सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः २(ऐन्द्रं पर्व)

प्रथमः खण्डः

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥१॥

यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।

निर्ममे तमहं वन्दे विद्यातीर्थं महेश्वरम् ॥ २ ॥

रौद्रे द्वे मार्गीयवे द्वे ॥२.१.१॥

तद्वो गाय सुते सचा (सा. ११५) इत्यत्र चत्वारि सामानि समुत्पन्नानि । तद्वौ होवा (ग्राम. ३. १. ११५.१) इति मन्द्रचतुर्थादिकं प्रथमम् । तद्वोगाया (ग्राम. ३. १. ११५. २) इति मन्द्रादिकं द्वितीयम् । ते उभे रौद्रे रुद्रस्य एतत्संज्ञे सामनी। तद्वोगायमुतेसचाए (ग्राम. ३.१. ११५.३) इति मन्द्रादिकं तृतीयम् । तद्वोगायसुतेसचाए । पुरुहूताय सत्वनाइ (ग्राम. ३. १. ११५. ४) इति मन्द्रादिकं तुरीयम् । एते द्वे मार्गीयवे । मृगयुर्नाम देवः तत्संबन्धिनी। ओर्गुणः (पा. ६.४.१४६) इति गुणः । तथा च ब्राह्मणम् – मार्गीयवं भवति । देवा वा एतं मृगयु- रिति वदन्ति (तां. ब्रा. १४.९.११-१२) इति ॥ १॥ उक्तक्रमविपर्यासेन विकल्पान् दर्शयति--

अपि वा मार्गीयवं च रौद्रे च मार्गीयवं चैव । सर्वाणि वा रौद्राणि । सर्वाणि वा मार्गीयवाणि ॥ २.१.२॥ द्वितीयः अध्यायः (१) ५५

अपि वा आद्य साम मार्गीयवनामकम् । द्वितीयतृतीये आग्मी (साम्नी ?) रौद्रे । तुरीयम् मार्गीयवसहितं (संज्ञितं?) वा । अथवा सर्वाणि वा चत्वारि सामानि रौद्राणि मार्गीयवाणि वा ॥ २ ॥

आश्वम् ॥ २.१.३॥

यस्ते नूनं शतक्रतो (सा. ११६) इत्यत्रैक साम । यस्तेनूना. शतक्रताउ (ग्राम. ३. १. ११६. १) इति चतुर्थमन्द्रादिकम् आश्वम् अश्वः प्रजापतिः तत्संबन्धि । अत्र ब्राह्मणम् आश्वं भवति । अश्वो वै भूत्वा प्रजापतिः प्रजा असृजत (ता. ब्रा. ११. ३. ४-५) इत्यादिकमनुसंधेयम् ॥३॥

ऐटते द्वे ॥२.१.४॥

गाव उप वदावटे (सा. ११७) इत्यत्र सामद्वयमुत्पन्नम् । गावः । एगावाः (ग्राम. ३. १. ११७.१) इति चतुर्थमन्द्रादिकमाद्यम् । ओइगावाः (ग्राम. ३. १. ११७. २) इति द्वितीयतृतीयादिकं द्वितीयम् । ते द्वे ऐटते । इटतो नाम ऋषिः तेन दृष्टे सामनी ॥ ४ ॥

श्रौतकक्षे द्वे ॥२.१.५॥

अरमश्वाय ग यत (सा. ११८) इत्यत्र सामद्वयोत्पत्तिः । अराम् अश्वाय (ग्राम. ३. १. ११८. १) इति तृतीयद्वितीयादिकं प्रथमम् । अरमश्वाय- गायतारमश्वोवा (ग्राम. ३. १. ११८.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । ते द्वे श्री (श्रु?) तकक्षस्य ऋषेः स्वभूते ॥ ५ ॥ तन्वस्य पार्थस्य सामनी द्वे । दावसोर्वाङ्गिरसस्योत्तरम् । वसिष्ठस्य निवेष्ट्वौ द्वौ इडानां वा संक्षार उत्तरम् ॥२.१. ६ ॥ तमिन्द्रं वजयामसि (सा. ११९) इत्यस्याम् ऋचि चत्वारि सामा- न्युत्पन्नानि । तत्र तमिन्द्रां वाजयामसी (३. १. ११९. १) इति द्वितीय५६ आर्षेयब्राह्मणम्

क्रुष्टादिकमाद्यम् । तमिन्द्रां वाजयामसि हाउ (३. १. ११९. २) इति द्वितीयक्रुष्टादिकं द्वितीयम् । ते द्वे पार्थस्य पृथा नाम - ऋषिः, तदपत्यस्य तन्वस्य एतन्नामकस्य सामनी । अथवा अनयोर्मध्ये उत्तरं द्वितीयमाङ्गिरसस्य अङ्गिरसः पुत्रस्य दावसोः- एतत्संज्ञकस्य ऋषेः साम । अत्र ब्राह्मणम् दावसुनिधनं भवति (ता. बा. १५. ५. १२) इत्यादि । दावसुर्वा एतदाङ्गिरसः पशुकामः सामापश्यत् (ता. ब्रा. १५. ५. १४) इति । तमिन्द्रं वाजयामसीए (ग्राम. ३. १. ११९. ३) इति मन्द्रमन्द्रादिकं तृतीयम् । औहोइहुवाहोइ । तमिन्द्रं वाजायामसि (ग्राम. ३. १. ११९. ४) इति द्वितीयतृतीयादिक चतुर्थम् । ते द्वे वसिष्ठस्य निवेष्टौ द्वौ एतन्नामधेये भवतः । विशेष्यस्य पुंलिङ्गत्वाद्विशेषणं द्वाविति पदं तल्लिङ्गमेवेति न विरोधः । अथवा अनयोर्मध्ये उत्तरं तुरीयम् इडानां संक्षारः एतन्नामकम् ॥ ६॥

शार्यातानि त्रीणि ॥ २.१.७॥

त्वमिन्द्र बलादधि (सा. १२०) इत्यत्र सामत्रयम् । हाउत्वमिन्द्रा (ग्राम. ३. १.१२०.१) इति मन्द्रादिकं प्रथमम् । त्वमिन्द्रबलादधीए (ग्राम. ३.१.१२०.२) इति मन्द्रादिकं द्वितीयम् । स्वमिन्द्रबलादधिसहसाः (ग्राम ३.१.१२०.३) इति चतुर्थमन्द्रस्वरादिकं तृतीयम् । एतानि त्रीणि शार्यातानि । शर्यातेः स्वभूतानि । तेन दृष्टानि ॥ ७ ॥ द्वितीयः अध्यायः (१) ५७


इन्द्राण्याः साम ॥ २.१.८ ॥

यज्ञ इन्द्रमवर्धयत् (सा. १२१) इत्यत्रैक साम । यज्ञ इन्द्र- मवर्धायात् (ग्राम, ३. १. १२१.१) इति मन्द्रादिकम् इन्द्राण्याः एतन्नामि- काया: देवतायाः साम । इन्द्रवरुणा - (पा. ४.१. ४९) इति सूत्रेण ङीषानुको भवत: ॥८॥

गौषूक्तं चाश्वसूक्तं च ॥ २.१.९॥

यदिन्द्राहं यथा त्वम् (सा. १२२) इत्यत्र सामद्वयम् । यदिन्द्राहं यथौ (ग्राम. ३. १. १२२.१) इति चतुर्थमन्द्रादिकं प्रथमम् । आऔहोवाहाइ । यदिन्द्राहाम् (ग्राम. ३. १. १२२. २) इति द्वितीयतृतीया- दिकं द्वितीय साम । क्रमेण गौषक्ताश्वसूक्ते गोषूक्त्यश्वसूक्तिनामानौ द्वावृषी । ताभ्यां दृष्ट । पूर्वपदात् (पा. ८. ३. १०६) इति सूत्रेण सकारस्य षत्वम् । समुच्चयार्थश्चकारः ॥ ९॥

गौरीवितम् ॥ २.१.१० ॥

पन्यं पन्यमित्सोतारः (सा. १२३) इत्यत्रैक साम । पन्यंपन्यम् (ग्राम. ३. १. १२३. १) इति चतुर्थमन्द्रादिकं गौरीवितनामकम् ॥ १० ॥

गाराणि त्रीणि ॥ २.१.११ ॥

इदं वसो सुतमन्धः (सा. १२४) इत्यत्र सामत्रयम् । इदंवसाउ (ग्राम. ३. १. १२४. १) इति मन्द्रादिकम् । इदांवसोसुतमन्धाः (ग्राम. ३. १. १२४. २) इति मन्द्रचतुर्थादिकम् । इदंवसोसुतमन्धाए (ग्राम. ३. १.

