सामवेदः/कौथुमीया/आर्षेयब्राह्मणम्/अध्यायः ६/पर्व ४(शुक्रियपर्व)
चतुर्थ पर्व
प्रथमः खण्डः
अग्नेर्व्रतम् ॥६.४.१.१॥
अग्निर्मूर्धा दिवः ककुत् (सा. २७) इत्यैकं साम । हाउ (त्रिः) भ्राजाओवा इत्यादि अग्निर्मूर्द्धा (आ. गा. ६. १. २५१) इति द्वितीयादिकं अग्नेर्व्रतम् एतत्संज्ञम् ॥१॥
वायोश्व व्रतम् ॥ ६.४.१.२॥
अया रुचा हरिण्या (सा. ४६३) इत्यत्रैकं साम । भ्राजा (त्रिः) उआ अयारुचाहरिण्या (आ. गा. ६. १. २५२) इति द्वितीयक्रुष्टादिकं वायोर्व्रतनामधेयम् ॥ २॥
महावैश्वानरव्रते द्वे ॥ ६.४.१.३ ॥
प्रक्षस्य वृष्णो अरुषस्य नू महः (सा. ६०९) इत्यत्रैकं साम । हाउ (त्रिः) ओहा इत्यादि प्रक्षस्यवृष्णः (आ. गा. ६.१.२६३) इति द्वितीयक्रुष्टा (तृतीया ?) दिकम् । कायमानो वना त्वम् (सा. ५३) इत्यत्रैकं साम । ओम् (त्रिः) आयुः इत्यादि कायमानोवनातुवाम् (आ. गा. ६. १. २५४) इति द्वितीयक्रुष्टादिकम् । एते द्वे महावैश्वानरव्रते। पूर्वत्र वैश्वा- नरायमतिरिति वैश्वानरशब्दो विद्यते। [उत्तरत्र] इहस्वर्वैश्वानराय इति विद्यते । तत्पदयुक्तत्वात् एते वैश्वानरव्रते ॥ ३ ॥
सूर्यस्य भ्राजाभ्राजे द्वे ॥ ६.४.१.४॥
अग्न आयूंषि पवस (सा. ६२७) इत्यत्रैकं साम । भ्राजा भ्राजा भ्राजा उवा । अग्न आयूंषि पवस (आ. गा. ६. १. २५१) इति द्वितीय- क्रुष्टादिकं सूर्यस्य भ्राजनामकम् । अग्निर्मूर्धा दिवः ककुत् (सा. २७) आर्षेयब्राह्मणम्
इत्यैकं साम । आ। भ्राजा इत्यादि अग्निर्मूर्धा (आ. गा. ६. १. २५२ इति मन्द्र (क्रुष्ट?) द्वितीयादिकं सूर्यस्य आभ्राजनामधेयम् ॥ ४ ॥
वायोर्विकर्णभासे द्वे । मृत्योर्वा ॥ ६.४.१.५ ॥
विभ्राइ बृहत् पिबतु सोम्यम् (सा. ६२८) इत्यत्रैकं साम । [ह हाउ (त्रिः) इत्यादि विभ्राट्बृहत्पिबतु (आ. गा. ६. १. २५७) इ [क्रुष्टद्वितीयादिकं] वायोर्विकर्णनामधेयम् । प्रक्षस्य वृष्णो अरुषस्य (सा. ६०९) इत्यत्रैकं साम । हाउ (त्रिः) ओहा इत्यादि प्रक्षस्य वृष्ण (आ. गा. ६. १. २५८) इति [द्वितीयं] क्रुष्टादिकं वायोर्भासनामकम् । अथ द्वे सामनी मृत्योर्विकर्णभासनामके ॥ ५ ॥
ऐन्द्रं महादिवाकीर्त्यम् । सौर्यं वा दशानुगानम् । तस्य शिरश्च ग्रीवा च स्कन्धकीकसौ च पुरीषाणि च पक्षे चात्मा चोरू च पुच्छं चैतत् साम सुपर्णमित्याचक्षते ॥ ६.४.१.६॥
