← चतुर्थः परिच्छेदः साहित्यदर्पणम्
पञ्चमः परिच्छेदः
विश्वनाथः
षष्ठः परिच्छेदः →

     अथ केयमभिनवा व्यञ्जना नाम वृत्तिरित्युच्यते---

वृत्तीनां विश्रान्तेरभिधातत्पर्यलक्षणाख्यानां ।
अङ्गीकार्या तुर्या वृत्तिर्बोधे रसादीनां ।। सूत्र ५.१ ।।

     अभिधायाः संकेतितार्थमात्रबोधनविरताया न वस्त्वलङ्काररसादिव्यङ्ग्यबोधने क्षमत्वं । न च संकेतितो रसादिः । नहि विभावाद्यभिधानमेव तदभिधानम्, तस्य तदेकरूप्यानङ्गीकारात् । यत्र च स्वशब्देनाभिधानं तत्र प्रत्युत दोष एवेति वक्ष्यामः ।
क्वचिच्च 'शृङ्गाररसोऽयम्' इत्यादौ स्वशब्देनाभिधानेऽपि न तत्प्रतीतिः, तस्य स्वप्रकाशानन्दरूपत्वात् ।
     अभिहितान्वयवादिभिरङ्गीकृता तात्पर्याख्या वृत्तिरपि संसर्गमात्रे परिक्षीणा न व्यङ्भर्बोधनी ।
     यच्च केचिदाहुः---'सोऽयमिषोरिव दीर्घदीर्घतरोऽभिधाव्यापरः' इति , यच्चधनिकेनोक्तम्---

'तात्पर्याव्यतिरेकाच्च व्यञ्जकत्वस्य न ध्वनिः ।
यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम् ।।'इति ,

तयोरुपरि 'शब्दबुद्धिकर्मणां विरम्य व्यापाराभावः' इति वादिभिरेव पातनीयो दण्डः ।
     एवं च किमिति लक्षणापुयपास्या ? दीर्घदीर्घतराभिधाव्यापारेणापि तदर्थबोधसिद्धेः । किमिति च 'ब्राह्मण ! पुत्रस्ते जातः, कन्या ते गर्भिणी' इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वं ।
     यत्पुनरूक्तं 'पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत् । ततश्च काव्यशब्दानां निरतिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्रयोजनानुपलब्धेर्निरतिशयमुखास्वाद एव कार्यत्वेनावधार्यते ।
'यत्परः शब्दः स शब्दार्थः' इति न्यायात्' इति ।
     तत्र प्रष्टव्यम्-किमिदं तत्परत्वं नाम, तदर्थत्वं वा, तात्पर्यवृत्त्या तद्वोधकत्वं वा ? आद्ये न विवादः, व्यङ्ग्यत्वेऽपि तदर्थतानपायात् ।
द्वितीये तु--केयं तात्पर्याख्या वृत्तिः, अभिहितान्वयवादिभिरङ्गीकृता, तदन्या वा ? आद्ये दत्तमेवोत्तरं । द्वितीये तु---नाममात्रे विवादः, तन्मतेऽपि तुरीयवृत्तिसिद्धेः ।
     नन्वस्तु युगपदेव तात्पर्यशक्त्या विभावादिसंसर्गस्य रसादेश्च प्रकाशनम्-इति चेत्? न, तयोर्हेतुफलभावाङ्गीकारात् । यदाह मुनिः--'विभावानुभावव्यभिचारिसंयोगद्रसनिष्पत्तिः' इति । सहभावे च कुतः सव्येतरविषाणयोरवि कार्यकारणभावः ? पौर्वापर्यविपर्ययात् ।
     'गङ्गायां घोषः' इत्यादौ तटाद्यर्थमात्रबोधविरताया लक्षणायाश्च कुतः शीतत्वपावनत्वादिव्यङ्ग्यबोधकता । तेन तुरीया वृत्तिरुपास्यैवेति निर्विवादमेतत् ।
     किंच---
     बोद्धृस्वरूपसंख्यानिमित्तकार्यप्रतीतिकालानां ।
     आश्रयविषयादीनां भेदाद्भिन्नोऽभिधेयतो व्यङ्ग्यः ।। सूत्र ५.२ ।।

