सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः ६/पर्व ३(वाचोव्रतपर्व)

तृतीयपर्व

प्रथमः खण्डः

वाचोव्रते द्वे ॥ १ ॥

हुवे वाचाम् (स्तोभगानम्) इत्यत्र सामद्वयम् । हुवेवाचाम् (आ. गा. ४. १. १६७) इति द्वितीयादिकम् । हुवाइवाचाम् (आ. गा. ४.१. १६८) इति द्वितीयक्रुष्टादिकम् । एते द्वे वाचोव्रते एतन्नामधेये ॥१॥

शशस्य कर्षूशयस्य व्रतम् ॥ २ ॥

आ तू न इन्द्र वृत्रहन् (सा. १८०) इत्यत्रैकं साम । आतूना- इन्द्रवृत्रहन्हाउ (आ. गा. ४. १. १६९) इति द्वितीयक्रुष्टादिकम् । एतत् शशस्य कर्षूशयस्य व्रतमिति एतत्संज्ञकम् ॥ २ ॥

सत्रस्यर्धिः प्रजापतेः प्रतिष्ठा । व्याहृतिश्च ॥ ३ ॥

अगन्म ज्योतिः (स्तोभगानम् ) इत्यत्र सामैकम् । औहोवा इत्यादि अगन्मज्योतिः (आ. गा. ४.१. १७०) इति द्वितीयादिकं सत्रस्यर्धिः एतन्नामधेयम् । इममृ षु त्वमस्माकम् (सा. २८) इत्यत्र सामैकम् । इममॄषॄ (आ. गा. ४. १. १७१) इति द्वितीयादिकं प्रजापतेः प्रतिष्ठा- नामकम् | हाउ (त्रिः)। एवाहियेवाऔहोवा । ए । भूताया (आ. गा. ४.१. १७२) इत्यादि एकं साम प्रजापतेर्व्याहृतिनामधेयम् ॥ ३ ॥ २४४ आर्षेयब्राह्मणम्

परमेष्ठिनः प्राजापत्यस्य व्रतम् ॥ ६.३.१.४ ॥

मयि वर्ची अथो यशः (सा. ६०२) इत्यत्रैक साम । हाउ (त्रिः) आनोब्रुवाइ इत्यादि मयिवर्चः (आ. गा. ४. १. १७३) इति द्वितीयादिकं प्राजापत्यस्य परमेष्ठिनो व्रतम् एतन्नामकम् ॥ ४ ॥

कृष्णस्य चाङ्गिरसस्य व्रतम् ॥ ६.३.१.५॥

सोमासोमा यत्र चक्षुः (स्तोभगानम् ) इत्यत्रैक साम । सोमा (आ. गा. ४.१.१७४) इति क्रुष्टद्वितीयादिकम् आङ्गिरसस्य अङ्गिरसः पुत्रस्य कृष्णस्य एतन्नामकस्यर्षेः व्रतम् ॥ ५ ॥

सोमव्रते द्वे ॥६.३.१.६॥

संत पयांसि सनु (सा. ६०३) इत्यत्र सामैकम् । ओवा (त्रिः) सन्तेपया (आ. गा. ४. १. १७५) इति क्रुष्टद्वितीयादिकम् । त्वमिमा ओषधीः सोम विश्वाः (सा. ६०४ ) इत्यत्रैकं साम । हाउ (त्रिः) हौत्रा इत्यादि त्वमिना ओरधीः सोमविश्वा (आ. गा. ४. १. १७६) इति द्वितीयादिकम् । एते ऋग्द्वयाश्रिते सोमवते एतन्नामके ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि प्रथमः खण्डः ॥ १ ॥ द्वितीयः खण्डः


भरद्वाजस्य व्रतम् ॥ ६.३.२.१॥

इन्द्रो राजा जगतः (सा. ५८७) इत्यत्रैक साम । हाउ (त्रिः) । वाग्ददद इत्यादि इन्द्रोराजा (आ. गा. ४. २. १७७) इति द्वितीयादिकं भरद्वाजस्य व्रतम् ॥ १ ॥

भरद्वाजिनां व्रतम् ॥ ६.३.२.२॥

अभी नवना अद्रुहः (सा. ५५०) इत्यत्रैक साम । हाउ (त्रिः) वाजम् इत्यादि अभीनवन्त (आ. गा. ४.२. १७८) इति द्वितीयक्रुष्टादिकं भरद्वाजिनां व्रतम् ॥ २॥