-५८ आर्षेयब्राह्मणम्

१२४. ३) इति मन्द्रमन्द्रादिकम् । एतानि त्रीणि सामानि गाराणि - गरो नाम ऋषिः तस्य स्वभूतानि । अत्र ब्राह्मणम् - गारं भवति । एतेन वै गर इन्द्रमप्रीणात् (तां. ब्रा. ९. २. १६.) । इति ।। ११ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे द्वितीयाध्याये प्रथमः खण्डः ।। १ ॥ द्वितीयः खण्डः

सौपर्णानि त्रीणि शारुप्रवेतसानि वा विलम्बसौपर्ण वैषां तृतीयम् ॥२.२.१॥

उद्धेदभि श्रुतामघम् (सा. १२५) इत्यत्र सामत्रयम् । उद्धेदभ्यो- वा (ग्राम. ३.२.१२५.१) इति मन्द्रचतुर्थादिकमाद्यम् । उद्धेदभिश्रुता- माघाम् (ग्राम. ३. २. १२५. २) इति मन्द्रमन्द्रादिकं [द्वितीयम् ] । उद्धे- दभिश्रुतामघम् । ईयइयाहाइ (ग्राम. ३. २. १२५. ३) इति मन्द्रचतुर्थादिक [तृतीयम् ] | एतानि त्रीणि सामानि सौपर्णानि सुपर्णसंबन्धीनि । सुपर्णो नाम ऋषिः । अथवा शारुप्रवेतसानि शा(श ?)रुप्रवेतसः एतन्नामकस्य ऋषेः स्वभूतानि एतेन दृष्टानि । अथवा एषां मध्ये तृतीयम् अन्तिमं साम विलम्ब- सौपर्णनामकम् । अत्र ब्राह्मणम् विलम्बसौपर्ण भवति । आत्मा वा एष सौपर्णानाम् इत्यादि । पक्षावेतावभितो भवतो ये सप्तमनवमयोवीव वा अन्तरात्मा पक्षौ लम्बते यदन्तरात्मा। पक्षौ विलम्बते । तस्मा द्विलम्बसौपर्णम् (ता. बा. १४.९.१९-२०) इति ॥ १ ॥

शाकलम् ॥२.२.२॥

यदद्य कच्च वृत्रहन् (सा. १२६) इत्यत्रैक साम । यदद्यकाच्च (ग्राम. ३.२.१२६.१) इति चतुर्थमन्द्रादिक शकलनाम्ना ऋषिणा दृष्टम् । शकलशब्दाद् दृष्टं सामेत्यर्थे अण् । अस्य शकलसंबन्धित्वं ब्राह्मणे श्रूयते शाकलं भवति । एतेन वै शकलः पञ्चमेऽहनि प्रत्यतिष्ठत् । प्रतितिष्ठति (तां ब्रा. १३. ३.९-१०) इति ॥ २ ॥ ६० आर्षेयब्राह्मणम्

आभरद्वसवे द्वे ॥ २.२.३ ॥

य आनयत् परावत (सा. १२७) इत्यस्यां सामद्वयम् । य आहाउ (ग्राम. ३. २. १२७.१) इति चतुर्थमन्द्रादिकम् । य आनयत् । परावाता (ग्राम. ३. २. १२७.२) इति चतुर्थमन्द्रादिकम् । एते द्वे आभग्द्वसवे आभरद्वसुसंबन्धिनी ॥ ३॥

तान्वे द्वे ॥२.२. ४॥

मान इन्द्राभ्या दिशः (सा. १२८) इत्यत्र सामद्वयम् । मान इन्द्राभियादाइशाः (ग्राम. ३.२.१२८.१) इति मन्द्रचतुर्थादिकं प्रथमम् । माना आइन्द्राभियादिशाः (ग्राम. ३. २. १२८. २) इति मन्द्रचतुर्थतृतीयादिक [द्वितीयम् । एते द्वे तान्वे । तन्वो नाम ऋषिः तेन दृष्टे ॥ ४ ॥

इन्द्रस्य रोहितकूलीये द्वे विश्वामित्रस्य वा ॥२.२.५॥

एन्द्र सानसि रयिम् (सा. १२९) इत्यत्र सामद्वयम् । एन्द्रमा (प्राम. ४.२. १२९.१) इति चतुर्थमन्द्रादिकमाद्यम् । एन्द्र सानसाइम् (ग्राम. ४. २. १२९. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य संबन्धिनी । रोहितकूलीये एतन्नामधेये । एतत्देवतानिबन्धनं नाम । अथवा विश्वामित्रस्य ऋषेः सामनी । अनयोर्विश्वामित्रसंबन्धित्वं ब्राह्मणे - रोहितकूलीयं भवति [आजिजित्यै ।] एतेन वै विश्वामित्रो रोहिताभ्यां रोहितकूल आजिमजयत् । विश्वामित्रो भरतानाम् इत्यादि । स एते सामनी अपश्यत् (ता. बा.१४.३.११-१३) इति ॥ ५ ॥ द्वितीयः अध्यायः (२)


इन्द्राण्याः सामनी द्वे ॥ २.२.६॥

इन्द्रं वयं महाधनः (सा. १३०) इत्यत्र सामद्वयम् । इन्द्राम् इद्रं वायाम् (ग्राम. ४. २.१३०.१) इति क्रुष्टद्वितीयादिकं प्रथमम् । इन्द्राम् । इन्द्रं वयाम् (ग्राम. ४. २. १३०. २) इति मन्द्रादिकं द्वितीयम् । एते द्वे इन्द्राण्याः सामनी ॥ ६॥

इन्द्रस्य च सहस्रबाहवीयम् ॥ २.२.७ ॥

अपिबत् कद्रुवः सुतम् (सा. १३१) इत्यतेक साम । अपि- बत्कावस्सुताम् (ग्राम. ४. २. १३१. १) इति मन्द्रादिकम् । इन्द्रस्य च सहस्रबाहवीयम् । सहस्रबाहुशब्दोपेतम् , एतन्नामकम् । मत्वर्थीयश्छः ।। ७ ।। धृषतो मारुतस्य साम । भरद्वाजस्यादारसृत् । धृषतश्चैव मारुतस्य साम । भरद्वाजस्य चैवादारसृती ॥ ८ ॥ वयामेन्द्र त्यायवः (सा. १३२) इत्यत्र पञ्च सामानि । वयमा इन्द्रा (ग्राम. ४. २. १३२. १) इति द्वितीयक्रुष्टादिक प्रथमं मारुतस्य मरुत्पुत्रस्य धृषत एतन्नामकस्य ऋषेः साम । हाउवयमिन्द्रा (ग्राम. ४. २. १३२.२) इति मन्द्रादिकं द्वितीय भरद्वाजस्यादारसन्नामकम् । निर्वचनं ब्राह्मणे दर्शितम् - दिवोदासं वै भरद्वाजस्य पुरोहितं नानाजनाः पर्ययन्त इत्यादि । अनेन दारे नासृन्मेति त[द]दारसृतोऽदारसृत्वम् (ता. बा. १५. ३. ७) इति । वयमिन्द्रा (ग्राम. ४.२.१३२.३) इति मन्द्रादिकं तृतीय मारुतस्य धृषतः एतन्नामकस्य ऋषेः स्वभूतम् । बयाआर्षेयवाह्मणम्

मौहो। इन्द्रा (ग्राम. ४.२. १३२. ४) इति मन्द्रचतुर्थादिक तुरीयम् । वयामौहोवाहाइ । इन्द्रा (ग्राम. ४. २. १३२. ५) इति तृतीयद्वितीयादिकं पञ्चमम् । एते द्वे भरद्वाजस्येवादारसृती एतन्नामके एव ।। ८ ।।

ऐध्मवाहानि त्रीणि ऐध्महाराणि वा ॥२.२. ९ ॥

आ घा ये अग्निमिन्धते (सा. १३३) इत्यस्यां सामत्रयमुत्पन्नम् । आघाये अग्निमिन्धताइ (ग्राम, ४.२.१३३. १) इति मन्द्रचतुर्थादिकं प्रथमम् । आघायइहा (ग्राम. ४.२.१३३. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । औहो आघायाए (ग्राम. ४. २. १३३.३) इति मन्द्रादिकं तृतीयम् । एतानि त्रीणि ऐध्मवाहानि इध्मवाहसंबन्धीनि एतन्नामकानि सामानि । अथवा ऐध्महाराणि इध्महारसंबन्धीनि एतन्नामानि । इध्म [नो वहने] वा हरणे वा एतानि सामानि विनियुक्तानि इत्यर्थः ॥ ९॥

अहे: पैड्वस्य सामाहेध्मो (हिघ्नोो?) वा पैड्वस्य पैल्वस्य वा ॥ २.२.१० ॥

भिन्धि विश्वा अप द्विषः (सा. १३४) इत्यस्यां सामैकम् । भि । ध्योहाइ (ग्राम. ४. २. १३४.१) इति मन्द्रचतुर्थादिकं पैड्वस्याहेः साम [वा अथवा आहेध्मो (अहिघ्नो!) पैड्वस्य पैल्वस्य वा साम] ॥ १०॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ तृतीयः खण्डः

ऐषं च ॥२.३.१॥

इहेब शृण्व एषाम् (सा. १३५) इत्यत्रैक साम । इहेवाशृण्व- एषाम् (ग्राम. ४. ३. १३५. १) इति द्वितीयक्रुष्टादिकम् ऐपम् एषेति पदयुक्तम् , पतन्नामकम् ॥ १॥

पौषं च ॥ २.३.२॥

इम उ त्वा विचक्षते (सा. १३६) इत्यस्यामेकं साम। इम- उत्वाविचक्षते (ग्राम. ४. ३. १३६.१) इति चतुर्थतृतीयादिक वा पौष पूषदेवताकम् , एतत्संज्ञकम् ।। २ ।।

