साधनदीपिका/अष्टमकक्षा
← सप्तमकक्षा | साधनदीपिका अष्टमकक्षा [[लेखकः :|]] |
नवमकक्षा → |
(८)
अष्टकक्षा
श्रीश्रीराधाकृष्णाभ्यां नमः
श्रीमद्रूपपदाम्भोजद्वन्द्वं वन्दे मुहुर्मुहुः ।
यस्य प्रसादादज्ञोऽपि तन्मतज्ञानभाग्भवेत् ॥
यस्तु श्रीकृष्णचैतन्यस्याज्ञया स्वगृहं हरेः ।
त्यक्त्वा स्वर्गोपमं सद्य प्रयागे तं ददर्श ह ॥
तं दृष्ट्वा परमप्रीतः श्रीशचीनन्दनो हरिः ।
स्नेहात्तं शिक्षयामास भक्तिसिद्धान्तमाधुरीम् ॥
कृष्णतत्त्वं भक्तितत्त्वं रसतत्त्वं पृथक्पृथक् ।
सञ्चार्य शक्तिं स्वां तस्मिन् कृपया करुणानिधिः ॥
पुनस्तं कथयामास गच्छ त्वं वृन्दिकावनम् ।
सेवां प्राकाशयस्तत्र श्रीगोविन्दस्य मोहिनीम् ॥
स्वयं बगवतस्तस्य मौनमुद्राधरस्य तु ।
दर्शनादेर्जनादीनां प्रेमभक्तिर्भविष्यति ॥
लुप्ततीर्थप्रकटनं भक्तिशास्त्रस्य तत्तथा ।
अकिञ्चनानां भक्तानां पालनं सर्वथापि च ॥
महाप्रभोर्वचः श्रुत्वा श्रीरूपो विरहातुरः ।
पतित्वा दण्डवद्भूमौ ननाम च पुनः पुनः ॥
प्रभोराज्ञापालनार्थं गत्वा वृन्दावनान्तरे ।
न दृष्ट्वा श्रीवपुस्तत्र चिन्तितः स्वान्तरे सुधीः ॥
व्रजवासिजनानां तु गृहेषु च वने वने ।
ग्रामे ग्रामे न दृष्ट्वा तु रोदितश्चिन्तितो बुधैः ॥
एकदा वसतस्तस्य यमुनायास्तटे शुचौ ।
व्रजवासिजनाकारः सुन्दर कश्चिदागतः ॥
तं दृष्ट्वा कथितं तेन हे यते दुःखितो नु किम् ।
तच्छ्रुत्वा वचनं तस्य स्नेहकर्षितमानसः ॥
प्रेमगम्भीरया वाचा दूरीकृतमनःक्लमः ।
कथयामास तं सर्वं निदेशं श्रीमहाप्रभोः ॥
स श्रुत्वा सर्ववृत्तान्तमागच्छेति ध्रुवन्नमुम् ।
गुमाटिला इति ख्याते तत्र नीत्वाब्रवीत्पुनः ॥
अत्र काचिद्गवां श्रेष्ठा पूर्वाह्ने समुपागता ।
दुग्धश्रावं विकुर्वाणाप्यहन्यहनि याति भोः ॥
स्वमनसि विमृश्यैतदुचितं कुरु याम्यहम् ।
श्रीरूपस्तद्वचः श्रुत्वा रूपं दृष्ट्वा च मूर्च्छितः ॥
पुनः क्षणान्तरे धीरः धैर्यं धृत्वोपचिन्तयन् ।
ज्ञातसर्वरहस्योऽपि लोकानुकृतचेष्टितः ॥
व्रजवासिजनानाह श्रीगोविन्दोऽत्र विद्यते ।
एतच्छ्रुत्वा तु ते सर्वे प्रेमसम्भिन्नचेतसः ॥
मिलित्वा बालवृद्धैश्च तां भूमिं समशोधयत् ।
योगपीठस्य मध्यस्थं पश्यन् तं कृष्णमीश्वरम् ॥
