साधनदीपिका/चतुर्थकक्षा
← तृतीयकक्षा | साधनदीपिका चतुर्थकक्षा [[लेखकः :|]] |
पञ्चमकक्षा → |
(४)
चतुर्थकक्षा
अथ श्रीगोपालदेवमन्त्रमाहात्म्यम् ।
मन्त्रास्तु कृष्णदेवस्य साक्षाद्भगवतो हरेः ।
सर्वावतारबीजस्य सर्वतो वीर्यवत्तमा ॥
तथा च बृहद्गौतमीये श्रीगोविन्दवृन्दावनाख्ये
सर्वेषां मन्त्रवर्याणां श्रेष्ठो वैष्णव उच्यते ।
विशेषात्कृष्णमनवो भोगमोक्षैकसाधनम् ॥
यस्य यस्य च मन्त्रस्य यो यो देवस्तथा पुनः ।
अभेदात्तन्मनूनां च देवता सैव भाष्यते ॥
कृष्ण एव परं ब्रह्म सच्चिदानन्दविग्रहः ।
स्मृतिमात्रेण तेषां वै भुक्तिमुक्तिफलप्रदः ॥
तत्रापि भगवत्तां स्वां तन्वतो गोपलीलया ।
तस्य श्रेष्ठतमा मन्त्रास्तेष्वप्यष्टादशाक्षरः ॥
अथाष्टादशाक्षरमाहात्म्यं तापनीश्रुतिषु
ओं मुनयो ह वै ब्रह्माणमूचुः । कः परमो देवः । कुतो मृत्युर्बिभेति ।
कस्य ज्ञानेनाखिलं ज्ञातं भवति । केनेदं विश्वं संसरतीति । तानु होवाच
ब्राह्मणः कृष्णो वै परमं दैवतम् । गोविन्दान्मृत्युर्बिभेति । गोपीजन
वल्लभज्ञानेनाखिलं ज्ञातं भवति । स्वाहयेदं संसरतीति । तमु होचुः । कः
कृष्णो गोविन्दः कोऽसौ गोपीजनवल्लभः कः का स्वाहेति । तानुवाच ब्राह्मणः
पापकर्षणो गोभूमिवेदविदितो वेदिता गोपीजनाविद्याकलाप्रेरकस्तन्माया
चेति । सकलं परं ब्रह्मैव तत् । यो ध्यायति रसति भजति सोऽमृतो भवति सोऽमृतो
भवतीति । ते होचुः किं तद्रूपं किं रसनं कथं वाहो तद्भजनम् । तत्
सर्वं विविदिषतामाख्याहीति । तदु होवाच हैरण्यः गोपवेशमभ्राभं
तरुणं कल्पद्रुमाश्रितम् ॥ (ङ्टू १.२८)
किं च, तत्रैवाग्रे
भक्तिरस्य भजनम् । तदिहामुत्रोपाधिनैरास्येनैवामुष्मिन्मनःकल्पनम्
। एतदेव च नैष्कर्म्यम् ।
कृष्णं तं विप्रा बहुधा यजन्ति
गोविन्दं सन्तं बहुधाराधयन्ति ।
गोपीजनवल्लभो भुवनानि दध्रे
स्वाहाश्रितो जगदेजय्जत्स्वरेताः ॥१६१॥ (ङ्टू १.१४१५)
वायुर्यथैको भुवनं प्रविष्टो
जन्ये जन्ये पञ्चरूपो बभूव ।
कृष्णस्तथैकोऽपि जगद्धितार्थं
शब्देनासौ पञ्चपदो विभाति ॥१६२॥ इति । (ङ्टू १.१६)
किं च तत्रैवोपासनविधिकथनानन्तरम्
एको वशी सर्वगः कृष्ण ईड्य
एकोऽपि सन् बहुधा यो विभाति ।
तं पीठस्थं येऽनुभजन्ति धीरास्
तेषां सुखं शाश्वतं नेतरेषाम् ॥१६३॥ (ङ्टू
नित्यो नित्यानां चेतनश्चेतनानाम्
एको बहूनां यो विदधाति कामान् ।
तं पीठगं येऽनुभजन्ति धीरास्
तेषां सिद्धिः शाश्वती नेतरेषाम् ॥१६४॥
एतद्विष्णोः परमं पदं ये
नित्यमुक्ताः संयजन्ते न कामान् ।
तेषामसौ गोपरूपः प्रयत्नात्
प्रकाशयेदात्मपदं तदैव ॥१६५॥
यो ब्रह्माणं विदधाति पूर्वं
यो विद्यास्तस्मै गोपायति स्म कृष्णः ।
तं ह दैवमात्मबुद्धिप्रकाशं
मुमुक्षुर्वै शरणमनुव्रजेत ॥१६६॥
जपसङ्ख्या यथा गौतमीयतन्त्रे (१५.४)अनेन लक्षजापेन कृष्णं पश्यति
चक्षुषा । अनेनेति प्रत्यक्षेण स्वरूपेण स्वप्नेन वा कृष्णसाक्षात्कारो भवतीत्य्
अर्थः ।
पुरश्चरणादिविधिस्तु श्रीब्रह्मसंहितागोपालतापनीहरिभक्तिविलास
टीकायां द्रष्टव्यः । स तु विशेषतो योगपीठे द्रष्टव्यः ।
ओंकारेणान्तरितं ये जपन्ति
गोविन्दस्य पञ्चपदं मनुम् ।
तेषामसौ दर्शयेदात्मरूपं
तस्मान्मुमुक्षुरभ्यसेन्नित्यशान्त्यै ॥१६७॥
तस्मादन्ये पञ्चपदादभूवन्
गोविन्दस्य मनवो मानवानाम् ।
दशार्णाद्यास्तेऽपि सङ्क्रन्दनाद्यैर्
अभ्यस्यन्ते भूतिकामैर्यथावत् ॥१६८॥
किं च तत्रैव
तदु होवाच ब्राह्मणोऽसावनवरतं मे ध्यातः स्तुतः परार्धान्ते सोऽबुध्यत
। गोपवेशो मे पुरुषः पुरस्तादाविर्बभूव । ततः प्रणतेन मयाऽनुकूलेन
हृदा मह्यमष्टादशार्णं स्वरूपं सृष्टये दत्त्वान्तर्हितः । पुनः सिसृक्षा मे
प्रादुरभूत् । तेष्वक्षरेषु भविष्यज्जगद्रूपं प्रकाशयत् । तदिह कादापो
। लात्पृथिवी । ईतोऽग्निः । बिन्दोरिन्दुः । तन्नादादर्क इति क्लींकारादसृजम् ।
कृष्णादाकाशं यद्वायुरित्युत्तरात्सुरभिं विद्यां प्रादुरकार्षम् । तद्उत्तरात्
तद्उत्तरात्स्त्रीपुमादि चेदं सकलमिदमिति ॥१६९॥
तथा च गौतमीये
क्लींकारादसृजद्विश्वमिति प्राह श्रुतेः शिरः ।
लकारात्पृथिवी जाता ककाराज्जलसम्भवः ॥१७०॥
ईकाराद्वह्निरुत्पन्नो नादादायुरजायत ।
बिन्दोराकाशसम्भूतिरिति भूतात्मको मनुः ॥
स्वाशब्देन च क्षेत्रज्ञो हेति चित्प्रकृतिः परा ।
तयोरैक्यसमुद्भूतिर्मुखवेष्टनवर्णकः ॥
अतएव हि विश्वस्य लयः स्वाहार्णके भवेत् ॥१७१॥
पुनश्च सा श्रुतिः
एतस्यैव यजनेन चन्द्रध्वजो गतमोहमात्मानं वेदयित्वा ओंकारान्तरालकं
मनुमावर्तयत्सङ्गरहितोऽभ्यानयत् । तद्विष्णोः परमं पदं सदा पश्यन्ति
