साहित्यदर्पणम्/द्वितीयः परिच्छेदः

← प्रथमः परिच्छेदः साहित्यदर्पणम्
द्वितीयः परिच्छेदः
विश्वनाथः
तृतीयः परिच्छेदः →

वाक्यस्वरूपमाह--

वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोच्चयः ।

     योग्यता पदार्थानां परस्परसंबन्धे बाधाभावः । पदोच्चयस्यैतदभावेऽपि वाक्यत्वे 'वह्निना सिञ्चिति' इत्याद्यपि वाक्यं स्यात् । आकाङ्क्षा प्रतीतिपर्यवसानविरहः । स च श्रोतुर्जिज्ञासारूपः । निराकाङ्क्षस्य वाक्यत्वे 'गौरश्वः पुरुषो इस्ती' इत्यादीनामप वाक्यत्वं स्यात् ।
आसत्तिर्बुद्ध्यविच्छेदः । बुद्धिविच्छेदेऽपि वाक्यत्वे इदानीमुच्चारितस्य देवदत्तशब्दस्य दिनात्नरो च्चारितेन गच्छतीति पदेन सङ्गतिः स्यात् ।
अत्राकाङ्क्षायोग्यतयोरात्मार्थधर्मत्वेऽपि पदोच्चयधर्मत्वमपचारात् ।
     वाक्योच्चयो महावाक्यम्
     योग्यताकाङ्क्षासत्तियुक्त इत्येव ।
                         इत्थं वाक्यं द्विधा मतं ।। सूत्र २.१ ।।
     इत्थमिति वाक्यत्वेन महावाक्यत्वेन च । उक्तं च तन्त्रवार्तिके--

'स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते ।।' इति ।

तत्र वाक्यं यथा--'शून्यं वासगृहम्-ऽइत्यादि (२२ पृ.) । महावाक्यं यथा--रामायण-महाभारत-रघुवंशादि ।
     पदोच्चयो वाक्यमित्युक्तं । तत्र किं पदलक्षणमित्यत आह--

वर्णाः पदं प्रयोगार्हानन्वितेकार्थबोधकाः ।

यथा--घट. । प्रयोगार्हेति प्रातिपदिकस्य व्यवच्छेदः । अनन्वितेति वाक्यमहावाक्ययोः । एकेति साकाङ्क्षानेकपदवाक्यानां । अर्थबोधका इति कचटतपेत्यादीनां । वर्णा इति बहुवचनमविवक्षितं ।

     अर्थो वाच्यश्व लक्ष्यश्च व्यङ्ग्यश्चेति त्रिधा मतः ।। सूत्र २.२ ।।

     एषां स्वरूपमाह--

वाच्योर्ऽथोऽभिधया बोध्यो लक्ष्यो लक्षणया मतः ।
व्यङ्ग्यो व्यञ्जनया ताः स्युस्तिस्त्रः शब्दस्य शक्तयः ।। सूत्र २.३ ।।

     ता अभिधाद्याः ।

तत्र संकेतितार्थस्य बोधनादग्रिमाभिधा ।

उत्तमवृद्धेन मध्यमवृद्धमुद्दिश्य 'गामानय' इत्युक्ते तं गवानयनप्रवृत्तमुपलभ्य बालोऽस्य वाक्यस्य 'सास्नादिमत्पिण्डानयनमर्थः' इति प्रथमं प्रतिपद्यते, अनन्तरं च 'गां बधान' 'अश्वमानय' इत्यादावावापोद्वापाभ्यां गोशब्दस्य 'सास्नादिमानर्थः' आनयनपदस्य च 'आहरणमर्थः' इति संकेतमवधारयति । क्वचिच्च प्रसीद्धपदसमभिव्याहरात्, यथा-- 'इह प्रभिन्नकमलोदरे मधूनि मधुकरः पिबति' इत्यत्र । क्वचिदाप्तोपदेशात्, यथा-- 'अयमश्वशब्दवाच्यः' इत्यत्र । तं च सङ्केतितमर्थं बोधयन्ती शब्दस्य शक्त्यन्तरानन्तरिता शक्तिरभिधा नाम ।