साक्षाद्व्रजेन्द्रतनयं कोटिमन्मथमोहनम् ।
रुरुधुस्तां धरां यत्नाद्रामस्याज्ञानुसारतः ॥
ब्रह्मकुण्डतटोपान्ताद्वृन्दादेवी प्रकाशिता ।
प्रभोराज्ञाबलेनापि श्रीरूपेण कृपाब्धिना ।
गुरौ मे हरिदासाख्ये श्रीश्रीसेवा समर्पिता ॥
तथा हि श्रीचैतन्यचरितामृते
पण्डित गोसाञिर शिष्य अनन्त आचार्य
कृष्णप्रेममयतनु उदार महा आर्य
ताङ्हार अनन्त गुण के करु प्रकाश
ताङ्हार प्रिय शिष्य पण्डित हरिदास
तत्रैव
सेवार अध्यक्ष श्रीपण्डित हरिदास
याङ्र यश गुण स्रवजगते प्रकाश
तत्रैव हि
पाञा याङ्र आज्ञाधन व्रजेर वैष्णवगण
वन्दो ताङ्र मुख्य हरिदास
श्रीमद्रूपपदद्वन्द्वे हृदि मे स्फुरतां सदा ।
रागानुगाधिकारी स्याद्यत्कृपालवमात्रतः ॥
श्रीरूपमञ्जरी कुर्यादतुलां करुणां मयि ।
वृषभानुसुतापादपद्मप्राप्तिर्यया भवेत् ॥
स्वरूपो हरिदासश्च रूपाद्यो रघुनाथकः ।
रूपः सनातनः श्रीमान् जन्मजन्मनि मे गतिः ॥
तत्र अखिलभगवद्धामसु मुख्यतमब्रह्मादिवन्द्यलक्ष्म्याद्य्अप्राप्य
श्रुत्य्आद्य्अन्वेषणीयश्रीमद्राधागोविन्दचरणैकनिलयश्रीमद्व्रज
मण्डलाचार्यः श्रीरूप एव श्रीराधिकायाः प्रियनर्मसखीवर्गेषु श्रीरूप
रतिमञ्जर्य्आदिषु मुख्या श्रीरूपमञ्जरी । अस्या एवानुगत्ये श्रीराधाप्राण
बन्धोश्चरणकमलयोः केशशेषाद्य्अगम्या इति या प्रेमसेवा सैव स्यात् । अत्र
प्रमाणानि श्रीरघुनाथदासगोस्वामिपादानां मनःशिक्षायाम्
मनःशिक्षादैकादशकवरमेतन्मधुरया
गिरा गायत्युच्चैः समधिगतसर्वार्थयति यः ।
सयूथः श्रीरूपानुग इह भवन् गोकुलवने
जनो राधाकृष्णातुलभजनरत्नं स लभते ॥
श्रीवैष्णवतोषण्याम् (१०.१)
श्रीमच्चैतन्यरूपस्ते प्रीत्यै गुणवतोऽखिलम् ।
भूयादिदं यदादेशबलेनैव विलिख्यते ॥
श्रीमद्बृहद्भागवतामृते (१.१.११)
भगवद्भक्तिशास्त्राणामहं सारस्य सङ्ग्रहः ।
अनुभूतस्य चैतन्यदेवे तत्प्रियरूपतः ॥
तत्रैव पूर्वखण्डे टीकायां (१.१.१)
नमश्चैतन्यदेवाय स्वनामामृतसेविने ।
यद्रूपाश्रयणाद्यस्य भेजे भक्तिमयं जनः ॥
तत्रैव टीकायां शेषे
स्वयं प्रवर्तितैः कृत्स्नैर्ममैतल्लिखनश्रमैः ।
श्रीमच्चैतन्यरूपोऽसौ भगवान् प्रीयतां सदा ॥
अस्य टीकाश्रीमान् चैतन्यश्चैतन्यसंज्ञया प्रसिद्धः श्रीशचीनन्दनस्तत्
स्वरूपस्तन्मूर्तिर्वा भगवान् श्रीकृष्णदेवः । पक्षे श्रीमान् चैतन्यस्य
