'
[[लेखकः :|]]
सावित्र्युपाख्यानम्
कैलासनाथः एम् ए
१९२९

सावित्र्युपाख्यानम् ।

आसीन्मद्रेषु धर्मात्मा राजा परमधार्मिकः । ब्रह्मण्यश्च महात्मा च सत्यसन्धो जितेन्द्रियः ॥ १ ॥ ( २०४ ) यज्वा दानपतिर्दक्षः पौरजानपदप्रियः । पार्थिवोऽश्वपतिर्नाम सर्वभूतहिते रतः ॥ २ ॥ क्षमावाननपत्यश्च सत्यवाग्विजितेन्द्रियः । अतिक्रान्तेन वयसा संतापमुपजग्मिवान् ॥ ३ ॥ अपत्योत्पादनार्थं व तीव्रं नियममास्थितः । काले परिमिताहारो ब्रह्मचारी जितेन्द्रियः ॥ ४ ॥ हुत्वा शतसहस्रं स सावित्र्या राजसत्तम । पष्ठे षष्ठे तदा काले बभूव मितभोजनः ॥ ५ ॥ एतेन नियमेनासीद्वर्षाण्यष्टादशैव तु । पूर्णे त्वष्टादशे वर्षे सावित्री तुष्टिमभ्यगात् ॥ ६ ॥ रूपिणी तु तदा राजन्दर्शयामास तं नृपम् । अग्निहोत्रात्समुत्थाय हर्षेण महताऽन्विता ॥ ७ ॥ उवाच चैनं वरदावचनं पार्थिवं तदा । सा तमश्वपतिं राजन्सावित्री नियमेस्थितम् ॥ ८ ॥ वरं वृणीष्वाश्वपते मद्रराज यदीप्सितम् । न प्रमादश्च धर्मेषु कर्तव्यस्ते कथंचन ॥ ९ ॥

अश्वपतिरुवाच- तुष्टाऽसि यदि मे देवि वरमेतं वृणोम्यहम् । संतानं परमो धर्म इत्याहुर्मां द्विजातयः ॥ १० ॥

सावित्र्युवाच- पूर्वमेव मया राजन्नभिप्रायमिमं तव । ज्ञात्वा पुत्रार्थमुक्तो वै भगवांस्ते पितामहः ॥ ११ ॥ प्रसादाञ्चैव तस्मात्ते स्वयंभू विहिताद्भुवि । कन्या तेजस्विनी सौम्य क्षिप्रमेव भविष्यति ॥ १२ ॥ प्राप्ते काले तु सुषुवे कन्यां तद्राजमहिषी । क्रियाश्च तस्या मुदितश्चक्रे च नृपसत्तमः ॥ १३ ॥ ( २०५ ) सावित्र्या प्रीतया दत्ता सावित्र्या हुतया ह्यपि । सावित्रीत्येव नामास्याश्चक्रुर्विप्रास्तथा पिता ॥ १४ ॥ सा विग्रहवतीव श्रीर्व्यवर्धत नृपात्मजा । कालेन चापि सा कन्या यौवनस्था बभूवह ॥ १५ ॥ यौवनस्थां तु तां दृष्ट्वा स्वां सुतां देवरूपिणीम् । अयाच्यमानां च वरैर्नृपतिर्दुःखितोऽभवत् ॥ १६ ॥

राजोवाच- पुत्रि प्रदानकालस्ते न च कश्चिद्वृणोति माम् । स्वयमन्विच्छ भर्तारं गुणैः सदृशमात्मनः ॥ १७ ॥ प्रार्थितः पुरुषो यश्च स निवेद्यस्त्वया मम । विमृश्याहं प्रदास्यामि वरय त्वं यथेप्सितम् ॥ १८ ॥ एवमुक्त्वा दुहितरं तथा वृद्धांश्च मन्त्रिणः । व्यादिदेशानुयात्रं च गम्यतां चेत्यचोदयत् ॥ १९ ॥ साऽभिवाद्य पितुः पादौ व्रीडितेव तपस्विनी । प्रितुर्वचनमाज्ञाय निर्जगामाविचारितम् ॥ २० ॥ मान्यानां तत्र वृद्धानां कृत्वा पादाभिवादनम् । वनानि क्रमशस्तात सर्वाण्येवाभ्यगच्छत ॥ २१ ॥ एवं तीर्थेषु सर्वेषु धनोत्सर्गं नृपात्मजा । कुर्वती द्विजमुख्यानां तं तं देशं जगाम ह ॥ २२ ॥ ततोऽभिगम्य तीर्थानि सर्वाण्येवाश्रमांस्तथा । आजगाम पितुर्वेश्म सावित्री सह मन्त्रिभिः ॥ २३ ॥ नारदेन सहासीनं सा दृष्ट्वा पितरं शुभा । उभयोरेव शिरसा चक्रे पादाभिवादनम् ॥ २४ ॥

नारद उवाच- क्व गताऽभूत्सुतेयं ते कुतश्चैवागता नृप । किमर्थं युवती भर्त्रे न चैनां संप्रयच्छसि ॥ २५ ॥ ( २०६ ) अश्वपतिरुवाच- कार्येण खल्वनेनैव प्रेषिताद्यैव चागता । एतस्याः शृणु देवर्षे भर्तारं योऽनयावृतः ॥ २६ ॥

