सामवेदार्षेयदीपः
सामवेदार्षेयदीपः [[लेखकः :|]] |
भट्टभास्कराध्वरीन्द्रविरचितः
सामवेदार्षेयदीपः
वेदसाम्नामृषिच्छन्द्रः प्रकारा(अ)थ देवताः।
आर्षेयाद्यनुसारेण भूत्यै भास्करयज्वनाम्।।1।।
काश्यपान्वयसंभूतभास्काराभिधयज्वना।
अनेकऋषिद्दृष्टानां भ( ) प्रकीर्त्यते।।2।।
प्रतिहारार्षेयकल्पसूत्रद्दृष्टश्रुतावपि।
प्राकृतीनामृचां साम्नामृषिश्छन्दोऽथ देवता।।3।।
इदन्ताप्रत्ययो नाम इयत्ता च विचार्यते।
आर्षेयभरत ( )सामानुसारतः।।4।।
ऋषीणां नामगोत्रोपधारणम्। स्वर्ग्यं यशस्यं धन्यं पुण्यं पुत्र्यं पशव्यं ब्रह्मवर्चस्यं स्मार्तमायुष्यम्। इति (आदिना)। य इदमुपधारयते एकैकस्यर्षेर्दिव्यं वर्षसहस्रमतिथिर्भवति। अभिनन्दितः प्रतिनन्दितो मानितः पूजितः ततः स्वाध्यायफलमुपजीवति इत्यादिना, यो ह वा अविदितार्षेयच्छन्दोदैवतब्राह्मणेन मन्त्रेण याजयति वाध्यापयति वा स्थाणुं वर्च्छति गर्तं वा पद्यति प्रवा मीयते पापीयान् भवति । यातयामान्यस्य छन्दांसि भवन्ति। अथ यो मन्त्रे मन्त्रे वेद सर्वमायुरेति। श्रेयान् भवति। अयातयामान्यस्य छन्दांसि भवन्ति। तस्मादेतानि मन्त्रे मन्त्रे विद्यात् । ऋषीणां सस्थानो भवति। (सस्थानो भवति) ब्रह्मणः। स्वर्गे लोके महीयते। स्मरन्नाजयते पुनः। य एवं वेद। तान्यार्षेयाणि योऽधीते ब्रह्मणः पङ्क्तिपावनो भवति इति(आदिना च )अन्वयव्तिरेकाभ्याम् ऋष्यादेरवश्यवेद्यत्वप्रतिपादनात् ऋक्सामयोः क्रमेण ताः प्रतिपाद्यन्ते। अत्र तावन्निदानकारेण ---साम्नां छन्दो देवता च अस्ति। नास्तीति गौतमः । यच्छन्दस्यामृचि गीयते तदस्य छन्दः। यद्येवत्यायां सास्य देवता। इति प्रतिवादितम्।।1।।
ऋषयस्तु ऋक्सामयोर्भिद्यन्ते । छन्दोदैवतयोर्न भेदः।।2।।
आग्नेयमैन्द्रं पावमानमिति त्रीणि पर्वाणि। आग्नेयसाम्नाम् अग्निर्देवतेत्युत्सर्गः। ऐन्द्राणामिन्द्रः। पावमानानां सोमः। क्वचिद् विशेषस्तत्र तत्र वक्ष्यते।।3।।
अथ आग्नेयं पर्व
छन्दांसि(....अग्न आयाहि इति आदित--) स्त्र्यनुवाकानां गायत्री छन्दः। चतुर्थप्रभृतीनां त्रयणामनुवाकानां बृहती छन्दः। आजुहोतेति सप्तस्य जगती छन्दः। अबोध्यग्रिरिति(अष्टमस्य)त्रिष्टुप् छन्दः । अग्न ओजिष्ठेति नवमदशमयोरनुष्टुप् छन्दः। पुरुत्वा देत्येकादशस्य उष्णिक् छन्दः। प्रमंहिष्ठीयेति द्वादशस्य ककुप् छन्दः।।1।।
इत्याग्नेयं पर्व।।
अथ ऐन्द्रं पर्व
तद्वो गायेत्यादितो द्वादशानुवाकानां गायत्री छन्दः। अभि त्वा शूर नोनुमः इत्यष्टानुवाकानां बृहती छन्दः। असावि देवं गोऋजीवमन्ध इति त्रयाणां त्रिष्टुप् छन्दः। गायन्ति त्वेति त्रयाणाम् अनुवाकानाम् अनुष्टुप् छन्दः। विश्वाः पृतनेत्यतिजगती छन्दः। श्रत्ते दधामीत्युत्तरा जगत्यः। इन्द्र सुतेष्वित्यनुवा(कौ द्वावुष्णिहौ ) अभ्रातृव्य इत्यनुवाकः ककुभः।स्वादोरित्थेत्यनुवाकद्वयं पाङ्क्तम्। परि प्र धन्वेत्यनुवाकत्रयं द्विपदर्चम्। त्रिकद्रुकेष्विति अनुवाकोऽतिच्छन्दस्कः।।1।।
।।इति ऐन्द्रं पर्व।।
अथ पावमानं पर्व
उच्चा ते जातम् इत्यनुवाकचतुष्टयं गायत्री छन्दः। पुनानः सोम धारयेति पञ्चमस्य बृहती। प्र तु द्रवेति अनुवाकद्वयस्य त्रिष्टुप् । पुरोजितीति अनुवाकस्य अनुष्टुप् । अभि प्रियाणीति जगती। इन्द्रमच्छेत्यस्य उष्णिक् । पवस्व मधुमत्तम इत्यस्य ककुप्।।1।।
।।इति पावमानं पर्व।।
इन्द्र ज्येष्ठमित्यारण्यानुवाकानां पञ्चानां न(ना)छन्दस्कत्वं नानादेवत्यं च । ऋषिप्रकरणे तत्तच्छन्दोदेवता वक्ष्यन्ते।।
आग्नेयं पर्व
अथ ऋचां साम्नां च क्रमेण ऋषय उच्यन्ते---
अग्न आ याहि (1) इत्यस्या ऋचः भरद्वाज ऋषिः । तत्साम्नां प्रथमस्य पर्कस्य गौतमः। द्वितीयस्य बर्हिष्यस्य कश्यपः । तृतीयस्य पर्कस्य गौतमः। (ग्रा.गे.1-3)।।1।।
त्वमग्ने यज्ञानाम्(2) इत्यस्य भरद्वाज ऋषिः। साम्नः सौपर्णः। (ग्रा.गे.4)।।2।।
अग्निं दूतम्(3)इत्यस्या ऋचो मेधातिथिः ऋषिः ।साम्नो बृहद्भारद्वाजस्य भरद्वाज ऋषिः।(ग्रा. गे. 5)।।3।।
अग्निर्वृत्राणि (4) इत्यस्य भरद्वाज ऋषिः। तत्साम्नां श्रौतर्षाणां त्रयाणां श्रुतर्षिः। (ग्रा. गे.6-8)।।4।।
प्रेष्ठं व(5) इत्यृचः उशनाः । साम्नां प्रथमतृतीययोरौशनयोः उशनाः। मध्यमस्य शैरीषस्य शिरीषः।।(ग्रा.गे. 9-11)।।5।।
त्वं नो अग्ने महोभिः (6) इत्यस्य ऋषिः सुदीतिः। साम्नोः सांवर्गवार्त्रघ्नयोरिन्द्रः। (ग्रा.गे. 12-3)।।6।।
एह्यूषु इति (7) ऋचो भरद्वाजः । तत्साम्नोः साकमश्वयोः शौनःशेपः साकमश्व ऋषिः। (ग्रा. गे. 14-5)।।7।।
आ ते वत्स (8)इत्यृचो वत्स ऋषिः। तत्साम्नोश्च वात्सयोर्वत्स एव काण्वः। (ग्रा. गे. 16-7)।।8।।
त्वामग्रे पुष्करात् (9) इत्यृचः भरद्वाजः। तत्साम्न आग्नेयस्य अग्नि ऋषिः (ग्रा.गे. 18)।।9।।
अग्रे विवस्वदा भर (10) इत्यृचो वामदेव ऋषिः । तत्साम्नो वाध्रयश्वस्य वघ्यश्वः अनूप ऋषिः।।(ग्रा. गे. 19)।।10।।
इत्याग्नेये प्रथमः खण्डः
द्वितीयः खण्डः
नमस्ते अग्न ओजसे (11) इत्यस्य विश्वरुप आङिगरस ऋषिः। तत्साम्नः सांवर्गस्य अग्निः (ग्रा. गे. 20) ।।11।।
दूतं वः(12) इत्यृचो वामदेवः । साम्नो वैश्वमनसस्य विश्वमनाः।।(ग्रा.गे. 21)।।12।।
उप त्वा जामयः(13) इत्यृचो भार्गवः। तत्साम्नाम् (म्नोः?) अग्निः श्वाभश्नौष्टीययोः । (ग्रा.गे. 22-3)।।13)।।
उप त्वाग्रे (14)इत्यृचो वैश्वामित्रो मधुच्छन्दाः। तत्साम्नो वैश्वामित्रस्य विश्वामित्रः। (ग्रा.गे.24)।।14)
जराबोध (15) इत्यृचः शुनः शेपः। तत्साम्नोर्जराबोधीययोः अग्नि ऋषिः(ग्रा. गे.25-6)।।15।।
प्रति त्यं चारुम्(16)इत्यृचः शुनःशेपः । साम्नां वारयन्तीयानां भृगुः शुनः शेपो वा।।(ग्रा.गे.27)।।16)
अश्वं न त्वा (17) इत्यृचः शुनःशेपः। साम्नां वारयन्तीयानां भृगुःशुनः शेपो वा ।।(ग्रा.गे. 28-30) ।।17।।
और्वभृगुवत् (18) इत्यृचः प्रयोग ऋषिः । तत्साम्नोर्वैधारययोः और्वो वैधारयः<च>।।
(ग्रा.गे. 31-32)।।18।।
अग्निमिन्धान(19) इत्यृचः प्रयोग ऋषिः। तत्साम्नः ह्यत्रिः।।(ग्रा.गे.33)।।19।।
आदित् प्रत्नस्य (20) इत्यृचः काण्वो वत्सः । तत्साम्नः निधनकामस्य प्रजापतिः।।(ग्रा.गे.34)।।20।।
।।इत्याग्नेये द्वितीयः खण्डः।।
तृतीयः खण्डः
अग्निं वो वृधन्ते (21) इत्यृचः प्रयोगः । तत्सामानि सैन्धुक्षितानि। सिन्धुक्षिद्दृषिः त्रयाणाम्।।(ग्रा.गे.35-7)।।21।।
अग्निस्तिग्मेन (22) इत्यृचो भरद्वाजः । तत्साम्नोरग्निः। इहवद्वामदेव्यं तृतीयं । (तस्य)वामदेवः(ग्रा.गे.38-40)।।22।।
अग्ने मृड (23)इत्यृचो वामदेवः । तत्साम्नोर्यामयोः यमः।।(ग्रा.गे.41-2)।।23।।
अग्ने रक्षा णः(24) इत्यृचो भरद्वाजः। तत्साम्नोऽग्निः।।(ग्रा.गे.43)।।24।।
अग्ने युङ्क्ष्व (25)इत्यृचो भरद्वाजः। तत्साम्नोऽग्निः।।(ग्रा.गे.44)।।25।।
नि त्वा नक्ष्य(26) इत्यृचो वसिष्ठः। तत्साम्नः वैश्वमनसस्य विश्वमनाः।।(ग्रा.गे. 45)।।26।।
अग्निर्मूर्धा (27) इत्यृचो विश्वरुपः (विरुपः?) । साम्नश्वाग्नेयस्याग्निः।।(ग्रा.गे.46)।।27।।
इममूषु त्वम्(28) इत्यृचः शुनःशेपः। तत्साम्नः सोमसाम्नः सोमः (ग्रा.गे.47)।।28।।
तं त्वा गोपवन(29)इत्यृचः आत्रेयः । तत्साम्नः गौ(गो)षवनः।।(ग्रा.गे. 48)।।29)
परिवाजपति (30) इत्यृचः वामदेवः । तत्साम्नः सूर्यसाम (म्नः?) ऋषिः सूर्यः ।।(ग्रायगे.49)।।30।।
उदु इत्यम्(31) इत्यृचः मेघातिथिः । तत्साम्नः कावस्य कविः।।(ग्रा.गे.50)।।31।।
कविमग्निम्(32)इत्यृचो मेघातिथिः। तत्साम्नः कावस्य कविः।।(ग्रा.गे.51)।।32।।
शं नो देवीः(33) इत्यृचः सिन्धुद्वीप ऋषिः । तत्साम्नोः काशीतयोः काशीतः(ग्रा.गे.52-3)।।33।।
कस्य नूनम्(34)इत्यृचः उशना ऋषिः । गोराङ्गिरसस्य सामनी द्वे। तयोराङ्गिरसयोर्गौ ऋषिः।।(ग्रा.गे. 54-5)।।34।।
गायत्र्यां खण्डत्रये ऋचः।।
इत्याग्नेये तृतीयः खण्डः
चतुर्थः खण्डः
।। अथ बृहत्यृचः।।
यज्ञायज्ञा(35) इत्यृचः शंयुर्बार्हस्पत्य ऋषिः। साम्नां चतुर्णामाद्ये भरद्वाजस्यौपहने (हवे?) । तयोः भरद्वाज ऋषिः । श्नौष्टीगवं तृतीयम्। श्नुष्टीगुः ऋषिः। यज्ञायज्ञीयं चतुर्थम्। तस्याग्निर्वैश्वानर ऋषिः।।(ग्रा.गे56-59)।।35।।
पाहि नो अग्न (36) इत्यृचो भर्ग ऋषिः। साम्नां कार्तयशं प्रथमम्। तस्य कृतयशा ऋषिः। नार्मेधं द्वितीयम्। तस्य नृमेधा अङ्गिर ऋषिः। कार्तवेशं तृतीयम्। तस्य कृतवेष ऋषिः।।(ग्रा.गे. 6-62)।।36।।
बृहद्भिरग्न (37)इत्यृचः शंयु ऋषिः । साम्नोर्भरद्वाजस्य पृश्निनोर्भरद्वाज ऋषिः।।(ग्रा.गे. 63-4)।।37।।
त्वे अग्ने स्वाहुत (38) इत्यृचो वसिष्ठः ऋषिः। साम्न उरोराङ्गिरसस्य उरुरङ्गिराः।।(ग्रा.गे.65)।।38।।
अग्ने जरितर्विश्पतिः(39)इत्यस्या ऋचः भर्ग ऋषिः। साम्नोः पौरुमुद्गयोः गौतमः पुरुमुद्ग ऋषिः।।(ग्रा.गे. 66-7)।।39।।
अग्ने विवस्वदुषस (40)इत्यृचः प्रस्कण्व ऋषिः। साम्नोः माण्डवयोर्मण्डुर्जमदग्निर्ऋषिः।।(ग्रा.गे.68-9)।।40।।
त्वं नश्चित्र ऊत्या (41)इत्यस्या ऋचः शंयु ऋषिः। साम्नो गाधस्य भरद्वाजः ऋषिः।।(ग्रा.गे.68-9)।।41।।
त्वमित्सप्रथा (42)इत्यृचः शंयु (भर्गुः?) ऋषिः । साम्नोर्गौतमयो गौर्तम ऋषिः।।(ग्रा.गे. 70)।।42।।
आ नो अग्ने वयो वृधम्(43) इत्यस्या ऋचः शंयु (भर्गः?)ऋषिः। साम्नः अग्नेरायुषः अग्नि ऋषिः।। (ग्रा.गे.73)।।43।।
यो विश्वा दयते वसु (44)इत्यृचः सौभरिः ऋषिः। साम्नाम्(चतुर्णा)माद्ययोः अग्नेर्हरसोरग्निः ऋषिः। परयोर्दैर्घश्रवसयोः दीर्घश्रवा ऋषिः।।(ग्रा.गे.74-7)।।44।।
।।इत्याग्नेये प्रथमेऽध्याये चतुर्थः खण्डः।।
पञ्चमः खण्डः
एना वो अग्निं नमसा(1) इत्यस्या ऋचः वसिष्ठ ऋषिः । साम्नां चतुर्णामाद्ययोराग्नेययोरग्निऋषिः। परयोर्गौतमस्य मनाद्ययोर्गौतम ऋषिः।।(ग्रा.गे. 78-81)।।45।।
शेषे वनेषु(2) इत्यृचो भर्ग ऋषिः। साम्नो दे(दै?)वराजस्य देवराज ऋषिः।।(ग्रा.गे.82)।।46)।।
अदर्शि गतुवित्तमः(3)इत्यृचः सौभरिः ऋषिः। साम्नः कौशिकस्य गाधी कौशिक ऋषिः।।(ग्रा.गे.83)।।47।।
अग्निरुक्थे पुरोहित(4)इत्यृचो मनुर्वैवस्वत ऋषिः। साम्नोर्बार्हदुक्थयोर्बृहदुक्थ ऋषिः।।(ग्रा.गे.84-5)।।48।।
अग्निमीडिष्व (5)इत्यृचः सुदितिः (ऋषिः)पुरुमीढो वा। साम्नश्च पौरुमीढस्य पुरुमीढ ऋषिः। (ग्रा.गे.86)।।49।।
श्रुधि श्रुत्कर्ण वह्निभिः(6) इत्यस्या ऋचः प्रस्कण्व ऋषिः। साम्नश्च प्रास्कण्वस्य प्रस्कण्व ऋषिः।।(ग्रा.गे. 88)।।50।।
प्र दैवोदासोऽग्निः(7)इत्यस्या ऋचः सौभरिः ऋषिः। साम्नो दैवोदासस्य दिवोदास ऋषिः।। (ग्रा.गे.88)।।51।।
अध ज्भो अध वा (8) इत्यृचः मेधातिथिः(ऋषिः)साम्नः सौक्रतवस्य सुक्रतुः ऋषिः । इयमैन्द्री । अस्या इन्द्रो देवता ।। (ग्रा.गे.89)।।52।।
कायमानो वना त्वम्(9) इत्यृचः विश्वामित्र ऋषिः। वैद्युतोऽग्निर्देवता। साम्नोः काण्वयोः कण्व ऋषिः।।(ग्रा.गे.90-1)।।53।।
नि त्वामग्रे मनुर्दधे(10)इत्यस्याः कण्व ऋषिः।। साम्नोर्मानवयोर्मनुर्ऋषिः।।(ग्रा.गे.92-3)।।54।।
।। इत्याग्नेये प्रथमेऽध्याये पञ्चमः खण्डः।।
षष्ठः खण्डः
देवो वो द्रविणोदा (1)इत्यृचो वसिष्ठ ऋषिः । साम्नः द्रविणस्य अग्निर्ऋषिः।। (ग्रा.गे.94)।।55।।
प्रैतु ब्रह्मणस्पतिः(2) इत्यृचः कण्वः (ऋषिः) साम्नः बार्हस्पत्यस्य बृहस्पतिर्ऋषिः । ब्रह्मणस्पतिर्देवता।।(ग्रा.गे.95)।।56।।
ऊर्ध्व ऊ षु ण (3) इत्यस्या ऋचः कण्व ऋषिः। उच्छ्रियमाणो यूपो देवता। साम्नो व(।)सिष्ठस्य वीङ्कस्य वसिष्ठ ऋषिः।। (ग्रा.गे.96)।।57।।
प्र यो राये निनीषति (4) इत्यस्या ऋचः वामदेव ऋषिः । साम्नो विष्पर्धसाङ्गिरसस्य अङ्गिरा ऋषिः।। (ग्रा.गे.97)।।58।।
प्र वो यह्वं पुरुणाम्(5) इत्यस्या ऋचः कण्व ऋषिः। साम्नो ऐतवार्द्धियस्य (ऐत)वर्द्धिर्ऋषिः।। (ग्रा.गे.97)।।59।।
अयमग्निः सुवीर्यस्य (6) इत्यृचः कात्योत्क(त्की?)ल ऋषिः। साम्नो नेडश्च (!)मन ऋषिः ।। (ग्रा.गे. 99)।।60।।
त्वमग्ने गृहपतिः(7)इत्यृचः वसिष्ठ ऋषिः। साम्नां समन्तानात्रयाणामाद्यस्य अग्निर्ऋषिः। परयोर्वरुणः।।(ग्रा.गे.100-2)।।61।।
सखायस्त्वा ववृमहे (8)इत्यृचो विश्वामित्र ऋषिः। साम्नो आञ्जीगो दानव ऋषिः।। (ग्रा.गे.103)।।62।।
इत्याग्नेये प्रथमेऽध्याये षष्ठः खण्डः।।
।।इत्यनुवाकत्रयं बृहतीच्छन्दस्कम्।।
सप्तमः खण्डः
आ जुहूता (1) इत्यृक् बृहतीछन्दस्कम्(स्का?)। वामदेव ऋषिः। साम्नः श्यावाश्वस्य श्यावाश्व ऋषिः।। (ग्रा.गे.104)।।63।।
चित्र इच्छिशोः (2) इत्यृचः त्वाष्ट्रीहव्यः ऋषिः। जगती छन्दः। साम्नोः ऋतुषाम्नोः ऋतव ऋषिः।।(ग्रा.गे.105-6)।।64।।
इदं त एकम्(3) इत्यृचः बृहदक्थः ऋषिः। त्रिष्टुप् छन्दः।साम्नो यामस्य यम ऋषिः। अग्निर्या (ग्राम.गे. 107)।।65।।
इमं स्तोमम्(4) इत्यृचः कुत्स ऋषिः । जगती छन्दः। साम्नो यज्ञसारथेः कुत्स एव ऋषिः।। (ग्रा.गे.108)।।66।।
मूर्धानं दिवो अरतिम्(5)इत्यृचः भरद्वाजः ऋषिः। त्रिष्टुप् छन्दः। साम्नोर्वैश्वानरयोः अग्निर्वैश्वानर ऋषिः (ग्रा.गे.109-110)।।67।।
वित्वदावो न पर्वतस्य (6)इत्यृचः भरद्वाज ऋषिः। त्रिष्टुप् छन्दः। साम्नोराश्वयोरश्व ऋषिः।।( ग्रा.गे.111-112)।।68।।
आ वो राजानमध्वरस्य (7)इत्यृचः वामदेवः(ऋषिः) त्रिष्टप् छन्दः। रुद्रो देवतेति केचित् । अग्निरेवेत्यन्ये । साम्नो वामदेवस्य वामदेवो रुद्रो वा ऋषिः।।(ग्रा.गे.113)।।69।।
इन्धे राजा समर्य (8) इत्यृचः वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। साम्नोर्वैश्वज्योतिषयोर्विश्वज्योतिओः ऋषिः।। (ग्रा.गे.114-5)।।70।।
प्र केतुना बृहता (9)इत्यृचः त्रिशिराः त्वाष्ट्रः ऋषिः । त्रिष्टुप् छन्दः । साम्नोर्यामयोर्यम ऋषिः।।(ग्रा.गे.116-7)।।71।।
अग्निं नरो(10) इत्यृचः वसिष्ठ ऋषिः। त्रिपदा विराट् छन्दः। साम्नोः राशिमराययोः वसिष्ठ ऋषिः।। (ग्रा.गे.118-119)।।72।।
।। इत्याग्नेये प्रथमेऽध्याये सप्तमः खण्डः।।
अष्टमः खण्डः
अबोध्यग्निः(1) इत्यृचः बुधगविष्ठिरावृषी। त्रिष्टुप् छन्दः साम्नः श्येनस्य प्रजापतिः ऋषिः।।(ग्रा.गे.120)।।73।।
प्रभुर्जयन्तम्(2)इत्यृचः वत्स ऋषिः। त्रिष्टुप् छन्दः। साम्नः शुक्रस्य शुक्र ऋषिः।।(ग्रा.गे.121)।।74।।
शुक्रं ते अन्यद् (3)इत्यृचः भरद्वाज ऋषिः। त्रिष्टुप्(छन्दः) साम्नः पौषस्य पूषा ऋषिः।। (ग्रा.गे.122)।।75।।
इडामग्रे (4)इत्यृचः विश्वामित्र ऋषिः। त्रिष्टुप् छन्दः। साम्नः कौत्सस्य कुत्स ऋषिः।। (ग्रा.गे.123)।।76।।
प्र होता जात(5)इत्यृचः वत्सप्रिय ऋषिः । त्रिष्टुप् छन्दः। साम्नोः काश्यपयोः कश्यप ऋषिः।। (ग्रा.गे.124-5)।।77।।
प्र सम्राजमसुरस्य (6)इत्यृचः वसिष्ठ ऋषिः। त्रिष्टुप् छन्दः। साम्नो घृताचेराङ्गिरसस्य घृताचिरङ्गिरा ऋषिः।।(ग्रा.गे.126)।।78।।
अरण्योर्निहितो जातवेदा (7)इत्यस्या ऋचः विश्वामित्र ऋषिः। त्रिष्टुप् छन्दः।। साम्नो भ(।)रद्वाजस्य प्रासा(हस्य)भरद्वाज ऋषिः।। (ग्रा.गे.127)।।79।।
सनादग्रे मृणसि(8) इत्यस्या ऋचः पायुर्भारद्वाज ऋषिः। त्रिष्टुप् छन्दः। साम्नो रक्षोघ्नस्याग्रेर्वैश्वानरोऽत्रिर्वा ऋषिःष।।(ग्रा.गे.128)।।80।।
।। इत्याग्नेये प्रथमेध्याये अष्टमः खण्डः।।
नवमः खण्डः।।
अग्र ओजिष्ठम्(1) इत्यृचः आत्रेया ऋषयः । साम्नोः पाथयोः पन्था ऋषिः।। (ग्रा.गे.129-30)।। 81।।
यदि वीरो अनु ष्याद् (2)इत्यृचः वामदेव ऋषिः । साम्नो बृहदाग्नेयस्य अग्निः ऋषिः।। (ग्रा.गे.131)।।82।।
त्वेषस्ते धूम ऋण्वति(3) इत्यस्या ऋचः भरद्वाज ऋषिः। साम्नो यामस्य यम ऋषिः(ग्रा.गे.132।।83।।
त्वं हि क्षैतवद्(4)इत्यृचः भरद्वाज ऋषिः। साम्नो बृहदाग्नेयस्य अग्निः ऋषिः।। (ग्रा.गे.133)।।84।।
प्रातरग्निः पुरु-(5) इत्यृचः मुक्तवाहा न्वि(द्वि?)त ऋषिः। साम्नो बृहतः कौमुदस्य कुमुदः ऋषिः।।(ग्रा.गे.134)।।85।।
यद्वाहिष्ठं तदग्नये(6)इत्यृचः अत्रिपुत्रो वसूयव ऋषिः। साम्नोर्य्द्वाहिष्ठयोः अग्निः ऋषिः ।। (ग्रा.गे.135)।।86।।
विशो विशो वो अतिथिम्(7) इत्यृचः गोपवन ऋषिः। साम्नो विशोविशीयस्य अग्निर्ऋषिः।। (ग्रा.गे. 137)।।89।।
जातः परेण (10) इत्यृचः वामदेव ऋषिः । साम्नः स्वयोनेः कश्यप ऋषिः।।(ग्रा.गे.141)।।90।।
।। इत्याग्नेये प्रथमेऽध्याये नवमः खण्डः।।
दशमः खण्डः
सोमं राजानम्(1)इत्यृचः अग्निस्तापस ऋषिः। अनुष्टुप् छन्दः। विश्वेदेवा देवता। साम्नो बार्हस्पत्यस्य बृहस्पतिः ऋषिः।।(ग्रा.गे.142)।।91।।
उत एत उदारुहन्(2) इत्यृचः वामदेव ऋषिः। साम्न आरुढवदाङ्गिरसस्य अङ्गिरा ऋषिः।।(ग्रा.गे.144-5)।।92।।
राये अग्ने (3)इत्यृचः वामदेव ऋषिः। साम्नोरासितयोरसित ऋषिः।।(ग्रा.गे.144-5)।।93।।
दधन्वे यद्(4) इत्यस्य (ऋचः)भार्गव ऋषिः। साम्नस्त्वाष्ट्रीसाम्नः त्वाष्ट्री (त्वष्टा?)ऋषिः।। (ग्रा.गे.146)।।94।।
प्रत्यग्ने हरसा (5)इत्यृचः वा(पा?)युः ऋषिः। साम्नो राक्षोघ्नस्य अगस्त्य ऋषिः।। (ग्रा.गे.147)।।95।।
त्वमग्ने वसून्(6)इत्यृचः प्रस्कण्वः काण्वः ऋषिः। साम्नो मानवस्य मनुः ऋषिः।।(ग्रा.गे.148)।।96।।
।। इत्यनुष्टुभः।।
।। इत्याग्नेये प्रथमेऽध्याये दशमः खण्डः।।
एकाशदः खण्डः
पुरुत्वा देत्युष्णिहो दशर्चम्।।
पुरुत्वा दा (1) इत्यृचः औचथ्य ऋषिः । साम्नां पञ्चानाम् आदितस्तौदयोः द्वयोस्तुद ऋषिः। परेषां दैर्घतमसानां त्रयाणआं दीर्घतमा ऋषिः।। (ग्रा.गे.149-53)।।97।।
प्र होत्रे पूर्व्यम्(2) इत्यृचः विश्वामित्र ऋषिः । साम्नोः प्रहितयोः श्यावाश्च ऋषिः।। (ग्रा.गे.154-5)।।98।।
अग्ने वाजस्य(3) इत्यृचो गौतम् ऋषिः। साम्नोः श्रुद्धययोः प्रजापतिः ऋषिः।। (ग्रा.गे.156-7)।।99।।
अग्ने यजिष्ठो अध्वरे(4)इत्यृचः विश्वामित्र ऋषिः। साम्नामाद्यस्यसदसः उत्तरयोर्हविर्धानयोश्च प्रजापतिः ऋषिः।। (ग्रा.गे.158-160)।।100।।
जज्ञानः सप्त(5)इत्यृचः त्रित ऋषिः। साम्नः त्वष्टुरातिथ्यस्य त्वष्टा ऋषिः। इयमृक् पवमानादुद्धृता।। (ग्रा.गे.161)।।101।।
उत स्या नो दिवा (6)इत्यृचः वैयश्च ऋषिः। साम्नो वार्कजम्भस्य वृकजम्भः ऋषिः।। (ग्रा.गे.163।।102।।
ईडिष्वा हि (7) इत्यृचः वैयश्च ऋषिः। साम्नः अगस्त्यस्य वृकजम्भः ऋषिः।। (ग्रा.गे.163)।।103।।
न तस्य मायया (8)इत्यृचः वैयश्व ऋषिः। साम्नः अगस्त्यस्य राक्षोघ्नस्य अगस्त्य ऋषि
।।(ग्रा.गे.163)।।104।।
अपत्यं वृजिनम्(9)इत्यृचः ऋजिश्वा भारद्वाजः (ऋषिः)साम्नः राक्षोघ्नस्य अगस्त्य ऋषिः।। (ग्रा.गे.164)।। 105।।
श्रुष्टयग्रे नवस्य मे (10) इत्यृचः विश्वमना एव ऋषिः। साम्नो रोक्षोघ्नस्य अगस्त्य ऋषिः।। (ग्रा.गे. 166)।।106।।
इत्युष्णिहः।।
।। इति आग्नेये प्रथमेऽध्याये एकादशः खण्डः।।
।। द्वादशः खण्डः।।
।। अथ ककुभः अष्टौ ऋचः।।
प्र मंहिष्ठी(ष्ठा?)य (1) इत्यृचः प्रयोगो ऋषिः। साम्नां प्रमंहिष्ठीयानां चतुर्णाम् इन्द्रः ऋषिः।। (ग्रा.गे.167-170)।।107।।
प्र सो अग्रे (2) इत्यृचः सोभरिः ऋषिः । साम्नो वाजभृतः भरद्वाज ऋषिः।।(ग्रा.गे.171)।।108।।
तं गूर्धया स्वर्णरम्(3)इत्यृचः सौभरिः ऋषिः। साम्नां सौभराणां त्रयाणां सौभरिः ऋषिः।। (ग्रा.गे.172-4)।।109।।