यमव्रते द्वे । अङ्गिरसां वा उत्तरम् ॥ ६.३.२.३ ॥

अग्निमीडे पुरोहितम् (सा. ६०५) इत्यत्रैक साम । मनोहाउ । वयोहाउ । व!हाउ । अग्निम् । ईडाइ (आ. गा. ४. २. १७९) इति द्वितीयक्रुष्टादिकम् । इन्दं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्रैक साम । हाउ (त्रिः)। ओहा (हा?) इत्यादि इन्द्रन्नरो (आ. गा. ४. २. १८०) इति द्वितीयतृतीयादिकम् । एते ऋद्वयाश्रिते यमत्रते। अथवा उत्तरं द्वितीय साम अङ्गिरमा व्रतम् ।। ३ ॥

अश्विनोर्व्रते द्वे ॥ ६.३.२.४ ॥

इमा उ त्वां दिविष्टये (सा. ३०४) इत्यत्र सामद्वयम् । होइहा इत्यादि इमाउदिष्टया (आ. गा. ४.२.१८१) इति द्वितीयतृतीयादिकम् । २४६ आयब्राह्मणम् इहोहा इत्यादि इमाउवान्दिविष्टया ( आ. गा. ४. २. १८२) इति क्रुष्टद्वितीयादिकम् । एते द्वे अश्विनोर्वते ॥ ४ ॥

गवां व्रते द्वे ॥ ६.३.२.५॥

ते मन्वत प्रथम नाम गोनाम् (सा. ६०६) इत्यत्रैक साम । हाउ (त्रिः) गावोहाउ इत्यादि तेमन्वत (आ. गा. ४. २. १८३) इति कुष्टद्वितीया (द्वितीया ?) दिकम् । अग्निमीडे (सा. ६०५) इत्यत्रैक साम । हाउ (त्रिः) वा अग्निमीडे (आ. गा. ४. २.१८४) इति द्वितीयक्रुष्टादिकम् । एते ऋद्वयाश्रिते सामनी गवां व्रते ॥ ५ ॥

कश्यपव्रते द्वे ॥६.३.२.६॥

कश्यपस्य स्वर्विदः (सा. ३६१) इत्यत्र सामद्वयम् । हाउ (त्रिः) प्सुवन्तरा इत्यादि कश्यपस्यसुवाइदा (आ. गा. ४. २. १८५) इति मन्द्रद्वितीयादिकम् (द्वितीयादिकम् ?) । हाउ (त्रि.) ऊ इत्यादि कश्यपस्य- सुवार्विदा (आ. गा. ४.२.१८६) इति द्वितीयादिकम् । एते द्वे कश्यप- व्रते एतन्नामधेये सामनी ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि द्वितीयः खण्डः ॥ २ ॥ तृतीयः खण्डः


अङ्गिरसां व्रते द्वे ॥६.३.३.१॥

इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यत्रैक साम । हाउ (त्रिः) इन्द्राम् (आ. गा. ४. ३. १८७) इति द्वितीयक्रुष्टादिकम् । अभिन्वा शर नोनुमः (सा. २३३) इत्यत्रैक साम । हाउ (त्रिः) इत्यादि अभित्वा- शूरनोनुमोहस् (आ. गा. ४. ३ १८८) इति द्वितीयादिकम् । एते द्वे अङ्गिरसां व्रते ॥ १॥

अपां व्रते द्वे ॥६.३.३.२॥

समन्या यन्त्युपयन्त्यन्याः (सा. ६०७) इत्यत्र सामद्वयम् । हाउ(त्रिः) ऐरयत् इत्यादि समन्यायन्ति (आ. गा. ४. ३. १८९) इति द्वितीयक्रुष्टादिकम् । हाउ (त्रिः) ऐरयन् ( आ. गा. ४. ३. १९०) इत्यादि द्वितीयक्रुष्टादिकम् । एते द्वे अपांत्रते एतन्नामधेये ॥ २ ॥

अहोरात्रयोर्व्रते द्वे । अह्नः पूर्वं रात्रेरुत्तरम् ॥ ६.३.३.३ ॥

उदु त्यं जातवेदसम् (सा. ३१) इत्यत्रैक साम । हाउ (त्रिः) वाप्रागन्यदनु इत्यादि उदुत्यं जातावाइदासाम् (आ. गा. ४.३. १९१) इति द्वितीयक्रुष्टादिकम् । आ प्रागद्भद्रा युवतिः (सा. ६०८) इत्यत्रैक साम । होइ इत्यादि आप्रागाद्भद्रायुवतिः (आ. गा. ४. ३. १९२) इति २४८ आर्षेयब्राह्मणम्