तस्यैव प्रियसेवको रूपस्तत्संज्ञको वैष्णववरः । ततश्च भगवानिति ।
आयतिं नियतिं चैव भूतानामागतिं गतिम् ।
वेत्ति विद्यामविद्यां च स वाचो भगवानिति ॥ इत्यभिप्रायेणेति दिक् ।
यथा भ्रातृसम्बन्धे श्रीकृष्णलीलायां कृष्णबलदेवौ च गौरलीलायां
चैतन्यनित्यानन्दौ च विराजतः, तत्तत्परिकरत्वे तत्तद्अनुसारेण रूप
सनातनौ प्रसिद्धावेव । यद्यपि तेषां मध्ये भेदः कोऽपि नास्ति, तथापि लीला
शक्त्य्अनुसारेण श्रीकृष्णचैतन्यरूपपादानां मुख्यं मतमिदं ज्ञेयम्
। तथा हि चैतन्यचरितामृते श्रीमहाप्रभोराज्ञा
आजि हेते नाम दुङ्हार रूप सनातन
दैन्य छाडि तोमार दैन्ये फाटे मोर मन
श्रीसन्दर्भाद्ये
तौ सन्तोषयता सन्तौ श्रीलरूपसनातनौ ।
दाक्षिणात्येन भट्टेन प्नुअरेतद्विविच्यते ॥
श्रीदासगोस्वामिनः स्वनियमदशके (१)
गुरौ मन्त्रे नाम्नि प्रभुवरशचीगर्भजपदे
स्वरूपे श्रीरूपे गणयुजि तदीयप्रथमजे । इत्यादि ।
तथा हि, श्रीसन्दर्भशेषेश्रीश्रीभगवत्कृष्णचैतन्यदेवचरणानुचर
विश्ववैष्णवराजसभाजनभाजनश्रीरूपसनातनेत्यादि ।
तत्र श्रीकृष्णदासकविराजमहानुभावानां
हा राधे क्व नु कृष्ण क्व ललिते क्व त्वं विशाखेऽसि हा
हा चैतन्यमहाप्रभो क्व नु भवान् हा श्रीस्वरूप क्व वा ।
हा श्रीरूपसनातनेत्यनुदिनमित्यादि ।
तत्र
शिवानन्द सेनेर पुत्र कवि कर्णपूर
दुङ्हार मिलन ग्रन्थे लिखियाछेन प्रचुर
तस्य चैतन्यचन्द्रोदयनाटके द्वयोर्मिलनं, यथा (९.३८)
कालेन वृन्दावनकेलिवार्ता
लुप्तेति तां ख्यापयितुं विशिष्य ।
कृपामृतेनाभिषिषेच देवस्
तत्रैव रूपं च सनातनं च ॥
तत्रैव श्रीरूपे विशेषतो, यथा (९.२९)
यः प्रागेव प्रियगुणगणैर्गाढबद्धोऽपि मुक्तो
गेहाध्यासाद्रस इव परो मूर्त एवाप्यमूर्तः ।
प्रेमालापैर्दृढतरपरिष्वङ्गरङ्गैः प्रयागे
तं श्रीरूपं सममनुपमेनानुजग्राह देवः ॥९.२९॥
तत्रैव शक्तिसंचारो, यथा (९.३०)
प्रियस्वरूपे दयितस्वरूपे
प्रेमस्वरूपे सहजाभिरूपे ।
निजानुरूपे प्रभुरेकरूपे
ततान रूपे स्वविलासरूपे ॥
तथा हि चैतन्यचरितामृते च
लोकभिडभये गोसाञि दशाश्वमेध याञा
रूपगोसाञिके शिक्षा करान् शक्ति सञ्चारिया
कृष्णतत्त्व भक्तितत्त्व रसतत्त्व प्रान्त
सब शिखाइला प्रभु भागवतसिद्धान्त