मा नो हृणीथा (4)इत्यृचः प्रयोगः ऋषिः । साम्नोः पार्थयोः सौभरयोरपत्यः सौभरिः ऋषिः।।(ग्रा.गे.175-6)।।110।।
भद्रो नो अग्निराहुतः(5)इत्यादीनां तिसृणां सौभरिरेव ऋषिः। साम्नो दैवानीकस्य दैवानीकः ऋषिः।।(ग्रा.गे.177)।।111।।
(यजिष्ठं त्वा)(6)इति साध्यस्य साम्नः साधिः ऋषिः ।। (ग्रा.गे.178)।।112।।
तदग्रे द्युम्नम्(7)इति जमदग्नेः सांवर्गस्य जमदग्निः संवगः ऋषिः।।(ग्रा.गे.179)।।113।।
यद्वा उ विशवपतिः(8)इत्यृचः विश्वमना ऋषिः । साम्नो राक्षोघ्नस्य अगस्त्यः ऋषिः।।
(ग्रा.गे.180)।।114।।
।।इत्यष्टौ ककुभः।।
।। इत्याग्नेये प्रथमेऽध्याये द्वादशः खण्डः।।
इत्थं चतुर्दश शतं ऋच आग्नेयपर्वणि।
साशीति शतमाग्नेये सामान्येषां (न्यासां?)प्रकीर्तिताः।
ऋषिच्छन्दोदेवताश्च सर्वेषां संप्रदर्शिताः।।
आग्नेयं (पर्व) समाप्तम्
।। इति प्रथमोऽध्यायः।।1।।
द्वितीयोऽध्यायः
ऐन्द्रं पर्व
।। प्रथमः खण्डः।।
अथ ऐन्द्रे पर्वणि त्रयोऽध्यायाः । द्वादशानुवाकाः । प्रथमेऽध्याये शदमष्टादश ऋचः गायत्रीछन्दस्काः। सर्वेषामिन्द्रो देवता। उत्सर्गान्तर्देवताविशेषस्तत्र तत्र वक्ष्यते।।
तद्वो गाय(1) इत्यृचः शंयुर्बार्हस्पस्त्य ऋषिः। साम्नां रुद्रो मृगयुर्वा ऋषिः।।(ग्रा.गे.181-4)।।115।।
यस्ते नूनं शतक्रतो (2)इत्यृचः श्रुतकक्ष ऋषिः। साम्न आश्वस्य अश्व ऋषिः।।(ग्रा.गे.185)।।116।।
गाव उप वदावटे(3)इत्यृचः हर्यतः प्रगाथ ऋषिः। साम्नोर्ऐटयोरिटन्वान् भार्गव ऋषिः।। (ग्रा.गे.186-7)।।117।।
अरमश्वाय गायत(4)इत्यृचः श्रुतकक्ष ऋषिः । साम्नोः श्रौतकक्षयोश्च श्रुतकक्ष ऋषिः।।(ग्रा.गे.188-9)।।118।।
तमिन्द्रं वाजयामसि(5)इत्यृचः श्रुतकक्ष ऋषिः। आद्ययोस्तन्वस्य पार्थस्य साम्नोः तन्वः पार्थ ऋषिः। दावसोर्वाङ्गिरसस्य द्वितीयः(यम्?)। (तस्य दावसुः ऋषिः।)वसिष्ठस्य निवेष्टौ-(द्वौ) तयोर्वसिष्ठ ऋषिः। इडानां संक्षारो वा चतुर्थं साम।। (ग्रा.गे.190-3)।।119।।
त्वमिन्द्र बलादधि (3) इत्यृचः इन्द्रमातरो देवजामयः ऋषयः। साम्नां शाय्यातानां त्रयाणां शय्यात् ऋषिः।।(ग्रा.गे.194-6)।।120।।
यज्ञ इन्द्रमवर्धयत्(7) यदिन्द्राहं यथा त्वम्(8) इति द्विऋचस्य गौषूक्ताश्वसूक्तावृषी । यज्ञ इन्द्रमवर्धयत् इति इम्द्राण्याः साम। तस्येन्द्रीणी ऋषिः। यदिन्द्राहं यथा त्वम् इति गौषूक्ताश्वसूक्तयोः गौषूक्तिश्चाश्वसूक्तिश्च ऋषिः।। (ग्रा.गे.197-9)।।121-122।।
(पन्यंपन्यमित् (9)इत्यृचः मेधातिथिराङ्गिरसश्च प्रियमेधश्व काण्वः ऋषिः। साम्नः गौरीवितस्य गौरीवितिः ऋषिः।। (ग्रा.गे.200)।।123।।
इदं वसो सुतमन्धः (10)इत्यृचः मेधातिथिराङ्गिरसः प्रियमेधश्च काण्व ऋषिः। साम्नां गाराणां त्रयाणां गार ऋषिः।। (ग्रा.गे.201-3)।।124।।
इति ऐन्द्रे द्वितीयेऽध्याये प्रथमः खण्डः
-----------
द्वितीयः खण्डः
उद्धेद्भि श्रुतामघम्(1)इत्यृचः श्रुतकक्ष ऋषिऱः। साम्नां सौपर्णनां त्रयाणां सुपर्ण ऋषिः।।(ग्रा.गे.204-6)।।125।।
यदद्य कच्च (2)इत्यृचः श्रुतकक्ष ऋषिः। साम्नः शाकलस्य शकल ऋषिः। आभ्यां ऋग्भ्यां सूर्यरुपेण इन्द्रस्तूयते।। ग्रा.गे.207।। 126।।
य आनयत् परावतः(3)इत्यृचः भरद्वाजः ऋषिः। साम्नोः आभरद्वसवयोः आभरद्वसुः ऋषिः।(ग्रा.गे.208-9)।।127।।
मा न इन्द्राभ्यादिशः(4) इत्यृचः श्रुतकक्ष ऋषिः। साम्नोस्तन्वयोस्तन्व ऋषिः।।(ग्रा.गे.210-1)।।128।।
एन्द्रं सानसिम्(5)इत्यस्या ऋचः मधुच्छन्दा ऋषिः। साम्नोः रोहितकूलीययोः इन्द्र ऋषिः।विश्वामित्रो वा ।।(ग्रा.गे.212-3)।।129।।
इन्द्रं वयं महाधन(6)इत्यृचः मधुच्छन्दा ऋषिः। साम्नोरिन्द्राण्याः इन्द्राणी ऋषिः।।(ग्रा.गे.214-5)।।130।।
अपिबत् कद्रुव(7)इत्यृचः त्रिशोक ऋषिः। साम्नः सहस्रबाहवीयस्य इन्द्रः ऋषिः।।(ग्रा.गे.216)।।131।।
वयमिन्द्र त्वा यव(8)इत्यृचो वसिष्ठः ऋषिः। साम्नो धृषतो मारुतस्य धृषन्मरुदृषिः।।
द्वितीयस्य भारद्वाजस्यादरसृतः भारद्वाज ऋषिः। तृतीयस्य धृषतो मारुतस्य धृषन्मरुद्दृषिः। चतुर्थपञ्चमयोः भरद्वाजस्यादरसृतो भरद्वाज ऋषिः।। (ग्रा.गे.217-221)।।132।।
आ घा ये (9)इत्यृचः त्रिशोक ऋषिः। साम्नां त्रयाणाम् ऐध्मवाहानामिध्मवाह ऋषिः।। (ग्रा.गे.222-4)।।133।।
भिन्धि विश्वा अप द्विषः(10)इत्यृचः त्रिशोक ऋषिः। साम्नोऽहेः पैड्वस्य अहिः पैड्व ऋषिः।। (ग्रा.गे.225)।।134।।
।। इति ऐन्द्रे द्वितीयेऽध्याये द्वितीयः खण्डः।।
--------
तृतीयः खण्डः
इहेव शृण्व एषाम्(1) इत्यस्या ऋचस्त्रिशोक ऋषिः। साम्नः (ऐषस्य)इषः (ऋषिः।)मरुतो देवता । गायत्री छन्दः।। (ग्रा.गे.226)।।135।।
इम उ त्वा वि चक्षते (2) इत्यृचः त्रिशोक ऋषिः। साम्नः (पौषस्य)पूषा (ऋषिः)मरुतो देवता।। (ग्रा.गे.227)।।136।।
समस्य मन्यवे विशः(3)इत्यृचः वत्स ऋषिः। साम्नः मरुतां संवेशीयस्य मरुतः। (ग्रा.गे.228)।।137।।
देवानामिदवो महत्(4)इत्यृचः कुसीदी काण्वः ऋषिः। साम्नां चतुर्णामाद्योर्हविष्मान् परयोर्हविष्कृत् । विश्वेदेवा देवता।। (ग्रा.गे.229-232)।।138।।
सोमानां स्वरण(5)इत्यृचः मेधातिथिः ऋषिः। साम्नः कक्षीवान् औशिज ऋषिः ब्रह्मणस्पतिर्देवता।।(ग्रा.गे.233)।।139।।
बोधन्मना (6)इत्यृचः श्रुतकक्ष ऋषिः। साम्न औषसस्य उषा ऋषिः।। (ग्रा.गे.234)।।140।।
अद्या नो देव सवितः(7)इत्यृचः श्यावाश्वः ऋषिः । सविता देवता। साम्नोः भरद्वाजस्य मौक्षयोर्भरद्वाज ऋषिः।।(ग्रा.गे.235-6)।।141।।
क्वस्य वृषभ (8)इत्यृचः प्रगाथः काण्व ऋषिः। साम्नां भारद्वाजानां त्रयाणां भरद्वाजः(ऋषिः)।।(ग्रा.गे.237-9)।।142।।
उपह्वरे गिरीणाम्(9)इत्यृचः वत्सः ऋषिः। साम्नो शाक्त्यसाम्नोः शाक्त्य ऋषिः।। (ग्रा.गे.240-1)।।143।।
प्र सम्राजं चर्षणीनाम् (10)इत्यृचः इरिमीढ ऋषिः। साम्नः चतुर्णाम् आद्ययोर्वार्षंरयोर्वृषंधर ऋषिः। परयोः कुत्सस्य प्रस्तोकयोः कुत्स ऋषिः।। (ग्रा.गे.242-5)।। 144।।
।। इति ऐन्द्रे द्वितीयेऽध्याये तृतीयः खण्डः।।
चतुर्थः खण्डः
अपादु शिप्रयन्धसः (1)इत्यृचः श्रुतकक्षः ऋषिः। साम्नोरौपगवयोरुपगुः सौश्रवस ऋषिः।। (ग्रा.गे.246-7)।।145।।
इमा उ त्वा पुरुवसः (2)इत्यृचः भरद्वाज ऋषिः । साम्नः त्वाष्ट्रीसाम्नः त्वाष्ट्री ऋषिः। (ग्रा.गे.248)।।146।।
अत्राह गोरमन्वत (3)इत्यृचः गौतम ऋषिः। साम्नोस्त्वष्टुरातिथ्ययोः त्वष्टा ऋषिः।। (ग्रा.गे.249-250)।।147।।
यदिन्द्रो अनयद्रितः(4)इत्यृचः भरद्वज ऋषिः। साम्नोः श्यावाश्वयोः श्यावाश्च ऋषिः।।
(ग्रा.गे.251-2)।।148।।
गौर्धयति मरुताम्(5)इत्यृचः बिन्दुः पूतदक्षो वा ऋषिः। साम्नोः श्यावाश्वयोः श्यावाश्वः ऋषिः।।(ग्रा.गे.253-4)।।149।।
उप नो हरिभिः सुतम्(6)इत्यृचः श्रुतकक्ष ऋषिः। साम्नोः सुतंरयिष्ठीययोः सुतंरयिष्ठ ऋषिः।।(ग्रा.गे.255-6)।।150।।
इष्टा होत्रा (7)इत्यृचः वत्स ऋषिः। साम्नो निधनकामस्य प्रजापतिः ऋषिः।।(ग्रा.गे.257)।।151।।
अहमिद्धि (8)इत्यृचः श्रुतकक्ष ऋषिः। साम्नो रैवत्यस्य रैवत्य ऋषिः। वाजदावर्यो वा प्रजापतिः ऋषिः।। (ग्रा.गे.258)।।152।।
रेवतीर्णः सधमाद (9)इत्यृचः वत्स ऋषिः। साम्नो निधनकामस्य प्रजापतिः ऋषिः।। (ग्रा.गे.259)।।153।।
सोमः पूषा (10)इत्यृचः पूषा ऋषिः। सोमः पूषा (च) देवता साम्नः सौमापूषस्य सोमः पूषाच देवता(ऋषी?)।।(ग्रा.गे.260)।।154।।
।। इति ऐन्द्रे द्वितीयेऽध्याये चतुर्थः खण्डः।।
।। पञ्चमः खण्डः।।
पान्तमा वो अन्धसः (1)इत्यृचः श्रुतकक्ष ऋषिः। साम्नो वैतहव्यानां वीतहव्य ऋषिः। ओकोनिधनं वा तृतीयं साम। अनुष्टुप् छन्दः। (ग्रा.गे.261-3)।।155।।
प्र व इन्द्राय मादनम्(2)इत्यृचः वसिष्ठ ऋषिः। साम्नां षण्णामाद्ये शाक्तिसामनी । तयोः शाक्त्य ऋषिः। तृतीयचतुर्थे गौरीविते। तयोर्गौरीवित ऋषिः। पञ्चमषष्ठयोः शाक्त्यः गौरीवितश्च ऋषिः।।(ग्रा.गे.264-9)।।156।।
वयमुत्वा तदिदर्था (3)इत्यृचो मेधातिथिः प्रियमेधाश्च द्वावृषी। साम्नोः काण्वयोः कण्व ऋषिः।।(ग्रा.गे.270-1)।।157।।
इन्द्राय मद्वने सुतम्(4)इत्यृचः श्रुतकक्ष ऋषिः। साम्नः (म्नां?)आद्ययोर्गौरीवित ऋषिः। तृतीय(स्य)श्रौतकक्षस्य श्रुतकक्ष ऋषिः।। (ग्रा.गे.272-7)।।158।।
अयं त इन्द्र सोमः(5)इत्यृचः इरिमीढ ऋषिः।साम्नामाद्ययोः सौमित्रयोः सुमित्र ऋषिः। तृतीयस्य इहवद्दैवोदासस्य दिवोदास ऋषिः।।(ग्रा.गे.275-7)।।159।।
सुरुपकृत्नुमूतये(6)इत्यृचः मधुच्छन्दा ऋषिः। साम्नां चतुर्णामाद्यं शाक्वरवर्णम्। शाक्वर(वर्ण)ऋषिः। द्वितीयं रैणवम्। रेणुः ऋषिः। तृतीयचतुर्थे औदले । उदलो वैश्वामित्र ऋषिः।। (ग्रा.गे.278-281)।।160।।
अभि त्वा वृषभा सुते(7)इत्यृचः त्रिशोक ऋषिः। साम्नां त्रयाणाम् आर्षिभाणम् ऋषभ ऋषिः।। (ग्रा.गे.282-4)।।161।।
य इन्द्र चमसेषु (8)इत्यृचः कुसीतिः (दिः?)(ऋषिः)साम्नोः कौत्सयोः कुत्सः(ऋषिः)।।(ग्रा.गे.285-6)।।162।।
योगेयोगे तवस्तरम्(9)इत्यृचः शुनः शेपः ऋषिः। साम्नां सौमेधानां त्रयाणां सुमेधा ऋषिः।।(ग्रा.गे.287-9)।।163।।
आ त्वेता नि षीदत(10)इत्यृचः मधुच्छन्दाः( ऋषिः)। साम्नो दैवातिथस्य दै(दे?)वातिथिः काण्वः ऋषिः।। (ग्रा.गे.290)।।164।।
।। इति ऐन्द्रे द्वितीयेऽध्याये पञ्चमः खण्डः।।
।।षष्ठः खण्डः।।
इदं ह्यन्वोजसा (1)इत्यृचः विश्वामित्रः (ऋषिः)। आङ्गिरासानि त्रीणि सामानि। तेषामङ्गिरा ऋषिः। माधुच्छन्दसं वा प्रथमम्;क्रौञ्चं द्वितीयम्;घृतश्चुन्निघनं तृतीयं वा ।।(ग्रा.गे.294-3)।।165।।
महाँ इन्द्रः पुरश्च न(2)इत्यृचः मधुच्छन्दा ऋषिः। सामानि त्रीणि वाम्राणि वा प्रि(प्रै?)यमेधानि वा । प्रियमेधा ऋषिः ।। (ग्रा.गे.294-6)।।166।।
आ तू न (इन्द्र)क्षुमन्तम्(3)इत्यृचः कुसीद ऋषिः। साम्नां चतुर्णामाद्ये गौरीविते। तयोर्गौरीवितः शाक्त्य ऋषिः। तृतीयचतुर्थे आकूपारे। तयोराकूपारयोराङ्गिरस ऋषिः।।(ग्रा.गे.297-300)।।167।।
अभि प्र गोपतिं गिरा(4)इत्यृचः प्रियमेधः अभिप्रपाच्य ऋषिः। साम्नां त्रयाणाम् आद्ये धुरोः सामनी। गौरीवितं तृतीयम्। प्रथमद्वितीययोर्धुर ऋषिः। गौरीवितस्य शक्त्य ऋषिस्तृतीयस्य ।।(ग्रा.गे.301-303)।।168।।
कया नश्चित्र आ भुवत्(5)इत्यृचो वामदेव ऋषिः। साम्नामाद्ये वाचः सामनी। वामदेव्यं तृतीयम्। आद्ययोर्वागृषिः। तृतीयस्य वामदेव ऋषिः।। (ग्रा.गे.304-6।।169।।
त्यमु वः सत्रासाहम्(6)इत्यृचः श्रुतकक्षः ऋषिः । साम्नो सत्रासाहीययोरिन्द्र ऋषिः।।(ग्रा.गे.309)।।171।।
ये ते पन्था अधो दिवः(8)इत्यृचः श्रुतकक्ष ऋषिः। साम्नो गौतमस्य भद्रस्य गौतम ऋषिः।।(311)।।173।।
अस्ति सोमो अयं सुतः(10)इत्यृचः बिन्दुः पूतदक्षो वा ऋषिः साम्नोऽश्विनोः अश्विनावृषी।। (ग्रा.गे.312)।।174।।
।। इति ऐन्द्रे द्वितीयेऽध्याये षष्ठः खण्डः।।
।। सप्तमः खण्डः।।
ईखयन्तीरपस्युवः(1)इत्यृचः इन्द्रमातरो देवजामय ऋषयः साम्नः त्वाष्ट्रीसाम्नः त्वाष्ट्रीय ऋषिः।। (ग्रा.गे.313)।।175।।
नकि देवा (2)इत्यृचः गोधा ऋषिः। साम्नश्च गोधा।।(ग्रा.गे.314)।।176।।
दोषो आगाद् बृहत्(3)इत्यृचः दध्यङ्ङाथर्वण ऋषिः। साम्नः सवितुः साम्नः सविता ऋषिः।देवता च ।। (ग्रा.गे.315)।।177।।
एषो उषा अपूर्व्या(4)इत्यृचः प्रस्कण्व ऋषिः। साम्नः औषसस्य उषा ऋषिः। सविता देवता।।(ग्रा.गे.316)।।178।।
इन्द्रो दधीचो अस्थभिः(5)इत्यृचः गौतम ऋषिः। साम्नोस्त्वष्टुरातिथ्ययोः त्वष्टा ऋषिः।। (ग्रा.गे.317-8)।।179।।
इन्द्रेहि मत्स्यन्धसः(6)इत्यृचः मधुच्छन्दा ऋषिः। साम्नः पौषस्य पूषा ऋषिः।।(ग्रा.गे.319)।।180)।।
आ तू न इन्द्र वृत्रहन्(7)इत्यृचः वत्स ऋषिः। साम्नः इन्द्रस्य मायाया इन्द्रः(ऋषिः)।।(ग्रा.गे.320)।।181।।
ओजसस्तदस्य तित्विषः(9)इत्यृचः वत्स ऋषिः। सम्नोरिन्द्रस्य सांवर्तयोरिन्द्र ऋषिः। संवर्तो आङ्गिरसः ।। (ग्रा.गे.321-2)।।182।।
अयमु ते समतसि(9)इत्यृचः शुनः शेप ऋषिः। साम्नः शौनः शेपस्यापि शुनः शेपः ऋषिः।।(ग्रा.गे.323)।।183।।
वात आ वातु भेषजम्(10)इत्यृचः वातायत उलः (ऋषिः)वायुः देवता। साम्नः प्रतीचीनेडंकाशीतस्य काशीत ऋषिः।। (ग्रा.गे.324)।।184।।
।।इति ऐन्द्रे द्वितीयेऽध्याये सप्तमः खण्डः।।
यं रक्षन्ति प्रचेतसः(1)इत्यृचः कण्व ऋषिः। मित्रावरुणमुख्या आदित्या देवताः। साम्नः सौमित्रस्य सुमित्र ऋषिः।। (ग्रा.गे.325)।।185।।
गव्यो षुणो यथा पुरा(2)इत्यृचः वंश ऋषिः । साम्नोः श्यावाश्वयोः श्यावाश्व ऋषिः।। (ग्रा.गे.328)।।186।।
इमास्त इन्द्र पृश्नयः(3) वत्सः ऋषिः। साम्नः शैखाण्डिनस्य शिखण्डी ऋषिः।। (ग्रा.गे.328)।।187।।
अया धिया च गव्यया(4)इत्यृचः श्रुतकक्ष ऋषिः। साम्नो वैतहव्यस्य वीतहव्य ऋषिः।। (ग्रा.गे.329)।।188।।
पावका नः सरस्वती (5)इत्यृचः मधुच्छन्दा ऋषिः। सारस्वती देवता। साम्नो भारद्वाजस्य भरद्वाज ऋषिः।। (ग्रा.गे.330)।।189।।
क इमं नाहुषीषु(6)इत्यृचः वामदेव ऋषिः। साम्न आरुणस्य वैतहव्यस्य अरुणो वीतहव्य ऋषिः।। (ग्रा.गे.331)।।190।।
आ याहि सुषुमा हि ते (7)इत्यृचः इरिमीढ ऋषिः। साम्नः सौभरस्य सुभरिः ऋषिः।। (ग्रा.गे.332)।।191।।
महि त्रीणामवरस्तु (8)इत्यृचः वारुणिः सत्यधृतिः (ऋषिः)मित्रावरुणौ देवता। साम्नोः पाष्ठौहयोः पष्ठवाह ऋषिः।। (ग्रा.गे.333-1)।।192।।
त्वावतः पुरुवसो (9)इत्यृचः वंश ऋषिः। साम्नो धुरांसाकमश्वस्य साकमश्वः(ऋषिः)।। (ग्रा.गे.335)।।193।।
।। इति ऐन्द्रे द्वितीयेऽध्याये अष्टमः खण्डः।।
उत्त्वा मन्दन्तु सोमाः (1)इत्यृचः गाध ऋषिः। साम्नो यामस्य यमः(ऋषिः)।। (ग्रा.गे.336)।।194।।
गिर्वणः पाहि नः सुतम्(2)इत्यृचः विश्वामित्र ऋषिः। साम्न आङ्गिरसस्य हरिश्रीनिधनस्य अङ्गिरा ऋषिः।। (ग्रा.गे.337)।।195।।
सदा व इन्द्रः (3)इत्यृचः वामदेव ऋषिः। साम्नो वैरूपस्य विरूपाङ्गिरस ऋषिः।। (ग्रा.गे.338)।।196।।
आ त्वा विशन्त्विन्दवः (4)इत्यृचः श्रुतकक्षः ऋषिः। साम्नः सिन्धुषाम्नः असितः ऋषिः।। (ग्रा.गे.339)।।197।।
इन्द्रमिद्गाथिनो बृहत्(5)इत्यस्य (।)ऋचः मधुच्छन्दा ऋषिः। साम्नोऽर्कस्य यम ऋषिः।। (ग्रा.गे.340)।।198।।
इन्द्र इषे ददातु न (6)इत्यृचः श्रुतकक्षः ऋषिः। साम्नोः सौमित्रयोः सुमित्रः (ऋषिः)।।(ग्रा.गे.343)।।199।।
इन्द्रो (अङ्ग)महद्भयम्(7)इत्यृचः गृत्समदः ऋषिः। साम्नः अभयंकरस्य इन्द्र ऋषिः।।(ग्रा.गे.341-2)।।200।।
इमा उ त्वा सुतेसुते (8)इत्यृचः भरद्वाज ऋषिः। साम्नत्वाष्ट्रीसाम्नस्त्वष्टा ऋषिः।। (ग्रा.गे.344)।।201।।
इन्द्रा नु पूषणा वयम्(9)इत्यृचः(भरद्वाजः ऋषिः)इन्द्रापूषणौ देवते। साम्नः पौषस्य पूषा ऋषिः।।(ग्रा.गे.345)।।202।।
न कि इन्द्र त्वम्(द्?)इत्यृचः वामदेव ऋषिः। साम्न इन्द्राण्याः साम्नः इन्द्राणी ऋषिः।। (ग्रा.गे.346)।।203।।
।।इत्यैन्द्रे द्वितीयेऽध्याये नवमः खण्डः।।
दशमः खण्डः
तरणिं वो जनानाम्(1)इत्यृचः त्रिशोक ऋषिः। साम्नः श्यावाश्वस्य श्यावाश्व ऋषिः।।(ग्रा.गे.347)।।204।।
असृग्रमिन्द्र ते गिरः(2)इत्यृचः मधुच्छन्दा ऋषिः। साम्नो वैरूपस्य सुमित्रः ऋषिः।।(ग्रा.गे.349)।।205।।
सुनीथो घा स मर्त्यो (3)इत्यृचः वंशः ऋषिः। साम्नः सौमित्रस्य सुमित्रः ऋषिः।।(ग्रा.गे.349)।।206।।
यद्वीडाविन्द्र (4)इत्यृचः त्रिशोक ऋषिः। साम्नस्तौभस्य तुभः ऋषिः। (ग्रा.गे.350)।।207।।
श्रुतं वो वृत्रहन्तमम्(6)इत्यृचः श्रुतकक्षः (ऋषिः)साम्नः श्रौतस्य श्रुतः ऋषिः।। (ग्रा.गे.351)।।208।।
अरं त इन्द्र श्रवसे (6)इत्यृचः श्रुतकक्षः (वामदेवः?)ऋषिः साम्न आभीशवस्य अभीशवः ऋषिः।।(ग्रा.गे.351)।।209।।
धानावन्तं करम्भिणम्(7)इत्यृचः विश्वामित्रः ऋषिः। साम्नः पौषस्य पूषा ऋषिः।। (ग्रा.गे.373)।।210।।
अपां फेनेन (8)इत्यृचः गौषूक्ताश्वसूक्तिनौ (ऋषी)साम्नः क्षुरपविणः इन्द्रः ऋषिः।। (ग्रा.गे.354)।।211।।
इमे त इन्द्र सोमाः (9)इत्यृचः वामदेवः (ऋषिः)साम्नः सौमित्रस्य सुमित्र ऋषिः ।। (ग्रा.गे.355)।।212।।
तुभ्यं सुतासः सोमाः (10)इत्यृचः श्रुतकक्षः ऋषिः। साम्नः सौमित्रस्य सुमित्रः(ऋषिः)।। (ग्रा.गे.356)।।213।।
इति ऐन्द्रे द्वितीयेऽध्याये दशमः खण्डः
-------------
एकादशः खण्डः
आ व इन्द्रं कृविं यथा(1)इत्यृचः शुनः शेपः ऋषिः। साम्नः कौत्सस्य कुत्स ऋषिः।। (ग्रा.गे.357)।।214।।
अतश्चिदिन्द्र न उपा याहि(2)इत्यृचः श्रुतकक्षः ऋषिः। साम्नः कौत्सस्य कुत्सः ऋषिः।। (ग्रा.गे.358)।।215।।
आ बुन्दं वृत्रहा (3)इत्यृचः त्रिशोकः ऋषिः। साम्न औषसस्य उषा ऋषिः।।(ग्रा.गे.359)।।216।।
बृहदुक्थं हवामहे(4)इत्यृचः मेधातिथिः ऋषिः। साम्नः भारद्वाजस्य भरद्वाजः(ऋषिः)।।(ग्रा.गे.359)।।217।।
ऋजुनीती नो वरुणः(5)इत्यृचः गौतमः ऋषिः। (साम्नः)कौत्सस्य कुत्सः ऋषिः।। (ग्रा.गे.361)।।218।।
दूरादिहेव यत्सतः (6)इत्यृचः विश्वामित्रो गौतमः ऋषिः।साम्नः औषसस्य उषा ऋषिः।।(ग्रा.गे.362)।।219।।
आ नो मित्रावरुणा(7)इत्यृचः विश्वामित्रो जमदग्निर्वा ऋषिः। साम्नो मित्रावरुण(योःसं)योजनस्य मित्रावरुणौ ऋषी।। (ग्रा.गे.363)।।220।।
उदुत्ये सूनवो गिरः(8)इत्यृचः प्रस्कण्वः काण्वः(ऋषिः)साम्नो ऋतुषाम्णो ऋतव ऋषिः(oष्य:?)(ग्रा.गे.364)।।221।।
इदं विष्णुर्वि चक्रमे (9)इत्यृचः मेधातिथिः ऋषिः। साम्नो विष्णोः साम्नः विष्णुः ऋषिः।। देवता च ।। (ग्रा.गे. 365)।।222।।
इति ऐन्द्रे द्वितीयेऽध्याये एकादशः खण्डः
-------------
द्वादश खण्डः
अतीहि मन्युषाविणम्(1)इत्यृचः मेधातिथिः ऋषिः।साम्नः कौत्सस्य कुत्सः ऋषिः।। (ग्रा.गे.366)।।223।।
कदु प्रचेतसे (2)इत्यृचः वामदेव ऋषिः। साम्नः काश्यपस्य कश्यप ऋषिः।। (ग्रा.गे.367)।।224।।
उक्थं च न शस्यमानम्(3)इत्यृचः मेधातिथिप्रियमेधौ (ऋषी)साम्नो बार्हदुक्थस्य बृहदुक्थो वाग्नेयः।।(ग्रा.गे.369)।।225।।
इन्द्र उक्थेभिः(4)इत्यृचः विश्वामित्र ऋषिः। साम्नो बार्हदुक्थस्य बृहदुक्थो वाग्ने।।(ग्रा.गे.360)।।226।।
आ याह्युप न(:)म्(5)इत्यृचः मेधातिथिराङ्गिरसः प्रियमेधः ऋषिः।साम्नः कौत्सस्य कुत्सः ऋषिः।। (ग्रा.गे.370)।।227।।
कदा वसो स्तोत्रम्(6)इत्यृचः दुर्मित्रः ऋषिः। साम्नोः कौत्सयोः कुत्स ऋषिः।। (ग्रा.गे.371-2)।।228।।
ब्राह्मणादिन्द्र राधसः(7)इत्यृचः मेधातिथिः ऋषिः। और्ध्वसद्मनस्य ऊर्ध्वसद्मा ऋषिः।।(ग्रा.गे.373)।।229।।
वयं घा ते अपि स्मसि(8)इत्यृचः मेधातिथिः ऋषिः। साम्नः और्ध्वसद्मनस्य ऊर्ध्वसद्मा ऋषिः।।(ग्रा.गे.374)।।230।।
एन्द्र पृक्षु कासु (चिन्नृम्ण)म् (9)इत्यृचः (विश्वामित्र ऋषिः)। साम्नः औदलस्य अभीपाद उदल ऋषिः।। (ग्रा.गे. 375)।।231।।
एवा ह्यसि वीरयुः(10)इत्यृचः मधुच्छन्दा ऋषिः। आमहीयवस्य आमहीयुः ऋषिः।।(ग्रा.गे.376)।।232।।
इत्यैन्द्रे द्वितीयेऽध्याये द्वादशः खण्डः
एवमैन्द्रयस्तु गायत्र्यः शतमष्टादशाधिकम्।
षडशीतिशतं(!)साम्नामाम्नातानि महर्षिभिः।।
।। इति द्वितीयोऽध्यायः ।।
---------
तृतीयोऽध्यायः
अथैन्द्रयो बृहत्योऽनुवाकाष्टकैराम्नाताः। त्रिभिस्रैष्टुभ्यः एकेनानुष्टुभ स्तृतीयाध्याये आम्नाताः।।
प्रथमः खण्डः