सावित्र्युवाच- आसीच्छाल्वेषु धर्मात्मा क्षत्रियः पृथिवीपतिः । द्युमत्सेन इति ख्यातः पश्चाच्चान्धोबभूव ह ॥ २७ ॥ विनष्टचक्षुषस्तस्य बालपुत्रस्य धीमतः । सामीप्येन हृतं राज्यं छिद्रेऽस्मिन्पूर्ववैरिणा ॥ २८ ॥ स बालवत्सया सार्धं भार्यया प्रस्थितो वनम् । महारण्यं गतश्चापि तपस्तेपे महाव्रतः ॥ २९ ॥ तस्य पुत्रः पुरे जातः संवृद्धश्च तपोवने । सत्यवाननुरूपो मे भर्तोति मनसा वृतः ॥ ३० ॥

नारद उवाच- अहो बत महत्पापं सावित्र्या नृपते कृतम् । अजानन्त्या यदनया गुणवान्सत्यवान्वृतः ॥ ३१ ॥ सत्यं वदत्यस्य पिता सत्यं माता प्रभाषते । तथाऽस्य ब्राह्मणाश्चक्रुर्नामैतत्सत्यवानिति ॥ ३२ ॥

राजोवाच- अपीदानीं स तेजस्वी बुद्धिमान्वा नृपात्मजः । क्षमावानपि वा शूरः सत्यवान्पितृवत्सलः ॥ ३३ ॥

नारद उवाच- विवस्वानिव तेजस्वी बृहस्पतिसमोमतौ । महेन्द्र इव वरिश्च वसुधेव क्षमान्वितः ॥ ३४ ॥

राजोवाच- अपि राजात्मजो दाता ब्रह्मण्यश्चापि सत्यवान् । रूपवानप्युदारो वाऽप्यथवा प्रियदर्शनः ॥ ३५ ॥ ( २०७ ) नारद उवाच- सांकृते रन्तिदेवस्य स्वशक्त्या दानतः समः । ब्रह्मण्यः सत्यवादी च शिविरौशीनरो यथा ॥ ३६ ॥ ययातिरिव चोदारः सोमवत्प्रियदर्शनः । रूपेणान्यतमोऽश्विभ्यां द्युमत्सेनसुतो बली ॥ ३७ ॥ स वदान्यः स तेजस्वी धीमांश्चैव क्षमान्वितः । स दान्तः स मृदुः शूरः ससत्यः संयतेन्द्रियः ॥ सन्मैत्रः सोनसूयश्च स ह्रीमान्द्युतिमांश्च सः ॥ ३८ ॥

राजोवाच- गुणैरूपेतं सर्वैस्तं भगवन्प्रब्रवीषि मे । दोषानप्यस्य मे ब्रूहि यदि सन्तीह केचन ॥ ३९ ॥

नारद उवाच- एक एवास्य दोषो हि गुणानाक्रम्य तिष्ठति । स च दोषः प्रयत्नेन न शक्यमतिवर्तितुम् ॥ ४० ॥ एको दोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवान् । संवत्सरेण क्षीणायुर्देहन्यासं करिष्यति ॥ ४१ ॥

राजोवाच- एहि सावित्रि गच्छस्व अन्यं वरय शोभने । तस्य दोषो महानेको गुणानाक्रम्य च स्थितः ॥ ४२ ॥ यथा मे भगवानाह नारदो देवसत्कृतः। संवत्सरेण सोऽल्पायुर्देहन्यासं करिष्यति ॥ ४३ ॥

सावित्र्युवाच- सकृदंशो निपतति सकृत्कन्या प्रदीयते । सकृदाह ददानीति त्रीण्येतानि सकृत्सकृत् ॥ ४४ ॥ दीर्घायुरथवाऽल्पायुः सगुणो निर्गुणोऽपि वा । सकृद्वृतो मया भर्ता न द्वितीयं वृणोम्यहम् ॥ ४५ ॥ ( २०८ ) नारद उवाच- स्थिरा वुद्धिर्नरश्रेष्ठ सावित्र्या दुहितुस्तव । नैषा वारयितुं शक्या धर्मादस्मात्कथंचन ॥ ४६ ॥ नान्यस्मिन्पुरुषे सन्ति ये सत्यवति वै गुणाः । प्रदानमेव तस्मान्मे रोचते दुहितुस्त्व ॥ ४७ ॥

राजोवाच- अविचाल्यमेतदुक्तं तथ्यं च भवता वचः । करिष्याम्येतदेवं च गुरुर्हि भगवान्मम ॥ ४८ ॥