पुनस्तत्रैव मध्यलीलानुवादकथने
तार मध्ये श्रीरूपेर शक्तिसञ्चारण ।
विंशतिपरिच्छेदे सनातनेर मिलन ॥
तत्रैव श्रीलरूपपादकृतश्लोकः
प्रियः सोऽयं कृष्णः सहचरि कुरुक्षेत्रमिलितस्
तथाहं सा राधा तदिदमुभयोः सङ्गमसुखम् ।
तथाप्यन्तःखेलन्मधुरमुरलीपञ्चमजुषे
मनो मे कालिन्दीपुलिनविपिनाय स्पृहयति ॥
मूढ मोर हृदय तुमि जानिला केमने
एत बुलि रूपे कैला प्रेमालिङ्गने
सेइ श्लोक प्रभु लेया स्वरूपे देखाइला
रूपेर परीक्षा लागि ताहारे पुछिला
मोर अन्तर वार्ता रूप जानिल केमने
स्वरूप कहे तुमि कृपा करियाछ आपने
अन्यथा ए अर्थ कारो नाहि हय ज्ञान
तुमि पूर्वे कृपा करियाछ करि अनुमाने
प्रभु कहे मोहे इहोङ्प्रयागे मिलिला
योग्यपात्र जानि इहाङ्य मोर कृपा हैला
तबे शक्ति सञ्चारिया कैलुङुपदेश
तुमिह कहिय इहार रसेर विशेष
स्वरूप कहे यबे एइ श्लोक देखिल
तुमि कृपा करियाछ तवहिङ्जानिल इत्यादि ।
श्रीमज्जीवगोस्वामिचरणैः (श्रीमाधवमहोत्सवे २.१०६)
निखिलजनकुपूयं मां कृपापूर्णचेता
निजचरणसरोजप्रान्तदेशं निनीय ।
निजभजनपदव्यैर्वर्तयेद्भूरिशो यस्
तमिह महितरूपं कृष्णरूपं निषेवे ॥
श्रीवैष्णवतोषण्याम् (१०.१९.१६)
गोपीनां परमानन्द आसीद्गोविन्ददर्शने इति टीकायाम्भावप्रेमस्नेह
प्रणयमानरागानुरागमहाभावाख्यतया सप्तमकक्षामारूढाया रतेः
प्रपाकः श्रीमद्अनुजवरैर्विरचितोज्ज्वलनीलमनावलोकनीयः ।
तत्रैव कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः इति टीकायामेतच्च श्री
ललितमाधवादौ मद्अनुजवरैः स्पष्टं लिखितम् । टिप्पणी चसोऽसौ क्रम
जन्मतोऽनुजः परमार्थतो वरः । तथा हि मनुः
जन्मदः ब्रह्मदाता च गरीयान् ब्रह्मदः पिता ।
रुद्रयामले च
जन्मदश्च गुरुः प्रोक्तो ब्रह्मदः परमो गुरुः ।
परात्परगुरुस्तस्मात्परमेष्ठी ततः परम् ॥ इत्यादि ।
श्रीहरिभक्तिविलासे (१.२)
भक्तेर्विलासांश्चिनुते प्रबोधा
नन्दस्य शिष्यो भगवत्प्रियस्य ।
गोपालभट्टो रघुनाथदासं
सन्तोषयन् रूपसनातनौ च ॥
प्रामाणिकैरप्युक्तम्
न राधां न च कृष्णं वा न गौराङ्गमहं भजे ।
श्रीमद्रूपपदाम्भोजे धूलिर्भूयां भवे भवे ॥
ये केचिद्वृषभानुजाचरणयोः सेवापराः सज्जनाः
श्रीनन्दात्मजसेवनेऽतिरसिकाश्चैतन्यपादाश्रिताः ।
ते रूपानुगतिं सदा विदधतस्तिष्ठन्ति वृन्दावने