अभि त्वा शूर नोनुमः (1)इत्यृचः वसिष्ठ ऋषिः। इन्द्रो देवता। बृहती छन्दः। एवमुत्तरत्र । आसामपि एकोनसप्ततिसंख्याकर्चा बृहती छन्दः। इन्द्रो देवता। अन्यासामेकादशर्चां देवताविशेषस्तत्र वक्ष्यते। साम्नोर्भरद्वाजस्यार्कयोः भरद्वाजः ऋषिः।। (ग्रा.गे.377-8)।।233।।
त्वामिद्धि हवामहे(2)इत्यृचो भरद्वाज ऋषिः। तत्साम्नोर्भारद्वाजयोश्च भरद्वाज ऋषिः।। (ग्रा.गे.379-380)।।234।।
अभि प्र वः सुराधसम्(3)इत्यृचः बालखिल्या ऋषयः साम्नामाद्ययोः सांनतयोः संनतिः ऋषिः। तृतीयस्य श्यैतस्य प्रजापतिः ऋषिः।। (ग्रा.गे.381-3)।।235।।
तं वो दस्मृतीषहम्(4)इत्यृचः नोधा ऋषिः। साम्नां पञ्चानामाद्यस्य नाकस्य नाविक ऋषिः। द्वितीयस्याभीवर्तस्य प्रजापतिः ऋषिः तृतीयस्य भागसय् भग ऋषिः। चतुर्थस्य इन्द्रस्याभीवर्तस्य इन्द्रः ऋषिः। पञ्चमस्य नौध(स)स्य नोधा(:)काक्षीवतः ऋषिः।। (ग्रा.गे. 384-8)।।236।।
तिरोभिर्वा विदद्वसुम्(5)इत्यृचः कलिः प्रगाथः ऋषिः। साम्न। सप्तानामाद्ययोर्लौशयोर्लुशः ऋषिः। द्वितीयतृतीययोः (तृतीयचतुर्थयोः?)धानाकयोः धन(।)कः ऋषिः।(पक्षान्तरे)चतुर्थस्य क्षुल्लुककालेयस्य क्षुल्लुककलिः ऋषिः। (पञ्चम-)षष्ठसप्तमयोः (सप्तमानां?)कालेययोः (कालेयानां?)कलिः ऋषिः। पक्षान्तरे सर्वेषां सप्तानां कलिरेव वा ऋषिः।। (ग्रा.गे.389-395)।।237।।
पिबा सुतस्य रसिनः (7)इत्यृचो मेधातिथिः ऋषिः। साम्नामाद्यस्य पृष्ठस्य प्राजापत्यः ऋषिः। परयोर्गौश्रृङ्गयोर्गौश्रृङ्गः ऋषिः।। (ग्रा.गे. 396-9)।।239।।
त्वं ह्योहि चेरवे (8)इत्यचो भगः ऋषिः। साम्नोः कौल्मलबर्हिषयोः कुल्मलबर्हिः ऋषिः।। (ग्रा.गे.403-4)।।240।।
न हि वश्चरमं च न (9)इत्यचो वसिष्ठः ऋषिः। मरुतो देवता। साम्नोर्वसिष्ठस्य जनित्रयोः वसिष्ठः ऋषिः।। (ग्रा.गे.405-6)।।241।।
मा चिदन्यद्वि शंसत (10)इत्यृचः प्रगाथः काण्वः ऋषिः। साम्नो मैधातिथस्य मेधातिथिः काण्वः ऋषिः।। (ग्रा.गे.407)।। 242।।
।। इत्यैन्द्रे तृतीयेऽध्याये प्रथमः खण्डः।।
द्वितीयः खण्डः
नकिष्टं कर्मणा नशत्(1)इत्यृचः पुरुहन्मा ऋषिः। साम्नो वैखानसस्य (आद्यस्य )विखनाः, द्वितीयस्य पौरुहन्मनस्य पुरुहन्मा ऋषिः।।
य ऋते चिदभिश्रिषः(2)इत्यचो मेधातिथिः(ऋषिः)साम्नः सात्यस्य सत्यः ऋषिः।।(ग्रा.गे.410)।।244।।
आ त्वा सहस्रमा शतम्(3)इत्यृचो मेधातिथिः मेध्यातिथिः(च)ऋषिः(षी?)साम्नां चतुर्णां भारद्वाजानां भरद्वाजः ऋषिः ।अथवा द्वितीयस्य कण्वबृहतः कण्वः ऋषिः।।(ग्रा.गे.411-4)।।246।।
त्वमङ्ग प्र शंसिषः(5)इत्यृचः रहूगणपुत्रो गौतमः ऋषिः। साम्नोऽग्नेर्गौङ्गवस्य अग्निर्गुह्गुः ऋषिः। गुङ्गुर्वा।।(ग्रा.गे.418)।।247।।
त्वमिन्द्र यशा असि(6)इत्यृचः नृमेधः पुरुमेधो वा ऋषिः । साम्नोः (म्नां?)इन्द्रस्ययशसोः (साम?)(पञ्चानाम्)इन्द्रः ऋषिः । द्वितीयं साघ्रं वा। (तस्य) साघ्नः वा। (तस्य)साध्रः ऋषिः।। (ग्रा.गे.424)।।249।।
इमा उ त्वा पूरुवसः(8)इत्यृचः मेधातिथिः ऋषिः। साम्नां त्रयाणामात्राणामत्रिः ऋषिः।। (ग्रा.गे.425-7)।।250।।
उदु त्ये मधुमत्तम(9)इत्यृचो मेध्यातिथिः ऋषिः। साम्नां वासिष्ठानां त्रयाणां वसिष्ठः ऋषिः।। (ग्रा.गे.428-30)।।251।।
यथा गौरो अपा कृतम्(10)इत्यृचो देवातिथिः काण्व ऋषिः। साम्नोर्गौतमस्य मनाद्ययोः गौतमः ऋषिः।।(ग्रा.गे.431-2)।।252।।
।। इत्यैन्द्रे तृतीयेऽध्याये द्वितीयः खण्डः।।2।।
तृतीयः खण्डः
शग्ध्यूषु शचीपते(1)इत्यचो भर्गः ऋषिः। साम्नां त्रयाणां हारायणानाम् इन्द्रः ऋषि।।(ग्रा.गे.431-5)।।253।।
या इन्द्र भुज आभरः (2)इत्यृचो रेभः काश्यपः ऋषिः। साम्नां वाम्राणां त्रयाणां वाम्रः ऋषिः।।(ग्रा.गे.436-8)।।254।।
प्र मित्राय प्रार्यम्णे (3)इत्यचो जमदग्निः ऋषिः। आदित्यो देवता। साम्नां वरुणसाम्नां त्रयाणां वरुणः ऋषिः। (ग्रा.गे.439-441)।।255।।
अभित्वा पूर्वपीतये (4)इत्यृचो मेध्यातिथिः ऋषिः। साम्नो वषट्कारणिधनस्य प्रजापतिः ऋषिः।। (ग्रा.गे.442)।।256।।
प्र व इन्द्राय बृहते(5)इत्यृचः नृमेधपुरुमेधावृषी । धृषतो मारुतस्यच साम(म्नः?)धृषन्मारुतः ऋषिः।।(ग्रा.गे.443।।257।।
साम्नां संशानानां चतुर्णामिन्द्रः ऋषिः। अथास्यामृचि सन्त्वाहिन्वन्ति, सन्त्याऋणन्ति, सन्त्वा ततक्षुः सन्त्वा शिशन्ति इति चतुर्भिः स्तोभैः बृहदिन्द्राय गायत(6)इति चतुर्भिः पादैः चत्वार्यपि गेयानि। आदितस्रयस्तोभाः सामान्तिमाः (त्रयश्च)गीताः (गेयाः)चतुर्थं (र्थः)सामाद्य(न्त)स्तोभाः(भः?)। उभयविस्तोभोऽपि चतुर्ष सामसु गेयः।।(ग्रा.गे.444-5)।।258।।
इन्द्र क्रतुं न आभर(7)इत्यृचः वसिष्ठः ऋषिः । साम्नां त्रयाणाम् आद्ये वाम्रे । वाष्ठिं तृतीयम्।। वाम्रवासिष्ठावृषी ।। (ग्रा.गे.446-8)।।259।।
मा न इन्द्र परा वृणक् (8)इत्यृचः रेभः ऋषि। साम्नोराजिगयोराजिगो दानवः ऋषिः।। (ग्रा.गे.449-50)।।260।।
वयं घ त्वा सुतावन्तः(9)इत्यृचः मेध्यातिथिः ऋषिः। साम्नां चतुर्णामाद्यम् आष्कारणिधनं काण्वम्। अस्य काण्वस्य कण्व ऋषिः। महावैष्टम्भं द्वितीयम्। विष्टम्भः ऋषिः। तृतीयमभिनिधनं काण्वम्। काण्व ऋषिः। चतुर्थं दिङनिधनं महावैष्टम्भम्। विष्टम्भः ऋषिः।।(ग्रा.गे.451-4)।।261।।
यदिन्द्र नाहुषीष्वा (10)इत्यृचः भरद्वाजः ऋषिः। साम्नः श्नौष्टीगवस्य श्नुष्टीगुः ऋषिः।। (ग्रा.गे.455)।।262।।
।। इत्यैन्द्रे तृतीयेऽध्याये तृतीयः खण्डः।।3।।
चतुर्थः खण्डः
सत्यमित्था वृषेदसि(1)इत्यृचः मेधातिथिः ऋषिः। साम्न इन्द्रस्य वृषकस्य इन्द्रः ऋषिः।।(ग्रा.गे.456)।।263।।
यच्छाक्रासि परावति(2)इत्यृचो रेभः ऋषिः। साम्नोः द्वैगतयोः द्विगद्भार्भव ऋषिः।। (ग्रा.गे.457-8)।।264।।
अभि बो वीरमन्धसः (3)इत्यृचः वैश ऋषिः। साम्नः कार्तयशसस्य कृतयशा ऋषिः।।(ग्रा.गे.459)।।265।।
इन्द्र त्रिधातु शरणम्(4)इत्यृचः भरद्वाजः ऋषिः। इन्द्रस्य शरणस्य इन्द्रः ऋषिः।। (ग्रा.गे.460)।।266।।
श्रायन्त इव सूर्यम्(5)इत्यृचः नृमेधः ऋषिः। साम्नः श्रायन्तीयस्य प्रजापतिः ऋषिः।।(ग्रा.गे.461)।।267।।
न सीमदेव आप तत्(6)इत्यृचः पुरुहन्मा ऋषिः। साम्नो वाम्रस्य वाम्र ऋषिः।। (ग्रा.गे.462)।।268।।
आ नो विश्वासु हव्यम्(7)इत्यृचः नृमेधपुरुमेधावृषी । साम्नां वैय्याश्वानां त्रयाणां व्यश्व आङ्गिरस ऋषिः।।(ग्रा.गे.463-5)।।269।।
तवेदिन्द्रावमं वसु(8)इत्यृचः वसिष्ठः ऋषिः। साम्नो निधनकामस्य प्रजापतिः ऋषिः।।(ग्रा.गे.466)।।270।।
क्वेयथ क्व(9)इत्यृचो मेधातिथिमेध्यातिथी ऋषी। साम्नां त्रयाणामिन्द्रस्य प्रियाणामिन्द्रः ऋषिः।। (ग्रा.गे.467-9)।।271।।
वयमेनमिदा ह्यः (10)इत्यृचः कलिः ऋषिः।साम्नामिन्द्रस्य वैरुपाणां त्रयाणामिन्द्रः ऋषिः। वसिष्ठो वा ।। (ग्रा.गे.470-2)।।272।।
।। इत्यैन्द्रे तृतीयेऽध्याये चतुर्थः खण्डः।।4।।
यो राजा चर्षणीनाम्(1)इत्यृचः पुरुहन्मा ऋषिः। साम्नोराद्यस्य पौरुहन्मनस्य पुरुहन्मा वैखानसः ऋषिः। द्वितीयस्य प्राकर्षस्य प्रकर्ष ऋषिः।।(ग्रा.गे.473-4)।।273।।
यत इन्द्र भयामहे(2)इत्यृचः भर्गः ऋषिः। साम्नः अभयंकरस्य इन्द्रः ऋषिः।। (ग्रा.गे.275)।।274।।
वास्तोष्पते (3)इत्यृचः इरिमीढः ऋषिः। साम्नोः कावषयोः कवषः ऋषिः।। (ग्रा.गे.476-7)।।275।।
बण्महाँ असि(4)इत्यृचः जमदग्निः ऋषिः। सूर्यो देवता। साम्नः सूर्यस्य साम्नः सूर्यः ऋषिः।। (ग्रा.गे.478)।।276।।
अश्वी रथी सुरुपः(5)इत्यृचः देवातिथिः ऋषिः। साम्नोरानूपयोः वध्द्रीयश्व आनूपः ऋषिः।।(ग्रा.गे.479-480)।।277।।
यद्द्याव इन्द्र ते शतम्(6)इत्यृचः (पुरुहन्मा ऋषिः)साम्नो वैरुपस्य विरुपः ऋषिः।।(ग्रा.गे.481)।।278।।
यदिन्द्र प्रागपागुदक्(7)इत्यृचो देवातिथिः ऋषिः। साम्नोर्नैपतिथयोः निपातिथिः ऋषिः।।(ग्रा.गे.482-3)।।279।।
कस्तमिद्र त्वा(8)इत्यृचः वसिष्ठः ऋषिः। साम्नोः बृहतः कौमुदस्य साम्नोः बृहत्कुमुदः ऋषिः।। (ग्रा.गे.484-5)।।280।।
इन्द्राग्नी अपात् (9)इत्यृचः भरद्वाजः ऋषिः। साम्नो वाचः साम्नः वागृषिः। इन्द्राग्नी देवते ।।(ग्रा.गे.486)।।281।।
इन्द्र नेदीय एदिहि (10)इत्यृचः बालखिल्याः ऋषयः। साम्नोर्वाम्रयोः वाम्रः ऋषिः।। (ग्रा.गे.487-8)।।282।।
।। इत्यैन्द्रे तृतीयऽध्याये पञ्चमः खण्डः।।
षष्ठः खण्डः
इत ऊती वो अजरम्(1)इत्यृचः नृमेधः ऋषिः। साम्नोः बार्हतयोः (गौरीवितयोः?)गौरीवितिः ऋषिः।। (ग्रा.गे.489-490)।।283।।
मो षु त्वा वाघतश्च न (2)इत्यृचः वसिष्ठः ऋषिः।साम्नो रात्रेययोः अत्रिः ऋषिः ।। (ग्रा.गे.491-2)।।284।।
सुनोत सोम(3)इत्यृचः वसिष्ठः ऋषिः।साम्नोर्गौरीवितयोः गौरीवितिः ऋषिः।।(ग्रा.गे.493-4)।।285।।
यः सत्राहा विचर्षणिः(4)इत्यृचः परुच्छेपः ऋषिः। अश्विनौ देवते । साम्नः अश्विनोः साम्नः अश्विनावृषी।। (ग्रा.गे.496)।।287।।
यदा कदा च मीढुषे(6)इत्यृचः वामदेवः ऋषिः। वरुणो देवता। साम्नां वसिष्ठस्य पज्राणां त्रयाणां वसिष्ठः ऋषिः।।(ग्रा.गे.497-99)।।288।।
पाहि गा अन्धसः (7)इत्यृचः मेध्यातिथिः ऋषिः। साम्नोः सौभरयोः सौभरिः ऋषिः।। (ग्रा.गे.500-1)।।289।।
उभयं शृणवच्च नः (8)इत्यृचः भर्गः ऋषिः। साम्नो वैयश्वस्य व्यश्वः ऋषिः।।(ग्रा.गे.502)।।290।।
महे च न त्वाद्रिवः (9)इत्यृचः मेधातिथि-मेध्यातिथी ऋषी। साम्नोः इन्द्रस्य सहस्रायुतीययोः इन्द्रः प्रजापतिर्वा ऋषिः।। (ग्रा.गे.503-4)।।291।।
वस्याँ इन्द्रासि मे पितुः (10)इत्यृचः मेधातिथिमेध्यातिथी ऋषी। साम्नः इन्द्राण्याः साम्नः इन्द्राणी ऋषिका।। (ग्रा.गे.505)।।292।।
।। इत्यैन्द्रे तृतीयेऽध्याये षष्ठः खण्डः।।
सप्तमः खण्डः
इम इन्द्राय सुन्विरे (1)इत्यृचः वसिष्ठः ऋषिः। साम्नः सौभरस्य सुभरिः ऋषिः।। (ग्रा.गे.506)।।293।।
इम इन्द्र मदाय ते(2)इत्यृचः वामदेवः (ऋषिः)विश्वामित्र इत्येके साम्नो गार्त्समदस्य गृत्समदः (ऋषिः)।।(ग्रा.गे.507)।।294।।
आ त्वाद्य सबर्दुघाम्(3)इत्यृचः मेधातिथि-मेध्यातिथी ऋषी । साम्नो वाचः साम्नः वागृषिः।। (ग्रा.गे.508)।।295।।
न त्वा बृहन्तः (4)इत्यृचः नोधा ऋषिः। साम्नो बाहर्दुक्थस्य बृहदुक्थो वाम्नेयः ऋषिः।।(ग्रा.गे.509)।।296।।
क ईं वेद सुते सचा(5)इत्यृचः मेधातिथिः ऋषिः। साम्नो वार्शस्य वार्शः ऋषिः।।(ग्रा.गे.510)।।297।।
यदिन्द्र शासो अव्रतम्(6)इत्यृचः वामदेवः ऋषिः। साम्नस्तौरश्रवस्य तुरश्रवाः ऋषिः।।(ग्रा.गे.511)।।298।।
त्वष्टा नो दैव्यम्(7)इत्यृचः वामदेवः ऋषिः। बहुर्देवते(त्येके)।साम्नस्त्वाष्ट्रीयसाम्नः त्वाष्ट्री ऋषिः।। (ग्रा.गे.512)।।299।।
कदा चन स्तरीरसि(8)इत्यृचः बालखिल्याः ऋषयः । साम्नः अदितेः साम्नः अदितिः ऋषिः।। (ग्रा.गे.513)।।300।।
युङ्क्ष्वा हि वृत्रहन्तम्(9)इत्यृचो नृमेधः ऋषिः। साम्नो माधुच्छन्दसस्य मधुच्छन्दा ऋषिः।।(ग्रा.गे.514)।।301।।
त्वामिदा ह्यो नरः (10)इत्यृचो नृमेधः ऋषिः। साम्नो माधुच्छन्दसस्य मधुच्छन्दा ऋषिः।। (ग्रा.गे.515)।।302।।
।। इत्यैन्द्रे तृतीयेऽध्याये सप्तमः खण्डः।।
अष्टमः खण्डः
प्रत्यु अदर्श्यायति(1)इत्यृचः वसिष्ठः ऋषिः। उषा देवता। साम्नः उषः साम्नश्च उषा ऋषिः।।(ग्रा.गे.516)।।303।।
इमा उ वाम्(2)इत्यृचो वसिष्ठ ऋषिः । अश्विनौ देवता। अश्विनो साम्नश्च अश्विनावेव ऋषी ।। (ग्रा.गे.517)।।304।।
(कुष्ठः को वाम्(3)इत्यृचः अश्विनावृषी । अश्विनौ देवता। साम्नः अश्विनोः संयोजनस्य साम्नश्च अश्विनौ ऋषी।। (ग्रा.गे.518)।।305।।
अयं वां मधुमत्तमः (4)इत्यृचः प्रस्कण्वः काण्वः ऋषिः। अश्विनोः साम्नश्च अश्विनावेव ऋषी।।(ग्रा.गे.519)।।306।।
आ त्वा सोमस्य गल्दया (5)इत्यृचः देवातिथिः ऋषिः। साम्नः आजमायवस्य अजमायुः ऋषिः।। (ग्रा.गे.520?))।।307।।
अध्वर्यो द्रावया त्वम्(6)इत्यृचः देवातिथिः ऋषिः। साम्नः आजमायवस्य अजमायुः ऋषिः।। (ग्रा.गे.521)।।308।।
अभीषतस्तद् (7)इत्यृचः वसिष्ठः ऋषिः।साम्नः प्रैयमेधस्य प्रियमेधा ऋषिः।।(ग्रा.गे.522)।।309।।
यदिन्द्र यावतस्त्वम्(8)इत्यृचः वसिष्ठः ऋषिः। साम्नोरिन्द्रस्य वैरुपयोः विरुपः ऋषिः।। (ग्रा.गे.523-4)।।310।।
त्वमिन्द्र प्रतूर्तिषु (9)इत्यृचः नृमेधा ऋषिः।साम्नो वैश्वदेवस्य विश्वेदेवा ऋषयः।।(ग्रा.गे.525)।।311।।
प्र यो रिरिक्ष ओजसा (10)इत्यृचः नोधा ऋषिः। साम्नः आथर्वणस्य अथर्वा ऋषिः।। (ग्रा.गे.526)।।312।।
।।इत्यैन्द्रे तृतीयेऽध्याये अष्टमः खण्डः ।।
।।(इति)बृहत्योऽशीतयः(!)।।
।।नवमः खण्डः ।।
।।अथ त्रैष्टुभः।।
असावि देवम्(1)इत्यृचः वसिष्ठः ऋषिः। साम्नोराद्यस्य प्राकर्षस्य पृक्षः (प्रकर्षः ?)ऋषिः। (द्वितीयस्य निहवस्य वसिष्ठः ऋषिः।।(ग्रा.गे.528)।।313।।
योनिष्ट इन्द्र सदने(2)इत्यृचः वसिष्ठः ऋषिः। साम्नोर्योनिनोः गृत्समदः ऋषिः।।(ग्रा.गे.529-30)।।314।।
अदर्दरुत्समसृजः(3)इत्यृचः गातुरात्रेयः ऋषिः। औरुक्षययोः साम्नोः उरुक्षयः ऋषिः।।(ग्रा.गे.531-2)।।315।।
सुष्बाणासः (4)इत्यृचः पृथुर्वैन्यः ऋषिः। साम्नोः पाक्ष(र्थ?)योः पृथुर्वैन्यः ऋषिः।। (ग्रा.गे.533-4)।।316।।
जगृह्या ते दक्षिणम्(5)इत्यृचः सप्तगुः (ऋषिः)साम्नां पञ्चानामाद्ये सौपर्णे । तयोः सुपर्णः ऋषिः । त्रीणि वात्सप्राणि।(तयोः)वत्सप्रः ऋषिः।)क्षुल्लुकवात्सप्रं तृतीयम्। महावात्सप्रं पञ्चमम्।। (ग्रा.गे.535-)।।317।।
इन्द्रं नरो ने (मधिता)(6)इत्यृचः वसिष्ठः ऋषिः। साम्नो गौरीवितस्य गौरीवितिः ऋषिः।। (ग्रा.गे.540)।।318।।
वयः सुपर्णा(7)इत्यृचः गौरीवितिः ऋषिः । साम्नो वैदन्वतस्य विदन्वान् भार्गवः ऋषिः।।(ग्रा.गे.541)।।319।।
नाके सुपर्णम्(8)इत्यृचः वेनो भार्गवः ऋषिः। साम्नो महायामस्य यमः ऋषिः।। (ग्रा.गे.542)।।320।।
ब्रह्म जज्ञानम्(9)इत्यृचः वामदेवः (ऋषिः)साम्नो(म्नी?)ऋतोः सामनी द्वे । (तयोः)ऋतुः ऋषिः।। (ग्रा.गे.543-4)।।321।।
अपूर्व्या पुरुतमानि।। (10)इत्यृचः सुहोत्रो भरद्वाजः ऋषिः। साम्नः इन्द्रस्य वारवन्तीयस्य इन्द्रः ऋषिः।। (ग्रा.गे.545)।।322।।
।।इत्यैन्द्रे तृतीयेऽध्याये नवमः खण्डः।।
------------
दशमः खण्डः
अव द्रप्सः (1)इत्यृचः द्युतानः ऋषिः। साम्नां चतुर्णाम् आद्ययोः इन्द्रस्य क्षुरपविणी । तयोरिन्द्रः ऋषिः। सौमरश्मे द्वे। तयोरिन्द्रः ऋषिः।। (ग्रा.गे.546-9)।।323।।वृत्रस्य त्वा श्वसथ (2)इत्यृचः द्युतानः ऋषिः। साम्नोः द्युतानस्य मारुतस्य साम्नोर्द्युतानः ऋषिः।।(ग्रा.गे.550-1)।।324।।
विधुं दद्राणम्(3)इत्यृचः बृहदुक्थः ऋषिः। साम्नोः सोमसाम्नोः सोमः ऋषिः।। (ग्रा.गे.552-3)।।325।।
त्वं ह त्यत्(4)इत्यृचः द्युतानः ऋषिः। साम्नोरिन्द्रवज्रयोः इन्द्रः ऋषिः।। (ग्रा.गे.554-5)।।326।।
मोडिं न त्वा (5)इत्यृचः वामदेवः ऋषिः। साम्नोर्भृष्टिमतोः सूर्यवर्चसोर्भृष्टिमान्सूर्यवर्चाः ऋषिः।। (ग्रा.गे.556-7)।।327।।
प्र वो महे (6)इत्यृचः वसिष्ठः ऋषिः। साम्नोर्वसिष्ठस्याङ्कुशयोर्वसिष्ठः ऋषिः।। (ग्.गे.558-9)।।328।।
शुनं हुवेम् (7)इत्यृचः विश्वामित्रः ऋषिः। साम्नो भारद्वाजस्य भरद्वाजः ऋषिः।।(ग्रा.गे.560)।।329।।
उदु ब्रह्माणि(8)विश्वामित्रः ऋषिः। साम्नो वैश्वदेवस्य विश्वेदेवा ऋषयः ।। (ग्रा.गे.561)।।330।।
चक्रं यदस्य (9)इत्यृचः गौरीवितिः ऋषिः। साम्नः आथर्वणस्य अथर्वा ऋषिः।। (ग्रा.गे.562)।।331।।
।।इत्यै तृतीयेऽध्याये दशमः खण्डः।।
-------------
।।एकादशः खण्डः।।
त्यमूषु वाजिनम्(1)इत्यृचः तार्क्ष्यपुत्रो अरिष्टनेमिः ऋषिः।साम्नोः तार्क्ष्यसाम्नोः तार्क्ष्यः ऋषिः।।(ग्रा.गे.563-4)।।332।।
त्रातारमिन्द्रम्(2)इत्यृचः भरद्वाजः ऋषिः। साम्नः इन्द्रस्य त्रादस्य इन्द्रः ऋषिः।। (ग्रा.गे.565)।।333।।
यजामहे(3)इत्यृचः वसुकृद्दृषिः। विमदो वा ऋषिः। साम्नो वार्त्रतुरस्य वृर्त्रतुरो ऋषिः।यज्ञतुरो वा ।।(ग्रा.गे.566)।।334।।
सत्राहणम्(4)इत्यृचः वामदेवः ऋषिः। साम्नोर्धृषतो मारुतस्य साम्नोः धृषन्मारुतः ऋषिः।। (ग्रा.गे.567-8)।।335।।
यो नो वनुष्यन्(5)इत्यृचः वामदेवः ऋषिः। साम्न आत्रस्य अत्रिः ऋषिः।।(ग्रा.गे.569)।।336।।
यं वृत्रेषु(6)इत्यृचः वामदेवः ऋषिः। साम्नोर्गात्समदयोः गृत्समदः ऋषिः।। (ग्रा.गे.570-1)।।337।।
इन्द्रापर्वता(7)इत्यृचः विश्वामित्रः (ऋषिः)साम्नो वैश्वामित्रस्य विश्वामित्रः ऋषिः।। (ग्रा.गे.572)।।338।।
इन्द्राय गिरः(8)इत्यृचः रेणुर्वैश्वामित्रः ऋषिः। साम्नां सावित्राणां षण्णां सविता ऋषिः।हा हा(इ)इत्यादिपञ्चभिस्तोभैः प्रतिस्तोभमार्चिकचतुष्टयोपेतैः पञ्च सावित्राणि।।(ग्रा.गे.573)।।339।।
आ त्वा सखायः (9)इत्यृचः वामदेवः ऋषिः। साम्नः कुतीपादस्य वैरुपस्य विरुपः ऋषिः।।(ग्रा.गे.574)।।340।।
को अद्य युङ्क्ते (10)इत्यृचः गौतमः ऋषिः। साम्नः आमहीयवस्य आमहीयुः ऋषिः।।(ग्रा.गे.575)।।341।।
।।इत्यैन्द्रे तृतीयेऽध्याये एकादशः खण्डः।।
(इति त्रिष्टुभः)
।।द्वादशः खण्डः।।
गायन्ति त्वा इति दश (नुष्टु)भ्यो ऋचः । इन्द्रो देवता।।
गायन्ति त्वा गायत्रिणः (1)इत्यृचः (मधुच्छन्दा ऋषिः।)साम्नामाद्ये शौखण्डिने । तयोः शिखण्डी ऋषिः। तृतीयमुद्वंशीयम्। विश्वेदेवा ऋषयः ।।(ग्रा.गे.578)।।342।।
इन्द्रं विश्वा अवीवृधन्(2)इत्यृचः जेता मधुच्छन्दा ऋषिः। साम्नां सप्तानामाद्यानि त्रीणि शैखण्डिनानि । तेषां शिखण्डी ऋषिः। द्वे आष्टादंष्ट्रो वैरुपः ऋषिः। महावैश्वामित्रे द्वे । तयोर्विश्वामित्रः ऋषिः।।(ग्रा.गे.579-585)।।343।।
इममिन्द्र सुतं पिब(3)इत्यृचः गौतमः ऋषिः। साम्नां चतुर्णां वसिष्ठस्य प्रियाणां वसिष्ठः ऋषिः। द्वितीयं गौतमं वा । तस्य गौतमः ऋषिः।।(ग्रा.गे.586-8)।।344।।
यदिन्द्र चित्र म इह न(4)इत्यृचः अत्रिः ऋषिः। सामानि चत्वारि वीङ्कानि । द्वयोर्गृत्समदः ऋषिः। तृतीयम् आकूपारं वा । तस्य आकूपाराङ्गिराः ऋषिः।।(ग्रा.गे.590-3)।।345।।
श्रुधी हवं तिरश्च्या(5)इत्यृचः गौतमः ऋषिः। साम्नो काण्वयोश्च स एव ।।(ग्रा.गे.597-8)।।346।।
असावि सोम इन्द ते (6)इत्यृचः गौतमः ऋषिः। साम्नो वैश्वामित्रस्य विश्वामित्रः ऋषि-।।(ग्रा.गे.596)।।347।।
एन्द्र याहि (7)इत्यृचः कण्वो नीपातिथिः ऋषिः । साम्नोः काण्वयोश्च स एव ।।(ग्रा.गे.597-8)।।348।।
आ त्वा गिरो रथी (8)इत्यृचः तिरश्वीः ऋषिः। साम्नो वैश्वामित्रस्य विश्वामित्र ऋषि-।।(ग्रा.गे.599)।।349।।
एतो न्विन्द्रं स्तवाम्(9)इत्यृचः तिरश्वीः ऋषिः । साम्नोः शुद्धाशुद्धीययोः इन्द्रः ऋषिः। वसिष्ठो (वा)ऋषिः।।(ग्रा.गे.600-1)।।350।।
यो रयिं वो रयिम्(10)इत्यृचः शंयुर्बार्हस्पत्यः ऋषिः। साम्नो रैषयोर्गौतमः ऋषिः।।(ग्रा.गे.602-3)।।351।।
।।इत्यैन्द्रे तृतीयेऽध्याये द्वादशः खण्डः।।
।।इति तृतीयोऽध्यायः।।
।।चतुर्थोऽध्यायः ।।
।।प्रथमः खण्डः।।
अथैन्द्रे द्वयोरनुवाकयोरानुष्टुभ्यो ऋचः।।
प्रत्यस्मै पिपीषते(1)इत्यृचः भरद्वाजः ऋषिः। साम्नां त्रयाणाम् आद्ये कौल्मलबर्हिषसामनी । तयोः कुल्मलबर्हिः ऋषिः। तृतीयं नानदम्। तस्य नदन्नाङ्गिरसः ऋषिः।।(ग्रा.गे.604-6)।।352।।
आ नो वयो वयः शयम्(2)इत्यृचः वामदवेः ऋषिः। साम्नः शाक(पूतस्य)श(।)क(पूतिः)ऋषिः।।(ग्रा.गे.607)।।353।।
