सारमञ्जरी (आशुबोधविद्याभूषणविरचितव्याख्यासहिता)
सारमञ्जरी (आशुबोधविद्याभूषणविरचितव्याख्यासहिता) [[लेखकः :|]] |
अथ श्री आशुबोधविद्याभूषणविरचिता सारमञ्जरीव्याख्या
नत्वादावरविन्दसुन्दररुचिं वागीश्वरीं सिद्धये।
शब्दानामनुशासनं सरलया वाचा स्फुटं दर्शयन्॥
व्याचष्टे जयकृष्णसूरिरचितां सारादिमां मञ्जरीम्।
विद्याभूषणशेषनाममहितो विप्राशुबोध: सुधी:॥
इह खलु व्याकरणं नाम शब्दानुशासनम् “अथ शब्दानुशासनम्” इति भाष्योक्तेः। किञ्च “एक: शब्द: सुप्रयुक्त: सम्यग्ज्ञात: स्वर्गे लोके कामधुक् भवति” इत्यादिवेदवाक्येभ्यश्च सुप्रतीतमेव शिष्टशब्दानामुपादेयत्वम्। तत्र किल शब्दप्रयोगावबोधे वैयाकारणसारांशस्यैव प्रतिनियन्तृत्वात् सुकुमारमतीनामशेषतो वैयाकरणसिद्धान्तबुभुत्सूनां सुखावगमाय सारमञ्जर्य्याख्यं ग्रन्थं चिकीर्षुस्त-र्कालङ्कारो निर्विघ्नेनारिप्सितपरिसमाप्तिकामोऽविगीतशिष्टाचारविषयं विघ्नविनाशक-विनायकप्रणामरूपं मङ्गलमाचरन्नाह प्रणम्येति। विघ्नविनाशकरं परं हेरम्बचरण-द्वन्द्वं प्रणम्य, तर्कालङ्कारोपाधिकेन जयकृष्णशर्म्मणा, इयं वक्ष्यमाणा सारमञ्जरी, साराणां व्याकरणशास्त्रस्येति शेष:, मञ्जरीव यथोक्ता क्रियते।
तत्रादौ सर्वनियामकतया कालमेव निरूपयति - तत्रेति। तत्र निरूपणीयेषु कालस्यापरिच्छिन्नस्यापि तद्वृत्त्यतीतानामतीतादिवस्तुभेदेन त्रित्वं सङ्गच्छते।
वर्त्तमानेत्यादि। वर्त्तमानध्वंसप्रतियोगित्वम्, आरब्धपरिसमाप्तत्वमित्यर्थ: स किलातीत: कालोऽद्यतनानद्यतनभेदेन द्विविध:। अतीताया रात्रे: पश्चार्धेण आगमिन्या: पूर्वार्द्धेण सहितो य: काल: तत्र वृत्तिध्वंसप्रतियोगी अद्यतनातीत:, तदतिरिक्त: अनद्यतन इति।
वर्त्तमानेति। वर्त्तमानकालोत्तरकालोत्पत्तिकत्वम् इत्यर्थ:।
स्वावच्छिन्नेत्यादि। प्रयोगसमानकालीनत्वम्, आरब्धापरिसमाप्तत्वं वा तदर्थ:। येन वस्तुना य: कालोऽवच्छिद्यते स तस्य वर्त्तमान:, यथा इदानीं घटो वर्त्तत इत्यत्र घटो वर्त्तमान इति। स पुनश्चतुर्धा भिद्यते। तथाहि- “प्रवृत्तोपरतश्चैव वृत्ताविरत एव च। नित्यप्रवृत्त: सामीप्य: वर्त्तमानश्चतुर्विध:”॥ इति क्रमेणैतेषामुदाहरणं यथा - मांसं न खादति, आदौ मांसभोजनप्रवृत्त: परतः उपरत: इत्यवगम:। इह कुमारा: क्रीडन्ति, तदानीन्तनक्रीडाभावेऽपि पूर्वक्रीडानां बुद्धौ वर्त्तमानत्वात्। पर्वतास्तिष्ठन्ति नित्यप्रवृत्तत्वात्, किञ्च पर्वतानां स्थितत्वेन वर्त्तमानत्वेऽपि भूतभविष्यत्कालाभ्यां सम्बन्धविवक्षया, पर्वतास्तस्थु: स्थास्यन्ति इत्यपि स्यात्। सामीप्यश्च पुनर्द्विविध: भूतसामीप्य: भविष्यत्सामीप्यश्च। भूतसामीप्यो यथा - कदागतोऽसीति प्रश्ने अध्वखेदादेर्वर्त्तमानत्वात् एषोऽहमागच्छामीति आगतोऽपि वदति, भविष्यत्सामीप्ये यथा - कदा गमिष्यसि इति प्रश्ने एषोऽहं गच्छामीति गमने क्रियमाणोद्यमो वदतीति।
अथेत्यादि। अथ कालत्रयनिरूपणानन्तरं कालविशेषवाचकलडादीनां शक्तिं निरूपयति। लकारा: खलु दशविधा:। लट् लिट् लुट् लृट् लेट् लोट् चेति टकारेत: षट्। लङ् लिङ् लुङ् लृङ् इति ङितश्चत्वार: इति। तर्कालङ्कारेणैतेषां विशेषत: प्रयोगस्थानानि उदाह्रियन्ते विशदम्। अत्राह हरि: - “वर्त्तमाने परोक्षे श्वोभाविन्यर्थे भविष्यति। विध्यादौप्रार्थनादौ च क्रमाज्ज्ञेया लडादयः।।1 ह्यो भूतेप्रेरणादौ च भूतमात्रे लडादय:। सत्यां क्रियातिपत्तौ च भूते भाविनि लृङ् स्मृत:।” 2 इति।
विधिरिति। विधिर्नाम प्रेषणमिति भाष्यकार:। भृत्यादे: कस्याञ्चित् क्रियायां नियोजनमिति च तदर्थ:। यथा - अग्निहोत्रं जुहुयात् स्वर्गकाम इति।