श्रीगोपालसनातनप्रभृतयो हृष्यन्ति चास्याज्ञया ॥
संस्कारपञ्चकैर्युक्तोऽन्यदेवान्न पूजयेत् ।
ज्ञानकर्मादिरहितः स हि रूपानुगः सुधीः ॥
गायत्रीमन्त्रो राधायां मन्त्रः कृष्णस्य तत्परम् ।
महाप्रभोर्मन्त्रवरो हरिनाम तथैव च ।
मानसी वरसेवा च पञ्चसंस्कारसंज्ञकः ॥
गोपालभट्टो रघुनाथदासः
श्रीलोकनाथो रघुनाथभट्टः ।
रूपानुगास्ते वृषभानुपुत्री
सेवापराः श्रीलसनातनाद्याः ॥
किं च
श्रीसनातनपादाब्जद्वन्द्वं वन्दे मुहुर्मुहुः ।
यत्प्रसादलवेनापि कृष्णे भक्तिरसो भवेत् ॥
श्र्युज्ज्वलनीलमणौ च (१.१)
नामाकृष्टरसज्ञः शीलेनोद्दीपयन् सदानन्दम् ।
निजरूपोत्सवदायी सनातनात्मा प्रभुर्जयति ॥
तत्र भक्तिरसामृतसिन्धौ (१.१.३)
विश्राममन्दिरत्या तस्य सनातनतनोर्मद्ईशस्य ।
भक्तिरसामृतसिन्धुर्भवतु सदायं प्रमोदाय ॥
अन्यत्र
गोविन्दपादसर्वस्वं वन्दे गोपालभट्टकम् ।
श्रीमद्रूपाज्ञया येन पृथक्सेवा प्रकाशिता ॥
श्रीराधारमणो देवः सेवाया विषयो मतः ।
कृतिना श्रीलरूपेण सोऽयं योऽसौ विनिर्मितः ॥
आज्ञायाः कारणं प्रामाणिकमुखाच्छ्रुतम् । तत्तु प्रसिद्धमेव ।
श्रीमत्प्रबोधानन्दस्य भ्रातुष्पुत्रं कृपालयम् ।
श्रीमद्गोपालभट्टं तं नौमि श्रीव्रजवासिनम् ॥
श्रीरूपचरणद्वन्द्वरागिनं व्रजवासिनम् ।
श्रीजीवं सततं वन्दे मन्देष्वानन्ददायिनम् ॥
राधादामोदरो देवः श्रीरूपकरनिर्मितः ।
जीवगोस्वामिने दत्तः श्रीरूपेण कृपाब्धिना ॥
श्रीमद्भूगर्भगोस्वामिपादा इह जयन्ति हि ।
लोकनाथेन स्वभ्रातुष्पुत्रेण व्रजमण्डले ॥
श्रीमद्रूपप्रियं श्रीलरघुनाथाख्यभट्टकम् ।
येन वंशीकुण्डलं च श्रीगोविन्दे समर्पितम् ॥
एतत्श्रीचैतन्यचरितामृते वर्णितमस्ति
रूपाद्वैततनुं वन्दे दासगोस्वामिनं वरम् ।
यत्प्राणार्बुदसर्वस्वं श्रीगोविन्दपदद्वयम् ॥
तथा
वन्दे श्रीपरमानन्दं भट्टाचार्यं रसाश्रयम् ।
रामभद्रं तथा वाणीविलासं चोपदेशकम् ॥
वृन्दावनप्रियान् वन्दे श्रीगोविन्दपदाश्रितान् ।
श्रीमत्काशीश्वरं लोकनाथं श्रीकृष्णदासकम् ॥ इति श्रीवैष्णवतोषण्याम्
।
श्रीचैतन्यप्रियतमः श्रीमद्राधागदाधरः ।
तत्परिवाररूपस्य श्रीगोविन्दप्रसेवनम् ॥
तयोः सत्प्रेमसत्पात्रं श्रीरूपः करुणाम्बुधिः ।
तत्पादकमलद्वन्द्वे रतिर्मे स्याद्व्रजे सदा ॥