सूरयः । दिवीव चक्षुराततम् । तस्मादेनं नित्यमभ्यसेत् ॥१७२॥ इत्यादि ।
तत्रैवाग्रे
यस्य पूर्वपदाद्भूमिर्द्वितीयात्सलिलोद्भवः ।
तृतीयात्तेज उद्भूतं चतुर्थाद्गन्धवाहनः ॥१७३॥
पञ्चमादम्बरोत्पत्तिस्तमेवैकं समभ्यसेत् ।
चन्द्रध्वजोऽगमद्विष्णुः परमं पदमव्ययम् ॥१७४॥
ततो विशुद्धं विमलं
विशोकमशेषलोभादिनिरस्तसङ्गम् ।
यत्तत्पदं पञ्चपदं तदेव
स वासुदेवो न यतोऽन्यदस्ति ॥१७५॥
तमेकं गोविन्दं सच्चिद्आनन्दविग्रहं पञ्चपदं वृन्दावनसुरभूरुह
तलासीनं सततं समरुद्गणोऽहं परमया स्तुत्या तोषयामि ॥१७६॥ इति ।
किं च स्तुत्य्अनन्तरम्
अमुं पञ्चपदं मन्त्रमावर्तयेद्यः स यात्यनायासतः केवलं तत्पदं तत्
। अनेजदेकं मनसो जवीयो नैतद्देवा आप्नुवन् पूर्वमर्शात् ।
तस्मात्कृष्ण एव परो देवस्तं ध्यायेत्तं रसेत्तं यजेदिति ओं तत्सदिति ।
त्रैलोक्यसंमोहनतन्त्रे च, देवीं प्रति श्रीमहादेवोक्ताष्टादशाक्षर
प्रसङ्ग एव
धर्मार्थकाममोक्षाणामीश्वरो जगद्ईश्वरः ।
सन्ति तस्य महाभागा अवताराः सहस्रशः ॥
तेषां मध्येऽवताराणां बालत्वमतिदुर्लभम् ।
अमानुषाणि कर्माणि तानि तानि कृतानि च ॥
शापानुग्रहकर्तृत्वे येन सर्वं प्रतिष्ठितम् ।
तस्य मत्न्रं प्रवक्ष्यामि साङ्गोपाङ्गमनुत्तमम् ॥
यस्य विज्ञानमात्रेण नरः सर्वज्ञतामियात् ।
पुत्रार्थी पुत्रमाप्नोति धर्मार्थी लभते धनम् ॥
सर्वशास्त्रार्थपारज्ञो भवत्येव न संशयः ।
त्रैलोक्यं च वशीकुर्यात्व्याकुलीकुरुते जगत् ॥
मोहयेत्सकलं सोऽपि मारयेत्सकलान् रिपून् ।
बहुना किमिहोक्तेन मुमुक्षुर्मोक्षमाप्नुयात् ॥
यथा चिन्तामणिः श्रेष्ठो यथा गौश्च यथा सती ।
यथा द्विजो यथा गङ्गा तथासौ मन्त्र उत्तमः ॥
यथावदखिलश्रेष्ठं यथा शास्त्रं तु वैष्णवम् ।
यथा सुसंस्कृता वाणी तथासौ मन्त्र उत्तमः ॥
किं च
अतो मया सुरेशानि प्रत्यहं जप्यते मनुः ।
नैतेन सदृशः कश्चिद्जगत्यस्मिन् चरचरे ॥
सनत्कुमारकल्पेऽपि
गोपालविषया मन्त्रास्त्रयस्त्रिंशत्प्रभेदतः ।
तेषु सर्वेषु मन्त्रेषु मन्त्रराजमिमं शृणु ॥
सुप्रसन्नमिमं मन्त्रं तन्त्रे सम्मोहनाह्वये ।
गोपनीयस्त्वया मन्त्रो यत्नेन मुनिपुङ्गव ॥
अनेन मन्त्रराजेन महेन्द्रत्वं पुरन्दरः ।
जगाम देवदेवेशो विष्णुना दत्तमञ्जसा ॥
दुर्वाससः पुरा शापादसौभाग्येन पीडितः ।
स एव सुभगवत्वं वै तेनैव पुनराप्तवान् ॥
बहुना किमिहोक्तेन पुरश्चरणसाधनैः ।
विनापि जपमात्रेण लभते सर्वमीप्सितम् ॥
प्रभुं श्रीकृष्णचैतन्यं तं नतोऽस्मि गुरूत्तमम् ।
कथञ्चिदाश्रयाद्यस्य प्राकृतोऽप्युत्तमो भवेत् ॥
इति श्रीहरिभक्तिविलासे मन्त्रमाहात्म्यकथने श्रीगोपालमन्त्रमाहात्म्य
कथनम् । तत्र मन्त्रोद्धारणं च यथा ब्रह्मसंहितायां (५.२४) च
कामः कृष्णाय गोविन्द ङे गोपीजन इत्यपि ।
वल्लभाय प्रिया वह्नेर्मन्त्रं ते दास्यति प्रियम् ॥
ककारो लीलाशक्तिः । लकारो भूशक्तिः । ईकारः श्रीशक्तिः मकारस्तत्त्व
विशिष्टः । कृष्णायेति सर्वचित्ताकर्षकायेति । अथवा
कृषिशब्दश्च सत्तार्थो णश्चानन्दस्वरूपकः ।
सुखरूपो भवेदात्मा भावानन्दमयत्वतः ॥ इति ।
गोविन्दायेति पूर्ववत् । गामिन्द्रियकुलं विन्दतीति गोविन्दः । गां गोवर्धनम्
उद्धृत्य परमैश्वर्यप्रदत्वेन रक्षति पालयतीति गोविन्दस्तस्मै । गोपीजन
वल्लभायेति
गोपीति प्रकृतिं विद्याज्जनस्तत्त्वसमूहकः ।
अनयोराश्रयो व्याप्त्या कारणत्वेन चेश्वरः ।
पूर्वार्थे स्वाहेत्यस्य तथातथाभूतायात्मानं समर्पयामि । तत्र क्रम
दीपिकायाम् (१.१)
कलात्तमायालवकात्तमूर्तिः
कलक्वणद्वेणुनिनादरम्यः ।
श्रितो हृदि व्याकुलयंस्त्रिलोकी
श्रियेऽस्तु गोपीजनवल्लभो वः ॥
अथ संमोहनतन्त्रोद्धारणम्
वाग्भवं मदनशक्तिमिन्दिरा
संयुतः सकलविद्ययाञ्चितः ।
मन्त्र एष भुवनार्ण ईरितो
व्यत्ययेन सकल इष्टसाधकः ॥
अथ मन्त्रसिद्धिलक्षणं
आदावृष्य्आदिन्यासः स्यात्करशुद्धिस्ततः परम् ।
अङ्गुलीव्यापकन्यासो हृदादिन्यास एव च ॥
तालत्रयं च दिग्बन्धः प्राणायामस्ततः परम् ।
ध्यानपूजा जपश्चैव सर्वतन्त्रेष्वयं विधिः ॥
न्यासविधिःश्रीव्रजाचार्यश्रीमद्रूपगोस्वामिभजनानुसारेण ।
अहङ्काराधिष्ठातृत्वाद्भूतशुद्धेरधिदेवाय सङ्कर्षणाय नमः । हे
सङ्कर्षणदेव प्रसीद कृपां कुरु । अस्य जनस्य देहरूपेण परिणतं भूत
पञ्चकं यथा सद्यः शुध्येदुपासनोपयुक्तं स्यात्तथा कृपां कुरु ।
अथ मातृकाध्यानम्
चिकुरकलितपिञ्छां पीनतुङ्गस्तनाभ्यां
करजलरुहि विद्यां दक्षिणे पद्मरूपाम् ।
दधिघटमपि सव्ये बिभ्रतीं तुङ्गविद्याम्
अमृतकिरणकान्तिं मातृकामूर्तिमीडे ॥
केशवकीर्तिकादिध्यानम्
कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमानाव्
एकैकेन प्रचुरपुलकेनोपगुढौ भुजेन ।
गौरीश्यामौ व सनयुगलं श्यामगौरं वसानौ
राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥
तत्तन्मासस्य वासुदेवोऽधिष्ठाता । स स्तोककृष्णोऽत्र ज्ञेयः । तस्य ध्यानम्
उच्यते
अभ्रश्यामं विद्युद्उद्यद्दुकूलं
स्मेरं लीलाम्भोजविभ्राजिहस्तम् ।
पिञ्छोत्तंसं वासुदेवस्वरूपं
कृष्णप्रेष्ठं स्तोककृष्णं नमामि ॥
आनन्दघनं स्मरेन्मनस्वी । तत्र कुट्टिमवरे स्फुटदीप्तयोगपीठं
विचिन्त्य
तस्माज्ज्वलायामुरुकर्णिकायां
विराजितायां स्थितिसौख्यभाजो ।
नव्याम्बुदस्वर्णविडम्बिभासौ
कृष्णं च राधां च विचिन्तयामि ॥
मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति यः ।
शतकोटिजपेनापि तस्य सिद्धिर्न जायते ॥
पुनश्च मन्त्रोद्धारणे यथा दशसंस्काराः (सारदातिलके)
जननं जीवनं चेति ताडनं रोधनं तथा ।
अथाभिषेको विमलीकरणाप्यायने पुनः ।
तर्पणं दीपनं गुप्तिर्दशैता मन्त्रसंस्क्रियाः ॥
पुनश्च
उपायास्तत्र कर्तव्याः सप्त शङ्करभाषिताः ।
भ्रामणं रोधनं वश्यं पीडनं पोषशोषणे ॥
दहनान्तं क्रमात्कुर्यात्ततः सिद्धो भवेन्मनुः ।
जपात्सिद्धिर्जपात्सिद्धिर्जपात्सिद्धिर्न संशयः ॥
अहर्निशं जपेद्यस्तु मन्त्री नियतमानसः ।
स पश्यति न सन्देहो गोपवेशधरं हरिम् ॥
अथ खण्डपुरश्चरणविधिः
सूर्योदयात्समारभ्य यावत्सूर्योदयान्तरम् ।
तावत्कालं मनुं जप्त्वा सर्वसिद्धीश्वरो भवेत् ॥
प्रथममुदयोदयम् । द्वितीये उदयास्तम् । तृतीये निष्कामाणां प्रति सतोदयम्
। चतुर्थे अस्तास्तम् । तत्र
निष्कामाणामनेनैव साक्षात्कारो भविष्यति ।
अर्थसिद्धिः सकामानां सर्वा वै भक्तिमालभेत् ॥
पञ्चाङ्गमेतत्कुर्वीत यः पुरश्चरणं बुधः ।
स वै विजयते लोके विद्यैश्वर्यसुतादिभिः ॥
एवं ग्रासाद्विमुक्तिपर्यन्तमित्यादिखण्डकरोपरागादिपुरश्चरणादि
प्रयोगमाह ।
वैशाखकृत्यं बृहद्गौतमीये
अनेन लक्षजापेन कृष्णं पश्यति चक्षुषा ।
वैशाखकृष्णप्रतिपद्यारभ्य पौर्णमासीपर्यन्तम् ॥
अथ पञ्चदिवसीप्रयोगमाह
चैत्रेऽथवा वैशाखे शुक्लैकादश्याम्
आरभ्य पौर्णमासीपर्यन्तम् ।
जपनियममयुतद्वयं मनौ
तथा चत्वरिंशत्सहस्रं दशार्णे ॥ इति ।
पूर्वसेवाख्यपुरश्चरणप्रयोगमाह क्रमदीपिकायां (५.४९६९)
सायाह्ने वासुदेवं यो नित्यमेव यजेन्नरः ।
सर्वान् कामानवाप्यान्ते स याति परमां गतिम् ॥
रात्रौ चेन्मन्मथाक्रान्तमानसं देवकीसुतम् ।
यजेद्रासपरिश्रान्तं गोपीमण्डलमध्यगम् ॥
पृथुं सुवृत्तं मसृणं वितस्ति
मात्रोन्नतं कौ विनिखन्य शङ्कुम् ।
आक्रम्य पद्भ्यामितरेतरात्त
हस्तैर्भ्रमोऽयं खलु रासगोष्ठी ॥५१॥
स्थलनीरजसूनपरागभृता
लहरीकणजालभरेण सता ।
मरुता परितापहृताध्युषिते
विपुले यमुनापुलिने विमले ॥५२॥
अशरीरनिशान्तशरोन्मथित
प्रमदाशतकोटिभिराकुलिते ।
उडुनाथकरिर्विशदीकृतदिक्
प्रसरे विचरद्भ्रमरीनिकरे ॥५३॥
विद्याधरकिन्नरसिद्धसुरैः
गन्धर्वभुजङ्गमचारणकैः ।
दारोपहितैः सुविमानगतैः
स्वस्थैरभिवृष्टसुपुष्पचयैः ॥५४॥
इतरेतरबद्धकरप्रमदा
गणकल्पितरासविहारविधौ ।
मणिशङ्कुगमप्यमुनावपुषा
बहुधा विहितस्वकदिव्यतनुम् ॥५५॥
सुदृशामुभयोः पृथग्अन्तरगं
दयितागणबद्धभुजद्वितयम् ।
निजसङ्गविजृम्भद्अनङ्गशिखि
ज्वलिताङ्गलसत्पुलकालियुजाम् ॥५६॥
विविधश्रुतिभिन्नमनोज्ञतर
स्वरसप्तकमूर्च्छनतालगणैः ।
भ्रममाणममूभिरुदारमणि
स्फुटमण्डनशिञ्जितचारुतरम् ॥५७॥
इति भिन्नतनुं मणिभिर्मिलितं
तपनीयमयिरिव भारकतम् ।
मणिनिर्मितमध्यगशङ्कुलसद्
विपुलारुणपङ्कजमध्यगतम् ॥५८॥
अतसीकुसुमाभतनुं तरुणं
तरुणारुणपद्मपलाशदृशम् ।
नवपल्लवचित्रसुगुच्छलसच्
छिखिपिच्छपिनद्धकचप्रचयम् ॥५९॥
चटुलभ्रुवमिन्दुसमानमुखं
मणिकुण्डलमण्डितगण्डयुगम् ।
शशरक्तसदृक्दशनच्छदनं
मणिराजद्अनेकविधाभरणम् ॥६०॥
असनप्रसवच्छदनोज्ज्वलसद्
वसनं सुविलासनिवासभुवम् ।
नवविद्रुमभद्रकराङ्घ्रितलं
भ्रमराकुलदामविराजितनुम् ॥६१॥
तरुणीकुचयुक्परिरम्भमिलद्
घुसृणारुणवक्षसमुक्षगतिम् ।
शिववेणुसमीरितगानपरं
स्मरविह्वलितं भुवनैकगुरुम् ॥६२॥
प्रथमोदितपीठवरे विधिवत्
प्रयजेदिति रूपमरूपमजम् ।
प्रथमं परिपूज्य तद्अङ्गवृत्तिं
मिथुनानि यजेद्रसगानि ततः ॥६३॥
दलषोडशके स्वरमूतिगणं
सहशक्तिकमुत्तमरासगतम् ।
सरमामदनं स्वकलासहित
मिथुनाह्वमथेन्द्रपविप्रमुखान् ॥६४॥
इति सम्यगमुं परिपूज्य हरिं
चतुरावृतिसंवृतमार्द्रमतिः ।
रजतारचिते चषके ससितं
सुशृतं सुपयोऽस्य निवेदयतु ॥६५॥
विभवे सति क्¸अंस्यमयेषु पृथक्
चषकेषु तु षोडशसु क्रमशः ।
मिथुनेषु निवेद्य पयः ससितं