आ त्वा रथं यथोतये(3)इत्यृचः वामदेवः ऋषिः।साम्नोः कौल्मल(बर्हिषयोः)कुल्मलबर्हिः ऋषिः।।(ग्रा.गे.608-9)।।354।।
स पूर्व्यो महोनाम् (4)इत्यृचः प्रगाथः ऋषिः। साम्नो मधुश्च्युन्निधनस्य प्रजापतिः ऋषिः।। (ग्रा.गे.610)।।355।।
यदी वहन्त्याश(वः)(5)इत्यृचः श्यावाश्च आत्रेयः ऋषिः। मरुतो देवता। साम उषसः साम। तस्य उषा ऋषिः।। (ग्रा.गे.611)।।356।।
(त्यमु वो अप्रहणम्(6)इत्यृचः शंयुर्वार्हस्पत्यः ऋषिः। साम्नः भारद्वाजस् भरद्वाजः ऋषिः।। (ग्रा.गे.612)।।357।।
दधिक्राव्णो अकारिषम्(7)इत्यृचः वामदेवः ऋषिः। साम्नः दधिक्राव्णस्य दधिक्रा ऋषिः।।(ग्रा.गे.613)।।358।।
पुरां भिन्दुः (8)इत्यृचः जेता(माधुच्छन्दसः)ऋषिः। साम्नो माधुच्छन्दसस्य मधुच्छन्दा ऋषिः।।(ग्रा.गे.614)।।359।।
।।इत्यैन्द्रे चतुर्थेऽध्याये प्रथमः खण्डः।।1।।
।।द्वितीयः खण्डः।।
प्रप्र वस्त्रिष्टुभमिषम्(1)इत्यृचः प्रियमेधा ऋषिः। साम्नो वामदेव्यस्य वामदेवः ऋषिः।।(ग्रा.गे.615)।।360।।
कश्यपस्य(2)इत्यृचः वामदेवः ऋषिः। इन्द्राणी देवता। साम्नश्च काश्यपस्य कश्यपः ऋषिः।।(ग्रा.गे.616)।।361।।
अर्चत प्रार्चता(3)इत्यृचः प्रियमेधा ऋषिः। मित्रावरुणौ देवता।साम्नः प्रैयमेधस्य प्यमेधा ऋषिः।।(ग्रा.गे.617)।।362।।
उक्थमिन्द्राय शंस्यम्(4)इत्यृचः मधुच्छन्दा ऋषिः। मित्रावरुणौ देवते । साम्नो बार्हदुक्थस्य बृहदुक्थः ऋषिः।।(ग्रा.गे.618)।।363।।
विश्वानरस्य वस्पतिम्(5)इत्यृचः प्रियमेधा ऋषिः। साम्नोऽग्रेर्वैश्वानरयोः अग्निर्वैश्वानरः ऋषिः।।(ग्रा.गे.619-20)।।364।।
स घा यस्ते दिवो नरः (6)इत्यृचः भरद्वाजः ऋषिः।साम्नोः शाकपूतयोः शाकपूतिः ऋषिः।।(ग्रा.गे.621-2)।।365।।
विभोष्ट इन्द्र (7)इत्यृचः अत्रिः ऋषिः। साम्नो वरुणान्याः साम्नः वरुणानी ऋषिः।।(ग्रा.गे.623)।।366।।
वयश्चित्ते पतत्रिणः (8)इत्यृचः प्रस्कण्वः ऋषिः। उषा देवता। साम्नः औषसस्य उषा ऋषिः।।(ग्रा.गे.624)।।367।।
अमी ये देवा स्थन(9)इत्यृचः आर्ध्य(प्त्य?)स्त्रितः ऋषिः। (विश्वे)देवा देवताः। साम्नो रोचनस्य रुचिः ऋषिः।। (ग्रा.गे.625)।।368।।
ऋचं साम(10)इत्यृचः वामदेवः ऋषिः। साम्नो(!)पूर्वमृचः साम। तस्य ऋगेव ऋषिः। उत्तरं साम्नः साम। तस्य सामैव ऋषिः।उत्तरं साम्नः साम। तस्य सामैव ऋषिः। ऋक्सामनी देवते।।(ग्रा.गे.626-7)।।369।।
।।इत्याष्टदशानुष्टुभ्यः ऋचः।।
।।इत्यैन्द्रे चतुर्थेऽध्याये द्वितीयः खण्डः।।2।।
।। तृतीयः खण्डः।।
अथ जगत्यः एकादशर्चः । आद्या अतिजगतीति केचित्।।
विश्वाः पृतना(1)इत्यृचः रेभः काश्यपः ऋषिः। साम्नस्रैशोकस्य त्रिशोकः ऋषिः।।(ग्रा.गे.628)।।370।।
श्रत्ते दधामि(2)इत्यृचः सुवेदाः शैलूषी ऋषिः। साम्नामष्टानामाद्ये द्वे शैखण्डिने । तयोः शिखण्डी ऋषिः। तृतीयचतुर्थौ अत्रेर्विवर्तौ तयोरत्रिः ऋषिः।पञ्चमषष्ठे महासावेतसे । तयोश्चात्रिः ऋषिः। सप्तमाष्टमे महाशैरीषे। तयोर्महान् शिरीषः ऋषिः।।(ग्रा.गे.629-36)।।371।।
समेत विश्व ओजसा (3)इत्यृचः वामदेवो गौतमः ऋषिः।साम्नामिन्द्रस्य प्रियाणां त्रयाणाम् इन्द्रः ऋषिः। वसिष्ठो वा।।(ग्रा.गे.639)।।372।।
इमे त इन्द्र ते (4)इत्यृचः सव्य आङ्गिरसः ऋषिः। साम्नामिन्द्रस्य वसिष्ठस्य वा वैरुपाणा त्रयाणाम् इन्द्रः वसिष्ठो वा ऋषिः।।(ग्रा.गे.640-2)।।373।।
चर्षुणीधृतं मघवानम्(5)इत्यृचः विश्वामित्रः (ऋषिः)साम्नो बार्हदुक्थस्य बृहदतुक्थःऋषिः।।(ग्रा.गे.643)।।374।।
अच्छा व इन्द्रं मतयः (6)इत्यृचः कृष्णः ऋषिः। साम्नोश्च त्रासदस्यवयोः त्रसदस्युः ऋषिः।।(ग्रा.गे.644-5)।।375।।
अभि त्यं मेषम्(7)इत्यृचः सव्यः ऋषिः। साम्नः जागंतसोमसाम्नः सोमः ऋषिः।।(ग्रा.गे.646)।।376।।
त्यं सु मेषं महया स्वर्विदम्(8)इत्यृचः भरद्वाजः ऋषिः। साम्नः सौभरस्य सुभरिः ऋषिः।।(ग्रा.गे.647)।।377।।
घृतवती भुवनानाम्(9)इत्यृचः भरद्वाजः ऋषिः। द्यावापृथिव्यौ देवते। साम्नोर्वरुणस्य साम्नोर्वरुणः ऋषि-।।(ग्रा.गे.348-9)।।378।।
उभे यदिन्द्र रोदसी(10)इत्यृचः मरुतो यौवनाश्वः ऋषिः। इयमष्टाक्षरपदा महापङ्क्तिछन्दस्का। साम्नः श्येनस्य इन्द्रः ऋषिः।।(ग्रा.गे.650)।।379।।
प्र मन्दिने पितुमदर्चता वचः(11)इत्यृचः कृत्स ऋषिः। एषा गर्भस्राविणी उपनिषत्। साम्नः च्यावनस्य च्यवनः ऋषिः।।(ग्रा.गे.651)।।380।।
।।इति जगत्यः ।।
।।इत्यैन्द्रे तृतीयेऽध्याये तृतीयः खण्डः।।
।।चतुर्थः खण्डः।।
अथ इन्द्रपुच्छम्
अष्टाविंशतिरिन्द्रेति मुख्याः सप्तदशोष्णिहः।
दशान्याः ककुभो मध्ये पिबेति त्रिपदां विराट्।।1।।
तुचे तुनायापामीवामादित्यानां तु संस्तवः।
आ गन्ता (गा)वो मारुत्यो वैन्द्रया एवापरा ऋचः।।2।।
इन्द्र सुतेषु (1)इत्यृचः नारदः ऋषिः। साम्नां त्रयाणाम् आद्यं क्रोशम्। द्वितीयमनुक्रोशम्। तृतीयं कौत्सम्। संक्रोशानुक्रोशयोः इन्द्रः ऋषिः ।कौत्सस्य कुत्स ऋषिः।।(ग्रा.गे.652-4)।।381।।
तमु अभि प्र गायत (2)इत्यृचः तं ते मदम्(3)इत्यृचश्च गौषूक्ति-अश्वसूक्तिनावृषी । तमु आभीति साम्नां चतुर्णाम् आद्ये दैवोदासे।तयोर्दिवोदासः ऋषिः। प्रहितोः संयोजने द्वे। ओकोनिधनं पूर्वम्। प्रहितिः ऋषिः। तं ते मदमिति साम्नां चतुर्णां हारिवर्णानां हरिवर्णः आङ्गिरसः ऋषिः।।(ग्रा.गे.655-62)।।381-3।।
यत् सोममिन्द्र (4)इत्यृचः पर्वतः ऋषिः । साम्नां चतुर्णां त्रैतानां त्रित ऋषिः।।(ग्रा.गे.663-6)।।384।।
(एदुम)धोर्मदिन्तरम्(5)इत्यृचः विश्वमनाः वैयश्वः ऋषिः। साम्नोः (:सुराधसप्राधसयोः)सुराध(स)वाङ्गिरसावृषी ।।(ग्रा.गे.667-8)।।385।।
एन्दुमिन्द्राय सिञ्चत् (6)इत्यृचः विश्वमनाः वैयश्वः ऋषिः। साम्नो मारुतस्य मरुतः ऋषिः।। (ग्रा.गे.669)।।386।।
एतो न्विन्द्रं स्तवाम(7)इत्यृचः विश्वमनाः वैयश्वः ऋषिः। साम्नो वैश्वमनसस्य विश्वमनः ऋषिः।।(ग्रा.गे.670)।।387।।
इन्द्राय साम गायत(8)इत्यृचः नृमेधः ऋषिः । साम्नां सौमित्राणां त्रयाणां सुमित्रः ऋषिः।(ग्रा.गे.672-3)।।388।।
य एक इद्विदयते(9)इत्यृचः गौतमः ऋषिः। साम्नां त्रयाणां त्रैककुभानां त्रिककुभः ऋषिः।।(ग्रा.गे.674-6)।।389।।
सखाय आ शिषा(महे)(10)इत्यृचः विश्वमनः ऋषिः। साम्नामौक्ष्णोरन्ध्राणाम् उक्ष्णोरन्ध्रः ऋषिः।।(ग्रा.गे.677-9)।।390।।
।।इत्यैन्द्रे चतुर्थेऽध्याये औष्णिहश्चतुर्थः खण्डः।।
।। पञ्चमः खण्डः।।
गृणे तदिन्द्र ते शवः (1)इत्यृचः प्रगाथः ऋषिः। साम्नां त्रयाणाम् आद्यं प्रयस्वत् प्राजापत्यम्। द्वितीयम् आक्षारम्। तृतीयं (प्रयस्वत्)तेषां प्रजापतिः ऋषिः।।(ग्रा.गे.680-2)।।391।।
यस्य त्यच्छम्(बरम)इत्यृचः (2)भरद्वाजः ऋषिः।साम्नां चतुर्णां तैवोदासानां दिवोदासः ऋषिः।।(ग्रा.गे.683-6)।।392।।
एन्द्र नो गधि(3)इत्यृचः नृमेधः ऋषिः। साम्नोः सांवर्तयोः इन्द्रः ऋषिः।।(ग्रा.गे.687-8)।।393।।
य इन्द्र सोम (4)इत्यृचः पर्वतः ऋषिः। साम्नः साम्न आक्षारस्य अक्षारः ऋषिः।।(ग्रा.गे.689)।।394।।
तुचे तुनाय तत्सु नः (5)इत्यृचः इरिमीढः ऋषिः। आदित्यो देवता। साम्नः दीर्घायुष्यस्य प्रजापतिः ऋषिः।।(ग्रा.गे.690)।।394।।
वेत्था हि निर्ऋतीनाम्(6)इत्यृचः विश्वमनः ऋषिः। साम भरद्वाजस्य शुन्ध्युः (साम)तस्य भरद्वाजः ऋषिः।।(ग्रा.गे. 691)।।396।।
अपामीवाम्(7)इत्यृचः इरिमीढः ऋषिः। साम्नः अपामीवस्य आदित्य एव ऋषिः देवता च ।।(ग्रा.गे.692)।।397।।
पिबा सोमम् इन्द्र(8)इत्यृचः वसिष्ठः ऋषिः।त्रिपदा विराट् छन्दः । साम्नोः सहोदीर्घतमसयोः दीर्घतमा ऋषिः।। (ग्रा.गे.693-4)।।398।।
।।इत्यौष्णिहः अष्टादश्यः।।
।।इत्यैन्द्रे चतुर्थेऽध्याये पञ्चमः खण्डः।।
-----------
।।षष्ठः खण्तडः।।
अथ ककुभ्यः।।
अभ्रातृव्यो अना त्वम्(1)इत्यृचः सौभरिः ऋषिः। साम्नो अभ्रातृव्यस्य इन्द्रः ऋषिः।।(ग्रा.गे.695)।।399।।
यो न इदम्(2)इत्यृचः सौभरिः ऋषिः। साम्नोः शार्करयोः शर्करः ऋषिः।। (ग्रा.गे.696-7)।।400।।
आ गन्ता मा रिषण्यत(3)इत्यृचः सौभरिः ऋषिः। साम्नो बृहत्कस्य बृहत्कः ऋषिः।।(ग्रा.गे.698)।।401।।
आ याह्ययम्(4)इत्यृचः सौभरिः ऋषिः।साम्नां त्रयाणां सौयवसानां सूयवासुः ऋषिः।।(ग्रा.गे.699-701)।।402।।
त्वया ह स्विद्युजा (5)इत्यृचः सौभरिः ऋषिः। साम्नो मरुतां धेनु(षाम्-)नः मरुतः ऋषिः।। (ग्रा.गे.702)।।403।।
गावश्चिद् घा समन्वयः (6)इत्यृचः सौभरिः ऋषिः। साम्नो मरुतां संवेशनीयस्य मरुतो ऋषिः।। (ग्रा.गे.703)।।404।।
त्वं न इन्द्र (7)इत्यृचः नृमेधाः ऋषिः। साम्नां वायोरैषिराणां त्रयाणां वायुः ऋषिः।।(ग्रा.गे.704-5)।।405।।
अधा हीन्द्र गिर्वणः (8)इत्यृचः नृमेधाः ऋषिः। साम्नां वायोरैषिराणां त्रयाणां वायुः ऋषिः।।(ग्रा.गे.706-8)।।406।।
सीदन्तस्ते वयः (9)इत्यृचः सौभरिः ऋषिः। साम्नोः सीदन्तीययोः प्रजापतिः ऋषिः।।(ग्रा.गे.709-10)।।407।।
वयमु त्वामपूर्व्य(10)इत्यृचः सौभरिः ऋषिः। सौभरसाम्नोः सौभरिः ऋषिः।।(ग्रा.गे.711-2)।।408।।
।।इति ककुभ्यो दशर्चः।।
।।इत्यैन्द्रे चतुर्थेऽध्याये षष्ठः खण्डः।।
सप्तमः खण्डः
पड्क्तयः सप्तदशर्चः।।
स्वादोरित्था विषूवतः (1)इत्यृचः गौतमः ऋषिः। साम्नो यामस्य यमः ऋषिः।।(ग्रा.गे.713)।।409।।
इत्था हि सोम इन्मदः(2)इत्यृचः गौतमः ऋषिः। साम्नोर्गृत्स(गदस्य)मदयोः गृत्समदः ऋषिः।।(ग्रा.गे.714-5)।।410।।
इन्द्रो मदाय(3)इत्यृचः गौतमः ऋषिः। साम्नां सप्तानामाद्ययोराभीकयोः अभीकः ऋषिः। तृतीयचतुर्थयोराभीशवयोरभीशुः ऋषिः। परेषां त्रयाणां बार्हद्गिराणां बृहद्गिरिः ऋषिः।।(ग्रा.गे.716-722)।।411।।
इन्द्र तुभ्यम्(4)इत्यृचः गौतमः ऋषिः। साम्नः इन्द्रस्वाराज्यस्य इन्द्रः ऋषिः।।(ग्रा.गे.723)।।412।।
प्रेह्यभीहि (5)इत्यृचः गौतमः ऋषिः। साम्नः कश्यपस्य धृष्णुनः कश्यपः ऋषिः।।(ग्रा.गे.724)।।413।।
यदुदीरित आजयः (6)इत्यृचः गौतमः ऋषिः। साम्नो मरुतां संवेशीयस्य मरुतः ऋषिः।।(ग्रा.गे.725)।।414।।
अक्षन्नमीमदन्त (7)इत्यृचः गौतमः ऋषिः। साम्नो यमस्य यमः ऋषिः।।(ग्रा.गे.726)।।415।उपो षु श्रृणुही गिरः (8)इत्यृचः गौतमः ऋषिः। साम्नो यामस्य यमः ऋषिः।।(ग्रा.गे.727)।।416।।
चन्द्रमा अप्स्वन्तरा(9)इत्यृचः त्रितः ऋषिः। साम्नां पञ्चानामादितस्रयाणां त्रैतानां त्रितः ऋषिः।परयोः सौपर्णयोः सुपर्णः ऋषिः।।(ग्रा.गे.728-32)।।417।।
प्रति प्रियतमं रथम्(10)इत्यृचः अवस्युः ऋषिः।साम्नोर्लौशस्य लुशः ऋषिः।।(ग्रा.गे.733)।।418।।
।।इत्यैन्द्रे चतुर्थेऽध्याये सप्तमः खण्डः।।
।।अष्टमः खण्डः।।
आ ते अग्र इधीमहि(1)इत्यृचः (वसुश्रुतः आत्रेयः ऋषिः)अग्निर्देवता । तत्साम्नोः इन्द्रस्य संजययोरिन्द्रः (ऋषिः)।।(ग्रा.गे.734-5)।।419।।
अग्निं न स्ववृक्तिभिः (2)इत्यृचः गौतमः ऋषिः। पङ्क्तिः छन्दः। अग्निर्देवता। सामनी उत्सेनिषेधौ । तयोरङ्गिरा ऋषिः।।(ग्रा.गे.736-7)।।420।।
महे नो अद्य बोधय(3)इत्यृचः गौतमः ऋषिः। पङ्क्तिः छन्दः। अग्निर्देवता । साम्नो वार्य्यस्य सत्यश्रव(स)ःवारीयः ऋषिः।।(ग्रा.गे.738)।।421।।
भद्रं नो अपि वातय(4)इत्यृचः गौतमः ऋषिः। पङ्क्तिः छन्दः । सोमो देवता। साम्नः पौषस्य पूषा ऋषिः।।(ग्रा.गे.740)।।423।।
क्रत्वा महान्(5)इत्यृचः गौतमः ऋषिः। पङ्क्तिः छन्दः इन्द्रो देवता । साम्न औषस्य उषा ऋषिः।।(ग्रा.गे.740)।।423।।
स घा तं वृषणम्(6)इत्यृचः गौतमः ऋषिः। पङ्क्तिः छन्दः । इन्द्रो देवता। (लौशस्य साम्नः लुशः ऋषिः।।(ग्रा.गे.741)।।424।।
(अग्निं तं मन्ये(7)इत्यृचः वसुश्रुतः आत्रेयः ऋषिः। पङ्क्तिः छन्दः। अग्निर्देवता। साम्नः निषेधसाम्नः अङ्गिरा ऋषिः।।(ग्रा.गे.742)।।(425।।
(न तमंहो न (8)इत्यृचः अंहोमुग् वामदेव्यः ऋषिः। विश्वेदेवा देवताः।)उपरिष्टात् बृहती छन्दः । साम्नो गौराङ्गिरसस्य गौरङ्गिराः ऋषिः।।(ग्रा.गे.673)।।426।।
।।इति पङ्क्तिच्छन्दः समाप्तम्।।
।।इत्यैन्द्रे चतुर्थेऽध्याये अष्टमः खण्डः।।
।।नवमः खण्डः।।
अथ द्विपदा ऋच- त्रिंशत्।।
परि प्र धन्व (1)इत्यृचः धिष्ण्योऽग्निः ऋषिः। अक्षरपङ्क्तिश्छन्दः । द्विपदा पङ्क्तिर्वा । सोमो देवता। साम्नां पञ्चानां सौहविषाणां सुहविराङ्गिरसः ऋषिः।।(ग्रा.गे.744-8)।।427।।
पर्यूषु प्र धन्व(2)इत्यृचः त्र्यरुणः त्रसदस्युः ऋषिः। पिपीलिकामध्या त्रिपदानुष्टटुप् छन्दः। सोमो देवाता। साम्नां वाकानां त्रयाणां वकः ऋषिः।।(ग्रा.गे.749-751)।।429।।
पवस्व सोम महे दक्षाय (4)इत्यृचः धिष्ण्योऽग्नेयः ऋषिः। सोमो देवता। अक्षरपङ्क्तिश्छन्दः। द्विपदा पङ्क्तिर्वा । साम्नोर्विधर्मिणोः प्रजापतिः ऋषिः। सोमो देवता।।(ग्रा.गे.752-3)।।430।।
इन्दुः पविष्ट चारुर्मदाय(5)उत्यृचः धिष्ण्योऽग्नेयः ऋषिः। सोमो देवता। द्विपदा पङूक्तिश्छन्दः। साम्नो भागस्य भग ऋषिः।।(ग्रा.गे.656)।।431।।
अनु हि त्वा सुतं सोम(6)इत्यृचः धिष्ण्योऽग्नेयः ऋषिः। सोमो देवता। पिपीलिकामध्याऽनुष्टुप् छन्दः।साम्नो वाजिनां साम्नः वाजिनः ऋषयः।।(ग्रा.गे.757)।।432।।
अ ई व्यक्ता नरः (7)इत्यृचः वसिष्ठः ऋषिः। मरुतो देवता। द्विपदा पङ्क्ति छन्दः। साम्नां त्रयाणां हिकनिकविकानां प्रजापतिः ऋषिः। मरुतो देवता।।(ग्रा.गे.758-760)।।434।अग्ने तमद्य(8)इत्यृचः अग्निः ऋषिः। अग्निर्देवता। पदपङ्क्तिश्छन्दः पञ्चपदा । साम्नोरश्वयोरश्वरुपः प्रजापतिः ऋषिः।।(ग्रा.गे.761-2)।।435।।
आविर्मर्या (9)इत्यृचः वाजिनः ऋषिः। वाजिनो देवताः। पुराउष्णिक् छन्दः। साम्नो वाजिनां साम्नश्च वाजिन एव ऋषयः।। (ग्रा.गे.763)।।435।।
पवस्व सोम द्युम्नी सुधारः (10)इत्यृचः वामदेवः ऋषिः। सोमो देवता। द्विपदा पङ्क्तिः छन्दः । साम्नः आदित्यानां पवित्रस्य आदित्या ऋषयः।। (ग्रा.गे.764)।।436।।
।।इत्यैन्द्रे चतुर्थेऽध्याये द्विपदासु नवमः खण्डः।।9।।
।। दशमः खण्डः।।
विश्वतो दावन्(1)इत्यृचः वामदेवः ऋषिः। इन्द्रो देवता। द्विपदा विष्टारपङ्क्तिः छन्दः। सम्मोरिन्द्रस्याभारयोरिन्द्रः ऋषिः। वसिष्ठो वा ऋषिः।।(ग्रा.गे.765-6)।।437।।
एष ब्रह्मा य ऋत्वियः (2)इत्यृचः वामदेवः ऋषिः। इन्द्रो देवता। द्विपदा गायत्री छन्दः। साम्नां पञ्चानामाद्ये द्वे वासुमन्दे । तयोर्वसुमन्दः ऋषिः। परेषां त्रयाणां कवषः ऋषिः।।(ग्रा.गे.767-771)।।438।।
ब्रह्माणमिन्द्रम् (3)इत्यृचः वामदेवः ऋषिः। इन्द्रो देवता। द्विपदा त्रिष्टुप् छन्दः।साम्नां त्रयाणां श्लोकानुश्लोकानां प्रजापतिः ऋषिः।।(ग्रा.गे.772-4)।।439।।
अनवस्ते रथम्(4)इत्यृचः वामदेवः ऋषिः। इन्द्रो देवता। द्विपदा त्रिष्टुप् छन्दः। साम्नः श्लोकस्य प्रजापतिः ऋषिः।।(ग्रा.गे.775)।।440।।
शं पदं मघम्(5)इत्यृचः वामदेवः ऋषिः । द्विपदा छन्दः । इन्द्रो देवता। साम्नो वाचः साम्नः वागृषिः।।(ग्रा.गे.776)।।441।।
सदा गावः(6)वामदेवः ऋषिः। द्विपदा विष्टारपङ्क्तिः छन्दः। इन्द्रो देवता। साम्नो वाचः साम्नः वागृषिः।।(ग्रा.गे.777)।।442।।
आ याहि वनसा(7)इत्यृचः वामदेवः ऋषिः । उषा देवता द्विपदा विष्टारपङ्क्तिः छन्दः। साम्नो मारुतस्य मरुतः ऋषिः।।(ग्रा.गे.778)।।443।।
उप प्रेक्ष मधुमति(8)इत्यृचः वामदेवः (ऋषिः)।द्विपदा त्रिष्टुप् छन्दः । इन्द्रो देवता। साम्नो माधुच्छन्दसस्य मधुच्छन्दाः ऋषिः।।(ग्रा.गे.779)।।444।।
अर्चत्यर्कं मरुतः(9)इत्यृचः वामदेवः (ऋषिः)मरुतो देवता। द्विपदा त्रिष्टुप् छन्दः। साम्नो मारुतस्य मरुतः ऋषिः।।(ग्रा.गे.780)।।445।।
प्र व इन्द्राय वृत्रहन्तमाय(10)इत्यृचः वामदेवः ऋषिः। विषमपदा द्विपदा छन्दः। इन्द्रो देवता। साम्नः उद्वंशपुत्रस्य प्रजापतिर्विश्वे देवा ऋषयः।।(ग्रा.गे.781)।।446। इत्यैन्द्रे चतुर्थेऽध्याये दशमः खण्डः।।10।।
अथ एकादशः खण्डः
अचेत्यग्निः(1)इत्यृचः वामदेवः ऋषिः। अग्निर्देवता। द्विपदा गायत्री छन्दः। साम्नोर्धुरोः शाम्ययोः धुः ऋषिः।।(ग्रा.गे.782-3)।।447।।
अग्ने त्वं नो अन्तमः (2)इत्यृचः वर्द्धुर्गौपायनः ऋषिः। अग्निर्देवता। द्विपदा विष्टारपङ्क्तिः छन्दः। साम्नां चतुर्णाम् आद्यं गूर्दः। तस्य प्रजापतिः । द्वितीयमत्यर्दः। तस्य विश्वामित्रः। तृतीयमपि गूर्दः। तस्य प्रजापतिः। चतुर्थमत्यर्दः तस्य विश्वामित्रः।।(ग्रा.गे.784-7)।।448।।
भगो न चित्रः(3)इत्यृचः वामदेवः (ऋषिः।) अग्निर्देवता। विषमपदा द्विपदा छन्दः। साम्नोः सान्तनिकयोः प्रजापतिः ऋषिः।।(ग्रा.गे.788-9)।।449।।
विश्वस्य प्र स्तोभ(4)इत्यृचः वामदेवः (ऋषिः)।इन्द्रो देवता। द्विपदा गायत्री छन्दः। साम्नोर्धनधर्मिणोः प्रजापतिः ऋषि।।(ग्रा.गे.790-1)।।450।।
उषा अप पवस्व(5)इत्यृचः संवर्तः ऋषिः।उषा देवता। द्विपदा विष्टारपङ्क्तिः छन्दः। साम्नः उषसः साम्नः उषा ऋषिः। उषा देवता।।(ग्रा.गे.792)।।451।।
इमा नु कं भुवना(6)इत्यृचः भौवनः ऋषिः। विश्वेदेवा देवता। द्विपदा विष्टारपङ्क्तिः छन्दः।साम्नः भारद्वाजस्य भरद्वाजः ऋषिः।।(ग्रा.गे.792)।।452।।
विस्तुतयो यथा(7)इत्यृचः वामदेवः (ऋषिः)इन्द्रो (विश्वेदेवाः!)देवता । द्विपदा गायत्री छन्दः । साम्नो रातेः इन्द्रः ऋषिः। विश्वेदेवा (इन्द्रो!)देवता ।।(ग्रा.गे.794)।।453।।
अया वाजम्(8)इत्यृचः भरद्वाजः ऋषिः। उषा (इन्द्रः!)देवता। साम्नो भारद्वाजस्य भरद्वाजः ऋषिः।।(ग्रा.गे.795)।।454।।
ऊर्जा मित्रः(9)इत्यृचः वामदेवः ऋषिः।विश्वेदेवा देवता। द्विपदा त्रिष्टुप् छन्दः। साम्न ऐषस्य इषः ऋषिः।।(ग्रा.गे.796)।।455।।
इन्द्रो विश्वस्य राजति(10)इत्यृचः वामदेवः ऋषिः।एकपदा गायत्री छन्दः। इन्द्रो देवता। सम्नोरिन्द्रस्य वैराजयोरिन्द्रः ऋषिः।।(ग्रा.गे.797-8)।।456।।
इति द्विपदा त्रिंशत्
।।इत्यैन्द्रे चतुर्थेऽध्याये एकादशः खण्डः।।11।।
द्वादशः खण्डः
अथातिच्छन्दांसि दशर्चः।।
त्रिकद्रुकेष महिषः(1)इत्यृचः गृत्समदः ऋषिः।अष्टिः छन्दः। इन्द्रो देवता। साम्नो वाजिजितः प्रजापतिः (ऋषिः)।।(ग्रा.गे.799)।।457।।
अयं सहस्रमानवः (2)इत्यृचः जगती छन्दः । सूर्यो देवता। साम्नोर्गोराङ्गिरसस्य साम्नोरङ्गिराः ऋषिः।।(ग्रा.गे.800-1)।।458।।
एन्द्र याहयुप नः (3)इत्यृचः परुच्छेपः ऋषिः। अत्यष्टिः छन्दः। इन्द्रो देवता। साम्नः प्रयस्वतः प्राजापत्यस्य प्रजापतिः ऋषिः।।(ग्रा.गे.802)।।459।।
तमिन्द्रं जोहवीमि(4)इत्यृचः रेभः काश्यपः ऋषिः। इन्द्रो देवता। अतिजगती छन्दः। साम्नो अक्षय्यस्य प्रजापतिः ऋषिः।।(ग्रा.गे.803)।।460।।
अस्तु श्रौषट्(5)इत्यृचः परुच्छेपः ऋषिः।अत्यष्टिः छन्दः । विश्वेदेवा देवता। साम्नो याज्ञतुरस्य यज्ञतुरः ऋषिः ।। (ग्रा.गे.804)।।461।।
प्र वो महे मतयो यन्तु विष्णवे (6)इत्यृचः एवयामरुत् ऋषिः।रुद्रो देवता। अतिजगती छन्दः ।साम्न एवयामरुतः साम्नः एवयामरुद्दृषिः।।(ग्रा.गे.805)।।462।।
अया रुचा हिरण्या (7)इत्यृचः परुच्छेपः ऋषिः। पवमानः सोमो देवता। अत्यष्टिः छन्दः। साम्नां त्रयाणां भरद्वाजस्य विषमाणां भरद्वाजः ऋषिः।।(ग्रा.गे.806-8)।।463।।
अभि त्यं देवं सवितारम्(8)इत्यृचः नकुलः ऋषिः। अतिशक्करी छन्दः। सविता देवता। साम्नः सवितुः साम्नः सविता ऋषिः।देवता च।।(ग्रा.गे.809)।।464।।