श्रीमद्गौरीदासनामा पण्डितः पार्षदो हरेः ।
चैतन्यस्य प्रणयवान् पण्डिते श्रीगदाधरे ॥
अतः श्रीहृदयानन्दचैतन्यं तस्य सेवकम् ।
याचित्वा तु स्वयं निन्ये तत्सौहार्दप्रकाशयन् ॥
स्वस्य सेवाधिकारं तं दत्तवान् करुणाम्बुधिः ।
यं श्रीमद्गौरीदासं श्रीसुबलं प्रवदन्ति हि ॥
श्रीकर्णपूरगोस्वामिनां (आर्यशतके १)
श्रवसोः कुवलयमक्ष्णोर्
अञ्जनमुरसो महेन्द्रमणिदाम ।
वृन्दावनरमणीनाम्
अखिलमण्डनं हरिर्जयति ॥
श्रीमुक्ताचरिते (४)
यस्य सङ्गबलतोऽद्भुता मया
मौक्तिकोत्तमकथा प्रचारिता ।
तस्य कृष्णकविभूपतेर्व्रजे
सङ्गतिर्भवतु मे भवे भवे ॥
श्रीकर्णपूरगोस्वामिनाम्इह विलसति राधाकृष्णकुण्डाधिकारी इत्यादि ।
श्रीप्रेमिकृष्णदासाख्यमनन्तं परमं गुरुम् ।
यत्कृपालवमात्रेण श्रीगोविन्दे मतिर्भवेत् ॥
प्रभोराज्ञाबलेनापि श्रीरूपेण कृपाब्धिना ।
गुरौ मे हरिदासाख्ये श्रीश्रीसेवा समर्पिता ॥
यत्सेवाया वशः श्रीमद्गोविन्दो नन्दनन्दनः ।
पयसा संयुतं भक्तं याचते करुणाम्बुधिः ॥
किं चास्मिन् कदाचिद्वसन्तवासरावसरे रात्रौ रासमण्डले भ्रमति सति
संचारिण्याः श्रीवृषभानुसुताया आश्चर्यरूपं दृष्ट्वा तमालस्य मूले
मूर्च्छितवानिति प्रसिद्धिः ।
तस्यैव कान्तापरिचारकोऽसौ
तयोश्च दासः किल कोऽपि नाम्ना ।
स्वकीयलोकस्य तदीयदास्ये
मतिप्रवेशाय करोति यत्नम् ॥
श्रीमान् प्रतापी गोविन्दपादभक्तिपरायणः ।
भक्तश्चैतन्यपादाब्जे मानसिंहो नराधिपः ॥
प्रतापरुद्रस्त्वैश्वर्यसेवालग्नमना हरेः ।
अयं माधुर्यसेवायां लोभाक्रान्तमना नृपः ॥
महामन्दिरनिर्माणं कारितं येन यत्नतः ।
अद्यापि नृपतद्वंश्याः प्रभुभक्तिपरायणाः ॥
श्रीरघुनाथगोस्वामिपादानां (प्रार्थनामृते)
श्रीरूपरतिमञ्जर्योरङ्घ्रिसेवैकगृध्नुना ।
असङ्ख्येनापि जनुषा व्रजे वासोऽस्तु मेऽनिशम् ॥
किं श्रीकर्णपूरगोस्वामिनोक्तगौरगणोद्देशानुसारेण केषांचित्पूर्वनामानि
लिख्यन्ते (१८०१८४)
श्रीरूपमञ्जरी ख्याता यासीद्वृन्दावने पुरा ।
साद्य रूपाख्यगोस्वामी भूत्वा प्रकऋअतामियात् ॥
या रूपमञ्जरीप्रेष्ठा पुरासीद्रतिमञ्जरी ।
साद्य गौराभिन्नतनुः सर्वाराध्यः सनातनः ।
तं श्रीलवङ्गमञ्जरीत्यब्रवीत्कश्चन पण्डितः ।
अनङ्गमञ्जरी यासीत्साद्य गोपालभट्टकः ।