लिट इत्यादि। लिटोऽनद्यतन भूतत्वं पारोक्ष्यञ्चार्थ:। पारोक्ष्यन्तु चक्षुरादीन्द्रिया-णामविषयत्वं साक्षात्कारभिन्नविषयत्वमिति यावत्। तेन हि साक्षात्कृतव्यापारे न लिट् प्रयोग:। ननु अहं पपाचेत्यादौ उत्तमपुरुषे कथं लिट्प्रवृत्ति: इह खलु प्राचीनैरुक्तं चित्तव्यासङ्गादिति। तत: साक्षात्करोमीत्यादि ज्ञानाविषयत्वमिति फलितार्थ:।
लृङ् इति। लृङो भूतत्वं भविष्यत्वं जन्यजनकत्वञ्चार्थ: “लिङ् निमित्ते लृङ् क्रियातिपत्तौ” (पा 3.3.139) इति सूत्रात्।
यङ इत्यादि। क्रियाया: समभिहार: पौन: पुन्यं भृशार्थो वा। तत्रायं विशेष: प्रधानक्रियाणां पौन:पुन्यं, प्रधानक्रियोपकारकाणाम् अधिश्रयणादीनां भृशता, तथाहि - ‘पापच्यते’ इत्यत्र पुन: पुन: पचतीत्येव सङ्गच्छते, न पुनर्भृशं पचतीति प्रधानक्रियास्वरूपत्वात्। जाज्वल्यते इत्यत्र च भृशं ज्वलतीत्येव युज्यते, न खलु पुन: पुनर्ज्वलतीति, प्रधानक्रियोपकारकत्वात्।
अथेति। श्रोत्रग्रहणो योऽर्थ: स शब्द:। असौ पुनर्द्विविध: ध्वन्यात्मक: वर्णात्मकश्च। तत्राद्य: भेर्य्यादौ प्रसिद्ध:, अपर: संस्कृतादिभाषास्वरूप:। इह किल संस्कृतभाषारूपशब्दस्य अयं बोध: अवगम: अन्वयावगमप्रकार: इत्यर्थ: शाब्दबोध इति।
वाक्यार्थ इति। वाक्यं हि नाम कारकान्वितक्रियाप्राधान्यैकविशेष्यक-बोधसाधनपदकदम्बकम्। उक्तञ्च वाक्यपदीये- “साकाङ्क्षावयवं भेदे परानाकाङ्क्ष-शब्दकम्। क्रियाप्रधानमेकार्थं सगुणं वाक्यमुच्यते”॥ (वाक्यपदीयम् 2.3) इति। तथाभूतस्य वाक्यस्यार्थ एव तात्पय्यार्थ:। न च वक्तुरिष्टं तात्पर्यमिति लक्षणम्, अर्थज्ञानानवच्छिन्नपुरुषेणोच्चारितस्य वेदादे:, शुकादिपठितगाथादीनाञ्चार्थावगत्य-सम्भवात्। अत एवोक्तं तत्प्रतीतिजननयोग्यत्वं तात्पर्य्यमिति। न तदपि सम्यक्, तथात्वे भोजनप्रकरणे सैन्धवमानयेत्युपदिष्टस्य सैन्धवपदात् लवणाश्वोभयार्थ-प्रतीतियोग्यत्वे युगपदुभयानयनप्रसङ्ग:। स चानिष्ट:। कथन्तर्हि निष्पत्तिरित्थम्? तदितरप्रतीतिजननेच्छयानुच्चरितत्वे सति तत्प्रतीतिजननयोग्यत्वं तात्पर्य्यमिति।
अथेति। सकर्म्मका: खलु द्विविधा:, एककर्म्मका:, द्विकर्म्मकाश्च। एक-कर्म्मान्वितस्वार्थबोधका: गम्यादय: एककर्म्मका:। द्विकर्म्मका: खलु द्विविधा:, द्विकर्म्मकान्वितैकव्यापारार्थका: द्विकर्म्मान्वितद्विव्यापारार्थकाश्चेति। तत्राद्या: दुह्यादय:, न च ते सिद्धान्ते द्विव्यापारार्थका:, तथात्वे ईप्सिततमाभ्यामेव द्वाभ्यां कर्म्मभ्यां व्यापारद्वयेऽन्वयसम्भवेन द्वितीयाद्युत्पत्तौ “अकथितञ्च” (अ. 1.4.51)इति सूत्रेण दुह्यादे: कारकान्तरसंज्ञानापन्नस्य कर्म्मसंज्ञाविधानानौचित्यम्। द्विकर्म्मा-न्वितद्विव्यापारार्थका: पुनर्णिजन्ता: एककर्म्मधातव:। तत्र च धातुनैकव्यापा-रोऽभिधीयते, द्वितीयस्तु णिचा। तद्व्यापारद्वये च ईप्सितकर्म्मण: प्रयोज्यकर्त्तृरूप-कर्म्मणश्च यथाक्रममन्वय:। तथात्वञ्च गम्यादीनामिति बोध्यम्। इतरेषान्तु नैवं, तद्योगे प्रयोज्यकर्त्तु: कर्म्मसंज्ञाभावेन व्यापारद्वये कर्म्मद्वयान्वयाभावात्।
अकथितमिति। अपादानादिविशेषसंज्ञाभिरविवक्षितं यत् कारकं तत् कर्म्मसंज्ञं स्यात्। “अकथितञ्चेति” (पा.1.4.51) सूत्रात्। एतत् कर्म्मसंज्ञाविधानं द्वितीयालाभाय।