     वाच्यार्थव्यङ्ग्यार्थयोर्हि पदतदर्थमात्रज्ञाननिपुणैर्वैयाकरणैरपि सहृदयैरेव च संवेद्यतया बोद्धृभेदः । 'भम धम्मिअ--' (२४२ पृ.) इत्यादौ क्वचिद्वाच्ये विधिरूपे निषधरूपतया, क्वचित्'निः शेषच्युतचन्दनम्-' (६२ पृ.) इत्यादौ निषेधरूपे विधिरूपतया च स्वरूपभेदः । 'गतोऽस्तकर्कः' इत्यादौ च वाच्योर्ऽथ एक एव प्रतीयते । व्यङ्ग्यस्तु तद्वोद्ध्रादिभेतात्क्वचित्'कान्तमभिसर' इति, 'गावो निरुध्यन्ताम्' इति, 'नायकस्यायमागमनावसरः' इति, 'संतापोऽधुना नास्ति' इत्यादिरूपेणानेक इति संख्याभेदः । वाच्यार्थः शब्दोच्चारणमात्रेण वेद्यः, एष तु तथाविधप्रतिभानैर्मल्यादिनेति निमित्तभेदः । प्रतीतिमात्रकरणाच्चमत्कारकरणाच्च कार्यभेदः । केवलरूपतया चमत्कारितया च प्रतीतिभेदः । पूर्वपश्चाद्भावेन च कालभेदः । शब्दाश्रयत्वेन शब्दतदेकदेशतदर्थवर्णसंघटनाश्रयत्वेन चाश्रयभेदः ।

'कस्स व ण होइ रोसो दट्ठूणपिआएं सव्वणं अहरं ।
सब्भमरपडमग्घाइणि वारिअवामे सहसु एङ्णिं ।।'

     इति सखीतत्कान्तविषयत्वेन विषयभेदः । तस्मान्नाभिधेय एव व्यङ्ग्यः ।
किंच---

प्रागसत्वाद्रसादेर्नो बोधिके लक्षणाभिधे ।
किञ्चि मुख्यार्थबाधस्य विरहादपि लक्षणा ।। सूत्र ५.३ ।।

     'न बोधिका' इति शेषः । नहि कोऽपि रसनात्मकव्यापारद्भिन्नो रसादिपदप्रतिपाद्यः प्रमाणसिद्धोऽस्ति, यमिमे लक्षणाभिधे बोधयेतां ।
किंञ्च, यत्र'गङ्गायां घोषः' इत्यादावुपात्तशब्दार्थानां बुभूषन्नेवान्वयोऽनुपपत्त्या बाध्यते तत्रैव हि लक्षणायाः प्रवेशः ।
      यदुक्तं न्यायकुसुमाञ्जलावुदयनाचार्यैः---

'श्रुतान्वयादनाकाङ्क्षं न वाक्यं ह्यन्यदिच्छति ।
पदार्थान्वयवैधुर्यात्तदाक्षिप्तेन सङ्गतिः ।।'

     न पुनः 'शून्यं वासगृहम्--' इत्यादौ (२२ पृ.) मुखाथबाधः । यदि च 'गङ्गायां घोषः' इत्यादौ प्रयोजनं लक्ष्यं स्यात्, तीरस्य मुख्यार्थत्वं बाधितत्वं च स्यात् । तस्यापि च लक्ष्यतया प्रयोजनान्तरं तस्यापि प्रयोजनान्तरमित्यनवस्थापातः ।
     न चापि प्रयोजनविशिष्ट एव तीरे लक्षणा । विषयप्रयोजनयोर्युगपत्प्रतीत्यनभ्युपगमात् । नीलादिसंवेदनानन्तरमेव हि ज्ञातताया अनुव्यवसायस्य वा संभवः ।

नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमं ।
आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ।। सूत्र ५.४ ।।