अग्निं होतारं मन्ये दास्वन्तम्(9)इत्यृचः परुच्छेपः ऋषिः। अग्निर्देवता । अत्यष्टिः छन्दः। साम्नां चतुर्णामाद्ये भारद्वाजे पारुच्छेपे। तयोर्भरद्वाजः परुच्छेपो वा ऋषिः।उत्तरे अवभृथसामप्रवर्ग्यसामनी । तयोर्बृहस्पतिः ऋषिः।।(ग्रा.गे.810-13)।।465।।
(तुव त्यन्नर्यम्(10)इत्यृचः गृत्समदः ऋषिः। इन्द्रः देवता। अष्टिः छन्दः। साम्न ऐषस्य इषः ऋषिः।।(ग्रा.गे.814)।।466।।
इत्यैन्द्रे चतुर्थेऽध्याये द्वादशः खण्डः।।12।।
शतानि त्रीण्यृचामैन्द्रे द्विपञ्चाशद्दृशोऽधिका।।
इत्यैन्द्रमध्यायत्रयं समाप्तम्।।
पञ्चमोऽध्यायः
पावमानं खण्डम्
प्रथमः खण्डः
उच्चा त इति गायत्र्यः चत्वारिंशच्चतुर्युताः।
सर्वासां पावमानीनां देवता सोम एव हि ।।
देवताविशेषस्तत्र तत्र वक्ष्यते।।
उच्च ते जादमन्धसः(1)इत्यृचः आमहीयुः ऋषिः। गायत्री छन्दः। पवमानः सोमो देवता। सन्त्यत्र त्रयोदश सामानि । तत्राद्यमाजिगम्। द्वितीयमाभीकम्। आजीगस्य प्रजापतिः ऋषिः।आभीकस्य अङ्गिरसः ऋषयः। ऋषभः पावमानं तृतीयम्। औक्ष्णोरन्ध्रं वा । प्रजापतिः ऋषिः। उक्ष्णोरन्ध्रः काप्यो वा । चतुर्थामाभीकम्। तस्य अङ्गिरसः ऋषयः। पञ्चमषष्ठे बाभ्रवे वा। तयोर्बभ्रुः कौम्भ्यः ऋषिः। अष्टमनवमे शैशवे। तयो प्रजापतिः ऋषिः। द्वादशमिन्द्राण्याः साम। तस्येन्द्राणी ऋषिः। त्रयोदशमामहीयवम्।तस्यामहीयुः ऋषिः।।(ग्रा.गे.815-27)।।467।।
स्वदिष्ठया मदिष्ठया(2)इत्यृचः मधुच्छन्दा ऋषिः। गायत्री छन्दः । पनमानः सोमो देवता। सन्त्यत्र नव सामानि। तत्राद्दयमाजिगम्। तस्य आजिः ऋषिः। द्वितीयतृतीये सुरुपे। तयोः प्रजापतिः ऋषिः।चतुर्थपञ्चमे जमद्ग्नेः शिल्पे। तयोर्जमदग्निः ऋषिः। षष्ठं संहितम्। तस्य जगदग्नेः शिल्पे। तयोर्जमदग्निः ऋषिः। षष्ठं संहितम्। तस्य जमदग्निः ऋषिः। सप्तमं वसिष्ठस्य शकुनम्। वसिष्ठः ऋषिः। अष्टमं जमदग्नेर्गम्भीरम्। तस्य जमदग्निः ऋषिः। नवमं संहितम्। तस्य प्रजापतिः ऋषिः।।(ग्रा.गे.828-36)।।468।।
वृशा पवस्व धारय(3)इत्यृचः भृगुर्वारुणी जमदग्निर्वा ऋषिः। सन्त्यत्र नव सामानि। तेषामाद्ये द्वे सोमसामनी। तयोः सोमः ऋषिः।तृतीयमाशुभार्गवम्। तस्य भृगुः ऋषिः। चतुर्थपञ्चमे वैश्वदेवे । तयोर्विश्वेदेवा ऋषयः। षष्ठसप्तमे इन्द्रसामनी । तयोरिन्द्रः ऋषिः। अष्टमनवमे यौक्ताश्वे। तयोर्युक्ताश्च आङ्रिसः ऋषिः।।(ग्रा.गे.837-45)।।469।।
यस्ते मदो वरेण्यः(4)इत्यृचः आमहीयुः ऋषिः। इह षट् सामानि । तेषामाद्यं भासम्। तस्यात्रिः ऋषिः। द्वितीयं सोमसाम। तस्य सोमः ऋषि। तृतीयं प्राजापत्यम्। तस्य प्रजापतिःऋषिः। चतुर्थं च सोमसाम।तस्य सोमः ऋषिः। पञ्चमं च भासम्। तस्याप्यत्रिः ऋषिः। षष्ठमध्यर्घेडं सोमसाम। तस्यापि सोमः ऋषिः।।(ग्रा.गे.846-51)।।470।।
तिस्रो वाच उदीरते(5)इत्यृचः त्रितः ऋषिः। अत्रापि षट् सामानि । तेषामाद्यद्वितीये वैष्टम्भे। तयोर्विष्टम्भः ऋषिः। तृतीयचतुर्थे पाष्ठौहे। तस्य षष्ठवाड् आङ्गिरसः ऋषिः। पञ्चमं क्षुल्लकवैष्टम्भम्। तस्यापि विष्टम्भः ऋषिः। षष्ठमपि पाष्ठौहम्। तस्यापि षष्ठवाडाङ्गिरसः ऋषिः।।(ग्रा.गे.852-7)।।471।।
इन्द्रायेन्दो मरुत्वतः(6)इत्यृचः काश्यपः ऋषिः। सन्त्यत्राष्टौ सामानि। तेषामाद्यम् इषोवृधीयम्। तस्य प्रजापतिः ऋषिः। द्वितीयमिन्द्रसाम। तस्येन्द्रः ऋषिः। तृतीयचतुर्थे वैश्वदेवे। तयोर्विश्वेदेवा ऋषयः। पञ्चमषष्ठे आग्नेये । तयोरग्निः ऋषिः। सप्तमं वैश्वदेवम्। तस्य विश्वेदेवाः ऋषयः। अष्टमं चाग्नेयम्। तस्याग्निः ऋषिः।।(ग्रा.गे.858-65)।।472।।
असाव्यंशुर्मदाय(7)इत्यृचः जमदग्निः ऋषिः। सन्त्यष्टौ सामानि। तेषामाद्यानि चत्वारि शैशवानि। तेषां शिशुराङ्गिरसः ऋषिः। पञ्चमादीनि पराणि च्यावनानि तेषां च्यवनो भार्गवः ऋषिः।।(ग्रा.गे.866-73)।।473।।
पवस्व तक्ष साधनः(8)इत्यृचः द्दृढच्युतः आगस्त्यः ऋषिः। प्राजापत्ये द्वे सामनी। तस्य प्रजापतिः ऋषिः।।(ग्रा.गे.874-5)।।474।।
परि स्वानो गिरिष्ठाः(9)इत्यृचः काश्यपोऽसितः ऋषिः। इह षट् सामानि।आद्यानि चत्वारि वैदन्वतानि । तेषां विद्वान् भार्गवः ऋषिः। पञ्चमषष्ठे पदस्तोभौ । तयोः रजिराङ्गिरसः ऋषिः।।(ग्रा.गे.876-81)।।475।।
परि प्रिया दिवः कविः(10)इत्यृचः काश्यपोऽसितः ऋषिः। साम्नोरौर्णायवयोः ऊर्णायुर्गन्धर्वः ऋषिः।।(ग्रा.गे.882-3)।।476।।
इति पञ्चमेऽध्याये पावमानीषु प्रथमः खण्डः।।1।।
प्र सोमासो मदच्युतः(1)इत्यृचः श्यावाश्वः ऋषिः। साम्नः सौभरस्य सुभरिः ऋषिः।।(ग्रा.गे.884)।।477।।
प्र सोमासो विपश्चितः (2)इत्यृचः त्रितः ऋषिः। साम्नः सौभरस्य सुभरिः ऋषिः। द्वयोः सुभ्रुर्वा ऋषिः।।(ग्रा.गे.885)..478।।
पवस्वेन्दो वृषा सुतः (3)इत्यृचः आमहीयुः ऋषिः। साम्नः इन्द्रवृषकस्य इन्द्रवृषः ऋषिः।।(ग्रा.गे.886)।।479।।
वृषा ह्यसि भानुना(4)इत्यृचः भृगुः ऋषिः। साम्नोरिन्द्रवृषकयोः इन्द्रः ऋषिः।।(ग्रा.गे.887-8)।।480।।
इन्दुः पविष्ट (5)इत्यृचः कश्यपः ऋषिः। साम्नां त्रयाणां बभ्रोः कौम्भ्यसाम्नां बभ्रुः कौम्भ्यः ऋषिः।(ग्रा.गे.889-891)।।481।।
असृक्षत प्र वाजिनः (6)इत्यृचः कश्यपः ऋषिः।साम्नां त्रयाणां बभ्रोः कार्तवेशानां बभ्रुः कार्तवेशः ऋषिः।।(ग्रा.गे.894)।।482।।
पवस्व देव आयुषग् (7)इत्यृचः निद्ध्रुविः काश्यपः ऋषिः। साम्नोः शाम्मदयोः आङ्गिरसः शाम्मदः ऋषिः।।(ग्रा.गे.895-6)।।483।।
पवमानो अजीजनत्(8)इत्यृचः असितः ऋषिः। साम्नोर्जनित्रयोः वसिष्ठः ऋषिः।।(ग्रा.गे.897-8)।।484।।
परि स्वानास इन्दवः (9)इत्यृचः असितः ऋषिः। साम्नां मरुतां प्रक्रीडानां मरुतः ऋषिः।।(ग्रा.गे.899-901)।।485।।
परि प्रासिष्यदत्कविः (10)इत्यृचः असितः ऋषिः। साम्नः औशनसस्य उशनाः काप्यः ऋषिः।।(ग्रा.गे.902)।।486।।
।। इति पञ्चमेऽध्याये पावमानीषु द्वितीयः खण्डः।।2।।
तृतीयः खण्डः
उपो षु जातमप्तुरम्(1)इत्यृचः आमहीयुः ऋषिः। साम्नां यामानां त्रयाणां यमः ऋषिः।।(ग्रा.गे.903-5)।।487।।
पुनानो अक्रमीत्(2)इत्यृचः बृहन्मतिः ऋषिः। साम्नो अङ्कतेर्वैरुपस्य अङ्कतिः विरुपः ऋषिः।।(ग्रा.गे.906)।।488।।
अविशन् कलशम्(3)इत्यृचः जमदग्निः ऋषिः। साम्नोरौशनयोरुशना ऋषिः।।(ग्रा.गे.907-8)।।
489।।
असर्जि रथ्यः (4)इत्यृचः प्रभूवसुः ऋषिः।साम्नः सोमसाम्नः सोमः ऋषिः।।(ग्रा.गे.909)।।490।।
अपघ्नन् पवसे मृधः(6)इत्यृचः निध्रुविः ऋषिः।साम्नः सोमसाम्नः सोमः ऋषिः।।(ग्रा.गे.912)।।492।।
अया पवस्व धारय(7)इत्यृचः निध्रुविः ऋषिः। साम्नः इन्द्रस्य वार्त्रघ्नस्य इन्द्रो वृत्रहा ऋषिः।।(ग्रा.गे.913)।।493।।
स पवस्व य आविथ (7)इत्यृचः आमहीयुः ऋषिः। साम्नः इन्द्रस्य वार्त्रघ्नस्य इन्द्रो वृत्रहा ऋषिः।।(ग्रा.गे.914)।।494।।
अया वीति परि स्रव(8)इत्यृचः आमहीयुः ऋषिः।साम्नः सोमसाम्नां त्रयाणां सोमः ऋषिः।।(ग्रा.गे.915-7)।।495।।
परि द्युक्षम् (9)इत्यृचः उचथ्यः ऋचिः । साम्नो भारद्वाजस्य भरद्वाजः ऋषिः।।(ग्रा.गे.918)।।496।।
।।इति पावमानीषु पञ्चमाध्याये तृतीयः खण्डः।।3।।
चतुर्थः खण्डः
अचिक्रदद्वृषा हरिः(1)इत्यृचः मेधातिभिः ऋषिः।साम्नो वार्षाहरस्य वृषा हरिः ऋषिः(ग्रा.गे.919)।।497।।
आ ते दक्षं मयो भुवम्(2)इत्यृचः भृगुः ऋषिः।साम्नां वार्शानां त्रयाणां वृशो जानः ऋषिः।।(ग्र.गे.920-22)।।498।।
अध्वर्यो अद्रिभिः सुतम्(3)इत्यृचः उचथ्यः ऋषिः।साम्नोरिन्द्रस्य वैरुपयोरिन्दरविरुपः ऋषिः।।(ग्रा.गे.923-4)।।499।।
तरत्स मन्दी धावति(4)इत्यृचः अवत्सारः ऋषिः।साम्नस्तरन्तस्य वैतदश्वैः साम्नः तरन्तो वितदश्विः ऋषिः।।(ग्रा.गे.925)।।500।।
आ पवस्व सहस्रिणम्(5)इत्यृचः निध्रुविः ऋषिः। साम्नः सोमसामस्य सोमः ऋषिः।।(ग्रा.गे.926)।।501।।
अनुप्रत्नास आयवः (6)इत्यृचः असितः ऋषिः। साम्नः सूर्यस्य साम्नः सूर्यः ऋषिः।।(ग्रा.गे.927)।।502।।
अर्षा सोम (7)इत्यृचः भृगुः ऋषिःष। साम्नां दार्ढच्युतानां त्रयाणां द्दृढच्युतः ऋषिः।।(ग्रा.गे.928-930)।।503।।
वृषा सोम द्युमाँ असि(8)इत्यृचः कश्यपः ऋषिः।साम्नः इन्द्रस्य वृषकस्य इन्द्रः ऋषिः।।(ग्रा.गे.931)।।504।।
इषे पवस्व(9)इत्यृचः कश्यपः ऋषिः। साम्नो ऐषस्य इट् ऋषिः।। (ग्रा.गे.932)।।505।।
मन्द्रया सोम(10)इत्यृचः असितः ऋषिः।साम्नः श्यावाश्वस्य श्यावाश्वः ऋषिः।।(ग्रा.गे.933)।।506।।
अया सोम सुकृत्यया(11)इत्यृचः भार्गवः ऋषिः।साम्नः आयास्यस्य आयास्याङ्गिरसः ऋषिः।।(ग्रा.गे.934)।।507।।
अयं विचर्षणिर्हितः (12)इत्यृचः जमदग्निः ऋषिः।साम्न आग्नेयस्य अग्निः ऋषिः।।(ग्रा.गे.935)।।508।।
प्र ण इन्द्रो महे तु न(13)इत्यृचः आयास्यः आङ्गिरसः ऋषिः।साम्मोरायास्ययोश्च स एव ऋषिः।।(ग्रा.गे.936-7)।।509।।
अपघ्नन् पवते मृध(14)इत्यृचः आमहीयुः ऋषिः।साम्नो भारद्वाजस्य भरद्वाजः ऋषिः।।(ग्रा.गे.938)।।510।।
।।इति चतुश्चत्वारिंशत् पावमान्यो गायत्र्यः।।
।। इति पञ्चमेऽध्याये पावमानीषु चतुर्थः खण्डः।।
पञ्चमः खण्डः
अथ बृहत्यो द्वादशर्चः । तासामृचां प्रत्यृचं भरद्वाजृ-कश्यप -गौतम-अत्रि-विश्वामित्र-जमदग्नि-वसिष्ठः सप्तर्षयः ऋषयः। बृहती छन्दः ।पवमानसोमो देवता।।
पुनानः सोम धारय(1)इत्यत्र षोडश सामानि सन्ति। तेषां प्रथममायास्यं साम। तस्य आयास्याङिगसः ऋषिः। माण्डवे द्वितीयम्। तस्य मण्डुः ऋषिः। तृतीयचतुर्थे आपदाससोमसामनी। तयोर्वसिष्ठसोमावृषी। पञ्चममायास्यम्। तस्य आयास्य ऋषिः। षष्ठं माण्डवम्। तस्य मण्डुः ऋषिः। उद्वत्प्राजापत्यं सप्तमम्। तस्य प्रजापतिः ऋषिः। अष्टममायास्यम्। तस्य आयास्यः ऋषिः। नवमं कण्वरथंतरम्। तस्य कण्वः ऋषिः। तिरश्चीनमायास्यं दशमम्। तस्य आयास्यः ऋषिः। प्रजापतेः सदोविशीयमेकादशम्। तस्य प्रजापतिः ऋषिः। द्वादशत्रयोदशे जमदग्नेः स्ववासिनी। तयचोर्जमदग्निः ऋषिः। चतुर्दशं वशिष्ठस्य प्लवः। तस्य वसिष्ठः ऋषिः। अग्नेः रौरवं पञ्चदशम्। तस्य रुरुः ऋषिः। षोडशं यौधाजयम्। तस्य युधाजिद्दृषिः।।(ग्रा.गे.939-54)।।511।।
परीतो षिञ्चता सुतम्(2)इत्यृचः उक्ताः सप्तर्षय एव । इह अष्टादशसामामनि गीतानि सन्ति। तत्र इन्द्रः ऋषिः।)तृतीयचतुर्थे भारद्वाजे। तयोर्भरद्वाजः ऋषिः। पञ्चमषष्ठे आभीशवे। तयोरभीशुः ऋषिः। सप्तमाष्टमे माण्डवे । तयोर्मण्डुः ऋषिः। नवमदशमे अङ्गिरसामभिवासपरिवाससी। तयोरङ्गिरसः ऋषिः। एकादशद्वादशे वैण(व)सोमक्रतवीये। तयोर्वेणुः सोमक्रतुश्च ऋषिः। द्वादशं माण्डवं वा । तस्य मण्डुः ऋषिः। त्रयोदशचतुर्दशे प्रजापतेर्गूदौ। कश्यपस्य प्रतोदौ वा । तयोर्गूर्दपक्षे प्रजापतिः ऋषिः। प्रतोदपक्षे कश्यपः ऋषिः। पञ्चदशषोडशे अङ्गिरसां गौष्ठपुंस्तनीये । तयोरङ्गिरसः ऋषिः। सप्तदशं महारौरवम्। तस्य रुरुः (ऋषिः)अष्टादशं महायौधाजयम्। तस्य युधाजिद्दृषिः।।(ग्रा.गे.955-72)।।512।आ सोम स्वानः (3)इत्यृचः उक्ता ऋषयः । सन्त्यत्र सामानि चत्वारि सोमसामानि। अश्वरुपः प्रजापतिः सोमो वा चतुर्णाम् ऋषिः।।(ग्रा.गे.973-6)।।513।।
प्र समो देववीतये (4)इत्यृचः उक्ता ऋषयः। सामानि पञ्च। आद्यमग्नेस्त्रिणिधनम्। त्सायग्निः ऋषिः।द्वितीयमग्नेर्वैश्वनरस्य साम। तस्याग्निर्वैश्वानरः ऋषिः. द्विहिंकारंवामदेव्यं तृतीयम्। तस्य वामदेवः ऋषिः। चतुर्थपञ्चमे अङ्गिरसामुत्सेधनिषेधौ । तयोरङ्गिलस ऋषिः।।(ग्रा.गे.977-81)।।514।।
सोम उष्वाणः सोतृभिः(5)इत्यृचः उक्ता ऋषयः। सामानि षट् । तेषां सोमः ऋषिः। अश्वो वा।।(ग्रा.गे.982-7)।।515।।
तवाहं सोम रारण(6)इत्यृचः प्रागुक्ता ऋषयः । सामानि पञ्च। तयोराद्दे विष्णोरधमणी द्वे । वैष्णवे वा । तयोर्विष्णुः ऋषिः। आङ्गिरसानि पराणि त्रीणि। तेषामङ्गिरसः ऋषयः।।(ग्रा.गे.988-992)।।516।।
मृज्यमानः सृहस्त्या(7)इत्यृचः उक्ता ऋषयः । अष्टौ सामानि सन्ति। तेषामादितः औक्ष्णोरन्ध्राणि त्रीणि। तेषामुक्ष्णो रन्ध्रः काप्यः ऋषिः। चतुर्थपञ्चमषष्ठान्याग्नेयानि त्रीणि। तेषामग्निः ऋषिः। सप्तममौक्षणोरन्ध्रम्। उक्ष्णोरन्ध्रः काप्यः ऋषिः। अष्टमं वाजिजित्। तस्य प्रजापतिः ऋषिः।।(ग्रा.गे.993-1000)।।517।।
अभि सोभास आयवः(8)इत्यृचः उक्ता ऋषयः। अष्टौ सामानि सन्ति। तत्राद्ये वैश्वदेवे। तयोर्विश्वेदेवा ऋषयः। तृतीयचतुर्थे इन्द्रसामनी। तयोरिन्द्रः ऋषिः। स्वपृष्ठमाङ्गिरसं पञ्चमम्। तस्याङ्गिरस ऋषयः। इन्द्रसामानि त्रीणि। तेषामिन्द्रः ऋषिः।।(ग्रा.गे.1008)।।518।।
पुनानः सोम जागृविः(9)इत्यृचः उक्ता ऋषयः । स्वः पृष्ठमाङ्गिरसं साम । त्सायङ्गिरा ऋषिः।।(ग्रा.गे.1009)।।519।।
इन्द्राय पवते मदः(10)इत्यृचः उक्ता ऋषयः। त्रीणि सोमसामानि सन्ति। तेषां सोमः ऋषिः।।(ग्रा.गे.1010-12)।।520।।
पवस्व वाजसातम्(11)इत्यृचः उक्ता एव ऋषयः। (एकं सोमसाम।)सोमो देवता।(ग्रा.गे.1013)।।521।।
पवमाना असृक्षत(12)इत्यृचः उक्ता एव ऋषयः। साम्नो देवानां पवित्रस्य देवा ऋषयः।।(ग्र.गे.1014)।।522।।
।। बृहत्यः समाप्ताः।।
।।इति पञ्चमेऽध्याये पावमनीषु पञ्चमः खण्डः।।5।।
।।षष्ठः खण्डः।।
अथ त्रैष्टुभाः। विंशति(र)द्वे(च)ऋचः खण्डद्वयेन तु (वक्ष्यन्ते)।।
प्र तु द्रव(1)इत्यृचः उशना ऋषिः। इह सामानि पञ्च । तेषामाद्यमौशनम्। तस्योशना ऋषिः।परे द्वे वृशस्य जानस्याभीवर्तौ। तयोर्वृशो जानः ऋषिः।चतुर्थपञ्चमे औशने। तयोरुशना ऋषिः। सर्वाणि पञ्च वा औशनानि।।(ग्रा.गे.1015-9)।।523।।
प्र काव्यमुशनेव ब्रुवाणः(2)इत्यृचः वृषगणो वासिष्ठः ऋषिः। चत्वारि इह सामानि । सर्वाणि वाराहाणि। वराहः ऋषिः।।(ग्रा.गे.1020-3)।।524।।
तिस्रो वाच ईरयति प्र वह्निः(3)इत्यृचः पराशरः ऋषिः। इह त्रयोदश सामानि। होइहा। हा होइ इत्यादिस्तोभभेदेन प्रतीकोपात्तप्रथमपादेन दश। ओहा ओहा इति स्तोभान्तरोपात्तद्वितीयपादेन एकम्। ततस्तोभान्तरोपात्ततृतीयपादेन एकम्। पुनः स्तोभान्तरोपात्तचतुर्थपादप्रतीकेन एकम्। एवं त्रयोदश सामानि। तत्र आदितस्त्रीणि अङ्गिरसां संक्रोशानि। तेषामङ्गिरा ऋषिः। चतुर्थपञ्चमे सामसरसी। तयोरङ्गिरा ऋषिः। षष्ठसप्तमे वेणोर्विशाले । तयोर्वेणुः ऋषिः।अष्टमनवमे गौतमस्य तन्त्रान्तत्रे । तयोर्गौतमः ऋषिः। दशमैकादशे अगस्त्यस्य यमिके । तयोरगस्त्यः ऋषिः।द्वादशत्रयोदशे इन्द्रस्य वारवन्तीये। तयोरिन्द्रः ऋषिः। मरुतां कालकाक्रन्द(औ)ज्याह्नोडौ वा द्वादशत्रयोदशे। तस्मिन् पक्षे तयोर्मरुतः ऋषिः।।(ग्रा.गे.1023-36)।।525।।
अस्य प्रेषा(4)इत्यृचो वसिष्ठः ऋषिः। तत्र षट् सामानि वासिष्ठानि। तत्र प्रतीकोपात्तानि स्तोभभेदेन पञ्च वासिष्ठानि। षष्ठमिहवद्वासिष्ठम्। एवं षड् वासिष्ठानि।।(ग्रा.गे.1037-42)।।526।।
सोमः पवते जनिता मतीनां(5)इत्यृचः प्रतर्दनः ऋषिः। इह चत्वारि सामानि। तेषामाद्ये वासिष्ठे । एवमष्टौ वासिष्ठानि। तेषां वसिष्ठः ऋषिः। उत्तरे द्वे वसिष्ठस्य जनित्रे। तयोर्वसिष्ठः ऋषिः।।(ग्रा.गे.1043-6)।।527।।
अभि त्रिपृष्ठम्(6)इत्यृचः वसिष्ठः ऋषिः। साम अङ्गिरसां व्रतोपोहः । तस्य अङ्गिरा ऋषिः। वसिष्ठस्य वा संपा। तदा (तस्य!)वसिष्ठः ऋषिः।।(ग्रा.गे.1047)।।528।।
अक्रान्तसमुद्रः (7)इत्यृचः प्रस्कण्वः ऋषिः। तत्र वैयश्वं साम।व्यश्व आङ्गिरसः ऋषिः।।(ग्रा.गे.1048)।।529।।
कनिक्रन्ति(8)इत्यृचः प्रस्कण्वः ऋषिः। तत्र द्वे सोमसामनी। तयोः सोमः ऋषिः।।(ग्रा.गे.10490-50)।।530।।
एष स्य ते मधुमान्(9)इत्यृचः उशना ऋषिः।तत्र ऐषं साम्। तस्य इट् ऋषिः।।(ग्रा.गे.1051)।।531।।
पवस्व सोम मधुमान्(10)इत्यृचः प्रतर्दनः ऋषिः। तत्र माधुच्छन्दसं साम। तस्य मधुच्छन्दा ऋषिः।।(ग्रा.गे.1052)।।532।।
।। इति पञ्चमेऽध्याये पावमानीषु षष्ठः खण्डः।।6।।
सप्तमः खण्डः
प्र सेनानीः (1)इत्यृचः प्रतर्दनः ऋषिः। त्रिष्टुप् छन्दः। अत्र त्रीणि सामानि कुत्सरयाधिरथीयानि । तेषां कुत्सः ऋषिः।।(ग्रा.गे.1053-5)।।533।।
प्र ते धारा मधुमति(2)इत्यृचः पराशर ऋषिः। साम्नो वैश्वज्योतिषस्य विश्वज्योतिषम्। तस्य विश्वज्योतिः ऋषिः।।(ग्रा.गे.1057)।।534।।
प्र गायताभ्यर्चाम(3)इत्यृचः इन्द्रप्रमतिर्वा वसिष्ठः ऋषिः।साम वैश्वज्यातिषम्। तस्य विश्वज्योतिः ऋषिः।।(ग्रा.गे.1057)।।535।।
प्र हिन्वान(4)इत्यृचः वसिष्ठः ऋषिः। साम वैश्वज्योतिषम्।तस्य वैश्वज्योतिषम्।तस्य विश्वज्योतिः ऋषिः।।(ग्रा.गे.1058)।।536।।
तक्षद्यदी (5)इत्यृचः द्दृढीको वासिष्ठः ऋषि। तत्र द्वे वाचः सामनी । तयोर्वागृषिः।।(ग्रा.गे.1059-60)।।537।।
साकमुक्षो मर्जयन्त(6)इत्यृचः नृमेधाः काक्षीवतः ऋषिः। तत्र द्वे सामनी दाशस्पत्ये । तयोर्दशस्पतिः ऋषिः।।(ग्रा.गे.1061-2)।।538।।
अधि यदस्मिन्(7)इत्यृचः कण्वः ऋषिः। साम कश्यपस्य शोभनम् । तस्य कश्यपः ऋषिः।।(ग्रा.गे.1063)।।539।।
इन्दुर्वाजी पवते(8)इत्यृचः इन्दुर्वासिष्ठः ऋषिः. अत्र चत्वारि सामनि दाशस्यपत्यानि। तेषां दशस्पतिः ऋषिः।।(ग्रा.गे.1064-7)।।540।।
अया पवा पवस्वैनाः (9)इत्यृचः कुत्सः ऋषिः। अत्र त्रीणि सामानि श्नुष्टेराङ्गिरसस्य सामानि। तेषां श्नुष्टिराङ्गिरसः ऋषिः।।(ग्रा.गे.1068-70)।।541।।
महत्तत्सोमो महिषश्चकार(10)इत्यृचः पराशरः ऋषिः। साम्नः आत्रस्य अत्रिः ऋषिः।।(ग्रा.गे.1071)।।542।।
असर्जि वक्वा(11)इत्यृचः कश्यपः ऋषिः। साम्नो वासिष्ठस्य वसिष्ठः ऋषिः।।(ग्रा.गे.1072)।।543।।
अपामीवत्(12)इत्यृचः प्रस्कण्वः ऋषिः। साम अपां साम। तस्य आपः ऋषिः। (ए)तेषां त्रयाणाम् अग्निर्वैश्वानरो वा ऋषिः।।(ग्रा.गे.1073)।।544।।
।।इति त्रिष्टुभः।।
इति पञ्चमेऽध्याये पावमानीषु सप्तमः खण्डः।।7।।
अष्टमः खण्डः
अथानुष्टुभ्यः।।
पुरोजिती नवर्चोऽत्र बृहत्याहर्यतायया।
अष्टावनुष्ठुभः शिष्टाः वक्ष्यन्ते ऋषयः पृथक्।।
पुरोजिती(1)इत्यस्याः श्यावाश्वः ऋषिः। इह षट् सामानि । आद्यौ द्वौ नकुलस्य वामदेवस्य प्रेङ्खौ। महाकार्तयशं तृतीयम्। और्ध्वसद्मनं चतुर्थम्। श्यावाश्वान्धीगवे पञ्चमषष्ठे। आद्ययोर्द्वयोर्वामदेवः ऋषिः।कार्तयशसस्य कृतयशाः और्ध्वसद्मनस्य ऊर्ध्वसद्मा ऋषिः। पञ्चमस्य श्यावाश्वस्य अर्चनानसः ऋषिः। आन्धीगवस्य अन्धीगुः ऋषिः।।(ग्रा.गे.1047-9)।।545।।
अयं पूषा(2)इत्यृचः नहुषो मानवः ऋषिः। तत्र त्रीणि क्रौञ्चानि सामानि। तेषां क्रौञ्चः ऋषिः।।(ग्रा.गे.1080-2)।।546।।
सुतासो मधुमत्तमाः(3)इत्यृचः ययातिर्नाहुषः ऋषिः। इहाष्टौ सामानि सन्ति। प्रथमद्वितीये त्वाष्ट्रीसामनी। तयोस्त्वष्टा ऋषिः। वासिष्ठं तृतीयम्। तस्य वसिष्ठः ऋषिः। चतुर्थमपि त्वाष्ट्रीसाम। तस्य त्वष्टा ऋषिः। पञ्चमं च वासिष्ठम्। तस्य वसिष्ठः ऋषिः।षष्ठसप्तमे त्वाष्ट्रीसामनी। तयोस्त्वष्टा ऋषिः।अष्टमं च वासिष्ठम्। तस्य वसिष्ठः ऋषि।।(ग्रा.गे.1083-90)।।547।।
सोमाः पन्त इन्दवः(4)इत्यृचः मनुः सांवरणः ऋषिः। तत्र द्वे सामनी क्रौञ्चे । तयोः कुञ्चः ऋषिः।।(ग्रा.गे.1091-2)।।548।।
अभी नो वाजसातमम्(5)इत्यृचः ऋजिश्वाम्बरीषश्च ऋषी। इह प़ञ्च सामानि सन्ति। आद्यानि त्रीणि सोमसामानि। पञ्चमं च । तेषां सोमः ऋषिः।क्रौञ्चं चतुर्थम्। तस्य कुञ्चः ऋषिः।।(ग्रा.गे.1093-7)।।549।।