मारुतं च संवेशीयम् । सिन्धुषाम वा ॥ २.३.३ ॥

समस्य मन्यवे विशः (सा. १३७) इत्यस्यामेक साम । समस्या- मा (ग्राम. ४. ३. १३७.१) इति क्रुष्टद्वितीयादिक मरुतां स्वभूत संवेशीयं संवेशशब्दयुक्तमेतन्नामकम् । अथवा सिन्धुषाम । सिन्धुर्नाम ऋषिः ॥ ३ ॥

हाविष्मते द्वे । हाविष्कृते द्वे ॥२.३.४॥

देवानामिदवो महत् (सा. १३८) इत्यत्र समचतुष्टयम् । अत्र देवा । नाम् (ग्राम. ४. ३. १३८.१) इति मन्द्रादिकं प्रथमम् । हाउदेवा- नामिदवोमहद्धाउ (ग्राम. ४. ३. १३८.२) इति मन्द्रादिकं द्वितीयम् । एते द्वे हाविष्मते हविष्मन्नामाङ्गिरा ऋषिः । तेन दृष्टे । देवानामिदवोहाउमा- हात् (ग्राम. ४. ३. १३८. ३) इति मन्द्रचतुर्थादिकं तृतीयम् । देवानामिदवो६४ आर्षेयब्राह्मणम्

महाद (ग्राम. ४. ३. १३८. ४) इति मन्द्रमन्द्रादिकं तुरीयम् । एते द्वे हाविष्कृते । हविकृदङ्गिरा ऋषिः । तेन दृष्टे । हविष्मांश्च चै हविष्कृच्चा- ङ्गिरमावास्ताम् (तां ब्रा. ११.१०.१०) इति ब्राह्मणम् । अत्र ऋषिद्योतनाय द्वितीयसामान्ते ओहोवा हविष्मते इति हि निधनं पठितम् । पश्चात्तृतीय- सामान्ते औहोवा हविष्कृते इति [च] हि निधनं पठितम् ।। ४ ।।

काक्षीवतं च ॥ २.३.५॥

सोमानां स्वरणं कृणुहि (सा. १३९) इत्यस्यामेकं साम । सोमानाश्स्वरणाम् (ग्राम. १.३.१३९.१) इति मन्द्रद्वितीयादिकं काक्षीवतम् । कक्षीवान्नाम ऋषिः । तेन दृष्टम् । अस्य साम्नः कक्षीवत्संबन्धित्वं ब्राह्मणे श्रूयते – काक्षीवतं भवति । कक्षीवान् वा एतेनौशिजः प्रजापति भूमानमगच्छत् (ता. बा. १४. ११.१६-१७) इति ।। ५ ।।

औषसं च ॥ २.३.६ ॥

बोधन्मनाः (सा. १४०) इत्यत्रकं साम । बोधन्मनाः (ग्राम. ४. ३. १४०. १) इति मन्द्रादिकम् औषसम् उषसः संबन्धि ॥ ६ ॥ भरद्वाजस्य मोक्षे द्वे । दक्षणिधनं वैनयोः पूर्वम् ॥७॥ अद्य नो देव सवितः (सा. १४१) इत्यत्र सामद्वयोत्पत्तिः । अद्यनोदेवसवितः । औहोवा (ग्राम. ४. ३. १४१.१) इति मन्द्रचतुर्थादिक प्रथमम् । अद्या । नोदेवमा (ग्राम. ४. ३. १४१.२) इति तृतीयद्वितीयादिक द्वितीयः अध्यायः (३) ६५

[द्वितीयम् ते द्वे भरद्वाजस्य मौक्षे एतन्नामधेये । अथवा अनयोः साम्नोः पूर्व साम दक्षणिधनं दक्षाया इत्यस्य निधनम् । अत्र ब्राह्मणम् प्रजापतिः प्रजा असृजत इत्यादि । तास्तेन माम्ना दक्षायेत्योजो वीर्य- मदधात् (ता. ब्रा. १४. ५. १३) इति ।। ७ ॥

भारद्वजानि त्रीणि । आर्षभानि वा सैन्धुक्षितानि वा ॥२.३.८॥

क्वस्य वृषभो युवा (सा. १४२) इत्यस्यां सामत्रयमुत्पन्नम् । कूवस्यवार्षभोयुवा (ग्राम. ४. ३. १४२. १) इति क्रुष्टद्वितीयादिकं [ प्रथमम् ] | कुवाकुवा (ग्राम. ४. ३. १४२.२) इति चतुर्थमन्द्रादिकं द्वितीयम् । ऐहीयेही । क्वस्यवृषभोयुवा (ग्राम. ४. ३. १४२. ३) इति मन्द्रादिकं तृतीयम् । एतानि त्रीणि सामानि भारद्वाजानि भरद्वाजेन दृष्टानि । अथवा आर्षभानि । ऋषभो नाम ऋषिः तस्य स्वभूतानि । यद्वा सैन्धुक्षितानि सिन्धुक्षिसं- बन्धीनि ।। ८ ॥

शाकत्यसामनी द्वे ॥२.३.९॥

उपहरे गिरीणाम् (सा. १४३) इति अत्र द्वे सामनी उत्पन्ने । उपहराइ (ग्राम. ४. ३. १४३. १) इति क्रुष्टद्वितीयादिकं प्रथमम् । इदा- मीदाम् (ग्राम. ४. ३. १४३. २) इति तृतीयद्वितीयादिक द्वितीयम् । एते द्वे शाकत्यसामनी । शक्तिर्नाम वसिष्ठम्यापत्यम् ऋषिः । तेन दृष्टे ॥ ९॥

वार्षंधरे द्वे । कुत्सस्य प्रस्तोको द्वौ ॥ २.३.१० ॥

प्र संम्राजं चर्षणीनाम् (सा. १४४) इत्यस्यां चत्वारि सामान्युत् आर्षेयब्राह्मणम्


पलानि | तत्र प्रसंम्राजम् (ग्राम. ४. ३. १४४.१) इति चतुर्थमन्द्रादिकम् ।

प्रसंग्राजोदाइ (ग्राम. ४. ३. १४४. २) इति चतुर्थमन्द्रादिकम् । एते द्वे
वार्षधरे वृपंधरसंज्ञो नाम ऋषिः। तेन दृष्टे | संज्ञायां भृतृृवृजि 

(पा. ३.२.४६) इति वृषंधरशब्दः । प्रसंम्राजंच (ग्राम, ४, ३, १४४, ३)

इति तृतीयचतुर्थादिकं तृतीयम् । प्रसंम्राजंचर्षणीनामिन्द्रंस्तोतान (ग्राम.
४. ३. १४४, ४) इति चतुर्थमन्द्रादिकं [ तुरीयम्]। ते द्वे, – कुत्सस्य
संबन्धिनौ प्रस्तोकौ प्रकर्षस्तदनयोम्यौ - एतन्नामके । विशेष्यस्य पुल्लिङ्गत्वाद् 

विशेषणं द्वाविति पदं तल्लिङ्गमिति नाम्ति विरोधः ।। १० ।।

इति श्रीमायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणे

द्वितीयाध्याये तृतीय: स्वण्डः ॥ ३ ॥ चतुर्थः खण्डः


औपगवे द्वे ॥२.४.१॥

अपादु शिप्यन्धसः (सा. १४५) इत्यत्र सामद्वयमुत्पन्नम् । अपा- दुशी (ग्राम. ४.४.१४५.१) इति मन्दस्वरादिकं प्रथमम् । अपादृशि- प्रियंधसाः (ग्राम. ४. ४.१४५. २) इति मन्द्रद्वितीयादिकं द्वितीयम् । ते द्वे औपगवे उपगुना दृष्टे ॥ १॥

अत्र ऋषिनामविकल्पान् दर्शयति -

सौश्रवसे वाथमथे वा मथाथे वा सौमित्रे वा शैखिण्डिने वा ॥२.४.२॥

अथवा सौश्रवसनामके एते सामनी । सौश्रवसं भवति । उपगुर्वे सौश्रवसः (ता. बा. १५. ६. ७-८) इति ब्राह्मणम् । यद्वा अथमथनामके सौमित्रे वा शैखिण्डिननामधेये वा ॥ २ ॥

त्वाष्ट्रीसाम ॥ २.४.३ ॥

इमा उ त्वा पुरूवसः (सा. १४६) इत्यत्रैक सामोत्पन्नम् । इमा- उत्वा (ग्राम. ४. ४. १४६.१) इति मन्द्रा त्वाष्ट्रीसामनामकम् । त्वाष्ट्रीसाम भवति । इन्द्र वा अक्ष्यामयिण भूतानि नास्वापयन् । (तां ब्रा. १२. ५.१८-१९) इत्यादि ब्राह्मणमनुसंधेयम् ॥ ३ ॥

त्वष्टुरातिथ्ये द्वे ॥ २.४.४॥

अत्राह गोगमन्वत (सा. १४७) इत्यत्र सामद्वयोत्पत्तिः । आत्रा (ग्राम. ४. ४.१४७.१) इति चतुर्थमन्द्रादिकम् । हावात्रा (ग्राम. ४. ४. ६८ आर्षेयब्राह्मणम्