विदधीत पुरोवदथो सकलम् ॥६६॥
सकलभुवनमोह्नं विधिं यो
नियतममुं निशि निश्युदारचेताः ।
भजति स खलु सर्वलोकपूज्यः
श्रियमतुलां समवाप्य यात्यनन्तम् ॥६७॥
निशि वा दिनान्तसमये
प्रपूजयेन्नित्यशोऽच्युतं भक्त्या ।
समपहलमुभयं हि ततः
संसाराब्धिं समुत्तितीर्षति यः ॥६८॥
इत्येवं मनुविग्रहं मधुरिपुं यो वा त्रिकालं यजेत्
तस्यैवाखिलजन्तुजातदयितस्याम्भोधिजावेश्मनः ।
हस्ते धर्मसुखार्थमोक्षतरवः सद्वर्गसम्प्रार्थिताः
सान्द्रानन्दमहारसद्रवमुचो येषां फलश्रेणयः ॥६९॥
नित्यकृत्यप्रयोगमाह
ओं नमः श्रीकृष्णाय ।
ओमस्य श्रीभगवद्गीतामालामत्रस्य भगवान् वेदव्यास ऋषोरनुष्टुप्
छन्दः श्रीकृष्णः परमात्मा देवता जपे विनियोगः ।
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे (२.११) इति बीजम् ।
सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज (१८.६६) इति शक्तिः ।
अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः (१८.६६) इति कीलकम् ।
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् (१५.१) इति कवचम्।
अमुककर्मणि विनियोगः ।
नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः (२.२७) इत्यङ्गुष्टाभ्यां नमः
।
न चैनं क्लेदयन्त्यापो न शोषयति मारुतः (२.२७) इति तर्जनीभ्यां नमः ।
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च (२.२४) इति मध्यमाभ्यां नमः
।
नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः (२.२४) इति अनामिकाभ्यां नमः ।
पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (११.५) इति कनिष्ठाभ्यां नमः ।
नानाविधानि दिव्यानि नानावर्णाकृतीनि च (११.५) इति करतलपृष्ठाभ्यां नमः
।
नैनं छिन्दन्ति शस्त्राणि इति हृदयाय नमः ।
न चैनं क्लेदयन्त्यापो इति शिरसे स्वाहा ।
अच्छेद्योऽयमदाह्योऽयमिति शिखायै वषट् ।
नित्यः सर्वगतः स्थाणुः इति कवचाय हूम् ।
पश्य मे पार्थ रूपाणि इति नेत्रत्रयाय वौषट् ।
नानाविधानि दिव्यानि इत्यस्त्राय फट् । श्रीकृष्णप्रीत्य्अर्थं जपे विनियोगः ।
(श्रीगीतामाहात्म्यम्)
पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं
व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारते ।
अद्वैतामृतवर्षिणीं भगवतीमष्टादशाध्यायिनीं
अम्ब त्वामनुसन्दधामि भगवद्गीते भवद्वेषिणीम् ॥
नमोऽस्तु ते व्यास विशालबुद्धे
फुल्लारविन्दायातपत्रनेत्रे ।
येन त्वया भारततैलपूर्णः
प्रज्वलितो ज्ञानमयः प्रदीपः ॥
प्रपन्नपरिजाताय तोत्रवेत्रैकपाणये ।
ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥
सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् ।
देवकीपरमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥
भीष्मद्रोणतटा जयद्रथजला गान्धारीनीलोत्पला
शल्यग्राहवती कृपेण वहिनी कर्णेन वेलाकुल ।
अश्वत्तामविकर्णघोरमकरा दुर्योधनावर्तिनी
सोत्तीर्णा खलु पाण्डवार्णवनदी कैवर्तकः केश्वः ॥
पाराशर्यवचः सरोजममलं गीतार्थगन्धोत्कटं
नानाख्यानककेशरं हरिकथासम्बोधनाबोधितम् ।
लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा
भूयाद्भारतपङ्कजं कलिमलप्रध्वंसनं श्रेयसे ॥
मूकं करोति वाचालं पङ्गुं लङ्घायते गिरिम् ।
यत्कृपा तमहं वन्दे परमानन्दमाधवम् ॥
यं ब्रह्मा वरुणेन्द्ररुद्रमरुतः स्तुन्वन्ति दिव्यैः स्तवैर्
वेदैः साङ्गपदक्रमोपनिषदैर्गायन्ति यं सामगाः ।
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः ॥ (१२.१३.१)
इति न्यासविधिः ।
कार्पण्यदोषोपहतस्वभावः
पृच्छामि त्वां धर्मसंमूढचेताः ।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे
शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ (२.७)
जपनियमसङ्ख्या अष्टोत्तरशतम् । अथवा सहस्रम् । प्रयोगमाह
(श्रीगोपालकवचम् ।)
पुलस्त्य उवाच
भगवन् सर्वधर्मज्ञ कवचं यत्प्रकाशितम् ।
त्रैलोक्यमङ्गल नाम कृपया ब्रह्मणे पुरा ॥
ब्रह्मणा कथितं मह्यं परं स्नेहाद्वदामि ते ।
अतिगुह्यतमं तत्त्वं ब्रह्म मन्त्रोघविग्रहम् ॥
यद्धृत्वा पठनाद्ब्रह्मा सृष्टिं वितनुते सदा ।
यद्धृत्वा पठनाद्पाति महालक्ष्मीर्जगत्त्रयम् ॥
पठनाद्धारणाच्छम्भुः संहर्ता सर्वतत्त्ववित् ।
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ॥
वरदृप्तान् जघानैव पठनाद्धारणाद्यतः ।
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥
शिष्याय भक्तियुक्ताय साधकाय प्रकाशयेत् ।
शठाय परशिष्याय निन्दकाय तथैव हि ॥
हरिभक्तिविहीनाय परदाररताय च ।