नारद उवाच- अविघ्नमस्तु सावित्र्याः प्रदाने दुहितुस्तव । साधयिष्याम्यहं तावत्सर्वेषां भद्रमस्तु वः ॥ ४९ ॥ एवमुक्त्वा खमुत्पत्य नारदस्त्रिदिवं गतः । राजाऽपि दुहितुः सज्जं वैवाहिकमकारयत् ॥ ५० ॥ अथ कन्याप्रदाने स तमेवार्थं विचिन्तयन् । समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः ॥ ५१ ॥ ततो वृद्धान्द्विजान्सर्वानृत्विक्सभ्यपुरोहितान् । समाहूय दिने पुण्ये प्रययौ सह कन्यया ॥ ५२ ॥ मेध्यारण्यं स गत्वा च द्युमत्सेनाश्रमं नृपः । पद्भ्यामेव द्विजैः सार्धें राजर्षिस्तमुपागमत् ॥ ५३ ॥ स राजा तस्य राजर्षेः कृत्वा पूजां यथाऽर्हतः । वाचा सुनियतो भूत्वा चकारात्मनिवेदनम् ॥ ५४ ॥ सावित्री नाम राजर्षे कन्येयं मम शोभना । तां स्वधर्मेण धर्मज्ञ स्नुषार्थे त्वं गृहाण मे ॥ ५५ ॥

द्युमत्सेन उवाच- च्युताः स्म राज्याद्वनवासमाश्रिता- श्चराम धर्मं नियतास्तपस्विनः । ( २०९ ) कथं त्वनर्हा वनवासमाश्रमे सहिष्यति क्लेशमिमं सुता तव ॥ ५६ ॥

अश्वपतिरुवाच- सुखं च दुःखं च भवाभवात्मकं यदाविजानाति सुताऽहमेव च । न मद्विधे युज्यति वाक्यमीदृशं विनिश्चयेनाभिगतोस्मि ते नृप ॥ ५७ ॥ आशां नार्हसि मे हन्तुं सौहृदात्प्रणतस्य च । अभितश्चागतं प्रेम्णा प्रत्याख्यातुं न माऽर्हसि ॥ ५८ ॥ अनुरूपो हि युक्तश्च त्वं ममाहं तवापि च । स्नुषां प्रतीच्छ मे कन्यां भार्यां सत्यवतस्ततः ॥ ५९ ॥

धुमत्सेन उवाच- पूर्वमेवाभिलषितः संबन्धो मे त्वया सह । भ्रष्टराज्यस्त्वहमिति तत एतद्विचारितम् ॥ ६० ॥ अभिप्रायस्त्वयं यो मे पूर्वमेवाभिकाङ्क्षितः । स निर्वर्ततु मेऽद्यैव काङ्क्षितो ह्यसि मेऽतिथिः ॥ ६१ ॥ ततः सर्वान्समानाय्य द्विजानाश्रमवासिनः । यथाविधिसमुद्वादं कारयामासतुर्नुपौ ॥ ६२ ॥ दत्त्वा सोऽश्वपतिः कन्यां यथार्हं सपरिच्छदम् । ययौ स्वमेव भवनं युक्तः परमयामुदा ॥ ६३ ॥ सत्यवानपि तां भार्यां लब्ध्वा सर्वगुणान्विताम् । मुमुदे सा च तं लब्ध्वा भर्तारं मनसेप्सितम् ॥ ६४ ॥ गते पितरि सर्वाणि संन्यस्याभरणानि सा । जगृहे वल्कलान्येव वस्त्रं काषायमेव च ॥ ६५ ॥ परिचारैर्गुणैश्चैव प्रश्रयेण दमेन च । सर्वकामक्रियाभिश्च सर्वेषां तुष्टिमादधे ॥ ६६ ॥ ( २१० )

एवं तत्राश्रमे तेषां तदा निवसतां सताम् ।
कालस्तपस्यतां कश्चिदपाक्रामत भारत ॥ ६७ ॥
सावित्र्या ग्लायमानायास्तिष्ठन्त्यास्तु दिवानिशम् ।
नारदेन यदुक्तं तद्वाक्यं मनसि वर्तते ॥ ६८ ॥
ततः काले बहुतिथे व्यतिक्रान्ते कदाचन ।
प्राप्तः स कालो मर्तव्यं यत्र सत्यवता नृप ॥ ६९ ॥
गणयन्त्याश्च सावित्र्या दिवसे दिवसे गते ।
यद्वाक्यं नारदेनोक्तं वर्तते हृदि नित्यशः ॥ ७० ॥
चतुर्थेऽहनि मर्तव्यमिति संचिन्त्य भामिनी ।
व्रतं त्रिरात्रमुद्दिश्य दिवारात्रं स्थिताऽभवत् ॥ ७१ ॥
त्रयोदश्यां चोपवासं प्रतिपत्सु च पारणम् ।
आयुष्यं वर्धते भर्तुव्रतेनानेन भारत ॥ ७२ ॥
श्वोभूते भर्तृमरणे सावित्र्या भरतर्षभ ।
दुःखान्वितायास्तिष्ठन्त्याः सा रात्रिर्व्यत्यवर्तत ॥ ७३ ॥
अद्य तद्दिवसं चेति हुत्वा दीप्तं हुताशनम् ।
युगमात्रोदिते सूर्ये कृत्वा पौर्वाह्णिकी क्रियाः ॥ ७४ ॥
व्रतं समाप्य सावित्री स्नात्वा शुद्धा यशस्विनी ।
ततः सर्वान्द्विजान्वृद्धान्श्वश्रूं श्वशुरमेव च ॥
अभिवाद्यानुपूर्व्येण प्राञ्जलिर्नियता स्थिता ॥ ७५ ॥
अवैधव्याशिषस्ते तु सावित्र्यर्थं हिताः शुभाः ।
ऊचुस्तपस्विनः सर्वे तपोवननिवासिनः ॥ ७६ ॥
एवमस्त्विति सावित्री ध्यानयोगपरायणा ।
मनसा ता गिरः सर्वाः प्रत्यगृह्णात्तपस्विनी ॥ ७७ ॥
तं कालं तं मुहूर्तं च प्रतीक्षन्ती नृपात्मजा ।
यथोक्तं नारदवचश्चिन्तयन्ती सुदुःखिता ॥ ७८ ॥
ततस्तु श्वश्रूश्वशुरावूचतुस्तां नृपात्मजाम् ।