क्रुष्टद्वितीयादिकम् । एते ऋग्द्वयाश्रिते अहोरात्रयोर्वते । तत्राहः पूर्व साम । अरूरुचद्धमों अरूरुचदुषमादिवियोविभाति इत्यत्र निधने उषःकालस्य विद्यमानत्वात । उत्तरं साम राज्याः । विश्वस्यजगतोरात्रीति. [निधने रात्रीति] विद्यते ॥ ३॥

विष्णोर्व्रतम् ॥ ६.३.३.४॥

प्रक्षस्य वृष्णो अरुषस्य (सा. ६०९) इत्यत्रैक साम । हाउ (त्रिः) इत्यादि प्रक्षस्य (आ. गा. ४. ३. १९६) इति द्वितीयादिकं विष्णोर्बत- नामधेयम् ॥ ४ ॥

विश्वेषां देवानां व्रतम् ॥ ६.३.३.५॥

विश्वे दवा मम शृण्वन्तु यज्ञम् (सा. ६१०) इत्यत्रैक साम । हाउ (त्रिः) आइही इत्यादि विश्वेदेवाममशृण्वन्तु (आ. गा. ४. ३. १९४) इति द्वितीयादिक विश्वेषां देवानां व्रतम् ॥ ५ ॥

वसिष्ठव्रते द्वे ॥ ६.३.३.६॥

उदु ब्रह्माण्यैरत श्रवस्प (सा. ३३०) इत्यत्र सामद्वयम् । हाउ (त्रिः) इत्यादि उदुब्रह्मा (आ. गा. ४. ३. १९५) इति द्वितीयादिकम् । हाउ (त्रिः) [इत्यादि] उदुब्रह्मा (आ. गा. ४. ३. १९६) इति द्वितीयादिकम् । एते द्वे वसिष्ठव्रते ॥ ६॥

इति श्रीसायणाचायविरचिते माधवीये सामवेदार्थप्रकाशे आयत्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि तृतीयः खण्डः ॥ ३ ॥ 10 15 19 7. C.adds मन्द्र before द्वितीया . 12. C. मन्द्रकृष्टा° for द्वितीया ; K. ins. °कृष्ट " after द्वितीय". 15,16. C. adds मन्द्र ° before द्वितीया. चतुर्थः खण्डः


इन्द्रस्य संजयम् ॥६.३.४.१॥

इन्द्रं नरः (सा. ३१८) इत्यत्रैक साम । हाउ (त्रिः) विश्वा- धनानि इत्यादि इन्द्रंनरो (आ. गा. ४.४.१९७) इति द्वितीयादिकम् इन्द्रस्य सजंयनामकम् । अत्र ब्राह्मणम् सजयं भवति । देवाश्च वा असुराश्च समदधत इत्यादि । ते देवा असुरान् संजयेन समजयन् । यत्समजयंस्तस्मात्संजयम् (तां. बा. १३.६.६-७) इति ॥ १ ॥

अगस्त्यस्य यशः ॥६.३.४.२॥

यशो मा द्यावापृथिवी (सा. ६११) इत्यत्रैक साम । हाउ (त्रिः) वा यशोमाद्यावापृथिवी (आ. गा. ४. ४. १९८) इति द्वितीयादिकम् अगस्त्य॑स्य यशोनामकम् ॥ २ ॥

प्रजापतेस्त्रयस्त्रिंशत्संमितचतुस्त्रिंशत्संमिते द्वे ॥ ६.३.४.३ ॥

प्र वो महे महे वृधो भरध्वम् (सा. ३२८) इत्यत्रैकं साम । ए। प्रावोमाहाइ (आ. गा. ४.४.१९९) इति द्वितीयतृतीयादिकम् । इन्द्रं नरः (सा. ३१८) इत्यत्रैक साम । एयोवा इत्यादि इन्द्रन्नरो (आ. गा. ४.४. २००) इति कुष्टद्वितीयादिकम् । एते द्वे प्रजापतेस्रयस्त्रिंशत्संमितचतुर्खिशत्- संमिते । निधनान्ता एव त्रयस्त्रिंशत्पदयुक्ताः । अपरेण स्तोमेन न विशिष्टाः । चतुस्त्रिंशत्संख्याकास्तैरुपेते सामनी इत्यर्थः ॥ ३ ॥