भट्टगोस्वामिनं केचिताहुः श्रीगुणमञ्जरी ॥
रघुनाथाख्यको भट्टः पुरा या रागमञ्जरी ।
कृतश्रीराधिकाकुण्डकुटीरवसतेः प्रभोः ॥
दासरघुनाथस्य पार्वाख्या रसमञ्जरी ।
भूगर्भठक्कुरस्यासीत्पार्वाख्या प्रेममञ्जरी.।
लोकनाथाख्यगोस्वामी श्रीलीलामञ्जरी पुरा ॥
शिवानन्दचक्रवर्ती लवङ्गमञ्जरी पुरा ॥
श्रीराधाकृष्णगणोद्देशे
कलावती रसोल्लासा गुणतुङ्गा व्रजस्थिताः ।
श्रीविशाखाकृतं गीतं गायन्ति स्माद्यता मताः ॥
गोविन्दमाधवानन्दवासुदेवा यथाक्रमम् ।
रागलेखा कलाकेलौ राधादास्यौ पुरा स्थिते ॥
एताः खलु पूर्वापरैर्देहैरभिन्नाः श्रीवृषभानुजायाः प्रियनर्मसख्योऽपि
पादमर्दनपयोदानाभिसारादिकं परिचारिका इव कुर्वन्ति यथा स्तवावल्यां
(व्रजविलासस्तवे)स्वाभिलषितपरिचरणविशेषलाभाय रङ्गणवल्लीरङ्गण
मालाप्रभृतयः । एताः परमप्रणयिसख्योऽपि परिचारिका इव व्यवहरन्ति ।
श्रीगोविन्दलीलामृते(१.८६)
तल्पप्रान्तादुपादाय कञ्चुलीं रूपमञ्जरी ।
प्रियनर्मसखी सख्यै निर्गत्य निभृतं ददौ ॥
यत्तु श्रीगणोद्देशदीपिकादौ दासीत्वेनोक्तमस्ति । तत्तु स्वयं ग्रन्थकृतत्वाद्
दैन्येनोक्तिः स्मरणमङ्गलदशश्लोकीवैष्णवरङ्गभाष्ये धृता । श्री
गोविन्दलीलामृते वर्णनं यथा (२३.८९९१)
श्रीरूपरतिमञ्जर्यौ पादसंवाहनं तयोः ।
चक्रतुश्चापरा धन्या व्यजनैस्ताववीजयन् ॥
क्षणं तौ परिचर्येत्थं निर्गताः केलिमन्दिरात् ।
सख्यस्ताः सुषुपुः स्वे स्वे कल्पवृक्षलतालये ॥
श्रीरूपमञ्जरीमुख्याः सेवापरसखीजनाः ।
तल्लीलामन्दिरबहिः कुट्टिमे शिश्यिरे सुखम् ॥
किं च
श्रीराधाप्राणतुल्या प्रियसहचरी मञ्जरी रूपपूर्वा
तस्याः प्राणाधिकप्रियतया विश्रुतानङ्गपूर्वा ।
विख्याता या किल हरिप्रियातत्पादाब्जानुगात्वे
तत्पादाब्जे स्पृहयतितरां मञ्जरी रासपूर्वा ॥
श्रीरूपमञ्जरी तस्या अनुगानङ्गमञ्जरी ।
हरिप्रियाश्च ताः सन्तु रासमञ्जरिका हृदि ॥
अथ श्रीरूपमञ्जर्य्अष्टकम्
ऐशबुद्धिवासितात्मलोकवृन्ददुर्लभा
व्यक्तरागवर्त्मरत्नदानविज्ञवल्लभा ।
सप्रियालिगोष्ठपालिकेलिकीरपञ्जरी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥१॥
भक्तिहीनमानुषेषु सानुकम्पचिन्तया
शश्वद्उन्नचित्ततानिसर्गविस्फुरद्दया ।