( २११ )

एकान्तमास्थितां वाक्यं प्रीत्या भरतसत्तम ॥ ७९ ॥ व्रतं यथोपदिष्टं तु तथा तत्पारितं त्वया । आहारकालः सम्प्राप्तः क्रियतां यदनन्तरम् ॥ ८० ॥

सावित्र्युवाच- अस्तं गते मयाऽऽदित्ये भोक्तव्यं कृतकामया । एष मे हृदि संकल्पः समयश्च कृतो मया ॥ ८१ ॥ एवं संभाषमाणायाः सावित्र्या भोजनं प्रति । स्कन्धे परशुमादाय सत्यवान्प्रस्थितो वनम् ॥ ८२ ॥ सावित्री त्वाह भर्तारं नैकस्त्वं गन्तुमर्हसि । सह त्वया गमिष्यामि न हि त्वां हातुमुत्सहे ॥ ८३ ॥

सत्यवानुवाच- वनं न गतपूर्वं ते दुःखः पन्थाश्च भामिनि। व्रतोपवासक्षामा च कथं पद्भ्यां गमिष्यसि ॥ ८४ ॥

सावित्र्युवाच- उपवासान्न मे ग्लानिर्नास्ति चापि परिश्रमः । गमने च कृतोत्साहां प्रतिषेद्धुं न माऽर्हसि ॥ ८५ ॥

सत्यवानुवाच- यदि ते गमनोत्साहः करिष्यामि तव प्रियम् । मम त्वामन्त्रय गुरून्न मां दोषः स्पृशेदयम् ॥ ८६ ॥ साऽभिवाद्याब्रवीच्छ्वश्रूं श्वशुरं च महाव्रता । अयं गच्छति मे भर्ता फलाहारो महावनम् ॥ ८७ ॥ इच्छेयमभ्यनुज्ञाता आर्ययाश्वशुरेण ह । अनेन सह निर्गन्तुं न मेऽद्य विरहः क्षमः ॥ ८८ ॥ गुर्वग्निहोत्रार्थकृते प्रस्थितश्च सुतस्तव । न निवार्योऽनिवार्यः स्यादन्यथा प्रस्थितो वनम् ॥ ८९ ॥ संवत्सरः किंचिदूनो न निष्क्रान्ताऽहमाश्रमात् । ( २१२) वनं कुसुमितं द्रष्टुं परं कौतूहलं हि मे ॥ ९० ॥

द्युमत्सेन उवाच-

यदा प्रभृति सावित्री पित्रा दत्ता स्नुषा मम ।
नानयाऽभ्यर्थनायुक्तमुक्तपूर्वं स्मराम्यहम् ॥ ९१ ॥
तदेषा लभतां कामं यथाभिलषितं वधूः ।
अप्रमादश्च कर्तव्यः पुत्रि सत्यवतः पथि ॥ ९२ ॥
उभाभ्यामभ्यनुज्ञाता सा जगाम यशस्विनी ।
सह भर्ता हसन्तीव हृदयेन विदूयता ॥ ९३ ॥
अनुव्रजन्ती भर्तारं जगाम मृदुगामिनी ।
द्विधेव हृदयं कृत्वा तं च कालमवेक्षती ॥ ९४ ॥
अथ भार्यासहायः स फलान्यादाय वीर्यवान् ।
कठिनं पूरयामास ततः काष्ठान्यपाटयत् ॥ ९५ ॥
तस्य पाटयतः काष्ठं स्वेदो वै समजायत ।
व्यायामेन च तेनास्य जज्ञे शिरसि वेदना ॥ ९६ ॥
सोऽभिगम्य प्रियां भार्यामुवाच श्रमपीडितः ।
व्यायामेन ममानेन जाता शिरसि वेदना ॥ ९७ ॥
अङ्गानि चैव सावित्री हृदयं दूयतीव च ।
अस्वस्थमिव चात्मानं लक्षये मितभाषिणि ॥ ९८ ॥
शूलैरिव शिरो विद्धमिदं संलक्षयाम्यहम् ।
भ्रमन्तीव दिशः सर्वाश्चक्रारूढं मनो मम ।
तत्स्वप्तुमिच्छे कल्याणि न स्थातुं शक्तिरस्ति मे ॥ ९९ ॥
सा समासाद्य सावित्री भर्तारमुपगम्य च ।
उत्सङ्गेऽस्य शिरः कृत्वा निषसाद महीतले ॥ १०० ॥
ततः सा नारदवचो विमृशन्ती तपस्विनी।
तं मुहूर्तं क्षणं वेलां दिवसं च युयोज ह ॥ १०१ ॥
'हन्त प्राप्तः स कालोऽयमिति चिन्तापरा सती ।