जमदग्नेर्व्रतम् ॥ ६.३.४.४॥

अभि त्वा शूर नोनुमः (सा. २३३) इत्यत्रैकं साम । हाउ (त्रिः) हहाउ इत्यादि अभित्वाशुरनो (आ. गा. ४. ४. २०१) इति द्वितीयादिकं जमदग्नेर्बतनामकम् ॥ ४ ॥ . २५० आयब्राह्मणम्


युग्यं च दशस्तोभम् ॥ ६.३.४.५॥

इन्द्र नरः (सा. ३१८) इत्यत्रै साम । हाउ (त्रिः) ओहा इत्यादि इन्द्रन्नरो (आ. गा. ४.४.२०२) इति द्वितीयतृतीयादिकं दशस्तोम दशभिः स्तोभैरुपेतं युग्यनामधेयम् । हाउ इत्यादि त्रित्वविशिष्टा वय इत्यन्ता दश स्तोभाः ॥ ५॥

इन्द्रस्य च वार्त्रघ्नम् ॥ ६.३.४.६॥

इन्द्रस्य नु वीर्याणि प्रवोचम् (सा. ६१२) इत्यक साम । वृत्रहत्यायहोइ इत्यादि इन्द्र (आ. गा. ४.४. २०३) इति द्वितीयक्रुष्टादिकम् इन्द्रस्य च वार्बघ्नम् । वृत्रहननसाधनम् ॥ ६ ॥

प्रजापतेश्च अष्टानिधनम् ॥ ६.३.४.७॥

सत्यमित्था वृषेदसि (सा. २६३) इत्यतैक साम । अभिप्रना इत्यादि सत्यमित्था (आ. गा. ४. ४. २०४) इति द्वितीयक्रुष्टादिकं प्रजा- पतेश्चाष्टानिधनम् अष्टभिनिधनैरुपेतमेतत्संज्ञं साम । असिप्राणए [असि] इत्यादि प्रथमम् । इडांगच्छ इत्यादिकं द्वितीयम् । असिचक्षुरेअसि [इत्यादिकं] तृतीयम् । अन्तरिक्षंगच्छनाकेविभाहि [इत्यादिकं] चतुर्थम् । असिश्रोत्रमेअसि [इत्यादिकं] पञ्चमम् । स्वर्गच्छज्योतिर्गच्छ [इत्यादिकं] षष्ठम् असिज्योति [ रेअसि इत्यादिकं सप्तमम् ।] अतिज्योतिर्विभाह्ये- अति इत्यादिकमन्तिमम् । एनैनिधनैरुपेतमित्यर्थः ॥ ७ ॥

इन्द्रस्य राजनरौहिणे द्वे ॥ ६.३.४.८॥

इन्द्रं नर (सा. ३१८) इत्यत्र सामद्वयम् । हिम् (त्रिः) हो (त्रिः) इत्यादि इन्द्रनरो (आ. गा. ४. ४. २०५) इति कुष्टतृतीयादिकम् । हाउ (त्रिः) २५१ षष्ठाध्याये तृतीयपर्व (४)

आइही इत्यादि इन्नरो (आ. गा. ४. ४. २०६) इति द्वितीयक्रुष्टादिकम् । एते द्वे इन्द्रस्य राजनरौहिणे । पूर्व राजनम् उत्तरं रौहिणम् ॥ ८ ॥

अत्र विकल्पं दर्शयति -

रौहिणे । वैकर्षेर्वा राजनं धातु(तू) रौहिणम् ॥ ६.३.४.९॥

अथवा एते द्वे सामनी रौहिणे एतन्नामधेये । अथवा पूर्वम् एकः संबन्धि राजनम् । उत्तरं धातु ('तुः) स्वभूतं रौहिणम् ॥ ९ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि चतुर्थः खण्डः ॥ ४ ॥ पश्चमः खण्डः