चर्म्मणीति। “निमित्तात् कर्म्मसंयोगे सप्तमीवाच्येति”1 दुर्ग:। तेन हि चर्म्मणि चर्म्मनिमित्तमित्यर्थावगम:। निमित्तमिह क्रियाफलं, यदि तु कारणमित्युच्यते तर्हि ‘जाड्येन बद्ध:’ इत्यादौ अतिप्रसङ्ग: स्यात्। संयोगश्चेह संयोगसमवायसम्बन्धान्तर-रूप:, तत्र द्वीपिचर्म्मणो: गन्धमृगसीम्नो: अवयवावयविभावात् समवाय:। हरदत्तस्तु पुष्यलक: शङ्कुः। सीम्नि सीमज्ञानार्थं, हतो निखात इत्याह। अस्मिंस्तु पक्षे सीमपुष्यलकयो: संयोग:। ‘मुक्ताफलाय करिणं हरिणं पलाय’ इत्यादौ “क्रियार्थोपपदस्य” 3 इत्यादिना चतुर्थी, मुक्ताफलान्याहर्त्तुमित्यर्थविवक्षया। अपप्रयोग एवायमिति बहव:। विधिरयं हेत्वर्थे तृतीयाया: तादर्थ्यचतुर्थ्याश्र्च प्रतिषेधक इत्यवगन्तव्यम्।
सतीति। “यस्य च भावेन भावलक्षणम्” 1 इति सूत्रेण विहिता सप्तमी सति सप्तमी। इह खलु समानदेशकालाभ्यां परिच्छेदकत्वरूपलक्षणमर्थ:, तेन ‘गोषु दुह्यमानासु आगत’ इत्यादौ गोदोहनक्रियाकालेनागमनकालपरिच्छेदात् गवादे: सप्तमी। ‘गुणे सति द्रव्यत्वमस्ती’त्यादौ तु गुणसत्ताया द्रव्यत्वसत्वाधिकरणदेश-परिच्छेदकत्वात् गुणवाचकात् सप्तमीति बोध्यम्। प्रसिद्धञ्च निर्ज्ञातदेशकाल-क्रियाया: अनिर्ज्ञातदेशकालयो: परिच्छेदकत्वं, तस्याश्र्च कदाचित् स्वसमान-कालेन कदाचिच्च स्वपूर्वोत्तरकालाभ्याञ्च तथात्वम्। तेन दुग्धासु धोक्ष्यमाणासु गोष्वित्यादौ सिद्धि:।
अथेति। कारकत्वं नाम क्रियाजनकशक्तिमत्त्वं, भाष्ये करोति क्रियां निवर्त्तयति इति व्युत्पत्तिदर्शनात्, “साधकं क्रियानिष्पादकं कारकसंज्ञम्” इति वार्तिकोक्तेश्र्च। क्रियायाञ्च शक्तेरेवान्वयव्यतिरेकसत्त्वात् कारकत्वम् इति मतान्तरं तदुक्तं हरिणा - “स्वाश्रये समवेतानां तद्वदेवाश्रयान्तरे। क्रियाणामभिनिष्पत्तौ सामर्थ्यं साधनं विदु:”।। 2 इति। शक्तिशक्तिमतोरभेदाच्च द्रव्यं कारकमिति व्यवहार: इति बोध्यम्। एवं च क्रियाजनकत्वेन सर्वेषां कर्त्तृत्वेऽपि स्वस्वावान्तरव्यापारविवक्षयैव करण-त्वादिकमवगन्तव्यम्। अत्रोक्तं हरिणा - “निष्पत्तिमात्रे कर्त्तृत्वं सर्वत्रैवास्ति कारके। व्यापारभेदापेक्षायां करणत्वादि सम्भव:”।। 3 इति। अत्रावान्तरभेदपरिग्रहो यथा - कर्त्तु: कारकान्तरप्रवर्त्तनव्यापार:। करणस्य क्रियाजनकाव्यवहितव्यापार:। कर्म्मण: क्रियाफलेनोद्देश्यत्वव्यापार:। अधिकरणस्य कर्त्तृकर्म्मव्यवहितक्रियाधारणव्यापार:। सम्प्रदानस्य प्रेरणानुमत्यादिव्यापार:। अपादानस्य अवधिभावोऽपगमव्यापार: इति।
मैत्रस्येति। क्रियान्वयित्वं कारकत्वमित्याद्युक्तलक्षणात् तण्डुलसम्बन्धिमैत्र-पदस्य पचतीति क्रियया साक्षादन्वयाभावात् न कारकत्वमिति स्पष्टम्।
कर्त्रिति। कर्त्तृत्वं नाम धातूपात्तव्यापाराश्रयत्वं “धातुनोक्तक्रिये नित्यं कारके कर्त्तृतेष्यते” इति हर्य्युक्ते:। स च द्विविध:, स्वतन्त्रस्तत्प्रयोजकश्र्चेतिभेदात्। तत्र स्वातन्त्र्यं नाम इतरव्यापारानधीनव्यापारवत्त्वं कारकान्तरप्रयोजकव्यापारवत्त्वं वा। अत्रोक्तं हरिणा - “प्रागन्यत: शक्तिलाभात् प्राग्भावापादनादपि। तदधीनप्रवृत्तित्वात् प्रवृत्तानां निवर्त्तनात्। अदृष्टत्वात् प्रतिनिधे: प्रविवेके च दर्शनात्। आरादप्युपकारि-त्वात् स्वातन्त्र्यं कर्त्तुरिष्यते।” 2इति। अस्यायमर्थ:, - इतरव्यापारादावपि स्वव्यापार-सत्त्वात् कारकान्तराणां स्वाधीनप्रवृत्तिनिवृत्त्योर्दर्शनात् दात्रादे: कुठारादिवत् स्वस्य प्रतिनिध्यसम्भवात् कारकान्तराप्रयोगेऽपि स्ववाचकपदप्रयोगात्, साक्षाद्धातूपात्त-फलजनकव्यापारवत्त्वाच्च कर्त्तु: स्वातन्त्र्यमिति। पाचयतीत्यादावपि प्रयोज्यस्य पाके स्वातन्त्र्यमस्त्येव वेतनादिलाभरूपस्वार्थसिद्धय एव तस्य प्रवृत्ते:।