सङ्केतो गृह्यते जातौ गुणद्रव्यक्रियासु च ।। सूत्र २.४ ।।

     जातिर्गोपिण्डादिषु गोत्वादिका । गुणो विशेषाधानहेतुः सिद्धो वस्तुधर्मः । शुक्लादयो हि गवादिरं सजातीयेभ्यः कृष्णगवादिभ्यो व्यावर्तयन्ति । द्रव्यशब्दा एकव्यक्तिवाचिनो हरिहर-डित्थडवित्थादयः । क्रियाः साध्यरूपा वस्तुधर्माः पाकादयः । एषु हि अधिश्रयणावश्रयणान्तादिपूर्वापरीभूतो व्यापारकलापः पाकादिशब्दवाच्यः । एष्वेव हि व्यक्तेरुपाधिषु संकेतो गृह्यते, न व्यक्तौः आनन्त्यव्यभिचारदोषापातात् ।
अथ लक्षणा--

मुख्यार्थबाधे तद्युक्तो ययान्योर्ऽथः प्रतीयते ।
रूढेः प्रयोजनाद्वासौ लक्षणा शक्तिरर्पिता ।। सूत्र २.५ ।।

     'कलिङ्गः साहसिकः' इत्यादौ कलिङ्गादिशब्दो देशविशेषादिरूपे स्वार्थे । ञसंभवन्यया शब्दशक्त्या स्वसंयुक्तान्पुरुषादीन्प्रत्याययति, यया च 'गङ्गायां घोषः' इत्यादौ गङ्गादिशब्दो जलमयादिरूपार्थवाचकत्वात्प्रकृतेऽसंभवन्स्वस्य सामीप्यादिसंबन्धसंबन्धिनं तटादिं बोधयति, सा शब्दस्यार्पिता स्वाभविकेतरा ईश्वरानुद्भाविता वा शक्तिर्लक्षणा नाम । पूर्वत्र हेतू रूढिः प्रसिद्धिरेव । उत्तरत्र 'गङ्गातटे घोषः' इति प्रतिपादनालभ्यस्य शीतत्वपावनत्वातिशयस्य बोधनरूपं प्रयोजनं । हेतुं विनापि यस्य कस्यचित्संबन्धिनो लक्षणोऽतिप्रसङ्गः स्यात्, इत्युक्तम्-- 'रूढेः प्रयोजनाद्वासौ' इति ।
     केचित्तु 'कर्मणि कुशलः' इति रूढावुदाहरन्ति । तेषामयमभिप्रायः-- कुशांल्लातीति व्युत्पत्तिलभ्यः कुशग्राहिरूपो मुख्योर्ऽथः प्रकृतेऽसंभवन्विवेचकत्वादिसाधर्म्यसम्बन्धसम्बन्धिनं दक्षरूपमर्थं बोधयति । तदन्ये न मन्यन्ते । कुशग्राहिरूपार्थस्य व्युत्पत्तिलभ्यत्वेऽपि दक्षरूपस्यैव मुख्यार्थत्वात् । अन्यद्धि शब्दानां व्युत्पत्तिनिमित्तमन्यच्च प्रवृत्तिनिमित्तं । व्युत्पत्तिलभ्यस्य मुख्यार्थत्वे 'गौः शेते' इत्यत्रापि लक्षणा स्यात् । 'गमेर्डेः' (उणादि--२-६७) इति गमधतोर्डेप्रत्ययेन व्युत्पादितस्य गोशब्दस्य शयनकाले प्रयोगात् ॥
तद्भेदानाह--

मुख्यार्थस्येतराक्षेपो वाक्यार्थेऽन्वयसिद्धये ।
स्यादात्मनोऽप्युपादानादेषोपादानलक्षणा ।। सूत्र २.६ ।।