१४७. २) इति चतुर्थमन्द्रादिकम् । ते द्वे त्वष्टुरातिथ्यनाम- धेये ॥ ४॥

पौषे द्वे ॥ २.४.५॥

यदिन्द्रो अन यत् (सा. १४८) इत्यत्र सामद्वयोत्पत्तिः । यदिन्द्रोया (ग्राम. ४. ४. १४८.१) इति मन्द्रादिकम् । यदिन्द्रो अनयद्रिताए (ग्राम, ४.४.१४८.२) हति मन्द्रादिकम् । एते द्वे पोपे पौषनामके ॥ ५ ॥

श्यावाश्वे द्वे ॥ २.४.६॥

गौधयति (सा. १४९) इत्यत्र सामद्वयम् । गौड़यांए (ग्राम. ४. ४. १४९.१) इति मन्द्रमन्द्रादिकं प्रथमम् । गौर्द्धयति मरुतामे (ग्राम. ४. ४.१४९. २) इति मन्दमन्द्रादिकं द्वितीयम् । ते द्वे श्यावाश्ये एतन्नामके ॥ ६॥

प्रजापतेः सुतंरयिष्ठीये द्वे । सहोरयिष्ठीये वा ॥ २.४.७ ॥

उप नो हरिभिः (सा. १५०) इत्यत्र सामद्वयोत्पत्तिः । उपनो हरिभिस्सुतोवा (ग्राम. ४. ४. १५०. १) इति द्वितीयक्रुष्टादिकं प्रथमम् । उपनो हाहोहा (ग्राम. ४. ४.१५०.२) इति मन्द्रचतुर्थादिक द्वितीयम् । एते द्वे सुतंरयिष्ठशब्दयुक्ते । एतन्नामके । द्वितीयसामान्ते सुतशयिष्ठा इति निधनत्वेन साम्नि पठितत्वात् । वा अथवा सहोगयिष्ठीये एतन्नामधेये ॥ ७ ॥ द्वितीयः अध्यायः (४) ६९ .

इष्टाहोत्रीयं चाप्सरसं वापांनिधिः ॥ २.४.८ ॥

इष्टा होत्रा असृक्षत (सा. १५१) इत्यत्रैक साम । इष्टाहोत्राः (ग्राम. ४. ४.१५१.१) इति मन्द्रचतुर्थादिकम् । इष्टाहोत्रीयम् । इष्टाहोत्र- शब्दयुक्तमेतन्नामधेयम् । मतो छः सूत्रसम्नोः (पा. २. ५. ५९) इति अथवा अप्सरसनामकम् , अपांनिधिनामकं वा । उदधि- [निधि ] रिति निधनत्वेन साम्नि पठितम् ॥ ८ ॥

प्रजापतेर्निधनकामं सिन्धुषाम वा ॥ २.४.९॥

अहमिद्धि पितुष्परि (सा. १५२) इति अंत्रक सामोत्पन्नम् । अहमिद्धाइ पितुःपराइ (ग्राम. ४. ४. १५२.१) इति चतुर्थमन्द्रादिक प्रजापतेः निधनकामनामकम् । औहो औहोवा हाउ वा इति सामनिधनत्वेन पठितत्वात् । यद्वा [सिन्धुषाम सिन्धुर्नाम ऋषिः तत्संबन्धि साम ।। ९ ॥]

रेवत्यश्च वाजदावर्यो वा ॥ २.४.१० ॥

रेवतीनः सधमाद (सा. १५३) इति अत्रैक सामोत्पन्नम् । रेवती- नाः (ग्राम. ४. ४. १५३. १) इति मन्द्रादिक रेवत्यः रेवतीशब्दयुक्तं साम । रेवतीपदवचने [न] सामाभिधीयते इति तत्पदस्यैवोपादानं कृतम् । तत्तु स्त्रीलिङ्ग- मिति न विरोधः । वा यद्वा वाजदावर्यः । एतन्नामधेयम् । वाजदावों भवन्ति । अन्नं वै वाजः (ता. ब्रा. १३. ९. १२.-१३) इत्यादि लिङ्गम् । वाज- दावों रेवत्यो मातरः (ता. ब्रा. १३.९.१७) इति च ब्राह्मणमनुसंधेयम् ।।१०॥

सौमापौषं च गोअश्वीयं वा ॥ २.४.११ ॥

सोमः पूषा च चेततुः (सा. १५४) इत्यस्यामेकं साम । सोमः पूषा (ग्राम. ४. ४. १५४.१) इति मन्द्रादिकम् । सोमपूषदेवताकमेतन्नामक साम । देवताद्वन्द्वे च (पा. ६. ३. २६) इत्यादिना उभयपदवृद्धिः । चकारो भिन्नवाक्यद्योतनार्थः । वा यद्वा गोअश्वीयम् एतच्छब्दयुक्तं साम । गावो अश्वा इति निधनत्वेन साम्नि पठितम् ॥ ११ ॥

इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ पञ्चमः खण्डः


वैतहव्यानि त्रीणि । ओकोनिधनं वैषां तृतीयम् ॥२.५.१॥

पान्तमा वो अन्धसः (सा. १५५) इत्यत्र सामत्रयोत्पत्तिः । तत्र पान्तमावो अन्धसाः (ग्राम ४. ५.१५५.१) इति चतुर्थमन्द्रादिकम् प्रथमम् । पान्तमावोअन्धसः (ग्राम. ४. ५.१५५. २) इति चतुर्थमन्द्रादिकम् द्वितीयम् । पान्तम् (ग्राम. ४. ५.१५५. ३) इति तृतीयमन्द्रादिकं तृती- यम् । एतानि त्रीणि वैतहव्यानि । वीतहव्यो नाम ऋषिः । यद्वा एषां मध्ये तृतीयं साम ओकोनिधनम् एतन्नामधेयम् । ओका इति निधनम् गीतम् ॥ १॥

शकत्य। गौरीविते द्वे । शाक्त्यसाम चैव गौरीवितं चैव । सर्वाणि वा शाक्त्यसामानि । सर्वाणि वा गौरीवितानि ॥ २.५.२॥

प्र व इन्द्राय मादनम् (सा. १५६) इत्यत्र षट्र सामानि उत्पन्नानि । तत्र प्रवइन्द्रा (ग्राम. ४. ५. १५६. १) इति क्रुष्टद्वितीयादिकं प्रथमम् । प्रवाइन्द्रा (ग्राम. ४. ५. १५६. २) इति क्रुष्टद्वितीयकुष्टादिकं द्वितीयम् । एते द्वे शाक्त्यसामनी । शक्तिर्नाम वसिष्ठस्यापत्यम् ऋषिः । प्रवईया (ग्राम. ४.५. १५६. ३) इति द्वितीयतृतीयादिकं तृतीयम् । प्रयौहोवा (ग्राम. ४. ५. १५६. ४) इति द्वितीयक्रुष्टादिकं तुरीयम् । ते उभे गौरी- विते । एतन्नामधेयके । प्रवोददा (ग्राम. ४. ५. १५६. ५) इति द्वितीय- तृतीयादिकं प्रञ्चमं शाक्त्यं सामैव । प्रवः (ग्राम. ४. ५. १५६. ६) इति चतुर्थमन्द्रादिकं षष्ठं साम गौरीवितनामकम् । गौरीवितिर्वा एतच्छाक्त्यो द्वितीयः अध्यायः (५) ७१

ब्राह्मणोऽतिरिक्तमपश्यमुद्गौरीवितं भवति । (ता. ब्रा. ११. ५.१४) इति हि ब्राह्मणम् । यद्वा सर्वाणि षट् सामानि शाकत्यसामानि । यद्वा सर्वाणि गौरीवितानि ॥ २ ॥

काण्वे द्वे ॥ २.५.३ ॥

क्यमु त्वा तदिदर्थाः (सा. १५७) इत्यस्यां सामद्वयमुत्पन्नम् । वयंवायाम् (ग्राम. ४. ५. १५७.१) इति मन्द्रचतुर्थादिकम् । वयमूत्वा- तदिदर्थाः (ग्राम. ४. ५. १५७. २) इति मन्द्रद्वितीयादिकम् । ते उभे काण्वे कण्वेन दृष्टे ।। ३ ॥

गोरीविते द्वे । श्रौतकक्षं तृतीयम् ॥ २.५.४ ॥

इन्द्राय मद्वने सुतम् (सा. १५८) इत्यत्र सामत्रयमुत्पन्नम् । इन्द्रायमद्वनाइ (ग्राम. ४.५.१५८.१) इति चतुर्थमन्द्रादिकम् । इन्द्राय- मद्वनेहाउ (ग्राम. ४. ५. १५८. २) इति मन्द्रादिकम् । एते द्वे गौरी- विते एतन्नामधेये। इन्द्रायमद्वनेसुतम् । इन्द्रायमोवा (ग्राम. ४. ५. १५८. ३) इति चतुर्थमन्द्रादिकं तृतीयम् । श्रौतकक्षं श्रुतकक्षो नाम ऋषिः तेन दृष्टम् ॥ ४॥

