ परिदध- त्सुकाञ्च्या रत्नानां निबिडमुपनद्धं यदुपतिः दधानः श्रीवत्सं हृदि सुविलसत्कौस्तुभमणि- महानन्दाम्भोधिनयनपथमायास्यति स ते ॥ १५८ दुकूलमिति । स्पष्टम् ॥ भगवच्चरणचिन्हान्याह --- ध्वजच्छत्राम्भोजाङ्कुशकुलिशसत्कुम्भसुधनु- र्गदाशक्त्यङ्गुष्ठस्थितयवसुचक्रादिलसितौ नखेन्दुज्योत्स्नाभिर्विधुतनिविडध्वान्तनिचये हृदि ध्यातौ भक्तैर्हृदय चरणौ द्रक्ष्यसि हरेः ।। १५९ ॥ ध्वजेति। स्पष्टम् समग्रतदीयावर्णने स्वस्थासामयमाह- यदन्वेषे शेषा प्रभवति मनीषा न यमिना- मुपश्लोके यस्य श्रुतिरपि च मूकेव भवति । तदीयान्यङ्गानि स्फुटमिह मनोज्ञानि सकला- न्यहं वक्तुं शक्ता कथमिव भवेयं जडमतिः ॥ १६० ॥ यदन्वेषः इति । स्पष्टम् ॥ अथ स्वसंदेशकवानप्रकारमाह-- निपत्य त्वं श्रीमचरणकमलाधः सुभग हृ न्मदीयं संदेशे कथय कथयाम्यद्य सकलम् । न चानन्दाम्भोधौ हरिचरणवीक्षामृतमये निमग्नं भूत्वा मे कथितमखिलं विस्मर मनः ॥ १६१ ॥ निपत्येति । स्पष्टम् ॥ काव्यमाला । अयेऽहं दुःखार्ता शरणमुपयातास्मि भवतः प्रणभ्य त्वां याचे हृदय करणीयं समुचितम् । श्रवश्चक्षुर्माणमभूतिकरणानां परवशं न भूया नो चेद्धा ध्रुवमिह हताहं द्रुपदजा ॥ १६२ ।। अये इति । श्रवः कर्णः । करणानामिन्द्रियाणाम् ।। गृहीत्वा प्रेमोपायनमथ विनीतेन भक्ता समाराध्यः खामी बत गरुडगामी मम विभुः । दयासिन्धुदीनोद्धरणधृतबुद्धिर्मदुदितं विशेषादेवासौ हृदि करुणया धास्यति हरिः ॥ १६३ ॥ गृहीत्वेति । प्रेमरूपायनम् ॥ इति स्वान्त वाक्यैनिजमभिमुखीकृत्य सरल स्वभावा नेत्राम्भः तिसततधारासुतनुः तदीयध्यानोत्थाप्रमदजनितोद्दामपुलका जगाद श्रीकान्तं प्रति परमदुःखं द्रुपदजा ॥ १६४ ।। इतीति । स्पष्टम् ॥ अथ स्वीयमनन्यानवार्थमसाधारणं दुःखं निवेदयन्ती भगवतः स्वरक्षणत्वरायै बहुधा संबोधयन्ती प्रार्थयते---- दयासिन्धो बन्धो निखिलजगतो यादवपते जगन्नाथ स्वामिन्व्रजजनविपन्नाशनपटो। बकोघातिन्वत्सासुरहर तृणावर्तशमन प्रलम्बारिष्टघ्न द्विपदलन केशिप्रमथन ॥ १६५।। दयासिन्धो इति । स्पष्टम् ॥ सुराधीशाखर्वप्रततमदगर्वप्रशमन प्रभो लक्ष्मीकान्त ब्रजजनसुधांशो सुररिपो व्रजाधीश श्रीशामृतमथन तार्क्ष्यधज जग- त्प्रभो विष्णो जिष्णुप्रियसख सखे गोकुलपते ॥ १६६ ॥ सुराधीशेति । स्पष्टम् ॥ मनोदूतम् । मधुध्वंसिन्दैत्यान्तक नरहरे कैटभरिपो हयग्रीव श्रुत्युद्धरण सुरसंधैकशरण । हिरण्याक्षप्राणापहरणपटो शूकर धरा- धर स्वामिन्नागाधिपशयन कूर्माकृतिधर ॥ १६७ ।। मधुध्वंसिन्निति । स्पष्टम् ॥ कलिन्द्रोहिन्सत्यप्रिय नरकहच्छाल्वशमन क्षितिधुम्राजन्यप्रबलभरहारिन्नरवर । त्रिलोकीसदनाच्युतसुभग गोपीरमण भो परानन्दाम्भोधे निखिलजगदात्मन्सुरपते ॥ १६८ ॥ कलिद्रोहिन्निति । स्पटम् । एवं संवोधनैः स्वामिमुखीकृत्य स्वदुःखं निवेदयति---- अगाधापट्टाधाकुलहृदमसाधारणकृता पराधा गान्धाराधिपसहितराधासुतवशाः । तुदन्तीमे धाराधरतुलितकान्ते दय धरा- धरानेराधार प्लवधरण राधारमणं माम् ॥ १६९ ।। अगाधेति । अगाधा महती या आपाद्बाधा तया आकुलहृदं मां असाधारणः कृतोऽपराधो यैः । हे धाराधरतुलितकान्ते दय प्लवस्य पीतस्य धरण मत्स्यावतारे तथा करणात् उदासीना दीना मूदुहसितहीना नतमुखी निलीना खेष्वङ्गेष्वहह सुखहीना यदुपते । निहीना कीनाशाधिकभयकरैरन्धतनयः सभायामासीना द्रुपदतनया पीड्यत इह ॥ १७० ।। उदासीनेति । कीनाशो यमः ॥ पवीनामाघातैरशुभजविधीनामिव गणै- रहीनामुप्रैर्वा फणसमुदयैरेभिररिभिः बिभेमि श्रीदीनोद्धरण किल हीनाद्य भवता शिनीनामीशान श्वसिमि किल पीनाहिरिव याः ॥ १७१ ।। पवीनामिति । 'कुलिशं भिदुरं पविः । अशुभजानां विधीनां पापफलानाम् ॥

  1. Memoraret e १२४

काव्यमाला अयि क्षुद्रा रुद्रानुचरहृदयद्रावणविधि- प्रगल्भा भद्राय प्रभुवर हरिद्रामवसन । सुभद्रानन्धो नागरिंगणसमुद्राभिपतितां प्रवाधन्ते तन्द्रां परिहर महेन्द्रानुजविधौ ॥ १७२ ।। अधीति । क्षुद्राः अधमाः । पुनः किंभूताः। रुद्रानुचरेति । एतेषामतिदारुणं कर्म दृष्ट्वा तेषामपि हृदयं द्रवतीति भावः । भट्टैः कल्याणैराद्य पूर्ण । तन्द्रां आलस्यं परिहर । अगाधे दुःखाब्धौ बत निरवलम्बेऽमि पतिता भवाम्बोधेरुद्धारक कथमुदासोऽसि भगवन् विलम्ब नाकार्षीरघहर गजाजामिलकृते मदुद्धारे शक्तः किमसि न विभो दुष्टदलन ॥ १७३ ।। अगाभ इति । स्पष्टम् ॥ दुष्टदलनत्वमाह चतुर्भिः- महामीनः सत्यव्रतमवति कूर्मोऽपि च भवा- न्बहत्यद्रिं पृष्ठे धरति धरणीं शूकरवपुः । नृसिंहः प्रह्लादासुरजनकदारयति भो बलैः प्राज्यं राज्यं कपटबहुरूपो हरति च ।। १७४ ॥ महामीन इति । सत्यव्रतं राजानम् । अद्रिं मन्दराचलम् ।। सुदुर्दान्तं धर्माद्विमुखमखिलक्षोणितलगं निहन्ति क्षत्रं दाक्शिलपरशुभात्रोपकरणः दशग्रीवं कुम्भश्रवणामपि सुग्रीवरहनुम न्नलर्क्षाधीशामिप्रवरसुतयुक्तो विजयते ॥ १७५ ॥ सुदुर्दान्तमिति । कुम्भश्रवणः कुम्भकर्णः। ऋक्षाधीशो जाम्बवान् । अग्निप्रवरमुतो नीलनामा वानरः । विजयते । विपराभ्यां जेः' इत्यात्मनेपदम् ॥ स एव त्वं सम्प्रत्यपि हलधरभ्रातृसहितो बचोमार्गातीतान्यतिशयितझर्माणि भगवन् । बकीघातादीनि स्मृतिमुधगतान्यप्यघहरा- न्यहो लोके विख्यापयसि कमलाबल्लभ विभो ॥ १७६ ॥ स एवेति। संप्रत्यस्मिन्नवतारे ॥ मनोदूतम् । निजं पूर्णानन्दानुभवमपि संत्यज्य भगव- न्नितीत्थं सद्भक्तावनकरणदीक्षापरवशः । विधत्से रूपाणीत्यमरवर संचिन्त्य मनसा दयालो त्वां हित्वा कतममुपयामीह शरणम् ।। १७७ ।। निजमिति । स्वानन्दानुभवादपि ते परोपकार एवं मुख्य इति ॥ अये सर्वज्ञस्त्वं व्यसनमिदमल्पेतरमहो विदित्वापि स्वामिन्मयि कथमुदासोऽसि भगवन् । भृशार्ताहं रोदिम्यतिशयितदुःखाब्धिपतिता विता श्रीमन्नान्यस्त्वमिह मृदुभावं भज मयि ॥ १७८ ॥ अये इति । अविता रक्षकः ॥ इतीदं संदेशं सकलमवधार्थ प्रचलितुं समुद्युक्तं यावद्रुपदतनयाचित्तमभवत् । तदैवान्तर्यामी निखिलजगतामार्तिहरण: समुत्तस्थौ हित्वा शयनतलगां भीष्मकसुताम् ।। १७९ ॥ इतीति । स्पष्टम् ॥ अये नाथं स्वान्तं किंमिति तव चिन्ताकुलमिति प्रवृत्तिं पृष्टोऽसौ सुमशरजनन्या सचकितम् । सवन्नेत्राम्भोभिः स्खलितवचसाङ्गेन पुलका- चितेनासौ कृष्णाव्यसनमतिकष्टं समवदत् ।। १८० ॥ अये इति । सुमशरजनन्या रुक्मिण्या अयि प्रद्युम्नाम्ब द्रुपदतनया कर्णशकुनि- प्रधानेन प्रज्ञानयनतनयनाय सदसि । समानीता भीता दशवदननीता परवशा यथा सीता तद्वत्परिभवभुवं साब गमिता ॥ १८१ ।। अयोति । प्रद्युम्नाम्बेति । 'अम्बार्थनद्यो:-' इति ह्रस्वः ॥ तथा न प्रद्युम्ने त्वयि च मम वैदर्भि न तथा न देवक्यां प्रेमा भवति वसुदेवेऽपि न तथा । काव्यमाला। न भामायां नो वाग्रज इह न चात्मन्यपि यथा घनाथायां तस्यां द्रुपदतनयायं सुदति मे ॥ १८२ ।। तथा नेति । भामायां सत्यभामायाम् । अप्रजे बलदेवे । आत्मनि स्वदेहे ।। न मत्तोऽन्यस्तस्याः क्वचिदपि कदाचित्प्रियतमः सुतो भ्राता तातः पतिरपि महत्वास्पदमिह । अतस्तार्क्ष्यं स्मृत्वा झटिति विपदन्ताय सुदति प्रयास्ये तत्राहं न हि समुचितं कालहरणम् ।। १८३ ।। न मत्त इति । ममत्वास्पदं प्रेमास्पदम् । झटिति शीघ्रम् । 'द्द्राग्झटित्यञ्जसाहाय- इत्यमरः । कालहरणं विलम्बः॥ इतीदं तामुक्त्वा मितवचनमत्यन्ततरलः स्मृतायातं सद्यो गरुडमधिरुह्याथ समगात् तावदुष्टात्माग्रजवचनवश्यो द्रुपदजा- म्बराकर्षे कर्तुं सविधमुपयातोऽभवदथ ॥ १८४ ॥ इतीति । अम्बराकर्षं वस्त्राकर्षणाम् । तरलस्त्वरावान् ॥ तदालोक्य क्रोधानलकलितमूर्तिः प्रभुरसा- द्दृश्यो व्योमस्थः कलितकुतुकः कालकलनः । मदं दूरीकर्तुं सुबलतनयान्धात्मजरवि- प्रसूतानां कंचिद्विधिमतुलमन्यं रचितवान् ॥ १८५ ॥ तदेति । कालं कलयतीति कलनः । अधुना न मारणीया एते अग्रे सर्वराज्ञां वधस्य कर्तव्यत्वात् ॥ प्रकारान्तरमेवाह त्रिभिः स कर्तु भक्ताया द्रुपदतनयायाः प्रियमसा- यकर्तुं गान्धारीसुतहृदयदुवाञ्छितमहो। तुरीवेमाभावे पटशतविधानेऽपि च तथा- न्यथाकर्तुं शक्तः कुरुसदसि दृष्टी गगनगैः ॥ १८६ ।। स इति । अन्यथाकर्तुमिति कारणं विनापि कार्यमुत्पादयितुमित्यर्थः । कर्तुमकर्तुम- न्यथाकर्तुं समर्थ इति त्रितयं तदानीमेव संपादितम् ॥ सितैः पीतैः श्यामैर्हरितवसनैः स्वर्णरचना- विचित्रैः सच्चित्रोल्लिखनपरमाश्चर्यजनकैः । मनोदूतम् दुकूलैः कौसुम्भैरतिललितमाञ्जिष्ठसलिला- रुणैः सूक्ष्मैनीलैरपि वसनकृत्कौशलयुतैः ॥ १८७ ।। सितैरिति । विचित्रैराश्चर्यजनकैः ।। पलाशाभैर्नानाविधकिसलयाकारविजय- प्रगल्भैः सत्सूचीरचितखगपुष्पादिरचनैः । समाच्छन्नानन्तैरपि विविधवासोविरचिता तदा पाञ्चालीव ध्रुवमजनि पाञ्चालतनया ॥ १८८ ।। पलाशाभैरिति । हरिद्वर्णैरित्यर्थः । पालाशो हरितो हरित्' इत्यमरः । किसलयानां नवपल्लवानां य आकारस्तज्जयप्रगल्भैः। सन्ति समीचीनानि यानि सूचीरचितानि खगानां शुकमयूरादीनां पुष्पाणां च विविधानां रचनानि 'कसीदा' इति भाषायां प्रतिद्धानि तानि ये तैर्वसनैराच्छन्ना विविधवासोभिर्विरचिता पाश्चाली कृत्रिमपुत्रिकेव । 'पाश्चालिका पुत्रिका स्यात्' इत्यमरः । पाञ्चालो द्रुपदस्तस्य तनया द्रौपदी ॥ अथ तदानीं दुःशासनावस्थामाह--- अथाकर्षन्नस्या वसनमधिसंसद्धृदि वह- न्नभिप्रायं दुष्टं शकुनिसहजादित्यजवशः । सभास्थैः साश्चर्यैः स्तिमितनयनैः पाण्डुतनयै- र्न्ऱुपैरन्यैर्दृष्टः शिथिलितभुजो नान्तमगमत् ॥ १८९ ॥ अथाकर्षन्नितिः । संसदीत्यधिसंसत् । सहजो दुर्योधनः । अन्तं वस्त्राणां समाप्तिम् ॥ भ्रमन्नेत्रस्तन्द्राकुलितविकलाङ्गोऽतिविवशः समुद्भूतस्वेदोऽनधिगतनिजाभीप्सितलवः । सदा मानी दुःशासन इति स दुर्योधनहिता- भिलाषी पापात्मा न्यपतददधमस्तत्र सदसि ॥ १९० ॥ भ्रमन्नेव इति । तन्द्रा आलस्यं तया आकुलितानि विकलानि विह्वलान्यङ्गानि यस्य सः ॥ पाण्डवैस्तु तदानीं तत्प्रभावो ज्ञात इत्याह- विना दीनोद्धारं भवजलधितारं व्रजवधू- हृदो हारं रूपद्रविणजितमारं नरवरम् । ग काव्यमाला कृपापारावार क इह दयितां रक्षितुमलं पृथापुत्रैरेवं मनसि नियतं तर्कितमभूत् ।। १९१: ।। बिनेति । मारः कामः । मदनो मन्मथो भारः' इत्यमरः । तर्कितं विचारितम् ॥ प्रस्तुतां कथामुपसंहरन्सर्वेषां सं एवं शरण्य इत्याह--- इति स्त्रीयान्मक्तानवतिः बहुधाऽकारणसुहृ- त्प्रदेशोऽयं कश्चित्कथित इह दृष्टान्तविधये । रजःपुञ्जानुर्व्यां दिवि च गणयेद्योऽपि भगणं न शक्तः सोऽप्यस्याखिलगुणगणान्संकलयितुम् ।। १९२ ॥ इतीति । प्रदेश दिक्प्रदर्शनम् । संकलयितुं वक्तुम् ॥ ते विहाय तव कुत्रापि स्थैर्यं न भविष्यतीति चित्तं प्रत्याह- कलाः सर्वा ज्ञात्वा भ्रमधनकृते चित्तजगति क्षितीशानाराध्य द्रविणनिचयानर्जय बहून् । अनेकैः शास्त्रोत्थैर्विमलय यशोभिर्जगदिदं हरौ हित्वा प्रेम क्वचिदपि गतिर्नास्ति भवतः ॥ १९३... कला इति । स्पष्टम् ॥ तद्भजनं विना सर्वं व्यर्थमित्याह--- अविद्येयं विद्या भवति भगवद्भक्तिरहिता न चेद्विष्णोः प्रेमप्रसमरमहानन्दमहिता । न तावञ्चाञ्चल्यं त्यजति च मनोवृत्तिविहगी न यावच्छ्रीकृष्णसरणरसंसिन्धौ निपतति ।। १९४ ॥ अविद्येति । भगवद्भक्तिरहिता विद्याप्यकिंचित्करत्वादविद्यैव । “सा विद्या तन्मति- र्यया' इत्युक्तत्वात् ॥ न केवलं कथामात्रमिदम् । उपदेशोऽप्ययं सर्वेषामित्याह- इति स्मारं स्मारं तव गुणगणान्यादवपते मनोदूतं योऽन्यस्त्वयि निजकृते प्रेषयति चेत् । मुञ्चस्येनं तत्प्रणयरशनाशृङ्खलितहृ द्विभो भक्ताधीन श्रुतिशिखरमृग्योऽपि भगवन् ॥ १९५ ।। इतीति । स्पष्टम् ॥ मनोदूतम् स्वद्भजनं विना कथं मे संसारतरणं भविष्यतीति शोचन्नाह-- अये संसाराब्धौ महति पतितोऽघौघनिचितः कलत्रापत्यस्वप्रणयविवशः सत्यरहितः । सदा लोभक्रोधस्मरपरवशो भक्तिरहितः प्रभो संसाराब्धिं कथमिव तरिष्यामि भगवन् ॥ १९६ ।। अये इति । अघौघेति । 'कलुषं वृजिनैनोघम्' इत्यमरः ॥ निःसाधनस्य मे करुणाकूपारेण भवतैवोद्धारः कर्तव्य इत्याह-- मदुद्धारे हेतून्यदि मृगयसे हन्त कठिनो विधिः पापात्माहं विषयविवशो भक्तिरहितः दयालुश्चेत्सत्यं यदि भवसि निःसाधनमपि प्रभो दीनं मामुद्धर करुणया दुःखजलधेः ॥ १९७ ॥ मदुद्धारे इति । विधिः प्रकारः कठिनः । साधनहीनत्वान्ममेत्यर्थः ।। सांप्रतं त्वच्चरितामृतश्रवणेनैव संसारतरणम् , नान्योपाय इत्याह---- तिरोधाय स्वीयं त्रिभुवनमनोहारि ललितं स्वरूपं यच्व्द्यानाद्भवति कृतकृत्यो जन इह । कथं मुच्येतासौ पुनरिति विचिन्त्य स्वचरिता- मृताब्धिं यस्तेने स वसतु मदीये हृदि हरिः ॥ १९८ ॥ तिरोधायेति । स्पष्टम् ॥ स कोऽपि श्रीगोपीजनहृदयहारी प्रतिदिनं सदा ध्येयो नान्यः प्लव इह भवाम्भोधितरणे यदीयं नामेदं जगघभिदादीक्षितमहो स्मरन्भक्तः प्रेमामृतरसनिमयो विजयते ॥ १९९ ।। स कोऽपीति ! स्पष्टम् ॥ अत्र ग्रन्थे गुणालंकाररसायभावेऽपि भक्तानां रुचिर्भगवद्गुणवर्णनासक्तानां सहृदयानां भविष्यत्येवेत्याह- न संदर्भ प्रौढिर्न च गुणसमूहो न कविता- परीपाकः कश्चित्पदसुघटनाप्यत्र न तथा । काव्यमाला । तथापि श्रीकान्तप्रगुणकथनेनात्र सुधियां भवेचित्तासक्तिर्यदि फलवती स्यात्कृतिरियम् ॥ २०० ।। न संदर्भ इति । स्पष्टम् ॥ भगवत्परायणैस्तचरितामृतश्रवणलुब्धैरिदमवश्यमादरणीयमेवेति प्रार्थयते- यदि श्रीमन्नन्दात्मजचरणराजीवमधुनः समास्वादासक्तो भवति भवतां चित्तमधुपः । कथायां वा तुच्छीकृतसुरसुधायां मधुरिपो- र्मनोदूतं काव्यं शृणुत सरसं भक्तिरसिकाः ॥ २०१ ।। यदीति । स्पष्टम् । भङ्ग्यन्तरेण काव्योत्पत्तिमाह - स्थिताद्वृन्दारण्ये तरणितनयातीरलहरी- परीरम्भादम्भःपृषतयुजि वंशीवटतले । सकान्ताच्छ्रीकान्तादधिगतवती सङ्गमनघा मतिर्मे प्रासूत ध्रुवमिह मनोदूततनयम् ।। २०२ ।। स्थितादिति । स्पटम ॥ वैदेन्दुवसुशीतांशु(१८१४) मितेऽब्दे मार्गशीर्षके सिताष्टम्यामिदं काव्यमर्पितं हरिपादयोः ।। नराणां धौरेयः सकलविदुषां शेखरमणि- र्वदान्यानामंग्रेसर इह महाभाग्यसुभगः कलानां सर्वासां सदनमतिसौजन्यललितो गुणानामागारो जयति हरिदत्तः प्रभुरसौ. ।। तदीयाया निष्कारणशुभदयायाः परिणम त्प्रकष्टोदर्काया जगति विदितः पात्रमिह यः । ततो योगक्षेमावधिगतवतस्तस्य च कवेः कृतिविद्वद्वन्द्यान्मुखयतु दयालुन्मयि जडे । इति श्रीमत्तैलङ्गान्वयश्रीभूधरमहात्मजश्रीरामकृष्णतनयपञ्चनदान्वयव्रजनाथ- विरचितं मनोदूताभिधं सहृदयहृदयाह्लादनापरनामधेयं काव्यं स्वकृत- मञ्जुभाषिण्या टीकया समेत समाप्तम् ।