ऐन्द्रम् इन्द्रदेवत्यं महादिवाकीर्त्यम् । सौर्यं सूर्यदेवत्यं वा । तत्र दशानुगानम् । तत्र हाउ (त्रिः) आयुः (आ. ग.. ६. १. २५९) (स्तोभ गानम्) इत्यादिकम् एकम् । एवाहियेवाऔहोवा (आ. गा. ६.१.२६० (स्तोभगानम्) इत्यादिकं द्वितीयम् । वयोमनोवयःप्राणाः (आ. गा. ६. १ २६१) (स्तोभगानम् ) इत्यादिक तृतीयम् । वयोमनाः । होइहौवाओवा (आ. गा. ६. १. २६२) (स्तोभगानम् ) इत्यादिकं चतुर्थम् । ऊर्क् । हाउ (त्रिः) होवाक् (आ. गा. ६.१.२६३) (स्तोभगानम् ) इत्यादिकं पञ्चमम् धर्मविधर्म (आ. गा. ६.१.२६४) इत्यादिकं षष्ठम् । एतानि षडनुगानानि तस्य महादिवाकीर्त्यस्य आत्मक्रमेण शिरोग्रीवास्कन्धकीकसपुरीषपक्ष- नामधेयानि स्तोभतुल्यानि ऋगक्षररहितानि । औहोहोवाहोइ इत्यादि स्तोभ२६१ षष्ठाध्याये चतुर्वपर्व (१)
युक्तानि विभ्राड्बृहत्पिबतु (आ. गा. ६. १. २६५) इति गीयमानं सप्तम- मनुगानम् । तस्यात्मेत्याचक्षते । भूमिः अन्तरिक्षम् (आ. गा. ६.१. २६६) (स्तोभगानम् ) इत्यादि क्रुष्टादिकमनुगानम् अष्टमम् । द्यौः (त्रिः) अन्तरिक्षम् (आ. गा. ६. १. २६७) (स्तोभगानम् ) इत्यादिकं नवमम् । हाउ (त्रिः) ज्योतिः (आ. गा. ६. १. २६८) (स्तोभगानम्) इत्यादिकं दशमम् । एतानि त्रीण्यनुगानानि ऊरुपुच्छसंज्ञकानि ऋगक्षरवर्जितान्येव । तदेतत्साम सुपर्णनामकमित्याचक्षते ॥ ६ ॥
इति श्रीसायणाचार्यविरचिते माधवीये सामवेदार्थप्रकाशे आर्षेयब्राह्मणभाष्ये षष्ठाध्याये चतुर्थपर्वणि प्रथमः खण्डः ॥ १॥ द्वितीयः खण्डः
आदित्यव्रतमेकविंशत्यनुगानम् [इति] शाण्डिलीपुत्रः । द्वाविंशतिरिति वार्ष्यायणीपुत्रः ॥६.४.२.१॥
अत्रादित्यव्रताख्यं सामोच्यते - आदित्यव्रतमिति । तस्य मतभेदेन स्वरूपद्वैविध्यमाह एकविंशत्यनुगानमिति मन्यते शाण्डिलीपुत्रो द्वाविंशतिरिति वार्ष्यायणीपुत्र इति । शण्डिलस्यापत्यं स्त्री शाण्डिली । तस्याः पुत्रः ऋषिः आदित्यव्रतमेकविंशत्यनुगानम् इति मन्यते ॥१॥
तेषामनुगानानां क्रमेण स्वरूपं दर्शयति । तत्र] प्रथमस्य स्वरूपम् -
वैश्वदेवाः समैरयाः संशानानि भूतवदित्येकम् ॥ ६.४.२.२ ॥
एतत्सर्वं मिलित्वा प्रथमस्यानुगानस्य नाम। सन्त्वाभूतान्यैरयन् (आ. गा. ६.२. २६९) इत्यादिके एतदाश्रयभूते देवताबाहुल्यसमैरयपदैः ('दानां ?) श्रवणादुक्तनाम अनुबोद्धव्यम् ॥ २ ॥
द्वितीयस्य स्वरूपं दर्शयति--
चित्रं देवानाम् (सा. ६२९) अन्तर् (सा. ३१६) इति द्वयोरपरम् ॥ ६.४.२.३॥