अमेरिलान्दं पश्चानुगानम् । इरान्नं वा ॥ ६.३.५.१ ॥

अग्निरसि जन्मना जातवेदाः (सा. ६१३) इत्यादिषूत्पन्नम् अमे- रिलान्दम् । [अग्नेरिरामं] नामधेयान्तरम् । पश्चानुगानं पञ्चभिरनुगानैरुपेतम् । हाउ (त्रिः) ऊ । हुऊ इत्यादिकम् इडा (आ. गा. ५. ५. २०७) इत्यन्त- माय स्तोभमात्रम् अनुगानम् । हाउ (त्रिः) वा अग्निरसिजन्मनाजातवेदाः ( आ. गा. ५. ५. २०८) इति [द्वितीयादिकं] द्वितीयम् । [पात्यग्निर्विपो अग्रं पदवेः (सा. ६१४) इत्यत्रक साम ।] हाउ (त्रिः) पात्यग्निर्विपोअग्रं- पदंवेः (आ. गा. ५. ५. २०९) इत्यादि (द्वितीयक्रुष्टादिकं] तृतीयम् । [इन्द्रंनर (सा. ३१८) इत्यत्रैक साम ।] इया इया इत्युपक्रान्तम् इन्द्रनरो (आ. गा. ५. ५. २१०) इति [क्रुष्टादिकं] तुरीयम् । [भ्राजन्त्यग्ने समि- धान (सा. ६१५) इत्यत्रैक साम । ] भ्राजाऔहोहोहाइ (आ. गा.५.५.२११) इति [द्वितीयक्रुष्टादिकं] पञ्चमम् । एवं] पश्चानुगानम् । तथा च ब्राह्मणम् - एतद्वै साक्षादग्नं यदिलान्दमिरानं वा (तां. ब्रा. ५. ३.२) इति ॥ १॥

त्रीणि देवानां व्रतानि । देवस्य वा। रौद्रे पूर्वे । वैश्वदेवं तृतीयम् । वैश्वदेवे वा पूर्वे । रौद्रं तृतीयम् ॥ ६.३.५.२॥

अधिपते (स्तोभगानम्) इत्यादिषु सामत्रयमुत्पन्नम् । अधिप । ताइ इत्यादि मन्युनावृतहासूर्येणखराड (आ. गा. ५. ५. २१२) इति क्रुष्ट- द्वितीयादिकमाद्यम् । अधिप । ताइ इत्यादि नमउत्ततिम्यश्चोत्तन्वानेभ्यश्च (आ. गा. ५. ५. २१३) इति क्रुष्टद्वितीयादिकं द्वितीयम् । अधिप । ताइ इत्यादि नमोनाय (आ. गा. ५. ५. २१४) इति क्रुष्टद्वितीयादिकं तृतीयम् | एतानि त्रीणि देवानां व्रतानि । अथवा देवस्य व्रतानि । यद्वा पूर्वे आये द्वे रौद्रे रुद्रदेवत्ये । तृतीयं वैश्वदेवम् । अथवा पूर्व वैश्वदेवे । तृतीय रौद्रम् ॥ २॥ षष्ठाध्याये तृतीयपर्व (५) २५३


ऋतुष्ठायज्ञायज्ञीयम् ॥ ६.३.५.३ ॥

वसन्त इन्नु रन्त्यः (सा. ६१६) इत्यत्रैकं साम वासन्तः (मा. गा. ५. ५. २१५) इति तृतीयमन्द्रादिकम् ऋतुष्ठायज्ञायज्ञीयं वसन्तादिषट्सु ऋतुषु वर्तमानमेतन्नामधेयम् ॥ ३ ॥

अजितस्य जितिः ॥ ६.३.५.४ ॥

अमि त्वा शूर नोनुमः (सा. २३३) इत्यत्रैक साम । हाउ (निः) हुए इत्यादि अभित्वाशरनोनुमोहस् (आ. गा. ५. ५. २१६) इति द्वितीय- क्रुष्टादिकम् अजितस्य जितिः। जेतुमशक्यस्यापि जयसाधनमेतन्नामधेयम् ॥४॥

सोमव्रतम् ॥ ६.३.५.५॥

संते पयांसि (सा. ६०३) इत्यत्रैक साम । ई (त्रिः) सन्तेपया (भा. गा. ५.५. २१७) इति क्रुष्टद्वितीयादिकं सोमव्रतम् एतन्नामधेयम् ॥५॥