सौमित्रे द्वे । इहवर्द्दैवोदासं तृतीयम् ॥२.५.५॥

अयं त इन्द्र सोमः (सा. १५९.) इत्यत्र सामत्रयमुत्पन्नम् । अयंत आ (ग्राम. ४. ५. १५९. १) इति मन्द्रस्वरादिकम् । अयंतइन्द्र सोमाः (ग्राम. ४.५, १५९, २) इति मन्द्रचतुर्थादिकम् । एते द्वे सौमित्रे एतन्नाम- धेये । अयंत इन्द्रसोमः (ग्राम, ४, ५.१५९.३) इति चतुर्थतृतीयादिकं तृतीयं साम इहवदैवोदासम् । दिवोदासेन दृष्टम् । अत्र ईहेति हि निधनम् ॥ ५॥ . ७२ आर्षेयब्राह्मणम्


रैणवे द्वे वैणवे वा । शाक्वरवर्णं वैनयोः पूर्वम् । औदले द्वे । वीङ्कं वैनयोः पूर्वम् ॥ २.५.६ ॥

सुरूपकृत्नुमृतये (सा. १६०) इत्यत्र चत्वारि सामान्युत्पन्नानि । तत्र सरू (ग्राम. ४. ५, १६०.१) इति चतुर्थमन्द्रादिकम् । सुरूहाहाउ (ग्राम. ४. ५.१६०. २) इति मन्द्रस्वरादिकम् । एते द्वे रैणवे एतन्नामधेये भवतः । यद्वा चैणवनामधेये । अथवा एतयोः साम्नोः पूर्वमादिमं साम शाक्वरवर्णसंज्ञम् । सुरूपकुत्नमृतायाइ (ग्राम. ४. ५. १६०.३) इति द्वितीयतृतीयादिकम् । सुरूपक (ग्राम. ४. ५. १६०. ४) इति चतुर्थमन्द्रा- दिकम् । एते द्वे सामनी औदले एतत्संज्ञे भवतः । उदलो वा एतेन वैश्वामित्र (ता. ब्रा. १४. ११. ३४) इति हि ब्राह्मणम् । यद्वा एनयोः पूर्व वीङ्कनामधेयम् ॥ ६ ॥

आर्षभानि त्रीणि । सैन्धुक्षितानि वा बाध्यश्वानि वा ॥२.५.७॥

अभि त्वा वृषभा सुते (सा. १६१) इत्यत्र सामनयमुत्पन्नम् । अभित्वा वृषभासुताइ (ग्राम. ५. ५. १६१.१) इति मन्द्रचतुर्थादिकम् । अभिन्वा वृषभासुते अभ्याहाउ (ग्राम. ५. ५. १६१. २) इति मन्द्रस्वरा- दिकम् । अभित्वा वृषभासुते । सुतं सृजोवा (ग्राम. ५. ५. १६१. ३) इति मन्द्रचतुर्थादिकम् । एतानि त्रीणि सामानि आर्षभानि । यद्वा सैन्धुक्षितानि वाध्यश्वानि वा । वाध्यश्चो नाम ऋषिः ॥ ७ ॥

कोत्से द्वे । पाञ्चवाजे वा दाशवाजे वा ॥ २.५.८॥

य इन्द्र चमसेष्वा (सा. १६२) इत्यत्र सामद्वयमुत्पन्नम् । याही- न्द्रा (ग्राम. ५. ५. १६२. १) इति तृतीयद्वितीयादिकम् । यइन्द्रचामासे- पुवा (ग्राम. ५. ५.१६२.२) इति मन्दमन्द्रादिकम् । एते द्वे कौत्से । कुत्सो नाम ऋषिः । यद्वा पाश्चवाजे पतन्नामधेये । अथवा दाशवाजे एतत्संज्ञे भवतः ॥ ८॥ ७३ द्वितीयः अध्यायः (५)

सौमेधानि त्रीणि । पूर्वतिथानि वा पौर्वातिथानि वा ॥२.५.९॥

योगेयोगे तवस्तरम् (सा. १६३) इत्यत्र सामत्रयमुत्पन्नम् । योगे- योगेतवस्ताराम् (ग्राम. ५. ५, १६३. १) इति चतुर्थमन्द्रादिकं प्रथमम् । योगेयोगेतवस्ताराम् (ग्राम. ५. ५.१६३ २) इति मन्द्रमन्द्रादिकं द्वितीयम् । योगेयोगेतवाहाउस्तागम् (ग्राम. ५. ५. १६३. ३) इति मन्द्रचतुर्थादिकं [तृतीयम् ] । एतानि त्रीणि सामानि सौमेधानि । सुमेधा नाम ऋषिः । अपि वा पूर्वतिथानि । पौर्वातिथानि वा पूर्वतिथिसंबन्धीनि ॥ ९ ॥

दैवातिथं च मैधातिथं वा ॥ २.५.१०॥

आ त्वोता नि षीदत (सा.१६४) इत्यस्यामेकं साम । आतू । एतानि (ग्राम. ५.५.१६४.१) इति तृतीयद्वितीयादिकं दैवातिथं [देवातिथेः] स्वभूतम् । सपुत्रोऽशनायंश्चरन्नरण्य (तां. बा. ९.२.१२ ) इत्यादि ब्राह्मणमनुसंधेयम् । वा अथवा [ मैधातिथं ] मेधातिथिर्नाम ऋषिः तेन दृष्टम् ॥ १० ॥ इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ षष्ठः खण्डः


आङ्गिरसानि त्रीणि ॥२.६.१॥

इदं ह्यन्वोजसा (सा. १६५) इत्यत्र सामत्रयमुत्पन्नम् । इदामे (ग्राम. ५. ६. १६५.१) इति मन्द्रमन्द्रादिकं प्रथमम् । इदहिया औहो (ग्राम. ५. ६. १६५. २) इति मन्द्रचतुर्थादिकं द्वितीयम् । इदाने ओजसा (ग्राम. ५. ६. १६५. ३) इति मन्दमन्द्रादिकं तृतीयम् । एतानि वीण्याङ्गि- रसानि । अङ्गिरसः संबन्धीनि ॥ १॥

अत्रैवम् ऋषिविकल्पं दर्शयति--

अपि वा माधुच्छन्दसं क्रौञ्चं घृतश्चुन्निधनं प्राजापत्यं माधुच्छन्दसं वैव ॥ २.६.२ ॥

मषां मध्ये आदिम माधुच्छन्दसम् । द्वितीय क्रौञ्चनामधेयम् । तृतीयं प्राजापत्यं प्रजापतिस्वभूतं घृतश्चुन्निधनम् । घृतश्चुता [इति निधनयक्तम् । अत्र विकल्पः । वा यद्वा तृतीय साम माधुच्छन्दममेव ।। २

वाम्राणि त्रीणि । प्रैयमेधानि वा वैयश्वानि वाश्वानि वोद्गातृदमनानि वा ॥२.६.३॥

महाँ इन्द्रः पुरश्च नः (सा. १६६) इत्यत्र सामत्रयमुत्पन्नम् । महा इन्द्रा५: (ग्राम. ५. ६. १६६. १) इति चतुर्थमन्द्रादिकं प्रथमम् । महाहार इन्द्राः (ग्राम. ५. ६.१६६.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । महा द्वितीयः अध्यायः (६) ७५

इन्द्रा५: पुरश्चनाः (ग्राम. ५. ६. १६६. ३) इतिं चतुर्थमन्द्रादिकं [तृतीयम् ।] एतानि त्रीणि वाम्राणि वम्रसंबन्धीनि । यद्वा प्रैयमेधानि । प्रियमेधो नाम ऋषिः । अपि वा वैयश्वानि - व्यश्वो नाम ऋषिः । यद्वा आश्वानि अश्वभूत- प्रजापतिसंबन्धीनि । अथवा उद्गातृदमनानि एतन्नामधेयानि ॥ ३ ॥

गौरीविते द्वे । आपालवैणवे द्वे । वैणवे वापाले वाकूपारे वा पारववे वा ॥२.६.४॥

आ तू न इन्द्र क्षुमन्तम् (सा. १६७) इत्यत्र चत्वारि सामान्युत्पन्नानि । आतून आ (ग्राम. ५. ६.१६७.१) इति मन्द्रादिक प्रथमम् । अतून इन्द्र क्षुमान्ताम् (ग्राम. ५. ६. १६७.२) इति मन्द्रचतुर्थादिकं द्वितीयम् । एते द्वे गौरीवितनामधेये । आतूनइ (ग्राम. ५. ६. १६७.३) इति चतुर्थमन्द्रादिकं तृतीयम् । आतून इन्द्र क्षुमान्ताम् ( (ग्राम. ५. ६. १६७.४) इति मन्द्रमन्द्रादिकं तुरीयम् । एते द्वे आपालवैणवनामधेये । यद्वा वैणवापालापरनामधेये । यद्वा आकूपारे आकूपारनामधेये । आकूपारो नाम कश्यपः । अथवा पारववे वा। [एतन् -] नामके ॥ ४ ॥