     रूढावुपादानलक्षणा यथा-- 'श्वेतो धावति' । प्रयोजने यथा-- 'कुन्ताः प्रविशन्ति' । अनयोर्हि श्वेतादिभिः कुन्तादिभिश्चाचेतनतया केवलैर्धावनप्रवेशनक्रिययोः कर्तृतयान्वयमलभमानैरेतत्सिद्धये आत्मसम्बन्धिनोऽश्वादयः पुरुषाद यश्चाक्षिप्यन्ते । पूर्वत्र प्रयोजनाभावाद्रूढिः, उत्तरत्र तु कुन्तादीनामतिगहनत्वं प्रयोजनं । अत्र च मुख्यार्थस्यात्मनोऽप्युपादानं । लक्षणलक्षणायां तु परस्यैवोपलक्षणमित्यनयोर्भेदः ।
इयमेवाजहत्स्वार्थेत्युच्यते ॥

अर्पणं स्वस्य वाक्यार्थे परस्यान्वयसिद्धये ।
उपलक्षणहेतुत्वादेषा लक्षणलक्षणा ।। सूत्र २.७ ।।

     रूढिप्रयोजनयोर्लक्षणलक्षणा यथा-- 'कलिङ्गः साहसिकः' 'गङ्गायां घोषः' इति च । अनयोर्हि पुरुषतटयोर्वाक्यार्थेऽन्वयसिद्धये कलिङ्गगङ्गाशब्दावात्मानमर्पयतः ।
यथा वा--

'अपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परं ।
विदधदीदृशमेव सदा सखे ! सुखितमास्स्व ततः शरदां शतम् ।।'

     अत्रापकारादीनां वाक्यार्थेऽन्वयसिद्धये उपकृतादयः शब्दा आत्मानमर्पयन्ति । अपकारिणं प्रत्युपकारादिप्रतिपादनान्मुख्यार्थबाधो वैपरीत्यलक्षणः सम्बन्धः, फलमप्यपकारातिशयः । इयमेव जहत्स्वार्थेत्युच्यते ।

आरोपाध्यवसानाभ्यां प्रत्येकं ता अपि द्विधा ।

     ताः पूर्वोक्ताश्चतुर्भेदलक्षणाः ।

विषयस्यानिगीर्णस्यान्यतादात्म्यप्रतीतिकृत ।। सूत्र २.८ ।।
सारोपा स्यान्निगीर्णस्य मता साध्यवसानिका ।

     विषयिणा अनिगीर्णस्य विषयस्य तेनैव सह तादात्म्यप्रतीतिकृत्सारोपा । इयमेव रूपकालङ्कारस्य बीजं । रूढावुपादानलक्षणा सारोपा यथा-- 'अश्वः श्वेतो धावति' । अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्वरूपः स्वसमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा-- 'एते कुन्ताः प्रविशन्ति' । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात् । रूढौ लक्षणलक्षणा सारेपा यथा-- 'कलिङ्गः पुरुषो युध्यते' । अत्र कलिङ्ग पुरुषयोराधाराधेयभावः सम्बन्धः । प्रयोजने यथा-- 'आयुर्घृतम्' । अत्रायुष्कारणमपि घृतं कार्यकारणभावसम्बन्धसम्बन्ध्यायुस्तादात्म्येन प्रतीयते । अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनं ।
     यथा वा-- राजकीये पुरुषे गच्छति 'राजासौ गच्छति' इति । अत्र स्वस्वामिभावलक्षणः सम्बन्धः । यथा वा-- अग्रमात्रेऽवयवभागे 'हस्तोऽयम्' । अत्रावयवावयवि भावलक्षणसम्बन्धः । 'ब्राह्मणोऽपि तक्षासौ' । अत्र तात्कर्म्यलक्षणः । इन्द्रार्थासु स्थूणासु 'अमी इन्द्राः' । अत्र तादर्थ्यलक्षणः सम्बन्धः । एवमन्यत्रापि । निगीर्णस्य पुनविषयस्यान्यतादात्म्यप्रतीतिकृत्साध्यवसाना । अस्याश्चतुर्षु भेदेषु पूर्वोदाहरणान्येव । तदेवमष्टप्रकारा लक्षणा ।

सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ।। सूत्र २.९ ।।
सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः ।<

     ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसंबन्धाः कार्यकारणभावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येव । रूढावुपादानलक्षणा सारेपा गौणी यथा-- एतानि तैलानि हेमन्ते सुखानि' । अत्र तैलशब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते । प्रयोजने यथा-- राजकुमारेषु तत्सदृशेषु च गच्छत्सु'एते राजकुमारा गच्छन्ति' । रूढावुपादानलक्षणा साध्यवसाना गौणी यथा-- 'तैलानि हेमन्ते सुखानि' । प्रयोजने यथा-- 'राजकुमारा गच्छन्ति' रूढौ लक्षणलक्षणा सारेपा गौणी यथा-- 'राजा गौडेन्द्रं कण्टकं शोधयति' । प्रयोजने यथा-- 'गौर्वाहीकः' रूढौ लक्षणलक्षणा साध्यवसाना गौणी यथा-- 'राजा कण्टकं शोधयति' । प्रयोजने यथा--गौर्जल्पति' ।
     अत्र केचिदाहुः--गौसहचारिणो गुणा जाड्यमान्द्यादयो लक्ष्यन्ते । ते च गोशब्दस्य वाहीकार्थाभिधाने निमित्तीभवन्ति । तदयुक्तम्--
गोशब्दस्यागृहीतसङ्केतं वाहीकार्थमभिधातुमशक्यत्वाद्गोशब्दार्थमात्रबोधनाच्च । अभिधाया विरतत्वाद्विरतायाश्च पुनरुत्थानाभावात् ।
     अन्ये च पुनर्गौशब्देन वाहीकार्थो नाभिधीयते, किन्तु स्वार्थसहचारिगुणसाजात्येन वाहीकार्थगता गुणा एव लक्ष्यन्ते । तदप्यन्ये न मन्यन्ते । तथाहि-- अत्र गोशब्दाद्वाहीकार्थः प्रतीयते, न वा ? आद्ये गोशब्दादेव वा ? लक्षिताद्वा गुणाद्? अविनाभावाद्वा ? तत्र, न प्रथमः, वाहीकार्थेऽस्यासङ्केतित्वात् । न द्वितीयः,-- अविनाभावलभ्यस्यार्थस्य शाब्देऽन्वये प्रवेशासंभवात् । शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यते । न द्वितीयः,-- यदि हि गोशब्दाद्वाहीकार्थो न प्रतीयते, तदास्य वाहीकशब्दस्य च सामानाधिकरण्यमसमञ्जसं स्यात् ।
     तस्मादत्र गोशब्दो मुख्ययावृत्त्या वाहीकशब्देन सहान्वयमलभमानोऽज्ञत्वादिसाधर्म्यसंबन्धाद्वाहीकार्थं लक्षयति । वाहीकस्याज्ञत्वाद्यतिशयबोधनं प्रयोजनं । इयं च गुणयोगाद्रौणीत्युच्यते । पूर्वा तूपचारामिश्रणाच्छुद्धा । उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदप्रतीतिस्थगनमात्रं । यथा--अग्रिमाणवकयोः' । शुक्लपटयोस्तु नात्यन्तं भेदप्रतीतिः, तस्मादेवमादिषु शुद्धैव लक्षणा ।

व्यङ्ग्यस्य गूढागूढत्वाद्द्विधा स्युः फललक्षणाः ।। सूत्र २.१० ।।

     प्रयोजने या अष्टभेदा लक्षणा दशितास्ताः प्रयोजनरूपव्यङ्ग्यस्य गूढागूढतया प्रत्येकं द्विधा भूत्वा षोढश भेदाः । तत्र गूढः, काव्यार्थभावनापरिपक्वबुद्धिविभवमात्रवेद्यः । यथा-- 'उपकृतं बहु तत्र-' इति । अगूढः, अतिस्फुटतया सर्वजनसंवेद्यः । यथा--

'श्रीपरिचयाज्जडा अपि भवन्त्यभिज्ञा विदग्धचरितानाम ।
उपदिशतिं कामिनीनां यौवनमद एव ललितानि ।।'

     अत्र'उपदिशति' इत्यनेन 'आविष्करोति' इति लक्ष्यते । आविष्कारतिशयश्चाभिधेयवत्स्फुट प्रतीयते ।