दीर्घतमसश्च व्रतम् ॥ ६.३.५.६ ॥

अक्रान्त्समुद्र (सा. ५२९) इत्यत्रैकं साम । आयाउ इत्यादि अक्रन्समृद्रःप्रथमाइविधर्मान् (आ. गा. ५. ५. २१८) इति क्रुष्टद्वितीया- (तृतीया ?) दिकं दीर्घतमसो व्रतम् । चकारो वाक्यमेदद्योतनार्थः ॥ ६ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्रामणभाष्ये षष्ठाध्याये तृतीयपर्वणि पञ्चमः खण्डः ॥ ५ ॥ षष्ठः खण्डः


द्वे पुरुषव्रते पञ्चानुगानं चैकानुगानं च ॥ १ ॥

सहस्रशीर्षाः पुरुषः (सा. ६१७) इत्यादिषु षट्स्वृक्षु एकं सामोत्पन्नम् । उहुवाहाउ इत्यादि सहस्रशीर्षाः पुरूषाः (आ. गा. ५. '६. २१९) इति द्वितीयक्रुष्टादिकमेकम् । उहुवौहोवा इत्यादि त्रिपादूर्ध्व उदैत् पुरूषाः (आ. गा. ५. ६. २२०) इति द्वितीयक्रुष्टादिकं द्वितीयम् इयौहोवा इत्यादि पुरुषएवेदंसार्वाम् (आ. गा. ५. ६. २२१) इति क्रुष्ट- द्वितीयादिकं तृतीयम् । हाउहाउहाउ तावानस्य (आ. गा. ५. ६. २२२) इति द्वितीयक्रुष्टादिकं तुरीयम् । हाउ (त्रिः) वा ततोविराडजायत (आ. गा. ५. ६. २२३) इति द्वितीयक्रुष्टादिकं पञ्चमम् । हाउ (त्रिः) अस्मीनस्मिन् इत्यादि कयानश्चित्रआभुवात् (आ. गा. ५. ६. २२४) इति द्वितीयादिकं षष्ठम् । एतानि षडृगाश्रितानि सामानि द्वे पुरुषव्रते इत्यभिधीयते (न्ते ?)। तत्राद्यं पञ्चानुगानम् । पञ्चऋगाश्रितैः सामरूपैरनुगानैरुपेतम् । द्वितीयम् एकानुगानम् । एकऋगाश्रितेन सामरूपेणानुगानेनोपेतम् । इति समुदाया- पेक्षया द्विवचनम् ॥ १ ॥

त्रीणि लोकानां व्रतानि ॥ २ ॥

मन्ये वां द्यावापृथिवी (सा. ६२२) इत्यत्रैकं साम । हुवाइ इत्यादि रूपम् । मन्येवांद्यावा (आ. गा. ५. ६. २२५) इति क्रुष्टद्वितीया- दिकम् । कयानश्चित्रआभुवत् (सा. १६९) इत्यत्रैकं साम । वाक् षष्ठाध्याये तृतीयपर्व (६) २५५

(द्विः) वागीयम् । कयानश्चित्रआभूवात (आ. गा. ५. ६. २२६) इति अचमद्वितीयादिकम् । मन्ये वां द्यावापृथिवी (सा. ६२२) इत्यत्रैक साम । प्रतिष्ठासिप्रतिष्ठा इत्यादि मन्येवां (आ. गा. ५. ६. २२७) इति द्वितीय- अष्टादिकम् । एतानि ऋग्द्वयाश्रितानि त्रीणि लोकानां व्रतानि ॥ २॥

किं कस्य व्रतमित्यपेक्षायाम् तद्विभागं दर्शयति--

दिवोऽन्तरिक्षस्य पृथिव्या इति ॥ ६.३.६.३ ॥

आद्यं दिवः धुलोकस्य व्रतम् । द्वितीयम् अन्तरिक्षलोकस्य व्रतम् । अन्तरिक्षेसलिलल्लेलाया इति हि निधने अन्तरिक्षे-शब्दः श्रूयते । पृथिवी- (व्याः?) तृतीयम् । पृथिव्यास्तत्र प्रतिष्ठापदं विद्यते । पृथिवी सर्वेषां प्रतिष्ठा खलु । इति-शब्दो वाक्यसमाप्त्यर्थः ॥ ३ ॥

अथापरम् । द्यावापृथिव्योर्विपरीते ॥ ६.३.६.४॥

अत्र विकल्पं दर्शयितुं प्रतिजानीते अथापरम् इति । अपरं पुत्रा- (उक्ता?)ीदन्य[द्] मतं विद्यत इत्यर्थः । किं तदिति दर्शयति द्यावापृथि- व्योर्विपरीते इति । द्यावापृथिव्योर्लोकयोर्विपरीते उत्तरमाद्यपर्यायस्तेषां मते भवतः इति । आद्य पृथिव्या अन्तिमं द्युलोकस्येति ॥ ४ ॥