धुरोः सामनी द्वे । महागौरीवितं तृतीयम् । गौरीवितं वैव ॥ २.६.५॥

अभि प्र गोपतिं गिरा (सा. १६८) इत्यत्र सामत्रयमुत्पन्नम् । अभी अभी । प्रगोपातिगिरा (ग्राम. ५. ६.१६८.१) इति चतुर्थ- मन्द्रादिकं प्रथमम् । अभी अभी । प्रगो (ग्राम. ५.६.१६८.२) इति ७६ आयब्राह्मणम्

चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे धुरोः सामनी । अभि । प्रगो (ग्राम. ५. ६. १६८. ३) इति मन्द्रतृतीयादिकं तृतीयं महागौरी वितनामकम् । यद्वा गौरीवितनामकमेव वा ॥५॥

वाचःसामनी द्वे । महावामदेव्यं तृतीयम् । वामदेव्यं वैव ॥२.६.६॥

कया नश्चित्र आ भुवद् (सा. १६९) [इत्यत्र] सामत्रयमुत्पन्नम् । कयानश्ची (ग्राम. ५. ६. १६९. १) इति मन्द्रादिकं प्रथमम् । होवाइ । होवाइकयानश्ची (ग्राम. ५.६.१६९. २) इति मन्द्रादिकं द्वितीयम् । एते द्वे वाचःसामनामके । काया (ग्राम. ५. ६. १६९. ३) इति तृतीयमन्द्रादिक महावामदेव्यम् [तृतीयम्] । यद्वा वामदेव्यमेव । वामदेव्यं भवति । एतेन वै वामदेवोऽन्नस्य पुरोधामगच्छत् । (ता. बा. १३. १. २६-२७) इति हि ब्राह्मणम् ॥ ६ ॥

इन्द्रस्य सत्रासाहीये द्वे । अजितस्य वाजिती ॥ २.६.७॥

त्यमु वः सत्रासहं (सा. १७०) इत्यत्र सामद्वयोत्पत्तिः । त्यमुवाः (ग्राम. ५ ६. १७०. १) इति मन्द्रादिकं प्रथमम् । त्याम् । उवस्सनासाहम् (ग्राम. ५. ६. १७०. २) इति द्वितीयतृतीयादिकं द्विती- यम् । एते द्वे इन्द्रस्य सत्रासाहीये सत्रासाहशब्दयुक्त । सत्रासाहीय मवति । यद्वा असुराणामसोढमासीत् । तद्देवाः सत्रासाहीयेनासहन्त । सोनानसमहीति तत्सत्रासाहीयस्य सत्रासाहीयत्वम् । (ता. ब्रा. १२. ९. २१) इति ब्रामणम् । यद्वा अजितस्य वाजिती इति ॥ ७ ॥ द्वितीयः अध्यायः (६) ७७


वामदेव्यं च ॥ २.६.८॥

सदसस्पतिमद्भुतम् (सा. १७१) इत्यत्रैक साम । सादा (ग्राम. ५. ६. १७१. १) इति चतुर्थमन्द्रादिकं वामदेव्यम् । चकारो भिन्नवाक्यद्योतनार्थः ॥ ८॥

अश्विनोश्च साम ॥ २.६.९॥

ये ते पन्था अधो दिवः (सा. १७२) इत्यत्र एक साम । हाइ । आप्सुदाक्षा (ग्राम. ५. ६. १७२. १) इत्यादि द्वितीयद्वितीयादिकम् अश्विनोः साम ॥ ९॥

गौतमस्य च भद्रम् ॥ २.६.१० ॥

भद्रं भद्रम् (सा. १७३) इत्यत्रैक साम । (ग्राम. ५. ६. १७३. १) इति मन्द्रचतुर्थादिकं गौतमस्य भद्रम् ।। १० ।।

अश्विनोश्चैव साम । सोमसाम वा ॥ २.६.११ ॥

अस्ति सोमो अय सुतः (सा. १७४) इत्यत्रक साम । अस्तिसोम (ग्राम. ५. ६. १७४. १) इति तृतीयचतुर्थादिकम् अश्विनोश्चैव [साम ।] सोमसाम वा ॥११॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये षष्ठः खण्डः ॥ ६ ॥ सप्तमः खण्डः


त्वाष्ट्रीसाम च ॥ २.७.१॥

ईङ्खयन्तीरपस्युवः (सा. १७५) इत्यत्रैकं साम । ईङ्खयन्तीः (ग्राम. ५. ७. १७५. १) इति मन्द्रादिकं त्वाष्ट्रीसामनामकम् ॥ १ ॥

गोधासाम च ॥ २.७.२॥

नकि देवा इनीमसि (सा. १७६) इत्यत्रैकंं साम । नकिदेवाः (ग्राम. ५. ७. १७६. १) इति मन्द्रादिकं गोधासाम ।। २ ॥

सवितुश्च साम ॥ २.७.३॥

दोषो आगाद् (सा. १७७) इत्यत्रैकं साम । दोषो आगात (ग्राम. ५. ७. १७७.१) इति चतुर्थमन्द्रादिकंं सवितुः साम ।। ३ ॥

उषसश्च साम ॥२.७.४॥

एषो उषा अपूर्व्या (सा. १७८) इत्यत्रैकं साम । एषोउषाः (ग्राम. ५. ७. १७८. १) इति मन्द्रादिकम् उषसः साम । सर्वे चकारा भिन्नवाक्य- द्योतकाः ॥ ४ ॥

त्वष्टुरातिथ्ये द्वे ॥२.७.५॥

इन्द्रो दधीचो अस्थिभिः (सा. १७९) इत्यत्र सामद्वयम् । इन्द्रोदधीचोअस्थभिरियाईया (ग्राम. ५. ७. १७९. १) इति क्रुष्टद्वितीया- दिकं प्रथमम् । इन्द्रोदधाइ(ह?) (ग्राम. ५. ७. १७९. २) इति मन्द्रादिकं द्वितीयम् । एते द्वे त्वष्टुरातिथ्यनामके ॥ ५ ॥

पौषं च ॥२.७.६॥

इन्द्रेहि मत्स्यन्धसः (सा. १८०) इत्यत्रैकं साम ।। न्द्रेहि माहाउ (ग्राम. ५. ७. १८०. १) इति मन्द्रादिकं पौषम् ॥ ६ ॥ द्वितीयः अध्यायः (७) ७९


इन्द्रस्य च माया ॥ २.७.७॥

आ तु न इन्द्र वृत्रहन् (सा. १८१) इत्यत्रैकं साम । आतूऔहो (ग्राम. ५. ७. १८१. १) इति तृतीयद्वितीयादिकम् इन्द्रस्य माया । एतन्नामकम् ॥ ७॥

इन्द्रस्य सांविर्ते द्वे । संवर्तस्य वाङ्गिरसस्य ॥ २.७.८॥

ओजस्तदस्य तित्विपे (सा. १८२) इत्यत्र सामव्यमुत्पन्नम् । हा। हाउवा । ओजस्तदस्यतित्विषे (ग्राम. ५. ७. १८२.१) इति मन्द्रद्वितीयादिकं प्रथमम् । ओजस्तदास्पतित्विषाइ (ग्राम. ५. ७. १८२. २) इति चतुर्थमन्द्रादिकं द्वितीयम् । एते द्वे इन्द्रस्य सांवते रक्षःसंवर्तन- हेतुभूते । तथा च ब्राह्मणम् – देवानां वै यज्ञं रक्षास्यजिघांसंस्तान्येते- नेद्रः संवर्तमुपावपद्यत् संवर्तमुपावपत् तस्मात् सांवर्तम् (ता. ब्रा. १४. १२. ७) इति । यद्वा एते सामनी आङ्गिरसस्य संवर्तस्य स्वभूते ॥ ८ ॥

शौनःशेपं च च्यावनं वा ॥ २.७.९ ॥

अयमु ते समतसि (सा. १८३) इत्यत्रैकं साम । अयामु (ग्राम. ५. ७. १८३. १) इति चतुर्थतृतीयादिकं शौनःशेपम् । वा अथवा च्यावन च्यवनदृष्टं साम ।। ९ ।।

प्रतीचीनेडं च काशीतम् ॥ २.७.१० ॥

बात आ वातु (सा. १८४) इत्यत्रैक साम वातआवातु (ग्राम. ५. ७. १८४. १) इति चतुर्थमन्द्रादिकं प्रतीचीनेडं काशीतम् ८० आर्षेयब्राह्मणम्

एतन्नामधेयकम् । ईडेत्यस्य वा निधनम् । तथा च ब्राह्मणम् – प्रतीचीनेडं काशीतं भवति । पराचीमिर्वा अन्याभिरिडाभी रेतो दधतेत्यथैतत् प्रतीचीनेडं काशीतम् । (ता. ब्रा. १५. ५. १६) इति ॥ १०॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आषर्येब्राह्मणे द्वितीयाध्याये सप्तमः खण्डः ॥ ७ ॥ अष्टमः खण्डः


सौमित्रं च ॥ २.८.१॥

य रक्षन्ति (सा. १८५) इत्यत्रैकं साम । यक्षन्तिप्रचेतसाः (ग्राम. ५. ८. १८५.१) इति चतुर्थमन्द्रादिकं सौमित्रम् । सुमित्रः कुत्सः तेन दृष्टम् । सुमित्रः कुत्सः कन्याण आस इत्यादि । स तपोऽतप्यत । स एतत्सौमित्रमपश्यत् । (तां. वा. १३.६.९-१०)इति [अन्तं] हि ब्राह्मणम् ॥ १