( २१३ )

मूहूर्तादेव चापश्यत्पुरुषं रक्तवाससम् । बद्धमौलिं वपुष्मन्तमादित्यसमतेजसम् ॥ १०२ ॥ श्यामावदातं रक्ताक्षं पाशहस्तं भयावहम् । स्थितं सत्यवतःपार्श्वे निरीक्षन्तं तमेव च ॥ १०३ ॥ तं दृष्ट्वा सहसोत्थाय भर्तुर्न्य॑स्य शनैः शिरः । कृताञ्जलिरुवाचार्ता हृदयेन प्रवेपती ॥ १०४ ॥ दैवतं त्वाऽभिजानामि वपुरेतद्ध्यमानुषम् । कामया ब्रूहि देवेश कस्त्वं किं च चिर्कीषसि ॥ १०५ ॥

यम उवाच- पतिव्रताऽसि सावित्रि तथैव च तपोन्विता । अतस्त्वामभिभाषामि विद्धि मां त्वं शुभे यमम् ॥ १०६ ॥ अयं ते सत्यवान्भर्ता क्षीणायुः पार्थिवात्मजः । नेष्यामि तमहं बद्ध्वा विद्ध्येतन्मे चिकीर्षितम् ॥ १०७ ॥

सावित्र्युवाच- श्रूयते भगवन्दूतास्तवागच्छन्ति मानवान् । नेतुं किल भवान्कस्मादागतोऽसि स्वयं प्रभो ॥ १०८ ॥

यम उवाच- अयं च धर्मसंयुक्तो रूपवान्गुणसागरः । नार्हो मत्पुरुषैर्नेतुमतोऽस्मि स्वयमागतः ॥ १०९ ॥ ततः सत्यवतः कायात्पाशबद्धं वशंगतम् । अङ्गुष्ठमात्रं पुरुषं निधकर्ष यमो बलात् ॥ ११० ॥ ततः समुद्धृतप्राणं गतश्वासं हृतप्रभम् । निर्विचेष्टं शरीरं तद्बभूवाप्रियदर्शनम् ॥ १११ ॥ यमस्तु तं ततो बद्ध्वा प्रयातो दक्षिणामुखः । सावित्री चैव दुःखार्ता यममेवान्वगच्छत ॥ ११२ ॥ भर्तुः शरीररक्षां च विधातुं हि तपस्विनी । ( २१४ ) भर्तारमनुगच्छन्ती तथावस्थं सुमध्यमा । नियमव्रतसंसिद्धा महाभागा पतिव्रता ॥ ११३ ॥

यम उवाच निवर्त गच्छ सावित्रि कुरुष्वास्यौर्ध्वदेहिकम् । कृतं भर्तुस्त्वयाऽऽनृण्यं यावद्गम्यं गतं त्वया ॥ ११४ ॥

सावित्र्युवाच- यत्र मे नीयते भर्ता स्वयं वा यत्र गच्छति । मया च तत्र गन्तव्यमेष धर्मः सनातनः ॥ ११५ ॥ तपसा गुरुभक्त्या च भर्तुः स्नेहाद्व्रतेन च । तव चैव प्रसादेन न मे प्रतिहता गतिः ॥ ११६ ॥ प्राहुः साप्तपदं मैत्रं बुधास्तत्त्वार्थदर्शिनः । मित्रतां च पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥ ११७ ॥ नानात्मवन्तस्तु वने चरन्ति धर्मं च वासं च परिश्रमं च । विज्ञानतो धर्ममुदाहरन्ति तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ ११८ ॥ एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः । मा वै द्वितीयं मा तृतीयं च वाञ्छे तस्मात्सन्तो धर्ममाहुः प्रधानम् ॥ ११९ ॥

यम उवाच- निवर्त तुष्टोऽस्मि तवानया गिरा स्वराक्षरव्यञ्जनहेतुयुक्तया । वरं वृष्णीष्वेह विनाऽस्य जीवितं ददामि ते सर्वमनिन्दिते वरम् ॥ १२० ॥ ( २१५ ) सावित्र्युवाच- च्युतः स्वराज्याद्वनवासमाश्रितो विनष्टचक्षुः श्वशुरो ममाश्रमे । स लब्ध चक्षुर्बलवान्भवेन्नृप- स्तव प्रसादाज्ज्वलनार्कसंनिभः ॥ १२१ ॥

यम उवाच- ददानि तेऽहं तमनिन्दिते वरं यथा त्वयोक्तं भविता च तत्तथा । तवाध्वना ग्लानिमिवोपलक्षये निवर्त गच्छस्व न ते श्रमो भवेत् ॥ १२२ ॥