कृपणाय कुशीलाय दत्त्वा मृत्युमवाप्नुयात् ॥
त्रैलोक्यमङ्गलस्यापि कवचस्य प्रजापतिः ।
ऋषिश्छन्दश्च गायत्री देवो नारायणः स्वयम् ॥
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
ओं प्रणवो मे शिरः पातु नमो नारायणाय च ।
भालं पायान्नेत्रयुग्ममष्टार्णो भक्तिमुक्तिदः ॥
क्लीं पायाच्छ्रोत्रयुग्मं चैकाक्षरः सर्वमोहनः ।
क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्विकाम् ।
गोपीजनपदं वल्लभाय स्वाहाननं मम ॥
अष्टादशाक्षरो मन्त्रः कण्ठं पायाद्दशाक्षरः ।
गोपीजनपदं वल्लभाय स्वाहा भुजद्वयम् ॥
क्लीं ग्लौं क्लीं करौ पायात्क्लीं कृष्णायाङ्गजोऽवतु ।
हृदयं श्रीभुवनेशः क्लीं कृष्णाय क्लीं स्तनौ मम ॥
गोपालायाग्निजायां तं कुक्षियुग्मं सदावतु ।
क्लीं कृष्णाय सदा पातु पार्श्वयुग्मं मनूत्तमः ।
कृष्णगोविन्दकौ पातां स्मराद्यौ ङेयुतौ मनू ॥
अष्टादशाक्षरः पातु नाभिं कृष्णेति द्व्य्अक्षरो मनुः ।
पृष्ठं क्लीं कृष्णकङ्कालं क्लीं कृष्णाय द्विठान्तकः ।
सक्थिनी सततं पातु श्रीं ह्रीं क्लीं ठद्वयम् ॥
उरू सप्ताक्षरः पातु त्रयोदशाक्षरोऽवतु ॥
श्रीं ह्रीं क्लीं पदतो गोपीजनपदं ततः ।
वल्लभाय स्वाहेति पातु क्लीं ह्रीं श्रीं च दशार्णकः ॥
जानुनी च सदा पातु ह्रीं श्रीं क्लीं च दशाक्षरः ।
त्रयोदशाक्षरः पातु जङ्घे चक्राद्युदायुधः ।
अष्टादशाक्षरो ह्रींश्रींपूर्वको विंशद्अर्णकः ॥
सर्वाङ्गं मे सदा पातु द्वारकानायको बली ।
नमो भगवते पश्चाद्वासुदेवाय तत्परम् ॥
ताराद्यो द्वादशार्णोऽयं प्राच्यां मां सर्वदावतु ।
श्रीं ह्रीं क्लीं दशवर्णस्तु क्लीं ह्रीं श्रीं षोडशाक्षरः ॥
गदाद्यदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।
ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदावतु ॥
तारं नमो भगवते रुक्मिणीवल्लभाय च ।
स्वाहेति षोडशार्णोऽयं नैरृत्यां दिशि रक्षतु ॥
क्लीं पदं हृषीकेशाय नमो मां वारुण्ऽवतु ।
अष्टादशार्णः कामान्तो वायव्ये मां सदावतु ।
श्रीं माया कामकृष्णाय ह्रीं गोविन्दाय द्विठो मनुः ।
द्वादशार्णात्मको विष्णुरुत्तरे मां सदावतु ॥
वाग्भवं कामकृष्णाय ह्रीं गोविन्दाय ततः परम् ॥
श्रीं गोपीजनवल्लभाय स्वाहा इति ततः परम् ।
द्वात्रिंशद्अक्षरो मन्त्रो मामैशान्ये सदावतु ।
कालीयस्य फणामध्ये दिव्यं नृत्यं करोति तम् ।
नमामि देवकीपुत्रं नित्यराजानमच्युतम् ॥
द्वात्रिंशद्अक्षरो मन्त्रोऽप्याद्योऽधो मां सर्वतोऽवतु ।
क्लीं कामदेवाय विद्महे पुष्पबाणाय धीमहि ।
तन्नोऽनङ्गः प्रचोदयादेष मां पातु चोर्ध्वतः ॥
त्रैलोक्यमङ्गलं नाम कवचं ब्रह्मरूपिणम् ।
इति ते कथितं विप्र सर्वमन्त्रौषधविग्रहम् ।
ब्रह्मेशप्रमुखाधीशैर्नारायणमुखाच्छ्रुतम् ॥
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्यचित् ।
गुरुं प्रणम्य विधिवत्कवचं प्रपठेद्यदि ॥
सकृद्दिस्त्रिर्यथाज्ञानं सोऽपि सर्वतपोमयः ।
मन्त्रेषु सकलेष्वेव देशिको नात्र संशयः ॥
शतमष्टोत्तरं सास्य पुरश्चर्याविधिः स्मृतः ।
हवनादीन् दशांशेन कृत्वा तत्साधयेद्ध्रुवम् ।
यदि चेत्सिद्धिकवचो विभुरेव भवेत्स्वयम् ॥
मन्त्रसिद्धिर्भवेत्तस्य पुरश्चर्याविधानतः ।
श्रद्धाशुद्धमतेस्तस्य लक्ष्मीवाणी वसेन्मुखे ॥
पुष्पाञ्जल्य्अष्टकं दत्त्वा मूलेनैव पठेत्सकृत् ।
दशवर्षसहस्राणां पूजायाः फलमाप्नुयात् ॥
भूर्जे विलिख्य गुटिकां स्वर्णस्थां धारयेद्यदि
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ॥
अश्वमेधसहस्राणि वाजपेयशतानि च ।
महादानानि यान्येव प्रादक्षिण्ये भवस्तथा ॥
कलां नार्हन्ति तान्येव सकृदुच्चादणादतः ।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ॥
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।
इदं कवचमज्ञात्वा भजेद्यः पुरुषोत्तमम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ॥
इति सनत्कुमारतन्त्रे नवमपटले श्रीनारदपञ्चरात्रे (४.५)
त्रैलोक्यमङ्गलं नाम श्रीगोपालकवचं समाप्तम् ।
अथ पुरश्चरणसङ्कल्पादिविधिः । श्रीविष्णुर्विष्णुर्नमोऽस्य अमुकमासे
अमुकपक्षे भास्करे अमुकतिथौ अमुकगोत्रोऽमुकदासस्त्रैलोक्यसंमोहन
तन्त्रोक्तश्रीकृष्णदेवतायास्त्रैलोक्यसंमोहनकवचसिद्धिकामस्तत्
कवचस्याष्टोत्तरशतजपतद्दशांशहोमतद्दशांशतर्पणतद्
दशांशाभिषेकतद्दशांशब्राह्मणभोजनरूपपुरश्चरणमहं करिष्ये
। एकदिवसे कार्यसिद्धिः । प्रयोगः श्रीमद्भागवतानुसारेण दशार्णमन्त्र
प्रथमे श्रीभागवतमङ्गलाचरणे ।
[ठे fओल्लोwइन्ग्सेच्तिओनिस्पेर्हप्स्नोतिनल्ल्मनुस्च्रिप्त्स्.]