ऋश्यस्य साम व्रतं वा ॥ ६.३.६.५॥

हरी त इन्द्र श्मश्रुणि (सा. ६२३) इत्यत्रैक साम । हरीतइन्द्र- श्मश्रूणी (आ. गा. ५. ६. २२८) इति द्वितीयक्रुष्टादिकम् ऋश्यस्य साम । अथवा ऋश्यस्य व्रतम् ॥ ५॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि षष्ठः खण्डः ॥ ६ ॥ सप्तमः खण्डः


दिशां व्रतं दशानुगानम् ॥६.३.७.१॥

यदों हिरण्यस्य (सा. ६२४) इत्येकस्यामेव स्तोभविशेषान्नानासा- मान्युत्पन्नानि । एवं दशानुगानं दशानामनुगानानां समाहारः दशानुगानम् । तदिशां व्रतमित्यभिधीयते । समुदायापेक्षया एकवचनं नामधेयैक्यं च । तानि सामरूपाणि अनुगानवच्छन्दःसामानुसारेण दर्शयामः ।।

हाउ (त्रिः) अहमन्नमित्यादि यद्व!हिरण्य । स्या (आ. गा. ५. ७. २२९) इति मन्द्रद्वितीया (द्वितीयक्रुष्टा ?) दिकम् आद्यम् । हाउ (त्रिः) । अहंसहो इत्यादि यद्व?हिरण्य (आ. गा. ५. ७. २३०) इति द्वितीयादिक द्वितीयम् । हाउ (त्रिः) अहंवों इत्यादि यद्वः (आ. गा. ५. ७. २३१) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकं तृतीयम् । हाउ (त्रिः) अहंतेजः इत्यादि यद्वर्चः (आ. गा. ५. ७. २३२) इति मन्द्रद्वितीया (द्वितीयक्रुष्टा ?) दिक तुरीयम् । हाउ (त्रिः) दिशंदुह इत्यादि यद्वर्चः (आ. गा. ५. ७. २३३) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकं पञ्चमम् । हाउ (त्रिः) मनोजयित् इत्यादि यद्वर्चः (आ. गा. ५. ७. २३४) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकं षष्ठम् । हाउ (त्रिः) वय इत्यादि यद्वर्चः (आ. गा. ५. ७. २३५) इति द्वितीय- क्रुष्टादिकं सप्तमम् । हाउ (त्रिः) रूपम् इत्यादि यद्वचः (आ. गा. ५. ७. २३६) इति द्वितीया (द्वितीयक्रुष्टा ?) दिकम् अष्टमम् । हिहियऊ इत्यादि षष्ठाध्याये तृतीयपर्व (७)

यद्वर्चः (आ. गा. ५. ७. २३७) इति क्रुष्टद्वितीयादिकं नवमम् । हाउ (त्रिः) प्रथे इत्यादि यद्वर्चः (आ. गा. ५.७.२३८) इति द्वितीयक्रुष्टादिकं दशमम् । एतेषां दिशांव्रतम् इति संज्ञा ॥१॥

कश्यपव्रतं दशानुगानम् । कश्यपग्रीवा द्वितीयम् । प्रजापतेर्हदयं पञ्चमम् । इडानां संक्षारः षष्ठः । कश्यपपुच्छं दशमम् । प्राग्दशमाद्गवां व्रते ॥ ६.३.७.२॥