क्रिया इति। एषा खलु क्रिया धातुवाच्या फलव्यापारोभयरूपा तद्विशिष्टरूपा वा,“फलव्यापारयोर्धातु:” 1 इत्यभिजनवचनात्।अत्र हरिणाप्युक्तं-“व्यापारो भावना सैवोत्पादना सैव च क्रिया” 2 इति। किञ्च“यावत् सिद्धमसिद्धं वा साध्यत्वेन प्रतीयते। आश्रितक्रमरूपत्वात् सा क्रियेत्यभिधीयते”।3 सिद्धं वर्त्तमानध्वंस-प्रतियोगि, भूतकालमित्यर्थ:, तद्भिन्नमसिद्धं वर्त्तमानं भविष्यञ्च इत्यर्थ:। तेनापचत् पक्ष्यति पचतीत्यादौ सर्वत्र साध्यत्वेन असत्त्वरूपत्वेनाभिधीयमाना क्रियेति क्रिया-शब्दस्य रूढि़रनेन प्रदर्शिता इति भाव:।
पञ्चेति। तस्या: क्रियाया: पञ्चविधकर्मणाम् उत्क्षेपणापक्षेपणादिप्रकारभेदापन्न-स्वरूपाणाम् अन्यतमरूपत्वात् कर्मविशेषस्वरूपत्वात् कत्तृस्थत्वं तद्भिन्नानां कर्मस्थत्वम् इत्युच्यते।
कर्मत्वमिति। क्रियाजन्यतद्व्यधिकरणफलवत्त्वम् अथवा कर्त्रा स्वनिष्ठ-व्यापारप्रयोज्यफलेन सम्बन्धुमिष्यमाणत्वं कर्मत्वमित्यर्थ:।
त्रिविधमित्यादि। अत्रोक्तं हरिणा - “निर्वर्त्यञ्च विकार्य्यञ्च प्राप्यञ्चेति त्रिधा-मतम्। तच्चेप्सिततमं कर्म चतुर्धान्यत्तुकल्पितम्। औदासीन्येन यत्प्राप्तं यच्च कर्त्तुर-नीप्सितम्। संज्ञान्तरैरनाख्यातं यत् यच्चाप्यन्यपूर्वकम्।” 1 इत्यादिना प्रकारभेदम् अभिधाय निर्वर्त्त्यादीनां लक्षणमुदाहरति - “यदसञ्जायते सद्वा जन्मना यत्प्रकाशते। तन्निर्वर्त्त्यं विकार्य्यञ्च कर्म द्वेधा व्यवस्थितम्। प्रकृतेस्तु प्रकृत्युच्छेदसम्भूतं किञ्चित्काष्ठादिभस्मवत्। किञ्चिद्गुणान्तरोत्पत्त्या सुवर्णादिविकारवत्। क्रियाकृत-विशेषाणां सिद्धिर्यत्र न गम्यते। दर्शनादनुमानाद्वा तत्प्राप्यमिति कथ्यते।” 2 इति।
प्राप्यमिति। क्रियाकृतसाधारणधर्मप्रकारकप्रतीतिविषयतानाश्रयत्वे सति क्रियाजन्यफलवत्त्वेनोद्देश्यत्वं प्राप्यत्वं, यथा - ग्रामं गच्छतीत्यादौ ग्रामादि:, संयोगरूपफलस्य क्रियाधिकरणवृत्तित्वेन साधारण्यात् असाधारणोत्पत्त्यादिफलस्य तत्रासत्त्वात् तथात्वम्। इति।
निर्वर्त्त्यमिति। प्रकृतिवाचकपदासमभिव्याहृतपदोपस्थाप्यत्वे सति क्रियाजन्यो-त्पत्तिफलवत्त्वं निर्वर्त्त्यत्वम्। उत्पत्तिश्र्च आद्यक्षणसम्बन्धरूपा प्रथमप्रकाशरूपा वा, यदसदित्याद्युक्ते:। “सती वा विद्यमाना वा प्रकृति: परिणामिनी। यस्य नाश्रीयते तस्य निर्वर्त्त्यत्वं प्रचक्षते”।1 इत्युक्ते: प्रकृतिवाचकेत्यादि। तथा हि ‘घटं करोती’त्यादौ घट:, ‘पुत्रं प्रसूते’ इत्यादौ च पुत्रादिरिति।
विकार्य्यमिति। प्रतीयमानप्रकृतिविकृतिभावत्वे सति क्रियानिर्वाह्यविशिष्टा-सत्वोत्पत्तिरूपान्यतरफलवत्त्वं विकार्य्यत्वम्। यथा- ‘सुवर्णं कुण्डलं करोति’ इत्यादौ सुवर्णकुण्डलादि:, अत्र सुवर्णस्य पूर्वरूपासत्त्वरूपफलवत्त्वात् कुण्डलस्यो-त्पत्तिरूपफलवत्त्वाच्च तथात्वम्। हर्य्युक्तलक्षणे सुवर्णस्य किञ्चिद्गुणान्तराधानेन कुण्डलस्योत्पत्तिरित्यवधेयम्, एवं ‘काष्ठं भस्म करोति’ इत्यादावपि काष्ठभस्मादे:। तत्र च काष्ठस्य क्रियाजन्यविशिष्टासत्त्वप्रयोजकनाशवत्त्वात् तथात्वमिति विवेक:। हर्य्युक्तलक्षणे हि काष्ठप्रकृत्युच्छेदेन भस्मोत्पत्ति: इत्यवगम्यते।
एवमित्यादि। उक्तत्रितयमीप्सिततमं कर्त्तु: क्रियाफलेनोद्दिष्टतमत्वात्। एतद्भिन्नं चतुर्धा कल्पितं, पारिभाषिकमित्यर्थ:। तानि च उदासीनद्वेधाकथितान्यपूर्वकाणि। तत्र कर्त्तुरनुद्देश्यत्वे सति क्रियाजन्यफलवत्त्वमुदासीनत्वम्। यथा - ‘ग्रामं गच्छन् तृणं स्पृशति’ इत्यादौ तृणादेरुद्देश्यत्वाभावेऽपि क्रियाजन्यसंयोगवत्त्वात् तथात्वम्। द्विष्टसाधनत्वे सति क्रियाजन्यफलवत्त्वं द्वेष्यत्वम्, यथा - ‘अन्नं बुभुक्षमाणो विषं भुङ्क्ते’ इत्यादौ विषादे:। अपरं पुनरकथितं कर्म्म, तथाहि कारकविशेषसंज्ञान्तरे-णाविवक्षितत्वे सति कर्मोपकारकत्वम् अकथितत्वम्। यथा - ‘गां दोग्धि पय:’ त्यादौ गवादेर्दुग्धोपयोगितया अविवक्षितकारकान्तरसंज्ञकत्वेन च तथात्वम् इत्यादि विवेकतोऽवगन्तव्यम्।