चित्रं देवानामुदगात् (सा. ६२९) अन्तश्चरति रोचना (सा.६३१) इति ऋग्द्वयोर्गीयमानमपरं (आ. गा. ६.२. २७०) द्वितीयमनुगानम् ॥ ३ ॥ षष्ठाध्याये चतुर्थपर्व (२)
तृतीयचतुर्थयोर्नाम दर्शयति--
गन्धर्वाप्सरसामानन्दप्रतिनन्दौ पक्षौ ॥ ६.४.२.४ ॥
आयं गौः पृश्निरक्रमीत् (सा. ६३०) इत्यत्र सामद्वयमुत्पन्नम् । उवि । उवि (आ. गा. ६. २. २७१) इत्यादिकमाद्यं गन्धर्वाप्सरसामान- न्दपक्षसंज्ञकम् । हिगी (आ. गा. ६. २. २७२) इत्यादिकं द्वितीयं गन्धर्वाप्सरसां प्रतिनन्दपक्षसंज्ञकम् ॥ ४ ॥
पञ्चमादीनां त्रयाणां नामानि दर्शयति--
सौर्योऽतीषङ्गः। इन्द्रस्य सधस्थम् । मरुतां भूतिः॥६.४.२.५॥
अतीषङ्गो नाम परस्परमिश्रणम् । उभयोः ऋचोः सौर्यात्वाव्यति- षज्यते । हाउ (त्रिः) भ्राजाओवा (त्रिः) उदुत्या (आ. गा. ६. २. २७३) इति पञ्चमम् ॥
हाउ (त्रिः) सहोभ्राज (आ. गा.६.२.२७४) (स्तोभगानम्) इत्यादि ऋगक्षररहितं षष्ठमनुगानम् इन्द्रस्य सधस्थनामकम् ॥
औहोऔहोवा (आ. गा. ६. २. २७१) इत्यादि पुरतः स्तोभयुक्तम् अन्तश्चरतिरोचना (सा. ६३१) इत्यस्यां गीयमानं सप्तममनुगानं मरुतां भृतिनामकम् । अत्र प्राणापानयोर्विद्यमानत्वात् ॥ ५॥
अष्टमादीनां त्रयाणां नामान्यविभज्य दर्शयति--
प्रजापतेस्तिस्रः सार्पराज्ञ्याः। सर्पाणां वा। अर्बुदस्य वा ॥६.४.२.६॥ २६४ आर्षेयब्राह्मणम्
आयं गौः पृश्निरक्रमीत् (सा. ६३०) इत्यत्रै साम । हाउ (त्रि वा ईन्दुः इत्यादि पुरस्तोभयुक्त आयङ्गौः (आ. गा. ६. २. २७६) इत्यादि अन्तश्चरति रोचना (सा. ६३१) इत्यत्रैक साम । हाउ (त्रिः) वा भूत (आ. गा. ६.२. २७७) इत्यादि । त्रिंशद्धाम वि राजति (सा. ६३२ इत्यत्रैकं साम । हाउ (त्रिः) वा आपः (आ. गा. ६.२.२७८) इत्यादि एतास्तिस्रः सार्पराज्याः । अथवा सर्पाणां वा । यद्वा अर्बुदर वा ॥ ६॥
[एकादशस्य नाम दर्शयति -]
सर्पस्य घर्मरोचनमिन्द्रस्य वा ॥ ६.४.२.७॥
उयल्लोकानरोचयः (आ. गा. ६.२. २७९) इति स्तोभमात्रोत्पन्न साम मर्पस्य धर्मरोचनम् इन्द्रस्य धर्मरोचनं वा एकादशकम् ॥ ७ ॥
[द्वादशादीनां षण्णां नामान्यविभज्य दर्शयति--
षडैन्द्राः परिधयः ॥ ६.४.२.८॥
[उदु त्यं जातवेदसं (सा. ३१) इत्यत्र सामद्वयम् ।] हाउ (त्रिः भ्राजाओवा दीदिहिविश्वतस्पृथूः (थुः?)। उदुत्यजातवाइदासाम् (आ गा. ६. २. २८०) इति द्वितीयादिकम् । हाउ (त्रिः) शुक्राओवा इत्यादि उदुत्यंजात (आ. गा. ६. २. २८१) इति द्वितीयादिकम् । तरणिर्विश्व दर्शतः (सा. ६३५) इत्यत्र सामद्वयम् । हाउ (त्रिः) भूताओवा इत्यादि तरणिर्विश्व (आ. गा. ६. २. २८२) इत्यादि [द्वितीयादिकम्] । हाउ (त्रिः) तेजाओवा इत्यादि तरणिविश्वा (श्व?) दार्शाताः (आ. गा. ६. २ २८३) इति द्वितीयादिकम् । उद्यामेषि रजः पृथु (सा. ६३८) इत्यत्र षष्ठाध्याये चतुर्थपर्व (२)
सामद्वयम् । हाउ (त्रिः) सत्याओवा इत्यादि उद्यामेषिरजाः (आ. गा. ६. २. २८४ ) इति द्वितीयादिकम् । हाउ (त्रिः) ऋताओवा इत्यादि उद्यामेषिरजाः (आ. गा. ६.२.२८५) इति द्वितीयादिकम् । एते षडैन्द्राः परिधयः ॥ ८ ॥
[अष्टादशस्य नाम दर्शयति-]
ऋतूनां वागादि पित्र्यम् ॥ ९ ॥ वाङ्मनः प्राणः (आ. गा. ६. २. २८६) इत्यादि ऋगक्षररहित- मष्टादश [-कम् ] ऋतूनां वागादिपित्र्यात्मकम् । वामनःप्राणादेः पित्र्य- पदस्य च तत्र विद्यमानत्वात् ॥ ९ ॥
एकोनविंशस्य गानागानपक्षं दर्शयति--
अन्त्यं वैकल्पिकम् ॥ १० ॥
अन्तर्देवेषुरोचासाइ (आ. गा. ६.२.२८७) इत्यत्रोत्पन्नम् अन्त्यं तत् वैकल्पिकम् । एकविंशत्यनुगानपक्षे न गेयम् । द्वाविंशत्यनुगानपक्षे तु गीयते इत्यर्थः ॥ १० ॥
एतत्सामभेदेन नामद्वयं दर्शयति--
तन्मित्रावरुणयोश्चक्षुरित्याचक्षते । श्रोत्रं च तदेवैके ॥ ११ ॥
अन्तर्देवेष्वित्यत्र उत्पन्नं साम मित्रावरुणयोश्चक्षुः इत्याचक्षते। तदेव श्रोत्रमित्येके आहुः ॥ ११ ॥ २६६ आर्षेयब्राह्मणम्
विंशस्य नाम दर्शयति -
द्वितीयोऽतीषङ्गस्तन्मित्रावरुणयोः श्रोत्रमित्याचक्षते । चक्षुश्च तदेवैके ॥ ६.४.२.१२॥
हाउ (त्रिः)। भ्राजा भ्राजा (आ. गा. ६.२.२८८) इत्यादि पुरस्तोभ- पूर्वम् । उदु त्यं जातवेदसम् (सा. ३१), चित्रं देवानामुदगाद् (सा. ६२९) इत्यायचोः परस्परं व्यतिषङ्गेन गायन्ति अनुगायन्ति वा द्वितीयोऽतीषङ्गः । एतत्संज्ञकमित्यर्थः । पूर्व सौर्योऽतीषङ्ग उक्तः । पक्षः (सांप्रतं ?) द्वितीय इत्युक्तेऽपि सौर्यत्व दर्शयति [चक्षुरिति । तदेव चक्षुरित्येके आहुः ॥ १२ ॥
[एकविंशस्य नाम दर्शयति -]
तृतीयोऽतीषड़स्तदिन्द्रस्य शिर इत्याचक्षते ॥ ६.४.२.१३ ॥
हाउ (त्रिः) भ्राजाओवा (आ. गा. ६.२.२८९) इत्यादि पुर- स्तोभपूर्वम् । उदु त्यं जातवेदसम् (सा. ३१), इन्द्रं नरो नेमधिता हवन्ते (सा. ३१८) इत्यूचोः परस्परव्यतिषङ्गेन गीयमानम् एकविंश तृतीयोऽतीषङ्गः । एतदिन्द्रस्य शिरोनामकम् इत्याचक्षते । द्वितीयस्या- मृचि (चः) इन्द्रदेवत्यत्वात् एक (एतत् ?) नाम संपन्नमिति मन्तव्यम् ॥ १३ ॥