यस्येदमा रजोयुजः[](सा. ५८८) इत्यादिषु दश सामान्युत्पन्नानि । तेषां सामरूपाणामनुगानं नाम कश्यपव्रतम् इति । हाउ (त्रिः) हाइऊ इत्यादि यस्येदमारजोयुजाः (आ. गा. ५.८. २३९) इति द्वितीयक्रुष्टादिकं आद्यम् । हाउ (त्रिः) अहोअहो इत्यादि प्रजाभूतमजीजने इट्[स्थि] इडा (आ. गा. ५.८.२४०) इत्यन्तं स्तोभमात्रोत्पन्नं द्वितीयमनुगानं काश्यपग्रीव [1] नामकम् । हाउ (त्रिः) फाल् फल् इत्यादि इन्द्रन्नरोने- मधिताहवान्ताइ (आ. गा. ५.८.२४१) इति द्वितीयक्रुष्टादिकं तृतीयम् । हाउ (त्रिः) । हाउहौहौहौहौ इत्यादि योनोवनुष्यन्नमिदातिमार्ताः (आ. गा. ५.८.२४२) इति द्वितीयक्रुष्टादिकं तुरीयम। प्रजापतेर्हृदयं पञ्चममिति । हाउ (त्रिः) इमा इत्यादि प्रजारूपमजीजने । इट् [स्थि] इडा (आ. गा. ५. ८. २४३) इत्यन्तं स्तोभमात्रोत्पन्नं पञ्चमं प्रजापतेर्हृदयम् । प्रजापते ए हृदयम् इति साम्नि विद्यमानत्वात् एतन्नामकमित्यभिधीयते । इडानां संक्षारः षष्ठ इति । हाउ (त्रिः) इडा इत्यादि सुवर्ज्योतिः (आ. गा. ५.८.२४४) इत्यन्तं षष्ठमनुगानं स्तोभमात्रोत्पन्नम् इडानां संक्षारः इत्युच्यते । [सहस्तन्नइन्द्रदध्योजः (सा. ६२५) इत्यत्रैकं साम ।] हाउ (त्रिः) आइही इत्यादि सहस्तन्नइन्द्रदध्योजाः (आ. गा. ५. ८. २४५) २५० आर्षेयब्राह्मणम्

इति द्वितीयक्रुष्टादिकं सप्तममनुगानम् । प्राग् दशमाद्गवां व्रत इति। ते मन्वत प्रथमं नाम गोनाम् (सा. ७०७) इत्यत्रैकं साम । हाउ (त्रिः) तेमन्वतप्रथमंनामगो (आ. गा. ५. ८. २४६) इति मन्द्र (द्वितीय)- क्रुष्टादिकम् । सहर्षभाः सहवत्साः उदेत (सा. ६२५) इत्यत्रैकं साम । हाउ (त्रिः) वा सहर्षभास्सहवत्साउदेत (आ. गा. ५.८.२४७) इति द्वितीयक्रुष्टादिकम् । एते सामनी दशमात् दशसंख्यापूरकात् अनुगानात् प्राक् पूर्वं गवां व्रते एतन्नामधेये। द्विवचनसामर्थ्यात् गवां व्रते इत्यभि- धीयते । अरुणिर्यशसा गावः (सा. ६०६) इति सहर्षभा सहवत्सा (६२६) इति गोवत्सशब्दयोर्विद्यमानत्वात् गवांव्रतनामके। कश्यपपुच्छं दशममिति । अग्निरस्मि जन्मना जातवेदाः (सा. ६१३) इत्यत्रैकं साम । हाउ (त्रिः) वाग्घहहहह इत्यादि अग्निरस्मिजन्मना औहो (आ. गा. ५. ८. २४८) इति द्वितीयादिकं दशमं साम कश्यपपुच्छनामधेयम् । एतत्साम- जानां दशानां सामरूपाणाम् अनुगानानां सामान्येन कश्यपव्रतमिति नामधेयम् । संज्ञाविशेषस्तु तत्रैवोक्तः ॥ २ ॥

निह्नवाभिनिह्नवौ द्वौ । अनडुद्व्रते द्वे वा ॥ ६.३.७.३ ॥

इती इत्यादि क्रुष्टद्वितीयादिकम् । ए इती (आ. गा. ५. ८. २४९) इत्यन्तं केवलस्तोभोत्पन्नमेकं साम । स्वयंस्कुन्वाइ इत्यादि द्वितीयक्रुष्टादिकम् एस्कुन्वे (द्विः) ए (आ. गा. ५.८.२५०) इत्यन्तं केवलस्तोभोत्पन्नमेकं साम । ते उभे निह्नवाभिनिह्नवौ एतन्नामधेये । पूर्वस्य निह्नव इति नाम । द्वितीयस्य अभिनिह्नव इति । अत्र विकल्पः । एते सामनी अनडुद्व्रते इति ।। ३ ॥

इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये षष्ठाध्याये तृतीयपर्वणि सप्तमः खण्डः ॥ ७ ॥

॥ तृतीयं पर्व समाप्तम् ॥

  1. https://sa.wikisource.org/s/1z4k शौअ ६.३३.१