श्यावाश्वे च ॥२.८.२॥

गव्यो षु णो यथा पुरा (सा. १८६) इत्यत्र सामद्वयोत्पत्तिः । गव्योपुणोयथापुरा (ग्राम. ५.८.१८६.१) इति मन्द्रचतुर्थादिकमाद्यम् । गव्योषुणोयथापुराए (ग्राम. ५.८.१८६.२) इति मन्द्रमन्द्रादिकं [द्विती- यम् । एते द्वे श्यावाशे । श्यावाश्वो नाम ऋषिः ॥ २॥

शैखण्डिनं च ॥ २.८.३ ॥

इमास्त इन्द्र (सा. १८७.) इत्यत्रैक साम । इमास्तई (ग्राम. ५. ८. १८७.१) इति मन्द्रादिकं शैखण्डिनम् ।। ३ ।।

वैतहव्यं च ॥ २.८.४ ॥

अया धिया च गव्यया (सा. १८८) इत्यत्रैक साम । आया- धियाचगव्याया (ग्राम. ५.८.१८८.१) इति मन्द्रादिकं वैतहव्यम् । वीतहव्यो नाम ऋषिः ॥ ४ ॥

भारद्वाजं च ॥ २.८.५॥

पावका नः सरस्वती (सा. १८९) इत्यत्रैक साम । पावकानईया (ग्राम. ५. ८. १८९. १) इति मन्द्रचतुर्थादिकं भारद्वाजं भरद्वाजेन दृष्टम् ॥ ५॥ ८२ आर्षेयवाह्मणम्


आरुणस्य च वैतहव्यस्य साम सौभरं वा ॥ २.८.६॥

क इमं नाहुषीषु (सा. १९०) इत्यत्रैकं साम । कइमम् (ग्राम. ५.८.१९०.१) इति चतुर्थमन्द्रादिकम् आरुणस्य च वैतहव्यस्य साम । वा अथवा सौभरम् ॥ ६ ॥

सौभरं चैव ॥ २.८.७ ॥

आ याहि सुषुमा हि ते (सा. १९१ ) इत्यत्रैकं साम । आयाहिमू (ग्राम. ५. ८. १९१.१) इति मन्द्रादिकं सौभरमेव ।। ७ ॥

पाष्ठौहे द्वे ॥ ८॥

महि त्रीणाम् (सा. १९२) इत्यत्र सामद्वयम् । माहाइत्राइणाम् (ग्राम. ५.८.१९२.१) इति तृतीयद्वितीयादिकं प्रथमम् । महीत्रीणामवर- स्तूए (ग्राम. ५.८.१९२.२) इति मन्द्रादिकं द्वितीयम् । एते द्वे पाष्ठौहे पाष्ठवाडाङ्गिरसः तेन दृष्टे । दृष्टं साम (पा. २.३.४७) इत्यर्थे अणि भसंज्ञायां वा रूपम् ॥ ८ ॥

साकमश्वं च धुरां वा साम ॥२.८.९॥

त्वावतः (सा. १९३) इत्यत्रैकं साम । त्वावतो (ग्राम. ५. ८.१९३. १) इति क्रुष्टद्वितीयादिकं साकमश्वम् । वा अथवा तत्साम धुरां सामनामधेयम् तथा च ब्राह्मणम् - साकमश्वं भवति । यदेव साकमश्वस्य ब्राह्मणं भवति तदु धुरां सामेत्याहुः (तां. ब्रा. १४.९.१७) इति ॥ ९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये द्वितीयाध्याये अष्टमः खण्डः ॥ ४ ॥ नवमः खण्डः


यामं च ॥२.९.१॥

उ वा मन्दन्तु सोमाः (सा. १९४) इत्यनेक साम । उत्वामन्द- न्तुसोहोमाः (ग्राम. ५. ९.१९४.१) इति मन्द्रचतुर्थादिकं याम यमेन दृष्टम् । चशब्दो भिन्नवाक्यद्योतनार्थः ॥१॥

आङ्गिरसं च हरिश्रीनिधनम् ॥ २.९.२॥

गिर्वणः पाहि नः सुतम् (सा. १९५) इत्यत्रैकं साम । गिर्वण:- पाहिनःसुतम् (ग्राम. ५. ९. १९५.१) इति चतुर्थमन्द्रादिकम् आङ्गिरसम् अङ्गिरःसंबन्धि हरिधीनिधननामकम् । अत्र हरिश्रीरिति हि निधनं गीतम् ।।२

वैरूपं च ॥ २.९.३॥

सदा व इन्द्रः (सा. १९६) इत्यत्रैक साम । सादा। वइन्द्राः (ग्राम. ५.९.१९६.१) इति चतुर्थमन्द्रादिकं वैरूपं विरूपऋषिणा दृष्टम् ॥ ३॥

आसितं च सिन्धुषाम वा ॥ २.९.४ ॥

आ त्वा विशन्त्विन्दवः (सा. १९७) इत्यत्रैक साम । आत्वा- विशन्त्धिन्दावाः (ग्राम. ५.९.१९७.१) इति मन्द्रादिकम् आसितम्, असितो नाम ऋषिः, तेन दृष्टम् । वा यद्वा सिन्धुपामैतत् । पूर्वपदादि- पत्वम् ।। ४ ॥

यमस्यार्कः इन्द्रस्य वा ॥२.९.५॥

इन्द्रमिद्गाथिनो बृहद् (सा. १९८) इत्यत्रैक साम । इन्द्रमिद्गा- थिनोवृहात (ग्राम. ५. ९.१९८.१) इति मन्द्रतृतीयादिकं यमस्यार्कः । अथवा इन्द्रस्यार्कः ॥ ५॥ ८४ आयब्राह्मणम्


सौमित्रे द्वे ॥ २.९.६॥

इन्द्र इषे ददातु नः (सा. १९९) इत्यत्र सामद्वयोत्पत्तिः । इन्द्र- इषेददातुनः । ओहाइ (प्राम. ५.९.१९९.१) इति चतुर्थमन्द्रादिक- माद्यम् । इन्द्रइषेददातुनाए (ग्राम. ५.९.१९९.२) इति मन्द्रमन्द्रादिकं द्वितीयम् । एते द्वे सौमित्रे सुमित्रो नाम ऋषिः कुत्सः ॥ ६ ॥

इन्द्रस्य चाभयंकरम् ॥ २.९.७॥

इन्द्रो अङ्ग महद्भयम् (सा. २००) इत्यत्रै साम । इन्द्रोअङ्गा (ग्राम. ५.९.२००.१) इति मन्द्रादिकम् इन्द्रस्य चाभयंकरम् ॥ ७ ॥

त्वाष्ट्रीसाम च ॥ २.९.८॥

इमा उ त्वा (सा. २०१) इत्यत्रैक साम । इमाउत्वा (ग्राम. .५९.२०१.१) इति मन्द्रादिकं त्वाष्ट्रीसाम ॥ ८ ॥

पौषं च ॥२.९.९॥

इन्द्रा नु पूषणा (सा. २०२) इत्यत्रैक साम । इन्द्रानुपू (ग्राम. ५.९.२०२.१) मन्द्रादिकं पौषं पूषदेवताकम् ॥ ९॥

इन्द्राण्याः साम ॥२.९.१०॥

न कि इन्द्र त्वदुत्तरम् (साम. २०३) इत्यत्रैक साम । न । क्ये नाकी (ग्राम. ५.९.२०३.१) इति चतुर्थचतुर्थादिकम् इन्द्राण्याः साम । इन्द्रवरुण (पा. ४,१.४९) इति ङीषानुकौ ॥ १० ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये नवमः खण्डः ॥ ९॥ दशमः खण्डः


श्यावाश्वं च तारणं वा ॥२.१०.१॥

तरणिं वो जनानाम् (सा. २०४) इत्यत्रैक साम । तरणिवाः (५.१०.२०१.१) इति मन्द्रादिकं श्यावाश्वम् । अथवा तारणं ॥१॥

वैरूपं च ॥२.१०.२॥

असृग्रमिन्द्र ते गिरः (सा. २०५) इत्यत्रैक साम । असृग्रमा- इन्द्रान्तेगिराः (५.१०. २०५. १) इति मन्द्रमन्द्रादिकं वैरूपम् ॥ २ ॥

सौमित्रं च कौत्सं वा ॥ २.१०.३ ॥

सुनीथो घा स मर्त्यः (सा. २०६) इत्यत्रैक साम । सुनीथो- घासमर्तियाः (ग्राम. ५.१०.२०६.१) इति चतुर्थमन्द्रादिकं सौमित्रं सुमित्रेण ऋषिणा दृष्टम् । अथवा कौत्सं वा । कुत्सऋषिणा दृष्टं वा ।। ३ ।।

तौभं च ॥ २.१०.४ ॥

यद्वीडाविन्द्र यत्स्थिरे (सा. २०७) इत्यत्रैक साम। औहोवा- औहोवा । ओया। यद्वीडावीन्द्रायत्स्थिराइ (ग्राम. ५. १०. २०७.१) इति द्वितीयतृतीयादिक तौभम् ।। ४ ।।