     व्यक्तिविवेककारेण हि--'यापि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति । विभावानुभावव्यभिचारिप्रतीतिर्हि रसादिप्रतीतेः साधनमिष्यते' । ते हि रत्यादीनां भावानां कारणकार्यसहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति । त एव प्रतीयमाना आस्वादपदवी गताः सन्तो लसा उच्यन्ते, इत्यवश्यंभावी तत्प्रतीतिक्रमः केवलमाशुभावितयासौ न लक्ष्यते, यतोऽयमद्याप्यभिव्यक्तिक्रमः' इति यदुक्तं । तत्र प्रष्टव्यम्--किं शब्दाभिनयसमर्पितविभावादिप्रत्ययानुमितरामादिगतरागादिज्ञानमेव रसत्वेनाभिमतं भवतः, तद्भावनयाभावकैर्भाव्यमानः स्वप्रकाशानन्दो वा । आद्ये न विवादः, किन्तु 'रामादिगतरगादिज्ञानं रससंज्ञया नोच्यतेऽस्माभिः' इत्येव विशेषः । वितीयस्तु व्याप्तिग्रहणाभावाद्धेतोराभासतयासिद्ध एव । यच्चोक्तं तेनैव--- 'यत्र यत्रैवंविधानां विभावानुभावसात्त्विकसञ्चारिणामभिधानमभिनयो वा तत्र तत्र शृङ्गारादिरसाविर्भावः' इति सुग्रहैव व्याप्तिः पक्षधर्मता च ।
     तया--

'यार्ऽथान्तराभिव्यक्तौ वः सामग्रीष्टा निबन्धनं ।
सैवानुमितिपक्षे नो गमकत्वेन संमता ।।' इति ।

     इदमपि नो न विरुद्धं । न ह्येवंविधा प्रतीतिरास्वाद्यत्वेनास्माकमभिमता किन्तु--स्वप्रकाशमात्रविश्रान्तः सान्द्रानन्दनिर्भरः ।
तेनात्र सिषाधयिषितादर्थादर्थान्तरस्य साधनाद्धेतोराभासता ।
     यच्च 'मम धम्मिअ--' इत्यादौ (२४२ पृ.) प्रतीयमानं वस्तु ।

'जलकेलितरलकरतलमुक्तपुनः पिहितराधिकावदनः ।
जगदवतु कोकयूनोर्विघटनसंघटनकौतुकी कृष्णः ।।'