तत्रेति। क्रियासिद्धौ यत्प्रकृष्टोपकारकमन्तरङ्गं विवक्षितं तत्करणम्। यद् व्यापारानन्तरं फलनिष्पत्तिस्तत् प्रकृष्टम्। सूत्रे तमप्प्रत्ययेनाव्यवहितव्यापारवत्त्वरूप-प्रकर्षावबोधनात्। यथोक्तं हरिणा -
“क्रियाया: परिनिष्पत्तिर्यद्व्यापारादनन्तरम्। विवक्ष्यते यदा यत्र करणं तत्तदा स्मृतम्॥” 2 इत्यत्र विवक्ष्यते इत्यनेन कारकान्तराणामपि करणत्वमिति सूचितम्। तदपि उक्तं हरिणा- “वस्तुतस्तदनिर्द्देश्यं न हि वस्तुव्यवस्थितम्। स्थाल्या पच्यते इत्येष: प्रयोगो दृश्यते यत:”॥ 3 इत्यत्र वस्तु करणपदार्थ:। इति।।
सम्प्रदानत्वमिति। क्रियाजन्यफलभागित्वेनोद्देश्वत्वम् इत्यर्थ:। तच्च त्रिविधम्, अनिराकर्त्तृप्रेरकमनुमन्तृ चेति। यथोक्तं हरिणा - “अनिराकरणात् कर्त्तु: त्यागाङ्ग-कर्मणेप्सितम्। प्रेरणानुमतिभ्याञ्च लभते सम्प्रदानताम्॥” 2 इत्युक्तदानप्रयोजक-व्यापारत्रयभेदात्। तत्राद्यं देवतादि, यथा- ‘नारायणाय तुलसीं ददाति’, इत्यत्र कर्त्तुरनिराकरणेन प्रवृत्त्यप्रतिबन्धात्। द्वितीयं याचकादि, यथा - ‘ब्राह्मणाय गां ददाति’, देहि देहीत्यादिना कर्त्तु: प्रेरणात्। तृतीयन्तु गुर्वादि, यथा - ‘गुरवे सर्वस्वं ददाति’ प्रार्थनाव्यतिरेकेणानुमतिमात्रेण प्रेरणादिति।
ध्रुवमित्यादि। प्रकृतधात्वर्थानाश्रयत्वे सति तज्जन्यविभागाश्रय:, ध्रुवं तच्चार्थात् अवधिरिति। अपायो विश्र्लेष: विभाग: सम्बन्धध्वंस इति यावत्।
परकीयेति। विभागजनकतत्क्रियानाश्रयत्वे सति तत्क्रियाजन्यविभागाश्रयत्वम् अपादानत्वमिति वा।
चलमिति। तत्रोक्तं हरिणा - “अपाये यदुदासीनं चलं वा यदि वाचलम्। ध्रुवमेव तदावेशात् अपादानमितीष्यते॥” अत्रोदासीनमवधि:। आवेशात् ईषत्प्रवेशात्।
वृक्षादिति। इत्यत्र काकादिभिरानीतपत्रस्य अन्यवृक्षात् पतने तद्वृक्षस्यावय-वत्वाभावात् पञ्चमी। अवयवावयविभावे तु सम्बन्धविवक्षायां षष्ठ्येव।
अधिकरणत्वमिति। आध्रियन्ते क्रिया: यस्मिन्नित्याधार:। कर्त्तृकर्मव्यवहित-क्रियाश्रय इति स्पष्टम्। स एवाधिकरणम्। अत्रोक्तं हरिणा -“कर्त्तृकर्मव्यवहिताम-साक्षात् धारयत् क्रियाम्। उपकुर्वत् क्रियासिद्धौ शास्त्रेऽधिकरणस्मृतम्॥” 2 इति
तच्च चतुर्विधं - “सामीप्याश्र्लेषविषयैर्व्याप्याधारश्चतुर्विध:” इति भेदक-सम्बन्धचातुर्विध्यात्। तत्र सामीप्यसम्बन्धेन प्रथमोदाहरणं- ‘वने नदी आस्ते’ इत्यादौ वनादि: सामीप्यसम्बन्धेनाधार:। द्वितीयम् एकदेशसम्बन्धेन यथा - ‘कटे आस्ते’ इत्यादौ कटादि:। आश्र्लेषाधिकरणं तृतीयं विषयतासम्बन्धेन यथा - ‘मोक्षे इच्छास्ति’ इत्यादौ मोक्षादि: विषयाधार:। व्याप्तिसम्बन्धेन चतुर्थं यथा - ‘तैलं तिलेषु’ इत्यादौ तिलादिर्व्याप्याधार इति।
तत्रेति। समासत्वं नाम शक्तिसम्बन्धेन समासपदत्वम् एकार्थीभावापन्नशक्ति-समुदायत्वं वा, समस्यते संश्लेष्यते एकार्थीक्रियते असौ इति व्युत्पत्ते:। द्व्यादि-पदानामेकपदतासम्पादकपदसाधुतार्थकाखण्डोपाधिविशिष्टत्वं समासत्वम् इति फलितार्थ:। स च समास: षड्विध:। तथाहि -“सुपां सुपा तिङां नाम्ना धातुनाथ तिङां तिङा। सुबन्तेनेति विज्ञेय: समास: षड्विधो बुधै:॥” (वै.सि.का-28) इति।