सावित्र्युवाच- श्रमः कुतो भर्तृसमीपतो हि मे यतो हि भर्ता मम सा गतिर्ध्रुवा । यतः पतिं नेष्यसि तत्र मे गतिः सुरेश भूयश्च वचो निबोध मे ॥ १२३ ॥ सतां सकृत्संगतमीप्सितं परं ततः परं मित्रमिति प्रचक्षते । नचाफलं सत्पुरुषेण संगतं ततः सतां संनिवसेत्समागमे ॥ १२४ ॥

यम उवाच- मनोऽनुकूलं बुधबुद्धिवर्धनं त्वया यदुक्तं वचनं हिताश्रयम् । विना पुनः सत्यवतोऽस्य जीवितं वरं द्वितीयं वरयस्व भामिनि ॥ १२५ ॥

सावित्र्युवाच- हृतं पुरा मे श्वशुरस्य धीमतः स्वमेव राज्यं लभतां स पार्थिवः । ( २१६ ) जह्यात्स्वधर्मान्न च मे गुरुर्यथा द्वितीयमेतद्वरयामि ते वरम् ॥ १२६ ॥

यम उवाच- स्वमेव राज्यं प्रतिपत्स्यतेऽचिरा- न्नच स्वधर्मात्परिहास्यते नृपः । कृतेन कामेन मया नृपात्मजे निवर्त गच्छस्व न ते श्रमो भवेत् ॥ १२७ ॥

सावित्र्युवाच- प्रजास्त्वयैता नियमेन संयता नियम्य चैता नयसे निकामया ततो यमत्वं तव देव विश्रुतं निबोध चेमां गिरमीरितां मया ॥ १२८ ॥ अद्रोहः सर्वभूतेषु कर्मणा मनसा गिरा । अनुग्रहश्च दानं च सतां धर्मः सनातनः ॥ १२९ ॥ एवं प्रायश्च लोकोऽयं मनुष्याः शक्तिपेशलाः । सन्तस्त्वेवाप्यमित्रेषु दयां प्राप्तेषु कुर्वते ॥ १३० ॥

यम उवाच- पिपासितस्येव भवेद्यथा पय- स्तथा त्वया वाक्यमिदं समीरितम् । विना पुनः सत्यवतोऽस्य जीवितं वरं वृणीष्वेह शुभे यदिच्छसि ॥ १३१ ॥

सावित्र्युवाच- ममानपत्यः पृथिवीपतिः पिता भवेत्पितुः पुत्रशतं तथौरसम् । कुलस्य संतानकरं च यद्भवेत् तृतीयमेतद्वरयामि ते वरम् ॥ १३२ ॥ ( २१७ ) यम उवाच- कुलस्य संतानकर सुवर्चसं शतं सुतानां पितुरस्तु ते शुभे । कृतेन कामेन नराधिपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ १३३ ॥

सावित्र्युवाच- न दूरमेतन्मम भर्तृसन्निधौ मनो हि मे दूरतरं प्रधावति । अथ व्रजन्नेव गिरं समुद्यतां मयोच्यमानां शृणु भूय एव च ॥ १३४ ॥ विवस्वतस्त्वं तनयः प्रतापवां- स्ततो हि वैवस्वत उच्यसे वुधैः । समेन धर्मेण चरन्ति ताः प्रजा- स्ततस्तवेहेश्वर धर्मराजता ॥ १३५ ॥ आत्मन्यपि न विश्वासस्तथा भवति सत्सु यः। तस्मात्सत्सु विशेषेण सर्वः प्रणयमिच्छति ॥ १३६ ॥ सौहृदात्सर्वभूतानां विश्वासो नाम जायते । तस्मात्सत्सु विशेषेण विश्वासं कुरुते जनः ॥ १३७ ॥

यम उवाच- उदाहृतं ते वचनं यदङ्गने शुभे न तादृक् त्वदृते श्रुतं मया । अनेन तुष्टोऽस्मि विनाऽस्य जीवितं वरं चतुर्थं वरयस्व गच्छ च ॥ १३८ ॥

सावित्र्युवाच- ममात्मजं सत्यवतस्तथौरसं भवेदुभाभ्यामिह यत्कुलोद्वहम् । ( २१८ ) शतं सुतानां बलवीर्यशालिना- मिदं चतुर्थं वरयामि ते वरम् ॥ १३९ ॥

यम उवाच-

शतं सुतानां बलवीर्यशालिनां भविष्यति प्रीतिकरं तवाबले । परिश्रमस्ते न भवेन्नृपात्मजे निवर्त दूरं हि पथस्त्वमागता ॥ १४० ॥