श्रौतं च ॥ २.१०.५॥

श्रुतं वो वृत्रहन्तमम् (सा. २०८) इत्यत्रैक साम । श्रुताम् (ग्राम, ५. १०. २०८. १) इति मन्द्रचतुर्थादिकं श्रीनं श्रुतशब्दोपेतं ८६ आर्षेयवाह्मणम्


आभीशवं च ॥ २.१०.६॥

अरं त इन्द्र श्रवसे (सा. २०९) इत्यत्रैक साम । अरंतइन्द्र- श्रवसेए । ए (ग्राम. ६.१०.२०९.१) इति मन्द्रादिकम् आभीशवम् । आमीशवं यदेवाभीशवस्य । देवस्थानं भवति । (ता. बा. १५. ३. २७-२८) इति ब्राह्मणम् अनुसंधेयम् ।। ६ ॥

पौषं च ॥ २.१०.७॥

धानावन्तं करम्भिणम् (सा. २१०) इत्यत्रैक साम । धानावन्तं- करम्भिणाम् (ग्राम. ६. १०. २१०.१) इति मन्द्रतृतीयादिक पौषम् ॥ ७॥

इन्द्रस्य क्षुरपवि ॥ २.१०.८॥

अपां फेनेन नमुचेः (सा. २११) इत्यत्रैक साम । अपांफेने (ग्राम. ६. १०. २११.१) इति मन्द्रचतुर्थादिकम इन्द्रस्य क्षुरपवि । [इन्द्रस्य] वृष्णः । क्षुरः तीक्ष्णः । एतन्नामधेयं साम ॥ ८ ॥

सौमित्रे द्वे ॥२.१०.९॥

इमे त इन्द्र सोमाः (सा. २१२ ) इत्यत्रक साम । इमेतआ (ग्राम. ६. १०. २१२.१) इति मन्द्रादिकम् । तुभ्य५ सुतासः (सा. २१३) इत्यत्रैक साम । तुभ्यः हाउ (ग्राम. ६. १०. २१३.१) इति चतुर्थमन्द्रादि- कम् । एते द्वे सामनी सौमित्रे । सुमित्रः कुत्सः तेन दृष्टे । दृष्टं साम (पा. २.३.४७) इत्यणप्रत्ययः ॥ ९॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्रामणे द्वितीयाध्याये दशमः खण्डः ।। १० ।। एकादशः खण्डः


कौत्से च ॥२.११.१॥

आ व इन्द्रं कृषि यथा (सा. २१४) इत्यत्रैक साम । इन्द्राम् (ग्राम. ६.११. २१४.१) इति मन्द्रादिकम् । अतश्चिदिन्द्र न उपा (सा. २१५) इत्यत्रैक साम । अतश्चिदिद्रनउपाए (ग्राम. ६. ११. २१५.१) इनि मन्द्रमन्द्रादिकम् । एते उभे सामनी कौन्से कुत्सेन दृष्टे। चकारो वाक्यभेदार्थः । उत्तरत्राप्येवं द्रष्टव्यम् ।। १ ।।

औषसं च ॥ २.११.२॥

आ बुन्दं वृत्रहा ददे (सा. २१६) इत्यत्रैक साम । आबुंदव ग्राम. ६. ११. २१६.१) इति मन्द्रादिकम् औषमम् ॥ २ ॥

भारद्वाजं च ॥२.११.३॥

बृहदुक्थः हवामहे (सा. २१७) इत्यत्रैक माम। बृहदुकथहां- नामहाइ (ग्राम. ६.११. २१७. १) इति मन्द्रमन्द्रादिक भारद्वाजम् ।। ३ ।।

कौत्सं चैव ॥ २.११.४॥

ऋजुनीती नो वरुणः (मा. २१८) इत्यत्रैक साम । ऋजुनीती. नोवरुणः । इहा (ग्राम. ६. ११. २१८.१) इति मन्द्रचतुर्थादिकं कौत्स- मेव ।। ४ ॥

औषसं चैत्र ॥ २.११.५॥

दृरादिहेव यत्मतः (सा. २१०.) इत्यत्रैक साम । दुरादीहेव- यत्सताः (ग्राम. ६.५१. २१९. १) इति द्वितीयक्रुष्टादिकम् औषसमेव ॥ ५ ॥ ८८ आर्षेयब्राह्मणम्


मित्रावरुणयोश्च संयोजनम् ॥ २.११.६ ॥

आ नो मित्रावरुणा (सा. २२०) इत्यत्रैक साम । आनोमित्रा (प्राम. ६. ११. २२०.१) इति तृतीयचतुर्थादिक मित्रावरुणयोः संयोजनम् एतन्नामधेयम् ॥ ६॥

ऋतुषाम च ॥ २.११.७॥

उदु त्ये सूनवो गिरः (सा. २२१) इत्यत्रैक साम । उदुत्येसूना- वोगिराः (ग्राम. ६.११.२२१. १) इति मन्द्रमन्द्रादिकम् ऋतुषामनाम- धेयम् ॥ ७॥

विष्णोश्च साम ॥ २.११.८ ॥

इदं विष्णुर्वि चक्रमे (सा. २२२) इत्यत्रैकं साम । इदांमे (ग्राम. ७.११. २२२.१) इति मन्द्रमन्द्रादिकं विष्णोः साम एतन्नामधेयम् ॥ ८ ॥

इति श्रीसायणाचर्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणे द्वितीयाध्याये एकादशः खण्डः ॥ ११॥ . द्वादशः खण्डः


कौत्सं च ॥२.१२.१॥

अतीहि मन्युषाविगम् (सा. २२३) इत्यत्रैकं साम । अतीहिमा (ग्राम. ६.१२. २२३.१) इति मन्द्रादिकं कौत्सम् ॥ १ ॥

काश्यपं चाप्सरसं वा ॥ २.१२.२॥

कदु प्रचेतसे (सा. २२४) इत्यत्रैकं साम । कदुषचेनसे (ग्राम. ६. १२. २२४.१) इति तृतीय चतुर्थादिकं काश्यपम् । अथवा आप्सरमम् [एतन् ]नामधेयम् ॥ २ ॥

बार्हदुक्थे द्वे ॥ २.१२.३ ॥

उकथं च न शस्यमानम् (सा. २२५) इत्यत्रैक साम । उक्थं- चनोहाइ (ग्राम. ६.१२.२२५.१) इति मन्द्रचतुर्थादिकम् । इन्द्र उकथेभिः (सा. २२६) इत्यत्रैक साम । इन्द्र उकथाइ (ग्राम. ६. १२. २२६.१) इति मन्द्रादिकम् । एते ऋगद्वयाश्रिते उभे सामनी बाई दुक्थे बृहदुक्थेन दृष्ट ॥ ३॥

कौत्सानि चैव त्रीणि ॥ २.१२.४ ॥

आ यााप नः सुतम् (सा. २२७) इत्यत्रैकं साम । आयाही (ग्राम. ६.१२.२२७.१) इति चतुर्थमन्द्रादिकम् ! कदा वसो स्तोत्रम् (सा. २२८) इत्यत्र सामद्वयमुत्पन्नम् । ओहोइ । कदापसो (ग्राम. ६.१२. २२८.१) इति द्वितीयक्रुष्टादिकम् । कदाऔहोवा (ग्राम. ६. १२. २२८. २) शति तृतीयद्वितीयादिकम् । एतानि ऋगद्वयाश्रितानि त्रीणि सामानि कौत्सान्येव ॥ ४ ॥ ९० 'अयब्राह्मणम्


और्ध्वसद्मने द्वे ॥२.१२.५॥

ब्राह्मणा दिन्द्र राधसः (सा. २२९) इत्यत्रैकं साम । ब्रामणादी (ग्राम. ६.१२. २२९.१) इति मन्द्रादिकम् । वयं घा ते अपि मसि (सा. २३०) इत्यत्रैक साम । वयंघाते अपिस्समाइ (ग्राम. ६. १२. २३०.१) इति मन्द्रचतुर्थादिकम् । एते ऋगद्वायाश्रिते द्वे सामनी और्ध्व- सबने एतन्नामधेये ॥५॥

अभीपादस्य चौदलस्य साम ॥ २.१२.६ ॥

एन्द्र पृक्षु कासु चित् (सा. २३१) इत्यत्रैकं साम । एन्द्रपृक्षु- का पुचीदे (ग्राम. ६.१२. २३१.१) इति मन्दमन्द्रादिकम् औदलस्य, उदलो विश्वामित्रः तदपत्यस्य, अभीपादस्य साम । ।। ६॥

आमहीयवं च ॥ २.१२.७॥

एवा धसि वीग्युः (सा. २३२) इत्यत्रैकं साम । ए होअसि- वीरयुः (ग्राम. ६. १२. २३२. १) इति मन्द्रद्वितीयादिकम् आमहीयवम् एतन्नामकम् । अन आमहीयवं मति (ता. बा. १५.९.५) इत्यादि ब्राह्मणमनुसंधेयम् ॥ ७॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयत्रामणभाष्ये द्वितीयाध्याये द्वादशः खण्डः ॥ १२ ॥

॥ द्वितीयोऽध्यायः समाप्तः ॥ २ ॥