अथ छायापुरुषदर्शनफलमाह
पूर्वाह्ने सूर्यबिम्बार्कं पृष्ठे कृत्वा नरः शुचिः ।
अनिमिषो हि स्वच्छायां गलादूर्ध्वं विलोकयेत् ॥
तत्र च्छायासमुद्भूतं पुरुषं यदि पश्यति ।
सर्वावयवसंयुक्तं शुभं वर्षावधिं स्मृतम् ॥
अदृष्टे हस्तकर्णस्य पारयां हृदये नरः ॥
जीवस्यार्काश्वदिक्चन्द्रवह्निनेत्रसमाः क्रमात् ।
शिरस्यादृष्टे षण्मासं सरन्ध्रे हृदि सप्तकम् ॥
एतज्ज्ञानं महादिव्यं दुष्टशिष्याय नो वदेत् ॥
इति श्रीकंसारिमिश्रयशोधरविरचितदैवज्ञचिन्तामणौ तृतीयप्रकाशः
समाप्तः ।
गायत्रीमन्त्रो राधाया मन्त्रः कृष्णस्य तत्परम् ।
महाप्रभोर्मन्त्रवरो हरिनाम तथैव च ।
मानसी वरसेवा च पञ्चसंस्कारसंज्ञकः ॥
अहङ्काराधिष्ठातृत्वाद्भूतशुद्धेरधिदेवाय सङ्कर्षणाय नमः हे
सङ्कर्षण सद्यः शुध्येदुपासनोपयुक्तं स्यात्तथा कृपां कुरु ।
अथ मातृकाध्यानम्
चिकुरकलितपिञ्छां पीनतुङ्गस्तनाभ्यां
करजलरुहि विद्यां दक्षिणे पद्मरूपाम् ।
दधिघटमपि सव्ये बिभ्रतीं तुङ्गविद्याम्
अमृतकिरणकान्तिं मातृकामूर्तिमीडे ॥
केशवकीर्तिकादिध्यानम्
कोणेनाक्ष्णोः पृथुरुचिः मिथो हारिणा लिह्यमानाव्
एकैकेन प्रचुरपुलकेनोपगुढौ भुजेन ।
गौरीश्यामौ वसनयुगलं श्यामगौरं वसानौ
राधाकृष्णौ स्मरविलसितोद्दामतृष्णौ स्मरामि ॥
तत्र न्यासस्य वासुदेवोऽधिष्ठाता स स्तोककृष्णोऽत्र ज्ञेयस्तद्ध्यानमुच्यते
।
अभ्रश्यामं विद्युद्उद्यद्दुकूलं
स्मेरं लीलाम्भोजविभ्राजिहस्तम् ।
पिञ्छोत्तंसं वासुदेवस्वरूपं
कृष्णप्रेष्ठं स्तोककृष्णं नमामि ॥
प्राणायामे निजाभीष्टदेवौ तौ परिचिन्तयेत् ।
अन्योऽन्यस्कन्धवन्दीकृतपुलकिभुजौ हिङ्गुलस्वर्णवर्णं
कौशेयानां चतुष्कं धृतरुचि दधतौ फुल्लवक्त्रारविन्दौ ।
आचिन्वानौ विहारं परिजनघटया संभृतारण्यभूषौ
गौरश्यामाङ्गभासौ स्मितमधुरमुखौ नौमि राधामुकुन्दौ ॥
करकच्छपिकां कृत्वा ततो ध्यायेत्स्वदेवते ।
इद्धैः सिद्धत्रिदशमुनिभिः प्रष्टुमप्यप्रगल्ह्बैर्
दूरे स्वस्थैर्विहितनतिभिः सम्भ्रमैः स्तूयमाना ।
वैकुण्ठाद्यैरपि परिजनैः सस्पृहं प्रेक्षितश्रीर्
माधुर्येण तिर्भुवनचमत्कारविस्तारदीक्षा ॥
नवीनयवसाङ्कुरप्रकरसङ्कुलद्रोणिभिः
परिस्फुरितमेखलैरखिलधातुलेखाश्रिया ।
उपस्कृतगुहागृहैर्गिरिभिरुच्चलन्निर्झरैः
क्वचित्क्वचिदलङ्कृतास्फुटमनुष्ठानीव स्थला ॥
विकचकमलषण्डोत्कूजकारण्डवानां
निरवधि दधिदुग्धोढातिमुग्धाम्बुभाजाम् ।
लघुलहरिभुजाग्रोन्मृष्टतीव द्रुमाणां
विघटितघनधर्मां निम्नगानां घटाभिः ॥
मदवलितवल्गुसारसैः
सरसानां मुहुरञ्जसा रसैः ।
सरसीरुहरूढरोचिषां
सरसीनां विसरेण राजिता ॥
(लिने मिस्सिन्ग्?)
गन्धानन्दितसिन्धुजासहचरीवृन्दैः क्षणाद्वीक्षितैः ।
बालार्कप्रतिमप्रवालसुषमापूर्णैः सुधामाधुरी
दर्पध्वंसिफलैः पलाशिभिरतिस्फीतैर्निरुद्धातपा ॥
मधूलीभिर्माद्यन्मधुकरवधूझङ्कृतिघटा
कृतानन्ङ्गारातिप्रमदवनभङ्गीजडिमभिः ।
समन्तादुत्फुल्लस्तवकभरलब्धावनतिभिर्
लताविञ्छोलीभिः पृथुभिरभितो लाञ्छिततटा ॥
कपिञ्जलवलाकिकाचटकचातकोपयष्टिकैः
पिकैर्मदनसारिकाशुककलिङ्गपारावतैः ।
शतच्छदशितच्छदैः करटखञ्जरीटादिभिः
शकुन्तिभिरकुण्ठितध्वनिभिरन्तरुद्भाषिता ॥
आभीराणामानन्दवृन्दानि चकोरैश्
चन्द्रात्मत्वा लालसया हातुमशक्या ।
तासां लब्धं कुन्तलसाम्यं पिञ्छसमूहैर्
यद्भिर्नृत्यानुच्चैर्मत्तमयूरप्रकरैः ।
किटिकिरीटिभिः शल्यैर्भल्लप्लवङ्गकुरङ्गमैः
सृमरचमरैर्गोलाङ्गुलैः समूरुचमूरुभिर्
उरुभिरुरुभिः पारीन्द्रोघैः सरारुभयोज्झितैः
पशुभिरशुभोन्मुक्तैरिव स्थगितान्तरा गड्डरैर्
जडिमडामरशृङ्गैः क्षीरिणीभिरपि च च्छगलीभिः ।
गण्डशैलस्मृतिसङ्गमाभिः कासरीततिभिरप्यवरुद्धा ॥
स्थलैः क्वचन निस्थलैः स्फटिककुट्टिमद्योतिभिर्
हरिन्मणिमयैरिव क्वचन शाद्वलैरुज्ज्वला ।
निजप्रवलमाधुरीमृदितहर्म्यश्रिया
प्रसूनभरमञ्जुला वरनिकुञ्जपुञ्जेन च ॥
आराधिता किल कलिन्दसुतारविन्द
स्यन्दानुबन्धरसिकेन समीरणेन ।
आनन्दतुन्दिलचराचरजीववृन्दा
वृन्दाटवी प्रथममुच्चरुचिर्विचित्याम् ॥ कुलकम् ।