तत्र क्रमेणोदाहरणम्। सुपां सुपेति द्वयमपि पदं सुबन्तं यथा - ‘राजपुरुष:’ इति। सुपां तिङेति पूर्वपदं सुबन्तम्, उत्तरं तिङन्तं, यथा - पर्य्यभूषयत् इत्यादि। “गतिमतोदात्तवता तिङापि समास:” इति वार्त्तिकोक्ते:। सुपां नाम्नेति पूर्वपदसुबन्तमुत्तरं नाम, यथा - कुम्भकार: इत्यादि। “उपपदमतिङ्” 1 इत्युक्तविधानात् समास:, “गतिकारकोपपदानां कृद्भि: समासवचनप्राक्सुबुत्पत्ते:” 2 इति परिभाषया, सुबुत्पत्ते: प्रागेव नाम्ना समास: सिद्ध:। अन्यथा चर्म्मकृदित्यादौ नलोपानुपपत्ते:। सुपां धातुनेति उत्तरपदं धातुमात्रं न तिङन्तम्। यथा- कटप्रूरित्यादि:, “क्विब्वाचिप्रच्छ्यायतस्तुकटप्रूजुश्रीणां दीर्घश्र्च” इति वार्त्तिकात् समास:। तिङां तिङा यथा - पिबतखादत,पचतमृज्जत इत्यादि:। “आख्यातमाख्यातेन क्रियासातत्ये”, इति मयूरव्यंसकाद्यन्तर्गणीयसूत्रात्। तिङां सुबन्तेन यथा - जहिस्तम्भ:, “जहिकर्म्मणा बहुलमाभीक्ष्ण्ये कर्त्तारञ्चाभिदधाति” इति मयूरव्यंसकाद्यन्तर्गणीयविधानात् समास:। अयं षड्विध: समासविभाग: इति।
आत्मेति। स्वस्य सापेक्षितत्वेऽनिष्टप्रसङ्ग: आत्माश्रय:। स खलु उत्पत्तिस्थितिज्ञप्तिभिस्त्रिधा। तथा हि, यदीदं समासत्वं समासत्वजन्यं स्यात् तदैतत् समासत्वानधिकरणक्षणोत्तरवर्त्ति न स्यात्। यदीदं समासत्वम् एतत्समासत्ववृत्ति स्यात् तदैतत् समासत्वव्याप्यं न स्यात् यदीदं समासत्वं समासत्वज्ञानाभिन्नं स्यात् (ज्ञानसामग्रीभिन्नं स्यात्) तर्हि एतत् समासत्वभिन्नं स्यात्। एतदवयव: आत्माश्रय:। अत: कर्म्मधारयादीनामन्यतमेऽसम्भावनेति बोध्यम्।
नवेति। नैयायिका: वाक्ये शक्तिलक्षणे न स्वीकुर्वन्ति, तन्मते पद एव शक्तिर्लक्षणा च।
द्विगुभिन्नेत्यादि। द्विगुविषयपरिहारेण समानाधिकरणपदघटिततत्पुरुष: कर्म्मधारय:, “तत्पुरुष: समानाधिकरण: कर्म्मधारय:” 1 इति सूत्रात्। तत्राप्यपवादविधेर्बलवत्वात् “विशेषणं विशेष्येण” 2 इति विधिर्बलीयान्। एवं किल कर्म्मधारय:। सुतरां तत्र समानविभक्तिमत्पदकदम्बकत्वम् अभेदबोधकत्वञ्चेति। उत्तरपदप्रधानोऽयं समास:।
निषादेत्यादि। तत्पुरुषे पूर्वपदे बहुव्रीहौ तूत्तरपदे लक्षणया अर्थप्रतीति:। द्वन्द्वे च लक्षणामन्तरेणैव शक्यार्थेन तात्पर्य्योपपत्तौ लक्षणाकल्पनेनाप्यलमिति।
तत्पुरुषत्वमिति। प्राधान्येनोत्तरपदार्थबोधकत्वञ्चेति। इह खलु पूर्वपदस्य लक्षणया उत्तरपदार्थावगमनसौकर्य्यम्। अर्द्धकायादेस्तथात्वाभावेऽपि “अर्द्धं नपुंसकम्” (अ.2.2.2) इत्यादि विशेषविधानेन तत्प्रकरणविहितत्वादेव तत्पुरुषत्वम्।
द्विगुत्वमिति। संज्ञानवबोधकसङ्ख्यापूर्वकसमानाधिकरणपदघटिततत्पुरुषत्वं द्विगुत्वमिति। “दिक्सङ्ख्ये संज्ञायाम्” (अ 2.1.50) इति सूत्रेण विहितपञ्चाम्रादि कर्म्मधारयादिषु अतिप्रसङ्गवारणाय संज्ञानवबोधकेति। “सङ्ख्यापूर्वो-द्विगु:” (अ.2.1.52) इति सूत्रात् सङ्ख्यापूर्वकेति द्विमूर्द्धादौ तथात्ववारणाय तत्पुरुषेति।
बहुव्रीहित्वमिति। समस्यमानपदातिरिक्तपदार्थबोधकत्वञ्चेति। स च द्विविध:। तद्गुणसंविज्ञान: अतद्गुणसंविज्ञानश्च। समुदायोपस्थाप्ये गुणीभूतस्यापि पदार्थस्य समुदायान्विते अन्वयबोधकः तद्गुणबहुव्रीहि:, यथा ‘लम्बकर्णमानय’ इत्यादौ कर्णस्याप्यानयनेऽन्वय:, तद्विना धर्म्मिणोऽप्यानयनासम्भवात्। सम्भवे वा तद्वैशि-ष्ट्येनैवानयनान्वयात् तस्यानयनेऽन्वय:। तद्भिन्न: अतद्गुण:। तथाहि - ‘दृष्ट-समुद्रमानय’ इत्यादौ समुद्रस्यानयनानन्वयात् तथात्वमिति। किञ्च समानाधिकरण-पदघटित:, व्यधिकरणपदघटितश्र्चेति पुनर्द्विविध:, तत्र समानाधिकरणबहुव्रीहिर्यथा - ‘नीलाम्बरादि:’, व्यधिकरणसमासे तु ‘दण्डपाणि:’ इत्यादि।