अभी नवन्ते अद्रुहः(6)इत्यृचः रेभश्च सूनुश्च काश्यपौ द्वौ सहैव। अत्र आङ्गिरसानि त्रीणि सामानि। तेषामङ्गिरा ऋषिः।।(ग्रा.गे.1098-1100)।।550।।
आ हर्यताय(7)इत्यृचः रेभसूनुः काश्यपः ऋषिः।इह चत्वारि सामनि गृत्समदस्य सूक्तानि। तेषां गृत्समदः ऋषिः।बृहती छन्दः ।।(ग्रा.गे.1104)।।551।।
परित्यं हर्यतम्(8)इत्यृचः ऋजिश्वाम्बरीषश्च ऋषी। साम आकूपारम्। तस्य अकूपारः ऋषिः।।(ग्रा.गे.1105)।।552।।
प्र सुन्वनायान्धसः(9)इत्यृचः प्रजापतिः ऋषिः। साम वैरुपम्। तस्य विरुपः ऋषिः।नृगो वा।।(ग्रा.गे.1106)।।553।।
इत्यनुष्टुभः।।
इति पञ्चमेऽध्याये पावमानीषु अष्टमः खण्डः।।8।।
नवमः खण्डः
अथ जगत्यः।।
जगत्यो द्वादशाभीति तिस्र आद्याश्च पञ्चमीम्।
कविर्ददर्श तुर्यां च षष्ठीं चर्षिगणोऽब्रवीत्।।
निवापरस्तात् (निवावरी वा!)सिकतास्(ता!)त्रिरस्मै रेणुरैक्षत।
वेनो भार्गव इन्द्राय सोमेत्यृच ऋषिस्ततः।।
असावि सोम इत्येतां भारद्वजोऽब्रवीद्वसुः।
प्र देवमिति वत्सप्रिरग्निरञ्जत इत्यृचः।।
ऋषिराङ्गिरसोऽपश्यत् पवित्रो द्वादशीमृचम्।
अथ जगत्य ऋचो द्वादश। अभि प्रियाणि (1)इत्यृचः कविः ऋषिः। साम्नां षण्णामाद्यं कावम्। तस्य कविः ऋषिः। द्वितीयं च कावम्। तस्य च कविः ऋषिः। तृतीयं वाजसनि। तस्य ऋषिर्वाजसनिः। चतुर्थपञ्चमे वाजजिती । तयोः प्रजापतिः ऋषिः। षष्ठं कावम्। तस्य कविः ऋषिः।।(ग्रा.गे.1107-18)।।554।।
अचोदसो नः(2)इत्यृचः कविः ऋषिः। इह षट् सामानि। आद्यमुद्वद्भार्गवम्। तस्य भृगुः ऋषिः। द्वितीयमाङ्गिरसम्। तस्य अङ्गिरा ऋषिः। तृतीयं साम राजम्। तस्य प्रजापतिः ऋषिः। चतुर्थपञ्चमे सोमराजे। तयोः प्रजापतिः ऋषिः। षष्ठं सिमानां निषेधः। तस्य प्रजापतिः ऋषिः।।(ग्रा.गे.1119-24)।।555।।
एष प्र कोशे (3)इत्यृचः कविः ऋषिः। साम वासिष्ठम्। तस्य वासिष्ठः ऋषिः।।(ग्रा.गे.1125)।।556।।
प्रो अयासि (4)इत्यृचः ऋषिगणः ऋषिः। अत्र सामानि पञ्च । आद्ये द्वे लौशे। द्वयोर्लुशः ऋषिः। प्रवद्भार्गवं तृतीयम्। तस्य भृगुः ऋषिः। विरुपस्य तन्त्रं चतुर्थम्। तस्यविरुपः ऋषिः। यामं पञ्चमम्। तस्य यमः ऋषिः।।(ग्रा.गे.1126-30)।।557।।
धर्ता दिवः पवते(5)इत्यृचः कविः ऋषिः। अत्र द्वे सामनी दासशिरसी । तयोः प्रजापतिः ऋषिः।।(ग्रा.गे.1131-2)।।558।।
वृषा मतीनां पवते विचक्षणः(6)इत्यृचः रेँणुः ऋषिः। साम मरुतां धेनु। तस्य मरुतः ऋषयः।।(ग्रा.गे.1233-5)।।559।।
त्रिरस्मै सप्त धेनवः (7)इत्यृचः ऋषिगणः ऋषिः।यामानि त्रीणि सामानि ।तेषां यमः ऋषिः (ग्रा.गे.1136)।।560।।
इन्उद्राय सोम सुषुतः(8)इत्यृचः वेनो भार्गवः ऋषिः। द्वे सामनी इन्द्रायस्यापावमीवनी । तयोरिन्द्रः ऋषिः।।(ग्रा.गे.1137-8)।।561।।
असावि सोमो वृषा हरिः (9)इत्यृचः वसुः भारद्वाजः ऋषिः।यामानि त्रीणि सामानि। तेषां यमः ऋषिः।।(ग्रा.गे.1139-42)।।562।।
प्र देवमच्छा(10)इत्यृचः वत्सप्रिर्जालन्दनः ऋषिः। साम मरुतां धेनु।।(ग्रा.गे.1142)।।563।।
अञ्जते व्यञ्जते (11)इत्यृचः आङ्गिरसऋ ऋषिः। त्रीणि काक्षीवतानि सामानि। तेषां कक्षीवानृषिः।।(ग्रा.गे.1143-5)।।564।।
पवित्रं ते विततम्(12)इत्यृचः पवित्रः ऋषिः। द्वे सामनी अर्कपुष्पे। तयोरादित्यः ऋषिः।।(ग्रा.गे.1146-7)।।565।।
इति जगत्यः ।।
इति पञ्चमेऽध्याये पावमानीषु नवमः खण्डः।।9।।
दशमः खण्डः
इन्द्रमच्छा सुता इम इत्याद्यृचः अनुवाकस्य दशर्चामुष्णिक् छन्दः।।
इन्द्रमच्छ सुत(1)इत्यृचः चाक्षुषः ऋषिः।तत्र पञ्च सामानि। आद्ये वसिष्ठस्य पदे। तयोर्वसिष्ठः ऋषिः।पौष्कलः पञ्चमः तस्य पुष्कलः ऋषिः। प्रजापतिर्वा।।(ग्रा.गे.1148-52)।।566।।
प्र धन्वा सोम(2)इत्यृचः (चक्षुः)मनुः (मानवः!)ऋषिः। तत्र पञ्च सामानि ऐषिराणि। तेषामिषिरः ऋषिः।।(ग्रा.गे.1153-7)।।567।।
सखाय आ नि षीदत(3)इत्यृचः पर्वतनारदावृषी । अत्र पञ्च सामानि शौक्तानि। तेषां शुक्तिराङिगरसः ऋषिः।।(ग्रा.गे.1158-62)।।568।।
तं वः सखाय(4)इत्यृचः पर्वतनारदावृषी । अत्र त्रीणि सामानि कार्णश्रवसानि। तेषां कर्णश्रवा आङ्गिरसः ऋषिः।।(ग्रा.गे.1163-5)।।569।।
प्राणा शिशुर्महीनाम्(5)इत्यृचः त्रितः ऋषिः। अत्र पञ्च सामानि। अद्ये द्वे वाचः सामनी। तयोर्वागृषिः। तृतीयचतुर्थे इन्द्रसामनी। तयोरिन्द्रः ऋषिः। पञ्चमं प्रेङ्खम्। तस्य मरुतः ऋषिः।।(ग्रा.गे.1166-70)।।570।।
पवस्व देववीतये(6)इत्यृचः मनुराप्लवः ऋषिः। तत्र द्वे प्राजापत्यसामनी।तयोः प्रजापतिः ऋषिः।।(ग्रा.गे.1171-2)।।571।।
सोमः पुनान ऊर्मिणा(7)इत्यस्या ऋचः चाक्षुषः ऋषिः। इह षट् सामानि। तत्र आद्ये सुज्ञाने । तयोरिन्द्रः ऋषिः। तृतीयचतुर्थे द्यौते। तयोर्द्युतः ऋषिः। पञ्चमषष्ठे अतीषादीये। (तयोः)प्रजापतिः ऋषिः।।(ग्रा.गे.1173-8)।।572।।
प्र पुनानाय वेधसे(8)इत्यृचः द्वितः ऋषिः। तत्र द्वे सामनी सोमसामनी । तयोः सोमः ऋषिः।।(ग्रा.गे.1179-80)।।573।।
गोमन्न इन्दो (9)इत्यृचः पर्वतनारदावृषी। साम सोमसाम। तस्य सोमः ऋषिः।।(ग्रा.गे.1181)।।574।।
अस्मभ्यं त्वा वसुविदम्(10)इत्यृचः पर्वतनारदावृषी । साम सोमसाम। तस्य सोम ऋषिः।।(गर्.गे.1182)।।575।।
पवते हर्यतः (11)इत्यृचः चाक्षुषः ऋषिः। अत्र सोमस्य यशांसि त्रीणि सामानि। (तेषां सोमः ऋषिः)।।(ग्रा.गे.1183-5)।।576।।
परि कोशं मधुश्चुतम्(12)इति द्वादश्या ऋचः ऋषिः।। साम भारद्वाजम्। तस्य भरद्वाजः ऋषिः।(ग्रा.गे.1186)।।577।।
।।इत्यौष्णिहर्चः।।
।। इति पञ्चमेधऽध्याये पावमानीषु दशमः खण्डः।।
एकादशः खण्डः
अथ काकुभ्यः ।।
पवस्व मधुमत्तम(1)इत्यृचः गौरीवितः ऋषिः। तत्र पञ्च सामानि। तेषामाद्यं वासिष्ठम्। तस्य वसिष्ठऋ ऋषिः। द्वितीयतृतीये सफे। तयोर्देवाः । चतुर्थं वासिष्ठम् तस्य वसिष्ठः । पञ्चमं सफम्। तस्य देवाः।। (ग्रा.गे.1187-1191)।।578।।
अभि द्युम्नम्(2)इत्यृचः ऊर्ध्वसद्मा ऋषिः। अत्र चत्वारि सामानि ऐषिराणि । तेषामिषिरः ऋषिः।।(ग्रा.गे.1192-5)।।579।।
आ सोता परि षिञ्चत(3)इत्यृचः (ऋजिश्वा भारद्वाजः)ऋषिः। अत्र षट् सामानि । आद्यानि त्रीणि कार्णश्रवसानि। तेषां कर्णश्रवा आङ्गिरसः ऋषिः। पराणि त्रीणि वाचः सामानि। तेषां वागृषिः।।(ग्रा.गे.1196-1202)।।580।।
एतमुत्यं मदच्युतम्(4)इत्यृचः (कृतयशाः)ऋषिः। इह षट् सामानि। तेषामाद्ये कौल्मलबर्हिषे । तयोः कुल्मलबर्हिः ऋषिः। तृतीयं शङ्कु। तस्य प्रजापतिः ऋषिः। सोमसामानि त्रीणि पराणि। तेषां सोमः ऋषिः।।(ग्रा.गे.1202-7)।।592।।
(स सुन्वे या वसूनाम् (5)इत्यृचः ऋणंचयः ऋषिः। अत्र पञ्च सामानि। आद्ये द्वे लोमनी। तयोर्भरद्वाजः ऋषिः। सोमसामानि त्रीणि पराणि। तेषां सोमः ऋषिः।।(ग्रा.गे.1208-12)।।582।।
(त्वं ह्यङ्ग दैव्य(6)इत्यस्या ऋचः शक्तिः ऋषिः।। अत्र चत्वारि सामानि श्यैतोष्माणि । तेषां प्रजापतिः ऋषिः।।(ग्रा.गे.1213-6)।।583।।
एष स्य धारया (7)इत्यृचः ऊरुराङ्गिरसः ऋषिः। अत्र पञ्च सामानि। आद्यं गायत्रपार्श्वम्। तस्य देवाः ऋषयः। द्वितीयं सन्तनि। तस्य देवाः ऋषयः । पराणि त्रीणि सोमसामानि। तेषां सोमः ऋषिः।।(ग्रा.गे.1217-21)।।584।।
इति ककुभः।।
एकोनविंशतिशतं पावमान्य इतीरितम्।
शतानि पञ्चाशीतिश्च पञ्च वाप्यखिला ऋचः।।
इति पञ्चमेऽध्याये पावमानीषु एकादशः खण्डः।।11।।
।।पञ्चमोऽध्यायः।।
अरण्यकाण्डम्
षष्ठोऽध्यायः
प्रथमः खण्डः
आरण्याकानां साम्नां षट् पञ्चाशच्चर्च आसु तु।
छन्दोदैवतमार्षं च तत्र तत्राभिदध्महे।।
इह त्रिविधा ऋचः । ग्रामेगेयार्थमेवाधीताः काश्चन्। अरण्येगेयार्थमेवापराः। उभयार्थमन्याः। याश्चोभयार्थाः याश्च केवलारण्येगेयार्थाः तासूभयविधासु यानि सामानि तेषामुभयेषां साम्नामृचां च विस्पष्टार्थमृषिच्छन्दोदेवता अभिधीयन्ते।।
अर्कपर्व
प्रथमोऽनुवाकः
तत्र तावत्(1)यद्याव इन्द्र ते शतम्(278)इत्यृचः देवातिथिः (पुरुहन्मा आङिगरसः!)ऋषिः । बृहती छन्दः । इन्द्रो देवता। इहाष्टौ सामानि वैरुपाणि । तेषां विरुपः ऋषिः। अञ्जो वैरुपमाद्यम्। ह्रस्वा च बृहदोपशा द्वितीयम्। पञ्चनिधनं षष्ठम्। द्वादशनिधनं सप्तमम्। पुष्यमष्टमम्। तेषां विरुपः ऋषिः। इन्द्रो देवता।।(आ.गा.1-8)।।1।।
(2)पिबा सुतस्य रसिनः (239)इत्यस्यां द्वे सामनी अन्तरिक्षे । मेधातिथिः ऋषिः। उभयोश्च इन्द्रो देवता। बृहती छन्दः । साम्नोः प्रजापतिः ऋषिः। विश्वेदेवा वा।।(आ.गा.9-10)।।2।।
(3)पवित्रं ते विततम्(565)इत्यस्या ऋचः पवित्रः ऋषिः। जगती छन्दः । सोमो देवता। हाह होइया । पावीति सामनी द्वे अरिष्टनामनी। तयोर्देवा ऋषयः।छन्दोदेवते ऋग्वत्।।(आ.गा.13-4)।।3।।
(4)अभि त्वा पूर्वपीतये(263)इत्यृचो मेधातिथिः ऋषिः ।बृहती छन्दः । इन्द्रो देवता। हावाभी-अभीहाउत्वापूर्वेति द्वे सामनी अहरीते। तयोः प्रजापतिः ऋषिः। ऋग्वत् छन्दोदेवते।।(आ.गा.13-4)।।4।।
इत्यारण्यकगानेऽर्कपर्वणि प्रथमः खण्डः।।
द्वितीयः खण्डः
पिबा सुतस्य(239)इत्यस्या ऋचः मेधातिथिः ऋषिः। बृहती छन्दः । इन्द्रो देवता। हाउ पिबासुता इति । (वरुणस्य देवस्थानम्।)तस्य वरुणः ऋषिः। ऋग्वत् छन्दोदेवते।।(आ.गा.15)।।5।।
बृहदिन्द्राय गायत(258)इत्यृचो नृमेधपुरुमेधावृषी । बृहती छन्दः । इन्द्रो देवता। तत्र कबृहदिति साम्नः बृहद्देवस्थानस्य प्रजापतिः ऋषिः। हाउहाउहाउ इति (अस्य) स्वरितस्तोभ इति क इति (च)संज्ञा सर्वत्र। ऋग्वच्छदोदेवते।।(आ.गे.16)।।6।।
पुनानः सोम धारय(511)इत्यृचो भरद्वाज- कश्यप -गौतम-अत्रि-विश्वामित्र-जमदग्नि-वसिष्ठाः सप्त ऋषयः। बृहती छन्दः। पवमानः सोमो देवता। तत्र ऐरा(यात्)।(द्विः)ऐरायात्। सुवरा। हाहोइ)पुनेति ऐरयं (यत्!)साम । तस्य वरुणः ऋषिः। ऋग्वचन्दोदेवते।।(आ.गा.17)।।7।।
(6)तवेदिन्द्रावमं वसु(511)इत्यृचः भरद्वाजादयः सप्तर्षयः । बृहती छन्दः । सोमो देवता। तत्र क हौवा पुनेति आङिगरसं साम। तस्य अङिगरा ऋषिः। ऋग्वच्छन्दोदेवते। औहौतवेतितत्रैव बार्हस्पत्यं साम। बृहस्पतिः ऋषिःष। ऋग्वच्छन्दोदेवते।।(आ.गा.20-1)।।10।।
(7)आ त्वा सहस्रमा शतम्(245)इत्यृचः मेधातिथिः ऋषिः। बृहती छन्दः । इन्द्रो देवता। तत्र कौहोआत्वेति भारद्वाजं साम। तस्य भरद्वाजः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गे.22)।।11।।
(8)शं नो दीवीः(33)इत्यृचः सिन्धुद्वीपः ऋषिः। गायत्री छन्दः । आपो देवता। तत्र उहुवा शन्न इत्याथर्वणं साम। तस्याथर्वाङ्गिरसः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गे.23)।।12।।
(9)इन्द्र ज्येष्ठं न आ भर(586)इत्यृचो भरद्वाजः ऋषिः। बृहती छन्दः। इन्द्रो देवता। तत्र कौहोइन्द्रज्येष्ठमिति नारद्वसवं साम। तस्य नरद्वसुः ऋषिः।ऋग्वच्छन्दोदेवते।।(आ.गे.24)।।13।।
(10)कया नश्चित्र आ भुवत्(161)इत्यस्या ऋचः वामदेवः ऋषिः। गायत्री छन्दः । इन्द्रो देवता। कबृहद्वामम्-बृहद्वामं कयेति बृहती वामदेव्ये द्वे सामनी । तयोर्वामदेवः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गे.25-6)।।14।।
(11)त्वामिद्धि हवामहे(234)इत्यचो भरद्वाजः ऋषिः। बृहती छन्दः । इन्द्रो देवता। औहोइत्वामिद्धीति बृहत्साम । तस्य भरद्वाजः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.27)।।15।।
इत्यारण्यकगानेऽर्कपर्वणि द्वितीयः खण्डः।।2।।
तृतीयः खण्डः
(1)इन्द्रं नरः (318)इत्यृचः वसिष्ठः ऋषिः। त्रिष्टुपू छन्दः । इन्द्रो देवता। तत्र इया-औहो इन्द्रन्नर इति वसिष्ठजमदग्न्योरर्कौ द्वे सामनी। तयोर्वसिष्ठजमदग्नी ऋषी। ऋग्वच्छन्दोदेवते।।(आ.गा.28-9)।।16।।
(2)स्वादिष्ठा मदिष्ठया (468)इत्यृचः मधुच्छन्दा ऋषिः। गायत्री छन्दः । पवमानसोमो देवता। तत्र अयामायाम्। स्वादिष्ठयेति स्वाशिरामर्कः। स्वाशिराः प्राणा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.30)।।17।।
(3)धर्ता दिवः पवते(558)इत्यृचः कविः ऋषिः। जगती छन्दः । सोमो देवता। तत्र कौहोवाएहियाहाउ धर्तेति दीर्घतमसोऽर्कः । तस्य दीर्घतमा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.31)।।18।।
(4)प्र व इन्द्राय बृहता (257)इत्यृचः नृमेधपुरुमेधसावृषी । तत्र कप्रव-कसन्त्वानोनवुरिति मरुतामर्कौ द्वे सामनी। तयोर्मरुतः ऋषिः। बृहती छन्दः । इन्द्रो देवता।।(आ.गा.32-3)।।19।।
(5)अग्निर्मूर्द्धा(27)इत्यस्या ऋचः विरुपः ऋषिः। गायत्री छन्दः। अग्निर्देवता। तत्र होहो वा अग्निर्मूर्धा इति अग्नेरर्कः एकं साम। तस्याग्निः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.34)।।20।।
(6)अयं पूषा रयिर्भगाः (546)इत्यृचो नहुषो मानवः ऋषिः। अनुष्टुप् छन्दः। पवमानसोमो देवता। तत्र होवाअयंपूषेति प्रजापतेरर्कः एकं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.35)।।21।।
(7)इन्द्रो राजा जगतश्चर्षणीनाम्(587)इत्यृचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः । इन्द्रो देवता। तत्र हावीन्द्राः-इन्द्रोहाउ इति द्वे सामनी इन्द्रस्यार्कौ। तयोरिन्द्रः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गे.36-7)।।22।।
(8)यस्येदमा रजोयुजः (588)इत्यस्या ऋचः वामदेवः ऋषिः। गायत्री छन्दः। इन्द्रो देवता। तत्र हाउहस्येति अर्कशिरः एकं साम। तस्यार्कः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.38)।।23।।
(9)ततः पातीरिति स्तौभिकमर्कग्रीवा इत्येकं साम। ऋगभावान्न छन्दः । साम्नोऽर्कः ऋषिः। देवता च ।।(आ.गा.39)।।24।।
(10)उदुत्तमं वरुणपाशम्(589)इत्यृचः शुनः शेपः ऋषिः। त्रिष्टुप् छन्दः। वरुणो देवता। तत्र वरुणस्यार्क एकं साम। तस्य वरुणः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.40)।।25।।
(11)इन्द्रं नरो नेमधिता हवन्ते(318)इत्यृचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः । अग्निर्देवता। तत्र (इय होइ इन्द्रन्नरो-उवहोइ इन्द्रन्नरो इति द्वे सामनी अर्कपुष्पे । तयोः प्रजापतिः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता।।(आ.गा.41-2)।।26।।
इत्यारण्यकगानेऽर्कपर्वणि तृतीयः खण्डः।।3।।
चतुर्थः खण्डः
(1)मूर्धानं दिवो अरतिम्(67)इत्यृचो भरद्वाजः ऋषिः। त्रिष्टुप् छन्दः । अग्निर्देवता। तत्र काज्यदोहम् कहिम्(हुम्?)-द्विदोहमकच्योहम्-मूर्धत्यग्नेर्वैश्वानरस्य त्रीण्याज्यदोहानि सामानि। तेषामग्निर्वैश्वानरः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.43-5)।।27।।
(2)सुरुपकृत्नुमूतये(160)इत्यृचः मधुच्छन्दा ऋषिः। गायत्री छन्दः । इन्द्रो देवता। तत्र रैवतऋषभं साम। तस्य रुद्रः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.46)।।28।।
(3)पिबा सोममिन्द्र मन्दतु त्वा (318)इत्यृचः वसिष्ठः ऋषिः। विराट् छन्दः। इन्द्रो देवता। तत्र काइहीपिबेति वैराजऋषभं साम। तस्य रुद्रः ऋषि। ऋग्वच्छन्दोदेवते।।(आ.गा.47)।।29।।
(4)स्वादोरित्था विषूवतः(409)इत्यृचः राहूगणपुत्रो गौतमः ऋषिः। पङ्क्तिः छन्दः। इन्द्रो देवता। तत्र ओं स्वादोरिति ऋषभशाक्कर एकं साम। तस्य रुद्रः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.48)।।30।।
(5-6)पुरोजिती वो अन्धसः (545)उच्चा ते जातमन्धसः (467)इत्यृचोः श्यावाश्वः अमहीयुः ऋषी। अनुष्टुप्गायत्र्यौ छन्दसी । उभयोः पवमानसोमो देवता। तयोः एषुपुरः -उच्चेति इन्द्रस्य वा अतीषङ्ग एकं साम। तस्य इन्द्रः रुद्रो वा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.49)।।31।।
(7-8)असर्जि वक्वा(543)असाव्यंशुः (473)इत्यृचोर्द्वयोः कश्यपजमदग्नी ऋषी। त्रिष्टुपगायत्र्यौ छन्दसी । उभयोरपि पवमानसोमो देवता। तयोः (ए)आसाजिव-आसाव्यंशुरिति इन्द्रस्य वसोर्वा एकं साम। तयोरिन्द्रो वसवो वा ऋषिः।ऋग्वच्छन्दोदेवते।।(आ.गा.50)।।32।।
(9-10)अभी नो वाजसातमम्(549)तरत्स मन्दी धावति (500)इति द्वयोः ऋचोः ऋजिश्वाम्बरीषश्च आद्याया ऋषी। द्वितीयाया अवत्सारः ऋषिः। अनुष्टुप्गायत्र्यौ छन्दसी। उभयोरपि पवमानसोमो देवता। तयोरभितरएकारेणेति इन्द्रस्य पर्जन्यस्य वा अतीषङ्ग एकं साम। इन्द्रः पर्जन्यो वा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.51)।।33।।
(11)धर्ता दिवः पवते(558)इत्यृचः कविः ऋषिः। जगती छन्दः । सोमो देवता। तत्र प्राजापत्याश्चत्वारः पदस्तोभाः । हाहहौवाकहौवा-औहौहोवा-आऔहोवा-धर्तेति चत्वारि सामानि। तेषां प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.52-5)।।34।।
इत्यारण्यकगाने अर्कपर्वणि चतुर्थः खण्डः।।4।।
पञ्चमः खण्डः
(1)चर्षणी धृतम्(374)इत्यृचः विश्वामित्रः ऋषिः। जगती छन्दः । इन्द्रो देवता। तत्र संसर्पाणि सर्पसामानि वा त्रीणि सामानि। अभाइ-अभिप्र-खचर्षणीति त्रीणि संसर्पाणि सर्वसामानि। तेषां सर्पा ऋषयः। अग्निपृथिवीवायवो वा ऋषयः। ऋग्वच्छन्दोदेवते।।(आ.गा.56-8)।।37।।
(2)तवेदिन्द्रावमं वसु(270)इत्यृचः वसिष्ठः ऋषिः। बृहती छन्दः । इन्द्रो देवता। तत्र ख सुवः-सुवस् तवेति द्वे सर्पसामनी। अन्तरिक्षादित्ययोर्वा। ऋग्वच्छन्दोदेवते।।(आ.गा.59-60)।।36।।
(3)अभि प्रियाणि पवते(554)इत्यृचः कविः ऋषिः। जगती छन्दः । सोमो देवता। तत्र सृपायप्रसृपा अभि प्रीति संसर्वं सर्पसाम वा एकं साम। तस्य सर्पः द्यौर्वा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.61)।।37।।
(4)त्वया वयं पवमानेन सोम(590)इत्यृचः गृत्समदः ऋषिः। त्रिष्टुप् छन्दः।सोमो देवता। तत्र सृपायप्रसृपा त्वयेति द्वे सर्पसामनी। तयोः सर्पाः आपः समुद्रो वा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.623)।।38।।
(5)स्वादोरित्था (409)इत्यृचः राहूगणपुत्रो गौतमः ऋषिः। पङ्क्तिश्छन्दः । इन्द्रो देवता। स्वादोरित्थेति द्वे सर्पसामनी। माण्डवे वा तयोः सर्पाः मण्डुर्जामदग्न्यो वा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.64-5)।।39।।
इत्यारण्यकगाने अर्कपर्वणि पञ्चमः खण्डः।।5।।
षष्ठः खण्डः
(1)त्वमिन्द्र प्रतूर्तिषु(311)इत्यृचो नृमेधा ऋषिः।बृहती छन्दः । इन्द्रो देवता। तत्र औहोइत्वमिन्द्रेति त्रिषन्धि इत्येकं साम। त्रिषाम वा एकं साम। त्रयाणां रथन्तरबृहद्वामदेव्यानाम् अत्र संघानात् त्रिषामेत्यन्वर्थसंज्ञा। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.66)।।40।।
(2)बण्महाँ असि(276)इत्यस्याः ऋचः जमदग्निः ऋषिः। बृहती छन्दः । सूर्यो देवता। तत्र एकारेण बण्महाँअसीति यज्ञसारथीत्येकं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.67)।।41।।
(3)इमं वृषणम्(591)इत्येकपदा ऋक् । तस्याः वामदेवः ऋषिः। एकपदा त्रिष्टुप् छन्दः। विश्वेदेवा देवता। तत्र इमा ओवेति वृषाख्येकं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.68)।।42।।
(4)ततः य एक इद्विदयते(389)इत्यृचः गौतमः ऋषिः। उष्णिक् छन्दः । इन्द्रो देवता। तत्र हाहिं य एक इति एकवृषाख्यं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.69)।।43।।