द्वाविंशस्य स्वरूपं दर्शयति--
आदित्यस्योन्नयं तदादित्यात्मेत्याचक्षते ॥ ६.४.२.१४ ॥
उन्नयामि होइ (आ. गा. ६. २. २९०) इत्यादिकं स्तोभतुल्यम् ऋगक्षररहितं द्वाविंशमनुगानम् आदित्यस्योन्नयनामकम् । तत्र आदित्योन्नय- पदयोर्विद्यमानत्वात् एतन्नाम । तदेवानुगानम् आदित्यात्मकसंज्ञकमित्या- चक्षते इत्याचार्याः ॥ १४ ॥ २६७ षष्ठाध्याये चतुर्थपर्व (२)
अथ महानाम्नीनामृषिसंबन्धेन योगरूढ्या च संज्ञाचतुष्टयं दर्शयति-
ऐन्द्यो महानाम्न्यः प्रजापतेर्वा । विष्णोर्वा । विश्वामित्रस्य वा । सिमा वा । मट्ण्या वा । अध्वरमा(गा?) वा । शक्वर्यो वा । शक्वर्यो वा ॥ ६.४.२.१५ ॥
विदा मघवन् (सा. ६५१) इत्याद्याः प्रकृत्या (त्यां?) तिस्रः [तिस्रः ऋचः ।] सर्वयानसिद्धिः (सर्वासां ऋचा ?) तु नवसंख्या। [एताः] ऋचः ऐन्यः इन्द्रदृष्टा महानाम्न्यः (आ. गा. ६.२.२९१-२९३)। इन्द्रवृत्रासुरयोः संग्रामे इन्द्रस्य जयार्थम् एताभिर्महान् घोष आसीदिति महानाम्न्य इति नामैतासां संपन्नम् । वा अथवा एता ऋचः प्रजापतेः संबन्धिन्यः प्रजापत्यृषिका इत्यर्थः । यद्वा विष्णोर्वा । विष्णुर्वा एतासामृषिः । विश्वामित्रस्य वा महानाम्न्यः । तदृषिका इत्यर्थः । यद्वा एता ऋचः सिमाः। एताभिवृत्रासुरस्य सीमानं शिरो- मध्यदेश इन्द्रोऽभिनदिति सिमा नाम । यद्वा [मटण्याः।] अनुकरणशब्दोऽयम् । एनाभिर्महाशब्दमिन्द्रोऽगादिति एतन्नामिकाः । एताभिरिन्द्रोऽध्वरम् [अ] गादिति अध्वरमाः (गाः?)। अथवा शक्कर्यः । एताभिर्वृतं हन्तुम् इन्द्रः शक्तोऽभूदिति एताः शक्करीसंज्ञकाः । एताः पञ्चविंशब्राह्मणे त्रयोदशाध्याये प्रदर्शिताः। इन्द्रः प्रजापतिमुपाधावद् वृतं हनानीति । तस्मा एतच्छन्दोभ्य इन्द्रियं वीर्य निर्माय प्रायच्छदेतेन शक्नुहीति तच्छक्करीणां शक्करीत्वम् । सीमानषष्ठोऽध्यायः
मभिनव । तत्सिमा मण्ड्यमकरोत्तन्मण्ड्या महान् घोष आसीत्तन्महा- नाम्न्यो दिशः (ता. ब्रा.१३. ४. १-२) इति विष्णुविश्वामित्रयोः संबन्धः शाखान्तराभिप्रायेण प्रदर्शितः ।वा शक्कर्यो वेत्यभ्यासः ब्राह्मण- समाप्तिद्योतनार्थः ॥ १५ ॥
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्याधुरंधरेण श्रीसायणाचार्येण विरचिते माधवीये सामवेदार्थप्रकाशे आषैयब्राह्मणभाष्ये षष्ठाध्याये चतुर्थपर्वणि द्वितीयः खण्डः ॥ २ ॥
।। इति षष्ठोऽध्यायः ।। ॥ आर्षेयब्राह्मणबाष्यम् समाप्तम् ।।