द्वन्द्वत्वमिति। प्राधान्येन सर्वपदार्थबोधकत्वञ्च। प्राधान्यञ्चात्र स्वघटकपदार्थांशे विशेषणतानापन्नत्वम्। तेन परस्परं विशेष्यत्वाभावेऽपि नासम्भव:। स च द्वन्द्वः द्वि-विध:। इतरेतर: समाहारश्र्चेतिभेदात्। अगृहीतविशेषद्वित्वादिसङ्ख्याविशिष्टनामार्थ-बोधकत्वम् इतरेतरत्वम्। नामार्थवृत्तितादृशसङ्ख्याबोधकत्वं समाहारत्वमिति।
अव्ययीभावत्वमिति। प्रधानत: पूर्वपदार्थबोधकत्वञ्च। तत्र पूर्वपदमव्ययं, परपदमनव्ययं, तद्वशेन समुदायोऽव्ययानव्यय: अव्ययीभवति इत्यव्ययीभाव:। ‘तिष्ठद्गु’ प्रभृतीनान्तु तत्प्रकरणविहितत्वात् अव्ययीभावत्वं, सर्वेषामेव समासलक्षणानां प्रायिकत्वस्य शास्त्रादौ स्वीकारात्। यथोक्तमभियुक्तै: - “समासस्तु चतुर्धेति प्रायोवादस्तथापर:। योऽयं पूर्वपदार्थादिप्राधान्यविषय: स च”॥ (भूषणसारः) इति प्राधान्येन पूर्वपदार्थादिबोधकत्वलक्षणविभागोऽपि प्रायिक इति भाव:।
उपकुम्भमिति। कुम्भसमीपे इति वाक्यार्थ:।
निर्द्धारणमिति। विशेष्यस्य स्वेतरसामान्यव्यावृत्तधर्म्मवत्त्वम्।
क्रमेणेति। तत्र क्रमेण जातिगुणक्रियाणामुदाहरणानि। तथाहि - ‘नराणां क्षत्रिय: शूर:’ इत्यत्र क्षत्रियत्वं जाति:। ‘गवां मध्ये कृष्णा गौः सम्पन्नक्षीरतमा’ इत्यत्र कृष्णत्वं गुण:। ‘अध्वगानां रथिन: शीघ्रगतय:’ इत्यत्र शीघ्रगमनं क्रिया।
नीलमित्यादि। अत्यन्तायोगव्यवच्छेदे यथा - ‘नीलमित्यादि’, अत्र सरोजे नीलत्वात्यन्तायोग: व्यवच्छिद्यते॥
शङ्ख इत्यादि। ‘शङ्ख: पाण्डर एव’ इत्यत्रायोगव्यवच्छेद:, शङ्खे पाण्डर योगो व्यवच्छिद्यते॥
पार्थ इत्यादि। अन्ययोगव्यवच्छेदे यथा- ‘पार्थ: एव धनुर्धर:’ इत्यत्र पार्थान्यपदार्थे प्रशस्तधनुर्धरत्वं व्यवच्छिद्यते।
सर्वनाम इति। वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्म्मावच्छिन्नम्, स्वो-च्चारणानुकूलबुद्धिप्रकारविशिष्टं वा सर्वनामार्थ:। ‘सोऽयं वो विदधातु वाञ्छित-फलम्’ इत्यादौ तच्छब्दार्थ:॥
अथेत्यादि। इवेत्यस्य उपमायाम्, उत्प्रेक्षायां, वाक्यालङ्कारे, ईषदर्थे च शक्तिर-वगन्तव्या। तत्रोपमायाम् “इवेन नित्यसमास: विभक्त्यलोपश्र्च” इति वार्त्तिकोक्ते-र्नित्यसमास: विभक्त्यलोपश्र्चेत्येदप्यत्र ज्ञातव्यमित्युच्यते। तथाहि ‘वागर्थाविव सम्पृक्तौ’ इत्यादि। उत्प्रेक्षायां यथा - ‘मुखमेणीदृशो भाति पूर्णचन्द्र इवापर:’ इत्यादि। वाक्यालङ्कारे यथा - ‘सर्वदा क इव वा सहिष्यते’ इत्यादि। ईषदर्थे यथा - ‘आवर्जिता किञ्चिदिव स्तनाभ्याम्’ इत्यादि।
उद्देश्येत्यादि। इह किल “विशेष्यविशेषणयोरेका विभक्ति: समानलिङ्गता च” इत्युक्तेरतिप्रसङ्ग:, तथाहि ‘एकवृक्ष: पञ्चनौका भवति’ इत्यादौ लिङ्गसङ्ख्यादी-नाम् अतन्त्रत्वम्।
तत्रेति। द्योतकत्वं तात्पर्य्यग्राहकत्वम्। उपसर्गस्य द्योतकत्वे प्रमाणं यथा - “द्योतका: प्रादयो येन निपाताश्र्चादयस्तथा। उपास्येते हरिहरौ लकारो दृश्यते यथा”। (वै.सि.का42) इति। अत्र हि उपासना किम् उपसर्गार्थ:, उत विशिष्टस्य, धातुमात्रस्य वा? नाद्य:। तथा सति स्वार्थफलव्यधिकरणवाचकत्वरूपसकर्म्मक-स्यास्धातो: उपासनारूपफलवाचकत्वाभावात् तत: कर्मणि लकारो न स्यात्। न द्वितीय: गौरवात्। तृतीये त्वागतं द्योतकत्वं तात्पर्य्यग्राहकत्वलाभात् इति भाव:। एवं ‘साक्षात्क्रियते’ ‘अलङ्क्रियते’ ‘उरीक्रियते शिव:’ इत्यादौ धातोस्तत्तदर्थे लकारसिद्ध्यर्थं तत्तदर्थवाचकत्वं वाच्यमित्युपसर्गवत् द्योतकत्वममीषामस्तीत्यव-गन्तव्यम्।
झनत्कारेत्यादि। सत्यं पतनान्तरमेव झनत्कारादीनामुपलब्धिरिति, किञ्च पतनादिक्रियापरिनिष्पत्ते: पूर्वमपि झनत्कारादिरुपलभ्यते, तदपेक्षया समीचीनमान-न्तर्य्यं यथोक्तेषु।