गोष्ठचन्द्रचेष्टितामृतावगालिनिर्झरी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥२॥
शीलसीधुसिक्तवार्षभानवीसखीगणा
नित्यतत्तद्आनुकूल्यकृत्य उच्छलन्मनाः ।
मादृशीषु मूढधीषु सर्वतः शुभङ्करी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥३॥
गौरचन्द्रशासनादुपेत्य वृन्दिकावनं
रागमार्गपान्थसाधुमण्डलैकजीवनम् ।
विश्ववर्तिभक्तकामपूर्तिकल्पवल्लरी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥४॥
धीरतागम्भीरतादिसद्गुणैकसत्खनिः
स्वानुरागरञ्जितव्रजेन्द्रसूनुहृण्मणिः ।
राधिकागिरीन्द्रधारिनित्यदासिकाचरी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥५॥
स्वाङ्घ्रिपङ्कजाशयात्र ये वसन्ति सज्जनास्
तन्निजेष्टदानकामनित्यविक्लवन्मनाः ।
स्वासृतुल्यताप्रतीतसर्वगोपसुन्दरी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥६॥
प्रौढभावभावितान्तर्उद्भ्रमालिकम्पिता
सर्वदा तथापि लोकरीतिमेत्य लज्जिता ।
कुन्दवृन्दनिन्दिकृष्णकीर्तिवादिझल्लरी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥७॥
सर्वगुह्यरम्यकेलिरूपणादिसम्पदा
तुष्टसख्यवैरिगोपिकाभिरात्तसम्पदा ।
ताभिरिष्टकृष्णसङ्गनृत्यरङ्गचर्चरी
मामुरीकरोतु नित्यदेह रूपमञ्जरी ॥८॥
रूपमञ्जरीगुणैकलेशमात्रसूचकं
यः पठेदिदं निजार्थसारवित्सद्अष्टकम् ।
सप्रियेण राधिकासुवल्लभेन तुष्यता
दीयतेऽत्र स्वाङ्घ्रिपद्मसेवनेऽस्य योग्यता ॥९॥
किं च
मताद्बहिष्कृता ये च श्रीरूपस्य कृपाम्बुधेः ।
तेषु सङ्गो न कर्तव्यो रागाध्वपथिकैः खलु ॥
तेषामन्नं फलं मूलमन्यदानादिकं च यत् ।
नाशितव्यं न पातव्यं प्राणैः कण्ठगतैरपि ॥
निष्ठाभावात्स्वाधिकारे इतरेऽपि च केवलात् ।
येषां कापि गतिर्नास्ति श्रीभागवततत्परे ॥
रुपेति नाम वद भो रसने सदा त्वं
रूपं च संस्मर मनः करुणास्वरूपम् ।
रूपं नमस्कुरु शिरः सदयावलोकं
तस्याद्वितीयसुतनुं रघुनाथदासम् ॥
यदि जन्म ह्यनेकं स्यात्श्रीरूपचरणाशया ।
तच्च स्वीकृतमस्माभिर्नान्यत्शीघ्रमिहापि च ॥
श्रीरूपानङ्गमञ्जर्योः कृपापूर्णा हरिप्रिया ।
ममानन्यगतेः स्वान्ते कृपया स्फुरतां सदा ॥
इति श्रीगोविन्ददेवसेवाधिपतिश्रीहरिदासगोस्वामिचरणानुजीवि
राधाकृष्णदासोदीरिता साधनदीपिका
इत्यष्टकक्षा
॥८॥