धर्मिधर्मगतत्वेन फलस्यैता अपि द्विधा ।

     एता अनन्तरोक्ताः षोडशभेदा लक्षणाः फलस्य धर्मिगतत्वेन धर्मगतत्वेन च प्रत्येकं द्विधा भूत्वा द्वात्रिंशद्भेदाः ।
     दिङ्भात्रं यथा--

'स्त्रिग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना

वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः ।
कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे

वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ।।'

     अत्रात्यन्तदुःखसहिष्णुरूपे रामे धर्मिणि लक्ष्ये तस्यैवातिशयः फलं । 'गङ्गायां घोषः' इत्यत्र तटे शीतत्वपावनत्वरूपधर्मस्यातिशयः फलं ।

तदेवं लक्षणाभेदाश्चत्वारिंशन्मता बुधैः ।। सूत्र २.११ ।।

     रूढावष्टौ फले द्वात्रिंशदिति चत्वारिशल्लक्षणाभेदाः ।
     किञ्च--

पदवाक्यगतत्वेन प्रत्येकं ता अपि द्विधा ।

     ता अनन्तरोक्ताश्च त्वारिंशद्भेदाः । तत्र पदगतत्वे यथा-- 'गङ्गायां घोषः' । वाक्यगतत्वे यथा-- 'उपकृतं बहु तत्रऽइति । वमशीतिप्रकारा लक्षणा ।

अथ व्यञ्जना--

विरतास्वभिधाद्यासु ययार्ऽथो बोध्यते परः ।। सूत्र २.१२ ।।
सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थादिकस्य च ।

     'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः' इति नयेनाभिधालक्षणातात्पर्याख्यासु तिसृषु वृत्तिषु स्वं स्वमर्थं बोधयित्वोपक्षीणासु यथा अपरोऽन्योऽन्योर्ऽथो बोध्यते सा शब्दस्यार्थस्य प्रकृतिप्रत्ययादेश्च शक्तिर्व्यञ्जनध्वननगमनप्रत्यायनादिव्यपदेशविषया व्यञ्जना नाम ।
     तत्र--

अभिधालक्षणामूला शब्दस्य व्यञ्जना द्विधा ।। सूत्र २.१३ ।।

     अभिधामूलामाह--

अनेकार्थस्य शब्दस्य संयोगाद्यैर्नियन्त्रिते ।
एकत्रार्थेऽन्यधीहेतुर्व्यञ्जना साभिधाश्रया ।। सूत्र २.१४ ।।

     आदिशब्दाद्विप्रयोगादयः ।
     उक्तं हि--

'संयोगो विप्रयोगश्च साहचर्यं विरोधिता ।

अर्थः प्रकारणं लिङ्गंशब्दस्यान्यस्य संनिधिः ।।
सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः ।

शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ।।' इति ।

     'सशङ्ख्चक्रो हरिः' इति शङ्ख्चक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते । 'अशङ्खचक्रो हरिः' इति तद्वियोगेन तमेव । 'भीमार्जुनौ' इति अर्जुनः पार्थः । 'कर्णार्जुनौ' इति कर्णः सूतपुत्रः । 'स्थाणुं वन्दे' इति स्थाणुः शिवः । 'सर्वं जानाति देवः' इति देवो भवान् । 'कुपितो मकरध्वजः' इति मकरध्वजः कामः । 'देवः पुरारिः' इति पुरारिः शिवः । 'मधुना मत्तः पिकः' इति मधुर्वसन्तः । 'यातु वो दयितामुखम्' इति मुखं सांमुख्यं । 'विभाति गगने चन्द्रः, इति चन्द्रः शशी । 'निशि चित्रभानुः' इति चित्रभानुर्वाह्निः । 'भाति रथाङ्गम्' रथाङ्गम्' इति नपुंसकव्यक्त्या रथाङ्गं चक्रं । स्वरस्तु वेद एव विशेषप्रतीतिकृन्न काव्य इति तस्य विषयो नोदाहृतः ।
     इदं च केऽप्यसहमाना आहुः-- स्वरोऽपि काक्कादिरूपः काव्ये विशेषप्रतीतिकृदेव । उदात्तादिरूपोऽपि मुनेः पाठोक्तदिशा शृङ्गारादिरसविशेषप्रतीतिकृदेव' इति एतद्विषये उदाहरणमुचितमेव इति, तन्न; तथाहि-- स्वराः काक्कादयः उदात्तादयो वा व्यङ्ग्यरूपमेव विशेषं प्रत्यायन्ति, न खलु प्रकृतोक्तमनेकार्थशब्दस्यैकार्थनियन्त्रणरूपं विशेषं । किञ्च यदि यत्र क्वचिदनेकार्थशब्दानां प्रकरणादिनियमाभावादनियन्त्रितयोरप्यर्थयोरनुरूपस्वरवशेनैकत्र नियमनं वाच्यं, तदा तथाविधस्थले श्लेषानङ्गीकारप्रसङ्गः; न च तथा, अत एवाहुः श्लेषनिरूपणप्रस्तावे-- 'काव्यमार्गे स्वरो न गण्यते' इतिच नयः, इत्यलमुपजीव्यानं मान्यानां व्याख्यानेषु कटाक्षनिक्षेपेण ।
आदिशब्दात्'एतावन्मात्रस्तनी' इत्यादौ हस्तादिचेष्टादिभिः स्तनादीनां कमलकोरकाद्याकारत्वं ।
     एवमेकस्मिन्नर्थेऽभिधया नियन्त्रिते या शब्दार्थस्यान्यार्थबुद्धिहेतुः शक्तिः साभिधामूला व्यञ्जना ।
     यथा मम तातपादान महापात्रचतुर्दशभाषाविलासिनीभुजङ्गमहाकवीश्वरश्रीचन्द्रशेखरसंधिविग्रहिकाणाम्--

'दुर्गालङ्घितविग्रहो मनसिजं संमीलयंस्तेजसा

प्रोद्यद्राजकलो गृहीतगरिमा विष्वग्वृतो भोगिभिः ।
नक्षत्रेशकृ तेक्षणो गिरिगुरौ गाढां रुचिं धारय-

न्गामाक्रम्य विभूतिभूषिततनू राजत्युमावल्लभः ।।'

     अत्र प्रकरणोनाभिधया उमावल्लभशब्दस्योमानाम्नीमहादेवीवल्लभभानुदेवनृपतिरूपेर्ऽथे नियन्त्रिते व्यञ्जनयैव गौरीवल्लभरूपोर्ऽथो बोध्यते ।
एवमन्यत् ।
लक्षणामूलामाह--

लक्षणोपास्यते यस्य कृते तत्तु प्रयोजनं ।
यया प्रत्याय्यते सा स्याद्व्यञ्जना लक्षणाश्रया ।। सूत्र २.१५ ।।

     'गङ्गायां घोषः' इत्यादौ जलमयाद्यर्थबोधनादभिधायां तटाद्यर्थबोधनाच्च लक्षणायां विरतायां यया शीतत्वपावनत्वाद्यतिशयादिर्बोध्यते सा लक्षणामूला व्यञ्जना ।
     एवं शब्दीं व्यञ्जनामु कत्वार्थोमाह--

वक्तृबोद्धव्यवाक्यानामन्यसंनिधिवाच्ययोः ।

प्रस्तावदेशकालानां काकोश्चेष्टादिकस्य च ।। सूत्र २.१६ ।।

वैशिष्टचादन्मर्थ या बोधयेत्सार्थसंभवा ।

     व्यञ्जनेति सम्बध्यते ।
     तत्र वक्तृवाक्यप्रस्तावदेशकालवैशिष्ट्ये यथा मम--

'कालो मधुः कुपित एष च पुष्पधन्वा

धीरा वहन्ति रतिखेदहराः समीराः ।
केलीवनीयमपि वञ्जुलकुञ्जमञ्जुर्-

दूरे पतिः कथय किं करणीयमद्य ।।'

     अत्रैतं देशं प्रति शीघ्रं प्रच्छन्नकामुकस्त्वया प्रेष्यतामिति सखीं प्रति कयाचिद्व्यज्यते ।
     बोद्धव्यवैशिष्ट्ये यथा--

