सामवेदः/कौथुमीया/ताण्ड्य ब्राह्मणम्/अध्यायः २५/पञ्चदशः खण्डः

<२५.१५.१> अतिरात्रावभितोऽग्निष्टोमा मध्ये सर्वो दशदशी संवत्सरो द्वादशो विषुवान् सर्पसामानि विषुवति क्रियन्ते
<२५.१५.२> एतेन वै सर्पा एषु लोकेषु प्रत्यतिष्ठन्नेषु लोकेषु प्रतितिष्ठन्ति य एतदुपयन्ति
<२५.१५.३> जर्वरो गृहपतिः धृतराष्ट्र ऐरावतो ब्रह्मा पृथुश्रवा दौरेश्रवस उद्गाता ग्लावश्चाजगावश्च प्रस्तोतृप्रतिहर्तारौ दत्तस्तापसो होता शितिपृष्ठो मैत्रावरुणः तक्षको वैशालेयो ब्राह्मणाच्छंसी शिखानुशिखौ नेष्टापोतारौ अरुण आटोच्छावाकः तिमिर्घो दौरेश्रुतोऽग्नीत् कौतस्तावध्वर्यू अरिमेजयश्च जनमेजयश्चार्बुदो ग्रावस्तुदजिरः सुब्रह्मण्यश्च कपिशङ्गावुन्नेतारौ षण्डकुषण्डावभिगरापगरौ
<२५.१५.४> एतेन वै सर्पा अपमृत्युमजयन्नपमृत्युं जयन्ति य एतदुपयन्ति तस्मात् ते हित्वा जीर्णां त्वचमतिसर्पन्त्यप हि ते मृत्युमजयन् सर्पा वा आदित्या आदित्यानामिवैषां प्रकाशो भवति य एतदुपयन्ति