मुहुरविकलकलझङ्क्रियाकलापैर्
अलिनिकरस्य करम्बितां स्मरेयम् ।
इह घनमकरन्दसिक्तमूलां
परिमलदिग्धदिशं प्रसूनवाटीम् ॥
इह विद्रुमविद्रुमं हरिन्मणिपत्रं वरहीरकोरकम् ।
कुरुविन्दफलं श्रवत्सुधाप्रसरं कल्पतरुं स्मरेद्बुधः ॥
ऋतुभिर्महितस्य तस्य नित्यं प्रकटं हेमतटीमध्ये विचिन्त्य
महीष्टमष्टपत्रमुदयन्मिहिराभं
चिन्तयेदिह सरोरुहवर्यम् ।
मणिकुट्टिममत्र विस्फुरन्तं
परमानन्दघनं स्मरेन्मनस्वी ॥
तत्र कुट्टिमवरे स्फुटदीप्तौ योगपीठमपि विन्चिन्त्य
तस्योज्ज्वलायामुरुकर्णिकायां
विराजितायां स्थितसौख्यभाजौ ।
नव्याम्बुदस्वर्णविडम्बिभासौ
कृष्णं च राधां च विचिन्तयामि ॥
शिखरबद्धशिखण्डविस्फुरत्
कुटिलकुन्तलवेणुकृतश्रियौ ।
तिलकितस्फुरद्उज्ज्वलकुङ्कुम
मृगमदाचितचारुविशेषकौ ॥
मनोज्ञतरसौरभप्रणयनन्दद्इन्दिन्दिरं
स्फुरत्कुसुममञ्जरीविरचितावतंसत्विषौ ।
चलन्मकरकुण्डलस्फुरितफुल्लगण्डस्थलं
विचित्रमणिकर्णिकाद्युतिविलीढकर्णाञ्चलाम् ॥
शरद्अभिमुदितारविन्दद्युति
दमनायतलोहिताञ्चलाङ्कम्
अलघुचटुलदीर्घदृष्टिखेला
मधुरिमखर्वितखञ्जरीटयुवाम्
वलललाटकृतार्धशशिप्रभुं
द्विकलसीतिकरस्फुरितालिकाम् ।
कुसुमकार्मुककार्मुकविभ्रमो
द्धतिविधूननधुर्यतरभ्रुवो
चित्रपट्टघटिकोपमस्फुरत्
पाशवर्यपरिवीतमस्तकम्
नासिकाशिखरलम्बिवर्तुल
स्थूलमौक्तिकरुचाञ्चिताननाम्
राकाशारदशर्वरीशसुषमाजैत्राननश्रीयुजौ
नव्य्दीर्णतिलप्रसूनदमनश्रीनासिकारोचिशौ ।
राजद्बिम्बविडम्बिकावररुचौ गण्डस्थलीन्यक्कृते
प्रोन्मीलन्मणिदर्पणोरुमहसौ सुस्मेरतासम्पदौ ॥
दिव्यदुन्दुभिगभीरनिस्वनं स्निग्धकण्ठकलकण्ठजल्पितां
फुल्लाभिनववल्लिभिर्वलयितस्कन्धैः प्रसूनावली ।
सुष्ठुलब्धपरिपाकदाडिमी
बीजराजविजयिद्विजार्चिषे ।
कम्बुकण्ठविलुठन्मणिरत्न
रत्ननिष्कपरिशोभितकण्ठाम् ।
उन्नतिप्रथिमसुललितांसं
स्निग्धयोरुचितरामवनम्राम् ।
दीप्रान् युगेन भुजयोर्भुजगान् हसन्तं
केयूरिणा विलसता श्रियमाक्षिपन्तीम् ।
रत्नोर्मिकास्फुरितचारुतराङ्गुलिभिर्
विद्योतकङ्कणकरञ्जितपाणिभाजौ ॥
हरिन्मणिकवाटिकोद्भटकठोरवक्षस्थली
विलासिवनमालिकामिलितहारगुञ्जावलिम् ।
स्फुरन्निविडदाडिमीफलविडम्बिवक्षोरुह
द्वयशिखरशेखरीभवद्अमन्दमुक्तालताम् ॥
अलोलमधुपावलिविजयिरोमराजीवलद्
वलीत्रितयमण्डितप्रतनुमध्यरम्याकृतिम् ।
यमस्वसरि संपतत्सुरसरिद्वरावर्तजिद्
गभीरतरनाभिभागमुरुतुन्दलक्ष्मीभृतौ ॥
घनजघनविडम्बितरत्नकाञ्ची
वलयितपीतदुकूलमञ्जुलाभम् ।
मणिमयरसनाढ्यशोणपट्टा
म्बरपरिरम्भिनितम्बरम्याम् ॥
अतिनवमदभरमन्थरसिन्धुरकरबन्धुरोरुविमानौ जङ्घाभ्यां
रचितरुचौ सुवर्तुलाभ्यां गूढेनाप्यनुपमगुल्फयुग्मकेन पद्भ्यामप्य्
अरुणनखोज्ज्वलाभ्यां मणिमयनूपुराञ्चिताभ्याम् ।
आमृष्टपृष्ठमभितो दयिताभुजेन
तिष्ठन्तमुत्फुलिकिना किल दक्षिणेन ।
कान्तस्य सव्यभुजमूलकृतोत्तमाङ्गां
तद्वक्त्रपद्मतटवल्गद्अपाङ्गयुग्माम् ॥
तिरोन्यस्तग्रीवं किमपि दयितावक्त्रकमले
वलद्दीर्घापाङ्गं स्फुरद्अधरकूजन्मुरलिकम् ।
भयन्मध्यं सव्योपरि परिमिलद्दक्षिणपदं
चलच्चिल्लीमालं भुजतटगतोत्तंसकुसुमम् ॥
रूपे कंसहरस्य मुग्धनयनां स्पर्शेऽतिहृष्यत्त्वचं
वाण्यामुत्कलितश्रुतिं परिमले संस्पृष्टनासापुटाम् ।
आरज्यद्रसनां किलाधरपुटे न्यञ्चन्मुखाम्भोरुहां
दम्भोद्गीर्णमहाधृतिं बहिरपि प्रोद्यद्विकाराकुलाम् ॥
मुखस्तोकोद्गीर्णानिलविलसितामृष्टमुरली
विनिष्क्रामद्ग्रामग्लपितजगतीधैर्यविभवम् ।
प्रियास्पर्शेनान्तःपरवशतया खण्डितमपि
स्वरालापं भङ्ग्या सपदि गमयन्तं स्वसमयम् ॥
नीवीबन्धेऽप्यतिशिथिलिते स्वेदसन्दोहमैत्री
रुद्धश्रोणीपुलिनरसनामुन्नतारङ्गरङ्गाम् ।
आद्यद्रवद्रवद्अभिहृदां विस्मृताशेषभावां
गाढोत्कण्ठानिचयरचितोद्दामवैक्लव्यविज्ञाम् ॥
पुलकितवपुषौ श्रुताश्रुधारा
स्नपितमुखाम्बुरुहौ प्रकम्पभाजौ ।
क्षणमतिगूढगद्गदाढ्यवाचौ
मदनमदोन्मदचेतसौ स्मरामि ॥
नवभिः शुशिरैर्विराजिता
गुरवीबीजसमानवर्ष्मभिः ।
अरुणेन विभूषिताधर
करभाजां सरलेन वेणुना ॥
सुश्लाघ्ययान्तर्निजमुष्टिमेयया
हस्तत्रयीमानमनोज्ञरूपया ।
भूयिष्टया श्यामलकान्तिजुष्टया
यष्ट्याद्य्अवष्टम्भितदक्षकूर्परम् ॥
असितेन विभङ्गुरात्मना
पृथुमूलेन कृतेन चाग्रतः ।
धटिकाञ्चलबद्धमूर्तिना
वरशृङ्गेन पूरो निषेवितम् ॥
भृङ्गान् सुहृद्वदनगन्धभरेण लोलान्
लीलाम्बुजेन मृदुलेन निवारयन्त्या ।
उद्वीक्ष्यमाणमुखचन्द्रमसौ रसौघ
विस्तारिणा ललितया नयनाञ्चलेन ॥
चामरभनवमञ्जुमञ्जरी
भ्राजमानकरया विशाखया ।
चित्रया च किल दक्षवामयोर्
वीज्यमानवपुषौ विलासतः ॥
नागवल्लिदलबद्धवीटिका
सम्पुटस्फुरितपाणिपद्मया ।
चम्पकादिलतया सकम्पया
दृष्टपृष्टतटरूपसम्पदौ ॥
रम्येन्दुलेखाकलगीतमिश्रितैर्
वंशीविलासानुगुणैर्गुणज्ञया ।
वीणानिनादप्रसरैः पुरस्थया
प्रारब्धरङ्गौ किल तुङ्गविद्यया ॥
तरङ्गद्अङ्ग्या किल रङ्गदेव्या
सव्ये सुदेव्या च शनैरसव्ये ।
श्लक्ष्णाभिमर्शनविमृज्यमान
स्वेदाश्रुधारौ सिचयाञ्चलेन ॥
स्मरणमङ्गलस्तोत्रम्
श्रीराधाप्राणबन्धोश्चरणकमलयोः केशशेषाद्य्अगम्या
या साध्या प्रेमसेवा व्रजचरितपरैर्गाढलौल्यैकलभ्या ।
सा स्यात्प्राप्ता यया तां प्रथयितुमधुना मानसीमस्य सेवां
भाव्यां रागाध्वपान्थैर्व्रजमनुचरितं नैत्यिकं तस्य नौमि ॥१॥
कुञ्जाद्गोष्ठं निशान्ते प्रविशति कुरुते दोहनान्नाशनाद्यां
प्रातः सायं च लीलां विहरति सखिभिः सङ्गवे चारयन् गाः ।
मध्याह्ने चाथ नक्तं विलसति विपिने राधयाद्धापराह्ने
गोष्ठं याति प्रदोषे रमयति सुहृदो यह्स कृष्णोऽवतान्नः ॥ २ ॥
रात्र्यन्ते त्रस्तवृन्देरितबहुविरवैर्बोधितौ कीरशारी
पद्यैर्हृद्यैरहृद्यैरपि सुखशयनादुत्थितौ तौ सखीभिः ।
दृष्टौ हृष्टौ तदात्वोदितरतिललितौ कक्खटीगीःसशङ्कौ
राधाकृष्णौ सतृष्णावपि निजनिजधाम्न्याप्ततल्पौ स्मरामि ॥३॥
राधां स्नातविभूषितां व्रजपयाहूतां सखीभिः प्रगे
तद्गेहे विहितान्नपाकरचनां कृष्णावशेषाशनाम् ।
कृष्णं बुद्धमवाप्तधेनुसदनं निर्व्यूढगोदोहनं
सुस्नातं कृतभोजनं सहचरैस्तां चाथ तं चाश्रये ॥ ४ ॥
पूर्वाह्ने धेनुमित्रैर्विपिनमनुसृतं गोष्ठलोकानुयातं
कृष्णं राधाप्तिलोलं तद्अभिसृतिकृते प्राप्ततत्कुण्डतीरम् ।
राधां चालोक्य कृष्णं कृतगृहगमनार्ययार्कार्चनायै
दिष्टां कृष्णप्रवृत्त्यै प्रहितनिजसखीवर्त्मनेत्रां स्मरामि ॥ ५ ॥
मध्याह्नेऽन्योन्यसङ्गोदितविविधविकारादिभूषाप्रमुग्धौ
वाम्योत्कण्ठातिलोलौ स्मरमखललिताद्य्आलिनर्माप्तशातौ ।
दोलारण्याम्बुवंशीहृतिरतिमधुपानार्कपूजादिलीलौ
राधाकृष्णौ सतृष्णौ परिजनघटया सेव्यमानौ स्मरामि ॥ ६ ॥
श्रीराधां प्राप्तगेहां निजरमणकृते क्.ल्प्तनानोपहारां
सुस्नातां रम्यवेशां प्रियमुखकमलालोकपूर्णप्रमोदाम् ।
कृष्णञ्चैवापराह्णे व्रजमनुचलितं धेनुव्ण्दैर्वयस्यैः
श्रीराधालोकतृप्तं पितृमुखमिलितं मातृमृष्टं स्मरामि ॥ ७ ॥
सायं राधा स्वसख्या निजरमणकृते प्रेषितानेकभोज्यां
सख्यानीतेशशेषाशनमुदितहृदं तां च तं च व्रजेन्दुम् ।
सुस्नातं रम्यवेशं गृहमनु जननी लालितं प्राप्तगोष्ठं
निर्व्यूढोस्रालिदोहं स्वगृहमनु पुनर्भुक्तवन्तं स्मरामि ॥ ८ ॥
राधां सालीगणान्तामसितसितनिशायोग्यवेशां प्रदोषे
दूत्या वृन्दोपदेशादभिसृतयमुनातीरकल्पागकुञ्जाम् ।
कृष्णं गोपैः सभायां विहितगुणिकलालोकनं स्निग्धमात्रा
यत्नादानीय संशायितमथ निभृतं प्राप्तकुञ्जं स्मरामि ॥ ९ ॥
तावुत्कौ लब्धसङ्घौ बहुपरिचरणैर्वृन्दयाराध्यमानौ
गानैर्नर्मप्रहेलीसुलपननटनैः रासलास्यादिरङ्गैः ।
प्रेष्ठालीभिर्लसन्तौ रतिगतमनसौ मृष्टमाध्वीकपानौ
क्रीडाचार्यौ निकुञ्जे विविधरतिरण उद्धत्य विस्तारितान्तौ ॥ १० ॥
ताम्बूलैर्गन्धमाल्यैर्व्यजनहिमपयःपादसंवाहनाद्यैः
प्रेम्णा संसेव्यमानौ प्रणयिसहचरीसञ्चयेनाप्तशातौ ।
वाचा कान्तैरणाभिर्निभृतरतिरसैः कुञ्जसुप्तालिसङ्घौ
राधाकृष्णौ निशायां सुकुसुमशयने प्राप्तनिद्रौ स्मरामि ॥ ११ ॥
इति श्रीरूपगोस्वामिविरचिता स्मरणपद्धतिः ।
श्रीरूपो जयति ।
इति स्मरणमङ्गलं समाप्तम् ।
इति चतुर्थकक्षा