(5)ततो यो न इदमिमम्(400)इत्यृचः सौभरिः ऋषिः। ककुप् छन्दः । इन्द्रो देवता। तत्र होवा हाइ योनः इति विद्रथाख्यं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.70)।।44।।
(6)ततः अभ्रातृव्यो अना त्वम्(399)इत्यृचः सौभरिः ऋषिः। ककुप् छन्दः। इन्द्रो देवता। तत्र कहुवे इत्यभ्रातृव्याख्यमेकं साम । तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.71)।।45।।
(7)ततः रेवतीर्नः सधमाद (153)इत्यृचः शुनः शेपः ऋषिः। गायत्री छन्दः। इन्द्रो देवता। तत्र हाउरेवा-रावतेति द्वे सामनी रैवते । तयोः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.72-3)।।46।।
(8-10)उच्चा ते जातमन्धसः (467)स न इन्द्राय यज्यवे (592)एना विश्वान्यर्य आ(593)इत्येकं तृचम्। तस्यामहीयुः ऋषिः। गायत्री छन्दः। पवमानसोमो देवता। तत्र एऊच्चेति एकं शाक्करवर्णाख्यं साम। तस्य शक्करवर्णः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.74)।।47।।
(11)अया रुचा हरिण्या(463)इत्यृचः परुच्छेपः ऋषि। अत्यष्टिश्छन्दः । पवमानसोमो देवता। तत्र एआया इति नित्यवत्साख्यम् एकं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.75)।।48।।
ततः (12)अभि त्वा शूर नोनुमः (233)इत्यृचः वसिष्ठः ऋषिः। बृहती छन्दः । इन्द्रो देवता। तत्र अभित्वाशूरनोनुमोवेत्येकं रथन्तराख्यं साम। तस्य वसिष्ठः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.76)।।49।।
(13)त्वामिद्धि हवामहे(234)इत्यृचः भरद्वाजः ऋषिः। बृहती छन्दः । इन्द्रो देवता। तत्र अयंवायाउत्वामिद्धाइ इति सप्तहाख्यमेकं साम। तस्य जमदग्निः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.77)।।50।।
इत्यारण्यगाने अर्कपर्वणि षष्ठः खण्डः।।6।।
सप्तमः खण्डः
ततः (1-2)आक्रन्दय कुरु घोषम् इत्येका ऋक् । प्रयच्चक्रमराव्ण इत्यन्या (इति )अतिरहस्ये द्वे ऋचौ । तत्र आद्यायास्त्रिष्टुप् छन्दः । अनुष्टुपबितरा । आद्यायाः शर्वोऽग्निर्वा देवता। द्वितीयायाश्च । तयोः पञ्चपविमन्ति महासामानि। अन्यायाः (अनयोः !)पदगीतमेकं साम। तस्य शर्वः ऋषिः। अग्निर्वा । प्रथमायामृचि आक्रन्दायोवेति प्रगीतमेकं महासाम। अग्नेर्हरो वा । तस्य रुद्रः ऋषिः। अग्निर्वा । देवता च । ततः प्रयच्चक्रमिति द्वितीयायामृचि कास् -अभ्याभूः कक्षुरो--प्रयच्चक्रमिति त्रीणि महासामानि आद्ये आग्नेर्हरसी वा द्वे सामनी। (द्वितीयक्षुरहरसी वा द्वे सामनी)।तृतीयसामनी मृत्योर्हर(सी)इति वा । (एवं नामानि। प्रथमस्य शर्वः ऋषिः। द्वितीयतृतीययोः रुद्रः ऋषिः। क्षुरो वा । तृतीयस्य मृत्युः शर्वो वा । देवता च ।।(आ.गा.78-83)।।51।।
(3)अभि त्वा शूर नोनुमः (233)इत्यृचः वसिष्ठः ऋषिः। बृहती छन्दः । इन्द्रो देवता। तत्र कवयोर-(अ?)भित्वेति लोकानां शान्त्याख्यमेकं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.84)।।52।।
(4)कया नश्चित्र आ भुव(169)इत्यृचः वामदेवः ऋषिः। गायत्री छन्दः । इन्द्रो देवता। तत्र होवाहाकयान इति पञ्चनिघनं वामदेव्यम् एकं साम। तस्य वामदेवः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.85)।।53।।
(5)पिबा सोममिन्द्र(398)इत्यृचः वसिष्ठः ऋषिः। त्रिपदा विराट् छन्दः। इन्द्रो देवता । तत्र होइयापिबेति वैराजमेकं साम। तस्य इन्द्रः ऋषिः। वसिष्ठो वा ऋग्वच्छन्दोदेवते।।(आ.गा.86)।।54।।
(6)अग्न आयाहि वीतये(1)इत्यृचः भरद्वाजः ऋषिः। गायत्री छन्दः । अग्निर्देवता। तत्र कप्रियहोइ अग्न आयाहि इत्यग्नेः प्रियमेकं साम। तस्याग्निः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.87)।।55।।
(7)कया नश्चित्र आ भुवत् (169)इत्यृचः पूर्ववद्दृषिच्छिन्दोदेवताः । तत्र वीहा(यवाइ)कयान इत्येकं सर्पसाम। कल्माषं वा । तस्य सर्पाः ऋषयः । ऋग्वच्छन्दोदेवते।।(आ.गा.88)।।56।।
(8)अहमस्मि प्रथमजा (594)इत्येका ऋक् । त्रिष्टुप् छन्दः । अन्नाभिमानिनी देवता। तत्र कसेतूँस्तर अहमस्मीति सेतुषामैकम्। पुरुषगतिर्वा । विशोकं वा । तस्य पुरुषः ऋषिः।ऋग्वच्छन्दोदेवते।।(आ.गा.89)।।57।।
इत्यारण्यकगाने अर्कपर्वणि सप्तमः खण्डः।।7।।
अर्कपर्व समाप्तम्।।
द्वन्द्वपर्व
प्रथमः खण्डः
तत्र द्वन्द्वे सानी एकार्षेये।(1)इन्द्रं नरो न (318)इत्यृचः वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। अत्राष्टौ द्वन्द्वसामानि। कप्राणमायुः -कउत बलमानोहियेति वसिष्ठस्य प्राणापानौ द्वे सामनी। तयोर्वसिष्ठ ऋषिः। क एन्यौ काहो एन्यौ इति इन्द्रस्यैन्यौ द्वे सामनी।तयोरिन्द्रः ऋषिः। कहम्-कइहाहम् इति व्रतपक्षौ द्वे सामनी। तयोरिन्द्राणी ऋषिः। हावीन्द्राम-उवाओवा इति उल्बजरायुणी द्वे सामनी। तयोरिन्द्राणी ऋषिः। तेषामृग्वच्छन्दोदेवते ।।(आ.गा.90-7)।।58।।
(2)उप त्वा जामयो गिरः (13)इत्यृचः । भार्गवः ऋषिः। गायत्री छन्दः। अग्निर्देवता। तत्र होवाइ-ओवा-उपत्वाजाभयोगिर इति उद्भिद्वलभिदी द्वे सामनी। तयोर्बृहस्पतिः ऋषि-। इन्द्रो वा ।उद्भिदः ऋग्वच्छन्दोदेवते।।(आ.गा.98-9)।।59।।
इत्यारण्यकगाने द्वन्द्वपर्वणि प्रथमः खण्डः।।1।।
द्वितीयः खण्डः
(1)बृहदिन्द्राय गायत(258)इत्यृचः नृमेधपुरुमेधसावृषी । बृहती छन्दः। इन्द्रो देवता। तत्र हाउधामयत् बृहदिति भर्गाख्यमेकं साम।
(2)तवेदिन्द्रावमं वसु(270)इत्यृचः वसिष्ठः ऋषिः। तत्र कयशोतवेति यशः साम। तयोः प्रजापतिः ऋषिः। भर्गयशसी द्वे सामनी। तयोर्बृहती छन्दः । इन्द्रो देवता।।(आ.गा.100-1)।।60-1।।
(3)कायमानो वना त्वम्(53)इत्यस्या ऋचः विश्वामित्रः ऋषिः। बृहती छन्दः । वैद्दुतोऽग्निर्देवता। तत्र कायमानो औहोवेति द्वे यामे सामनी। तयोर्यमः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.102-3)।।62।।
(4)प्र साम देववीतये (514)इत्यृचः कश्यपादयः सप्त ऋषयः। बृहती छन्दः । पवमानसोमो देवता। तत्र कप्रसोम-औहीवेति धर्मतनृ द्वे सामनी। तयोर्घर्मः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.ग.104-5)।।63।।
(5)अयं पूषा रयिर्भगः (546)इत्यृचः नहुषो मानवः ऋषिः। अनुष्टुप् छन्दः । पवमानसोमो देवता। तत्र हावयं पूषेति प्रथमद्वितीये । ए अयं पूषेति तृतीयम्। इति त्रीणि सामानि। तेषां प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.106-8)।।64।।
(6)त्वमेतदधारयः (595)इत्यृचः श्रुतकक्षः ऋषिः। तत्र हाउत्वमेतात्-त्वमेतद्धोहाइ-आइत्वमेततात् इति त्रीणि सामानि वर्षाहराणि त्रयाणां वृषाहरिः ऋषिः। गायत्री छन्दः । इन्द्रो देवता।।(आ.गा.1-9-111)।।65।।
इत्यारण्यगाने द्वन्द्वपर्वयणि द्वितीयः खण्डः।।2।।
तृतीयः खण्डः
(1)यच्छक्रासि परावति (264)इत्यृचः रेभः ऋषिः। तत्र हाउयच्छक्रासी-इयइयेति द्यौते सामनी । तयोर्द्युतः ऋषिः। बृहती छन्दः इन्द्रो देवता।।(आ.गा.112-3)।।66।।
(2)अभी नो वाजसातमम्(549)इत्यृचः ऋजिश्वाम्बरीषश्च ऋषिः। तत्र आ भीनव-अभीनव इति तास्पन्द्रे द्वे सामनी। तयोः प्रजापतिः ऋषिः। अनुष्टुप् छन्दः । पवमानसोमो देवता।।(आ.गा.114-5)।।67।।
(3)यदिन्द्र शासो अव्रतम्(298)इत्यृचः वामदेवः ऋषिः। तत्र यदिन्द्रशासोअव्राताम्-यादीन्द्रइति तौरश्रवसे द्वे सामनी। तयोस्तुरश्रवाः ऋषिः। बृहती छन्दः । इन्द्रो देवता।।(आ.गा.116-7)।।68।।
(4)स्वादिष्ठया मदिष्ठया (468)इत्यृचः मधुच्छन्दा ऋषिः।।
(5)अग्नेर्युङ्क्ष्वा हि ये तव(25)इत्यृचः भरद्वाजः ऋषिः।।
तयोर्धेनुपयसी द्वे सामनी। तयोः तुरश्रवाः प्रजापतिः ऋषिः। तयोर्गायत्री छन्दः। प्रथमं पावमानम्। द्वितीयमाग्नेयम्। सोमाग्नी देवते।।(आ.गा.118-9)।।69-70।।
(6)अरूरुचदुषसः (596)इत्यृचः पवित्रः ऋषिः। जगती छन्दः । सोमो देवता। तत्र कस्वर्विश्वम्-कज्योतिर्विश्वम् इति द्वे स्वर्ज्योतिषी सामनी। तयोः प्रजापतिः ऋषिः।ऋग्वच्छन्दोदेवते।।(आ.गा.120-1)।।71।।
इत्यारण्यकगाने द्वन्द्वपर्वणि तृतीयः खण्डः।।3।।
चतुर्थः खण्डः
(1-3)इन्द्रमिद्गाथिनी बृहत् (198)इन्द्र इद्धर्योः सचा (597)इन्द्र वाजेषु नो अव(598)इति तिसृष्वृक्षु एकं साम यण्वम् । ऋचो मधुच्छन्दा ऋषिः। गायत्री छन्दः । इन्द्रो देवता। साम्नः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.122)।।72।।
(4)उच्चा ते जातमन्धसः (567)इति तृचे कउच्चेत्यपत्यमेकं साम। ऋचां (चः!)पूर्वोक्ता ऋषिच्छन्दोदेवताः । साम्नः प्रजापतिः ऋषिः।।(आ.गा.123)।।73।।
(5)विश्वतो दावन्(437)इत्यृचः वामदेवः ऋषिः। द्विपदा विष्टारपङ्क्तिः छन्दः । इन्द्रो देवता। तत्र खविश्वतोदावन्-विश्वतोदावन् इत्येते आयुर्नवस्तोभे द्वे सामनी। तयोः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.124-5)।।।74।।
स्वादोरित्था विषूवतः (409)इत्यृचः गौतमः ऋषिः। पङ्क्तिः छन्दः। इन्द्रो देवता। तत्र एस्वादो रायोवाजीयमेकं साम। तस्य रायोवाज ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.126)।।75।।
(6)इन्द्रो मदाय(411)इत्यृचः गौतमः ऋषिः। पङ्क्तिः छन्दः । इन्द्रो देवता। तत्र इन्द्रोमदेति बार्हद्गिरमेकं साम। तस्य बृहद्गिर ऋषिः। ऋग्वच्छन्दोदेवते।.(आ.गा.127)।।76।।
(7)स्वादोरित्था विषूवतः (409)इत्यृचः उक्ता ऋष्यादयः । तत्र एस्वादोरिति संकृतिनामकमेकं साम। तस्य देवाः ऋषयः । ऋग्वच्छन्दोदेवते। पुनः स्वादोरित्था विषूवतः इत्यत्र एस्वादोः ओवा इति पार्थुरश्मं साम। तस्य पृथुरश्मिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.128-9)।।77।।
(8)उभे यदिन्द्र रोदसी(379)इत्यृचः मरुतो यौवाश्वः ऋषिः। इयमष्टाक्षरषट्पदा महापङ्कितः छन्दः। इन्द्रो देवता। तत्र ऊभाइ इति श्येननामकमेकं साम। तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.130)।।78।।
(9)पुनः स्वादोरित्था विषूवतः (409)इत्यत्र एस्वादोरिति वृषकमेकं साम । तस्य प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.131)।।79।।
इत्यारण्यकगाने द्वन्द्वपर्वणि चतुर्थः खण्डः।।4।।
पञ्चमः खण्डः
(1)इमा नु कं भुवना(452)इत्यस्या ऋचः भौवनः ऋषिः। द्विपदा विष्टारपङ्क्तिः छन्दः। विश्वेदेवाश्च इन्द्रो वा देवता। तत्र भद्रश्रेयसी द्वे सामनी। तयोर्भद्रस्य गौतमः ऋषिः। श्रेयसः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.132-3)।।80।।
(2)अचिक्रदद् वृषा हरिः (497)इत्यृचः मेधातिथिः हरिः। गायत्री छन्दः । सूर्यो देवता। तत्र हाउतन्तुर्-हावोतुरिति द्वे तन्त्वोतुनी सामनी। द्वयोः प्रजापतिः । ऋषिः ऋग्वच्छन्दोदेवते।।(आ.गा.134-5)।।81।।
(3)पिवा सोममिन्द्र (398)इत्यृचः वसिष्ठः ऋषिः। त्रिपदा विराट् छन्दः। इन्द्रो देवता। तत्र कखपिबेति सहोमहसी द्वे सामनी। तयोः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.136-7)।।82।।
(4)प्रव इन्द्राय बृहते(257)इत्यृचः नृमेधपुरुमेधसावृषी ।बृहती छन्दः। इन्द्रो देवता। हाउ प्रवइन्द्राय कविश्वेषामिति द्वे वार्कजम्भे सामनी। तयोर्वार्कजम्भः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.138-9)।।83।।
(5)असावि देवं गोऋजीकमन्धः (313)इत्यृचः वसिष्ठः ऋषिः।त्रिष्टुप् छन्दः। इन्द्रो देवता। तत्र हाहहा ईयो असावि इति द्वे ईष्विश्वज्योतिषी सामनी। तयोः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.140-1)।।84।।
इत्यारण्यकगाने द्वन्द्वपर्वणि पञ्चमः खण्डः।।5।।
षष्ठः खण्डः
(1)महित्रीणाम्(192)इत्यृचः वारुणिः सत्यधृतिः ऋषिः। गायत्री छन्दः। मित्रावरुणौ देवता। तत्र हाउमहि-हाउदिवि-महित्रीणाम् इति द्रविणविष्पर्द्धसी द्वे सामनी । तयोः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।(आ.गा.142-3)।।91+1।।
(2)नाके सुपर्णम(320)इत्यृचः वेनो भार्गवः ऋषिः। त्रिष्टुप् छन्दः । इन्द्रो देवता। तत्र औहो । इयाहाउ नाकेसुपर्णम् इति यामं साम। तस्य यमः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.144)।।93-1।।
(3)सुरुपकृत्नुमूतये(160)इत्यृचः मधुच्छन्दा ऋषिः। गायत्री छन्दः । इन्द्रो देवता। तत्र सुरूकृत्नुमूतये इति माधुच्छन्दसं साम। तस्य मधुच्छन्दा ऋषिः।ऋग्वच्छन्दोदेवते।।(आ.गा.145)।।93+1।।
(4)प्रथश्च यस्य सप्रथश्च (599)इत्यारण्यकऋचः वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। वायुर्देवता।। आत्राह गोरमन्वत (147)इत्यस्या ऋचः गौतमः ऋषिः। गायत्री छन्दः ।इन्द्रो देवता। तयोः कशुक्रम्। नियुत्वेति, कचन्द्रमत्रेति शुक्रचन्द्रे द्वे सामनी । तयोः शुक्रचन्द्रौ प्रजापतिर्वा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.148-9)।।95-6+1।।
इत्यारण्यकगाने द्वन्द्वपर्वणि षष्ठः खण्डः।।6।।
सप्तमः खण्डः
(1)यञ्जायथा अपूर्व्य(601)इत्यारण्यकऋचः नृमेधपुरुमेधासावृषी । अनुष्टुप् छन्दः। मघवानिन्द्रो देवता। तत्र एयञ्जायथाः-एहाउयञ्जायथाः एहाउ औहोयञ्जायथः-हवौहोइयञ्जायथाःइति स्वराणि पञ्च सामानि। तेषां वायुः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.150-4)।।97+1।
(2)यो रयिं वो रयिन्तम्(351)इत्यस्या ऋचः शंयुर्बार्हस्पत्यः ऋषिः। अनुष्टुप् छन्दः । इन्द्रो देवता। तत्र योरयिंवोरायिन्तमा इति षष्ठं स्वरसाम। तस्यापि ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.155)।।98+1।।
(3)अथ पञ्चानुगानं विष्णोः स्वरीयः साम। तत्र हाउहोहाइ-यज्ञो-पृथिवी-दिवोमूर्द्धानम्-इडांयच्छ-इति चत्वारि स्तौभिकानि सामानि।। पुनः यञ्जायथाः(601)इत्यृचि हाउहोहाइ इति स्तोभपूर्वं पञ्चमं स्वरीयः साम। इति पञ्चानुगानं नामैकं साम। पुनः हाउहोहाउ इन्द्रोधेनुरिति स्तौभिकमेकमनुगानम्। एयञ्जायथेति द्वितीयम्। एवं द्वयनुगानमेकं स्वरीयः साम।।हाऊवाक् इति स्तोभपूर्वं तोकम्-अयंसशिङ्ते-येभिर्वियायञ्जायथेति चतुरनुगानम्।।एवं पञ्चानुगानं, द्वयनुगानं, चतुरनुगानं चेति त्रीणि स्वरीयांसि सामानि। तेषां विष्णुः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.156-166)।।99-101+1।।
।।इत्यारण्यकगाने द्वन्द्वपर्वणि सप्तमः खण्डः।।
।।इत्यारण्यकर्क्षु द्वितीयोऽनुवाकः।।
।। द्वन्द्वपर्व समाप्तम्।।
व्रतपर्व
प्रथमः खण्डः
(1)तत्र हुवेवाचाम-हुवाइवाचाम्-इति स्तौभिके वाचोव्रते सामनी। तयोर्वागृषिः । देवताच।।(आ.गा.167-8)।।101+11।।
(2)आ तू न इन्द्र वृत्रहन्(181)इत्यृचो वामदेवः ऋषिः। गायत्री छन्दः। इन्द्रो देवता। तत्र शशस्य कर्षूशयस्य व्रतं साम। तत्र कर्षूशयः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.169)।।102+12।।
(4)इममूषु त्वमस्माकम्(28)इति प्रजापतेः प्रतिष्ठानामकमेकं साम। ऋचः शुनः शेपः ऋषिः। गायत्री छन्दः । अग्निर्देवता।साम्नः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.171)।।103+12।।
(5)ततः कैवाहियेवेति प्रजापतेर्व्याहृतिनामकं स्तौभिकमेकं साम तस्य प्रजापतिः ऋषिः।।(आ.गा.172)।।103+13।।
(6)कानामयिवर्च इत्यत्र मयि वर्चः (602)इत्यारण्यकऋचि परमेष्ठिनः प्राजापत्यस्य व्रतमेकं साम। ऋचो वामदेवः ऋषिः। अनुष्टुप् छन्दः। प्रजापतिर्देवता। साम्नः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.173)।।104+13।।
(7)सोमासोमेति कृष्णस्याङ्गिरसस्य व्रतं स्तौभिकमेकमेकं साम। तस्याङ्गिरसः कृष्णः ऋषिः।।(आ.गा.174)।।104+14।।
(8)सं ते पयांसि (603)इत्यृचः गौतमः ऋषिः। त्रिष्टुप् छन्दः। सोमो देवता। तत्र ओवासंतेयपयांसीति सोमव्रतमेकं साम। तस्य सोमः ऋषिः।ऋग्वच्छन्दोदेवते।।(आ.गा.175)।।105+14।।
(9)तत्र त्वमिमा ओषधीः (604)इत्यृचि कहौवात्वमिमा इति सोमव्रतमेकं साम। ऋचो गौतमः ऋषिः।त्रिष्टुप् छन्दः । सोमो देवता। साम्नोऽपि सोम एव ऋषिः!देवता च ।।(आ.गा.176)।।106+14।।
इत्यारण्यकगाने व्रतपर्वणि प्रथमः खण्डः।।1।।
द्वितीयः खण्डः
(1)इन्द्रो राज (587)इत्यृचः कवाग्ददेन्द्र इति भरद्वाचस्य व्रतमेकं साम। ऋचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः । इन्द्रो देवता। साम्नो भारद्वाजव्रतस्य भरद्वाज ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.177)।।107+14।।
(2)अभी नवन्ते अद्रुहः (550)इत्यृचि कवाजमभीनव इति भरद्वाजिनां व्रतमेकं साम। रेभसूनुः काश्यपः अम्बरीषश्च ऋषिः। साम्नो भरद्वाजिनां व्रतस्य भरद्वाजः ऋषिः। अनुष्टुप्छन्दः। सोमो देवता।। (आ.गा.178)।।108+14।।
(3)अग्निमीडे पुरोहितम्(605)इत्यारण्यकर्चः मधुच्छन्दा ऋषिः। गायत्री छन्दः। अग्निर्देवता । तत्र मनोहावग्निमीड इत्येकं यमव्रतं साम।।(आ.गा.179)।।109+14।।
(4)इन्द्रं नरो न (318)इत्यृचि कहा इन्द्रन्नर इति यमव्रतमेकं साम। ऋचो वसिष्ठः। इन्द्रो देवता। त्रिष्टुप् छन्दः। साम्नो यमः ऋषिः।।(आ.गा.180)।।110+14।।
(5)ततः इमा उ वां दिविष्टय (304)इत्यृचः वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। तत्र होइहाहोइहा इति अश्विनोर्व्रते द्वे सामनी तयोरश्विनावृषी । ऋग्वच्छन्दोदेवते।।(आ.गा.181-2)।।111+14 ।।
(6)ते मन्वत प्रथमं नाम गोनाम् (606)
अग्निमीडे पुरोहितम्(605)इत्यनयोः ऋचोः कतेमन्वतखाग्निमीड इति गवां व्रते द्वे सामनी। ते मन्वतेत्यृचो वामदेवः ऋषिः। त्रिष्टुप् छन्दः । अग्निमीड इत्यृचो मधुच्छन्दा ऋषिः।गायत्री छन्दः। उभयोरग्निर्देवता। साम्नोर्गवाव्रतयोः गावो ऋषयः। ऋग्वच्छन्दोदेवते।।(आ.गा.183-4)।।112-3+14।।
(7)कश्यपस्य स्वर्विदः (361)इतयृचः कप्सुबन्तरा-कऊ कश्यपेति कश्यपव्रते द्वे सामनी। ऋचो वामदेवः ऋषिः। साम्नोश्चानुष्टुप् छन्दः। इन्द्रो देवता।।(आ.गा.185-6)।।114+14।।
इत्यारण्यकगाने व्रतपर्वणि द्वितीयः खण्डः।।2।।
तृतीयः खण्डः
(1)इन्द्रं नरो नेमधिता हवन्ते (318)अभि त्वा शूर नोनुमः(233)इति द्वयोः ऋचोः कइन्द्राम्-कहावभित्वा इति अङ्गिरसां व्रते द्वे सामनी। इन्द्रं नरो न इत्यृचोऽभित्वा शूरेत्यृचश्च वसिष्ठः ऋषिः। इन्द्रं नरो न इति त्रिष्टुप् छन्दः। अभि त्वा शूर इति बृहती छन्दः। उभयोरिन्द्रो देवता। साम्नोरङ्गिरसः ऋषयः। ऋग्वच्छन्दोदेवते।।(आ.गा.187-8)।।115-6+14।।
(2)समन्या यन्ति(607)इत्यृचः कऐरय-कऐरयन्न् इति अपांव्रते द्वे सामनी। आरण्यकर्चः गृत्समदः ऋषिः। त्रिष्टुप् छन्दः। अपांनपादग्निर्देवता । साम्नोरायः ऋषयः। ऋग्वच्छन्दोदेवते।।(आ.गा.189-190)।।117+14।।
(3)उदु त्यं जातवेदसम्(31)इत्यृचः कण्वः ऋषिः। गायत्री छन्दः । सूर्यो देवता।।
तत्र आ प्रागाद्भाद्रा (608)इत्यारण्यकर्चः वामदेवः ऋषिः। अनुष्टुप् छन्दः। रात्रिर्देवता ।।
तयोर्द्वयोः ऋचोः खप्रागन्यत्उदुत्यम्-होइआप्रागात् इत्यहोरात्रयोर्व्रते द्वे सामनी। तयोरहोरात्रे ऋषी । ऋग्वच्छन्दोदेवते।।(आ.गा.191-2)।।118-9+14।।
(4)प्रक्षस्य वृष्णः(609)इत्यृचः भरद्वाजः ऋषिः। जगती छन्दः। वैश्वानरो देवता। तत्र कऊप्रक्षस्य इति विष्णोर्व्रतमेकं साम। तस्य विष्णुः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा।193)।।120+14।।