सावित्र्युवाच-

सतां सदा शाश्वतधर्मवृत्तिः सन्तो न सीदन्ति न च व्यथन्ति । सतां सद्भिर्नाफलः संगमोऽस्ति सद्भ्यो भयं नानुवर्तन्ति सन्तः ॥ १४१ ॥ सन्तो हि सत्येन नयन्ति सूर्यं सन्तो भूमिं तपसा धारयन्ति । सन्तो गतिर्भूतभव्यस्य राज- न्सतां मध्ये नावसीदन्ति सन्तः ॥ १४२ ॥ आर्यजुष्टमिदं वृत्तमिति विज्ञाय शाश्वतम् । सन्तः परार्थं कुर्वाणा नावेक्षन्ति प्रतिक्रियाः ॥ १४३ ॥ न च प्रसादः सत्पुरुषेषु मोघो न चाप्यर्थो नश्यति नापि मानः । यस्मादेतन्नियतं सत्सु नित्यं तस्मात्सन्तो रक्षितारो भवन्ति ॥ १४४ ॥

यम उवाच-

यथायथा भाषसे धर्मसंहितं मनोऽनुकूलं सुपदं महार्थवत् । ( २१९ ) तथातथा मे त्वयि भक्तिरुत्तमा वरं वृणीष्वाप्रतिमं पतिव्रते ॥ १४५ ॥

सावित्र्युवाच-

न तेऽपवर्गः सुकृताद्विना कृत- स्तथा यथाऽन्येषु वरेषु मानद । वरं वृणे जीवतु सत्यवानयं यथा मृता ह्येवमहं पति विना ॥ १४६ ॥ न कामये भर्तृविनाकृता सुखं न कामये भर्तृविनाकृता दिवम् । न कामये भर्तृविनाकृता श्रियं न भर्तृहीना व्यवसामि जीवितुम् ॥ १४७ ॥ वरातिसर्गः शतपुत्रता मम त्वयैव दत्तो ह्रियते च मे पतिः । वरं वृणे जीवतु सत्यवानयं तवैव सत्यं वचनं भविष्यति ॥ १४८ ॥

तथेत्युक्त्वा तु तं पाशं मुक्त्वा वैवस्वतो यमः । धर्मराजः प्रहृष्टात्मा सावित्रीमिदमब्रवीत् ॥ १४९ ॥ एष भद्रे मया मुक्तो भर्ता ते कुलनन्दिनि । तोषितोऽहं त्वया साध्वि वाक्यैर्धर्मार्थसंहितैः ॥ १५० ॥ अरोगस्तव नेयश्च सिद्धार्थः स भविष्यति । चतुर्वर्षशतायुश्च त्वया सार्धमवाप्स्यति ॥ १४२ ॥ एवं तस्यै वरं दत्त्वा धर्मराजः प्रतापवान् । निवर्तयित्वा सावित्रीं स्वमेव भवनं ययौ ॥ १५२ ॥ सावित्र्यपि यमे याते भर्तारं प्रतिलभ्य च । जगाम तत्र यत्रास्या भर्तुः शावं कलेवरम् ॥ १५३ ॥ साभूमौ प्रेक्ष्य भर्तारमुपसृत्योपगृह्य च । ( २२० ) उत्सङ्गे शिर आरोप्य भूमावुपविवेश ह ॥ १५४ ॥ संज्ञां च स पुनर्लब्ध्वा सावित्रीमभ्यभाषत । प्रोष्यागत इव प्रेम्णा पुनः पुनरुदीक्ष्य वै ॥ १५५ ॥ सुचिरं बत सुप्तोऽस्मि किमर्थं नावबोधितः । क्व चासौ पुरुषः श्यामो योऽसौ मांसं चकर्ष ह ॥ १५६ ॥

सावित्र्युवाच-

सुचिरं त्वं प्रसुप्तोसि ममाङ्के पुरुषर्षभ । गतः स भगवान्देवः प्रजासंयमनो यमः ॥ १५७ ॥ विश्रान्तोसि महाभाग विनिद्रश्च नृपात्मजः । यदि शक्यं समुत्तिष्ठ विगाढां पश्य शर्वरीम् ॥ १५८ ॥

सत्यवानुवाच-

कामये दर्शनं पित्रोर्याहि सावित्रि मा चिरम् । अपि नाम गुरू तौ हि पश्येऽहं ध्रियमाणकौ ॥ १५९ ॥ पुरा मातुः पितुर्वाऽपि यदि पश्यामिविप्रियम् । न जीविष्ये वरारोहे सत्येनात्मानमालभे ॥ १६० ॥ स्वस्थोऽस्मि बलवानस्मि दिदृक्षुः पितरावुभौ । ब्रुवन्नेवं त्वरायुक्तः सम्प्रायादाश्रमं प्रति ॥ १६१ ॥ एतस्मिन्नेव काले तु द्युमत्सेनो महाबलः । लब्धचक्षुः प्रसन्नायां दृष्ट्यां सर्वं ददर्श ह ॥ १६२ ॥ स सर्वानाश्रमान्गत्वा शैव्यया सह भार्यया । पुत्रहेतोः परामार्तिं जगाम भरतर्षभ ॥ १६३ ॥ ततो मुहूर्तात्सावित्री भर्त्रा सत्यवता सह । आजगामाश्रमं रात्रौ प्रहृष्टा प्रविवेश ह ॥ १६४ ॥ दृष्ट्वा चोत्पतिताः सर्वे हर्षें जग्मुश्च ते द्विजाः । कण्ठं माता पिता चास्य समालिङ्ग्याभ्यरोदताम् ॥ १६५ ॥ पुत्रेण संगतं त्वां तु चतुष्मन्तं निरीक्ष्य च । ( २२१ ) सर्वे वयं वै पृच्छामो वृद्धिं वै पृथिवीपते ॥ १६६ ॥ समागमेन पुत्रस्य सावित्र्या दर्शनेन च । चक्षुषश्चात्मनो लाभात्त्रिभिर्दिष्ट्या विवर्धसे ॥ १६७ ॥ ततो राज्ञा सहासीनाः सर्वे ते वनवासिनः । जातकौतूहलाः पार्थ पप्रच्छुर्नृपतेः सुतम् ॥ १६८ ॥ प्रागेव नागतं कस्मात्सभार्येण त्वया विभो । विरात्रे चागतं कस्मात्कोऽनुबन्धस्तवाभवत् ॥ १६९ ॥