संसर्गेत्यादि। असौ किल संसर्गाभावस्त्रिधा। तथाहि - “प्रागभावस्तथा ध्वंसोऽप्यत्यन्ताभाव एव च। एवं त्रैविध्यमापन्नः संसर्गाभावः इष्यते।” इति।
प्रसज्येति। प्रसज्य प्रसक्तिं सम्पाद्य आरोप्येतियावत् प्रतिषेध:। अत्यन्ताभावे “प्रसक्तं हि प्रतिषिध्यते” इति न्यायेन आरोपितप्रसङ्गस्यैव निषेध:, तेन ‘वायौ रूपं नास्ति’ इत्यादावपि वायौ रूपारोपं कृत्वैव निषेधो नञा बोध्यते इति विवेक:। तथा च - “अप्रधान्यं विधेर्यत्र प्रतिषेधे प्रधानता। प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्।।” इति।।
पर्य्युदास इति। “प्रधानत्वं विधेर्यत्र प्रतिषेधेऽप्रधानता। पर्य्युदास: स विज्ञेयो यत्रोत्तरपदेन नञ्।।”
आलभेतेति। आलभेत हन्यादित्यर्थ:।
सामान्येत्यादि। अत्र हि बलाबलविधानं यथा- “सामान्यविधिरुत्सर्ग:, विशेष-विधिरपवाद:, उत्सर्गापवादयोरपवादविधिर्बलवान्” इति।
विशेषेत्यादि। विशेषविधेरेकदेशमात्रनिर्बन्धतया अनन्यथासिद्धेरवकाशराहि-त्यमिति।
अत एवेत्यादौ। यथाह कौमुद्यां - “दृष्टवदानुश्रविक: सह्यविशुद्धिक्षयाति-शययुक्त:” इत्यादि। अविशुद्धि: सोमयागादौ पशुवीजादि वधसाधनता। यथाह स्म भगवान् पञ्चशिखाचार्य्य: - “स्वल्पसङ्कर: सपरिहार: सप्रत्यवमर्ष:” इति। स्वल्पसङ्कर: ज्योतिष्टोमादिजन्मन: प्रधानापूर्वस्य स्वल्पेन पशुहिंसादिजन्मना अनर्थहेतुना अपूर्वेण सङ्कर:। सपरिहार: स्वल्पेनापि प्रायश्र्चितेन परिहर्तुं शक्य:। अथ प्रमादतो यदि प्रायश्र्चित्तादिकं नानुष्ठितं, तर्हि कर्म्मविपाकसमये च सुतराम् अनर्थम् उत्पादयति। सप्रत्यवमर्ष: प्रत्यवमर्षेण सहिष्णुतया सह वर्त्तते इति तथोक्तम्। यथोक्तमभियुक्तै: - “मृष्यन्ते हि पुण्यसम्भारोपनीतस्वर्गसुधामहाह्रदावगाहिन: कुशला: पापमात्रोपपादितां दु:खवह्निकणिकाम्” इति।
किन्त्वित्यादि। एकाक्षरकोषे प्रत्येकशो वर्णानां वाचकत्वं, तथा च दिङ्मात्रमुदाह्रियते,- “अकारो वासुदेव: स्यादाकारश्च पितामह:। इकार उच्यते कामो लक्ष्मीरीकार उच्यते”। इत्यादिवत्।।
गौरिवेत्यादि। गलकम्बलादिशून्यत्वेऽपि गोसदृशबहुलधर्म्मवत्त्वं गवयत्वम्। सादृश्यं हि तद्गतभूयोधर्मवत्त्वं, यद्यपि गवये गलकम्बलादिर्नास्ति तथाऽपि गोसदृशबहुलधर्म्मवत्त्वमस्त्येव। तथा च - केनचिदारण्यकेन ग्रामीणं प्रत्युक्तं ‘गोसदृशो गवयपदवाच्य:’ इति। अथ तेनैव ग्रामीणेन कदाचिद्गवयमवलोक्य यदवधारयत् गवयोऽयमिति तदेवोपमितिज्ञानसाध्यमिति स्पष्टम्।
व्यवहारेणेत्यादि। “लोकानामुपचार: व्यवहार:, तस्मादनुक्तस्यापि ग्रहसिद्धिर्वे-दितव्येति” दुर्ग:।1 तथात्वं हि निपाताव्ययोपसर्गकारककालसङ्ख्यालोपादीना-मवगन्तव्यम्। तत्रोदाहरणं यथा- ‘हरीतक्य: फलानि’। अत्र हि फलेष्वपि स्त्रियां वृत्ति:। ‘खलतिकं वनानि’ इत्यत्र वनानामेकवचनान्तमेव नाम। शब्दानामेकार्थेऽपि लिङ्गवचनभेदो दृश्यते। यथा - ‘आपो जलम्’, ‘दाराः कलत्रं भार्य्या’ इति। अत्राह दुर्ग:- “वैदिकाः लौकिकज्ञैश्र्च ये यथोक्तास्तथैव ते। निर्णीतार्थास्तु विज्ञेया लोकात्तेषामसङ्ग्रह:”।। इति।।
स चेति। वैयाकरणमते तु स शब्द: षड्विध:। तथा हि, - “मुख्यो लाक्षणिको गौण: शब्द: स्यादौपचारिक:। यौगिको योगरूढश्च शब्दः षोढ़ा निगद्यते”।। इति।
प्रासादीयति इत्यादौ। “प्रासादीयति य: कुट्यां पर्य्यङ्कीयति मञ्चके। तस्य सन्तोषशीलस्य कुलिकाप्यप्सरायते”। इति पद्मनाभ:।
ऊनविंशेत्यादि। “विंशत्यादि: सदैकत्वे सर्वो सङ्ख्येयसङ्ख्ययो” रितिकोष-वचनात् ऊनविंशत्यादिसङ्ख्याशब्दस्य सङ्ख्येये सङ्ख्याने च शक्तिरवगन्तव्या, एकवचनान्ता च।
इति श्री आशुबोधविद्याभूषणविरचिता सारमञ्जरीव्याख्या समाप्ता।