(5)विश्वेदेवा मम शृण्वन्तु(610)इत्यृचः भर(।)द्वाजो ऋजिश्वा ऋषिः। त्रिष्टुप् छन्दः। विश्वेदेवा देवता। तत्र कइही विश्वेदेवा इति विश्वेषां देवानां व्रतम् एकं साम। तस्य विश्वेदेवा ऋषयः। ऋग्वच्छन्दोदेवते।।(आ.गा.194)।।121+14)।।
(6)उदु ब्रह्मण्यैरत श्रवस्य(330)इत्यृचः वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। कऊउदुब्रह्मा इति वसिष्ठव्रते द्वे सामनी। तयोर्वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता।।(आ.गा.195-6)।।122+14।।
इत्यारण्यकगाने व्रतपर्वणि तृतीयः खण्डः।।3।।
चतुर्थः खण्डः
(1)इन्द्रं नरो न (318)इत्यृचः कविश्वाधनेन्द्रन्नर इति इन्द्रस्य संजयमेकं साम। ऋचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। साम्नः इन्द्रः ऋषि। ऋग्वच्छन्दोदेवते।।(आ.गा.197)।।123+14।।
(2)यशो मा द्यावापृथिवी (611)इत्यारण्यकर्चः कयशोमेति अगस्त्यस्य यमः एकं साम। ऋचो वामदेवः ऋषिः। महापङ्क्तिः छन्दः। द्यावापृथिवी इन्द्रबृहस्पती भगश्च देवताः। साम्नो अगस्यत्यः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.198)।।124+14।।
(3) प्र वो महे महे वृधे भरध्वम्(328)इत्यस्यामृचि चतुरेकारेण प्रजापतेस्त्रिंशत्संमितमेकं साम। ऋचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता । साम्नः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.199)।।125+14।।
(4)इन्द्रं नरो न (318)इत्यस्यामृचि पञ्चैकारेण इन्द्रन्नरो इति प्रजापतेश्चतुस्त्रिंशत्संमितमेकं साम। ऋचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः । इन्द्रो देवता। साम्नः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.200)।।126+14।।
(5)अभि त्वा शूर नोनुमः (133)इत्यस्यामृचि क हहावभित्वेति जमदग्नेर्व्रतमेकं साम। ऋचो वसिष्ठः ऋषिः। त्रिष्टुपः छन्दः । इन्द्रो देवता। साम्नः जमदग्निः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.201)।।127+14।।
(6)इन्द्रं नरो न (318)इत्यस्यामृचि कोहेन्द्रन्नरो इति युग्यं च दशस्तोभमित्येकं साम। ऋचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। साम्नः जमदग्निः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.202)।।128+14।।
(8)इन्द्रस्य नु वीर्याणि (612)इत्यारण्यकर्चि वृत्रहत्य(।यहोइ)इन्द्रस्य नू इति इन्द्रस्य वार्त्रघ्नमेकं साम। ऋचो हिरण्यस्तूपः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। साम्नः इन्द्रः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.203)।।129+14।।
(9)इन्द्रं नरो न (318()इत्यस्यामृचि हिम् काइहीन्द्रन्नरो इति राजनरौहिणे द्वे सामनी। ऋचो वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः । इन्द्रो देवता। साम्नोरिन्द्रः ऋषिः । ऋग्वच्छन्दोदेवते।।(आ.गा.205-6)।।131+14।।
इत्यारण्यकगाने व्रतपर्वणि चतुर्थः खण्डः।।4।।
पञ्चमः खण्डः
(1)अग्निरस्मि जन्मना (613), पात्यग्निर्विपो अग्रम्, (614)इन्द्रं नरो न (318),भ्राजन्त्यग्ने (615)इत्येतासु चतसृषु ऋक्षु कऊखा-अग्निरस्मि-कपात्यग्निः-इयाइन्द्रन्नरो-भ्राजा औहो इति इलान्दं (पञ्चानुगानम्)एकं साम। आद्यं स्तौभिकमनुगानम्। ऋक्षु चत्वार्यनुगानानि। प्रथमद्वितीययोः ऋचोः विश्वामित्रः ऋषिः। त्रिष्टुप् छन्दः। पूर्वस्स्याः सर्वात्मा परमात्मा देवता। द्वितीयाया अग्निर्देवता। तृतीयायास्त्रिष्टुप् छन्दः। भ्राजन्त्यग्न इत्यस्याः वामदेवः ऋषिः। पङ्क्तिः छन्दः । अग्निरेव देवता। इलान्दस्य साम्नः अग्निः ऋषिः। ऋग्वच्छन्दोदेवते।.(आ.गा.207-211)।।132-5+14।।
(2)ततः अधिपताइ स्तोभपूर्वकं मन्युना-नमउत्तति-नमोन्नाय इति त्रीणि देवव्रतानि स्तौभिकानि सामानि। पूर्वे रौद्रे । वैश्वदेवं तृतीयम्। वैश्वदेवे वा पूर्वे । रौद्रं दृतीयम्। इति ऋषयः। ऋगभावान्न च्छन्दः। त्रयाणां रुद्रो देवता।।(आ.गा.212-4)।।135+16-8।।
(3)वसन्त इन्नु रन्त्यः (616)इत्यस्यामृचि वासन्तः इति ऋतुष्ठायज्ञायज्ञीयमेकम् साम। ऋचः वामदेवः ऋषिः। पङ्क्तिः छन्दः। ऋतवो देवताः। साम्नः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.215)।।136+18।।
(4)अभि त्वा शूर नोनुमः (233)इत्यस्यामृचि कहुबभित्वेति अजितस्य जितिनामकमेकं साम। ऋचो वसिष्ठः ऋषिः। बृहती छन्दः । इन्द्रो देवता। साम्नः प्रजापतिः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.216)।।137+18।।
(5)सं ते पयांसि (603)इत्यस्याम् ईसन्तेपया इति सोमव्रताख्यमेकं साम। ऋचो गौतमः ऋषिः। त्रिष्टुप् छन्दः। सोमो देवता । साम्नः सोमः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.217)।।138+18।।
(6)ततः अक्रन्त्समुद्रः (529)इत्यस्यामृचि आयाउ अक्रान् इति दीर्घतमसो व्रतमेकं साम। ऋचः पराशरः ऋषिः। त्रिष्टुप् छन्दः। सोमो देवता। साम्नः दीर्घतमा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.218)।।139+18।।
इत्यारण्यकगाने व्रतपर्वणि पञ्चमः खण्डः।।5।।
षष्ठः खण्डः
(1)ततः सहस्रशीर्षाः पुरुषः (617),त्रिपादूर्ध्वम् उदैत् (618), पुरुष एवेदं सर्वम्(619), तावानस्य महिमा(620),ततो विराडजायत(621), कया नश्चित्र आ भुवत (169)इत्येतासु षडृक्षु उहुवाहाउ सहस्र-उहवौत्रिपात्-इयौहोपुरुष-कतावानस्य-खततोविराड् इति पञ्चानुगानं पुरुषव्रताख्यमेकं साम। पञ्चर्चां साध्यो नारायणः ऋषिः। अनुष्टुप् छन्दः। पुरुषः पुरुषोत्तमो देवता। साम्नः पुरुषः एव ऋषिः. ऋग्वच्छन्दोदेवते।।(आ.गा.219-23)।।140-5+18।।
(2)कया नश्चित्र आ भुवत्(169)इत्यस्यां कास्मिन् कयान इति एकानुगानं पुरुषव्रतमेकं(!ताख्यममरं )साम। ऋचः वामदेवः ऋषिः। गायत्री छन्दः । विश्वेदेवा देवताः। साम्नः पुरुषव्रतस्य पुरुषः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.224)।।146+18।।
(3)मन्ये वां द्यावापृथिवी(622)इत्यस्याम्, कयानश्चित्र आ भुवत्(169)इत्यस्याम्, पुनः मन्ये वाम्(622)इत्यस्यां च हुवाइमन्ये-वाक्कयानः -प्रतिष्ठासिमन्य इति त्रीणि लोकानां व्रतानि सामानि। मन्येवामित्यृचः वामदेवः ऋषिः। कया नश्चित्र आ भुवदित्यस्याश्च। उपरिष्टात् ज्योतिः । त्रिष्टुप् गायत्री चेति च्छन्दसी। द्यावापृथिव्यौ देवते। साम्नां द्यौरन्तरिक्षं पृथिवीति क्रमेण ऋषयः। ऋग्वच्छन्दोदेवते।।(आ.गा.225-7)।।147+18।।
(4)हरी त इन्द्र श्मश्रूणि (623)इत्यस्यामृचि ऋश्यस्य सामनामकमेकं साम। ऋचो वामदेवः ऋषिः। अनुष्टुप् छन्दः। इन्द्रो देवता। साम्नः ऋश्यः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.228)।।150+18।।
इमे द्वे ऋचौ अंहोमुच इति वदन्ति।।
इत्यारण्यकगाने व्रतपर्वणि षष्ठः खण्डः।।6।।
सप्तमः खण्डः
(1)यद्वर्चौ हिरण्यस्य (624)इत्स्यामृचि काहमन्नम्-काह सहः-काहंवर्चः -काहंतेजः-कदिशम्-कमनः-कवयः करुपम-हिहियऊ-कप्रथे इति दशानुगानं दिशांव्रतमेकं साम। ऋचः वामदेवः ऋषिः। अनुष्टुप् छन्दः। आत्मा देवता। साम्नो दशानुगानानां दिशो ऋषयः। ऋग्वच्छन्दोदेवते।।(आ.गा.229-38)।।151+18।।
इत्यारण्यकगाने व्रतपर्वणि सप्तमः खण्डः।।7।।
अष्टमः खण्डः
(1)ततः कश्यपव्रतं नाम दशानुगानमेकं साम। तेषा दशानुगानानां कश्यपः ऋषिः। इत्येकः
पक्षः।।
अथवा-क हाइऊ यस्येदमिति प्रथमानुगानम्। तच्च यस्येदमारजोयुजः (588)इत्यृचि उत्पन्नं कश्यपव्रतमेकं साम। तस्याः वामदेवः ऋषिः। गायत्री छन्दः। इन्द्रो देवता। साम्नः कश्यपः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.239)।।152+18।।
(2)काहो इति स्तौभिकं कश्यपग्रीवाख्यं द्वितीयमनुगानम्। तस्य कश्यपः ऋषिः।।(आ.गा.240)।।152 +19।।
(3)कफालिन्द्रन्नर इति इन्द्रन्नरो न (318)इत्यस्यामृचि तृतीयमनुगानं कश्यपव्रतम्। तस्यापि कश्यपः ऋषिः। ऋचो वसिष्ठः ऋषिः। इन्द्रो देवता। साम्नः कश्यपः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.241)।।153+19।।
(4)ततः यो नो वनुष्यन्(336)इत्यस्यामृचि कहाउहौ हौ हौ हौ हौ योनोवनुष्यन् इति चतुर्थमनुगानं कश्यव्रतम्। ऋचो वामदेवः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता। साम्नः कश्यपः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.242)।।154+19।।
(5)केमाः इति प्रजापतेर्हृदयं पञ्चमं स्तौभिकमनुगानं कश्यपव्रतं पञ्चमम्। तस्य कश्यपः ऋषिः। प्रजापतिर्देवता । ऋगभवान्नच्छन्दः।। (आ.गा.243)।।154+20।।
(6)ततः केडा इति षष्ठं स्तौभिकमनुगानम् इडानां संक्षारनामकम्। तस्य प्रजापतिः ऋषिः।।(आ.गा.244)।।154+21।।
कश्यपव्रतस्य कश्यपः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.245)।।155+21।।
(8)ततः कतेमन्व-खसहर्षभा इति गवा व्रते द्वे अनुगाने ते मन्वत(606)इत्यृचः वामदेवः ऋषिः। त्रिष्टुप् छन्दः । अग्निर्देवता।।
(9)सहर्षभाः (626)इत्यृचो वामदेवः ऋषिः। अनुष्टुप् छन्दः। गावो देवता।।
साम्नोर्गवां व्रतयोः गाव एव ऋषिः। देवता च । ऋग्वच्छन्दोदेवते।।(आ.गा.246-7)।।156-7+21।।
(10)ततः अग्निरस्मि जन्मना जातवेदा(613)इत्यृचि कश्यपपुच्छनामकं दशममनुगानम्। ऋचो विश्वामित्रः ऋषिः। त्रिष्टुप् छन्दः। अग्निर्देवता। साम्नः कश्यपः ऋषिः. ऋग्वच्छन्दोदेवते।।(आ.गा.248)।।158+21।।
(11)ततः (इती)-स्वयंस्कुन्वाइ इति द्वै स्तौभिके निह्नवाभिनिह्नवनामनी अनडुद्रतनामनी वा द्वै स्तौभिके अनुगाने । तयोः प्रजापतिः ऋषिः। ऋगभावान्नच्छन्दः।।(आ.गा.249-50)।।158+22-3।।
इत्यारण्यकगाने व्रतपर्वणि अष्टमः खण्डः।।8।।
।। व्रतपर्व समाप्तम्।।
अथ शुक्रियपर्व
प्रथमः खण्डः
(1)तत्र अग्निर्मूर्द्धा (27)इत्यृचि कभ्राजा अग्नेर्मूर्द्धा इत्यग्नेर्व्रतं प्रथमं साम । ऋचो विरूपः ऋषिः। गायत्री छन्दः । अग्निर्देवता। साम्नः अग्निः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.251)।।159+23।।
(2)ततः अया रुचा हरिण्या (463)इत्यस्यामृचि भ्राजा अयारुचा इति वायोर्व्रतं द्वितीयं साम। ऋचः परूच्छेपः ऋषिः। अत्यष्टिः छन्दः। पवमानसोमो देवता। साम्नः वायुः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.252)।।160+23।।
(3)प्रक्षस्य वृष्णो (609)इत्यृचि कौ हा वयोहो प्रक्षस्य इति महावैश्वानरव्रतं साम । ऋचो भारद्वाजः ऋषिः। जगती छन्दः। वैश्वानरो देवता। साम्नः वैश्वानरः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.254)।।162+23।।
(4)अथ कायमानो वना त्वम्(53)इत्यृचि ओम्कायमान इति महावैश्वानरव्रतं साम। ऋचो विश्वामित्रः ऋषिः। बृहती छन्दः। वैद्युतोऽग्निर्देवता। साम्नो वैश्वानरः ऋषिः। ऋग्वच्छनदोदेवते।।(आ.गा.254)।।162+23।।
(5)अग्न आयूंषि (627)इत्यृचि सूर्यस्य भ्राजं साम। ऋचः शतं वैखानसाः ऋषयः। गायत्री छन्दः। अग्निः पवमानो देवता। साम्नः सूर्यः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.255)।।163+23।।
(6)अग्निर्मूर्द्धा (27)इत्यत्र सूर्यस्याभ्राजं साम। ऋचो विरूपः ऋषिः। गायत्री छन्दः। अग्निर्देवता। साम्नः सूर्यः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.156)।।164+23।।
(7)विभ्राड् बृहत्पिबतु सोम्यम्(628)इत्यृचः (0 चि!),
(8)प्रक्षस्य वृष्णो (609)इत्यृचि च हाहाउ विभ्राड्- कोहा प्रक्षस्य इति विकर्णभासे द्वे सामनी। (विभ्राडिति)ऋचः सूर्यः ऋषिः। जगती छन्दः। सूर्यो देवता। प्रक्षस्य वृष्णो इत्यृचो भरद्वाजः ऋषिः। जगती छन्दः। वैश्वानरो देवता। साम्नोर्विकर्णभासयोर्वायुर्मृत्युर्वा ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.257-8)।।165-6+23।।
(9)ततो महादिवाकीर्त्यमेकं साम विभ्राट बृहति (628)इत्यृचि । तच्च दशानुगानम्। आदितः षट् स्तौभिकान्युगानानि। कायुः एवाहि-वयोमनोवयः प्राणाः -वयोमनाः होइहौवेति ऊर्क्-धर्मविधर्मेति (च)षडनुगानानि स्तौभिकानि शिरोग्रीवा-स्कन्ध-कीकस -पुरीष-पक्ष-विभ्राड्(628)इत्यृचः सूर्यः ऋषिः। जगती छन्दः। सूर्यो देवता। साम्नो महादिवाकीर्त्यस्य इन्द्रः ऋषिः। जगती छन्दः। सूर्यो देवता।।(आ.गा.259-65)।।167+24-9।।
(10)उपरि भूमिः द्यौः-कज्योतिः इति एतानि त्रीण्यनुगानानि ऊरुद्वयपुच्छसंज्ञकानि स्तौभिकानि। एवं दशानुगानं महादिवाकीर्त्यम्। तदेतत् सुपर्णमित्याचक्षते।।(आ.गा.266-68)।।167+30-31।।।
(11)अथ आदित्यहृदयाख्यं साम। चित्रं देवानाम् (629)इत्याद्यासु एकादशस्वृक्षु आदित्यव्रताख्यम् एकविंशत्यनुगानं द्वाविंशत्यनुगानं वा एकं साम । स्तौभिकानुगानैः सह एकविंशत्यनुगानानामादित्यव्रतमिति समुदायनाम। तत्र प्रथमस्य सन्त्वा भूतान्यैरयन् इति स्तौभिकस्यानुगानस्य वैश्वदेवाः समैरयाः संशनानि भूतवत् इति विशेषनाम(आ.गा.269)।।167+33।।
(12)ततः चित्रं देवानाम्(629)अन्तश्चरति(631)इति द्वयोः ऋचोः उवी उवीचित्रम् अन्तश्चरति इति द्वितीयमनुगानम्। चित्रं देवानाम् इत्यृचः कुत्सः ऋषिः। त्रिष्टुप् छन्दः । सूर्यो देवता। अन्तश्चरति रोचना इत्यृचः सर्पराजानः ऋषयः । गायत्री छन्दः। सूर्यो देवता। उभयोः ऋचोऋः आदित्यव्रताख्यं द्वितायमनुगान्म। साम्नः आदित्यः ऋषिः। ऋग्वच्न्दोदेवते।।(आ.गा.270)।।169-70+32।।।
इत्यारण्यकगाने शुक्रियपर्वणि प्रथमः खण्डः।।
द्वितीयः खण्डः
(1)आयं गौः पृश्निरक्रमीत् (630)इत्यस्यां सर्पराज्ञ्यामृचि उवि उवि आयङ्गौरिति गन्धर्वाप्सरसामानन्दप्रतिनन्दौ पक्षाविति द्वे सामनी तृतीयचतुर्थे अनुगाने । ऋचः सर्पराजानः ऋषयः। गयात्री छन्दः। सूर्यो देवता। साम्नः सूर्य एव ऋषिः। देवता च । देवता च । ऋग्वच्छन्दः ।।(आ.गा.271-2)।।171+32।।
(2)उदुत्यम्(31) चित्रम्(639)इत्येतयोः ऋचोः कभ्राजा उदुत्यञ्जा चित्रम् इति सूर्यातीषङ्गनामकं पञ्चममनुगानम्। उदुत्यमित्यृचः प्रस्कण्वः ऋषिः। चित्रं देवानाम् इत्यृचः कुत्सः ऋषिः। उदुत्यमित्यृचो गायत्री छन्दः। चित्रं देवानाम् इत्यृचस्त्रिष्टुप् छन्दः।उभयोः सूर्यो देवता। साम्नः सूर्यः ऋषिः। ऋग्वच्छन्दोदेवते।.(आ.गा.273)।।172-3+32।।
(3)कसहोभ्राजेति इन्द्रस्य सधस्थनामकम् एकं स्तौभिकं षष्ठमनुगानम् । तस्येन्द्रः ऋषिः। ऋगभावान्न च्छन्दः । सूर्यो देवता ।।(आ.गा.274)।।173+33।।
(4)अन्तश्चरति रोचना (631)इत्यस्यामृचि औहो औहो वा अन्तरिति भूतिकं नाम सप्तममनुगानम्। अन्तश्चरति रोचनेत्यृक् सर्पराज्ञी। मरुतां भूतेः साम्नो मरुत एव ऋषयः।।(आ.गा.274+33।।
(5)आयं गौः (630)इत्यस्यामृचि खेन्दुरायंगौरित्येकं साम अष्टममनुगानम्।।
अन्तश्चरति रोचना (631)इत्यत्र खभूतमन्तरिति एकं साम नवममनुगानम्।।
त्रिंशद्धाम् विराजति (632)इत्यत्र खायस्त्रिंशद्धामेति एकं साम दशममनुगानम्।।
तिसृणामृचां सर्पराजानः ऋषयः। साम्नां त्रयाणां सर्पराजानः, सर्पो वा अर्बुदनामकः सर्पो वा ऋषयः। ऋचां गायत्री छन्दः । सूर्यो देवता साम्नां ऋग्वच्छन्दोदेवते।।(आ.गा.276-8)।।175-7+33।।
(6)ततः उद्यँल्लोकानरोचयः इति धर्मरोचननामकमेकादशानुगानं स्तौभिकम्। तस्य धर्मः ऋषिः। सूर्यो देवता। ऋगभावान्न च्छन्दः । अनुष्टुप् च्छन्दः इति केचित् ।।(आ.गा.271)।।179+34।।
(7)षडैन्द्राणि परिधिनामानि । क भ्राजाउदुत्यम्-कशुक्राउदुत्यम् इति द्वे । उदुत्यं जातवेदसम्(31)अपत्ये तायवो यथा (633)अद्दृश्यन्नस्य केतवः (634)इति तिसृषु ऋक्षु द्वे परिधिनामके सामनी द्वादशत्रयोदशे अनुगाने। उदुत्यं जातवेदसम् इत्यस्याः प्रस्कण्वः ऋषिः। अपत्ये तायवो यथा अद्दृश्यन्नस्येत्यृचोः प्रस्कण्वः ऋषिः। तिसृणां गायत्री छन्दः । सूर्यो देवता। साम्नोरिन्द्रः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.280-1)।।178-80+34।।
(8)ततः तरणिर्विश्वदर्शतः (635)प्रत्यङ्ग देवानाम्(636)येना पावक चक्षसा (637)इत्यासु तिसृषु ऋक्षु कभूतातरणिर्-कतेजातरणिरिति द्वे परिधिसामनी चतुर्दशपञ्चदशे अनुगाने। तिसृणामृचां प्रस्कण्वः ऋषिः। गायत्री छन्दः । सूर्यो देवता। साम्नोरिन्द्रः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.282-3)।।181-3+34।।
(9)उद्द्यामेषि रजः (638), अयुक्त सप्तशुन्ध्युवः (639), सप्त त्वा हरितो रथे(640)इति तिसृषु ऋक्षु कसत्याउद्द्यामेषि-कऋताउद्द्यामेषि इति द्वे परिधिसामनी षोडशसप्तदशे अनुगाने । ऋचां प्रस्कण्वः ऋषिः। गायत्री छन्दः। सूर्यो देवता। साम्नोरिन्द्रः ऋषिः। ऋग्वच्छन्दोदेवते।।(आ.गा.284-5)।।184-6+34।।
(10)ततः वाङ्मनः प्राण इति स्तौभिकं पित्र्यमित्यन्तमेकानुगानमष्टादशकम्। तस्य ऋतवो ऋषयः। सूर्यो देवता।।(आ.गा.286)।।186+35।।
(11)ततः अन्तश्चरति रोचना (631)इत्यस्यामृचि अन्तर्देवेषुरोचस इति स्तोभपूर्वकमेकमेकोनविंशमनुगानम्। अन्तश्चरति रोचनेत्यृक् सर्पराज्ञी। ऋचः सर्पराजानः ऋषयः । साम्नःपितरो ऋषयः। गायत्री छन्दः ऋग्वद्येवता ।। (आ.गा.287)।।187+35।।
वाङ्मनः इत्यारभ्य देवादिवाज्योतिरित्यन्तम् एकं सामेति एकविंशत्यनुगानमिति शाण्डिलीपुत्रपक्षे एकोनविंशमनुगानम्। द्वाविंशतिरिति वार्षायणीपुत्र इति पक्षे तु अष्टादशमेकोनोविंशं चेति द्वे अनुगाने।।
(12)ततः उदुत्यम्(31)चित्रम्(629)इत्येतयोः ऋचोः कभ्राजाउदुत्यञ्जा-चित्रमिति एकम् एकविंशमनुगानम्। हाउ हाउ हाउ भ्राजा भ्राजा इति द्वितीयोऽतीषङ्गः तन्मित्रावरुणयोः श्रोत्रमित्याचक्षते । (उदुत्यमित्यृचः प्रस्कण्वः ऋषिः। गायत्री छन्दः। अग्निर्देवता। चित्रमित्यृचः कुत्स आङ्गिरसः ऋषिः। त्रिष्टुप् छन्दः । सूर्यो देवता। सामनः मित्रावरुणौ ऋषीः। ऋगवचन्छन्दो देवते)ततः (उदुत्यम्(31)इन्द्रन्नरः (318)इत्येतयोः ऋचोः) कभ्राजा उदुत्यञ्जा-इन्द्रन्नर (इति )तृतीयोऽतीषङ्गः द्वाविंशमनुगानम्। तत् इन्द्रस्य शिर इति आचक्षते। उदुत्यमित्यृचः प्रस्कण्वः काण्वः ऋषिः। गायत्री छन्दः । इन्द्रो देवता। इन्द्रं नर इत्यृचः वसिष्ठः ऋषिः। त्रिष्टुप् छन्दः। इन्द्रो देवता । साम्नः इन्द्रः ऋषिः। (सूर्यो)देवता।।(आ.गा.288-9)।।188-9+35।।
(13)ततः उन्नयामि इत्येकम स्तौभिकमुगानम्। आदित्यस्योन्नयं तत् आदित्यमित्याचक्षते।साम्नः आदित्यः ऋषिः। देवता च ।।(आ.गा.290)।।189+36।।
इत्यारण्यकगाने शुक्रियपर्वणि तृतीयः खण्डः।।3।।
।।शुक्रियं पर्व समाप्तम्।।
अथ शक्कर्याख्यं पर्व
(परिशिष्टम्)
विदा मघवन्नित्येकं साम। विदा मघवन् विदा (641)इत्येका ऋक् । विदा राये सुवीर्यम्(644)इत्युत्तरा । इन्द्रं धनस्य सातये (647) इत्युत्तमा । तासु एविदामघवन्-एविदारये---(ए)इन्द्रन्धनस्य इत्येकं साम। तदेव सिमाः शक्कर्यः मड्डिण्याः महानाम्न्यः इति वयवहरन्ति । ऋचामिन्द्रः प्रजापतिः विष्णुर्विश्वामित्रो वा ऋषिः। शक्करी छन्दः। इन्द्रो देवता। शाक्वरैरशाक्वरैश्च पादैश्च व्यतिषक्ताः एताः शक्वर्यः पञ्चपुरीषपादैश्च युक्ताः। साम्नामिन्द्रः ऋषिः। ऋग्वच्छन्दोदेवते। पुरीषपदानि सर्वाण्यैन्द्राण्येव। तत्तन्नियामकत्वेन सर्वदेवानां बलरूपेण इन्द्रः सबोध्यत इति ।।
शक्वर्याख्यं पर्व समाप्तम्।।
इति श्रीमद्भट्टभास्कराध्वरीन्द्रविरचितः सामवेदार्षेयदीपः समाप्तः।।