सत्यवानुवाच-

पित्राऽहमभ्यनुज्ञातः सावित्री सहितो गतः। अथ मेऽभूच्छिरोदुःखं वने काष्ठानि भिन्दतः ॥ १७० ॥ सुप्तश्चाहं वेदनया चिरमित्युपलक्षये । तावत्कालं न च मया सुप्तपूर्वं कदाचन ॥ १७१ ॥ सर्वेषामेव भवतां संतापो मा भवेदिति । अतो विरात्रगमनं नान्यदस्तीह कारणम् ॥ १७२ ॥

गौतम उवाच-

अकस्माच्चक्षुषःप्राप्तिर्द्युमत्सेनस्य ते पितुः । नास्य त्वं कारणं वेत्सि सावित्री वक्तुमर्हति ॥ १७३ ॥

सावित्र्युवाच-

मृत्युर्मे पत्युराख्यातो नारदेन महात्मना । स चाद्य दिवसः प्राप्तस्ततो नैनं जहाम्यहम् ॥ १७४ ॥ सुप्तं चैनं यमः साक्षादुपागच्छत्सकिंकरः । स एनमनयद्बद्ध्वा दिशं पितृनिषेविताम् ॥ १७५ ॥ अस्तौषं तमहं देवं सत्येन वचसा विभुम् । पञ्च वै तेन मे दत्ता वराः शृणुत तान्मम ॥ १७६ ॥ चक्षुषी च स्वराज्यं च द्वौ वरौ श्वशुरस्य मे । लब्धं पितुः पुत्रशतं पुत्राणां चात्मनः शतम् ॥ १७७ ॥ ( २२२ )

चतुर्वर्षशतायुर्मे भर्ता लब्धश्च सत्यवान् ।
भर्तुर्हि जीवितार्थं तु मया चीर्णं त्विदं व्रतम् ॥ १७८ ॥
एतत्सर्वं मयाऽऽख्यातं कारणं विस्तरेण वः ।
यथावृत्तं सुखोदर्कमिदं दुःखं महन्मम ॥ १७९ ॥

ऋषय ऊचुः-

निमज्जमानं व्यसनैरभिद्रुतं
कुलं नरेन्द्रस्य तमोमये हदे ।
त्वया सुशीलव्रतपुण्यया कुलं
समुद्धृतं साध्वि पुनः कुलीनया ॥ १८० ॥
ततः प्रकृतयः सर्वाः साल्वेभ्योऽभ्यागता नृपम् ।
आचख्युर्निहतं चैव स्वेनामात्येन तं द्विषम् ॥ १८१ ॥
तं मन्त्रिणा हतं प्रोच्य ससहायं सबान्धवम् ।
न्यवेदयन्यथावृत्तं विद्रुतं च द्विषाद्बलम् ॥ १८२ ॥
ततोऽभिवाद्य तान्वृद्धान्द्विजानाश्रमवासिनः ।
तैश्चाभिपूजितः सर्वैः प्रययौ नगरं प्रति ॥ १८३ ॥
ततोऽभिषिषिचुः प्रीत्या द्युमत्सेन पुरोहिताः ।
पुत्रं चास्य महात्मानं यौवराज्येऽभ्यषेचयन् ॥ १८४ ॥
ततः कालेन महता सावित्र्याः कीर्तिवर्धनम् ।
तद्वै पुत्रशतं जज्ञे शूराणामनिवर्तिनाम् ॥ १८५ ॥
भ्रातॄणां सोदराणां च तथैवास्याभवच्छतम् ।
मद्राधिपस्याश्वपतेर्मालव्यां सुमहद् बलम् ॥ १८६ ॥
एवमात्मा पिता माता श्वश्रूः श्वशुर एव च ।
भर्तुः कुलं च सावित्र्या सर्वं कृछ्रात्समुद्धृतम् ॥ १८७ ॥
यश्चेदं शृणुयाद्भक्त्या सावित्र्याख्यानमुत्तमम् ।
स सुखी सर्वसिद्धार्थो न दुःखं प्राप्नुयान्नरः ॥ २८८ ॥


"https://sa.wikisource.org/w/index.php?title=सावित्र्युपाख्यानम्&oldid=309245" इत्यस्माद् प्रतिप्राप्तम्