     इत्यादौ च रूपकालङ्कारादयोऽनुमेया एव । तथाहि---'अनुमानं नाम पक्षसत्त्वसपक्षसत्त्वविक्षव्यावृत्तत्वविशिष्टाल्लिङ्गल्लिङ्गिनो ज्ञानं ।
ततश्च वाच्यादसंबद्धोर्ऽथंस्तावन्न प्रतीयते । अन्यथातिप्रसङ्गः स्यात्, इति बोध्यबोधकयोरर्थयोः कश्चित्संबन्धोऽस्त्येव । ततश्च बोधकोर्ऽथो लिङ्गम्, बोध्यश्च लिङ्गी, बोधकस्य चार्थस्य पक्षसत्त्वं निबद्धमेव । सपक्षसत्त्वविपक्षव्यावृत्तत्वे अनिबद्धे अपि सामर्थ्योदवसेये ।
तस्मादत्र यद्वाच्यार्थाल्लिङ्गरूपाल्लिङ्गिनो व्यङ्ग्यार्थस्यावगमस्तदनुमान एव पर्यवस्यति' इति । तन्न, तथा ह्यत्र 'भम अम्मिअ-' इत्यादौ (२४२ पृदृ) गृहे श्वनिवृत्त्या विहितं भ्रमणं गोदावरीतीरे सिंहोपलब्धेरभ्रमणमनुमापयति' इति यद्वक्तव्यं तत्रानैकान्तिको हेतुः । भीरोरपि गुरोः प्रभोर्वा निदेशेन प्रियानुरागेण वा गमनस्य संभवात्, पुश्चल्या वचनं प्रामाणिकं न वेति संदिग्धासिद्धश्च ।
     'जलकेलि-' इत्यत्र 'य आत्मदर्शनादर्शनाभ्यां चक्रवाकविघटसंघटनकारी स चन्द्र एव' इत्यनुमितिरेवेयमिति न वाच्यम्, उत्त्रासकादावनैकान्तिकत्वात् । 'एवंविधोर्ऽथ एवंविधार्थबोधक एवंविधार्थत्वात्, यन्नैवं तन्नैवम्' इत्यनुमानेऽप्याभाससमानयोगक्षेमो हेतुः ।
'एवंविधार्थत्वात्' इति हेतुना एवंविधानिष्टसाधनस्याप्युपपत्तेः ।
     तथा 'दृष्टि हे प्रतिवेशिनि ! क्षणमिहाप्यस्मद्गृहे-' इत्यादौ (२५० पृदृ) नलग्रन्थीनां तनूल्लिखनम्, एकाकितया च स्त्रोतोगमनम्, तस्याः परकामुकोपभोगस्य लिङ्गिनो लिङ्गमित्युच्यते; तच्चात्रैवाभिहितेन स्वकान्तस्नेहेनापि संभवतीत्यनैकान्तिको हेतुः ।
     यच्च 'निःशेषच्युतचन्दनम्--' इत्यादौ ( ६२ पृ.) दूत्यास्तत्कामुकोपभोगोऽनुमीयते तत्किं प्रतिपाद्यतया दूत्या, तत्कालसंनिहितैर्वान्यैः, तत्काव्यार्थभावनया वा सहृदयैः ।आद्ययोर्न विवादः । तृतीये तु तथाविधाभिप्रायविरहस्थले व्यभिचारः । ननु वक्त्राद्यवस्थासहकृतत्वेन विशेष्यो हेतुरिति न वाच्यं । एवंविधव्याप्त्यनुसंधानस्याभावात् ।
     किञ्चैवंविधानां काव्यानां कविप्रतिभामात्रजन्मनां प्रामाण्यानावश्यकत्वेन संदिग्धासिद्धत्वं हेतोः । व्यक्तिवादिना चाधमपदसहायानामेवैषां पदार्थानां व्यञ्जकत्वमुक्तम्, तेन च तत्कान्तस्याधमत्वं प्रामाणिकं न वेति कथमनुमानं ।
     एतेनार्थापत्तिवेद्यत्वमपि व्यङ्ग्यानामपास्तं । अर्थापत्तेरपि पूर्वसिद्धव्याप्तीच्छामुपजीव्यैव प्रवृत्तेः । यथा'यो जीवति स कुत्राप्यवतिष्ठते, जीवति चात्र गोष्ठ्यामविद्यमानश्चैत्रः' इत्यादि ।
     किञ्चि । वस्त्रविक्रयादौ तर्जनीतोलनेन दशसंख्यादिवत्सूचनबुद्धिवेद्योऽप्ययं न भवति, सूचनबुद्धेरपि ङ्केतादिलौकिकप्रमाणसापेक्षत्वेनानुमानप्रकारताङ्गीकारात् ।
     यच्च 'संस्कारजन्यत्वाद्रसादिबुद्धिः स्मृतिः' इते केचित् । तत्रापि प्रत्यभिज्ञायामनैकान्तिकतया हेतोराभासता ।
     'दुर्गालङ्घित-' इत्यादौ (५९ पृ.) च द्वितायार्थो नास्त्येव---इति यदुक्तं महिमभटटेन तदनुभवसिद्धिमपलपतो गजनिमीलिकैव ।
तदेवमनुभवसिद्धस्य तत्तद्रसादिलक्षणार्थस्याशक्यापलापतया तत्तच्छब्दाद्यन्वयव्यतिरेकानुविधायितया चानुमानादिप्रमाणावेद्यतया चाभिधादिवृत्तित्रयाबोध्यतया च तुरीया वृत्तिरुपास्यैवेति सिद्धं । इयं च व्याप्त्याद्यनुसन्धानं विनापि भवतीत्यखिलं निर्मलं ।
     तत्किंनामिकेयं वृत्तिरित्युच्यते---

सा चेयं व्यञ्जनानाम वृत्तिरित्युच्यते बुधैः ।
रसव्यक्तौ पुनर्वृत्तिं रसनाख्यां परे विदुः ।। सूत्र ५.५ ।।

एतच्च विविच्योक्तं रसनिरूपणप्रस्ताव इति सर्वमवदातं ।

इति सहित्यर्पणो व्यञ्जनाव्यापारनिरूपणो नाम पञ्चमः परिच्छेदः ।