'निः शेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो

नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञातपीडागमे

वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिक्म् ।।'

     अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यं । तस्य च रन्तुमिति व्यङ्ग्यं प्रतिपाद्यं दूतीवैशिष्ट्याद्बोध्यते ।
     अन्यसंनिधिवैशिष्ट्ये यथा--

'उअ णिच्चल णिप्पन्दा, भिसिणीपत्तम्मि रेहै बलाआ ।
णिम्मलमरगाभाअणपरिट्ठिआ (दा) सङ्खसुत्ति व्व ।।'

     अत्र बलाकाया निस्पन्दत्वेन विश्वस्तत्वम्, तेनास्य देशस्य विज नत्वम्, अतः संकेतस्थानमेतदिति कयापि संनिहितं प्रच्छन्नकामुकं प्रत्युच्यते । अत्रैव स्थाननिर्जनत्वरूपं व्यङ्ग्यार्थवैशिष्ट्यं प्रयोजनं ।
     'भिन्नकण्ठध्वनिर्धोरैः काकुरित्यभिधीयते ।'इत्युक्तप्रकारायाः काकोर्भेदा आकरेभ्यो ज्ञातव्याः । एतद्वैशिष्ट्ये यथा--

'गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुं ।
अलिकुलकोकिलललिते नैष्यति सखि ! सुरभिसमयेऽसौ ।।'

अत्र नैष्यति, अपि तर्हि एष्यत्येवेति काक्का व्यज्यते--
     चेष्टावैशिष्ट्ये यथा--

'संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापङ्मं निमीलितम् ।।'

     अत्र संध्या संकेतकाल इति पङ्मनिमीलनादिचेष्टया कयाचिद्द्योत्यते ।
     एवं वक्त्रादीनां व्यस्तसमस्तानां वैशिष्ट्ये बोद्धव्यं ।

त्रैविध्यादियमर्थानां प्रत्येकं त्रिविधा मता ।। सूत्र २.१७ ।।

     'अर्थानां वाच्यलक्ष्यव्यङ्ग्यत्वेन त्रिरूपतया सर्वा अप्यनन्तरोक्ता व्यञ्जनास्त्रिविधाः । तत्र वाच्यार्थस्य व्यञ्जना यथा-'कालो मधुः-' इत्यादि । लक्ष्यार्थस्य यथा--'निः शेषच्युतचन्दनम्ऽ--इत्यादि । व्यङ्ग्यार्थस्य यथा--'उअ णिच्चल-' इत्यादि । प्रकृतिप्रत्ययादिव्यञ्जकत्वं तु प्रपञ्चयिष्यते ।

शब्दबोध्यो व्यनक्त्यर्थः शब्दोऽप्यर्थान्तराश्रयः ।
एकस्य व्यञ्जकत्वे तदन्यस्य सहकारिता ।। सूत्र २.१८ ।।

     यतः शब्दो व्यञ्जकत्वेऽप्यर्थान्तरमपेक्षते, अर्थोऽपि शब्दम्, तदेकस्य व्यञ्जकत्वेऽन्यस्य सहकारितावश्यमङ्गीकर्तव्या ।

अभिधादित्रयोपाधिवैशिष्ट्यात्र्त्रिविधो मतः ।
शब्दोऽपि वाचकस्तद्वल्लक्षको व्यञ्जकस्तथा ।। सूत्र २.१९ ।।

     अभिधोपाधिको वाचकः । लक्षणोपाधिको लक्षकः । व्यञ्जनोपाधिको व्ययञ्जकः ।
किञ्च--

तात्पर्याख्यां वृत्तिमाहुः पदार्थान्वयबोधने ।
तात्पर्यार्थं तदर्थं च वाक्यं तद्वोधकं परे ।। सूत्र २.२० ।।

     अभिधाया एकैकपदार्थबोधनविरामाद्वाक्यार्थरूपस्य पदार्थान्वयस्य बोधिका तात्पय नाम वृत्तिः । तदर्थश्च तात्पर्यार्थः । तद्वोधकं च वाक्यमित्यभिहितान्वयवादिनां भतम् ॥

इहि साहित्यार्पणो वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः ।