तद्धिताधिकारे प्रागिवीयप्रकरणम्‌

सम्पाद्यताम्
  • (1974) दिक्शब्देभ्यः सप्तमीपञ्चप्रथमाभ्यो दिद्गेशकालेष्वस्तातिः <5-3-27>
सप्तम्याद्यन्तेभ्यो दिशिरूढेभ्यो दिद्गेशकालवृत्तिभ्यः स्वार्थेऽस्तीतिः प्रत्ययः स्यात् ॥
  • (1975) पूर्वाधरावराणामसिपुरधवश्चैषाम् <5-3-39>
एभ्योऽस्तात्यर्थेऽसिप्रत्ययः स्यात्तद्योगे चैषां क्रमात्पुर्,अध्,अव्, इत्यादेशाः स्युः ॥
  • (1976) अस्ताति च <5-3-40>
अस्तातौ परे पूर्वादीनां पुरादयः स्युः । पूर्वस्यां पूर्वस्याः पूर्वा वा दिक् पुरः । पुरस्तात् । अधः । अधस्तात् । अवः । अवस्तात् ॥
  • (1977) विभाषावरस्य <5-3-41>
अवरस्यास्तातौ परेव् स्याद्वा । अवस्तात् । अवरस्तात् । एवं देशे काले च । दिशिरूढेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । ऐन्द्र्यां वसति । सप्तम्याद्यन्तेभ्यः किम् । पूर्वं ग्रामं गतः । दिगादिवृत्तिभ्यः किम् । पूर्वस्मिन् गुरौ वसति । अस्ताति च 1976 इति ज्ञापकादसिरस्तातिं न बाधते ॥
  • (1978) दक्षिणोत्तराभ्यामतसुच् <5-3-28>
अस्तातेरपवादः । दक्षिणतः । उत्तरतः ॥
  • (1979) विभाषा परावराभ्याम् <5-3-29>
परतः । अवरतः । परस्तात् । अवरस्तात् ॥
  • (1980) अञ्चेर्लुक् <5-3-30>
अञ्चत्यन्ताद्दिक्शब्दादस्तातेर्लुक् स्यात् ॥लुक्तद्धितलुकि 1408 ॥ प्राच्यां प्राच्याः प्राची वा दिक् प्राक् । उदक् । एवं देशे काले च ॥
  • (1981) उपर्युपरिष्टात् <5-3-31>
अस्तातेर्विषये ऊर्ध्वशब्दस्योपादेशः स्याद्रिल्रिष्टातिलौ च प्रत्ययौ ॥ उपरि उपरिष्टाद्वा वसति आगतो रमणीयं वा ॥
अपरस्य पश्चभाव आतिश्च प्रत्ययोऽस्तातेर्विषये ॥
  • (1983) उत्तराधरदक्षिणादातिः <5-3-34>
उत्तरात् । अधरात् । दक्षिणात् ॥
  • (1984) एनबन्यतस्यामदूरेऽपञ्चम्याः <5-3-35>
उत्तरादिभ्य एनब्वा स्यादवध्यवधिमतोः सामीप्ये पञ्चम्यन्तं विना । उत्तरेण । अधरेण । दक्षिणेन । पक्षे यथास्वं प्रत्ययाः । इह केचिदुत्तरादीनननुवर्त्य दिक्शब्दमात्रादेनपमाहुः । पूर्वेण ग्रामम् ॥ अपरेण ग्रामम् ॥
  • (1985) दक्षिणादाच् <5-3-36>
अस्तातेर्विषये । दक्षिणा वसति । अपञ्चम्या इत्येव । दक्षिणादागतः ॥
  • (1986) आहि च दूरे <5-3-37>
दक्षिणाद् दूरे आहि स्यात् चादाच् । दक्षिणाहि । दक्षिणा ॥
  • (1987) उत्तराच्च <5-3-38>
उत्तराहि । उत्तरा ॥
  • (1988) संख्याया विधार्ये धा <5-3-42>
क्रियाप्रकारार्थे वर्तमानात्संख्याशब्दात्स्वार्थे धा स्यात् । चतुर्धा । पञ्चधा ॥
  • (1989) अधिकरणविचाले च <5-3-43>
द्रव्यस्य संख्यान्तरापादाने संख्याया धास्यात् । एकं राशिं पञ्चधा कुरु ॥
  • (1990) एकाद्धो ध्यमुञन्यतरस्याम् <5-3-44>
ऐकध्यम् । एकधा ॥
  • (1991) द्वित्र्योश्च धमुञ् <5-3-45>
आभ्यां धा इत्यस्य धमुञ् स्याद्वा । द्वैधम् । द्विधा । त्रैधम् । त्रिधा ॥ । धमुञन्तात्स्वार्थे डदर्शनम् ॥ पथि द्वैधानि तृणानि ॥
द्वेधा । त्रेधा ॥
  • (1993) याप्ये पाशप् <5-3-47>
कुत्सितो भिषक् भिषक्पाशः ॥
  • (1994) पूरणाद्भागे तीयादन् <5-3-48>
द्वितीयो भागो द्वितीयः । तृतीयः । स्वरे विशेषः ॥ । तीयादीकक् स्वार्थे वाच्यः ॥ द्वैतीयीकः । द्वितीयः । तार्तीयीकः । तृतीयः ॥ । न विद्यायाः ॥ द्वितीया । तृतीया । विद्येत्येव ॥
  • (1995) प्रागेकादशभ्योऽच्छन्दसि <5-3-49>
पूरणप्रत्ययान्ताद्भागेऽन् । चतुर्थः । अष्टमः ॥
  • (1996) षष्ठाष्टमाभ्यां ञ च <5-3-50>
चादन् । षष्ठो भागः । षाष्ठः । षष्ठः । आष्टमः । अष्टमः ॥
  • (1997) मानपश्वङ्गयोः कन्लुकौ च <5-3-51>
षष्ठाष्टमशब्दाभ्यां क्रमेण कन्लुकौ स्तो माने पश्वङ्गे च वाच्ये । षष्ठको भागः मानं चेत् । अष्टमो भागः पश्वङ्गं चेत् । ञस्य अनो वा लुक् । चकाराद्यथाप्राप्तम् । षष्ठः । षाष्ठः । अष्टमः । आष्टमः । महाविभाषया सिद्धे लुग्वचनं पूर्वत्र ञानौ नित्याविति ज्ञापयति ॥
  • (1998) एकादाकिनिच्चासहाये <5-3-52>
चात्कन्लुकौ । एकः । एकाकी । एककः ॥
  • (1999) भूतपूर्वे चरट् <5-3-53>
आढ्यो भूतपूर्वः । आढ्यचरः ॥
  • (2000) षष्ठ्या रूप्य च <5-3-54>
षष्ठ्यन्ताद्भूतपूर्वेऽर्थे रूप्यः स्याच्चरट् च । कृष्णस्य भूतपूर्वो गौः । कृष्णरूप्यः कृष्णचरः । तसिलादिषु रूप्यस्यापरिगणितत्वान्न पुंवत् । शुभ्राया भूतपूर्वः शुभ्रारूप्यः ॥
  • (2001) अतिशायने तमबिष्ठनौ <5-3-55>
अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः । अयमेषामतिशयेनाढ्यः । आढ्यतमः । लघुतमो लघिष्ठः ॥
तिङन्तादतिशयेर्थे द्योत्ये तमप् स्यात् ॥
  • (2003) तरप्तमपौ घः <1-1-22>
एतौ घसंज्ञौ स्तः ॥
  • (2004) किमेत्तिङ्व्ययघादाम्बद्रव्यप्रकर्षे <5-4-11>
किम एदन्तात्तिङोऽव्ययाच्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । किंतमाम् । प्राह्णेतमाम् । पचतितमाम् । उच्चैस्तमाम् । द्रव्यप्रकर्षे तु उच्चैस्तमस्तरुः ॥
  • (2005) द्विवचनविभज्योपपदे तरबीयसुनौ <5-2-57>
द्वयोरेकस्यातिशये विभक्तव्ये चोपपदे सुप्तिङन्तादेतौ स्तः । पूर्वयोरपवादः । अयमनयोरतिशयेनलघुर्लघुतरः । लघीयान् । उदीच्याः प्राच्येभ्यः पटुतराः । पटीयांसः ॥
  • (2006) अजादी गुणवचनादेव <5-3-58>
इष्ठन्नीयसुनौ गुणवचनादेव स्तः । नेह । पाचकतरः । पाचकतमः ॥
  • (2007) तुश्छन्दसि <5-3-59>
तृन्तृजन्तादिष्ठन्नीयसुनौ स्तः ॥
  • (2008) तुरिष्ठेमेयः सु <6-4-154>
तृशब्दस्य लोपः स्यादिष्ठेमेयः सु परेषु । अतिशयेन कर्ता करिष्ठः । दोहीयसी धेनुः ॥
  • (2009) प्रशस्यस्य श्रः <5-3-60>
अस्य श्रादेशः स्यादजाद्योः ॥
  • (2010) प्रकृत्यैकाच् <6-4-163>
इष्ठातिष्वेकाच् प्रकृत्या स्यात् । श्रेष्ठः । श्रेयान् ॥
प्रशस्यस्य ज्यादेशः स्यादिष्ठेयसोः । ज्येष्ठः ॥
  • (2012) ज्यादादीयसः <6-4-160>
आदेः परस्य 44 । ज्यायान् ॥
  • (2013) वृद्धस्य च <5-3-62>
ज्यादेशः स्यादजाद्योः । ज्येष्ठः । ज्यायान् ॥
  • (2014) अन्तिकबाढयोर्नेदसाधौ <5-3-63>
अजाद्योः । नेदिष्ठः । नेदीयान् । साधिष्ठः । साधीयान् ॥
  • (2015) स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादि परं पूर्वस्य च गुणः <6-4-156>
एषां यणादिपरं लुप्यते पूर्वस्य च गुण इष्ठादिषु । स्थविष्ठः । दविष्ठः । यविष्ठः । ह्रसिष्ठः । क्षेपिष्ठः । क्षोदिष्ठः । एवमीयम् । ह्रस्वक्षिप्रक्षुद्राणां पृथ्वादित्वात् ह्रसिमा । क्षेपिमा । क्षोदिमा ॥
  • (2016) प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहिगर्वषित्रप्द्राघिवृन्दाः <6-4-157>
प्रयादीनां क्रमात्प्रादयः स्युरिष्ठादिषु । प्रेष्ठादिषु । प्रेष्ठः । स्थेष्ठः । स्फेष्ठः । वरिष्ठः । बंहिष्ठः । गरिष्ठः । वर्षिष्ठः । त्रपिष्ठः । द्राघिष्ठः । वृन्दिष्ठः । एवमीयसुन् । प्रेयान् । प्रियोरुबहुलगुरुदीर्घाणां पृत्वादित्वादिमनिच् । प्रेमेत्यादि ॥
  • (2017) बहोर्लोपो भू च बहोः <6-4-158>
बहोः परयोरिमेयसोर्लोपः स्याद्बहोश्च भूरादेशः । भूमा । भूयान् ॥
  • (2018) इष्ठस्य यिट् च <6-4-159>
बहोः परस्य इष्ठस्य लोपः स्यात् यिडागमश्च । भूयिष्ठः ॥
  • (2019) युवाल्पयोः कनन्यतरस्याम् <5-3-64>
एतयोः कनादेशो वा स्यादिष्ठेयसोः । कनिष्ठः । कंनीयान् । पक्षे यविष्ठः । अल्पिष्ठः । इत्यादि ॥
  • (2020) विन्मतोर्लुक् <5-3-65>
विनो मतुपश्च लुक् स्यादिष्ठेयसोः । अतिशयेन स्रग्वी स्रजिष्ठः । स्रजीयान् । अतिशयेन त्वग्वान् त्वचिष्ठः । त्वचीयान् ॥
  • (2021) प्रशंसायां रूपम् <5-3-66>
सुबन्तात्तिङन्ताच्च । प्रशस्तः पटुः पटुरूपः । प्रशस्तं पचति पचतिरूपम् ॥
  • (2022) ईषदसमाप्तौ कल्पब्देश्यदेशीयरः <5-3-67>
ईषदूनो विद्वान् विद्वत्कल्पः । यशस्कल्पम् । यजुः कल्पम् । विद्वद्देश्यः । विद्वद्देशीयः । पचतिकल्पम् ॥
  • (2023) विभाषा सुपो बहुच् पुरस्तात्तु <5-3-68>
ईषदसमाप्तिविशिष्टेऽर्थे सुबन्ताद्बहुज्वा स्यात्स च प्रागेव नतु परतः । ईषदूनः पटुर्बहुपटुः । पटुकल्पः । सुपः किम् । यजतिकल्पम् ॥
  • (2024) प्रकारवचने जातीयर् <5-3-69>
प्रकारवति चायम् । थाल् तु प्रकारमात्रे । पटुप्रकारः पटुजातीयः ॥
  • (2025) प्रागिवात्कः <5-3-70>
इवे प्रतिकृतौ 2051 इत्यतः प्राक् काधिकारः ॥
  • (2026) अव्ययसर्वनाम्नामकच् प्राक् टेः <5-3-71>
तिङश्च 2002 इत्यनुवर्तते ॥
कान्ताव्ययस्य दकारोऽन्तादेशः स्यादकच्च ॥
कस्यायमश्वोऽश्वकः । उच्चकैः । नीचकैः । सर्वके । विश्वके ॥ । ओकारसकारभकारादौ सुपि सर्वनाम्नष्टेः प्रागकच् (वा) ॥ युवकयोः । आवकयोः । युष्मकासु । अस्मकासु । युष्मकाभिः । अस्मकाभिः । ओकारेत्यादि किम् । त्वयका । मयका ॥ । अकच्प्रकरणे तूष्णीमः काम्वक्तव्यः ॥ मित्त्वादन्तादचः परः । तूष्णींशीलः तूष्णीकः । पचतकि । जल्पतकि । धकित् । हिरकुत् ॥
  • (2029) कुत्सिते <5-3-74>
कुत्सितोऽश्वोऽश्वकः ॥
  • (2030) संज्ञायां कन् <5-3-75>
कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥
  • (2031) अनुकम्पायाम् <5-3-76>
पुत्रकः । अनुकम्पितः पुत्र इत्यर्थः ॥
  • (2032) नीतौ च तद्युक्तात् <5-3-77>
सामदानादिरुपायो नीतिस्तस्यां गम्यमानायामनुकम्पायुक्तात्कप्रत्ययः स्यात् । हन्त ते धानकाः । गुडकाः । एहकि । अद्धकि । पूर्वेणानुकम्प्यमानात्प्रत्ययः । अनेन तु परम्परासंबन्धेऽपीति विशेषः ॥
  • (2033) बह्वचो मनुष्यनाम्नष्ठज्वा <5-4-78>
पूर्वसूत्रद्वयविषये ॥
तत्रैव ॥
  • (2035) ठाजादावूर्ध्वं द्वितीयादचः <5-3-83>
अस्मिन्प्रकरणे यष्ठोऽजादिप्रत्ययश्च तस्मिन्प्रत्ये परे प्रकृतेर्द्वितीयादच ऊर्ध्वं सर्वं लुप्यते । अनुकम्पितो देवदत्तो देविकः । देवियः । देविलः । देवदत्तकः । अनुकम्पितो वायुदत्तो वायुदत्तकः । ठग्ग्रहणमुको द्वितीयत्वे कविधानार्थम् ॥ वायुकः । पितृकः ॥ । चतुर्थादच उर्ध्वस्य लोपो वाच्यः ॥ अनुकम्पितो बृहस्पतिदत्तो बृहस्पतिकः ॥ । अनजादौ च विभाषा लोपो वक्तव्यः (वा) ॥ देवदत्तकः । देवकः ॥ । लोपः पूर्वपदस्य च ॥ दत्तिकः । दत्तियः । दत्तिलः । दत्तकः ॥ । विनापि प्रत्ययं पूर्वोत्तरपदयोर्वा लोपो वाच्यः ॥ देवदत्तः । दत्तः । देवः ॥ सत्यभामा । भामा । सत्या ॥ उवर्णाल्ल इलस्य च ॥ भानुलः ॥ । ऋवर्णादपि (वा) ॥ सवित्रियः । सवितृलः ॥ । चतुर्थादनजादौ च लोपः पूर्वपदस्य च । अप्रत्यये तथैवेष्ट उवर्णाल्ल इलस्य च ॥1 ॥ ल इति लोपसंज्ञा प्राचाम् ॥
  • (2036) प्राचामुपादेरडज्वुचौ च <5-3-80>
उपशब्दपूर्वात्प्रातिपदिकात्पूर्वविषये अडच् वुच् एतौ स्तः । चाद्यथाप्राप्तम् । प्राचांग्रहणं पूजार्थम् । अनुकम्पित उपेन्द्रदत्तः उपडः । उपकः । उपिकः । उपियः । उपिलः । उपेन्द्रदत्तकः । षड् रूपाणि ॥
  • (2037) जातिनाम्नः कन् <5-3-81>
मनुष्यनाम्न इत्येव । जातिशब्दो यो मनुष्यनामधेयस्तस्मात्कन्स्यादनुकम्पायां नीतौ च । सिंहकः । शरभकः । रासभकः ॥ । द्वितीयं संध्यक्षरं चेत्तदादेर्लोपो वक्तव्यः ॥ अनुकम्पितः कहोडः । कहिकः ॥ ।

एकाक्षरपूर्वपदानामुत्तरपदलोपो वक्तव्यः ॥ वागाशीर्दत्तः वाचिकः । कथं षडङ्गुलिदत्तः षडिक इति ॥ । षषष्ठाजादिवचनात्सिद्धम् (वा) ॥

  • (2038) शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् <5-3-84>
एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥
  • (2039) अजिनान्तस्योत्तरपदलोपश्च <5-3-82>
अजिनान्तान्मनुष्यनाम्नोऽनुकम्पायां कन् तस्य चोत्तरपदलोपः । अनुकम्पितो व्याघ्राजिनो व्याघ्रकः । सिंहकः ॥
अल्पं तैलं तैलकम् ॥
ह्रस्वो वृक्षो वृक्षकः ॥
  • (2042) संज्ञायां कन् <5-3-87>
ह्रस्वहेतुका या संज्ञा तस्यां गम्यमानायां कन् । पूर्वस्यापवादः । वंशकः । वेणुकः ॥
  • (2043) कुटीशमीशुण्डाभ्यो रः <5-3-88>
ह्रस्वः कुटी कुटीरः । शमीरः । शुण्डारः ॥
  • (2044) कुत्वा डुपच् <5-3-89>
ह्रस्वा कुतूः कुतुपः । कुतूः कृत्तेः स्नेहपात्रं ह्रस्वा सा कुतुपः पुमान् ॥
  • (2045) कासूगोणीभ्यां ष्टरच् <5-3-90>
आयुधविशैषः कासूः । ह्रस्वा सा कासूतरी गोणीतरी ॥
  • (2046) वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे <5-3-91>
वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥
  • (2047) किंयत्तदो निर्धारणे द्वयोरेकस्य डतरच् <5-3-92>
अनयोः कतरो वैष्णवः । यतरः । ततरः । महाविभाषाया कः । यः । सः ॥
  • (2048) वा बहूनां जातिपरिप्रश्ने डतमच् <5-3-93>
बहूनां मध्ये एकस्य निर्धारणे डतमच् वा स्यात् । जातिपरिप्रश्न इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । यकः । सकः । महाविभाषया । यः । सः ॥ । किमोऽस्मिन्विषये डतरजपि (वा) ॥ कतरः ॥
  • (2049) एकाच्च प्राचाम् <5-3-94>
डतरच् डतमच्च स्यात् । अनयोरेकतरो मैत्रः । एषामेकतमः ॥
  • (2050) अवक्षेपणे कन् <5-3-94>
व्याकरणकेन गर्वितः व्याकरणकः । येनेतरः कुत्स्यते तदिहोदाहरणम् । स्वतः कुत्सिते तु कुत्सिते 2029 इत्यस्य ॥
इति तद्धिताधिकारे प्रागिवीयप्रकरणम्‌

तद्धिताधिकारे स्वार्थिकप्रकरणम्‌

सम्पाद्यताम्
  • (2051) इवे प्रतिकृतौ <5-3-96>
कन् स्यात् । अश्व इव प्रतिकृतिः अश्वकः । प्रतिकृतौ किम् । गौरिव गवयः ॥
  • (2052) संज्ञायां च <5-3-97>
इवार्थे कन् स्यात्समुदायेन चेत्संज्ञा गम्यते । अप्रतिकृत्यर्थमारम्भः । अश्वसदृशस्य संज्ञा । अश्वकः । उष्ट्रकः ॥
  • (2053) लुम्मनुष्ये <5-3-98>
संज्ञायां विहितस्य कनो लुप्स्यान्मनुष्ये वाच्ये । चञ्चा तृणमयः पुमान् । चञ्चेव मनुष्यश्चञ्चा । वर्ध्रिका ॥
  • (2054) जीविकार्थे चापण्ये <5-3-99>
जीविकार्थं यदविक्रीयमाणं तस्मिवन्वाच्ये कनो लुप्स्यात् । वासुदेवः । शिवः । स्कन्दः । देवलकानां जीविकार्थासु देवप्रतिकृतिष्विदम् । अपण्ये किम् । हस्तिकान्विक्रीणीते ॥
  • (2055) देवपथादिभ्यश्च <5-3-100>
कनो लुप्स्यात् । देवपथः । हंसपथः । आकृतिगणोऽयम् ॥
  • (2056) वस्तेर्ढञ् <5-3-101>
इवेत्यनुवर्तत एव । प्रतिकृताविति निवृत्तम् । वस्तिरिव वास्तेयम् । वास्तेयी ॥
शिलेव शिलेयम् । शिलाया इति योगविभागाड्ढञपीत्येके । शैलेयम् ॥
  • (2058) शाखादिभ्यो यः <5-3-103>
शाखेव शाख्यः । मुख्यः । जघनमिव जघन्यः । अग्र्यः । शरण्यः ॥
  • (2059) द्रव्यं च भव्ये <5-3-104>
द्वव्यमयं ब्राह्मणः ॥
  • (2060) कुशाग्राच्छः <5-3-105>
कुशाग्रमिव कुशाग्रीया बुद्धिः ॥
  • (2061) समासाच्च तद्विषयात् <5-3-106>
इवार्थविषयात्समासाच्छः स्यात् । काकतालीयो देवदत्तस्य वधः । इह काकतालसमागमसदृशस्चौरसमागम इति समासार्थः ॥ तत्प्रयुक्तः काकमरणसदृशस्तु प्रत्ययार्थः । अजाकृपाणीयः । अतर्कितोपनत इति फलितोऽर्थः ॥
  • (2062) शर्करादिभ्योऽण् <5-3-107>
शर्करेव शार्करम् ॥
  • (2063) अङ्गुल्यादिभ्यष्ठक् <5-3-108>
अङ्गुलीव आङ्गुलिकः । भरुजेव भारुजिकः ॥
  • (2064) एकशालायाष्ठजन्यतरस्याम् <5-3-109>
एकशालाशब्दादिवार्थे ठज्वा पक्षे ठक् । एकशालेव एकशालिकः । ऐकशालिकः ॥
  • (2065) कर्कलोहितादीकक् <5-3-110>
कर्कः शुक्लोऽश्वः स इव कार्कीकः । लौहितीकः स्फटिकः ॥
  • (2066) पूगाञ्योऽग्रामणीपूर्वात् <5-3-112>
इवार्थो निवृत्तः । नानाजातीया अनियतवृत्तयोऽर्थकामप्रधानाः सङ्घाः पूगास्तद्वाचकात्स्वार्थे ञ्यः स्यात् । लौहितध्वज्यः । व्रातच्फञोरस्त्रियाम् 1100 । व्राते । कापोतपाक्यः । च्फञ् । कौञ्जायन्यः । ब्राध्नायन्यः ॥
  • (2067) आयुधजीविसङ्घाञ्यड्वाहीकेष्वब्राह्मणराजन्यात् <5-3-114>
वाहीकेषु य आयुधजीविसङ्घस्तद्वाचिनः स्वार्थे ल्युट् । क्षौद्रक्यः । मालव्यः । टित्वान्ङीप् । क्षौद्रकी । आयुधेति किम् । शबराः । अब्राह्मणेति किम् । गौपालकाः । शालङ्कायनाः । ब्राह्मणे तद्विशेषग्रहणम् । राजन्ये

स्वरूपग्रहणम् ॥

  • (2068) वृकाट्टेण्यण् <5-3-115>
आयुधजीविसङ्घवाचकात्स्वार्थे । वार्केण्यः । आयुधेति किम् । जातिशब्दान्मा भूत् ॥
  • (2069) दामन्यादित्रिगर्तषष्ठाच्छः <5-3-116>
दामन्यादिभ्यस्त्रिगर्तषष्ठेभ्यश्चायुधजीविसङ्घवाचिभ्यः स्वार्थे छः स्यात् । त्रिकर्तः षष्ठो वर्गो येषां ते त्रिगर्तषष्ठाः ॥ आहुस्त्रिगर्तषष्ठांस्तु कौण्डोपरथदाण्डकी ॥ क्रौष्टुकिर्जालमानिश्च ब्रह्मगुप्तोऽथ जालकिः ॥1 ॥ दामनीयः । दामनीयौ । दामनयः । औलपि । औलपीयः । त्रिगर्तः । कौण्डोपरथीयः । दाण्डकीयः ॥
  • (2070) पर्श्वादियौधेयादिभ्योऽणञौ <5-3-117>
आयुधजीविसङ्घवाचिभ्य एभ्यः क्रमादणञौ स्तः स्वार्थे । पार्शवः । पार्शवौ । पर्शवः । यौधेयः । यौधेयौ । यौधेयाः ॥
  • (2071) अभिजिद्विदभृच्छालावच्छिखावच्छमीवदूर्णावच्छ्रमदणो यञ् <5-3-118>
अभिजिदादिभ्योऽणन्तेभ्यः स्वार्थे यञ् स्यात् । अभिजितोऽपत्यमाभिजित्यः । वैदभृत्यः । शलावत्यः । शैखावत्यः । शामीवत्यः । और्णावत्यः । श्रौमत्यः ॥
  • (2072) ञ्यादयस्तद्राजाः <5-3-119>
पूगाञ्यः--2066 इत्यारभ्य उक्ता एतत्संज्ञाः स्युः । तेनास्त्रियां बहुषु लुक् । लोहितध्वजाः । कपोतपाकाः । कौञ्जायनाः । ब्राध्नायना इत्यादि ॥
  • (2073) पादशतस्य संख्यादेर्वीप्यायां वुन् लोपश्च <5-4-1>
लोपवचनमनैमित्तिकत्वार्थम् । अतो न स्थानिवत् । पादः पत् 414 । तद्धितार्थ 728 इति समासे कृते प्रत्ययः । वुन्नन्तं स्त्रियामेव । द्वौ द्वौ पादौ ददाति द्विपदिकाम् ॥ द्विशतिकाम् ॥ । पादशतग्रहणमनर्थकमन्यत्रापि दर्शनात् ॥ द्विमोदकिकाम् ॥
  • (2074) दण्डव्यवसर्गयोश्च <5-4-2>
वुन् स्यात् । अवीप्सार्थमिदम् । द्वौ पादौ दण्डितः द्विपदिकाम् । द्विशतिकाम् । व्यवसृजति ददातीत्यर्थः ॥
  • (2075) स्थूलादिभ्यः प्रकारवचने कन् <5-4-3>
जातीयरोऽपवादः । स्थूलकः । अणुकः ॥ । चञ्चद्बृहतोरुपसंख्यानम् ॥ चञ्चत्कः । बृहत्कः ॥ (ग) सुराया अहौ । सुरावर्णोऽहिः सुरकः ॥
  • (2076) अनत्यन्तगतौ क्तात् <5-4-4>
छिन्नकम् । भिन्नकम् । अभिन्नकम् ॥
  • (2077) न सामिवचने <5-4-5>
सामिपर्याये उपपदे क्तान्तान्न कन् । सामिकृतम् । अर्धकृतम् । अनत्यन्तगतेरिह प्रकृत्यैवाभिधानात्पूर्वेण कन् न प्राप्तः । इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति । बहुतरकम् ॥
  • (2078) बृहत्या आच्छादने <5-4-6>
कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥
  • (2079) अषडक्षाशितङ्ग्वलंकर्मालंपुरुषाध्युत्तरपदात्खः <5-4-7>
स्वार्थे । अषडक्षीणो मन्त्रः । द्वाभ्यामेव कृत इत्यर्थः । आशिता गावोऽस्मिन्नित्याशितङ्गवीनमरण्यम् । निपातनात्पूर्वस्य मुम् । अलं कर्मणे अलंकर्मीणः । अलंपुरुषीणः । ईश्वराधीनः । नित्योऽयं खः । उत्तरसूत्रे विभाषाग्रहणात् ॥ अन्येऽपि केचित्स्वार्थिकाः प्रत्यया नित्यमिष्यते । तमबादयः प्राक्कनः । ञ्यादयः प्राग्वुनः । आमादयः प्राङ्मयटः । बृहतीजात्यन्ताः समासान्ताश्चेति भाष्यम् ॥
  • (2080) विभाषाञ्चेरदिक्स्त्रियाम् <5-4-8>
अदिक्स्त्रीवृत्तेरञ्चत्यन्तात्प्रातिपदिकात्खः स्याद्वा स्वार्थे । प्राक्,प्राचीनम् । प्रत्यक्,प्रतीचीनम् । अवाक्,अवाचीनम् । निकृष्टप्रतिकृष्टार्वरेफयाप्यावमाधमाः । अर्वन्तमञ्चतीति अर्वाक् अर्वाचीनम् । अदिक्स्त्रियां

किम् । प्राची दिक् । उदीची दिक् । दिग्ग्रहणं किम् । प्राचीना ब्राह्मणी । स्त्रीग्रहणं किम् । प्राचीनं ग्रामादाम्राः ॥

  • (2081) जात्यन्ताच्छ बन्धुनि <5-4-9>
ब्राह्मणजातीयः । बन्धुनि किम् । ब्राह्मणजातिः शोभना । जातेर्व्यञ्जकं द्रव्यं बन्धु ॥
  • (2082) स्थानान्ताद्विभाषा सस्थानेनेति चेत् <5-4-10>
सस्थानेन तुल्येन चेत् स्थानान्तमर्थवदित्यर्थः । पितृस्थानीयः । पितृस्थानः । सस्थानेन किम् । गोः स्थानम् ॥
  • (2083) अनुगादिनष्ठक् <5-4-13>
अनुगदतीत्यनुगादी । स एव आनुगादिकः ॥
  • (2084) विसारिणो मत्स्ये <5-4-16>
अण् स्यात् । वैसारिणः । मत्स्ये इति किम् । विसारी देवदत्तः ॥
  • (2085) संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् <5-4-17>
अभ्यावृत्तिर्जन्म । क्रियाजन्मगणनवृत्तेः संख्याशब्दात्स्वार्थे कृत्वसुच् स्यात् । पञ्चकृत्वो भुङ्क्ते । संख्यायाः किम् । भूरिवारान्भुङ्क्ते ॥
  • (2086) द्वित्रिचतुर्भ्यः सुच् <5-4-18>
कृत्वसुचोऽपवादः । द्विर्भुङ्क्ते । त्रिः । रात्सस्य 280 । चतुः ॥
  • (2087) एकस्य सकृच्च <5-4-19>
सकृदित्यादेशः स्याच्चात्सुच् । सकृद्भुङ्क्ते । संयोगान्तस्य 54 इति सुचो लोपः न तु हल्ङ्याप्--252 इति । अभैत्सीदित्यत्र सिच इव सुचोऽपि तदयोगात् ॥
  • (2088) विभाषा बहोर्धाऽविप्रकृष्टकाले <5-4-20>
अविप्रकृष्ट आसन्नः । बहुधा दिवसस्य भुङ्क्ते । आसन्नकाले किम् । बहुकृत्वो मासस्य भुङ्क्ते ॥
  • (2089) तत्प्रकृतवचने मयट् <5-4-21>
प्राचुर्येण प्रस्तुतं प्रकृतं तस्य वचनं प्रतिपादनम् । भावेऽधिकरणे वा ल्युट् । आद्ये प्रकृतमन्नमन्नमयम् । अपूपमयम् । यवागूमयी । द्वितीये अन्नमयो यज्ञः । अपूपमयं पर्व ॥
  • (2090) समूहवच्च बहुषु <5-4-22>
सामूहिकाः प्रत्यया अतिदिश्यन्ते चान्मयट् । मोदकाः प्रकृताः मौदकिकम् । मोदकमयम् । शाष्कुलिकम् । शष्कुलीमयम् । द्वितीयेऽर्थे । मौदकिको यज्ञः । मोदकमयः ॥
  • (2091) अनन्तावसथेतिहभेषजाञ्यः <5-4-23>
अनन्त एवानन्त्यम् । आवसथ एवावसथ्यम् । इतिहेति निपातसमुदायः । ऐतिह्यम् । भेषजमेव भैषज्यम् ॥
  • (2092) देवतान्तात्तादर्थ्ये यत् <5-4-24>
तदर्थ एव तादर्थ्यम् । स्वार्थे ष्यञ् । अग्निदेवतायै इदम् अग्निदेवत्यम् । पितृदेवत्यम् ॥
  • (2093) पादार्घाभ्यां च <5-4-25>
पादार्थमुदकं पाद्यम् । अर्घ्यम् ॥ । नवस्य नू आदेशः त्नप्तनप् खाश्च प्रत्यया वक्तव्याः (वा) ॥ नूत्नम् । नूतनम् । नवीनम् ॥ नश्च पुराणे प्रात् ॥ पुराणार्थे वर्तमानात्प्रशब्दान्नो वक्तव्यः ॥ चात्पूर्वोक्ताः । प्रणम् । प्रत्नम् । प्रतनम् । प्रीणम् ॥ । भागरूपनामभ्यो धेयः ॥ भागधेयम् । रूपधेयम् । नामधेयम् ॥ । आग्नीध्रसाधारणादञ् । आग्नीध्रम् । साधारणम् । स्त्रियां ङीप् । आग्नीध्री । साधारणी ॥
  • (2094) अतिथेर्ञ्यः <5-4-26>
तादर्थ्ये इत्येव । अतिथय इदमातिथ्यम् ॥
  • (2095) देवात्तल् <5-4-27>
देव एव देवता ॥
अविरेवाविकः ॥
  • (2097) यावादिभ्यः कन् <5-4-29>
याव एव यावकः । मणिकः ॥
  • (2098) लोहितान्मणौ <5-4-30>
लोहित एव मणिर्लोहितकः ॥
  • (2099) वर्णे चानित्ये <5-4-31>
लोहितकः कोपेन ॥ । लोहिताल्लिङ्गबाधनं वा ॥ लोहितिका लोहिनिका कोपेन ॥
लाक्षादिना रक्ते यो लोहितशब्दस्तस्मात्कन्स्यात् ॥ लिङ्गबाधनं वा इत्येव । लोहितिका लोहिनिका शाटी ॥
वर्णे चानित्ये 2099 रक्ते 2100 इति द्वयमनुवर्तते । कालकं मुखं वैलक्ष्येण । कालकः पटः । कालिका शाटी ॥
  • (2102) विनयादिभ्यष्ठक् <5-4-34>
विनय एव वैनयिकः । सामयिकः ॥ (ग) उपायो ह्रस्वत्वं च ॥ औपयिकः ॥
  • (2103) वाचो व्याहृतार्थायाम् <5-4-35>
संदिष्टार्थायां वाचि विद्यमानाद्वाक्शब्दात्स्वार्थे ठक् स्यात् । संदेशवाग् वाचिकं स्यात् ॥
  • (2104) तद्युक्तात्कर्मणोऽण् <5-4-36>
कर्मैव कार्मणम् । वाचिकं श्रुत्वा क्रियमाणं कर्मेत्यर्थः ॥
  • (2105) औषधेरजातौ <5-4-37>
स्वार्थेऽण् । औषधं पिबति । अजातौ किम् । ओषधयः क्षेत्रे रूढाः ॥
  • (2106) प्रज्ञादिभ्यश्च <5-4-38>
प्रज्ञ एव प्राज्ञः । प्राज्ञी स्त्री । दैवतः । बान्धवः ॥
  • (2107) मृदस्तिकन् <5-4-39>
मृदेव मृत्तिका ॥
  • (2108) सस्नौ प्रशंसायाम् <5-4-40>
रूपपोऽपवादः । प्रशस्ता मृत् मृत्सा । मृत्स्ना । उत्तरसूत्रेऽन्यतरस्यांग्रहणान्नित्योऽयम् ॥
  • (2109) बह्वल्पार्थच्छस्कारकादन्यतरस्याम् <5-4-42>
बहूनि ददाति बहुशः । अल्पानि अल्पशः ॥ । बह्वल्पार्थन्मङ्गलामङ्गलवचनम् ॥ नेह । बहूनि ददात्यनिष्टेषु । अल्पं ददात्याभ्युदयिकेषु ॥
  • (2110) संख्यैकवचनाच्च वीप्सायाम् <5-4-43>
द्वौ द्वौ ददाति द्विशः । माषं माषं माषशः । प्रस्थशः । परिमाणशब्दा वृत्तावेकार्था एव । संख्यैकवचनात्किम् । घटं घटं ददाति । वीप्सायां किम् । द्वौ ददाति । कारकादित्येव । द्वयोर्द्वयोः स्वामी ॥
  • (2111) प्रतियोगे पञ्चम्यास्तसिः <5-4-44>
प्रतिना कर्मप्रवचनीयेन योगे या पञ्चमी विहिता तदन्तात्तसिः स्यात् । प्रद्युम्नः कृष्णतः प्रति ॥ । आद्यादिभ्य उपसंख्यानम् (वा) ॥ आदौ आदितः । मध्यतः । पृष्ठतः । पार्श्वतः । आकृतिगणोऽयम् । स्वरेण स्वरतः । वर्णतः ॥
  • (2112) अपादाने चाहीयरुहोः <5-4-45>
अपादाने या पञ्चमी तदन्तात्तसिः स्यात् । ग्रामादागच्छति । ग्रामतः । अहीयरुहोः किम् । स्वर्गाद्धीयते । पर्वतादवरोहति ॥
  • (2113) अतिग्रहाऽव्यथनक्षेपेष्वकर्तरि तृतीयायाः <5-4-46>
अकर्तरि तृतीयान्ताद्वा तसिः स्यात् । अतिक्रम्य ग्रहोऽतिग्रहः । चारित्रेणातिगृह्यते । चारित्रतोऽतिगृह्यते । चारित्रेणान्यनतिक्रम्य वर्तत इत्यर्थः । अव्यथनमचलनम् । वृत्तेन न व्यथते । वृत्ततो न व्यथते । वृत्तेन न

चलतीत्यर्थः । क्षेपे । वृत्तेन क्षिप्तः । वृत्ततः क्षिप्तः । वृत्तेन निन्दित इत्यर्थः । अकर्तरीति किम् । देवदत्तेन क्षिप्तः ॥

  • (2114) हीयमानपापयोगाच्च <5-4-47>
हीयमानपापयुक्तादकर्तरि तृतीयान्ताद्वा तसिः । वृत्तेन हीयते । वृत्तेन पापः । वृत्ततः । क्षेपस्याविवक्षायामिदम् । क्षेपे तु पूर्वेण सिद्धम् । अकर्तरि किम् । देवदत्तेन हीयते ॥
  • (2115) षष्ठ्या व्याश्रये <5-4-48>
षष्ठ्यान्ताद्वा तसिः स्यान्नानापक्षसमाश्रये । देवा अर्जुनतोऽभवन् । आदित्याः कर्णतोऽभवन् । अर्जुनस्य पक्षे इत्यर्थः । व्याश्रये किम् । वृक्षस्य शाखा ॥
  • (2116) रोगाच्चापनयने <5-4-49>
रोगवाचिनः षष्ठ्यन्ताद्वा तसिश्चिकित्सायाम् । प्रवाहिकातः कुरुः । प्रतीकारमस्याः कुर्वित्यर्थः । अपनयने किम् । प्रवाहिकायाः प्रकोपनं करोति ॥
  • (2117) कृभ्वस्तियोगे संपद्यकर्तरि च्विः <5-4-50>
। अभूततद्भाव इति वक्तव्यम् ॥ विकारात्मतां प्राप्नुवत्यां प्रकृतौ वर्तमानाद्विकारशब्दात्स्वार्थे च्विर्वा स्यात्करोत्यादिभिर्योगे ॥
  • (2118) अस्य च्वौ <7-4-32>
अवर्णस्य ईत्स्यात् च्वौ । वेर्लोपः । च्व्यन्तात्वादव्ययत्वम् । अकृष्णः कृष्णः संपद्यते तं करोति कृष्णीकरोति । ब्रह्मीभवति । गङ्गीस्यात् ॥ । अव्ययस्य च्वावीत्वं नेति वाच्यम् ॥ दोषाभूतमहः । दिवाभूता रात्रिः । एतच्च अव्ययीभावश्च 451 इति सूत्रे भाष्ये उक्तम् ॥
  • (2119) क्यच्व्योश्च <6-4-152>
हलः परस्यापत्ययकारस्य लोपः स्यात् क्ये च्वौ च परतः । गार्गीभवति ॥
च्वौ परे पूर्वस्य दीर्घः स्यात् । शुचीभवति । पटूस्यात् । अव्ययस्य दीर्घत्वं नेति केचित्तन्निर्मूलम् । स्वस्ति स्यादिति तु महाविभाषया च्वेरभावात्सिद्धम् । स्वस्तीस्यादित्यपि पक्षे स्यादिति चेदस्तु । यदि नेष्यते तर्ह्यनभिधानात् च्विरेव नोत्पद्यते इत्यस्तु । रीङृतः 1234 । मात्रीकरोति ॥
  • (2121) अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च <5-4-51>
एषां लोपः स्यात् च्विश्च । अरूकरोति । उन्मनीस्यात् । उच्चक्षूकरोति । विचेतीकरोति । विरहीकरोति । विराजीकरोति ॥
  • (2122) विभाषा सातिः कार्त्स्न्ये <5-4-52>
च्विविषये सातिर्वा स्यात्साकल्ये ॥
  • (2123) सात्पदाद्योः <8-3-111>
सस्य षत्वं न स्यात् । दधि सिञ्चति । कृत्स्नं शस्त्रमग्निः संपद्यतेऽग्निसाद्भवति । अग्नीभवति । महाविभाषया वाक्यमपि । कार्त्स्ये किम् । एकदेशेन शुक्लीभवति पटः ॥
  • (2124) अभिविधौ संपदा च <5-4-53>
संपदाकृभ्वस्तिभिश्च योगे सातिर्वा स्याद्व्याप्तौ । पक्षे कृभ्वस्तियोगे च्विः । संपदा तु वाक्यमेव । अग्निसात्संपद्यते अग्निसाद्भवति शस्त्रम् । अग्नीभवति । जलसात्संपद्यते जलाभवति लवणम् । एकस्या व्यक्तेः सर्वावयवावच्छेदेनान्यथात्वं त्वभिविधिः ॥
  • (2125) तदधीनवचने <5-4-54>
सातिः स्यात्कृभ्वस्तिभिः संपदा च योगे । राजसात्करोति । राजसात्संपद्यते । राजाधीनमित्यर्थः ।
  • (2126) देये त्रा च <5-4-55>
तदधीने देये त्रा स्यात्सातिश्च कृभ्वादियोगे । विप्राधीनं देयं करोति विप्रत्रा करोति । विप्रत्रा संपद्यते । पक्षे विप्रसात्करोति । देये किम् । राजसाद्भवति राष्ट्रम् ॥
  • (2127) देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम् <5-4-56>
एभ्यो द्वितीयान्तेभ्यः सप्तम्यन्तेभ्यश्च त्रा स्यात् । देवत्रा वन्दे रमे वा । बहुलोक्तेरन्यत्रापि । बहुत्रा जीवतो मनः ॥
  • (2128) अव्यक्तानुकरणाद्व्यजवरार्धादनितौ डाच् <5-4-57>
द्व्यच् अवरं न्यूनं न तु ततो न्यूनम् । अनेकाजिति यावत् । तादृशमर्धं यस्य तस्माड्डाच् स्यात्कृभ्वस्तिभिर्योगे ॥ । डाचि विवक्षिते द्वे बहुलम् (वा) ॥ । नित्यमाम्रेडिते डाचीति वक्तव्यम् ॥ डाच्परं यदाम्रेडितं तस्मिन्परे पूर्वपरयोर्वर्णयोः पररुपं स्यात् । इति तकारपकारयोः पकारः । पटपटाकरोति । अव्यक्तानुकरणात्किम् । दृषत्करोति । द्व्यजवरार्धात्किम् । श्रत्करोति । अवरेति किम् । खरटखरटाकरोति । त्रपटत्रपटाकरोति । अनेकाच इत्येव सूत्रयितुमुचितम् । एवं हि डाचीति परसप्तम्येव द्वित्वे सुवचेत्यवधेयम् । अनितौ किम् । पटिति करोति ॥
  • (2129) कृञो द्वितीयतृतीयशम्बबीजात्कृषौ <5-4-58>
द्वितायादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥
  • (2130) संख्यायाश्च गुणान्तायाः <5-4-59>
कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥
  • (2131) समयाच्च यापनायाम् <5-4-60>
कृषाविति निवृत्तम् । कृञो योगे डाच् स्यात् । समयाकरोति । कालं यापयतीत्यर्थः ॥
  • (2132) सपत्रानिष्पत्रादतिव्यथने <5-4-61>
सपत्र्त्राकरोति मृगम् । सपुङ्खशरप्रवेशनेन सपत्रं करोतीत्यर्थः । निष्पत्र्त्राकरोति । अतिव्यथने किम् । सपत्रं निष्पत्रं वा करेति भूतलम् ॥
  • (2133) निष्कुलान्निष्कोषणे <5-4-62>
निष्कुलाकरोति दाडिमम् । निर्गतं कुलमन्तरवयवानां समूहो यस्मादिति बहुव्रीहेर्डाच् ॥
  • (2134) सुखप्रियादानुलोम्ये <5-4-63>
सुखाकरोति । प्रियाकरोति गुरुम् । अनुकूलाचरणेनानन्दयतीत्यर्थः ॥
  • (2135) दुःखात्प्रातिलोम्ये <5-4-64>
दुःखाकरोति स्वामिनम् । पीडयतीत्यर्थः ॥
  • (2136) शूलात्पाके <5-4-65>
शूलाकरोति मांसम् । शूलेन पचतीत्यर्थः ॥
  • (2137) सत्यादशपथे <5-4-66>
सत्याकरोति भाण्डं वणिक् । क्रेतव्यमिति तथ्यं करोतीत्यर्थः । शपथे तु सत्यं करोति विप्रः ॥
  • (2138) मद्रात्परिवापणे <5-4-67>
मद्रशब्दो मङ्गलार्थः । परिवापणं मुण्डनम् । मद्राकरोति । माङ्गल्यमुण्डनेन संस्करोतीत्यर्थः ॥ भद्राच्चेति वक्तव्यम् ॥ भद्राकरोति । अर्थः प्राग्वत् । परिवापणे किम् । मद्रं करोति । भद्रं करोति ॥
इति तद्धिताधिकारे स्वार्थिकप्रकरणम्‌

द्विरुक्तप्रकरणम्‌

सम्पाद्यताम्
  • (2139) सर्वस्य द्वे <8-1-1>
इत्यधिकृत्य ।
  • (2140) नित्यवीप्सयोः <8-1-4>
आभीक्ष्ण्ये वीप्सायां च द्योत्ये पदस्य द्विर्वचनं स्यात्‌ । आभीक्ष्ण्यं तिङन्तेष्वव्ययसंज्ञककृदन्तेषु च । पचति पचति । भुक्त्वा भुक्त्वा । वीप्सायाम्‌ । वृक्षं वृक्षं सिञ्चति । ग्रामो ग्रामो रमणीयः ।
  • (2141) परेर्वर्जने <8-1-5>
परि परि वङ्गेभ्यो वृष्टो देवः । वङ्गान्परिहृत्येत्यर्थः । 'परेर्वर्जने वावचनम्‌' । (वा) । परि वङ्गेभ्यः ।
  • (2142) उपर्यध्यधसः सामीप्ये <8-1-7>
उपर्युपरि ग्रामम्‌ । ग्रामस्योपरिष्टात्समीपे देशे इत्यर्थः । अध्यधि सुखम्‌ । सुखस्योपरिष्टात्समीपकाले दुःखमित्यर्थः । अधोऽधो लोकम्‌ । लोकस्याधस्तात्समीपे देशे इत्यर्थः ।
  • (2143) वाक्यादेरामन्त्रितस्यासूयासम्मतिकोपकुत्सनभर्त्सनेषु <8-1-8>
असूयायाम्‌ । सुन्दर सुन्दर वृथा ते सौन्दर्यम्‌ । सम्मतौ, देव देव वन्द्योऽसि । कोपे, दुर्विनीत दुर्विनीत इदानीं ज्ञास्यसि । कुत्सने, धानुष्क धानुष्क वृथा ते धनुः, भर्त्सने चोर चोर घातयिष्यामि त्वाम्‌ ।
  • (2144) एकं बहुव्रीहिवत्‌ <8-1-9>
द्विरुक्तः एकशब्दो बहुव्रीहिवत्स्यात्‌ । तेन सुब्लोपपुंवद्भावौ । एकैकमक्षरम्‌ । इह द्वयोरपि सुपोर्लुकि कृते बहुव्रीहिवद्भावादेव प्रातिपदिकत्वात्समुदायात्सुप्‌ । एकैकया आहुत्या । इह पूर्वभागे पुंवद्भावादवग्रहे विशेषः । 'न बहुव्रीहौ' (222) इत्यत्र पुनर्बहुव्रीहिग्रहणं मुख्यबहुव्रीहिलाभार्थम्‌ । तेनातिदिष्टबहुव्रीहौ सर्वनामतास्त्येवेति प्राञ्चः । वस्तुतस्तु भाष्यमते प्रत्याख्यातमेतत्‌ । सूत्रमतेऽपि बहुव्रीह्यर्थेऽलौकिके विग्रहे निषेधकं न तु बहुव्रीहावितीहातिदेशशङ्कैव नास्ति । एकैकस्मै देहि ।
पीडायां द्योत्यायां द्वे स्तो बहुव्रीहिवच्च । गतगतः । विरहात्पीड्यमानस्येयमुक्तिः । बहुव्रीहिवद्भावात्सुब्लुक्‌ । गतगता । इह पुंवद्भावः ।
  • (2146) कर्मधारयवदुत्तरेषु <8-1-11>
इह उत्तरेषु द्विर्वचनेषु कर्मधारयवत्कार्यम्‌ । प्रयोजनं सुब्लोपपुंवद्भावान्तोदात्तत्वानि (वा) ।
  • (2147) प्रकारे गुणवचनस्य <8-1-12>
सादृश्ये द्योत्ये गुणवचनस्य द्वे स्तस्तच्च कर्मधारयवत्‌ । 'कर्मधारयवदुत्तरेषु-' (2146) इत्यधिकारात्‌ । तेन पूर्वभागस्य पुंवद्भावः 'समासस्य' (3734) इत्यन्तोदातत्वं च । पटुपट्वी । पटुपटुः । पटुसदृशः । ईषत्पटुरिति यावत्‌ । गुणोपसर्जनद्रव्यवाचिनः केवलगुणवाचिनश्चेह गृह्यन्ते । शुक्लशुक्लं रूपम्‌ । शुक्लशुक्लः पटः । 'आनुपूर्व्ये द्वे अाच्ये' (वा) । मूले मूले स्थूलः । 'सम्भ्रमेण प्रवृत्तौ यथेष्टमनेकधा प्रयोगो न्यायसिद्धः' (व) । सर्प सर्व, बुध्यस्व बुध्यस्व । सर्प सर्प सर्प बुध्यस्व बुध्यस्व बुध्यस्व । 'क्रियासमभिहारे च' (वा) लुनीहि लुनीहीत्येवायं लुनाति । 'नित्यवीप्सयोः' (2140) इति सिद्धे भृशार्थे द्वित्वार्थमिदम्‌ । पौनःपुन्येऽपि लोटा सह समु्चित्य द्योतकतां लब्धुं वा । 'कर्मव्यतिहारे सर्वनाम्नो द्वे वाच्ये । समासवच्च बहुलम्‌' (वा) । बहुलग्रहणादन्यपरयोर्न समासवत्‌ । इतरशब्दस्य तु नित्यम्‌ । 'असमासवद्भावे पूर्वपदस्थस्य सुपं सुर्वक्तव्यः' (वा) । अन्योऽन्यं विप्रा नमन्ति अन्योऽन्यौ । अन्योऽन्यान्‌ । अन्योऽन्येन कृतम्‌ । अन्योऽन्यस्मै दत्तमित्यादि । 'अन्योऽन्येषां पुष्करैरामृशन्तः' इति माघः । एवं परस्परम्‌ । अत्र कस्कादित्वाद्विसर्गस्य सः । इतरेतरम्‌ । इतरेतरेणेत्यादि । 'स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वा वक्तव्यः' (वा) । अन्योन्याम्‌-अन्योन्यम्‌ । परस्पराम्‌-परस्परम्‌ । इतरेतराम्‌-इतरेतरं वा । इमे ब्राह्मण्यौ कुले वा भोजयतः । अत्र केचित्‌ । आमादेशो द्वितीयाया एव । भाष्यादौ तथैवोदाहृतत्वात्‌ । तेन स्त्रीनपुंसकयोरपि तृतीयादिषु पुंवदेव रूपमित्याहुः । अन्ये तूदाहरणस्य दिङ्मात्रत्वात्सर्वविभक्तीनामादेशमाहुः । दलद्वये टाबभावः क्लीबे चाद्ड्विरहः स्वमोः । समासे सोरलुक्चेति सिद्धं बाहुलकात्त्रयम्‌॥ तथाहि । अन्योऽन्यं परस्परमित्यत्र दलद्वयेऽपि टाप्प्राप्तः । न च 'सर्वनाम्नो वृत्तिमात्रे-' (वा) इति पुंवद्भावः । अन्यपरयोरसमासवद्भावात्‌ । न च द्विर्वचनमेव वृत्तिः । 'यां यां प्रियः प्रैक्षत कातराक्षी सा सा' इत्यादावतिप्रसङ्गात्‌ । 'अन्योऽन्यमितरेतरम्‌' इत्यत्र च 'अद्ड्डतरादिभ्यः-' (315) इत्यद्ड्‌ प्राप्तः । 'अन्योऽन्यसंसक्तमहस्त्रियामम्‌' 'अन्योऽन्याश्रयः', 'परस्पराक्षिसादृश्यम्‌' 'अपरस्परैः' इत्यादौ सोर्लुक्च प्राप्तः । सर्वं बाहुलकबलेन समाधेयम्‌ । प्रकृतवार्तिकभाष्योदाहरणम्‌ 'स्त्रियाम्‌' (453) इति सूत्रे 'अन्योऽन्यसंश्रयं त्वेतद्‌' इति भाष्यं चात्र प्रमाणमिति ।
  • (2148) अकृच्छ्रे प्रियसुखयोरन्यतरस्याम्‌ <8-1-13>
प्रियप्रियेण ददाति । प्रियेण वा । सुखसुखेन ददाति । सुखेन वा । द्विर्वचने कर्मधारयवद्भावात्सुपि लुकि तदेव वचनम्‌ । अतिप्रियमपि वस्त्वनायासेन ददातीत्यर्थः ॥
  • (2149) यथास्वे यथायथम्‌ <8-1-14>
'यथास्वम्‌' इति वीप्सायामव्ययीभावः । योऽयमात्मा यच्चात्मीयं तद्यथास्वम्‌ । तस्मिन्यथाशब्दस्य द्वे क्लीबत्वं च निपात्यते । यथायथं ज्ञाता । यथास्वभावमित्यर्थः । यथात्मीयमिति वा ।
  • (2150) द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु <8-1-15>
द्विशब्दस्य द्विर्वचनं पूर्वपदस्य अम्भावोऽत्वं चोत्तरपदस्य नपुंसकत्वं च निपात्यते एष्वर्थेषु । तत्र रहस्यं द्वन्द्वशब्दस्य वाच्यम्‌ । इतरे विषयभूताः । द्वन्द्वं मन्त्रयते । रहस्यमित्यर्थः । मर्यादा स्थित्यनतिक्रमः । आचतुरं हीमे पशवो द्वन्द्वं मिथुनीयन्ति । माता पुत्रेण मिथुनं गच्छति । पौत्रेण प्रपौत्रेणापि मर्यादीकृत्य । व्युत्क्रमणं पृथगवस्थानम्‌ । द्वन्द्वं व्युत्क्रान्ताः द्विवर्गसम्बन्धेन पृथगवस्थिताः । द्वन्द्वं यज्ञपात्राणि पयुनक्ति । द्वन्द्वं सङ्कर्षणवासुदेवौ । अभिव्यक्तौ साहचर्येणेत्यर्थः । योगविभागादन्यत्रापि द्वन्द्वम्‌ इष्यते॥
इति द्विरुक्तप्रकरणम्

तिङन्तभ्वादिप्रकरणम्‌

सम्पाद्यताम्
  • (2151) वर्तमाने लट् <3-2-123>
वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । अटावितौ ॥
  • (2152) लः कर्मणि च भावे चाकर्मकेभ्यः <3-4-69>
लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च ॥
अधिकारोऽयम् ॥
  • (2154) तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् <3-4-78>
एतेऽष्टादशलादेशाः स्युः ॥
  • (2155) लः परस्मैपदम् <1-4-99>
लादेशाः परस्मैपदसंज्ञाः स्युः ॥
  • (2156) तङानावात्मनेपदम् <1-4-100>
तङ्प्रत्याहारः शानच्कानचौ चैतत्संज्ञाः स्युः । पूर्वसंज्ञापवादः ॥
  • (2157) अनुदात्तङित आत्मनेपदम् <1-3-12>
अनुदात्तेत उपदेशे यो ङित्तदन्ताच्च धातोर्लस्य स्थाने आत्मनेपदं स्यात् ॥
  • (2158) स्वरितञितः कर्त्रभिप्राये क्रियाफले <1-3-72>
स्वरितेतो ञितश्च धातोरात्मनेपदं स्यात्कर्तृगामिनि क्रियाफले ॥
  • (2159) शेषात्कर्तरि परस्मैपदम् <1-3-78>
आत्मनेपदनिमित्तहीनाद्धातोः कर्तरि परस्मैपदं स्यात् ॥
  • (2160) तिङ्स्त्रीणि त्रीणि प्रथममध्यमोत्तमाः <1-4-101>
तिङ उभयोः पदयोस्त्रयस्त्रिकाः क्रमादेतत्संज्ञाः स्युः ॥
  • (2161) तान्येकवचनद्विवचनबहुवचनान्येकशः <1-4-102>
लब्धप्रथमादिसंज्ञानि तिङस्त्रीणि त्रीणि वचनानि प्रत्येकमेकवचनादिसंज्ञानि स्युः ॥
  • (2162) युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः <1-4-105>
तिङ्वाच्यकारकवाचिनि युष्मदि प्रयुज्यमानेऽप्रयुज्यमाने च मध्यमः स्यात् ॥
  • (2163) प्रहासे च मन्योपपदे मन्येरुत्तमे एकवच्च <1-4-106>
मन्यधातुरुपपदं यस्य धातोस्तस्मिन्प्रकृतिभूते सति मध्यमः स्यात्परिहासे गम्यमाने मन्यतेस्तूत्तमः स्यात्स चैकार्थस्य वाचकः स्यात् ॥
  • (2164) अस्मद्युत्तमः <1-4-107>
तथाभूतेऽस्मद्युत्तमः स्यात् ॥
  • (2165) शेषे प्रथमः <1-4-108>
मध्यमोत्तमयोरविषये प्रथमः स्यात् । <<1>> भू सत्तायाम् ॥ कर्तृविवक्षायां भू ति इति स्थिते ॥
  • (2166) तिङ्शित्सार्वधातुकम् <3-4-113>
तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः ॥
  • (2167) कर्तरि शप् <3-1-68>
कर्त्रर्थे सार्वधातुके परे धातोः शप् स्यात् । शपावितौ ॥
  • (2168) सार्वधातुकार्धातुकयोः <7-3-84>
अनयोः परयोरिगन्ताङ्गस्य गुणः स्यात् । अवादेशः । भवति । भवतः ॥
  • (2169) झोऽन्तः <7-1-3>
प्रत्ययावयवस्य झस्यान्तादेशः स्यात् । अतो गुणे 191 । भवन्ति । भवसि । भवथः । भवथ ॥
  • (2170) अतो दीर्घो यञि <7-3-101>
अतोऽङ्गस्य दीर्घः स्याद् यञादौ सार्वधातुके परे । भवामि । भवावः । भवामः । स भवति । तौ भवतः । ते भवन्ति । त्वं भवसि । युवां भवथः । युयं भवथ । अहं भवामि । आवां भवावः । वयं भवामः । एहि मन्ये ओदनं भोक्ष्यसे इति भुक्तः सोऽतिथिभिः । एतमेत वा मन्ये ओदनं भोक्ष्येथे । भोक्ष्यध्वे । भोक्ष्ये । भोक्ष्यावहे । भोक्ष्यामहे । मन्यसे । मन्येथे । मन्यध्वे । इत्यादिरर्थः । युष्मद्युपपदे 2162 इत्याद्यनुवर्तते । तेनेह न । एतु भवान्मन्यते ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिः । प्रहासे किम् । यथार्थकथने माभूत् । एहि मन्यसे ओदनं भोक्ष्ये इति भुक्तः सोऽतिथिभिरित्यादि ॥
  • (2171) परोक्षे लिट् <3-2-115>
भूतानद्यतनपरोक्षार्थवृत्तेर्धातोर्लिट् स्यात् । लस्य तिबादयः ॥
लिडादेशस्तिङार्धधातुकसंज्ञ एव स्यान्न तु सार्वधातुकसंज्ञः । तेन शबादयो न ॥
  • (2173) परस्मैपदानां णलतुसुस्थलथुसणल्वमाः <3-4-82>
लिटस्तिबादीनां नवानां णलादयोनव स्युः । भू अ इति स्थिते ॥
  • (2174) भुवो वुग्लुङ्लिटोः <6-4-88>
भुवो वुगागमः स्यात् लुङ्लिटोरचि । नित्यत्वाद्वुग्गुणवृद्धी बाधते ॥
  • (2175) एकाचो द्वे प्रथमस्य । <6-1-1>
  • (2176) अजादेर्द्वितीयस्य <6-1-2>
इत्यधिकृत्य ॥
  • (2177) लिटि धातोरनभ्यासस्य <6-1-8>
लिटि परेऽभ्यासधात्ववयवस्यैकाचः प्रथमस्य द्वे स्त आदिभूतादचः परस्य तु द्वितीयस्य । भूव् भूव् अ इति स्थिते ॥
  • (2178) पूर्वोऽभ्यासः <6-1-4>
अत्र ये द्वे विहिते तयोः पूर्वोऽभ्याससंज्ञः स्यात् ॥
  • (2179) हलादिः शेषः <7-4-60>
अभ्यासस्यादिर्हल शिष्यते अन्ये हलो लुप्यन्ते । इति वलोपः ॥
अभ्यासस्याचो ह्रस्वः स्यात् ॥
भवतेरभ्यसोकारस्य अः स्यात् लिटि ॥
  • (2182) अभ्यासे चर्च <7-4-54>
अभ्यासे झलां चरः स्युर्जशश्च । झशां जशः खयां चरः । तत्रापि प्रकृतिजशां प्रकृतिजशः प्रकृतिचरां प्रकृतिचर इति विवेक आन्तरतम्यात् ॥
  • (2183) असिद्धवदत्राभात् <6-4-22>
इत ऊर्ध्वमापादपरिसमाप्तेराभीयम् । समानाश्रये तस्मिन्कर्तव्ये तदसिद्धं स्यात् । इति वुकोऽसिद्धत्वादुवङि

प्राप्ते ॥ । वुग्युटावुवङयणोः सिद्धौ वक्तव्यौ (वा) ॥ बभूव । बभूवतु । बभूवुः ॥

  • (2184) आर्धधातुकस्येड् वलादेः <7-2-35>
वलादेरार्धधातुकस्येडागमः स्यात् । बभूविथ । बभूवथुः । बभूव । बभूव । बभूविव । बभूविम ॥
  • (2185) अनद्यतने लुट् <3-3-15>
भविष्यत्यनद्यतनेऽर्थे धातोर्लुट् स्यात् ॥
  • (2186) स्यतासी लृलुटोः <3-1-33>
लृ इति लृङ्लृटोर्ग्रहणम् । धातोः स्यतासी एतौ स्तो लृलुटोः परतः । शबाद्यपवादः ॥
  • (2187) आर्धधातुके शेषः <3-4-114>
तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥
  • (2188) लुटः प्रथमस्य डारौरसः <2-4-85>
डा रौ रस् एते क्रमात्स्युः । डित्त्वसामर्थ्यादभस्यापि टेर्लोपः ॥
  • (2189) पुगन्तलघूपधस्य च <7-3-86>
पुगन्तस्य लघूपधस्य चाङ्गस्येको गुणः स्यात्सार्वधातुकार्धधातुकयोः । येन नाव्यवधानं तेन व्ययहितेऽपि वचनप्रामाण्यात् । तेन भिनत्तीत्यादावनेकव्यवहितस्येको न गुणः । भवित् आ । अत्रेको गुणे प्राप्ते ॥
  • (2190) दीधीवेवीटाम् <1-2-6>
दीधीवेव्योरिटश्च गुणवृद्धी न स्तः । भविता ।
  • (2191) तासर्स्त्योलोपः <7-4-50>
दासेरस्तेश्च लोपः स्यात्सादौ प्रत्यये परे ॥
रादौ प्रत्यये प्राग्वत् । भवितारौ । भवितारः । भवितासि । भवितास्थः । भवितास्थ । भवितास्मि । भवितास्वः । भवितास्मः ॥
  • (2193) लृट् शेषे च <3-3-13>
भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥
विध्यादिष्वर्थेषु धातोर्लोट् स्यात् ॥
  • (2195) आशिषि लिङ्लोटौ <3-3-173>
लोट इकारस्य उः स्यात् । भवतु ॥
  • (2197) तुह्योस्तातङाशिष्यन्यतरस्याम् <7-1-35>
आशिषि तुह्योस्तातङ् वा स्यात् । अनेकाल्त्वात्सर्वादेशः । यद्यपि ङिच्च-431 इत्ययमपवादस्तथाप्यनन्यार्थङित्त्वेष्वनङादिषु चरितार्थ इति गुणवृद्धिप्रतिषेधसंप्रसारणाद्यर्थतया संभवत्प्रयोजनङकारे तातङि मन्थरं प्रवृत्तः परेण बाध्यते । इहोत्सर्गापवादयोरपि समबलत्वात् । भवतात् ॥
  • (2198) लोटो लङ्वत् <3-4-85>
लोटो लङ इव कार्यं स्यात् । तेन तामादयः सलोपश्च । तथा हि ॥
  • (2199) तस्थस्तमिपां तांतंतामः <3-4-101>
ङितश्चतुर्णां तामादयः क्रमात्स्युः ॥
  • (2200) नित्यं ङितः <3-4-99>
सकारान्तस्यङिदुत्तमस्य नित्यं लोपः स्यात् । अलोऽन्त्यस्य -42इति सस्य लोपः । भवताम् । भवन्तु ॥
  • (2201) सेर्ह्यपिच्च <3-4-87>
लोटः सेर्हिः स्यात्सोऽपिच्च ॥
अतः परस्य हेर्लुक्स्यात् । भव । भवतात् । भवतम् । भवत ॥
लोटो मेर्निः स्यात् ॥
  • (2204) आडुत्तमस्य पिच्च <3-4-92>
लोडुत्तमस्याडागमः स्यात्स पिच्च । हिन्योरुत्वं न इकारोच्चारणसामर्थ्यात् । भवानि । भवाव । भवाम ॥
  • (2205) अनद्यतने लङ् <3-2-111>
अनद्यतनभूतार्थवृत्तेर्धातोर्लङ् स्यात् ॥
  • (2206) लुङ्लङ्लृङ्क्ष्वडुदात्तः <6-4-71>
एषु परेष्वङ्गस्याडागमः स्यात्स चोदात्तः ॥
ङितो लस्य परस्मैपदमिकारान्तं यत्तस्य लोपः स्यात् । अभवत् । अभवताम् । अभवन् । अभवः । अभवतम् । अभवत । अभवम् । अभवाव । अभवाम ॥
  • (2208) विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिट् <3-3-161>
एष्वर्थेषु द्योत्येषु वाच्येषु वा लिङ् स्यात् । विधिः प्रेरणं भृत्यादेर्निकृष्टस्य प्रवर्तनम् । निमन्त्रणं नियोगकरणं आवश्यके श्राद्धभोजनादौ दौहित्रादेः प्रवर्तनम् । आमन्त्रणं कामचारानुज्ञा । अधीष्टः सत्कारपूर्वको व्यापारः । प्रवर्तनायां लिङ् इत्येव सुवचम् । चतुर्णां पृथगुपादानं प्रपञ्चार्थम् ॥
  • (2209) यासुट् परस्मैपदेषूदात्तो ङिच्च <3-4-103>
लिङः परस्मैपदानां यासुडागमः स्यात्स योदात्तो ङिच् । ङित्त्वोक्तेर्ज्ञायते क्वचिदनुबन्धकार्येऽप्यनल्विधाविति प्रतिषेध इति । श्नादेशस्य शानचः शित्त्वमपीह लिङ्गम् ॥
  • (2210) सुट् तिथोः <3-4-107>
लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥
  • (2211) लिङः सलोपोऽन्त्यस्य <7-2-79>
सार्वधातुकलिङोऽनन्त्यस्य सस्य लोपः स्यात् । इति सकारद्वयस्यापि निवृत्तिः । सुटः श्रवणं त्वाशीर्लिङि । स्फुटतरं तु तत्राप्यात्मनेपदे ॥
अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥
लिङो झेर्जुस् स्यात् ॥ ज इत् ॥
  • (2214) उस्यपदान्तात् <6-1-96>
अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः 2212 इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥
आशिषि लिङस्तिङार्धधातुकसंज्ञः स्यात् ॥
आशिषि लिङो यासुट् कित्स्यात् । स्कोः--380 इति सलोपः ॥
  • (2217) क्ङिति च <1-1-5>
गित्किन्ङिन्निमित्ते इग्लक्षणे गुणवृद्धी न स्तः । भूयात् । भूयास्ताम् । भूयासुः । भूयाः । भूयास्तम् । भूयास्त । भूयासम् । भूयास्व । भूयास्म ॥
भूतार्थावृत्तेर्धातोर्लुङ्स्यात् ॥ ।
सर्वलकारापवादः ॥
  • (2220) स्मोत्तरे लङ् च <3-3-176>
स्मोत्तरे माङि लङ् स्याच्चाल्लुङ् ॥
  • (2221) च्लि लुङि <3-1-43>
शबाद्यपवादः ॥
  • (2222) च्लेः सिच् <3-1-44>
इचावितौ ॥
  • (2223) गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु <2-4-77>
एभ्यः सिचो लुक् स्यात् । गापाविहेणादेशपिबती गृह्येते ॥
  • (2224) भूसुवोस्तिङि <7-3-88>
भू सू एतयोः सार्वधातुके तिङि परे गुणो न स्यात् ॥
  • (2225) अस्तिसिचोऽपृक्ते <7-3-96>
सिच्च अस् चेति समाहारद्वन्द्वः । सिच्छब्दस्य सौत्रं भत्वम् । अस्तीत्यव्ययेन कर्मधारयः । ततः पञ्चम्याः सौत्रो लुक् । विद्यमानात्सिचोऽस्तेश्च परस्यापृक्तस्य हल ईडागमः स्यात् । इतीण्नेह । सिचो लुप्तत्वात् । अभूत् । हलः किम् । ऐधिषि । अपृक्तस्येति किम् । ऐधिष्ट । अभूताम् ॥
  • (2226) सिजभ्यस्तविदिभ्यश्च <3-4-109>
सिचोऽभ्यास्ताद्विदेश्च परस्य ङित्संबन्धिनो झेर्जुस् स्यात् । इति प्राप्ते ॥
सिज्लुक्यादन्तादेव झोर्जुस् स्यात् । अभूवन् । अभूः । अभूतम् । अभूत् । अभूवम् । अभूव । अभूम ।
  • (2228) न माङ्यागे <6-4-74>
अडाटौ न स्तः । मा भवान् भूत् । मा स्म भवत् भूद्वा ॥
  • (2229) लिङ्निमित्ते लृङ् क्रियातिपत्तौ <3-3-139>
हेतुहेतुमद्भावादि लिङ्निमित्तं तत्र भविष्यत्यर्थे लृङ् स्यात् क्रियाया अनिष्पत्तौ गम्यमानायाम् । अभविष्यत् । अभविष्यतम् । अभविष्यन् । अभविष्यन् । अभविष्यः । अभविष्यतम् । अभविष्यत । अभविष्यम् । अभविष्याव । अभविष्याम ॥
  • (2230) ते प्राग्धातोः <1-4-80>
ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥
उपसर्गस्थान्निमित्तात्परस्य लोडादेशस्यानीत्यस्य नस्य णः स्यात् । प्रभवाणि ॥ । दुरः षत्वणत्वयोरुपसर्गत्वप्रतिषेधो वक्तव्यः (वा) ॥ दुःस्थितिः । दुर्भवानि ॥ । अन्तः शब्दस्याङकिविधिणत्वेषूपसर्गत्वं वाच्यम् (वा) ॥ अन्तर्धा ॥ अन्तर्धिः । अन्तर्भवाणि ॥
  • (2232) शेषे विभाषाऽकखादावषान्त उपदेशे <8-4-18>
उपदेशे कादिखादिषान्तवर्जे गदनदादेरन्यस्मिन् धातौ परे उपसर्गस्थान्निमित्तात्परस्य नेर्नस्य णत्वं वा स्यात् । प्रणिभवति । प्रनिभवति । इहोपसर्गाणामसमस्तत्वेऽपि संहिता नित्या । तदुक्तम् - संहितैकपदे नित्या नित्या

धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥1 ॥ इति । सत्ताद्यर्थनिर्देशश्चोपलक्षणम् । यागात्स्वर्गो भवतीत्यादावुत्पद्यत इत्याद्यर्थात् । उपसर्गास्त्वर्थविशेषस्य द्योतकाः । प्रभवति । पराभवति । संभवति । अनुभवति । अभिभवति । उद्भवति । परिभवतीत्यादौ विलक्षणार्थावगतेः । उक्तं च - उपसर्गेण धात्वर्थो बलादन्यः प्रतीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥1 ॥ इति । <<2>> एध वृद्धौ । कत्थन्ताः षटिं्त्रशदनुदात्तेतः ॥

  • (2233) टित आत्मनेपदानां टेरे <3-4-79>
टितो लस्यात्मनेपदानां टेरेत्वं स्यात् । एधते ॥
  • (2234) सार्वधातुकमपित् <1-2-4>
अपित्सार्वधातुकं ङिद्वत्स्यात् ॥
अतः परस्य ङितामाकारस्य इय् स्यात् । एधेते । एधन्ते ॥
टितो लस्य थासः से स्यात् । एधसे । एधेथे । एधध्वे । अतो गुणे 191 । एधे । एधावहे । एधामहे ॥
  • (2237) इजादेश्च गुरुमतोऽनृच्छः <3-1-35>
इजादिर्यो धातुर्गुरुमानृच्छत्यन्यस्तत आम् स्याल्लिटि । आमो मकारस्य नेत्त्वम् । आस्कासोरामूविधानाज्ज्ञापकात् ॥
आमः परस्य लुक् स्यात् ॥
  • (2239) कृञ्चानुप्रयुज्यते लिटि <3-1-40>
आमन्ताल्लिट्पराः कृभ्वस्तयोऽनुप्रयुज्यन्ते । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य 2240 इति सूत्रे कृञ्ग्रहणसामर्थ्यादनुप्रयोगोऽन्यस्यापीति ज्ञायते । तेन कृभ्वस्तियोगे 2117 इत्यतः कृञो द्वितीय--2129 इति ञकारेण प्रत्याहाराश्रयणात्कृभ्वस्तिलाभः । तेषां क्रियासामान्यवाचित्वादाम्प्रकृतीनां विशेषवाचित्वात्तदर्थयोरभेदान्वयः । संपदिस्तु प्रत्याहारेऽन्तर्भूतोऽप्यनन्वितार्थत्वान्न प्रयुज्यते । कृञस्तु क्रियाफले परगामिनि परस्मैपदे प्राप्ते ॥
  • (2240) आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य <1-3-63>
आम् प्रत्ययो यस्मादित्यतद्गुणसंविज्ञानो बहुव्रीहिः । आम्प्रकृत्या तुल्यमनुप्रयुज्यमानात्कृञोऽप्यात्मनेपदं स्यात् ॥ इह पूर्ववदित्यनुवर्त्य वाक्यभेदेन संबध्यते । पूर्ववदेवात्मनेपदं न तु तद्विपरीतमिति । तेन कर्तृगेऽपि फले इन्दांचकारेत्यादौ न तङ् ॥
  • (2241) लिटस्तझयोरेशिरेच् <3-4-81>
लिडादेशयोस्तझयोरेश् इरेच् एतौ स्तः । एकारोच्चारणं ज्ञापकं,तङादेशानां टेरेत्वं नेति । तेन डारौरसां न । कृ ए इति स्थिते ॥
  • (2242) असंयोगाल्लिट्कित् <1-2-5>
असंयोगात्परोऽपिल्लिट्कित्स्यात् । क्ङिति च 2217 इति निषेधात् सार्वधातुकार्धातुकयोः 2168 इति गुणो न । द्वित्वात्परत्वाद्यणि प्राप्ते ॥
  • (2243) द्विर्वचनेऽचि <1-1-59>
द्वित्वनिमित्तेऽचिपरे अच आदेशो न स्याद्द्वित्वे कर्तव्ये ॥
  • (2244) उरत् <7-466>
अभ्यासऋवर्णस्य अत्स्यात्प्रत्यये परे । रपरत्वम् । हलादिः शेषः 2179 प्रत्यये किम् । वव्रश्च ॥
  • (2245) कुहोश्चुः <7-4-62>
अभ्यासकवर्गहकारयोश्चवर्गादेशः स्यात् । एधांचक्रे । एधांचक्राते । एधांचक्रिरे ॥
  • (2246) एकाच उपदेशेऽनुदात्तात् <7-2-10>
उपदेशे यो धातुरेकाजनुदात्तश्च ततः परस्य वलादेरार्धधातुकस्येट् न स्यात् । उपदेशे इत्युभयान्वयि । एकाच इति किम् । यङ्लुग्व्यावृत्तिर्यथा स्यात् । स्मरन्ति हि-- (प) श्तिपा शपाऽनुबन्धेन निर्दिष्टं यद्गणेन च । यत्रैकाज्ग्रहणं चैव पञ्चैतानि न यङ्लुकि ॥1 ॥ इति । एतच्चेहैवैकाज्ग्रहणेन ज्ञाप्यते । अच इत्येवैकत्वविवक्षया तद्वतो ग्रहणेन च सिद्धे एकग्रहणसामर्थ्यादनेकाच्कोपदेशो व्यावर्त्यते । तेन वधेर्हन्त्युपदेशे एकाचोऽपि न निषेधः । आदेशोपदेशेऽनेकाच्त्वात् । अनुदात्ताश्चानुपदमेव संग्रहीष्यन्ते । एधांचकृषे । एधांचक्राथे ॥
  • (2247) इणः षीध्वंलुङ्लिटां धोऽङ्गात् <8-3-78>
इण्णन्तादङ्गत्परेषां षीध्वंलुङलिटां धस्य मूर्धन्यः स्यात् । एधांचकृढ्वे । एधांचक्रे । एधांचकृवहे । एधांचकृमहे । अन्यथा हि क्रश्चानुप्रयुज्यत इति कृभ्विति वा ब्रूयात् ॥
अभ्यासस्यादेरतो दीर्घः स्यात् । परूपापवादः । एधामास । एधामासतुरित्यादि ॥ एधिता । एधितारौ । एधितारौ । एधितारः । एधितासे । एधितासाथे ॥
धादौ प्रत्यये परे सलोपः स्यात् । एधिताध्वे ॥
तासस्त्योः सस्य हः स्यादेति परे । एधिताहे । एधितास्वहे । एधितास्महे ॥ एधिष्यते । एधिष्येते । एधिष्यन्ते । एधिष्यसे । एधिष्येथे । एधिष्यध्वे । एधिष्ये । एधिष्यावहे । एधिष्यामहे ॥
लोट एकारस्याम् स्यात् । एधताम् । एधेताम् । एधन्ताम् ॥
  • (2252) सवाभ्यां वामौ <3-4-91>
सवाभ्यां परस्य लोडेतः क्रमाद्व अम् एतौ स्तः । एधस्व । एधेथाम् । एधध्वम् ॥
लोडुत्तमस्य एत ऐ स्यात् । आमोऽपवादः । एधै । एधावहै । एधामहै ॥
  • (2254) आडजादीनाम् <6-4-72>
अजादीनामाट् स्याल्लुङाडिषु । अटोऽपवादः । आटश्च 269 । ऐधत । ऐधेताम् । ऐधन्त । ऐधथाः । ऐधेथाम् । ऐधध्वम् । ऐधे । ऐधावहि । ऐधामहि ॥
  • (2255) लिङः सीयुट् <3-4-102>
सलोपः । एधेत । एधेयाताम् ॥
लिहो झस्य रन् स्यात् । एधेरन् । एधेथाः । एधेयाथाम् । एधेध्वम् ॥
लिङादेशस्येटोऽत्स्यात् । एधेय । एधेवहि । एधेमहि । आशीर्लिङि आर्धधातुकत्वात् लिङः सलोपो न । सीयुट्सुटोः प्रत्ययावयवत्वात्षत्वम् । एधिषीष्ट । एधिषायास्ताम् । एधिषीरन् । एधिषीष्ठाः । एधिषीयास्थाम् । एधिषीध्वम् । एधिषीय । एधिषीवहि । एधिषीमहि । ऐधिष्ट । ऐधिषाताम् ॥
  • (2258) आत्मनेपदेष्वनतः <7-1-5>
अनकारात्परस्यात्मनेपदेषु झस्य अत् इत्यादेशः स्यात् । ऐधिषत । ऐधिष्ठाः । ऐधिषाथाम् ॥इणः षीध्वंलुङलिटां धोऽङ्गात् 2247 ऐधिढ्वम् । इड्भिन्न एव इणिह गृह्यते इति मते तु ऐधिध्वम् । ढधयोर्वस्य मस्य च द्वित्वविकल्पात्षोडशरूपाणि । ऐधिषि । ऐधिष्वहि । ऐधिष्महि । ऐधिष्यत । ऐधिष्येताम् । ऐधिष्यन्त । ऐधिष्यथाः । ऐधिष्येथाम् । ऐधिष्यध्वम् । ऐधिष्ये । ऐधिष्यावहि । ऐधिष्यामहि । उदात्तत्वाद्वलादेरिट् ॥ प्रसङ्गादनुदात्ताः संगृह्यन्ते - ऊद्दृदन्तैर्यौति ,रु, क्ष्णु, शीङ्, स्नु, नु, क्षु, श्वि, डीङ्, श्रिभिः ॥ वृङ्,वृञ्भ्यां च विनैकाचोऽजन्तेषु

निहताः स्मृताः ॥1 ॥ शक्लृ, पच्, मुच्, रिच्, वच्, विच्, सिच्, प्रच्छि, त्यज्, निजिर्, भजः ॥ भञ्ज्, भुज्, भ्रस्ज्, मस्जि, यज्, युज्, रुज्, रञ्ज्, विजिर्, स्वञ्जि, सञ्ज, सृजः ॥2 ॥ अद्, क्षुद्, खिद्, छिद्, तुदि, नुदः, पद्य, भिद्, विद्यति, र्विनद्, ॥ शद्, सदी, स्विद्यति, स्कन्दि, हदी, क्रुध्, क्षुधि, बुध्यती ॥<<3>> ॥ बन्धिर्, युधि, रुधी, राधिर्, व्यध्, शुधः, साधि, सिद्ध्यती ॥ मन्य, हन्नाप्, क्षिप्, छुपि, तप्, तिप, स्तृप्यति, दृप्यती ॥4 ॥ लिप्, लुप्, वप्, शप्,स्वप्, सृपि, यभ्, रभ्, लभ्, गम्, नम्, यमो, रमिः ॥ क्रुशिर्, दंशि, दिशी, दृशी, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृशः, कृषिः ॥5 ॥ त्विष्, तुष्, द्विष्, दुष्, पुष्य, पिष्, विष्, शिष्, शुष्, श्लिष्यतयो, घसिः ॥ वसति, र्दह्, दिहि, दुहो, नह्, मिह्, रुह्, लिह्, वहिस्तथा ॥6 ॥ अनुदात्ता हलन्तेषु धातवो द्वधिकं शतम् ॥ तुदादौ मतभेदेन स्थितौ यौ च चुरादिषु ॥7 ॥ तृप्, दृपी, तौ वारयितुं श्यना निर्देश आदृतः ॥ किं च । स्विद्यपद्यौ, सिध्यबुध्यौ, मन्यपुष्यश्लिषः श्यना ॥ ।8 ॥ वसिः शपा लुका यौतिर्निर्दिष्टोऽन्यनिवृत्तये ॥ णिजिर्, विजिर्, शक्लृ, इति सानुबन्धा अमी तथा ॥9 ॥ विन्दतिश्चान्द्रदौर्गादेरिष्टो भाष्येऽपि दृश्यते ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितम् ॥10 ॥ रञ्जि, मस्जी, अदि, पदी, तुद्, क्षुद्, शुषि, पुषी, शिषिः ॥ भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसंमतेः ॥11 ॥ <<3>> स्पर्ध । संघर्षे । संघर्षः पराभिभवेच्छा । धात्वर्थेनोपसंग्रहादकर्मकः । स्पर्धते ॥

  • (2259) शर्पूवाः खयः <7-4-61>
अभ्यासस्य शर्पूर्वाः खयः शिष्यन्ते । हलादिः शेषः 2179 इत्यस्यापवादः । पस्पर्धे । स्पर्धिता । स्पर्धिष्यते । स्पर्धताम् । अस्पर्धत । स्पर्धेत । स्पर्धिषीष्ट । अस्पर्धिष्ट । अस्पर्धिष्यत । <<4>> गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च । गाधते । जगाधे । <<5>> बाधृ लोडने । लोडनं प्रतिघातः । बाधते । <<6>> नाथृ <<7>> नाधृ याच्ञोपतापैस्वर्याशीःषु ॥ । आशिषि नाथ इति वाच्यम् (वा) ॥ अस्याशिष्येवात्मनेपदं स्यात् । नाथते । अन्यत्र नाथति । नाधते । <<8>> दध धारणे । दधते ॥
  • (2260) अत एकहल्मध्येऽनादेशादेर्लिटि <6-4-120>
लिण्न्मित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥
प्रागुक्तं स्यात् । आदेशश्चेह वैरूप्यसंपादक एवाश्रीयते । शसिदद्योः प्रतिषेधवचनाच्ज्ञापकात् । तेन प्रकृतिजश्चरां तेषु सत्स्वपि एत्वाभ्यासलोपौ स्त एव । देधे । देधाते । देधिरे । अतः किम् । दिदिवतुः । तपरः किम् । ररासे । एकेत्यादि किम् । तत्सरतुः । अनादेशादेः किम् । चकणतुः ॥ लिटा आदेशविशेषणादिह स्यादेव । नेमिथ । सेहे । <<9>> स्कुदि आप्रवणे । आप्रवणमुत्प्लवनमुद्धरणं च ॥
  • (2262) इदितो नुम्धातोः <7-1-58>
स्कुन्दते । चुस्कुन्दे । <<10>> श्विदि श्वैत्ये । अकर्मकः । श्विन्दते । शिश्विन्दे । <<11>> वदि अभिवादनस्तुत्योः । वन्दते । ववन्दे । <<12>> भदि कल्याणे सुखे च । भन्दते । बभन्दे । <<13>> मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु । मन्दते । ममन्दे । <<14>> स्पदि किंचिच्चलने । स्पन्दते । पस्पन्दे । <<15>> क्लिदि परिदेवने । शोक इत्यर्थः । सकर्मकः । क्लिन्दते जैत्रम् । चिक्लिन्दे । <<16>> मुद हर्षे । मोदते । <<17>> दद दाने । ददते ॥
  • (2263) न शसददवादिगुणानाम् <6-4-126>
शसेर्ददेर्वकारादीनां गुणशब्देन भावितस्य च योऽकारस्तस्य एत्वाभ्यासलोपौ न । दददे । दददाते । दददिरे । <<18>> ष्वद <<19>> स्वर्द आस्वादने । अयमनुभवे सकर्मकः । रुचावकर्मकः ॥
  • (2264) धात्वादेः षः सः <6-1-64>
धातोरादेः षस्य सः स्यात् । सात्पदाद्योः 2123 इति षत्वनिषेधः । अनुस्वदते । सस्वदे । स्वर्दते । सस्वर्दे । <<20>> उर्द माने क्रीडायां च ॥
  • (2265) उपधायां च <8-2-79>
धातोरुपदाभूतयो रेफवकारयोर्हल्परयोः परत इको दीर्घः स्यात् । ऊर्दते । उर्दांचक्रे । <<21>> कुर्द <<22>> खुर्द <<23>> गुर्द <<24>> गुद क्रीडायामेव । कूर्दते । चुकूर्दे । गूर्दते । गोदते । जुगुदे । <<25>> षूद क्षरणे । सूदते । सुषूदे ॥ -- सेक्, सृप,

सृ, स्तृ, सृज्, स्तॄ, स्त्याऽन्ये दन्त्याजन्तसादयः । एकाचः षोपदेशाः ष्वष्क्, स्विद्, स्वद, स्वञ्ज, स्वप्, स्मिङः ॥1 ॥ दन्त्यः केवलदन्त्यो नतु तन्तोष्ठजोऽपि, ष्वष्कादीनां पृथग्ग्रहणाज्ज्ञापकात् । <<26>> ह्राद अव्यक्ते शब्दे । ह्रादते । जह्रादे । <<27>> ह्लादी सुखे च । चादव्यक्ते शब्दे । ह्लादते । <<28>> स्वाद् आस्वादने । स्वादते । <<29>> पर्द कुत्सिते शब्दे । गुदरवे इत्यर्थः । पर्दते । <<30>> यती प्रयत्ने । यतते । येते । <<31>> युतृ <<32>> जुदृ भासने । योतते । युयुते । जोतते । जुजुते । <<33>> विथृ <<34>> वेथृ याचने । विविथे । विवेथे । <<35>> श्रथि शैथिल्ये । श्रन्थते । <<36>> ग्रथि कौटिल्ये । ग्रन्थते । <<37>> कत्थ श्लाघायाम् । कत्थते । एधादयोऽनुदात्तेतो गताः ॥

अथाष्टत्रिशंत्तवर्गीयान्ताः परस्मैपदिनः ॥ <<38>> अत सातत्यगमने । अतति । अत आदेः 2248 आत । आततुः । आतुः । लुङि आतिस् ई त् इति

स्थिते ॥

इटः परस्य सस्य लोपः स्यादीटि परे ॥ । सिज्जलोप एकादेशे सिद्धो वाच्यः (वा) ॥ आतीत् । आतिष्टाम् । आतिषुः ॥
  • (2267) वदव्रजहलन्तस्याचः <7-2-3>
वदेर्व्रजेर्हलन्तस्य चाङ्गस्याचः स्थाने वृद्धिः स्यात्सिचि परस्मैपदेषु । इति प्राप्ते ॥
इडादौ सिचि प्रागुक्तं न स्यात् । मा भवानतीत् । अतिष्टाम् । अतिषुः । <<39>> चिती संज्ञाने । चोतति । चिचेत । अचेतीत् । अचेतिष्टाम् । अचेतिषुः । <<40>> च्युतिर् आसेचने । सेचनभार्द्रीकरणम् । आङीषदर्थेऽभिव्याप्तौ च ॥ । इर इत्संज्ञावाच्या (वा) ॥ च्योतति । चुच्योत ॥
इरितो धातोश्च्लेरङ् वा स्यात्परस्मैपदे परे । अच्युतत् । अच्योतीत् । <<41>> श्च्युतिर् क्षरणे । श्च्योतति । चुश्च्योत । अश्च्युतत् । अश्च्योतीत् । यकाररहितोऽप्ययम् । श्चोतति । <<42>> मन्थ विलोडने । विलोडनं प्रतिघातः । मन्थति । ममन्थ । यासुटः किदाशिखि 2216 इति कित्त्वात्अनिदिताम्-<<41>>5 इति नलोपः । मथ्यात् । <<43>> कुथि <<44>> पुथि <<45>> लुथि <<46>> मथि हिंसासंक्लेशनयोः । इदित्त्वान्नलोपो न । कुन्थ्यात् । मन्थ्यात् । <<47>> षिध गत्याम् । सेधति । सिषेध । सेधिता । असेधीत् । सात्पदाद्योः 2123 इति निषेधे प्राप्ते ॥
  • (2270) उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् <8-3-65>
उपसर्गस्थान्निमित्तादेषां सस्य षः स्यात् ॥
  • (2271) सदिरप्रतेः <8-3-66>
प्रतिभिन्नादुपसर्गात्सदेः सस्य षः स्यात् ॥
  • (2272) स्तन्भेः <8-3-67>
स्तन्भेः सौत्रस्य सस्य षः स्यात् । योगविभाग उत्तरार्थः । किंच । अप्रतेरिति नानुवर्तते । बाहुप्रतिष्टम्भविवृद्धमन्युः ॥
  • (2273) अवाच्चालम्बनाविदूर्ययोः <8-3-68>
अवात्स्तन्भेरेतयोरर्थयोः षत्वं स्यात् ॥
  • (2274) वेश्च स्वनो भोजने <8-3-69>
व्यवाभ्यां स्वनतेः सस्य षः स्याद्भोजने ॥
  • (2275) परिनिविभ्यः सेवतितसयसिवुसहसुट्स्तुस्वञ्जाम् <8-3-70>
परिनिविभ्यः परेषामेषां सस्य षः स्यात् । निषेधति ॥
  • (2276) प्राक्सितादड्व्यवायेऽपि <8-3-63>
सेवसित 2275 इत्यत्र सितशब्दात्प्राग् ये सुनोत्यादयस्तेषामड्व्यवायेऽपि षत्वं स्यात् । न्यषेधत् । न्यषेधीत् । न्यषेधिष्यत् ॥
  • (2277) स्थादिष्वभ्यासेन चाभ्यासस्य <8-3-64>
प्राक् सितात् स्थादिष्वभ्यासेन व्यवायेऽपि षत्वं स्यात् । एषामेव चाभ्यासस्य न तु सुनोत्यादीनाम् । निषिषेध । निषिषिधतुः ॥
  • (2278) सेधतेर्गतौ <8-3-113>
गत्यर्थस्य सेधतेः षत्वं न स्यात् । गङ्गां विसेधति । <<48>> षिधू शास्त्रे माङ्गल्ये च । शास्त्रं शासनम् ॥
  • (2279) स्वरतिसूतिसूयतिधूञूदितो वा <7-2-44>
स्वरत्यादेरूदितश्च परस्य वलादेरार्धधातुकस्येड्वा स्यात् ॥
  • (2280) झषस्तथोर्धोऽधः <8-2-40>
झषः परयोस्तथयोर्धः स्यान्न तु दधातेः । जश्त्वम् । सिषेद्ध । सिषेधिथ । सेद्धा । सेधिता । सेत्स्यति । सेधिष्यति । असैत्सीत् ॥
झलः परस्य सस्य लोपः स्यात् झलि । असैद्धाम् । असैत्सुः । असैत्सीः । असैद्धम् । असैद्ध । असैत्सम् । असैत्स्व । असैत्स्म । पक्षे असेधीत् । असेधिष्टाम् । इत्यादि । <<49>> खादृ भक्षणे । ऋकार इत् । खादति । चखाद । <<50>> खद स्थैर्ये हिंसायां च । चाद्भक्षणे । स्थैर्ये अकर्मकः । खदति ॥
  • (2282) अत उपधायाः <7-2-116>
उपधाया अतो वृद्धिः स्यात् ञिति णिति च प्रत्यये परे । चखाद ।
  • (2283) णलुत्तमो वा <7-1-91>
उत्तमो णल्वाणित्स्यात् । चखाद । चखद ॥
  • (2284) अतो हलादेर्लघोः <7-2-7>
हलादेर्लघोरकारस्य इडादौ परस्मैपदपरे सिचि वृद्धिर्वा स्यात् । अखादीत् । अखदीत् । <<51>> बद स्थैर्ये । पवर्गीयादिः । बदति । बबाद । बेदतुः । बेदिथ । बबाद । बबद । अबादीत् । अबदीत् । <<52>> गद व्यक्तायां वाचि । गदति ॥
  • (2285) नेर्गदनदपतपदघुमास्यतिहन्तियातिवातिद्रातिप्सातिवपतिवहतिशाम्यतिचिनोतिदेग्धिषु च <8-4-17>
उसर्गस्थान्निमित्तात्परस्य नेर्णः स्यात् गदादिषु । प्रणिगदति । जगाद । <<53>> रद विलेखने । विलेखनं भेदनम् । रराद । रेदतुः । <<54>> णद अव्यक्ते शब्दे ॥
धातोरादेर्णस्य नः स्यात् । णोपदेशास्त्वनदर्‌-नाटि-नाथ्-नाध्-नन्द्-नक्क-नॄ-नृतः । इति भाष्यफलितम् । नाटेर्दीर्घार्हस्य पर्युदासाद्धटादिर्णोपदेश एव । तवर्गचतुर्थान्तनाधतेर्नॄनद्योश्च केचिण्णोपदेसतामाहुः ॥
  • (2287) उपसर्गादसमासेऽपि णोपदेशस्य <8-4-14>
उपसर्गस्थान्निमित्तात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदिति । <<55>> अर्द गतौ याचने च । अत आदेः 2248 ॥
  • (2288) तस्मान्नुड्द्विहलः <7-4-71>
द्विहलोधातोर्दीर्घीभूतादकारात्परस्य नुट् स्यात् । आनर्द । आर्दीत् । <<56>> नर्द <<57>> गर्द शब्दे । णोपदेस्तवाभावान्न णः । प्रनर्दति । गर्दति । जगर्द । <<58>> तर्द हिंसायाम् । तर्दति । <<59>> कर्द कुत्सिते शब्दे । कुत्सिते कौक्षे । कर्दति । <<60>> खर्द दन्दशूके । दंशहिंसादिरूपायां दन्दशूकक्रियायामित्यर्थः । खर्दति । चखर्द । <<61>> अति <<62>> अदि बन्धने । अन्तति । आनन्त । अन्दति । आनन्द । <<63>> इदि परमैश्वर्ये । इन्दति । इन्दांचकार । <<64>> बिदि अवयवे । पवर्गतृतीयादिः । बिन्दति । अवयवं करोतीत्यर्थः । भिदीति पाठान्तरम् । <<65>> गडि वदनैकदेशे । गण्डति । अन्तत्यादयः पञ्चैते न तिङ्विषया इति काश्यपः । अन्ये तु तिङमपीच्छन्ति । <<66>> णिदि कुत्सायाम् । निन्दति । प्रणिन्दति । <<67>> टुनदि समृद्धौ ॥
  • (2289) आदिर्ञिटुडवः <1-3-5>
उपदेशे धातोराद्या एते इतः स्युः । नन्दति । इदित्वान्नलोपो न । नन्द्यात् । <<68>> चदि आह्लादे । चचन्द । <<69>> त्रदि

चेष्टायाम् । तत्रन्द । <<70>> कदि <<71>> क्रदि <<72>> क्लदि आह्वाने रोदने च । चकन्द । चक्रन्द । चक्लन्द । <<73>> क्लिदि परिदेवने । चिक्लिन्द । <<74>> शुन्ध शुद्धौ । शुशुन्ध । नलोपः । शुध्यात् ॥

अथ कवर्गीयान्ता अनुदात्तेतो द्विचात्वारिंशत् ॥ <<75>> शीकृ सेचने । तालव्यादिः । दन्त्यादिरित्येके । शीकते । शिशीके । <<76>> लोकृ दर्शने । लोकते । लुलोके । <<77>> श्लोकृ संघाते । संघातो ग्रन्थः । स चेह ग्रथ्यमानस्य व्यापारो ग्रथितुर्वा । आद्ये अकर्मको द्वितीये सकर्मकः । श्लोकते । <<78>> द्रेकृ <<79>> ध्रेकृ शब्दोत्साहयोः । उत्साहो वृद्धिरौद्धत्यं च । दिद्रेके । दिध्रेके । <<80>> रेकृ शङ्कायाम् । रेकते । <<81>> सेकृ <<82>> स्रेकृ <<83>> स्रकि <<84>> श्रकि <<85>> श्लकि गतौ । त्रयो दन्त्यादयः । द्वौ तालव्यादी । अषोपदेशत्वान्न षः । सिसेके । <<86>> शकि शङ्कायाम् । शङ्कते । शशङ्के । <<87>> अकि लक्षणे । अङ्कते । आनङ्के । <<88>> वकि कौटिल्ये । वङ्कते । <<89>> मकि । मण्डने । मङ्कते । <<90>> कक लौल्ये लौल्यं गर्वश्चापल्यं च । ककते । चकके । <<91>> कुक <<92>> वृक आदाने । कोकते । चुकुके । वर्कते । ववृके ॥ । ऋदुपधेभ्यो लिटः कित्त्वं गुणात्पूर्वप्रतिषेधेन (वा) ॥ <<93>> चक तृप्तौ प्रतीघाते च । चकते । चेके । <<94>> ककि <<95>> वकि <<96>> श्वकि <<97>> त्रकि <<98>> ढौकृ <<99>> त्रौकृ <<100>> ष्वष्क <<101>> वष्क <<102>> मष्क <<103>> टिकृ <<104>> टीकृ <<105>> तिकृ <<106>> तीकृ <<107>> रघि <<108>> लघि गत्यर्थाः । कङ्कते । डुढौके । तुत्रौके ॥ । सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः (वा) ॥ ष्वष्कते । षष्वष्के । अत्र तृतीयो दन्त्यादिरित्येके । लघि भोजननिवृत्तावपि । <<109>> अघि <<110>> वघि <<111>> मघि गत्याक्षेपे । आक्षेपो निन्दा । गतौ गत्वारम्भे चेत्यन्ये । अङ्घते । आनङ्घे । वङ्घते । मङ्घते । मघि कैतवे च । <<112>> राघृ <<113>> लाघृ <<114>> द्राघृ सामर्थ्ये । राघते । लाघते । ध्राघृ इत्यपि केचित् । द्राघृ आयामे च । आयामो दैर्घ्यम् । द्राघते । <<115>> श्लाघृ कत्थने । श्लाघते ॥
अथ परस्मैपदिनः पञ्चाशत् ॥ <<116>> फक्क नीचैर्गतौ । नीचैर्गतिः मन्दगमनमसद्व्यवहारश्च । फक्कति । पफक्क । <<117>> तक हसने । तकति । <<118>> तकि कृच्छ्रजीवने । तङ्कति । <<119>> बुक्क भषणे । भषणं श्वरवः । बुक्कति । <<120>> कख हसने । प्रनिकखति । <<121>> ओखृ <<122>> राखृ <<123>> लाखृ <<124>> द्राखृ <<125>> ध्राखृ शोषणालमर्थयोः । ओखति । ओखांचकार । <<126>> शाखृ <<127>> श्लाखृ व्याप्तौ । शाखति । <<128>> उख <<129>> उखि <<130>> वख <<131>> वखि <<132>> मख <<133>> मखि <<134>> णख <<135>> णखि <<136>> रख <<137>> रखि <<138>> लख <<139>> लखि <<140>> इख <<141>> इखि <<142>> ईखि <<143>> वल्ग <<144>> रगि <<145>> लगि <<146>> अगि <<147>> वगि <<148>> मगि <<149>> तगि <<150>> त्वगि <<151>> श्रगि <<152>> श्लगि <<153>> इगि <<154>> रिगि <<155>> लिगि गत्यर्थाः । द्वितीयान्ताः पञ्चदश । तृतीयान्तास्त्रयोदश । इह खान्तेषु रिख त्रख त्रिखि शिखि इत्यपि चतुरः केचित्पठन्ति ॥
  • (2290) अभ्यासस्यासवर्णे <6-4-78>
अभ्यासस्य इवर्णोवर्णयोरियङुवङौ स्तोऽसवर्णेऽचि । उवोख । सन्निपातपरिभाषया इजादेः--2237 इत्याम्न । ऊखतुः । ऊखुः । इह सवर्णदीर्घस्याभ्यासग्रहणेन ग्रहणाद्ध्रस्वः प्राप्तो न भवति । सकृत्प्रवृत्तत्वात् । आङ्गत्वादि पर्जन्यवल्लक्षणप्रवृत्त्या ह्रस्वे ततो दीर्घः । (प) वार्णादाङ्गं बलीयः इति न्यायात् परत्वाच्च । उङ्खति । ववखतु-वङ्खति मेखतुः ॥ त्वगि कम्पने च । <<156>> युगि <<157>> जुगि <<158>> बुगि वर्जने । युङ्गति । <<159>> घघ हसने । घघति । जघाघ । <<160>> मघि मण्डने । मङ्घति । <<161>> शिघि आघ्राणे । शिङ्घति ॥
अथ चवर्गीयान्ताः ॥ तत्रानुदात्तेत एकविंशतिः ॥ <<162>> वर्च दीप्तौ । वर्चते । <<163>> षच सेचने सेवने च । सचते । सेचे । सचिता । <<164>> लोचृ दर्शने । लोचते । लुलोचे । <<165>> शच व्यक्तायां वाचि । शेचे । <<166>> श्वच <<167>> श्वचि गतौ । श्वचते । श्वञ्चते । <<168>> कच बन्धने । कचते । <<169>> कचि <<170>> काचि दीप्तिबन्धनयोः । चकञ्चे । चकाञ्चे । <<171>> मच <<172>> मुचि कल्कने । कल्कनं दम्भः शाठ्यं च । कथनमित्यन्ये । मेचे । मुमुञ्चे । <<173>> मचि धारणोच्छ्रायपूजनेषु । ममञ्चे । <<174>> पचि व्यक्तीकरणे ॥ पञ्चते । <<175>> ष्टुच प्रसादे । स्तोचते । तुष्टुचे । <<176>> ऋज गतिस्थानार्जनोपार्जनेषु । अर्जते । नुड्विधौ ऋकारैकदेशो रेफो हल्त्वेन गृह्यते । तेन द्विहल्त्वान्नुट् । आनृजे । <<177>> ऋजि <<178>> भृजी भर्जने । ऋञ्जते । उपसर्गादृति--74 इति वृद्धिः । प्रार्ञ्जते । ऋञ्जाञ्जक्रे । आर्ञ्जिष्ट । भर्जते । बभृज्जे । अभर्जिष्ट । <<179>> एजृ <<180>> भ्रेजृ <<181>> भ्राजृ दीप्तौ । एजांचक्रे । <<182>> ईज गतिकुत्सनयोः । ईजांचक्रे ॥
अथ द्विसप्ततिर्व्रज्यान्ताः परस्मैपदिनः ॥ <<183>> शुच शोके । शोचति । <<184>> कुच शब्दे तारे । कोचति । <<185>> कुञ्च <<186>> क्रुञ्च कौटिल्याल्पीभावयोः । अनिदिताम्--415 इति नलोपः । कुच्यात् । क्रुच्यात् । <<187>> लुञ्च अपनयने । लुच्यात् । <<188>> अञ्चु गतिपूजनयोः । अच्यात् । गतौ नलोपः । पूजायां तु अञ्च्यात् । <<189>> वञ्चु <<190>> चञ्चु <<191>> तञ्चु <<192>> त्वञ्चु <<193>> म्रुञ्चु <<194>> म्लुञ्चु <<195>> म्रुचु <<196>> म्लुचु गत्यर्थाः । वच्यात् । चच्यात् । तच्यात् । त्वच्यात् । अम्रुञ्चीत् । अम्लुञ्चीत् ॥
  • (2291) जॄस्तन्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च <3-1-58>
एभ्यश्च्लेरङ् वा स्यात् । अम्रुचत् । अम्रोचीत् । अम्लुचत् । अम्लोचीत् । <<197>> ग्रुचु <<198>> ग्लुचु <<199>> कुजु <<200>> खुजु स्तेयकरणे । जुग्रोच । अग्रुचत् । अग्रोचत् । जुग्लोच । अग्लुचत् । अग्लोचीत् । अकोजीत् । अखोजीत् । <<201>> ग्लुञ्चु <<202>> षस्ज गतौ । अङ् । अग्लुचत् । अग्लुञ्चीत् । सस्य श्रुत्वेन शः, जश्त्वेन जः । सज्जति । अयमात्मनेपद्यपि । सज्जते(कुजि) <<203>> गुजि अव्यक्ते शब्दे । गुञ्चति । गुञ्ज्यात् । <<204>> अर्च पूजायाम् । आनर्च । <<205>> म्लेच्छ अव्यक्ते शब्दे । अस्फुटेऽपशब्दे चेत्यर्थः । म्लेच्छति । मिम्लेच्छ । <<206>> लच्छ <<207>> लाच्छि लक्षणे । ललच्छ । ललाञ्छ । <<208>> वाच्छि इच्छायाम् । वाञ्छति । <<209>> आच्छि आयामे । आञ्छति । अत आदेः - 1248 इत्यत्र तपरकरणं स्वाभाविकह्रस्वपरिग्रहार्थम् । तेन दीर्घाभावान्न नुट् । आञ्छ । तपरकरणं मुखसुखार्थमिति मते तु नुट् । आनाञ्छ । <<210>> ह्रीच्छ लज्जायाम् । जिह्रीच्छ । <<211>> हुर्च्छा कौटिल्ये । कौटिल्यमपसरणमिति मैत्रेयः । उपधायां च 2265 इति दार्घः । हूर्छति । <<212>> मुर्च्छा मोहसमुच्छ्राययोः । मूर्छति । <<213>> स्फुर्च्छा विस्तृतौ । स्फूर्च्छति । <<214>> युच्छ प्रमादे । युच्छति । <<215>> उच्छि उञ्छे । उञ्छः कणश आदानं कणिशाद्यर्जनं शिलमिति यादवः । उञ्छति । उञ्छांचकार । <<216>> उच्छी विवासे । विवासः समाप्तिः । प्रायेणायं विपूर्वः । व्युच्छति । <<217>> ध्रज <<218>> ध्रजि <<219>> धृज <<220>> धृजि <<221>> ध्वज <<222>> ध्वजि गतौ । ध्रजति । ध्रञ्जति । धर्जति । धृञ्जति । ध्वजति । ध्वञ्जति । <<223>> कूज अव्यक्ते शब्दे । चुकूज । <<224>> अर्ज <<225>> षर्ज अर्जने । अर्जति आनर्ज । सर्जति । ससर्ज । <<226>> गर्ज शब्दे । गर्जति । <<227>> तर्ज भर्त्सने । तर्जति । <<228>> कर्ज व्यथने । चकर्ज । <<229>> खर्ज पूजने च । चखर्ज । <<230>> अज गतिक्षेपणयोः । अजति ॥
  • (2292) अजेर्व्यघञपोः <2-4-56>
अजेर्वी इत्ययमादेशः स्यादार्धधातुकविषये घञमपं च वर्जयित्वा ॥ । वलादावार्धधातुके वेष्यते (वा) ॥ विवाय । विव्यतुः । विव्युः । अत्र वकारस्य हल्परत्वात् उपधायां च 2265 इति दीर्घ प्राप्ते अचः परस्मिन्-50 इति स्थानिवद्भावेनाच्परत्वम् । नच न पदान्त-51 इति निषेधः ॥ । स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् इत्युक्तेः (वा) ॥ थलि एकाचः 2246 इतीण्निषेधे प्राप्ते ॥
  • (2293) कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि <7-2-13>
एभ्यो लिट इण्न स्यात् । क्रादीनां चतुर्णां ग्रहणं नियमार्थम् । प्रकृत्याश्रयः प्रत्ययाश्रयो वा यावानिण्निषेधः स लिटि चेत्तर्हि क्रादिभ्य एव नान्येभ्य इति । ततश्चतुर्णां थलि भारद्वाजनियमप्रापितस्य वमादिषु क्रादिनियमप्रापितस्य चेटो निषेधार्थम् ।
  • (2294) अचस्तास्वत्थल्यनिटो नित्यम् <7-2-61>
उपदेशेऽजन्तो यो धातुस्तासौ नित्यानिट् ततः परस्य थल इण्न स्यात् ॥
  • (2295) उपदेशेऽस्त्वतः <7-2-62>
उपदेशे अकारवतस्तासौ नित्यानिटः परस्य थल इण्न स्यात् ॥
  • (2296) ऋतो भारद्वाजस्य <7-2-63>
तासौ नित्यानिट ऋदन्तादेव थलो नेट् भारद्वाजस्य मतेन । तेनान्यस्य स्यादेव । अयमत्र संग्रहः ॥ अजन्तोऽडकारवान्वायस्तास्यनिट् थसि वेडयम् । ऋदन्त ईदृङ्नित्यानिट् क्राद्यन्यो लिटि सेड्भवेत् ॥1 ॥ न च स्तुद्र्वादीनामपि थलि विकल्पः शङ्कयः । अचस्तास्वत्--2294 इति उपदेशेऽत्वतः 2295 इति च योगद्वयप्रापितस्यैव हि प्रतिषेधस्य भारद्वाजनियमो निवर्तकः । (प) अनन्तरस्येति न्यायात् । विवयिथ । विवेथ । आजिथ । विव्यथुः । विव्य । विवाय । विवय । विव्यिव । विव्यिम । वेता । अजिता । वेष्यति । अजिष्यति । अजतु । आजत् । अजेत् । वीयात् ॥
  • (2297) सिचि वृद्धिः परस्मैपदेषु <7-2-1>
इगन्ताङ्गस्य वृद्धिः स्यात्परस्मैपदपरे सिचि । अवैषीत् । आजीत् । अवेष्यत् । आजिष्यत् । <<231>> तेज पालने । तेजति । <<232>> खज मन्थे । खजति । <<233>> खजि गतिवैकल्ये । खञ्जति । <<234>> एजृ कम्पने । एजांचकार । <<235>> टुओस्फूर्जा वज्रनिर्घोषे । स्फूर्जति । पुस्फूर्ज । <<236>> क्षि क्षये । अकर्मकः । अन्तर्भावितण्यर्थस्तु सकर्मकः । क्षयति । चिक्षाय । चिक्षियतुः । चिक्षियुः । चिक्षयिथ । चिक्षेथ । चिक्षियिव । चिक्षियिम । क्षेता ॥
  • (2298) अकृत्सार्धातुकयोर्दीर्घः <7-4-25>
अजन्ताङ्गस्य दीर्घः स्याद्यादौ प्रत्यये परे न तु कृत्सार्वधातुकयोः । क्षीयात् । अक्षैषीत् । <<237>> क्षीज अव्यक्तेशब्दे । कूजिना सहायं पठितुं युक्तः । चिक्षीज । <<238>> लज <<239>> लजि भर्जने । <<240>> लाज <<241>> लाजि भर्त्सने च । <<242>> जज <<243>> जजि युद्धे । <<244>> तुज हिंसायाम् । तोजति । तुतोज । <<245>> तुजि पालने । <<246>> गज <<247>> गजि <<248>> गृज <<249>> गृजि <<250>> मुज <<251>> मुजि शब्दार्थाः । गज मदने च । <<252>> वज <<253>> व्रज गतौ । वदव्रज - 2267 इति वृद्धिः । अव्राजीत् ।
अथ टवर्गीयान्ताः शाङ्यन्ता अनुदात्तेतः षटिं्त्रशत् ॥ <<254>> अट्ट अतिक्रमणहिंसयोः । दोपधोऽयम् । तोपध इत्येके । अट्टते । आनट्टे । <<255>> वेष्ट वेष्टने । विवेष्ट । <<256>> चेष्ट चेष्टायाम् । अचेष्टिष्ट । <<257>> गोष्ट <<258>> लोष्ट संघाते । जुगोष्टे । लुलोष्टे । <<259>> घट्ट चलने । जघट्टे । <<260>> स्फुट <<261>> अठि गतौ । अण्ठते । आनण्ठे । <<262>> वठि एकचर्यायाम् । ववण्ठे । <<263>> मठि <<264>> कठि शोके । शोक इह आध्यानम् । मण्ठते । कण्ठते । <<265>> मुठि पालने । मुण्ठते । <<266>> हेठ विबाधायाम् । जिहेठे । <<267>> एठ च । एठांचक्रे । <<268>> हिडि गत्यनादरयोः । हिण्डते । जिहिण्डे । <<269>> हुडि संघाते । जुहुण्डे । <<270>> कुडि दाहे । चुकुण्डे । <<271>> वडि विभजने । <<272>> मडि च । ववण्डे । <<273>> भडिपरिभाषणे । परिहासः सनिन्दोपालम्भश्च परिभाषणम् । बभण्डे । <<274>> पिडि संघाते । पिपिण्डे । <<275>> मुडि मार्जने । मार्जनं शुद्धिर्न्यग्भावश्च । मुण्डते । <<276>> तुडि तोडने । तोडनं दारणं हिंसनं च । तुण्डते । <<277>> हुडि वरणे । वरणं स्वीकारः । हरण इत्येके । हुण्डते । <<278>> चडि कोपे । चण्डते । <<279>> शडि रुजायां संघाते च । शण्डते । <<280>> तडि ताडने । तण्डते । <<281>> पडि गतौ । पण्डते । <<282>> कडि मदे । कण्डते । <<283>> खडि मन्थे । <<284>> हेडृ <<285>> होडृ अनादरे । जिहेडे । जुहोडे । <<286>> बाडृ आप्लाव्ये । बशादिः । आप्लाव्यमाप्लवः । बाडते । <<287>> द्राडृ <<288>> ध्राडृ विशरणे । द्राडते । ध्राडते । <<289>> शाडृ श्लाघायाम् । शाडते ॥
अथ आ टवर्गीयान्तसमाप्तेः परस्मैपदिनः ॥ <<290>> शौट्ट गर्वे । शौटति । शुशौट । <<291>> यौट्ट बन्धे । यौटति । <<292>> म्लेडृ <<293>> म्रेडृ उन्मादे । द्वितीयो डान्तः । टान्तमध्ये पाठस्त्वर्थसाम्यान्नाथतिवत् । म्लेडति । म्रेडति । <<294>> कटे वर्षावरणयोः । चटे इत्येके । चकाट । सिचि अतो हलादेर्लघोः 2284 इति वृद्धौ प्राप्तायाम् ।
  • (2299) ह्म्यन्तक्षणस्वसजागृणिश्व्येदिताम् <7-2-5>
हमयान्तस्य क्षणादेर्ण्यन्त्य श्वयतेरेदितश्च वृद्धिर्न स्यादिडादौ सिचि । अकटीत् । <<295>> अट <<296>> पट गतौ । आट । आटतुः । आटुः । पपाट । पेटतुः । पेटुः । <<297>> रट परिभाषणे । रराट । <<298>> लट बाल्ये । ललाट । <<299>> शट रुजाविशरणगत्यवसादनेषु । शशाट । <<300>> वट वेष्टने । ववाट । ववटतुः । ववटुः । ववटिथ । <<301>> किट <<302>> खिट त्रासे । केटति । खेटति । <<303>> शिट <<304>> षिट अनादरे । शेटति । शिशेट । सेटति सिषेट । <<305>> जट <<306>> झट संघाते । <<307>> भट भृतौ । <<308>> तट उच्छ्राये । <<309>> खट काङ्क्षायां <<310>> षट नृतौ । <<311>> पिट शब्दसंघातयोः । <<312>> हट दीप्तौ । <<313>> शट अवयवे । <<314>> लुट विलोडने । डान्तोऽयमित्येके । <<315>> चिट परप्रेष्ये । <<316>> विट शब्दे । <<317>> बिट आक्रोशे । बशादिः । हिटेत्येके <<318>> इट <<319>> किट <<320>> कटी गतौ । एटति । केटति । कटति । ईकारः श्वीदितो निष्ठायाम् <<303>>9 इतीण्निषेधार्थः । केचित्तु इदितं मत्वा नुमि कृते कण्टतीत्यादि वदन्ति । अन्ते च इ ई इति प्रश्लिष्य । अयति । इयाय । इयतुः । इयुः । इययिथ । इयेथ । इयाय । इयय । दीर्घस्यतु इजादेश्च-2237 इत्यामि अयांचकारेत्याद्युदाहरन्ति । <<321>> मडि भूषायाम् । <<322>> कुडि वैकल्ये । कुण्डति । कुण्डत इति तु दाहे गतम् । <<323>> मुड <<324>> प्रुड मर्दने । <<325>> चुडि अल्पीभावे । <<326>> मुडि खण्डने । मुण्डति । पुडि चेत्येके । पुण्डति <<327>> रुटि <<328>> लुटि स्तेये । रुण्टति । लुण्टति । रुठि लुठि

इत्येके । रुडि लुडि इत्यपरे <<329>> स्फुटिर् विशरणे । इरित्वादङ्वा । अस्फुटत् । अस्फोटीत् । स्फुटि इत्यपि केचित् । इदित्त्वान्नुम् । स्फुण्टति । <<330>> पठ व्यक्तायां वाचि । पेठतुः । पेठिथ । अपठीत् । अपाठीत् । <<331>> वठ स्थौल्ये । ववठतुः । ववठिथ । <<332>> मठ मदनिवासयोः । <<333>> कठ कृच्छ्रजीवे । <<334>> रट परिभाषणे । रठेत्येके । <<335>> हठ प्लुतिशठत्वयोः । बलात्कार इत्येके । हठति । जहाठ । <<336>> रुठ <<337>> लुठ <<338>> उठ उपघाते । ओठति । ऊठेत्येके । ऊठति । ऊठांचकार । <<339>> पिठ हिंसासंक्लेशनयोः । <<340>> शठ कैतवे च । <<341>> शुठ प्रतिघाते । शोठति । शुठीति स्वामी । शुण्ठति । <<342>> कुठि च । कुण्ठति । <<343>> लुठि आलस्ये प्रतिघाते च । <<344>> शुठि शोषणे । <<345>> रुठि <<346>> लुठि गतौ । <<347>> चुड्ड भावकरणे । भावकरणमभिप्रायसूचनम् । चुड्डति । चुचुड्ड । <<348>> अड्ड अभियोगे । अड्डति । आनड्ड । <<349>> कड्ड कार्कश्ये । कड्डति । चुड्डादयस्रयो दोपधाः । तेन क्विपि, चुत् । अत् । कत् । इत्यादि । <<350>> क्रीडृ विहारे । चिक्रीड । <<351>> तुडृ तोडने । तोडति । तुतोड । तूड इत्येके । <<352>> हुडृ <<353>> हूडृ <<354>> होडृ गतौ । हुड्यात् । हूड्यात् । होड्यात् । <<355>> रौडृ अनादरे । <<356>> रोडृ <<357>> लोडृ उन्मादे । <<358>> अड उद्यमे । अडति । आड । आडतुः । आडुः । <<359>> लड विलासे । लडति । लडयोर्लळयोश्चैकत्वस्मरणाल्ललतीति स्वम्यादयः । <<360>> कड मदे । कडति । कडि इत्येके । कण्डति । <<361>> गडि वदनैकदेशे । गण्डति । इति टवर्गीयान्ताः ॥

अथ पवर्गीयान्ताः । तत्रानुदात्तेतः स्तोभत्यन्ताश्चतुस्त्रिंशत् । <<362>> तिपृ <<363>> तेपृ <<364>> ष्टिपृ <<365>> ष्टेपृ क्षरणार्थाः । आद्योऽनुदात्तः । क्षीरस्वामी त्वयं सेडिति बभ्राम । तेपते । तितिपे । क्रादिनियमादिट् । तितिपिषे । तेप्ता । तेप्स्यते ।
  • (2300) लिङ्सिचावात्मनेपदेषु <1-2-11>
इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलौ झलि-2281 इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टिपे । तिष्टेपाते । तिष्टेपिरे ॥ तेपृ कम्पने च । <<366>> ग्लेपृ दैन्ये । ग्लेपते । <<367>> टुवेपृ कम्पने । वेपते । <<368>> केपृ <<369>> गेपृ <<370>> ग्लेपृ च । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः । <<371>> मेपृ <<372>> रेपृ <<373>> लेपृ गतौ । <<374>> त्रपूष् लज्जायाम् । त्रपते ॥
  • (2301) तॄफलभजत्रपश्च <6-4-122>
एषामत एकारोऽभ्यासलोपश्च स्यात्किति लिटि सेटि थलि च । त्रेपे । त्रेपाते । त्रेपिरे । ऊदित्वादिड्वा । त्रपिता । त्रप्ता । त्रपिषीष्ठ । त्रप्सीष्ट । <<375>> कपि चलने । कम्पते । चकम्पे । <<376>> रबि <<377>> लबि <<378>> अबि शब्दे । ररम्बे । ललम्बे । आनम्बे । <<379>> लबि अवस्रंसने च । <<380>> कबृ वर्णे । चकबे । <<381>> क्लीबृ अधाष्टर्थे । चिक्लीबे । <<382>> । क्षीबृ मदे । क्षीबते । <<383>> शीभृ कत्थने । शीभते । <<384>> चीभृ च । <<385>> रेभृ शब्दे । रिरेभे । अभिरभी क्वचित्पठ्यते । अम्भते । रम्भते । <<386>> ष्टभि <<387>> स्कभि प्रतिबन्धे । स्तम्भते । उत्तम्भते । उदः स्थास्तम्भोः-118 इति पूर्वसवर्णः । विस्तम्भते । स्तन्भेः-2272 इति षत्वं तु न भवति । श्नुविधौ निर्दिष्टस्य सौत्रस्यैव तत्र ग्रहणात् । तद्बीजं तु उदः स्थास्तम्भोः-118 इति पवर्गीयोपधपाठः, स्तन्भेः 2272 इति तवर्गीयोपधपाठश्चेति । माधवः । केचिदस्य टकार औपदेशिक इत्याहुः । तन्मते, ष्टम्भते । टष्टम्भे । <<388>> जभि <<389>> जृभी गात्रविनामे ॥
  • (2302) रधिजभोरचि <7-1-61>
एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । जम्भिष्ट । जृम्भते । जजृम्भे । <<390>> शल्भ कत्थने । शशल्भे । <<391>> वल्भ भोजने । दन्त्योष्ठ्यादिः । ववल्भे । <<392>> गल्भ धाष्टर्थे । गल्भते । <<393>> श्रम्भु प्रमादे । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते । <<394>> ष्टुभु स्तम्भे । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥
अथ परस्मौपदिनः ॥ <<395>> गुपू रक्षणे ॥
  • (2303) गुपूधूपविच्छिपणिपनिभ्य आयः <3-1-28>
एभ्य आयप्रत्ययः स्यात्स्वार्थे । पुगन्त-2189 इति गुणः ॥
  • (2304) सनाद्यन्ता धातवः <3-1-32>
सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञाः स्युः । धातुत्वाल्लडादयः । गोपायति ॥
  • (2305) आयादय आर्धधातुके वा <3-1-31>
आर्धधातुकविवक्षायामायादयो वा स्युः ॥
  • (2306) कास्प्रत्ययादाममन्त्रे लिटि <3-1-35>
कास्धातोः प्रत्ययान्तेभ्यश्चाम् स्याल्लिटि न तु मन्त्र ॥ । कास्यनेकाज् ग्रहणं कर्तव्यम् (वा) ॥ सूत्रे प्रत्ययग्रहणमपनीय तत्स्थानेऽकाच इति वाच्यमित्यर्थः ॥
  • (2307) आर्धधातुके <6-4-46>
इत्यधिकृत्य ॥
आर्धधातुकोपदेशकाले यदकारान्तं तस्याकारस्य लोपः स्यादार्धधातुके परे । गोपायांचकार । गोनपायांबभूव । गोपायामास । जुगोप । जुगुपतुः । ऊदित्वाद्वेट् । जुगोपिथ । जुगोप्थ । गोपायिता । गोपिता । गोप्ता । गोपाय्यात् । गुप्यात् । अगोपायीत् । अगोपीत् । अगौप्सीत् । <<396>> धूप संतापे । धूपायति । धूपायांचकार । दुधूप । धूपायितासि । धूपितासि । <<397>> जप <<398>> जल्प व्यक्तायां वाचि । जप मानसे च । <<399>> चप सान्त्वने । <<400>> षप समवाये । समवायः संबन्धः सम्यगवबोधो वा । सपति । <<401>> रप <<402>> लप व्यक्तायां वाचि । <<403>> चुप मन्दायां गतौ । चोपति । चुचोप । चोपिता । <<404>> तुप <<405>> तुम्प <<406>> त्रुप <<407>> त्रुम्प <<408>> तुफ <<409>> तुर्म्फ <<410>> त्रुफ <<411>> त्रुम्फ हिंसार्थाः । तोपति । तुतोप । तुम्पति । तुतुम्प । तुतुम्पतुः । संयोगात्परस्य लिटः कित्त्वान्नलोपो न । किदाशिषि 2216 इति कित्वान्नलोपः । तुप्यात् । (ग) प्रात्तुम्पतौ गवि कर्तरि इति पारस्करादिगणे पाठात्सुट् । प्रस्तुम्पति गौः । श्तिपा निर्देशाद्यङ्लुकि न । प्रतोतुम्पीति । त्रोपति । त्रुम्पति । तोफति । तुम्फति । त्रोफति । त्रुम्फति । इहाद्यौ द्वौ पञ्चमषष्ठौ च नीरेफाः । अन्येसरेफाः । आद्याश्चत्वारः प्रथमान्ताः । ततो द्वितायान्ताः । अष्टावप्युकारवन्तः । <<412>> पर्प <<413>> रफ <<414>> रफि <<415>> अर्ब <<416>> पर्ब <<417>> लर्ब <<418>> बर्ब <<419>> मर्ब <<420>> कर्ब <<421>> खर्ब <<422>> गर्ब <<423>> शर्ब <<424>> षर्ब <<425>> चर्ब गतौ । आद्यः प्रथमान्तः । ततो द्वौ द्वितीयान्तौ । तत एकादश तृतीयान्ताः । द्वितीयतृतीयौ मुक्त्वा सर्वे रोपधाः । पर्पति । पपर्प । रफति । रम्फति । अर्बति । आनर्ब । पर्बति । लर्बति । बर्बति । पवर्गीयादिरयम् । मर्बति । कर्बति । खर्बति । गर्बति । शर्बति । सर्बति । चर्बति । <<426>> कुबि आच्छादने । कुम्बति । <<427>> लुबि <<428>> तुबि अर्दने । लुम्बति । तुम्बति । <<429>> चुबि वक्रसंयोगे । चुम्बति । <<430>> षृभु <<431>> षृम्भु हिंसार्थौ । सर्भति । ससर्भ । सर्भिता । सृम्भति । ससृम्भ । सृभ्यात् । षिभु । षिम्भु इत्येके । सेभति । सिम्भति । <<432>> शुभ <<433>> शुम्भ भाषणे । भासने इत्येके । हिंसायामित्यन्ये ॥
अथानुनासिकान्ताः ॥ तत्र कम्यन्ता अनुतात्तेतो दश ॥ <<434>> घिणि <<435>> घुणि <<436>> घृणि ग्रहणे । नुम् । ष्टुत्वम् । घिण्णते । जिघिण्णे । घुण्णते । जुघुण्णे । घृण्णते । जघृण्णे । <<437>> घुण <<438>> घूर्ण भ्रमणे । घोणते । घूर्णते । इमौ तुदादौ परस्मैपदिनौ । <<439>> पण व्यवहारे स्तुतौ च । <<440>> पन च । स्तुतावित्येव संबध्यते । पृथङ्निर्देशात् । पनिसाहचर्यात्पणेरपिस्तुतावेवायप्रत्ययः । व्यवहारे तु पणते । पेणे । पणितेत्यादि । स्तुतावनुबन्धस्य केवले चरितार्थात्वादायप्रत्ययान्तान्नात्मनेपदम् । पणायति । पणायांचकार । पेणे । पणायितासि । पणितासे । पणाय्यात् । पनायति । पनायांचकार । पेने । <<441>> भाम क्रोधे । भामते । बभामे । <<442>> क्षमूष् सहने । क्षमते । चक्षमे । चक्षमिषे । चक्षंसे । चक्षमिध्वे । चक्षन्ध्वे । चक्षमिवहे ॥
मान्तस्य धातोर्मस्य नकारादेशः स्यान्मकारे वकारे च परे णत्वम् । चक्षण्वहे । चक्षमिमहे । चक्षण्महे । क्षमिष्यते । क्षंस्यते । क्षमेत । आशिषि, क्षमिषीष्ट । क्षंसीष्ट । अक्षमिष्ट । अक्षंस्त <<443>> कमु कान्तौ । कान्तिरिच्छा ॥
  • (2310) कमेर्णिङ् <3-1-30>
स्वार्थे । ङित्त्वात्तङ् । कामयते ॥
  • (2311) अयामन्ताल्वाय्येत्न्विष्णुषु <6-4-55>
आम् अन्त आलु आय्य इत्रु इष्णु एषु णेरयादेशः स्यात् । वक्ष्यमाणलोपापवादः । कामयांचक्रे । आयादय

आर्धाधातुके वा 2305 । चक्रमे । कामयिता । कमिता । कामयिष्यते । कमिष्यते ॥

  • (2312) णिश्रिद्रुस्रुभ्यः कर्तरि चङ् <3-1-48>
ण्यन्तात् श्र्यादिभ्यश्च च्लेश्चङ् स्यात्कर्त्रर्थे लुङि परे । काम् इ अ त इति स्थिते ॥
अनिडादावार्धधातुकेपरे णेर्लोपः स्यात् । परत्वात् एरनेकाचः--272 इति यणि प्राप्ते ॥ ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषेधेनेति वार्तिकम् । णिलेपस्य तु पाचयतेः पाक्तिरित्यादि क्तिजन्तमवकाश इति भावः । वस्तुतस्त्वनिटीति वचनसामर्थ्यादार्धधातुकमात्रमस्य विषयः । तथा चेयङादेरपवाद एवायम् । इयङ् । अततक्षत् । यण् । अटिटत् । गुणः । कारणा । वृद्धिः । कारकः । दीर्घः । कार्यते ॥
  • (2314) णौ चङ्युपधायाह्रस्वः <7-4-1>
चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वः स्यात् ॥
चङि परे अनभ्यासधात्वयवस्यैकाचः प्रथमस्य द्वे स्तोऽजादेस्तु द्वितीयस्य ॥
  • (2316) सन्वल्लघुनि चङ्परेऽनग्लोपे <7-4-93>
चङ्परे इति बहुव्रीहिः । स चाङ्गस्येति च द्वयमप्यावर्त्तते । अङ्गसंज्ञानिमित्तं यच्चङ्परं णिरिति यावत् तत्परं यल्लघु तत्परो योऽङ्गस्याभ्यासस्तस्य सनीव कार्यं स्यात् णावग्लोपेऽसति । अथवाऽङ्गस्येति नावर्तते । चङ्परे णौ यदङ्गं तस्य योऽभ्यासो लघुपरस्तस्येत्यादि प्राग्वत् ॥
अभ्यासस्यात इकारः स्यात्सनि ॥
  • (2318) दीर्घो लघोः <7-4-94>
लघोरभ्यासस्य दीर्घः स्यात्सन्वद्भावविषये । अचीकमत ॥ णिङभावपक्षे । कमेश्च्लेश्चङ्वक्तव्यः (वा) ॥ णेरभावान्न दीर्धसन्वद्भावौ । अचक्रमत ॥ संज्ञायाः कार्यकालत्वादङ्गं यत्र द्विरुच्यते ॥ तत्रैव दीर्घः सन्वच्च नानेकाक्ष्विति माधवः ॥1 ॥ चकास्त्यर्थापत्यूपर्णोत्यादौ नाङ्गं द्विरुच्यते ॥ किं त्वस्यावयवः कश्चित्तस्मादेकाक्ष्विदं द्वयम् ॥2 ॥ वस्तुतोऽङ्गस्यावयवो योऽभ्यास इति वर्णनात् ॥ ऊर्णौ दीर्घोऽर्थापयतौ द्वयं स्यादिति मन्महे ॥3 ॥ चकास्तौ तूभयमिदं न स्यात्स्याच्च व्यवस्थया । णेर्विशेष्यं सन्निहितं लघुनीत्यङ्गमेव वा ॥4 ॥ इति व्याख्याविकल्पस्य कैयटेनैव वर्णनात् ॥ णेरग्लोपेऽपि संबन्धस्त्वगितामपि सिद्धये ॥5 ॥
अथ क्रम्यन्तास्रिंशत्परस्मैपदिनः ॥ <<444>> अण <<445>> रण <<446>> वण <<447>> भण <<448>> मण <<449>> कण <<450>> क्वण <<451>> व्रण <<452>> भ्रण <<453>> ध्वण शब्दार्थाः । अणति । रणति । वणति । वकारादित्वादेत्वाभ्यासलोपौ न । ववणतुः । ववणिथ । धणिरपि कैश्चित्पठ्यते । धणति । <<454>> ओणृ अपनयने । ओणति । ओणांचकार । <<455>> शोणृ वर्णगत्योः । शोणति । शुशोण । <<456>> श्रोणृ संघाते । श्रोणति । <<457>> श्लोणृ च । शोणादयस्त्रयोऽमी तालव्योष्मादयः । <<458>> पैणृ गतिप्रेरणश्लेषणेषु । प्रैणृ इति क्वचित्पठ्यते । पिपैण । <<459>> ध्रण शब्दे । उपदेशे नान्तोऽयम् । रषाभ्याम्--235 इति णत्वम् । ध्रणति । नोपदेशफलं तु यङ्लुकि । दंध्रन्ति । बणेत्यपि केचित् । बेणतुः । बेणिथ । <<460>> कनी दीप्तिकान्तिगतिषु चकान । <<461>> ष्टन <<462>> वन शब्दे । स्तनति । वनति । <<463>> वन <<464>> षण संभक्तौ । वनेरर्थभेदात्पुनः पाठः सनति । ससान । सेनतुः ॥
  • (2319) ये विभाषा <6-4-43>
जनसनखनामात्वं वा स्याद्यदौ क्ङिति । सायात् । सन्यात् । <<465>> अम गत्यादिषु कनी दीप्तिकान्तीत्यत्र गतेः परयोः शब्दसंभक्त्योरादिशब्देन संग्रहः । अमति । आम । <<466>> द्रम <<467>> हम्म <<468>> मीमृ गतौ । द्रमति । दद्राम । ह्म्यन्त--2288 इति न वृद्धिः । अद्रमीत् । हम्मति । जहम्म । मीमति । मिमीत । मिमीम । अयं शब्दे च । <<469>> चमु <<470>> छमु <<471>> जमु <<472>> झमु अदने ॥
  • (2320) ष्ठिवुक्लमुचमां शिति <7-3-75>
एषामचो दीर्घः स्याच्छिति ॥ । आङि चम इति वक्तव्यम् (वा) ॥ आचामति । आङि किम् । चमति । विचमति । अचमीत् ।

जिमिं केचित्पठन्ति । जेमति । <<473>> क्रमु पादविक्षेपे ॥

  • (2321) वा भ्राशम्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलषः <3-1-70>
एभ्यः श्यन्वा स्यात्कर्त्रर्थे सार्वधातुके परे ॥
  • (2322) क्रमः परस्मैपदेषु <7-3-76>
क्रमेर्दीर्घः स्यात्परस्मैपदपरे शिति । क्राम्यति । क्रामति । चक्राम । क्राम्यतु । क्रामतु ॥
  • (2323) स्नुक्रमोरनात्मनेपदनिमित्ते <7-2-36>
अत्रैवेट् । अक्रमीत् ।

अथ रेवत्यन्ता अनुदात्तेतः ॥ <<474>> अय <<475>> वय <<476>> पय <<477>> मय <<478>> चय <<479>> तय <<480>> णय गतौ । अयते ॥

  • (2324) दयायासश्च <3-1-37>
दय अय आस् एभ्य आम् स्याल्लिटि । अयांचक्रे । अयेत । अयिषीष्ट ॥
  • (2325) विभाषेटः <8-3-79>
इणः परो य इट् ततः परेषां षीध्वंलुङ्लिटां धस्य वा मूर्धन्यः स्यात् । अयिषीढ्वम् । अयिषीध्वम् । आयिष्ट । आयिढ्वम् । आयिध्वम् ॥
  • (2326) उपसर्गस्यायतौ <8-2-19>
अयतिपरस्योपसर्गस्य यो रेफस्तस्य लत्वं स्यात् । प्लायते । पलायते । निस्दुसोरुत्वस्यासिद्धत्वान्न लत्वम् । निरयते । दुरयते । निर्दुरोस्तु । निलयते । दुलयते । प्रत्यय इति त्विणो रूपम् । अथ कथम् उदयति विततोर्ध्वरश्मिरज्जाविति माघः । इटकिटकटी इत्यत्र प्रश्लिष्टस्य भविष्यति । यद्वा । (प) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यम् । चक्षिङो ङित्करणाज्ज्ञापकात् । वादित्वात् । ववये । पेये । मेये । चेये । तेये । प्रणयते । नेये । <<481>> दय दानगतिरक्षणहिंसादानेषु । आदानं ग्रहणम् । दयांचक्रे । <<482>> रय गतौ । <<483>> ऊयी तन्तुसन्ताने । ऊयांचक्रे । <<484>> पूयी विशरणे दुर्गन्धे च । पूयते । पुपूये । <<485>> क्नूयी शब्दे उन्दे च । चुक्नूये । <<486>> क्ष्मायी विधूनने । चक्ष्माये । <<487>> स्फायी <<488>> ओप्यायी वृद्धौ । स्फायते । पस्फाये । प्यायते ॥
  • (2327) लिड्यङोश्च <6-1-29>
लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात्पीशब्दस्यद्वित्वम् । एरनेकाचः--272 इति यण् । पिप्ये । पिप्याते । पिप्यरे ॥
  • (2328) दीपजनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् <3-1-61>
एभ्यश्च्लेश्चिण्वा स्यादेकवचने तशब्दे परे ॥
चिणः परस्य लुक् स्यात् । अप्यायि । अप्यायिष्ट । <<489>> तायृ सन्तानपालनयोः । सन्तानः प्रबन्धः । तायते । तताये । अतायि । अतायिष्ट । <<490>> शल चलनसंवरणयोः । <<491>> वल <<492>> वल्ल संवरणे संचरणे च । ववले । ववल्ले । <<493>> मल <<494>> मल्ल धारणे । मेले । ममल्ले । <<495>> भल <<496>> भल्ल परिभाषणहिंसादानेषु । बभले । बभल्ले । <<497>> कल शब्दसंख्यानयोः । कलते । चकले । <<498>> कल्ल अव्यक्ते शब्दे । कल्लते । अशब्दे इति स्वामी । अशब्दस्तूष्णींभाव इति च । <<499>> तेवृ <<500>> देवृ <<501>> षेवृ <<502>> गेवृ <<503>> म्लेवृ <<504>> पेवृ <<505>> मेवृ <<506>> ग्लेवृ सेवने । परिनिविभ्यः --2275 इति षत्वम् । परिषेवते । सिषेवे । अयं सोपदेशोऽपीति न्यासकारादयः । तद्भाष्यविरुद्धम् । गेवते । जिगेवे । जिग्लेवे । पिपेवे । मेवते । म्लेवते । शेवृ खेवृ केवृ इत्यप्येके । <<507>> रेवृ प्लवगतौ । प्लवगतिः प्लुतगतिः रेवते ॥
अथावत्यन्ताः परस्मैपदिनः ॥ <<508>> मव्य बन्धने । ममव्य । <<509>> सूर्क्ष्य <<510>> ईर्क्ष्य <<511>> ईर्ष्य ईर्ष्यार्थाः । <<512>> हय गतौ । अहयीत् । यान्तात्वान्नवृद्धिः । <<513>> शुच्य अभिषवे । अवयवानां शिथिलीकरणं सुरायाः सन्धानं वाऽभिषवः स्नानं च । शुशुच्य । चुच्य इत्येके । <<514>> हर्य गतिकान्त्योः । जहर्य <<515>> अल भूषणपर्याप्तिवारणेषु । अलति । आल ॥
  • (2330) अतो ल्रान्तस्य <7-2-2>
ल्रेति लुप्तषष्ठीकम् । अतः समीपौ यौ ल्रौ तदन्तस्याङ्गस्यातो वृद्धिः स्यात्परस्मैपदपरे सिचि । नेटि 2268 इति निषेधस्याअतो हलादेः---2284 इति विकल्पस्य चापवादः । मा भवानालीत् । अयं स्वरितेदित्येके । तन्मते, अलते इत्याद्यपि । <<516>> ञिफला विशरणे । तॄफल --2301 इत्येत्वम् । फेलतुः । फेलुः । अफालीत् । <<517>> मील <<518>> श्मील <<519>> स्मील <<520>> क्ष्मील निमेषणे । निमेषणं संकोचः । द्वितीयस्तालव्यादिः । तृतीयो दन्त्यादिः । <<521>> पील प्रतिष्टम्भे । प्रतिष्टम्भो रोधनम् । <<522>> नील वर्णे । <<523>> शील समाधौ । शीलति । <<524>> काल बन्धने <<525>> कूल आवरणे । <<526>> शूल रुजायां संघोषे च । <<527>> तूल निष्कर्षे । निष्कर्षो निष्कोषणम् । तच्चान्तर्गतस्य बहिर्निः सारणम् । तुतूल । <<528>> पूल संघाते । <<529>> मूल प्रतिष्ठायाम् । <<530>> फल निष्पत्तौ । फेलतुः । फेलुः । <<531>> चुल्ल भावकरणे । भावकरणमभिप्रायाविष्कारः । <<532>> फुल्ल विकसने । <<533>> चिल्ल शैथिल्ये भावकरणे च । <<534>> तिल गतौ । तेलति । तिल्ल इत्येके । तिल्लति । <<535>> वेलृ <<536>> चेलृ <<537>> केलृ <<538>> खेलृ <<539>> क्ष्वेलृ <<540>> वेल्ल चलने । पञ्च ऋदितः । षष्ठो लोपधः । <<541>> पेलृ <<542>> फेलृ <<543>> शेलृ गतौ । षेलृ इत्येके । <<544>> स्खल संचलने । चस्काल । अस्खालीत् । <<545>> खल संचये । <<546>> गल अदने । गलति । अगालीत् । <<547>> षल गतौ । सलति । <<548>> दल विशरणे । <<549>> श्वल <<550>> श्वल्ल आशुगमने । शश्वाल । अश्वालीत् । अश्वल्लीत् । <<551>> खोलृ <<552>> खोर्ऋ गतिप्रतिघाते । खोलति । खोरति । <<553>> धोर्ऋ गतिचातुर्ये । धोरति । <<554>> त्सर छद्मगतौ । तत्सार । अत्सारीत् । <<555>> क्मर हूर्च्छने । चक्मार । <<556>> अभ्र <<557>> वभ्र <<558>> मभ्र <<559>> चर गत्यर्थाः । चरतिर्भक्षणेऽपि । अभ्रति । आनभ्र । मा भवानभ्रीत् । अङ्गान्त्यरेफस्यातः समीपत्वाभावान्नवृद्धिः । <<560>> ष्ठिवु निरसने । ष्ठिवुक्लमु--2320इति दीर्घः । ष्ठीवति । अस्य द्वितीयस्थकारष्ठकारो वेति वृत्तिः । तिष्ठेव । तिष्ठिवतुः । तिष्ठिवुः । टिष्ठेव । टिष्ठिवतुः । टिष्ठिवुः । हलि च 354 इति दीर्घः । ष्ठीव्यात् । <<561>> जि जये । अयमजन्तेषु पठितुं युक्तः । जय उत्कर्षप्राप्तिः । अकर्मकोऽयम् । जयति ॥
  • (2331) सन्लिटोर्जः <7-3-57>
जयतेः सन्लिण्निमित्तो योऽभ्यासस्ततः परस्य कुत्वं स्यात् । जिगाय । जिग्यतुः । जिग्युः । जिगयिथ । जिगेथ । जिगाय । जिगय । जिग्यिव । जिग्यिम । जेता । जीयात् । अजैषीत् । <<562>> जीव प्राणधारणे । जिजीव । <<563>> पीव <<564>> मीव <<565>> तीव <<566>> णीव स्थौल्ये । पिपीव । मिमीव । तितीव । निनीव । <<567>> क्षिवु <<568>> क्षेवु निरसने <<569>> उर्वी <<570>> तुर्वी <<571>> थुर्वी <<572>> दुर्वी <<573>> धुर्वी हिंसार्थाः । ऊर्वांचकार । उपधायां च 2265 इति दीर्घः । तुतूर्व । <<574>> गुर्वी उद्यमने । गूर्वति । जुगूर्व । <<575>> मुर्वी बन्धने । <<576>> पुर्व <<577>> पर्व <<578>> मर्व पूरणे । <<579>> चर्व अदने । <<580>> भर्व हिंसायाम् । <<581>> कर्व <<582>> खर्व <<583>> गर्व दर्पे । <<584>> अर्व <<585>> शर्व <<586>> षर्व हिंसायाम् । आनर्व । शर्वति । सर्वति । <<587>> इवि व्याप्तौ । इन्वति । इन्वांचकार । <<588>> पिवि <<589>> मिवि <<590>> णिवि सेचने । तृतीयो मूर्धन्योष्मादिरित्येके । सेवन इति तरङ्गिण्याम् । पिन्वति । पिपिन्व । <<591>> हिवि <<592>> दिवि । <<593>> धिवि । <<594>> जिवि प्राणनार्थाः । हिन्वति । दिन्वति ॥
  • (2332) धिन्विकृण्व्योर च <3-1-80>
अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः 2308 । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वति ॥
  • (2333) लोपश्चास्यान्यतरस्यां म्वोः <6-4-107>
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तस्याङ्गस्य लोपो वा स्यात् म्वोः परयोः । धिन्वः धिनुवः । धिन्मः । धिनुमः । मिपि तु पत्वाद्गुणः । धिनोमि ॥
  • (2334) उतश्च प्रत्ययादसंयोगपूर्वात् <6-4-106>
असंयोगपूर्वो यः प्रत्ययोकारस्तदन्तादङ्गात्परस्यहेर्लुक् स्यात् । धिनु । नित्यत्वादुकारलोपात्पूर्वमाट् । धिनवाव । धिनवाम । जिन्वति । इत्यादि । <<595>> रिवि <<596>> रवि <<597>> धवि गत्यर्थाः । रिण्वति । रण्वति । धन्वति । <<598>> कृवि हिंसाकरणयोश्च । चकाराद्गतौ । कृणोतीत्यादि धिनोतिवत् । अयं स्वादौ च । <<599>> मव बन्धने ।

मवति । मेवतुः । मेवुः । अमवीत् । अमावीत् । <<600>> अव रक्षणगतिकान्तिप्रीतितृप्त्यवगमप्रवेशश्रवणस्वाम्यर्थयाचनक्रियेच्छादीप्त्यवप्त्यालिङ्गनहिंसादानभागवृद्धिषु । अवति । आव । मा भवानवीत् । <<601>> धावु गतिशुद्ध्योः । स्वरितेत् । धावति । धावते । दधाव । दधावे ॥

अथोष्मान्ता आत्मनेपदिनः । <<602>> धुक्ष <<603>> धिक्ष संदीपनक्लेशनजीवनेषु । धुक्षते । दुधुक्षे । धिक्षते । दिधिक्षे । <<604>> वृक्ष वरणे । वृक्षते ववृक्षे । <<605>> शिक्ष विद्योपादाने । शिक्षते । <<606>> भिक्ष भिक्षायामलाभे लाभे च । भिक्षते । <<607>> क्लेश अव्यक्तायां वाचि । बाधन इति दुर्गः । क्लेशते चिक्लेशे । <<608>> दक्ष वृद्धौ शीघ्रार्थे च । दक्षते । ददक्षे । <<609>> दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु । दीक्षते । दिदीक्षे । <<610>> ईक्ष दर्शने । ईक्षांचक्रे । <<611>> ईष गतिहिंसादर्शनेषु । ईषांचक्रे । <<612>> भाष व्यक्तायां वाचि । भाषते । <<613>> वर्ष स्नेहने । दन्त्योष्ठ्यादिः । ववर्षे । <<614>> गेषृ अन्विच्छायाम् । ग्लेषृ इत्येके । अन्विच्छा अन्वेषणम् । जिगेषे । <<615>> पेषृ प्रयत्ने पेषते । <<616>> जेषृ <<617>> णेफृ <<618>> एषृ <<619>> प्रेषृ गतौ । जेषते । नेषते । एषांचक्रे । पिप्रेषे । <<620>> रेषृ <<621>> हेषृ <<622>> ह्रेषृ अव्यक्ते शब्दे । आद्यो वृकशब्दे । ततो द्वावश्वशब्दे । रेषते । हेषते । ह्रेषते । <<623>> कासृ शब्दकुत्सायाम् । कासांचक्रे । <<624>> भासृ दीप्तौ । बभासे । <<625>> णासृ <<626>> रासृ शब्दे । नासते । प्रणासते । <<627>> णस कौटिल्ये । नसते । <<628>> भ्यस भये । भ्यसते । बभ्यसे । <<629>> आङः शसि इच्छायाम् । आशंसते । आशशंसे । <<630>> ग्रसु <<631>> ग्लसु अदने । जग्रसे । जग्लसे । <<632>> ईह चेष्टायाम् । ईहांचक्रे । <<633>> बहि <<634>> महि वृद्धौ । बंहते । बबंहे । मंहते । <<635>> अहि गतौ । अंहते । आनंहे । <<636>> गर्ह <<637>> गल्ह कुत्सायाम् । जगर्हे । जगल्हे । <<638>> बर्ह <<639>> बल्ह प्राधान्ये । ओष्ठ्यादी । <<640>> वर्ह <<641>> वल्ह परिभाषणहिंसाच्छादनेषु । दन्त्योष्ठ्यादी । केचित्तु पूर्वयोर्दन्त्योष्ठ्यादितामनयोरोष्ठ्यादितां चाहुः । <<642>> प्लिह गतौ । पिप्लिहे । <<643>> वेहृ <<644>> जेहृ <<645>> बाहृ प्रयत्ने । आद्यो दन्त्योष्ठ्यादिः । अन्त्यः केवलेष्ठ्यादी इत्यपरे । जेहतिर्गत्यर्थोऽपि । बबाहे । <<646>> द्राहृ निद्राक्षये । निक्षेपे इत्येके । <<647>> काशृ दीप्तौ । चकाशे । <<648>> ऊह वितर्के । ऊहांचक्रे । <<649>> गाहूविलोडने । गाहते । जगाहे । जगाहिषे । जघाक्षे । जगाहिढ्वे । जगाहिध्वे । जघाढ्वे । गाहिता ॥
  • (2335) ढो ढे लोपः <8-3-13>
ढस्य लोपः स्याड्ढे परे । गाढा । गाहिष्यन्ते । घाक्ष्यते । गाहिषीष्ट । घाक्षीष्ट । अगाहिष्ट । अगाढ । अघाक्षाताम् । अघाक्षत । अगाढाः । अघाढ्वम् । अघाक्षि । <<650>> गृहू गर्हणे । गर्हते । जगृहे ॥ । ऋदुपधेभ्यो लिटः कित्वं गुणात्पूर्वविप्रतिषेधेन (वा) ॥ जगृहिषे । जघृक्षे । जघृढ्वे । गर्हिता । गर्ढा । गर्हिष्यते । घर्क्ष्यते । गर्हिषीष्ट । घृक्षीष्ट । लुङि । अगर्हिष्ट । इडभावे ॥
  • (2336) शल इगुपधादनिटः क्सः <3-1-45>
इगुपधो यः शलन्तस्तस्मादनिटश्चलेः क्सादेशः स्यात् । अघृक्षत ।
  • (2337) क्सस्याचि <7-3-72>
अजादौ तङि क्सस्य लोपः स्यात् । अलोऽन्त्यस्य-42 । अघृक्षाताम् । अघृक्षन्त । <<651>> ग्लह् च । ग्लहते । <<652>> घुषि कान्तिकरणे । घुंषते । जुघुंषे । केचिद्धषेत्यदुपधं पठन्ति ॥
अथार्हत्यन्ताः परस्मैपदिनः । <<653>> घुषिर् अविशब्दने । विशब्दनं प्रतिज्ञानं ततोऽन्यस्मिन्नर्थे इत्येके । शब्दे इत्यन्ये पेठुः । घोषति । जुघोष । घोषिता । इरित्त्वादङ् वा । अघुषत् । अघोषीत् । <<654>> अक्षू व्याप्तौ ॥
  • (2338) अक्षोऽन्यतरस्याम् <3-1-75>
अक्षो वा श्नुप्रत्ययः स्यात्कर्त्रर्थे परे । पक्षे शप् । अक्ष्णोति । अक्ष्णुतः । अक्ष्णुवन्तः । अक्षति । अक्षतः । अक्षन्ति । आनक्ष । आनक्षिथ । आनष्ट । अक्षिता । अष्टा । अक्षिष्यति । स्कोः-- 380 इति कलोपः । षढोः कः सि 295 । अक्ष्यति । अक्ष्णोतु । अक्ष्णुहि । अक्ष्णवानि । अक्ष्णोत् । आक्ष्णुवम् । अक्ष्णुयात् । अक्ष्यात् । ऊदित्वाद्वेट् । नेटि 2268 । मा भवानक्षीत् । अक्षिष्टाम् । अक्षिषुः । इडभावे तु मा भवानाक्षीत् । आष्टाम् । आक्षुः । <<655>> तक्षू <<656>> त्वक्षू तनुकरणे ॥
  • (2339) तनुकरणे तक्षः <3-1-76>
श्नुः स्याद्वाशब्विषये । तक्ष्णोति तक्षति वा काष्ठम् । ततक्षिथ । ततष्ठ । अतक्षीत् । अतक्षिष्टाम् । अताक्षीत् ।

अताष्टाम् । तनूकरणे किम् । वाग्भिः संतक्षति । भर्त्सयतीत्यर्थः । <<657>> उक्ष सेचने । उक्षांचकार । <<658>> रक्ष पालने । <<659>> णिक्ष चुम्बने । प्रणिक्षति । <<660>> तृक्ष <<661>> स्तृक्ष <<662>> णक्ष गतौ । तृक्षति । स्तृक्षति । नक्षति । <<663>> वक्ष रोषे । संघात इत्येके । <<664>> मृक्ष संघाते म्रक्ष इत्येके । <<665>> तक्ष त्वचने । त्वचनं संवरणं त्वचोग्रहणं च । पक्ष परिग्रह इत्येके । <<666>> सूर्क्ष आदरे । सुसूर्क्ष । अनादर इति तु क्वाचित्कोऽपपाठः । अवज्ञावहेलनमसूर्क्षणमित्यमरः । <<667>> काक्षि <<668>> वाक्षि <<669>> माक्षि काङ्क्षायाम् । <<670>> द्राक्षि <<671>> ध्राक्षि <<672>> ध्वाक्षि घोरवासिते च । <<673>> चूष पाने । चुचूष । <<674>> तूष तुष्टौ । <<675>> पूष वृद्धौ । <<676>> मूष स्तेये । <<677>> लूष <<678>> रूष भूषायाम् । <<679>> शूष प्रसवे । प्रसवोऽभ्यनुज्ञानम् । तालव्योष्मादिः ॥ <<680>> यूष हिंसायाम् । <<681>> जूष च । <<682>> भूष अलंकारे । भूषति । <<683>> ऊष रुजायाम् । ऊषांचकार । <<684>> ईष उञ्छे । <<685>> कष <<686>> खष <<687>> शिष <<688>> जष <<689>> झष <<690>> शष <<691>> वष <<692>> मष <<693>> रुष <<694>> रिष हिंसार्थाः । तृतीयषष्ठौ तालव्योष्मादी । सप्तमो दन्त्योष्ठादिः । चकास । चखाष । शिशेष । शिशेषिथ । शेष्टा । क्सः । अशिक्षत् । अशेक्ष्यत् । जेषतुः । जझषतुः । शेषतुः । ववषतुः । मेषतुः ॥

  • (2340) तीषस्वहलुभरुषरिषः <7-2-48>
इच्छत्यादेः परस्य तादेरार्धधातुकस्योड्वा स्यात् । रोषिता । रोष्टा । रोषिष्यति । रेषिता । रेष्टा । रेषिष्यति । <<695>> भष भर्त्सने । इक्ष भर्त्सनं श्वरवः । भषति । बभाष । <<696>> उष दाहे । ओषति ॥
  • (2341) उषविदजागृभ्योऽन्यतरस्याम् <3-1-38>
एभ्यो लिट्याम्वा स्यात् । ओषांचकार । उवोष । ऊषतुः । उवोषिथ । <<697>> जिषु <<698>> विषु <<699>> मिषु सेचने । जिजेष । क्रादिनियमादिट् । विवेषिथ । विविषिव । वेष्टा । वेक्ष्यति । अविक्षत् । <<700>> पुष पुष्टौ । पोषति । पोषिता । पोषिष्यति । अपोषीत् । अनिट्केषु पुष्येति श्यना निर्देसादयं नेट् । अतो न क्सः । अङ्विधौ दैवादिकस्य ग्रहणान्नाङ् । <<701>> श्रिषु <<702>> श्लिषु <<703>> प्रुषु <<704>> प्लुषु दाहे । श्रेषति । शिश्रेष । श्रेषिता । श्लेषति । शिश्लेष । श्लेषिता । अयमपि सेट् । अनिट्सु दैवादिकस्यैव ग्रहणमिति कैयटादयः । यत्त्वनिट्कारिकान्यासे द्वयोर्ग्रहणमित्युक्तं तत्स्वोक्तिविरोधाद्ग्रन्थान्तरविरोधाच्चोपेक्ष्यम् । पुप्रोष । पुप्लोष । <<705>> पृषु <<706>> वृषु <<707>> मृषु सेचने । मृषु सहने च । इतरौ हिंसासंक्लेशनयोश्च । पर्षति । पपर्ष । पृष्यात् । <<708>> घृषु संघर्षे । <<709>> हृषु अलीके । <<710>> तुस <<711>> ह्रस <<712>> ह्लस <<713>> रस शब्दे । तुतोस । जह्नास । जह्लास । ररास । <<714>> लस श्लेषणक्रीडनयोः । <<715>> घस्लृ अदने । अयं न सार्वत्रिकः । लिट्यन्यतरस्याम् 2424 इत्यादेर्घस्लादेशविधानात् । ततश्च यत्र लिङं वचनं वास्ति तत्रैवास्य प्रयोगः । अत्रैव पाठः शपि परस्मैपदे लिङ्गम् । लृदित्करणमङि । अनिट्कारिकासु पाठो वलाद्यार्धातुके । क्मरचि तु विशिष्योपादानम् । घसति । घस्ता ॥
  • (2342) सः स्यार्धधातुके <7-4-49>
सस्य तः स्यात्सादावार्धधातुके । घत्स्यति । घसतु । अघसत् । घसेत् । लिङाद्यभावादाशिष्यस्याप्रयोगः ॥
  • (2343) पुषादिद्युताद्यिदितः परस्मैपदेषु <3-1-55>
श्यन्विकरणपुषादेर्द्युतादेर्लृदितश्च परस्य च्लेरङ स्यात्परस्मैपदेषु । अघसत् । <<716>> जर्ज <<717>> चर्च <<718>> झर्झ परिभाषणहिंसातर्जनेषु । <<719>> पिसृ <<720>> पेसृ गतौ । पिपिसतुः । पपेसतुः । <<721>> हसे हसने । एदित्त्वान्न वृद्धिः । अहसीत् । <<722>> णिश समाधौ । तालव्योष्मान्तः । प्रणेशति । <<723>> मिश <<724>> मश शब्दे रोषकृते च । तालव्योष्मान्तौ । <<725>> शव गतौ । दन्तयोष्ठ्यान्तस्तालव्योष्मादिः । शवति । अशवीत् । अशावीत् । <<726>> शश प्लुतगतौ । तालव्योष्माद्यन्तः । शशाश । शेशतुः । शेशुः । शेशिथ । <<727>> शसु हिंसायाम् । दन्त्योष्मान्तः । न शसदद--2263 इत्येत्त्वं न । शशसतुः । शशसुः । शशसिथ । <<728>> शंसु स्तुतौ । अयं दुर्गतावपीति दुर्गः । नृशंसो घातुकः क्रूर इत्यमरः । शशंस । आशिषि नलोपः । शस्यात् । <<729>> चह परिकल्कने । कल्कनं शाठ्यम् । अचहीत् । <<730>> मह पूजायाम् । अमहीत् । <<731>> रह त्यागे । <<732>> रहि गतौ । रंहति । रंह्यात् । <<733>> दृह <<734>> दृहि <<735>> बृह <<736>> बृहि वृद्धौ । दर्हति । ददर्ह । ददृहतुः । दृंहति । बर्हति । बृंहति । बृहि शब्दे च । बृंहितं करिगर्जितम् । बृहिर् इत्येके । अबृहत् । अबर्हीत् । <<737>> तुहिर् <<738>> दुहिर् <<739>> उहिर् अर्दने । तोहति । तुतोह ।

अतुहत् । अतोहीत् । दोहति । दुदोह । अदुहत् । अदोहीत् । अनिट्कारिकास्वस्य दुहेर्ग्रहणं नेच्छन्ति । ओहति । उवोह । ऊहतुः । ओहिता । माभवानुहत् । औहीत् । <<740>> अर्ह पूजायाम् । आनर्ह ॥

अथ कृपूपर्यान्ता अनुदात्तेतः ॥ <<741>> द्युत दीप्तौ । द्योतते ॥
  • (2344) द्युतिस्वाप्ययोः संप्रसारणम् <7-4-67>
अनयोरभ्यासस्य संप्रसारणं स्यात् । दिद्युते । दिद्युताते । द्योतिता ॥
  • (2345) द्युद्भ्यो लुङि <1-3-91>
द्युतादिभ्यो लुङः परस्मैपदं वा स्यात् । पुषादिसूत्रेण परस्मैपदेऽङ् । अद्युतत् । अद्योतिष्ट । <<742>> श्विता वर्णे । श्वेतते । शिश्विते । अश्वितत् । अश्वेतिष्ट । <<743>> ञिमिदा स्नेहने । मेदते ॥
  • (2346) मिदेर्गुणः <7-3-72>
मिदेरिको गुणः स्यादित्संज्ञकशकारादौ प्रत्यये । एश आदिशित्त्वाभावान्नाभावेन गुणः । मिमिदे । अमिदत् । अमेदिष्ट । <<744>> ञिष्विदा स्नेहनमोचनयोः । मोहनयोरित्येके । स्वेदते । सिष्विदे । अस्विदत् । अस्वेदिष्ट । ञिक्ष्विदा चेत्येके । अक्ष्विदत् । अक्ष्वेदिष्ट । <<745>> रुच दीप्तावभिप्रीतौ च । रोचते सूर्यः । हरये । रोचते भक्तिः । अरुचत् । अरोचिष्ट । <<746>> घुट परिवर्तने । घोटते । जुघुटे । अघुटत् । अघोटिष्ट । <<747>> रुट <<748>> लुट <<749>> लुठ प्रतिघाते अरुटत् । अरोटिष्ट । <<750>> शुभ दीप्तौ । <<751>> क्षुभ संचलने । <<752>> णभ <<753>> तुभ हिंसायाम् । आद्योऽभावेऽपि । नभन्तामन्यके समे । मा भूवन्नन्यके सर्वे इति निरुक्तम् । अनभत् । अनभिष्ट । अतुभत् । अतोभिष्ट । इमौ दिवादी क्र्यादी च । <<754>> स्रंसु <<755>> ध्वंसु <<756>> भ्रंसु अवस्रंसने । ध्वंसु गतौ च । अङि नलोपः । अस्रसत् । अस्रंसिष्ट । नास्रसत्करिणां ग्रैवमिति रघुकाव्ये । भ्रंशु इत्यपि केचित्पेठुः । अत्र तृतीय एव तालव्यान्त इत्यन्ये । भ्रशु भ्रंशु अधः पतन इति दिवादौ । <<757>> स्रम्भु विश्वासे । अस्रभत् । अस्रम्भिष्ट । दन्त्यादिरयम् । तालव्यादिस्तु प्रमादे गतः । <<758>> वृतु वर्तने । वर्तते ॥
  • (2347) वृद्भ्यः स्यसनोः <1-3-92>
वृतादिभ्यः परस्मैपदं वा स्यात्स्ये सनि च ॥
  • (2348) न वृद्भ्यश्चतुर्भ्यः <7-2-59>
एभ्यः सकारादेरार्धधातुकस्येण्न स्यात्तङानयोरभावे । वर्त्स्यति । वर्तिष्यते । अवृतत् । अवर्तिष्ट । अवर्त्स्यत् । अवर्तिष्यत । <<759>> वृधु वृद्धौ । <<760>> श्रृधु शब्दकुत्सायाम् । इमौ वृतिवत् । <<761>> स्यन्दू प्रस्रवणे । स्यन्दते । सस्यन्दे । सस्यन्दिषे । सस्यन्त्से । सस्यन्दिध्वे । सस्यन्ध्वे । स्यन्दिता । स्यन्ता । वृद्भ्यः स्यसनोः 2347 इति परस्मैपदे कृते ऊदिल्लक्षणमन्तरङ्गमपि विकल्पं बाधित्वा चतुर्ग्रहणसामर्थ्यात् न वृद्भ्यः 2348 इति निषेधः । स्यन्त्स्यति । स्यन्दिष्यते । स्यन्त्स्यते । स्यन्दिषीष्ट । स्यन्त्सीष्ट । द्युद्भ्यो लुङि-2347 इति परस्मैपदपक्षे अङ् । नलोपः । अस्यदत् । अस्यन्दिष्ट । अस्यन्त । अस्यन्सताम् । अस्यन्त्स्यत् । अस्यन्दिष्यत । अस्यन्त्स्यत् ॥
  • (2349) अनुविपर्यभिनिभ्यः स्यन्दतेरप्राणिषु <8-3-72>
एभ्यः परस्याप्राणिकर्तृकस्य स्यन्दतेः सस्य षो वा स्यात् । अनुष्यन्दते अनुस्यन्दते वा जलम् । अप्राणिषु किम् । अनुस्यन्दते हस्ती । अप्राणिष्विति पर्युदासान्मत्स्योदकेअनुष्यन्देते इत्यत्रापि पक्षे षत्वं भवत्येव । प्राणिषु नेत्युक्तौ तु न स्यात् । <<762>> कृपू सामर्थ्ये ॥
  • (2350) कृपो रो लः <8-2-18>
कृप उ इति छेदः । कृपेति लुप्तषष्ठीकम् । तच्चावर्तते । कृपो यो रेफस्तस्य लः स्यात् । कृपेर्ॠकारस्यावयवो यो रेफसदृशस्तस्य च लकारसदृशः स्यात् । कल्पते । चकिपे । चकिपिषे । चकिप्से इत्यादि स्यन्दिवत् ॥
  • (2351) लुटि च किपः <1-3-93>
लुटि स्यसनोश्च क्लृपेः परस्मैपदं वा स्यात् ॥
  • (2352) तासि च क्लृपः <7-2-60>
क्लृपेः परस्य तासेः सकारादेरार्धधातुकस्य चेण्न स्यात्तङानयोरभावे । कल्प्तासि । कल्प्तास्थ । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । कल्पिषीष्ट । क्लृप्सीष्ट । अक्लृपत् । अकल्पिष्ट । अक्लृप्त ।

अकल्प्स्यत् । अकल्पिष्यत । अकल्प्स्यत ॥ वृत् ॥ वृत्तः संपूर्णो द्युतादिर्वृतादिश्चोत्यर्थः ॥

अथ त्वरत्यन्तास्त्रयोदशानुदात्तेतः षितश्च । <<763>> घट चेष्टायाम् । घटते । जघटे । घटादयो मित इति वक्ष्यमाणेन मित्संज्ञा । तत्फलं तु णौ मितां ह्रस्वः-2568 इति चिण्णमुलोर्दीर्घोऽन्यतरस्याम् 2762 इति च वक्ष्यते । घटयति । विघटयति । कथं तर्हि कमलवनोद्घाटनं कुर्वते ये । प्रविघाटयिता समुत्पतन् हरिदश्वः कमलाकरानिवेत्यादि । श्रृणु । घट संघात इति चौरादिकस्येदम् । न च तस्यैवार्थविशेषे मित्त्वार्थमनुवादोऽयमिति वाच्यम् । नान्ये मितोऽहेताविति निषेधात् । अहेतौ स्वार्थे णिचि ज्ञपादिपञ्चकव्यतिरिक्ताश्चुरादयो मितो नेत्यर्थः । <<764>> व्यथ भयसंचलनयोः । व्यथते ॥
  • (2353) व्यथो लिटि <7-4-68>
व्यथोऽभ्यासस्य संप्रसारणं स्याल्लिटि । हलादिः शेषापवादः । थस्य हलादिः- शेषेण निवृत्तिः । विव्यथे । <<765>> प्रथ प्रख्याने । पप्रथे । <<766>> प्रस विस्तारे । पप्रसे । <<767>> म्रद मर्दने । <<768>> स्खद स्खदने । स्खदनं विद्रावणम् । <<769>> क्षजि गतिदानयोः । मित्त्वसामर्थ्यादनुपधात्वेऽपि चिण्णमुलोः 2762 इति दीर्घविकल्पः । अक्षञ्जि । अक्षाञ्जि । क्षञ्जं-क्षञ्जम् । क्षाञ्जंक्षाञ्जम् । <<770>> दक्ष गतिहिंसनयोः । योऽयं वृद्धिशैघ्र्ययोरनुदात्तेत्सु पठितस्तस्येहार्थविशेषे मित्त्वार्थोऽनुवादः । <<771>> क्रप कृपायां गतौ । <<772>> कदि <<773>> क्रदि <<774>> क्लदि वैक्लव्ये । वैकल्य इत्येके । त्रयोऽप्यनिदित इति नन्दी । इदित इति स्वामी । कदिक्रदी इदितौ । क्रद क्लदेति चानिदिताविति मैत्रेयः । कदिक्रदिक्लदीनामाह्वानरोदनयोः परस्मैपदिषूक्तानां पुनरिह पाठो मित्तवार्थ आत्मनेपदार्थश्च । <<775>> ञित्वरा संभ्रमे । (ग) घटादयः षितः । षित्वादङ् कृत्सुवक्ष्यते ॥
अथ फणन्ताः परस्मैपदिनः । <<776>> ज्वर रोगे । ज्वरति । जज्वार । <<777>> गड सेचने । गडति । जगाड । <<778>> हेड वेष्टने । हेडृ अनादर इत्यात्मनेपदिषु गतः स एवोत्सृष्टानुबन्धोऽनूद्यते अर्थविशेषे मित्त्वार्थम् । परस्मैपदिभ्यो ज्वरादिभ्यः प्रागेवानुवादे कर्तव्ये तन्मध्येऽनुवादसामर्थ्यात्परस्मैपदम् । हेडति । जिहेड । हिडयति । अहिडि । अहीडि । अनादरे तु हेडयति । <<779>> वट <<780>> भट परिभाषणे । वट वेष्टने भट भृताविति पठितयोः परिभाषणे मित्त्वार्थोऽनुवादः । <<781>> नट नृत्तौ । इत्थमेव पूर्वमपि पठितम् । तत्रायं विवेकः । पूर्वं पठितस्य नाट्यमर्थः । यत्कारिषु नटव्यपदेशः । वाक्यार्थाभिनयो नाट्यम् । घटादौ तु नृत्यं नृत्तंचार्थः । यत्कारिषु नर्तकव्यपदेशः । पदार्थाभिनयो नृत्यम् । गात्रविक्षेपमात्रं नृत्तम् । केचित्तु घटादौ नट नताविति पठन्ति । गतावित्यन्ये । णोपदेशापर्युदासवाक्ये भाष्यकृता नाटीति दीर्घपाठाद् घटादिर्णोपदेश एव । <<782>> ष्टक प्रतीघाते । स्तकति । <<783>> चक तृप्तौ । तृप्तिप्रतीघातयोः पूर्वं पठितस्य तृप्तिमात्रे मित्त्वार्थोऽनुवादः । आत्मनेपदिषु पठितस्य परस्मैपदिष्वनुवादात्परस्मैपदम् । <<784>> कखे हसने । एदित्त्वान्न वृद्धिः । अकखीत् । <<785>> रगे शङ्कायाम् । <<786>> लगे सङ्गे । <<787>> ह्रगे <<788>> ह्लगे <<789>> षगे <<790>> ष्टगे संवहणे । <<791>> कगे नोच्यते । अस्यायमर्थ इति विशिष्य नोच्यते । क्रियासामान्यार्थत्वात् । अनेकार्थत्वादित्यन्ये । <<792>> अक <<793>> अग कुटिलायां गतौ । <<794>> कण <<795>> रण गतौ । चकाण । रराण । <<796>> चण <<797>> शण <<798>> श्रण दाने च । शण गतावित्यन्ये । <<799>> श्रथ <<800>> श्लथ <<801>> क्रथ <<802>> क्लथ हिंसार्थाः । जासिनिप्रहण--617 इति सूत्रे क्राथेति मित्त्वेऽपि वृद्धिर्निपात्यते । क्राथयति । मित्त्वं तु निपातनात्परत्वात् चिण्णमुलोः--2762 इति दीर्घे चरितार्थम् । अक्रथि । अक्राथि । क्रथंक्रथम् । क्राथंक्राथम् । <<803>> वन च हिंसायामिति शेषः । वनु च नोच्यते । वनु इत्यपूर्व एवायं धातुर्न तु तानादिकस्यानुवादः । उदित्करणसामर्थ्यात् । तेन क्रियासामान्ये वनतीत्यादि । प्रवनयति । अनुपसृष्टस्य तु मित्त्वविकल्पो वक्ष्यते । <<804>> ज्वल दीप्तौ । णप्रत्ययार्थं पठिष्यमाण एवायं मित्त्वार्थमनूद्यते । प्रज्वलयति । <<805>> ह्वल <<806>> ह्मल चलने । प्रह्वलयति । प्रह्मलयति । <<807>> स्मृ आध्याने । चिन्तायां पठिष्यमाणस्य आध्याने मित्त्वार्थोऽनुवादः । आध्यानमुकण्ठापूर्वकं स्मरणम् । <<808>> दॄ भये । दॄ विदारणे इति क्रादेरयं मित्त्वार्थोऽनुवादः । दृणन्तं प्रेरयति दरयति । भयादन्यत्र दारयति । धात्वन्तरमेवेदमिति मते तु दरतीत्यादि । केचिद्घटादौ अत्स्मृदॄत्वर--2566 इति सूत्रे च दॄ इति दीर्घस्थाने ह्रस्वं पठन्ति । तन्नेति माधवः । <<809>> नॄ नये । क्र्यादिषु पठिष्यमाणस्यानुवादः । नयादन्यत्र नारयति । <<810>> श्रा पाके । श्रै इति क-कृतात्वस्य श्रा इत्यादादिकस्य च सामान्येनानुकरणम् । (प)लुग्विकरणयोरलुग्विकरणस्य । (प) लक्षणप्रतिपदोक्तयोः

प्रतिपदोक्तस्यैव ग्रहणम् । इति परिभाषाभ्याम् । श्रपयति । विक्लेदयतीत्यर्थः । पाकादन्यत्र श्रापयति । स्वेदयतीत्यर्थः ॥मारणतोषणनिशामनेषु <<811>> ज्ञा । निशामनं चाक्षुषज्ञानमिति माधवः । ज्ञापनमात्रमित्यन्ये । निशानेष्विति पाठान्तरम् । निशानं तीक्ष्णीकरणम् । एष्वेवार्थेषु जानातिर्मित् । ज्ञप मिच्चेति चुरादौ । ज्ञापनं मारणादिकं च तस्यार्थः । कथं विज्ञापना भर्तृषु सिद्धिमेतीति । तज्ज्ञापयत्याचार्य इति च । श्रृणु । माधवमतेऽचाक्षुषज्ञाने मित्त्वाभावात् । ज्ञापनमात्रे मित्त्वमिति मते तु ज्ञा नियोग इति चौरादिकस्य । धातूनामनेकार्थत्वात् । निशानेष्विति पठतां हरदत्तादीनां मते तु न काप्यनुपपत्तिः । कम्पने <<812>> चलिः । चल कम्पने इत ज्वलादिः । चलयति शाखाम् । कम्पनादन्यत्र तु शीलं चालयति । अन्यथा करोतीत्यर्थः । हरतीत्यर्थ इति स्वामी । सूत्रं चालयति । क्षिपतीत्यर्थः । <<813>> छदिर्‌ ऊर्जने । छद अपवारण इति चौरादिकस्य स्वार्थे णिजभावे मित्त्वार्थोऽयमनुवादः । अनेकार्थत्वादूर्जेरर्थे वृत्तिः । छदन्तं प्रयुङ्क्ते छदयति । बलवन्तं प्राणवन्तं वा करोतीत्यर्थः । अन्यत्र छादयति । अपवारयन्तं प्रयुङ्क्ते इत्यर्थः । स्वार्थे णिचि तु छादयति । बलीभवति, प्राणीभवति, अपवारयति वेत्यर्थः । जिह्वोन्मथने <<814>> लडिः । लड विलास इति पठितस्य मित्त्वार्थोऽनुवादः । उन्मथनं ज्ञापनम् । जिह्वाशब्देन षष्ठीतत्पुरुषः । लडयति जिह्वाम् । तृतीयातत्पुरुषो वा । लडयति जिह्वया । अन्ये तु जिह्वाशब्देन तद्व्यापारो लक्ष्यते । समाहारद्वन्द्वोऽयम् । लडयति शत्रुम् । लडयति दधि । अन्यत्र लाडयति पुत्रम् <<815>> मदी हर्षग्लेपनयोः । ग्लेपनं दैन्यम् । दैवादिकस्य मित्त्वार्थोऽयमनुवादः । मदयति । हर्षयति, ग्लेपयति वेत्यर्थः । अन्यत्र मादयति । चित्तविकारमुत्पादयीत्यर्थः । <<816>> ध्वन शब्दे । भाव्ययं मित्त्वार्थमनूद्यते । ध्वनयति घण्टाम् । अन्यत्र ध्वानयति । अस्पष्टाक्षरमुच्चारयतीत्यर्थः । अत्र भोजः । दलि-वलि-स्खलि-रणि-ध्वनि-त्रपि-क्षपयश्चेति पपाठ । तत्र ध्वनिरणी उदाहृतौ । दल विशरणे । वल संवरणे । स्खल संचलने । त्रपूष् लज्जायामिति गताः । तेषां णौ । दलयति । वलयति । स्खलयति । त्रपयति । क्षै क्षये इति वक्ष्यमाणस्यकृतात्वस्य पुका निर्देशः । क्षपयति । <<817>> स्वन अवतेसने । शब्दे इति पठिष्यमाणस्यानुवादः । स्वनयति । अन्यत्र स्वानयति । (ग) घटादयो मितः । मित्संज्ञा इत्यर्थः । (ग) जनीजॄष्न्कसुरञ्जोऽमन्ताश्च । मित इत्यनुवर्तते । जॄषिति षित्त्वनिर्देशाज्जीर्यतेर्ग्रहणम् । जृणातेस्तु जारयति । केचित्तु जनी जॄ ष्णसु इति पठित्वाष्णसु निरसने इति रदैवादिकमुदाहरन्ति । (ग) ज्वलह्वलह्मलममामनुपसर्गाद्वा । एषां मित्त्वं वा । प्राप्तविभाषेयम् । ज्वलयति । ज्वालयति । उपसृष्टे तु नित्यं मित्त्वम् । प्रज्वलयति । कथं तर्हि प्राज्वालयति । उन्नामयतीति । घयन्तात्तत्करोतीति णौ । कथं संक्रामयतीति । मितां ह्रस्वः 2568 इति सूत्रे वा चित्तविरागे 2605 इत्यतो वेत्यनुवर्त्य व्यवस्थितविभाषाश्रयणादिति वत्तिकृत् । एतेन राजो विश्रामयन् राज्ञाम् , धुर्यान्विश्रामयेति स इत्यादि व्याख्यातम् । (ग) ग्लास्नावनुवमां च । अनुपसर्गादेषां मित्त्वं वा स्यात् । आद्ययोरप्राप्ते इतरयोः प्राप्ते विभाषा । (ग) न कम्यमिचमाम् । अमन्तात्वात्प्राप्तं मित्तवमेषां न स्यात् । कामयते । आमयति । चामयति । <<818>> (ग) शमो दर्शने । शाम्यतिर्दर्शने मिन्न स्यात् । निशामयति रूपम् । अन्यत्र तु प्रणयिनो निशमय्य वधूः कथाः । कथं तर्हि निशामय तदुत्पत्तिं विस्तराद्गदतो ममेति । शम आलोचन इति चौरादिकस्य । धानूनामनेकार्थत्वाच्छ्रवणे वृत्तिः शाम्यतिवत् । (ग) <<819>> यमोऽपरिवेषणे । यच्छतिर्तभोजनातोऽन्यत्र भिन्न स्यात् । आयामयति । द्राघयति, व्यापारयति वेत्यर्थः । परिवेषणे तु यमयति ब्राह्मणान् । भोजयतीत्यर्थः । प्रयवसितं नियमयन्नित्यादि तु नियमवच्चब्दात्तत्करोतीति णौ बोध्यम् । (ग) <<820>> स्खदिरवपरिभ्यां च । मिन्नेत्येव । अवस्खादयति । परिस्खादयति । अपावपरिभ्य इति न्यासकारः । स्वामी तु न कमी ति नञमुत्तरत्रिसूत्र्यामननुवर्त्य शम अदर्शने इति चिच्छेद । यमस्त्वपरिवेषणे मित्वमाह । तन्मते पर्यवसितं नियमयन्नित्यादि सम्यगेव । उपसृष्टस्य स्खदेश्चेदवादिपूर्वस्येति नियमात्प्रस्खादयतीत्याह । तस्मात् सूत्रद्वये उदाररणप्रत्युदाहरणयोर्व्यत्यासः फलितः । इदं च मतं वृत्तिन्यासादिविरोधादुपेक्ष्यम् । <<821>> फण गतौ । नेति निवृत्तमसंभवात् । निषेधात्पूर्वमसौ । न पठितः । फणादिकार्यानुरोधात् ॥

  • (2354) फणां च सप्तानाम् <6-4-125>
एषां वा एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । फणयति ॥ वृत् ॥ घटादिः समाप्तः । फणेः प्रागेव वृदित्येके । तन्मते फयतीत्येव । <<822>> राजृ दीप्तौ ।

स्वरितेत् । राजति । राजते । रेजतुः । रराजतुः । रेजे । रराजे । अत इत्यनुवृत्तावपि विधानसामर्थ्यादात एत्वम् । <<823>> टुभ्राजृ <<824>> टुभ्राशृ <<825>> टुभ्लाशृ दीप्तौ । अनुदात्तेतः । भ्राजतेरिह पाठः फणादिकार्यार्थः । पूर्वं पाठस्तु व्रश्चादिषत्वाभावार्थः । तत्र हि राजिसाहचर्यात् फणादेरेव ग्रहणम् । भ्रेजे । बभ्राजे । वा भ्राश--2321 इति श्यन्वा । भ्राश्यते । भ्राशते । भ्रेशे । बभ्राशे । भ्लाश्यते । भ्लाशते । भ्लेशे । बभ्लाशे । द्वावपीमौ तालव्यान्तौ । <<826>> स्यमु <<827>> स्वन <<828>> ध्वन शब्दे । स्यमादयः क्षरत्यन्ताः परस्मैपदिनः । स्येमतुः । सस्यमतुः । अस्यमीत् । स्वेनतुः । सस्वनतुः । अस्वानीत् । अस्वनीत् । विष्वणति । अवष्वणति । सशब्दं भुङ्क्ते इत्यर्थः । वेश्च स्वनः-- 2274 इति षत्वम् । फणादयो गताः । दध्वनतुः । <<829>> षम <<830>> ष्टम अवैकल्ये । ससाम । तस्ताम । <<831>> ज्वल दीप्तौ । अतो ल्रान्तस्य 2330 अज्वालीत् । <<832>> चल कम्पने । <<833>> जल घातने । घातनं तैक्ष्ण्यम् । <<834>> टल । <<835>> ट्वल वैक्लव्ये । <<836>> ष्ठल स्थाने । <<837>> हल विलेखने । <<838>> णल गन्धे । बन्धन इत्येके । <<839>> पल गतौ । पलति । <<840>> बल प्राणने धान्यवारोधने च । बलति । बेलतुः । बेलुः । <<841>> पुल महत्त्वे । पोलति । <<842>> कुल संस्त्याने बन्धुषु च । संस्त्यानं संघातः । बन्धुशब्देन तद्व्यापारो गृह्यते । कोलति । चुकोल । <<843>> शल <<844>> हुल <<845>> पत्लृ गतौ । शशाल । जुहोल । पपात । पेततुः । पतिता ॥

अङि परे । अपप्तत् ।नेर्गद--2285 इति णत्वम् । प्रण्यपप्तत् । <<846>> क्वथे निष्पाके । क्वथिति । चक्वाथ । अक्वथीत् । <<847>> पथे गतौ । अपथीत् । <<848>> मथे विलोडने । मेथतुः । अमथीत् । <<849>> टुवम उद्गिरणे । इहैव निपातनादॄत इत्त्वमिति सुधाकरः । ववाम । ववमतुः । वादित्यादेत्वाभ्यासलोपौ न । भागवृत्तौ तु वेमतुरित्याद्यप्युदाहृतं तद्भाष्यादौ न दृष्टम् । <<850>> भ्रमु चलने । वा भ्राश--2321 इति श्यन्वा । भ्रम्यति । भ्रमति । भ्राम्यतीति तु दिवादेर्वक्ष्यते ॥
  • (2356) वा जॄभ्रमुत्रसाम् <6-4-124>
एषामेत्वाभ्यासलोपौ वा स्तः किति लिटि सेटि थलि च । भ्रेमतुः । बभ्रमतुः । अभ्रमीत् । <<851>> क्षर संचलने । अक्षारीत् ॥
अथ द्वावनुदात्तेतौ । <<852>> षह मर्षणे । परिनिविभ्यः---2275 इति षत्वम् । परिषहते । सेहे । सहिता । तीषसह---2340 इति वा इट् । इडभावे ढत्वधत्वष्टुत्वढलोपाः ॥
  • (2357) सहिवहोरोदवर्णस्य <6-3-112>
अनयोरवर्णस्य ओत्स्याड्ढलोपे सति ॥
सोढ्ररूपस्य सहेः सस्य षत्वं न स्यात् । परिसोढा ॥
  • (2359) सिवादीनां वाड्व्यवायेऽपि <8-3-71>
परिनिविभ्यः परेषां सिवादीनां सस्य षो वा स्यादड्व्यवायेऽपि । पर्यसहत । पर्यषहत । <<853>> रम क्रीडायाम् । रेमे । रेमिषे । रन्ता । रंस्यते । रंसीष्ट । अरंस्त ॥
अथ कसन्ताः परस्मैपदिनः । <<854>> षद्लृ विशसणगत्यवसादनेषु ॥
  • (2360) पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्छधौशीयसीदाः <7-3-78>
पादीनां पिबादयः स्युरित्संज्ञकसकारादौ प्रत्यये परे । सीदति । ससाद । सेदतुः । सेदिथ । ससत्थ । सत्ता । सत्स्यति । लृदित्वादङ् । असदत् । सदिरप्रतेः 2271 । निषीदति । न्यषीदत् ॥
  • (2361) सदेः परस्य लिटि <8-3-118>
सदेरभ्यासात्परस्य षत्वं न स्याल्लिटि । निषसाद । निषेदतुः । <<855>> शद्लृ शातने । विशीर्णतायामयम् । शातनं तु विषयतया निर्दिश्यते ॥
  • (2362) शदेः शितः <1-3-60>
शिद्भाविनोऽस्मादात्मनेपदं स्यात् । शीयते । शशाद । शेदतुः । शेदिथ । शशत्थ । शत्ता । अशदत् । <<856>> क्रुश आह्वाने रोदने च । क्रोशति । क्रोष्टा । च्लेः क्सः । अक्रुक्षत् । <<857>> कुच संपर्चनकौटिल्यप्रतिष्टम्भविलेखनेषु ।

कोचति । चुकोच । <<858>> बुध अवगमने । बोधति । बोधिता । बोधिष्यति । <<859>> रुह बीजजन्मनि प्रादुर्भावे च । रोहति । रुरोह । रुरोहिथ । रोढा । रोक्ष्यति । अरुक्षत् । <<860>> कस गतौ । अकासीत् । अकसीत् ॥7 ॥ वृत् । ग्वलादिगणः समाप्तः ॥

अथ गूहत्यन्ताः स्वरितेतः । <<861>> हिक्क अव्यक्ते शब्दे । हिक्कति । हिक्कते । <<862>> अञ्चु गतौ याचने च । अञ्चिति । अञ्चते । अचु इत्येके । अचि इत्यपरे । <<863>> टुयाचृ याचनायाम् । याचति । याचते । <<864>> रेट्ट परिभाषणे । रेटति । रेटते । <<865>> चते <<866>> चदे याचने । चचात । चेते । अञ्चातीत् । चचाद । चेदे । अचदीत् । <<867>> प्रोथृ पर्याप्तौ । पुप्रोथ । पुप्रोथे । <<868>> मिदृ <<869>> मेदृ मेधाहिंसनयोः । मिमेद । मिमिदे । मिमेदे । थान्ताविमाविति स्वामी । मिमेथ । धान्ताविति न्यासः । <<870>> मेधृ सङ्गमे च । मेधति । मिमेध । <<871>> णिदृ <<872>> णेदृ कुत्सासन्निकर्षयोः । निनेद । निनिदतुः । निनिद । निनेदे । <<873>> श्रृधु <<874>> मृधु उन्दने । उन्दनं क्लेदनम् । शर्धति । शर्धते । शर्धिता । मर्धति । मर्धते । <<875>> बुधिर् बोधने । बोधति । बोधेते । इरित्वादाङ्वा । अबुधत् । अबोधीत् । अबोधिष्ट । दीपजन-2328 इति चिण् तु न भवति । पूर्वोत्तरसाहचर्येण दैवादिकस्यैव तत्र ग्रहणात् । <<876>> उबुन्दिर् निशामने । निशामनं ज्ञानम् । बुबुन्दे । अबुदत् । अबुन्दीत् । <<877>> वेणृ गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु । वेणति । वेणते । नान्तोप्ययम् । <<878>> खनु अवदारणे । खनति । खनते ॥
  • (2363) गमहनजनखनघसां लोपः क्ङित्यनङि <6-4-98>
एषामुपधाया लोपः स्यादजादौ क्ङिति न त्वङि । चख्नतुः । ये विभाषा - 2319 । खायात् । खन्यात् । <<879>> चीवृ आदानसंवरणयोः । चिचीव । चिचीवे । <<880>> चायृ पूजानिशामनयोः । <<881>> व्यय गतौ । अव्ययीत् । <<882>> दाश्रृ दाने । ददाश । ददाशे । <<883>> भेषृ भये । गतावित्येके । भेषति । भेषते । <<884>> भ्रेषृ <<885>> भ्लेषृ गतौ । <<886>> अस गतिदीप्त्यादानेषु । असति । असते । आस । आसे । अयं षान्तोऽपि । <<887>> स्पश बाधनस्पर्शनयोः । स्पर्शनं ग्रन्थनम् । स्पशति । स्पशते । <<888>> लष कान्तौ । वा भ्राश--2321 इति श्यन्वा । लष्यति । लषति । लेषे । <<889>> चष भक्षणे । <<890>> छष हिंसायाम् । चच्छषतुः । चच्छषे । <<891>> झष आदानसंवरणयोः । <<892>> भ्रक्ष <<893>> भ्लक्ष अदने । भक्ष इति मैत्रेयः । <<894>> दासृ दाने । <<895>> माहृ माने । <<896>> गुहू संवरणे ॥
  • (2364) ऊदुपधाया गोहः <6-4-89>
गुह उपधाया ऊत्स्याद्गुणहेतावजादौ प्रत्यये । गूहति । गूहते । ऊदित्त्वादिड्वा । गूहिता । गौढा । गूहिष्यति । घोक्ष्यति । गूहेत् । गुह्यात् । अगूहीत् । इडभावे । क्सः । अघुक्षत् ॥
  • (2365) लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये <7-3-73>
एषां क्सस्य लुग्वा स्याद्दन्ये तङि । ढत्वधत्वष्टुत्वढलोपदीर्घाः । अगूढ । अघुक्षत । क्सस्याचि 2337 इत्यन्तलोपः । अघुक्षाताम् । अघुक्षन्त । अगुह्वहि । अघुक्षावहि । अघुक्षामहि ।
अथाजन्ता उभयपदिनः । <<897>> श्रिञ् सेवायाम् । श्रयति । श्रयते । शिश्रियतुः । श्रयिता । णिश्रि-2312 इतिचङ् । अशिश्रियत् । <<898>> भृञ् भरणे । भरति । बभार । बभ्रतुः । बभर्थ । बभृव । बभृषे । भर्तार ॥
  • (2366) ऋद्धनोः स्ये <7-2-70>
ऋतो हन्तेश्च स्यस्य इट् स्यात् । भरिष्यति ॥
  • (2367) रिङ् शयग्लिङ्क्षु <7-4-28>
शे यकि यादावार्धाधातुके लिङि च ऋतो रिङादेशः स्यात् । रीङि प्रकृते रिङ्विधिसामर्थ्याद्दीर्घो न । भ्रियात् ॥
ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ । कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ॥
  • (2369) ह्रस्वादङ्गात् <8-2-27>
सिचो लोपः स्याज्झलि । अभृत । अभृषाताम् । अभरिष्यत् । <<899>> हृञ् हरणे । हरणं प्रापणं स्वीकारः स्तेयं नासनं च । जहर्थ । जह्रिव । जह्रिषे । हर्ता । हरिष्यति । <<900>> धृञ् धारणे । धरति । अधार्षीत् । अधृत । <<901>> णीञ् प्रापणे ।

निनयिथ । निनेथ । निन्यिषे ॥

अथाजन्ताः परस्मैपदिनः ॥ <<902>> धेट् पाने । धयति ॥
  • (2370) आदेच उपदेशेऽशिति <6-1-45>
उपदेशे एजन्तस्य धातोरात्वं स्यान्न तु शिति ॥
आदन्ताद्धातोर्णल औकारादेशः स्यात् । दधौ ॥
  • (2372) आतो लोप इटि च <6-4-64>
अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः स्यात् । द्वित्वात्परत्वाल्लोपे प्राप्ते द्विर्वचनेचि 2243 इति निषेधः । द्वित्वे कृते आलोपः । दधतुः । दधुः । दधिथ । दधाथ । दधिव । धाता ॥
  • (2373) दाधा घ्वदाप् <1-1-20>
दारूपा धारूपाश्च धातवो घुसंज्ञाः स्युर्दाप्दैपौ विना ॥
घुसंज्ञानां मास्थादीनां च एत्वं स्यादार्धधातुके किति लिङि । धेयात् । धेयास्ताम् । धेयासुः ॥
  • (2375) विभाषा धेट्श्व्योः <3-1-49>
आभ्यां च्लेश्चङ्वा स्यात्कर्तृवाचिनि लुङि परे । चङि 2315 इति द्वित्वम् । अदधत् । अदधताम् ॥
  • (2376) विभाषा घ्राधेट्शाच्छासः <2-4-78>
एभ्यः सिचो लुग्वा स्यात्परस्मैपदे परे । अधात् । अधाताम् । अधुः ॥
  • (2377) यमरमनमातां सक्च <7-2-73>
एषां सक् स्यादेभ्यः सिच इट् स्यात्परस्मैपदेषु । अधासीत् । अधासिष्टाम् । अधासिषुः । <<903>> ग्लै <<904>> म्लै हर्षक्षये । हर्षक्षयो धातुक्षयः । ग्लायति । जग्लौ । जग्लिथ । जग्लाथ ॥
  • (2378) वान्यस्य संयोगादेः <6-4-68>
घुमास्थादेरन्यस्य संयोगादेर्धातोरात एत्वं वा स्यादार्धधातुके किति लिङि । ग्लायात् । ग्लेयात् । अग्लासीत् । म्लायति । <<905>> द्यै न्यक्करणे । न्यक्करणं तिरस्कारः । <<906>> द्रै स्वप्ने । <<907>> ध्रै तृप्तौ । <<908>> ध्यै चिन्तायाम् । <<909>> रै शब्दे । <<910>> स्त्यै <<911>> ष्ट्यै शब्दसंघातयोः । स्त्यायति । षोपदेशस्यापि सत्वे कृते रूपं तुल्यम् । षोपदेशफलं तु तिष्ट्यासति । अतिष्ट्यपदित्यत्रषत्वम् । <<912>> खै खदने । <<913>> क्षै <<914>> जै <<915>> षै क्षये । क्षायति । जजौ । ससौ । साता । घुमास्था 2462 इत्यत्र विभाषा घ्राधेट्---2376 इत्यत्र च स्यतेरेव ग्रहणं न त्वस्य । तेन एत्वसिज्लुकौ न । सायात् । असासीत् । <<916>> कै <<917>> गै शब्दे । गैयात् । अगासीत् । <<918>> शै <<919>> श्रै पाके । <<920>> पै <<921>> ओवै शोषणे । पायात् । अपासीत् । घुमास्था--2462 इतीत्वं तदपवाद एर्लिङि 2374 इत्येत्वं गातिस्था 2223 इति सिज्लुक् च न । पारूपस्य लाक्षणिकत्वात् । <<922>> ष्टै वेष्टने । स्तायति । <<923>> ष्णै वेष्टने । शोभायां चेत्येके । शौच इत्यन्ये । स्नायति । <<924>> दैप् शोधने । दायति । अघुत्वादेत्वसिज्लुकौ न । दायात् । अदासीत् । <<925>> पा पाने । पाघ्राध्मा---2360 इति पिबादेशः । तस्यादन्तत्वान्नोपधागुणः । पिबति । पेयात् । अपात् । <<926>> घ्रा गन्धोपादाने । जिघ्रति । घ्रायात् । घ्रेयात् । अघ्रासीत् । अघ्रात् । <<927>> ध्मा शब्दाग्निसंयोगयोः । धमति । <<928>> ष्ठा गतिनिवृत्तौ । तिष्ठति । स्थादिष्वभ्यासेन--2277 इति षत्वम् । अधितष्ठौ । उपसर्गात्--2270 इति षत्वम् । अधिष्ठाता । स्थेयात् । <<929>> म्ना अभ्यासे । मनति । <<930>> दाण् दाने । प्रणियच्छति । देयात् । अदात् । <<931>> ह्वृ कौटिल्ये । ह्वरति ॥
  • (2379) ऋतश्च संयोगादेर्गुणः <7-4-10>
ऋदन्तस्य संयोगादेरङ्गस्य गुणः स्याल्लिटि । किदर्थमपीदंपरत्वाण्णल्यपि भवति । रपरत्वम् । उपधावृद्धिः । जह्वार । जह्वरतुः । जह्वरुः । जह्वर्थ । ह्वर्ता । ऋद्धनोः स्ये 2366 ह्वरिष्यति ॥
  • (2380) गुणोऽर्तिसंयोगाद्योः <7-4-29>
अर्तेः संयोगादेर्ऋदन्तस्य च गुणः स्याद्यकि यादावार्धधातुके लिङि च । ह्वर्यात् । अह्वर्षीत् । अह्वार्ष्टाम् । <<932>>

स्वृ शब्दौपतापयोः । स्वरतिसूति--2279 इति वेट् । सस्वरिथ । सस्वर्थ । वमयोस्तु ॥

  • (2381) श्र्युकः किति <7-2-11>
श्रिय एकाच उगन्ताच परयोर्गित्कितोरिण्न स्यात् । परमपि स्वरत्यादिविकल्पं बाधित्वा पुरस्तात्प्रतिषेधकाण्डारम्भसामर्थ्यादनेन निषेधे प्राप्ते क्रादिनियमान्नित्यमिट् । सस्वरिव । सस्वरिम् । परत्वात् ऋद्धनो---2366 इति नित्यमिटि । स्वरिष्यति । स्वर्यात् । अस्वरीत् । अस्वरिष्टाम् । अस्वार्षीत् । अस्वर्ष्टाम् । <<933>> स्मृ चिन्तायाम् । <<934>> वृ संवरणे । <<935>> सृ गतौ । क्रादित्वान्नेट् । ससर्थ । ससृव । रिङ् । स्नियात् । असार्षीत् । असार्ष्टाम् ॥
  • (2382) सर्तिशास्त्यर्तिभ्यश्च <3-1-56>
एभ्यश्च्लेरङ् स्यात्कर्तरि लुङि । इह लुप्तशपा शासिना साहचर्यात्सर्त्यर्ती जौहोत्यादिकावेवगृह्यते । तेन भ्वाद्योर्नाङ् । शीघ्रगतौ तु पाघ्राध्मा--2360 इति धौरादेशः । धावति । <<936>> ऋ गतिप्रापणयोः । ऋच्छति ॥
  • (2383) ऋच्छत्यॄताम् <7-4-11>
तौदादिकऋच्छेर्ऋधातोर्ॠतां च गुणः स्याल्लिटि । णलि प्राग्वदुपधावृद्धिः । आर । आरतुः । आरुः ।
  • (2384) इडत्त्यर्तिव्ययतीनाम् <7-2-66>
अद् ऋ व्येञ् एभ्यस्थलो नित्यमिट् स्यात् । आरिथ । अर्ता । अरिष्यति । अर्यात् । आर्षीत् । आर्ष्टाम् । <<937>> गृ <<938>> घृ सेचने । गरति । जगार । जगर्थ । जग्रिव । रिङ् । ग्रियात् । अगार्षीत् । <<939>> ध्वृ हूर्छने <<940>> स्रु गतौ । सुस्रोथ । सुस्रुव । स्रुयात् । णिश्रि---2312 इति चङ् । लघूपधगुणादन्तारङ्घत्वादुवङ् । असुस्रुवत् । <<941>> षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सुषोथ । सुषविथ । सुषुविव । सोता ॥
  • (2385) स्तुसुधूञ्भ्यः परस्मैपदेषु <7-2-72>
एभ्यः सिच इट् स्यात्परस्मैपदैषु । असावीत् । पूर्वोत्तराभ्यां ञिभ्द्यां साहचर्यात्सुनोतेरेव ग्रहणममिति पक्षे असौषीत् । <<942>> श्रु श्रवणे ॥
  • (2386) श्रुवः शृ च <3-1-14>
श्रुवः श्रृ इत्यादेशः स्यात् श्नुप्रत्यश्च शब्विषये । शपोऽपवादः श्नोर्ङित्त्वादद्धातोर्गुणो न । श्रृणोति । श्रृणुतः ॥
  • (2387) हुश्नुवोः सार्वधातुके <6-4-87>
जुहोतेः श्नुप्रत्ययान्तस्यानेकाचोऽङ्गस्य चासंयोगपूर्वोवर्णस्य यण् स्यादजादौ सार्वधातुके । उवङोऽपवादः । शृण्वन्ति । शृणोमि । शृण्वः । शृणुवः । शृण्मः । शृणुमः । शुश्रोथ । शुश्रुव । शृणु । शृणवानि । शृणुयात् । श्रूयात् । अश्रौषीत् । <<943>> ध्रु स्थैर्ये । ध्रवति । अयं कुटादौ गत्यर्थोऽपि । <<944>> दु <<945>> द्रु गतौ । दुदोथ । दुदविथ । दुदविव । दुद्रोथ । दुद्रुव । णिश्रि--2312 इति चङ् । अदुद्रुवत् । <<946>> जि <<947>> ज्रि अभिभवे । अभिभवो न्यूनीकरणं न्यूनीभवनं च । आद्ये सकर्मकः । शत्रून् जयति । द्वितीये त्वकर्मकः । अध्ययनात्पराजयते । अध्येतुं ग्लायतीत्यर्थः । विपराभ्यां जे-2685 इति तङ् । पराजेरसोढः 589 इत्यपादानत्वम् ॥
अथ डीङन्ता ङितः ॥ <<948>> ष्मिङ् ईषद्धसने । स्मयते । सिष्मिये । सिष्मियिढ्वे । सिष्मियिध्वे । <<949>> गुङ् अव्यक्ते शब्दे । गवते । जुगुवे । <<950>> गाङ् गतौ । गाते । गाते । गाते । इट एत्वे कृते वृद्धिः । गै । लङ इटि । अगे । गेत । गेयाताम् । गेरन् । गासीष्ट । गाङ्कुटादिभ्यः---2461 इति सूत्रे इङादेशस्यैव गाङो ग्रहणं न त्वस्य । तेनाङित्त्वात् घुमास्था--2462 इतात्वं न । अगास्त । आदादिकोऽयमिति हरदत्तादयः । फले तु न भेदाः । <<951>> कुङ् <<952>> घुङ् <<953>> उङ् <<954>> ङुङ् शब्दे । अन्ये तु उङ् कुङ् खुङ् गुङ् घुङ् ङुङ् इत्याहुः । कवते । चुकुवे । घवते । अवते । उवे । (प) वार्णादाङ्गं बलीयं इत्युवङ् । ततः सवर्णदीर्घः । ओता । ओष्यते । ओषीष्ट । औष्ट । ङवते । ञुङुवे । ङोता । <<955>> च्युङ् <<956>> ज्युङ् <<957>> प्रुङ् <<958>> प्लुङ् गतौ ज्युङ् इत्येके । <<959>> रुङ् गतिरेषणयोः । रेषणं हिंसा । रुरुवे । रवितासे । <<960>> धृङ् अवबन्धने । धरते । दध्रे । <<961>> मेङ् प्रणिदाने । प्रणिदानं विनिमयः प्रत्यर्पणं च । प्रणिमयते । नेर्गद---2285 इति णत्वम् । तत्र घुप्रकृतिमाङिति पठित्वा ङितो माप्कृतैरपि ग्रहणस्येष्टत्वात् । <<962>> देङ् रक्षणे । दयते ॥
  • (2388) दयतेर्दिगि लिटि <7-4-9>
दिग्यादेशेन द्वित्वबाधनमिष्यत इति वृत्तिः । दिग्ये ॥
  • (2389) स्थाघ्वोरिच्च <1-2-17>
अनयोरिदादेशः स्यात् सिच्च कित्स्यात्तङि । अदित । अदिथाः । अदिषि । <<963>> श्यैङ् गतौ । श्यायते । शश्ये । <<964>> प्यैङ् वृद्धौ । प्यायते । पप्ये । प्याता । <<965>> त्रैङ्‌ पालने । त्रायते । तत्रे । <<966>> पूङ् पवने । पवते । पुपुवे । पविता । <<967>> मूङ् बन्धने । मवते । <<968>> डीङ् विहायसा गतौ । डयते । डयिता । <<969>> तॄ प्लवनतरणयोः ॥
  • (2390) ॠत इद्धातोः <7-1-100>
ऋदन्तस्य धातोरङ्गस्य इत्स्यात् ॥ इत्वोत्वाभ्यां गुणवृद्धी विप्रतिषेधेन (वा) ॥ तरति । ऋच्छत्यॄताम् 2383इतिगुणः । तॄफल--2301इत्येत्वम् । तेरतुः । तेरुः ॥
वृङ्वृञ्भ्यामॄदन्ताञ्चेटो दीर्घो वा स्यान्न तु लिटि । तरीता । तरिता । अलिटीति किम् । तेरिथ । हलि च 354 इति दीर्घः । तीर्यात् ॥
  • (2392) सिचि च परस्मैपदेषु <7-2-40>
अत्र वॄत इटो दीर्घो न । अतारिष्टाम् ॥
अथाष्टावनुदात्तेतः ॥ <<970>> गुप गोपने । <<971>> तिज निशाने । <<972>> मान पूजायाम् । <<973>> बध बन्धने ॥
  • (2393) गुप्तिज्किद्भ्यः सन् <3-1-5>
  • (2394) मान्बन्धदान्शान्भ्यो दीर्घश्चाऽऽभ्यासस्य <3-1-6>
सूत्रद्वयोक्तेभ्यः सन् स्यान्मानादीनामभ्यासस्येकारस्य दीर्घश्च ॥ । गुपोर्निन्दायाम् (वा) ॥ । तिजेः क्षमायाम् (वा) ॥ । कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च (वा) ॥ । मानेर्जिज्ञासायाम् (वा) ॥ । बधेश्चित्तविकारे (वा) ॥ । दानेरार्जवे (वा) ॥ । शानेर्निशाने (वा) ॥ नाद्यन्ता--2304 इति धातुत्वम् ॥
  • (2395) सन्यङोः <6-1-9>
सन्नन्तस्य यङन्तस्य च प्रथमस्यैकाचो द्वे स्तोऽजादेस्तु द्वितीयस्य । अभ्यासकार्यम् । गुपिप्रभृतयः किद्भिन्ना निन्दाद्यर्थका एवानुदात्तेतोदानशानौ च स्वरितेतौ । एते नित्यं सन्नन्ताः । अर्थान्तरे त्वननुबन्धकाश्चुरादयः । अनुबन्धस्य केवलेऽचरितार्थत्वात्सन्नन्तात्तङ् । धातोरित्यविहितत्वात्सनोऽत्र नार्धधातुकत्वम् । तेनेङ्गुणौ न । जुगुप्सते । जुगुप्सांचक्रे । तितिक्षते । मीमांसते । भष्भावः । चर्त्वम् । बाभत्सते । <<974>> रभ राभस्ये । आरभते । आरेभे । रब्धा । रप्स्यते । <<975>> डुलभष् प्राप्तौ । लभते । <<976>> स्वञ्च परिष्वङ्गे ।
  • (2396) दंशसञ्जस्वञ्जां शपि <6-4-25>
  • (2397) रञ्जेश्च <6-4-26>
एषां शपि नलोपः । स्वजते । परिष्वजते । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लुटः कित्त्वं वेति व्याकरणान्तरम् । देभतुः । सस्वजे इति भाष्योदाहरणादेकदेशानुमत्या इहाप्यश्रीयते । सदेः परस्य लिटि 2361 इति सूत्रे । स्वञ्जेरुपसंख्यानम् ॥ अतोऽभ्यासात्परस्य षत्वं न । परिषस्वजे । परिषस्वञ्जे । सस्वजिषे । सस्वञ्जिषे । स्वङ्क्ता । स्वङ्क्ष्यते । स्वजेत । स्वङ्क्षीष्ट । प्रत्यष्वङ्क्त । प्राक्सितात्---2276 इति षत्वम् । परिनिविभ्यस्तु सिवादीनां वा 2359 इति विकल्पः । एतदर्थमेव उपसर्गात्सुनोति--2270 इत्येव सिद्धे स्तुस्वञ्ज्योः परिनिवीत्यत्र पुनरुपादानम् । पर्यष्वङ्क्त । पर्यस्वङ्क्त । <<977>> हद पुरीषोत्सर्गे । हदते । जहदे । हत्ता । हत्स्यते । हदेत । हत्सीष्ट । अहत्त ॥
अथ परस्मैपदिनः ॥ <<978>> ञिष्विदा अव्यक्तेशब्दे । <<979>> स्कन्दिर् गतिशोषणयोः । चस्कन्दिथ । चस्कन्थ । स्कन्ता । स्कन्त्स्यति । नलोपः । स्कद्यात् । इरित्वादङ् वा । अस्कदत् । अस्कान्सीत् । अस्कान्ताम् । अस्कान्त्सुः ॥
  • (2398) वेः स्कन्देरनिष्ठायाम् <8-3-73>
षत्वं वा स्यात् । कृत्येवेदम् । अनिष्ठायामिति पर्युदासात् । विष्कन्ता । विस्कन्ता । निष्ठायां तु । विस्कन्नः ॥
अस्मात्परस्य स्कन्देः सस्य षो वा । योगविभागादनिष्ठायामिति न संबध्यते । परिष्कन्दति । परस्कन्दति । परिष्कण्णः । पिरस्कन्नः । षत्वपक्षे णत्वम् । न च पदद्वयाश्रयतया बहिरङ्गत्वात्षत्वस्यासिद्धत्वम् । धातूपसर्गयोः कार्यमन्तरङ्मित्यभ्युपगमात् । पूर्वं धातुरुपसर्गेण युज्यते ततः साधनेनेति भाष्यम् । पूर्वं साधनेनेति मतान्तरे तु न णत्वम् । <<980>> यभ मैथुने । येभिथ । ययब्ध । यब्धा । यप्स्यति । अयाप्सीत् । <<981>> णम । प्रह्वत्वे शब्दे च । नेमिथ । ननन्थ । नन्ता । अनंसीत् । अनंसिष्टाम् । <<982>> गम्लृ <<983>> सृप्लृ गतौ ॥
  • (2400) इषुगमियमां छः <7-3-77>
एषां छः स्याच्छिति परे । गच्छति । जगाम । जग्मतुः । जग्मुः । जगमिथ । जगन्थ । गन्ता ॥
  • (2401) गमेरिट् परस्मैपदेषु <7-2-58>
गमेः परस्य सकारादेरिट् स्यात् । गमिष्यति । लृदित्त्वादङ् । अनङीति पर्युदासान्नोपधालोपः । अगमत् । सर्पति । ससर्प ॥
  • (2402) अनुदात्तस्य चर्दुपधस्यान्यतरस्याम् <6-1-59>
उपदेशेऽनुदात्तो य ॠदुपधस्तस्याम्वा स्याज्झलादावकिति परे । स्रप्ता । सर्प्ता । स्रप्स्यति । सर्प्स्यति । असृपत् । <<984>> यम उपरमे । यच्छति । येमिथ । ययन्थ । यन्ता । अयंसीत् । अयंसिष्टाम् । <<985>> तप संतापे । तप्ता । अताप्सीत् ।
  • (2403) निसस्तपावनासेवने <8-3-102>
षः स्यात् । आसेवनं पौनः पुन्यं ततोऽस्यस्मिन्विषये । निष्टपति । <<986>> त्यज हानौ । तत्यजिथ । तस्यक्थ । त्यक्ता । अत्याक्षीत् । <<987>> षञ्ज सङ्गे । दंशसञ्जस्वञ्जां शपि 2396 इति नलोपः । सजति । सङ्क्ता । <<988>> दृशिर् प्रेक्षणे । पश्यति ॥
  • (2404) विभाषा सृजिदृशोः <7-2-65>
आभ्यां थल इड्वा ॥
  • (2405) सृजिदृशोर्झल्यमकिति <6-1-58>
अनयोरमागमः स्याज्झलादावकिति । दद्रष्ठ । ददर्शिथ । द्रष्टा । द्रक्ष्यति । दृश्यात् । इरित्त्वादङ् वा ॥
  • (2406) ऋदृशोऽङि गुणः <7-4-16>
ऋवर्णान्तानां दृशेश्च गुणः स्यादङि । अदर्शत् । अङभावे ॥
दृशश्च्लेः क्सो न । अद्राक्षीत् । <<989>> दंश दशने । दशनं दंष्ट्राव्यापारः । पृषोदरादित्वादनुनासिकलोपः । अत एवनिपातनादित्येके । तेषामप्यत्रैव तात्पर्यम् । अर्थनिर्देशस्याधुनिकत्वात् । दंशसञ्ज--2396 इति नलोपः । दशति । ददंशिथ । ददंष्ठ । दंष्टा । दङ्क्ष्यति । दश्यात् । अदाङ्क्षीत् । <<990>> कृष विलेखने । विलेखनमाकर्षणम् । क्रष्टा । कर्ष्टा । क्रक्ष्यति । कर्क्ष्यति ॥ । स्पृशमृशकृषतृपदृपां च्लेः सिज्वा वाच्यः (वा) ॥ अक्राक्षीत् । अक्राष्टाम् । अकार्क्षीत् । अकार्ष्टाम् । अकार्क्षुः । पक्षे क्सः । अकृक्षत् । अकृक्षताम् । अकृक्षन् । <<991>> दह भस्मीकरणे । देहिथ । ददग्ध । दग्धा । धक्ष्यति । अधाक्षीत् । अदाग्धाम् । अधाक्षुः । <<992>> मिह सेचने । मिमेह । मिमेहिथ । मेढा । मेक्ष्यति । अमिक्षत् । <<993>> कित निवासेरोगापनयने च । चिकित्सति । संशये प्रायेण विपूर्वः । विचिकित्सा तु संशय इत्यमरः । अस्यानुदात्तेत्त्वमाश्रित्य चिकित्सते इत्यादि कश्चिदुदाजहार । निवासे तु केतयति । <<994>> दान खण्डने । <<995>> शान तेजने । इतो वहत्यन्ताः स्वरितेतः ॥ दीदांसते । शीशांसति । शीशांसते । अर्थविशेषे सन् । अन्यत्र दानयति । <<996>> डुपचष् पाके । पचति । पचते । पेचिथ । पपक्थ । पेचे । पक्ता । पक्षीष्ट । <<997>> षच समवाये । सचिति । सचते । <<998>> भज सेवायाम् । भेजतुः । भेजुः । भेजिथ । बभक्थ । भक्ता । भक्ष्यति । भक्ष्यते । अभाक्षीत् । अभक्त । <<999>> रञ्ज रागे । नलोपः । रजति । रजते । अराङ्क्षीत् । अरङ्क्तः । <<1000>> शप आक्रोशे । आक्रोशो विरुद्धानुध्यानम् । शशाप । शेपे । अशाप्सीत् । अशप्त । <<1001>> त्विष दीप्तौ । त्वेषति । त्वेषते । तित्विषे । त्वेक्ष्यति । त्विक्षीष्ट । अत्विक्षत् । अत्विक्षाताम् । <<1002>> यज देवपूजासङ्गतिकरणदानेषु । यजति । यजते ॥
  • (2408) लिट्यभ्यासस्योभयेषाम् <6-1-17>
वच्यादीनां ग्रह्यादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटि । इयाज ॥
  • (2409) वचिस्वपियजादीनां किति <6-1-15>
वचिस्वप्योर्यजादीनां च संप्रसारणं स्यात्किति । पुनः प्रसङ्गविज्ञानाद्द्वित्वम् । ईजतुः । ईजुः । इयजिथ । इयष्ठ । ईजे । यष्टा । यक्ष्यति । इज्यात् । यक्षीष्ट । अयाक्षीत् । अयष्ट । <<1003>> डुवप् बीजसन्ताने । बीजसन्तानं क्षेत्रे विकिरणं गर्भाधानं च । अयं छेदनेऽपि । केशान्वपति । उवाप । ऊपे । वप्ता । उप्यात् । वप्सीष्ट । प्रण्यवाप्सीत् । अवप्त । <<1004>> वह प्राणणे । उवाह उवहिथ । सहिवहोरोदवर्णस्य 2357 उवोढ । ऊहे । वोढा । वक्ष्यति । अवाक्षात् । अवोढाम् । अवाक्षुः । अवोढ । अवक्षाताम् । अवक्षत । अवोढाः । अवोढ्वम् । <<1005>> वस निवासे । परस्मैपदी । वसति । उवास ॥
  • (2410) शासिवसिघसिनां च <8-3-60>
इण्कुभ्यां परस्यैषां सस्य षः स्यात् । ऊषतुः । ऊषुः । उवसिथ । उवस्थ । वस्ता । सः स्यार्धधातुके 2342 सस्य तः स्यात्सादावार्धधातुके । वत्स्यति । उष्यात् । अवात्सीत् । अवात्ताम् । <<1006>> वेञ् तन्तुसन्ताने । वयति । वयते ॥
  • (2411) वेञो वयिः <2-4-41>
वा स्याल्लिटि । इकार उच्चारणार्थः । उवाय ॥
  • (2412) ग्रहिज्यावयिव्यधिवष्टिविचतिवृश्चतिपृच्छतिभृज्जतीनां ङिति च <6-1-16>
एषां किति ङिति च संप्रसारणं स्यात् । इति यकारस्य प्राप्ते ॥
  • (2413) लिटि वयो यः <6-1-38>
वयो यस्य संप्रसारणं न स्याल्लिटि । ऊयतुः । ऊयुः ॥
  • (2414) वश्चास्यान्यतरस्यां किति <6-1-39>
वयो यस्य वो वा स्यात्किति लिटि । ऊवतुः । ऊवुः । वयस्तासावभावात्थलि नित्यमिट् । उवयिथ । स्थानिवद्भावेन ञित्तवात्तङ् । ऊये । ऊवे । वयादेशाभावे ॥
वेञो न संप्रसारणं स्याल्लिटि । ववौ । ववतुः । ववुः । वविथ । ववाथ । ववे । वाता । ऊयात् । वासीष्ट । अवासीत् । <<1007>> व्येञ् संवरणे । व्ययति ॥
  • (2416) न व्यो लिटि <6-1-46>
व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इडत्त्यर्ति--2384 इति नित्यमिट् । विव्ययिथ । विव्याय । विव्यच । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त । <<1008>> ह्वेञ् स्पर्धायां शब्दे च ॥
  • (2417) अभ्यस्तस्य च <6-1-33>
अभ्यस्तीभविष्यतो ह्वेञः संप्रसारणं स्यात् । ततो द्वित्वम् । जुहाव । जुहुवतुः । जुहुवुः । जुहोथ । जुहविथ । जुहुवे । ह्वाता । हूयात् । ह्वासीष्ट ॥
  • (2418) लिपिसिचिह्वश्च <3-1-53>
एभ्यश्च्लेरङ् स्यात् ॥
  • (2419) आत्मनेपदेष्वन्यतरस्याम् <3-1-54>
अतो लोपः 2372 । अह्वत् । अह्वताम् । अह्वन् । अह्वत् । अह्वास्त ॥
अथ द्वौ परस्मैपदिनौ ॥ <<1009>> वद व्यक्तायां वाचि । अच्छ वदति । उवाद । ऊदतुः । उवदिथ । वदिता । उद्यात् । वदव्रज--2267 इति वृद्धिः । अवादीत् । <<1010>> टुओश्वि गतिवृद्ध्योः । श्वयति ॥
  • (2420) विभाषा श्वेः <6-1-30>
श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः ॥ । श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेधः (वा) ॥ तेन लिट्याभ्यासस्य--2408 इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् ।

जॄस्तम्भु--2291 इत्यङ् वा ॥

  • (2421) श्वयतेरः <7-4-18>
श्वयतेरिकारस्य अकारः स्यादङि । पररूपम् । अश्वत् । अश्वताम् । अश्वन् । विभाषा धेट्श्व्योः 2375 इति चङ् । इयङ् । अशिश्वियत् । ह्म्यन्त--2299 इति न वृद्धिः । अश्वयीत् ॥ वृत् । यजादयो वृत्ताः । भ्वादिस्तवाकृतिगणः । तेन चुलुम्पतीत्यादिसंग्रहः ॥ इति तिङन्ते भ्वादयः ॥
  • (2422) ऋतेरीयङ् <3-1-29>
ऋतिः सौत्रः तस्मादीयङ् स्यात्स्वार्थे । जुगुप्सायामयं धातुरिति बहवः । कृपायां चःथ्द्य;त्येके । सनाद्यन्ता---2304 इति धातुत्वम् । ऋतीयते । ऋतीयांचक्रे । आर्धधातुकविवक्षयां तु । आयादय आर्धधातुके वा 2305 इतीयङभावे शेषात्कर्तरि-- 2259 इति परस्मैपदम् । आनर्त । अर्तिष्यति । आर्तीत् ।
इति तिङन्तभ्वादिप्रकरणम्‌

तिङन्तादादिप्रकरणम्‌

सम्पाद्यताम्
<<1011>> अद भक्षणे । द्वौ परस्मैपदिनौ ॥
  • (2423) अदिप्रभृतिभ्यः शपः <2-4-72>
लुक्स्यात् । अत्ति । अत्तः । अदन्ति ॥
  • (2424) लिट्यन्यतरस्याम् <2-4-40>
अदो घस्लृ वा स्याल्लिटि । जघास । गमहन--1263 इत्युपधालोपः । तस्य चर्विधिं प्रति स्थानिवद्भावनिषेधाद्धस्य चर्त्वम् । शासिवसि--2410 इति षत्वम् । जक्षतुः । जक्षुः । घसस्तासावभावात्थलि नित्यमिट् । जघसिथ । आद । आदतुः । इडत्त्यर्ति--2384 इति नित्यमिट् । आदिथ । अत्ता । अत्स्यति ॥
  • (2425) हुझल्भ्यो हेर्धिः <6-4-101>
होर्झलन्तेभ्यश्च हेर्धिः स्यात् । अद्धिः । अत्तात् । अदानि ॥
  • (2426) अदः सर्वेषाम् <7-3-100>
अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥
  • (2427) लुङ्सनोर्घस्लृ <2-4-37>
अदो घस्लृ स्याल्लुङि सनि च । लृदित्त्वादङ् । अघसत् । <<1012>> हन हिंसागत्योः । प्रणिहन्ति ॥
  • (2428) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति <6-4-37>
अनुनासिक-इति लुप्तषष्ठीकं वनतीतरेषां विशेषणम् । अनुनासिकान्तानामेषां वनतेश्च लोपः स्याज्झलादौ क्ङिति परे । यमिरमिनमिगमिहनिमन्यतयोऽनुदात्तोपदेशाः । तनुक्षणुक्षिणुऋणुतृणुघृणुवनुमनुतोनोत्यादयः । हतः । घ्नन्ति ॥
उपसर्गस्थान्निमित्तात्परस्य हन्तेर्नस्य णो वा स्याद्वमयोः परयोः । प्रहण्मि-प्रहन्मि । प्रहण्वः-प्रहन्वः । हो हन्तेः--358 इति कुत्वम् । जघान । जघ्नतुः । जघ्नुः ॥
  • (2430) अभ्यासाच्च <7-3-55>
अभ्यासात्परस्य हन्तेर्हस्य कुत्वं स्यात् । जघनिथ-जघन्थ । हन्ता । ऋद्धनोः-- 2366 इतीट् । हनिष्यति । हन्तु । हतात् । घ्नन्तु ॥
  • (2431) हन्तेर्जः <6-4-36>
हौ परे । आभीयतया जस्यासिद्धत्वाद्धेर्न लुक् । जहि । हनानि । हनाव । हनाम । अहन् । अहताम् । अघ्नन् । अहनम् ॥
  • (2432) आर्धधातुके <2-4-34>
इत्यधिकृत्य ॥
  • (2433) हनो वध लिङि <2-4-42>
वधादेशोऽदन्तः । आर्धधातुके 2300 इति विषयसप्तमी । तेनार्धधातुकोपदेशेऽकारान्तत्वात् अतो लोपः (सू-2308) । वध्यात् । वध्यास्ताम् । आर्धधातुके किम् । विध्यादौ हन्यात् । हन्तेः (सू-359) इति णत्वम् । प्रहण्यात् । अल्लोपस्य स्थानिवत्त्वात् अतो हलादेः (सू-2284) इति न वृद्धिः । अवधीत् ॥
अथ चत्वारः स्वरितेतः ॥ <<1013>> द्विष अप्रीतौ । द्वेष्टि-द्विष्टे । द्वेष्टा । द्वेक्ष्यति-द्वेक्ष्यते । द्वेष्टु-द्विष्टात् ।

द्विड्ढि । द्वेषाणि । द्वेषै । द्वेषावहै । अद्वेट् ॥

लङो झेर्जुस्वा स्यात् । अद्विषुः । अद्विषन् । अद्वेषम् । द्विषीत । द्विक्षीष्ट । अद्विक्षत् । <<1014>> दुह प्रपूरणे । दोग्धि । दुग्धः । धोक्षि । दुग्धे । धुक्षे । धुग्ध्वे । दोग्धु । धुग्धि । दोहानि । धुक्ष्व । धुग्ध्वम् । दोहै । अधोक् । अदोहम् । अधुग्ध्वम् । अधुक्षत् । अधुक्षत । लुग्वा दुह (सू-2365) इति लुक्पक्षे तथास्ध्वंवहिषु लङ्वदपि । <<1015>> दिह-उपचये । उपचयो वृद्धिः । प्रणिदेग्धि । <<1016>> लिह आस्वादने । लेढि । लीढः । लिहन्ति । लेक्षि-लीढे । लिक्षे । लीढ्वे । लेढु । लीढाम् । लेहानि । अलेट् । अलिक्षत । अलिक्षताम् । अलीढ । अलिक्षावहि । <<1017>> चक्षिङ् व्यक्तायां वाचि । अयं दर्शनेऽपि । इकारोऽनुदात्तो युजर्थः । विचक्षणः प्रथयन् । नुम्तु न । अन्तेदितः इति व्याख्यानात् । ङकारस्तु (प) अनुदात्तेत्त्वप्रयुक्तमात्मनेपदमनित्यम् इति ज्ञापनार्थः । तेन स्फायन्निर्मोकसन्धीत्यादि सिध्यति । चष्टे । चक्षाते । आर्धधातुके 2377 इत्यधिकृत्य ॥
  • (2436) चक्षिङः ख्याञ् <2-4-54>
अत्र भाष्ये खशादिरयमादेशः । असिद्धाकाण्डे । शस्य यो वा इति स्थितम् (वा) ॥ ञित्त्वात्पदद्वयम् । चख्यौ-चख्ये-चक्शौ-चक्शे ॥चयो द्वितीया--5023 इति तु न । चर्त्वस्यासिद्धत्वात् । चचक्षे । ख्याता-क्शाता । ख्यास्यति-ख्यास्यते । क्शास्यति-क्शास्यते । अचष्ट । चक्षीत । ख्यायात्-ख्येयात् । क्शायात्-क्शेयात् ॥
  • (2438) अस्यतिवक्तिख्यातिभ्योऽङ् <3-1-42>
एभ्यश्च्लेरङ् । अख्यत् । अख्यत । अक्शासीत् । अक्शास्त ॥ ।वर्जने ख्शाञ् नेष्टः-1592 ॥ समचक्षिष्टेत्यादि ॥
अथ पृच्यन्ता अनुदात्तेतः- ॥ <<1018>> ईर गतौ कम्पने च ॥ ईर्ते । ईरांचक्रे । ईरीता । ईरिष्यते । ईर्ताम् । ईर्ष्व । ईर्ध्वम् । ऐरिष्ट । <<1019>> ईड स्तुतौ । ईट्टे ॥
  • (2440) ईडजनोर्ध्वे च <7-2-78>
ईशीड्जनां से ध्वे शब्दयोः सार्वधातुकयोरिट् स्यात् । योगविभागोवैचित्र्यार्थः । ईडिषे । ईडिध्वे ॥ (प) एकदेशविकृतस्यानन्यत्वात् । ईडिष्व । ईडिध्वम् । विकृतिग्रहणेन प्रकृतेरग्रहणात् । ऐड्ढ्वम् । <<1020>> ईश ऐश्वर्ये । ईष्टे । ईशिषे । ईशिध्वे । <<1021>> आस उपवेशने । आस्ते । दयायासश्च 2325 । आसांचक्रे । आस्स्व । आध्वम् । आसिष्ट । <<1022>> आङः शासु इच्छायाम् । आशास्ते । आशासाते । आङ्पूर्वत्मवं । प्रायिकम् । तेन नमोवाकं प्रशास्महे इति सिद्धम् । <<1023>> वस आच्छादने । वस्ते । वस्से । वध्वे । ववसे । वसिता । <<1024>> कसि गतिशासनयोः । कंस्ते । कंसाते । कंसते । अयमनिदित्येके । कस्ते । तालव्यान्तोऽप्यनिदित् । कष्टे । कशाते । कक्षे । कड्ढ्वे । <<1025>> णिसि चुम्बने । निंस्ते । दन्त्यान्तोऽयम् । आभरणकारस्तु तालव्यान्त इति बभ्राम । <<1026>> णिजि शुद्धौ । निङ्क्ते । निङ्क्षे । निञ्जिता । <<1027>> शिजि अव्यक्ते शब्दे । शिङ्क्ते । <<1028>> पिजि वर्णे । संपर्चन इत्येके । उभयत्रेत्यन्ये । अवयवे इत्यपरे । अव्यक्ते शब्दे इतीतरे । पिङ्क्ते । पृजीत्येके । पृङ्क्त । <<1029>> वृजी वर्जने । दन्त्योष्ठ्यादिः । ईदित् । वृक्ते । वृजाते । वृक्षे । इदित् । इत्यन्ये । वृङ्क्ते । <<1030>> पृची संपर्चने । पृक्ते ।
<<1031>> षूङ् प्राणिगर्भविमोचने । सूते । सुषुवे । सुषुविषे । सोता । सविता । भूसुवोः-(सू2224) इति गुणनिषेधः सुवै । सविषीष्ट । सोषीष्ट । असविष्ट । असोष्ट । <<1032>> शीङ् स्वप्ने ॥
  • (2441) शीङः सार्वधातुके गुणः <7-1-21>
क्ङिति च-(सू 2217) इत्यस्यापवादः । शेते । शयाते ॥
  • (2442) शीङो रुट् <7-1-6>
शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे । शेध्वे । शये । शेवहे । शिश्ये । शयिता । अशयिष्ट ॥
अथ स्तौत्यन्ताः परस्मैपदिनः । ऊर्णुस्तूभयपदी । <<1033>> यु मिश्रणेऽमिश्रणे च ॥
  • (2443) उतो वृद्धिर्लुकि हलि <7-3-89>
लुग्विषये उकारस्य वृद्धिः स्यात्पिति हलादौ सार्वधातुके न त्वभ्यस्तस्य । यौति । युतः । युवन्ति । युयाव ।

यविता । युयात् । इह उतो वृद्धिर्न । भाष्ये पिच्च ङिन्न ङिच्च पिन्नःथ्द्य;ति व्याख्यानात् । विशेषविहितेन ङित्त्वेन पित्त्वस्य बाधात् । यूयात् । अयावीत् । <<1034>> रु शब्दे ॥

  • (2444) तुरुस्तुशम्यमः सार्वधातुके <7-3-94>
एभ्यः परस्य सार्वधातुकस्य हलादेस्तिङ ईड्वा स्यात् । नाभ्यस्तस्य -(सू2403) इत्यतोऽनुवृत्तिसंभवे पुनः सार्वधातुकग्रहणमपिदर्थम् । रवीति । रौति । रुवीतः । रुतः । हलादेः किम् । रुवन्ति । तिङः किम् । शाम्यति । सार्वधातुके किम् । आशिषि रूयात् । विध्यादौ तु रुयात् । रूवीयात् । अरावीत् । अरविष्यत् । तु इति सौत्रो धातुर्गतिवृद्धिहिंसासु । अयं च लुग्विकरण इति स्मरन्ति । तवीति । तौति । तुवीतः । तुतः । तोता । तोष्यति । <<1035>> णु स्तुतौ । नौति । नविता । <<1036>> टुक्षु शब्दे । क्षौति क्षविता । <<1037>> क्ष्णु तेजने । क्ष्णौति । क्ष्णविता । <<1038>> ष्णु प्रस्रवणे । स्नौति । सुष्णाव । स्नविता । स्नुयात् । स्नूयात् । <<1039>> ऊर्णुञ् आच्छादने ॥
  • (2445) ऊर्णोतेर्विभाषा <7-3-90>
वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके । ऊर्णौति । ऊर्णोति । ऊर्णुतः । ऊर्णुवन्ति । ऊर्णुते । उर्णुवाते । ऊर्णुवते ॥ ऊर्णोतेराम्नेति वाच्यम्(वा 1802) ॥
  • (2446) न न्द्राः संयोगादयः <6-1-3>
अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । (प) पूर्वत्रासिद्धीयमद्विर्वचन इति त्वनित्यम् । उभौ साभ्यासस्य 2606 इति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥
  • (2447) विभाषोर्णोः <1-2-3>
इडादिप्रत्ययो वा ङित्स्यात् । ऊर्णुनुविथ । ऊर्णुनविथ । ऊर्णुविता । ऊर्णविता । ऊर्णौतु । ऊर्णोतु । ऊर्णवानि । ऊर्णवै ॥
  • (2448) गुणोऽपृक्ते <7-3-91>
ऊर्णोतेर्गुणः स्यादपृक्ते हलादौ पिति सार्वधातुके । वृद्ध्यपवादः । और्णोत् । और्णोः । ऊर्णुयात् । ऊर्णुयाः । इह वृद्धिर्न । ङिच्च पिन्नःथ्द्य;ति भाष्यात् । ऊर्णूयात् । ऊर्णविषीष्ट । ऊर्णुविषीष्ट । और्णवीत् । और्णुविष्टाम् ॥
  • (2449) ऊर्णोतेर्विभाषा <7-2-6>
इडादौ सिचि परस्मैपदे परे वा वृद्धिः स्यात् । पक्षे गुणः । और्णावीत् । और्रणविष्टाम् । और्णाविषुः । और्णवीत् । <<1040>> द्यु अभिगमने । द्यौति । द्योता । <<1041>> षु प्रसवैश्वर्ययोः । प्रसवोऽभ्यनुज्ञानम् । सोता । असौषीत् । <<1042>> कु शब्दे । कोता । <<1043>> ष्टुञ् स्तुतौ । स्तौति । स्तवीति । स्तुतः । स्तुवीतः । स्तुते । स्तुवीते । स्तुसुधूञ्भ्यः--2385 इतीट् । अस्तावीत् । प्राक्सितात्--(सू2276) इति षत्वम् । अभ्यष्टौत् । सिवादीनां वा (सू2359) । पर्यष्टौत् । प्रयस्तौत् । <<1044>> ब्रूञ् व्याक्तायां वाचि ॥
  • (2450) ब्रुवः पञ्चानामादित आहो ब्रुवः <3-4-84>
ब्रुवो लटः परस्मैपदानामादितः पञ्चानां णलादयः पञ्च वा स्युर्ब्रुवश्चाहादेशः । आकार उच्चारणार्थः । आह । आहतुः । आहुः ॥
झलि परे । चर्त्वम् । आत्थ । आहथुः ॥
  • (2452) ब्रुव ईट्र <7-3-13>
ब्रुवः परस्य हलादेः पित ईट् स्यात् । आत्थःथ्द्य;त्यत्र स्थानिवद्भावात्प्राप्तोऽयं झलीति थत्वविधानान्न भवति । ब्रवीति । ब्रूतः । ब्रुवन्ति । ब्रूते । आर्धधातुकाधिकारे ॥
  • (2453) ब्रवो वचिः <2-4-53>
उवाच । ऊचतुः । ऊचुः । उवचिथ । उवक्थ । ऊचे । वक्ता । ब्रवीतु । ब्रूयात् । ङिच्च पिन्नःथ्द्य;त्यपित्त्वादीण्न । ब्रवाणि । ब्रवै । ब्रूयात् । उच्यात् । अस्यतिवक्ति 2438इत्यङ् ॥
अङि परे । अवोचत् । अवोचत ॥
अथ शास्यान्ताः परस्मैपदिनः । इङ् त्वात्मनेपदी । <<1045>> इण् गतौ । एति । इतः ॥
अजादौ प्रत्यये परे । इयङोऽपवादः । यन्ति । इयाय ॥
  • (2456) दीर्घ इणः किति <7-4-69>
इणोऽभ्यासस्य दीर्घः स्यात्किति लिटि । ईयतुः । ईयुः । इययिथ । इयेथ । एता । इतात् । इहि । अयानि । ऐत् । ऐताम् । आयन् । इयात् । ईयात् ॥??
  • (2457) एतेर्लिङि <7-4-24>
उपसर्गात्परस्य इणोऽणो ह्रस्वः स्यादार्धधातुके किति लिङि । निरियात् । उभयत आश्रयणे??नान्तादिवत् । अभीयात् । अणः किम् । समेयात् । समीयादिति प्रयोगस्तु भौवादिकस्य ॥
  • (2458) इणो गा लुङि <2-4-45>
गातिस्था 2223 इति सिचो लुक् । अगात् । अगाताम् । अगुः । <<1046>> इङ् अध्ययने । नित्यमधिपूर्वः । अधीते । अधीयाते । अधीयते ॥
  • (2459) गाङ् लिटि <2-4-49>
इङो गाङ् स्याल्लिटि लावस्थायां विवक्षते वा । अधिजगे । अधिजगाते । अधिजगिरे । अध्येता । अध्येष्यते । अध्ययै । गुणायादेशयोः कृतयोरुपसर्गस्य यण् । पूर्वं धातुरुपर्गेणेति- दर्शनेन् तरङ्गत्वाद्गुणात्पूर्वं सवर्णदीर्घः प्राप्तः । णेरध्ययने वृत्तम् (सू3036) इति निर्देशान्न भवति । अध्यैत । परत्वादियङ् । तत आट् । वृद्धिः । अध्यैयाताम् । अध्यैयत् । अध्यैयि । अध्यैवहि । अधीयीत । अधीयीयाताम् । अधीयीध्वम् । अधीयीय । अध्येषीष्ट ॥
  • (2460) विभाषा लुङ्लृङोः <2-4-50>
इङो गाङ् वा स्यात् ॥
  • (2461) गाङ्कुटादिभ्योऽञ्णिन्ङित् <1-2-1>
गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥
  • (2462) घुमास्थागापाजहातिसां हलि <6-4-66>
एषामात ईत्स्याद्धलादौ क्ङित्यार्धधातुके । अध्यगीष्ट-अध्यैष्ट । अध्यगीष्यत- अध्यैष्यत । <<1047>> इक् स्मरणे । अयमप्यधिपर्वः । अधीगर्थदयेशाम्-(सू613) इति लिङ्गात् । अन्यथा हीगर्थेत्येव ब्रूयात् ॥ इण्वदिक इति वक्तव्यम् (वा) ॥ अधियन्ति । अध्यगात् । केचित्तु आर्धधातुकाधिकारोक्तस्यैवातिदेशमाहुः । तन्मते यण्न । तथाच भट्टिः-ससीतयो राघवयोरधीयन्इति । <<1048>> वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु । प्रजनं गर्भग्रहणम् । असनं क्षेपणम् । वेति । वीतः । वियन्ति । वेषि । वेमि । वीहि । अवेत् । अवीताम् । अवियन् । अडागमे सत्वनेकाच्त्वाद्यणिति केचित् । अव्यन् । अत्रेकारोऽपि धात्वन्तरं प्रश्लिष्यत । एति । ईतः । इयन्ति । ईयात् । ऐषीत् । <<1049>> या प्रापणे । प्रापणमिह गतिः । प्रणियाति । यातः । यान्ति ॥
  • (2463) लङः शाकटायनस्यैव <3-4-111>
आदन्तात्परस्य लङो झेर्जुस् वा स्यात् । अयुः-अयान् । यायात् । यायाताम् । यायास्ताम् । <<1050>> वा गतिगन्धनयोः । गन्धनं सूचनम् । <<1051>> भा दीप्तौ । <<1052>> ष्णा शौचे । <<1053>> श्रा पाके । <<1054>> द्रा कुत्सायां गतौ । <<1055>> प्सा भक्षणे । <<1056>> पा रक्षणे । पायास्ताम् । अपासीत् । <<1057>> रा दाने । <<1058>> ला आदाने । द्वावपि दाने इति चन्द्रः । <<1059>> दाप् लवने । प्रणिदाति-प्रनिदाति । दायास्ताम् । अदासीत् । <<1060>> ख्या प्रकथने । अयं सार्वधातुकमात्रविषयः ॥ सस्थानत्वं नमः ख्यात्रे इति वार्तिकम् (वा) ॥ तद्भाष्यं चेह लिङ्गम् । सस्थानो जिह्वामूलीयः । स नेति ख्शाञादेशस्य ख्शादित्वे प्रयोजनमित्यर्थः । संपूर्वस्य ख्यातेः प्रयोगो नेति न्यासकारः । <<1061>> प्रा पूरणे । <<1062>> मा माने । अकर्मकः । तनौ ममुस्तत्र न कैटभद्विष इति माघः । उपसर्गवशेनार्थान्तरे सकर्मकः । उदरं परिमाति मुष्टिना । नेर्गद-(सू2285) इत्यत्र नास्य ग्रहणम् । प्रणिमाति- प्रनिमाति । <<1063>> वच परिभाषणे । वक्ति । वक्तः । अयमन्तिपरो न प्रयुज्यते । बहुवचनपर

इत्यन्ये ॥ झिपर इत्यपरे । वग्धि । वच्यात् । उच्यात् । अवोचत् । <<1064>> विद ज्ञाने ॥

  • (2464) विदो लटो वा <3-4-83>
वेत्तेर्लटः परस्मैपदानां णलादयो वा स्युः । वेद । विदतुः । विदुः । वेत्थ । विदथुः । विद । वेद । विद्व । विद्म । पक्षे वेत्ति । वित्तः । इत्यादि । विवेद । विविदतुः । उषविद-(सू2341) इत्याम्पक्षे विदेत्यकारान्तनिपातनान्न लघूपधगुणः । विदांचकार । वेदिता ॥
  • (2465) विदांकुर्वन्त्वित्यन्यतरस्याम् <3-1-41>
वेत्तेर्लोट्याम्गुणाभावो लोटो लुक् लोडन्तकरोत्यनुप्रयोगश्च वा निपात्यते । पुरुषवचने न विवक्षिते इति शब्दात् ॥
  • (2466) तनादिकृञ्भ्य उः <3-1-79>
तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेवसिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥
  • (2467) अत उत्सार्वधातुके <6-4-110>
उप्रत्ययान्तस्य कृञोऽकारस्य उत्स्यात्सार्वधातुके क्ङिति । उदिति तपरसामर्थ्यान्न गुणः । विदांकुरुतात् । विदांकुरुताम् । उतश्च-(सू2334)इति हेर्लुक् । आभीयत्वेन लुकोऽसिद्धत्वादूत्त्वम् । विदांकुरु । विदांकरवाणि । अवेत् । अवित्ताम् । सिजभ्यस्त-(सू2226) इति झेर्जुस् । अविदुः ॥
धातोर्दस्य पदान्तस्य सिपि परे रुः स्याद्वा । अवेः-अवेत् । <<1065>> अस् भुवि । अस्ति ॥
  • (2469) श्नसोरल्लोपः <6-4-111>
श्नस्यास्तेश्चाकारस्य लोपः स्यात्सार्वधातुके क्ङिति । स्तः । सन्ति । तासस्त्योः-(सू2191) इति सलोपः । असि । स्थः । स्थ । अस्मि । स्वः । स्मः । आर्धधातुके (सू2432) इत्यधिकृत्य ॥
  • (2470) अस्तेर्भूः <2-4-52>
बभूव । भविता । अस्तु । स्तात् । स्ताम् । सन्तु ॥
  • (2471) घ्वसोरेद्वावभ्यासलोपश्च <6-4-119>
घोरस्तेश्चैत्वं स्याद्धौ परेऽभ्यासलोपश्च । आभीयत्वेनैत्वास्यासिद्धत्वाद्धेर्धिः । श्नसोरल्लोपः-(सू2469)इत्यल्लोपः । एधि । तातङ्पक्षे एत्वं न । परेण तातङा बाधात् । (प)सकृद्गताविति न्यायात् । स्तात् । स्तम् । स्त । असानि । असाव । असाम । अस्तिसिच-(सू2225)इतीट् । आसीत् । श्नसो-(सू2469) इत्यल्लोपस्याभीयत्वेनासिद्धत्वादाट् । आस्ताम् । आसन् । स्यात् । भूयात् । अभूत् । सिचोऽस्तेश्च विद्यमानत्वेन विशेषणादीण्न ॥
  • (2472) उपर्गप्रादुर्भ्यामस्तिर्यच्परः <8-3-87>
उसर्गेऽणः प्रादुसश्च परस्यास्तेः सस्य षः स्यारद्यकासेऽचि च परे । निष्यात् । प्रादुःष्यात् । निषन्ति । प्रादुः षन्ति । यच्परः किम् । अभिस्तः । <<1066>> मृजू शुद्धौ ॥
  • (2473) मृजेर्वृद्धिः <7-2-114>
मृजेरिको वृद्धिः स्याद्धातुप्रत्यये परे ॥ । क्ङित्यजादौ वेष्यते (वा) ॥ व्रश्च 294 इति षः । मार्ष्टि । मृष्टः । मृजन्ति-मार्जन्ति । ममार्ज । ममार्जतुः-ममृजतुः । ममार्जिथ । ममार्ष्ठ । मार्जिता-मार्ष्टा । मृड्ढि । अमाटर्‌ । अमार्जम् । अमार्जीत्-अमार्क्षीत् । <<1067>> रुदिर् अश्रुविमोचने ॥
  • (2474) रुदादिभ्यः सार्वधातुके <7-2-76>
रुद् स्वप्रन श्वस् अन् जक्ष एभ्यो वलादेः सार्वधातुकस्येट् स्यात् । रोदिति । रुदितः । हौ परत्वादिटि धित्वं न । रुदिहि ॥
  • (2475) रुदश्च पञ्चभ्यः <7-3-98>
हलादेः पितः सार्वधातुकस्यापृक्तस्य ईट् स्यात् ॥
  • (2476) अङार्ग्यगालवयोः <7-3-99>
अरोदीत्-अरोदत् । अरूदिताम् । अरुदन् । अरोदीः-अरोदः । प्रकृतिप्रत्ययविशेषापेक्षाभ्याममडीड्भ्यामन्तरङ्गत्वाद्यासुट् । रुद्यात् । अरुदत् । अरोदीत् । <<1068>> ञिष्वप् शये । स्वपिति । स्वपितः । सुष्वाप । सुषुपतुः । सुषुपुः । सुष्वपिथ-सुष्वप्थ ॥
  • (2477) सुविनिर्दुर्भ्यः सुपिसूतिसमाः <8-3-88>
एभ्यः सुप्यादेः सस्य षः स्यात् । पूर्वं धातुरुपसर्गेण युज्यते । किति लिटि परत्वात्संप्रसारणे षत्वे च कृते द्वित्वम् । (प) पूर्वत्रासिद्धीयमद्विर्वचने । सुषुषुपतुः । सुषुषुपुः । अकिति तु द्वित्वेऽभ्यासस्य संप्रसारणम् । षत्वस्यसिद्धत्वात्ततः पूर्वं हलादिः शेषः (सू2179) । नित्यत्वाच्च् । ततः सुपिरूपाभावान्न षः । सुसुष्वाप । सुस्वप्ता । अस्वपीत् । अस्वपत् । स्वप्यात् । सुप्यात् । सुषुप्यात् । अस्वाप्सीत् । <<1069>> श्वस प्राणने । श्वसिति । श्वसिता । अश्वसीत्-अश्वसत् । श्वस्याताम् । श्वस्यास्ताम् । ्म्यन्तक्षण--(सू2299) इति न वृद्धिः । अश्वसीत् । <<1070>> अन च । अनिति । आन । अनिता । आनीत् । आनत् ॥
उपसर्गस्थान्निमित्तात्परस्यानितेर्नस्य णः स्यात् । प्राणिति । <<1071>> जक्ष भक्षहसनयोः । जक्षिति । जक्षितः ॥
  • (2479) अदभ्यस्तात् <7-1-4>
झस्य अत्स्यात् । अन्तापवादः । जक्षति । सिजभ्यस्त-(सू2226) इति झेर्जुस् । अजक्षुः । अयमन्तः स्थादिरित्युज्ज्वलदत्तो बभ्राम । रुदादयः पञ्च गताः ॥
<<1072>> जागृ निद्राक्षते । जागर्ति । जागृतः । जाग्रति । उषविद-(सू2341) इत्याम्वा । जागरांचकार । जजागार ॥
  • (2480) जाग्रोऽविचिण्णल्ङित्सु <7-3-85>
जागर्तेर्गुणः स्याद्विचिण्णल्ङिद्भ्योऽन्यस्मिन् वृद्धिविषये प्रतिषेधविषये च । जजागरतुः । अजागः । अजागृताम् । अभ्यस्तत्वाज्जुस् ॥
अजादौ जुसीगन्ताङ्गस्य गुणः स्यात् । अजागरुः । अजादौ किम् । जागृयुः । आशिषि तु जागर्यात् । जागर्यास्ताम् । जागर्यासुः । लुङि । अजागरीत् । जागृ इस् इत्यत्र यण् प्राप्तः,तं सार्वधातुकगुणो बाधते,तं सिचि वृद्धिः,तां जागर्तिगुणः,तत्र कृते हलन्तालक्षणा प्राप्ता,नेटि (सू2268) इति निषिद्धा,ततः अतो हलादेः-(सू-2284) इति बाधित्वा अतो ल्रान्तस्य (सू2330) इति प्राप्ता,ह्म्यन्त-(सू2299) इति निषिध्यते ॥ तदाहुः--

गुणो वृद्धिर्गुणो वृद्धिः प्रतिषेधो विकल्पनम् । पुनर्वृद्धिनिषेधोऽतो यण्पूर्वाः प्राप्तयो नवेति । <<1073>> दरिद्रा दुर्गतौ । दरिद्राति ॥

  • (2482) इद्दरिद्रस्य <6-4-114>
दरिद्रातेरिकारः स्याद्धलादौ क्ङिति सार्वधातुके । दरिद्रतः ॥
  • (2483) श्नाभ्यस्तयोरातः <6-4-112>
अनयोरातो लोपः स्यात् क्ङिति सार्वधातुके । दरिद्रति । अनेकाच्त्वादाम् । दरिद्रांचकार । आत औ णलः (सू2371) इत्यत्र ओ इत्येव सिद्ध औकारविधानं दरिद्रातेरालोपे कृते श्रवाणार्थम् । अत एव ज्ञापकादाम्नेत्येके । ददरिद्रौ । ददरिद्रतुरित्यादि । यत्तु णलि ददरिद्रेति तन्निर्मूलमेव ॥ दरिद्रातेरार्धधातुके विवक्षित आलोपो वाच्यः (वा) ॥ । लुङि वा (वा) ॥ । सनि ण्वलि ल्युटि च न (वा) ॥ दरिद्रिता । अदरिद्रात् । अदरिद्रिताम्‌ । अदरिद्रुः । दरिद्रियात्‌ । दरिद्र्यात्‌ । अदिरिद्रीत्‌ । इट्सकौ । अदरिद्रासीत् । <<1074>> चकासृ दीप्तौ । चकास्ति । झस्य अत् । चकासति । चकासांचकार । धिच 2249 इति सलोपः सिच एवेत्येके । चकाद्धि । चकाधीत्येव भाष्यम् ॥
  • (2484) तिप्यनस्तेः <8-2-73>
पदान्तस्य सस्य दः स्यात्तिपि न त्वस्तेः । अचकात्-अचकाद् । अचकासुः ॥
  • (2485) सिपि धातो रुर्वा <8-2-74>
पदान्तस्य धातोः सस्य रूः स्याद्वा । पक्षे जश्त्वेन दः । अचकाः । अचकात् । <<1075>> शासु अनुशिष्टौ । शास्ति ॥
  • (2486) शास इदङ्हलोः <6-4-34>
शास उपधाया इत्स्यादङि हलादौ क्ङिति च । शासिवसि-(सू2410) इति षः । शिष्टः । शासति । शशासतुः । शास्तु-शिष्टात् । शिष्टाम् । शासतुः ॥
शास्तेः शादेशः स्याद्धौ परे । तस्याभीयत्वेनासिद्धत्वाद्धेर्धिः । शाधि । अशात् । अशिष्टाम् । अशासुः । अशाः । अशात् । शिष्यात् । सर्तिशास्ति-(सू2382) इत्यङ् । अशिषत् । अशासिष्यत् ॥
<<1076>> दीधीङ् दीप्तिदेवनयोः । एतदादयः पञ्चधातवश्छान्दसाः दीधीते । एरनेकाचः-(सू272) इति यण् । दीध्याते ॥
  • (2488) यीवर्णयोर्दीधीवेव्योः <7-4-53>
एतयोरन्त्यस्य लोपः स्याद्यकार इवर्णे च परे । इति लोपं बाधित्वा नित्यात्वाट्टेरेत्वम् । दीध्ये । दीधीवैवीटाम् (सू2190) इति गुणनिषेधः । दीध्यांचक्रे । दीधिता । दीधिष्यते । <<1077>> वेवीङ् वेतिना तुल्ये । वीगतीत्यनेन तुल्येऽर्थे वर्तत इत्यर्थः ॥
अथ त्रयः परस्मैपदिनः ॥ <<1078>> षस <<1079>> सस्ति स्वप्ने । सस्ति । सस्तः । ससन्ति । ससास । सेसतुः । सस्तु । सधि । पूर्वत्रासिद्धम् (सू12) इति सलेपस्यासिद्धत्वात् अतो हेः (सू2202) इति लुक् न । असत् । असस्ताम् । असः । असत् । सस्यात् । असासीत् । अससीत् । सन्ति । इदित्वान्नुमि कृते संस्तः इति स्थिते स्कोः-(सू380) इति सलोपे झरो झरि सवर्णे (सू71) इति तकारस्य वा लोपः । सन्तः । संस्तन्ति । बहूनां समवाये द्वयोः संयोगसंज्ञा नेत्याश्रित्य स्कोः-(सू380) इति लोपाभावात् । संस्ति । संस्तः इत्येके । <<1080>> वश कान्तौ । कान्तिरिच्छा । वष्टि । उष्टः । उशन्ति । वक्षि । उष्टः । उवाश । ऊशतुः । वशिता । वष्टु । उष्टात् । उड्ढि । अवट् । अवड् । औष्टाम् । औशन् । अवशम् । उश्याताम् । उश्यास्ताम् । ?? अवाशीत् । अवशीत् ॥ <<1081>> (ग) चर्करीतं च ॥ यङ्लुगन्तमदादौ बोध्यम् ॥ <<1082>> ह्नुङ् अपनयने । ह्नुते । जुह्नुवे । ह्नुवीत । ह्नोषीष्ट । अह्नोष्ट । इत्यदादयः ॥
इति तिङन्तादादिप्रकरणम्‌

तिङन्तजुहोत्यादिप्रकरणम्‌

सम्पाद्यताम्
<<1083>> हु दानादनयोः । आदाने चेत्येके । प्रीणनेऽपीति भाष्यम् । दानं चेह प्रक्षेपः । स च वैधे आधारे हविषश्चेति स्वभावाल्लभ्यते । इतश्चत्वारः परस्मैपदिनः ॥
  • (2489) जुहोत्यादिभ्यः श्लुः <2-4-75>
शपः श्लुः स्यात् ॥
धातोर्द्वे स्तः । जुहोति । जुहुतः । अदभ्यस्तात् 2479 इत्यत् । हुश्नुवोः - 2387 इति यण् । जुह्वति ॥
  • (2491) भीह्रीभृहुवां श्लुवच्च <3-1-39>
एभ्योलिट्याम्वा स्यादामि श्लाविव कार्यं च । जुहवांचकार । जुहाव । होता । होष्यति । जुहोतु । जुहुतात् । हेर्धिः । जुहुधि । आटि परत्वाद्गुणः । जुहवानि । परत्वात् जुसि च 2481 इति गुणः । अजुहवुः । जुहुयात् । हूयात् । अहौषीत् । <<1084>> ञिभी भये । बिभेति ॥
  • (2492) भियोऽन्यतरस्याम् <6-4-115>
इकारः स्याद्धलादौ क्ङिति सार्वधातुके । बिभितः । बिभीतः । बिभ्यति । बिभयांचकार । बिभाय । भेता । <<1085>> ह्री लज्जायाम् । जिह्रेति । जिह्रीतः । जिह्रियति । जिह्रयांचकार । जिह्राय । <<1086>> पॄ पालनपूरणयोः ॥
  • (2493) अर्तिपिपर्त्योश्च <7-4-77>
अभ्यासस्य इकारोऽन्तादेशः स्यात् श्लौ ॥
  • (2494) उदोष्ठयपूर्वस्य <7-1-102>
अङ्गावयवौष्ठ्यपूर्वो य ऋत्तदन्तस्याङ्गस्य उत्स्यात् । गुणवृद्धी परत्वादिमं बाधेते । पिपर्ति । उत्वम् । रपरत्वम् । हलि च 354 इति दीर्घः । पिपूर्तः । पिपुरति । पपार । किति लिटि ॠच्छात्यॄताम् 2383ल इति गुणे प्राप्ते ॥
  • (2495) शॄदॄप्रां ह्रस्वां वा <7-4-12>
एषां किति लिटि ह्रस्वो वा स्यात् । पक्षे गुणः । पप्रतुः । पप्रुः । पपरतुः । पपरुः । परिता । परीता । अपिपः । अपिपूर्ताम् । अपिपरूः । पिपूर्यात् । पूर्यात् । अपारीत् । अपारिष्टाम् । ह्रस्वान्तोऽयमिति केचित् । पिपर्ति । पिपृतः । पिप्रति । पिपृयात् । आशिषि प्रियात् । अपार्षीत् । पाणिनीयमते तु तं रोदसी पिपृतमित्यादौ छान्दसत्त्वं शरणम् । <<1087>> डुभृञ् धारणपोषणयोः ॥
  • (2496) भृञामित् <7-4-76>
भृञ् माङ् ओहाङ् एषां त्रयाणामभ्यासस्य इत्स्यात् श्लौ । बिभर्ति । बिभृतः । बिभ्रति । बिभृध्वे । श्लुवद्भावाद् द्वित्वेत्वे । बिभरामास बभार । बभर्थ । बभृव । बिभृहि । बिभराणि । अबिभः । अबिभृताम् । अबिभरुः । बिभृयात् । भ्रियात् । भृषीष्ट । अभार्षीत् । अभृत । <<1088>> माङ् माने शब्दे च ॥
श्नाभ्यस्तयोरातःथ्द्यर्;त्स्यात्सार्वधातुके क्ङिति हलि न तु घुसंज्ञकस्य । मिमीते । श्नाभ्यस्तयोः---2483 इत्यालोपः । मिमाते । मिमते । प्रण्यमास्त । <<1089>> ओहाङ् गतौ । जिहीते । जिहाते । जिहते । जहे । हाता । हास्यते । <<1090>> ओहाक् त्यागे । परस्मैपदी । जहाति ॥
इत्स्याद्वा हलादौ क्ङिति सार्वधातुके । पक्षे ईत्वम् । जहितः । जहीतः । जहति । जहौ ॥
जहातैर्हौ परे आ स्यात् चादिदीतौ । जहाहि । जहिहि । जहीहि । अजहात् । अजहुः ॥
जहातेरालोपः स्याद्यादौ सार्वधातुके । जह्यात् । एर्लिङि 2374 । हेयात् । अहासीत् । <<1091>> डुदाञ् दाने । प्रणिददाति । दत्तः । ददति । दत्ते । ददौ । घ्वसोः--2471 इत्येत्वाभ्यासलोपौ । देहि । अददात् । अदत्ताम् ।

अददुः । दद्यात् । देयात् । अदात् । अदाताम् । अदुः । अदित । <<1092>> डुधाञ् धारणपोषणयोः । दानेऽप्येके । प्रणिदधाति ॥

  • (2501) दधस्तथोश्च <8-2-38>
द्विरुक्तस्य झषन्तस्य धाञो बशो भष् स्यात्तथयोः स्ध्वोश्च परतः । वचनसामर्थ्यादालोपो न स्थानिवदिति वामनमाधवौ । वस्तुतस्तु पूर्वत्रासिद्धीये न स्थानिवत् । धत्तः । दधति । धत्थः । दध्वः । धत्ते । धत्से । धद्ध्वे । धेहि । अधित ॥
अथ त्रयः स्वरितेतः ॥ <<1093>> णिजिर् शौचपोषणयोः ॥
  • (2502) निजां त्रयाणां गुणः श्लौ <7-4-75>
णिज्विज्विषामभ्यासस्य गुणः स्यात श्लौ । नेनेक्ति । नेनिक्तः । नेनिजति । निनेज । नेक्ता । नेक्ष्यति । नेनेक्तु । नेनिग्ध ॥
  • (2503) नाभ्यस्तस्याचि पिति सार्वधातुके <7-3-87>
लघूपधगुणो न स्यात । नेनिजानि । अनेनेक् । अनेनिक्ताम् । अनेनिजुः । नेनिज्यात् । निज्यात् । अनिजत् । अनैक्षीत् । अनिक्त । <<1094>> विजिर् पृथग्भावे । वेवेक्ति । वेविक्ते । विवेजिथ । अत्र विज इट् 2536 इति ङित्वं न । ओविजी इत्यस्यै तत्र ग्रहणात् । णिजिविजी रुधादावपि । <<1095>> विष्लृ व्याप्तौ । वेवेष्टि । वेविष्टे । लृदित्त्वादङ् । अविषत् । तङि क्सः । अजादौ क्सस्याचि 2337 इति अल्लोपः । अविक्षत । अविक्षाताम् । अविक्षन्त ॥
अथ आगणान्ताः परस्मैपदिनश्छान्दसाश्च ॥ <<1096>> घृ क्षरणदीप्त्योः । जिघर्म्यग्रिं हविषा घृतेन । भृञामित् 2496, बहुलं छन्दसि 3598 इति इत्वम् । <<1097>> हृ प्रसह्यकरणे । अयं स्रुवो अभिजिहर्ति होमान् । <<1098>> ऋ <<1099>> सृ गतौ । बहुलं छन्दसि 3598 इत्येव सिद्धे अर्तिपिपर्त्योश्च 2493 इतीत्वविधानादयं भाषायामपि । अभ्यासस्यासवर्णे 2290 इतीयङ् । इयर्ति । इयृतः । इय्रति । आर । आरतुः । इडत्त्यर्ति--2384 इति नित्यमिट् । आरिथ । अर्ता । अरिष्यति । इयराणि । ऐयः । ऐयृताम् । ऐयरुः । इयृयात् । अर्यात् । आरत् । ससर्ति । <<1100>> भस भर्त्सनदीप्त्योः । बभस्ति । घसिभसोर्हलिच 3550 इत्युपधालोपः । झलो झलि 2281 इति सलोपः । बब्धः । बप्सति । <<1101>> कि ज्ञाने । चिकेति । <<1102>> तुर त्वरणे । तुतोर्ति । तुतूर्तः । तुतुरति । <<1103>> धिष शब्दे । दिधेष्टि । दिधिष्टः । <<1104>> धन धान्ये । दधन्ति । दधन्तः । दधनति । <<1105>> जन जनने । जजन्ति ॥
  • (2504) जनसनखनां सन्झलोः <6-4-42>
एषामाकारोऽन्तादेशः स्याज्झलादौ सनि झलादौ क्ङिति च । जजातः । जज्ञति । जजंसि । जजान । जजन्यात् । जजायात् । जन्यात् । जायात् । <<1106>> गा स्तुतौ । देवाञ्जिगाति सुम्नयुः । जिगीतः । जिगति ॥
इति तिङन्तजुहोत्यादिप्रकरणम्‌

तिङन्तदिवादिप्रकरणम्‌

सम्पाद्यताम्
<<1107>> दिवु क्रिडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु । झृषन्ताः परस्मैपदिनः ॥
  • (2505) दीवादिभ्यः श्यन् <3-1-69>
शपोऽपवादः । हलि च 354 इति दीर्घः । दीव्यति । दिदेव । देविता । देविष्यन्ति । दीव्यतु । अदीव्यत् । दीव्येत् । दीव्यात् । अदेवीत् । अदेविष्यत् । <<1108>> षिवु तन्तुसन्ताने । परिषीव्यति । परिषिषेव । न्यपेवीत् । न्यसेवीत् । <<1109>> स्रिवु गतिशोषणयोः । <<1110>> ष्ठुवु निरसने । केचिदिहेमं न पठन्ति । <<1111>> ष्णुसु अदने । आदान इत्येके । अदर्शन इत्यपरे । स्नुस्यति । सुष्णोस । <<1112>> ष्णसु निरसने । स्नस्यति । सस्नाम । <<1113>> क्नसु ह्वरणदीप्त्योः । ह्वरणं कौटिल्यम् । चक्नास । <<1114>> व्युष दाहे । वुव्योष । <<1115>> प्लुष च <<1116>> नृती गात्रविक्षेपे । नृत्यति । ननर्त ॥
  • (2506) सेऽसिचि कृतचृतछृदतृदनृतः <7-2-57>
एभ्यः परस्य सिज्भिन्नस्य सादेरार्धधातुकस्येड्वा स्यात् । नर्तिष्यति । नर्त्स्यति । नृत्येत् । नृत्यात् । अनर्तीत् । <<1117>> त्रसी उद्वेगे । वा भ्राश--2321 इति श्यन्वा । त्रस्यति । त्रसति । त्रेसतुः । तत्रसतुः । <<1118>> कुथ पूतीभावे । पूतीभावो दौर्गन्ध्यम् । <<1119>> पुथ हिंसायाम् । <<1120>> गुध परिवेष्टने । <<1121>> क्षिप प्रेरणे । क्षिप्यति । क्षेप्ता । <<1122>> पुष्प विकसने । पुष्प्यति । पुपुष्प । <<1123>> तिम् <<1124>> ष्टिम । <<1125>> ष्टीम आर्द्रीभावे । तिम्यति । स्तिम्यति । स्तीम्यति । <<1126>> व्रीड चोदने लज्जायां च । व्रीड्यति । <<1127>> इष गतौ । इष्यति । <<1128>> षह <<1129>> षुह चक्यर्थे । चक्यर्थस्तृप्तिः । सह्यति । सुह्यति । <<1130>> जॄष् <<1131>> झॄष् वयोहानौ । जीर्यति । जजरतुः । जेरतुः । जरिता । जरीता । जीर्येत । जीर्यात् । जॄस्तम्भु---2291 इत्यङ्वा । ऋदृशोङि गुणः 2406 । अजरत् । अजारिष्टाम् । झीर्यति । जझरतुः । अझारीत् । <<1132>> षूङ् प्राणिप्रसवे । सूयते । सुषुवे । स्वरितिसूति---2279 इति विकल्पं बाधित्वा श्र्युकः किति 2381 इति निषेधे प्राप्ते । क्रादिनियमान्नित्यमिट् । सुषुविषे । सुषुविवहे । सोता । सविता । <<1133>> दूङ् परितापे । दूयते । <<1134>> दीङ् क्षये । दीयते ॥
  • (2507) दीङो युडचि क्ङिति <6-4-63>
दीङः परस्याजादेः क्ङित आर्धधातुकस्य युट् स्यात् ॥ । वुग्युटावुवङ्यणोः सिद्धौ वक्तव्यौ ॥ दिदीये ॥
  • (2508) मीनातिमिनोतिदीङां ल्यपि च <6-1-50>
एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः । <<1135>> डीङ् विहायसा गतौ । डीयते । डिड्ये । <<1136>> धीङ् आधारे । धीयते । दिध्ये । धेता । <<1137>> मीङ् हिंसायाम् । हिंसात्र प्राणवियोगः । मीयते । <<1138>> रीङ् श्रवणे । रीयते । <<1139>> लीङ् श्लेषणे ॥
  • (2509) विभाषा लीयतेः <6-1-51>
लीयतेरिति यका निर्देशो न तु श्यना ॥ लीलीङोरात्वं वा स्यादेज्विषये ल्यपि च । लेता । लाता । लेष्यते । लास्येत । एज्विषये किम् । लीयते । लिल्ये । <<1140>> व्रीङ् वृणोत्यर्थे । व्रीयते । विव्रिये । (ग) स्वादय ओदितः । तत्फलं तु निष्टानत्वम् । <<1141>> पीङ् पाने । पीयते । <<1142>> माङ् माने । मायते । ममे । <<1143>> ईङ् गतौ । ईयते । अयांचक्रे । <<1144>> प्रीङ् प्रीतौ । सकर्मकः । प्रीयते । पिप्रिये ॥
अथ परस्मैपदिनश्चत्वारः । <<1145>> शो तनूकरणे ॥
  • (2510) ओतः श्यनि <7-3-71>
लोपः स्यात् । श्यनि । श्यति । श्यतः । श्यन्ति । शशौ । शशतुः । शाता । शास्यति । विभाषा घ्राधेट्--2376 इतीट्सकौ । अशात् । अशाताम् । अशुः । अशासीत् । अशासिष्टाम् । <<1146>> छो छदने । छयति । <<1147>> षोऽन्तकर्मणि । स्यति । ससौ । अभिष्यति । अभ्यष्यत् । अभिससौ । <<1148>> दो अवखण्डने । द्यति । ददौ । प्रणिदाता । देयात् । अदात् ॥
अथात्मनेपदिनः पञ्चदश ॥ <<1149>> जनीप्रदुर्भावे ॥
  • (2511) ज्ञाजनोर्जा <7-3-79>
अनयोर्जादेशः स्याच्छिति । जायते । जज्ञे । जज्ञाते । जज्ञिरे । जनिता । जनिष्यते । दीपजन--2328 इति वा चिण् ।
  • (2512) जनिवध्योश्च <7-3-35>
अनयोरुपधायावृद्धिर्न स्याच्चिणि ञ्णिति कृति च । अजनि । अजनिष्ठ । <<1150>> दीपी दीप्तौ । दीप्यते । दिदीपे । अदीपि । अदीपिष्ट । <<1151>> पूरी आप्यायने । पूर्यते । अपूरि । अपूरिष्ट । <<1152>> तूरी गतित्वरणहिंसनयोः । तूर्यते । <<1153>> धूरी <<1154>> गूरी हिंसागत्योः । धूर्यते । दुधूरे । गूर्यते । जुगूरे । <<1155>> घूरी <<1156>> जूरी हिंसावयोहान्योः । <<1157>> शूरी हिंसास्तम्भनयोः । <<1158>> चूरी दाहे । <<1159>> तप ऐश्वर्ये वा । अयं धातुरैश्वर्ये वा तङ्श्यनौ लभते । अन्यदा तु शब्विकरणः परस्मैपदीत्यर्थः । केचित्तु वाग्रहणं वृतुधारोराद्यवयवमिच्छन्ति । तप्यते । तप्ता । तप्स्यते । पतेति व्यत्यासेन पाठान्तरम् । द्युतद्यामा नियुतः पत्यमानः । <<1160>> वृतु वरणे । वृत्यते । पक्षान्तरे वावृत्यते । ततो वावृत्यमाना सा रामशालां न्यविक्षतेति भट्टिः । <<1161>> क्लिश उपतापे । क्लिश्यते । क्लिशिता । <<1162>> काशृ दीप्तौ । काश्यते । <<1163>> वाशृ शब्दे । वाश्यते । ववाशे ॥
अथ पञ्च स्वरितेतः । <<1164>> मृष तितिक्षायाम् । मृष्यति । मृष्यते । ममर्ष । ममृषे । <<1165>> ई शूचिर् पूतीभावे । पूतीभावः क्लेदः । शुच्यति । शुच्यते । शुशोच । शुशुचे । अशुचत् । अशोचीत् । अशोचिष्ट । <<1166>> णह बन्धने । नह्यति । नह्यति । ननाह । ननद्ध । नेहिथ । नेहे । नद्धा । नत्स्यति । अनात्सीत् । <<1167>> रञ्ज रागे । रज्यति । रज्यते । <<1168>> शप आक्रोशे । शप्यति । श्प्यते ॥
अथैकादशानुदात्तेताः ॥ <<1169>> पद गतौ । पद्यते । पेदे । पत्ता । पद्येत । पत्सीष्ट ॥
  • (2513) चिण्ते पदः <3-1-60>
पदश्च्लेश्चिण्स्यात्तशब्द परे । प्रणयपादि । अपत्साताम् । अपत्सत् । <<1170>> खिद दैन्ये । खिद्यते । चिखिदे । खेत्ता । अखित्त । <<1171>> विद् सत्तायाम् । विद्यते । वेत्ता । <<1172>> बुध अवगमने । बुध्यते । बुबुधे । बोद्धा । भोत्स्यते । भुत्सीष्ट । अबोधि । अबुद्ध । अभुत्साताम् । <<1173>> युध संप्रहारे । युध्यते । युयुधे । योद्धा । अयुद्ध । कथं युध्यतीति । युधमिच्छतीति क्यच् ॥ (प) अनुदात्तेत्त्वलक्षणमात्मनेपदमनित्यमिति वा । <<1174>> अनो रुध कामे । अनुरुध्यते । <<1175>> अण प्राणने । अण्यते । आणे । अणिता । अनेति दन्त्यान्तोऽमित्येके । <<1176>> मन ज्ञाने । मन्यते । मेने । मन्ता । <<1177>> युज समाधौ । समाधिश्चित्तवृत्तिनिरोधः । अकर्मकः । युज्यते । योक्ता । <<1178>> सृज विसर्गे । अकर्मकः । संसृज्यते सरसिजैररुणांशुभिन्नैः । ससृजिषे । स्रष्टा । स्रक्ष्यते । लिङसिचौ--2300 इति कित्त्वान्नगुणोनाप्यम् । सृक्षीष्ट । असृष्ट । असृक्षाताम् । <<1179>> लिश अल्पीभावे । लिश्यते । लेष्टा । लेक्ष्यते । लिक्षीष्ट । अलिक्षत । अलिक्षाताम् ॥
अथागणान्ताः परस्मैपदिनः ॥ <<1180>> राधोऽकर्मकाद्वृद्धावेव । एवकारो भिन्नक्रमः । राधौऽकर्मकादेवश्यन् । उदाहरणमाह वृद्धाविति । यन्मह्यमपराध्यति । द्रिह्यतीत्यर्थः । विराध्यन्तं क्षमेत कः । कृष्णाय राध्यति । दैवं पर्यालोचयतीत्यर्थः । दैवस्य धात्वर्थेऽन्तर्भावाज्जीवत्यादिवदकर्मकत्वम् । रराध । रराधतुः । रराधिथ । राधो हिंसायाम् 2532 इत्येत्वाभ्यासलोपाविह न । हिंसार्थस्य सकर्मकतया दैवादिकत्वायोगात् । राद्धा । रात्स्यति । अयं स्वादिश्चुरादिश्च । <<1181>> व्यध ताडने । ग्रहिज्या 2412 इति संप्रसारणम् । विध्यति । विव्याध । विविधतुः । विव्यद्ध । विव्यधिथ । व्यद्धा । व्यत्स्यति । विध्येत् । विध्यात् । अव्यात्सीत् । <<1182>> पुष पुष्टौ । पुष्यति । पपोष । पुपोषिथ । पोष्टा । पोक्ष्यति । पुषादि 2343 इत्यङ् । अपुषत् । <<1183>> शुष शोषणे । अशुषत् । <<1184>> तुष प्रीतौ । <<1185>> दुष वैकृत्ये । <<1186>> श्लिष आलिङ्गने । श्लिष्यति । शिश्लेष । श्लेष्टा । श्लेक्ष्यति ॥
  • (2514) श्लिषः आलिङ्गने <3-1-46>
(श्लिषः)स्मात्परस्यानिटश्च्लेः क्सः स्यात् । पुषाद्यङोऽपवादो न तु चिणः । पुरस्तादपवादन्यायात् ॥

(आलिङ्गने) श्लिषश्च्लेरालिङ्गन एव क्सो नान्यत्र । योगविभागसामर्थ्याच्छल इगुपधादित्यस्याप्ययं नियमः । अश्लिक्षत्कन्यां देवदत्तः । आलिङ्गन एवेति किम् । समश्लिषज्जतु काष्ठम् । अङ् । प्रत्यासत्ताविह श्लिषिः । कर्मणि अनालिङ्गने सिजेव न तु क्सः । एकवचने चिण् । अश्लेषि । अश्लिक्षाताम् । अश्लिक्षत । अश्लिष्ठाः । अश्लिढ्वम् । <<1187>> शक विभाषितो मर्षणे । विभाषित इत्युभयपदीत्यर्थः । शक्यति । शक्यते हरिं द्रष्टुं भक्तः । शशाक । शेकिथ । शशक्थ । शेके । शक्ता । शक्ष्यति । शक्ष्यते । अशकत् । अशक्त । सेट्कोऽयमित्येके । तन्मतेनानिट्कारिकासु लृदित्पठितः । शकिता । शकिष्यति । <<1188>> ष्विदा गात्रप्रक्षरणे । घर्मस्रुतावित्यर्थः । अयं ञीदिति न्यासकारादयः । नेति हरदत्तादयः । स्विद्यति । सिष्वेद । सिष्वेदिथ । स्वेत्ता । अस्विदत् । <<1189>> क्रुध क्रोधे । क्रोद्धा । क्रोत्स्यति । <<1190>> क्षुध बुभुक्षायाम् । क्षोद्धा । कथं क्षुधित्त इति । संपदादिक्विबन्तात्तारकादित्वादितजिति माधवः । वस्तुतस्तु वसतिक्षुधोः--- 3046 इतीट् वक्ष्यते । <<1191>> शुध शौचे । शुध्यति । शुशोध । शोद्धा । <<1192>> षिधु संराद्धौ । ऊदित्पाठः । प्रामादिकः । सिध्यति । सेद्धा । सेत्स्यति । असिधत् । <<1193>> रध हिंसासंराद्ध्योः । संरीद्धिर्निष्पत्तिः । रध्यति । रधिजभोरचि 2302 इति नुम् । ररन्धतुः ॥

  • (2515) रधादिभ्यश्च <7-2-45>
रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ-ररद्ध । ररन्धिव-रेध्व ॥
  • (2516) नेट्यालिटि रधेः <7-1-62>
निड्वर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदिताम्--415 इति नलोपः । अरधत् । <<1194>> णश अदर्शने । नश्यति । ननाश । नेशतुः । नेशिथ ॥
  • (2517) मस्जिनशोर्झलि <7-1-60>
नुम् स्यात् । ननष्ट । नेशिव । नेश्व । नेशिम । नेश्म । नशिता । नंष्टा । नशिष्यति । नङ्क्ष्यति । नश्येत् । नश्यात् । अनशत् । प्रणश्यति ॥
  • (2518) नशेः षान्तस्य <8-4-36>
णत्वं न स्यात् । प्रणंष्टा । अन्तग्रहणं भूतपूर्वप्रतिपत्त्यर्थम् । प्रनङ्क्ष्यति । नशिष्यति । <<1195>> तृप प्रीणने । प्रीणनं तृप्तिस्तर्पणा च । नाग्निस्तृप्यति काष्ठानाम् । पितॄनतार्प्सीदिति भट्टिः । इत्युभयत्र दर्शनात् । ततर्पिथ । तत्रप्थ । ततर्प्थ । तर्पिता । तर्प्ता । त्रप्ता ॥ स्पृशमृशकृषेति सिज्वा । अतार्प्सीत् । अत्राप्सीत् । अतर्पीत् । अतृपत् । <<1196>> दृप हर्षमोहनयोः । मोहनं गर्वः । दृष्यतीत्यादि । रधादित्वादिमौ वेट्कावमर्थमनुदात्तता । <<1197>> द्रुह जिघांसायाम् । वा द्रुहमुह---327 इति वा घः । पक्षे ढः । दुद्रोग्ध । दुद्रोढ । दुद्रोहिथ । द्रोहिता । द्रोग्धा । द्रोढा । द्रोहिष्यति । ध्रोक्ष्यति । ढत्वघत्वयोस्तुल्यं रूपम् । अद्रुहत् । <<1198>> मुह वैचित्ये । वेचित्यमविवेकः । मुह्यति । मुमोहिथ । मुमोग्ध । मुमोढ । मोग्धा । मोढा । मोहिता । मोहिष्यति । मोक्ष्यति । अमुहत् । <<1199>> ष्णुह उद्गिरणे । स्नुह्यति । सुष्णोह । सुष्णोहिथ । सुष्णोग्ध । सुष्णोढ । सुष्णुहिव । सुष्णुह्व । स्नोहिता । स्नोग्धा । स्नोढा । स्नोहिष्यति । स्नोक्ष्यति । अस्नुहत् । <<1200>> ष्णिह प्रीतौ । स्निह्यति । सिष्णेह । वृत् । रधादयः समाप्ताः । पुषादधस्तु आ गणान्तादिति सिद्धान्तः । <<1201>> शमु उपशमे ॥
  • (2519) शमामष्टानां दीर्घः श्यनि <7-3-74>
शमादीनामित्यर्थः । प्रणिशाम्यति । शेमतुः । शेमिथ । शमिता । अशमत् । <<1202>> तमु काङ्क्षायाम् । ताम्यति । तमिता । अतमत् । <<1203>> दमु उपशमे । उपशम इति ण्यन्तस्य । तेन सकर्मकोऽयम्‌ । न तु शमिवदकर्मकः । अदमत्‌ । <<1204>> श्रमु तपसि खेदे च । श्राम्यति । अश्रमत् । <<1205>> भ्रमु अनवस्थाने । वा भ्राश--2321 इति श्यन्वा । तत्र कृते शमामष्टानाम्--2519 इति दीर्घः । भ्राम्यति । लुङ्यङ् । अभ्रमत् । शेषं भ्वादिवत् । <<1206>> क्षमू सहने । क्षाम्यति । चक्षमिथ । चक्षन्थ । चक्षमिव । चक्षण्व । चक्षमिम । चक्षण्म । क्षमिता । क्षन्ता । अयमवित् । भ्वादिस्तु षित् । अषितः क्षाम्यति क्षान्तिः क्षमूषः क्षमते क्षमा । <<1207>> किमु ग्लानौ । क्लाम्यति । क्लामति । शपीव श्यन्यपि ष्ठिवुक्लमु---2320 इत्येव दीर्घे सिद्धे शमादिपाठो घिनुणर्थः । अङ् । अक्लमत् । <<1208>> मदी हर्षे । माद्यति । अमदत् । शमादयोऽष्टौ गताः ॥
<<1210>> असु क्षेपणे । अस्यति । आस । असिता ॥
  • (2520) अस्यतेस्थुक् <7-4-17>
अहि परे । आस्थत् । अस्य पुषादित्वादङि सिद्धे अस्यतिवक्ति--2438 इति वचनं तङर्थम् । तङ् तु

उपसर्गादस्यत्यूह्योरिति वक्ष्यते । पर्यास्थत । <<1211>> यसु प्रयत्ने ॥

  • (2521) यसोऽनुपसर्गात् <3-1-71>
श्यन्वा स्यात् । यस्यति । यसति । संयस्यति । संयसति । अनुपसर्गात्किम् । प्रयस्यति । <<1212>> जसु मोक्षणे । जस्यति । <<1213>> तसु उपक्षये । <<1214>> दसु च । तस्यति । अतसत् । दस्यति । अदसत् । <<1215>> वसु स्तम्भे । वस्यति । ववास । ववसतुः । न शसदद--2263 इति निषेधः । बशादिरयमिति मते तु । बेसतुः । बेसुः । <<1216>> व्युष विभागे । अयं दाहे पठितः । अर्थभैदेन त्वङ्र्थं पुनः पठ्यते । अव्युषत् । ओष्ठ्यादिर्दन्त्यान्तोऽयं प्युस इत्यन्ये । अपकारो युस इत्यपरे । <<1217>> प्लुष दाहे । अप्लुषत् । पूर्वत्र पाठः सिजर्थ इत्याहुः । तद् भ्वादिपाठेन गतार्थमिति सुवचम् । <<1218>> बिस प्रेरणे । बिस्यति । अबिसत् । <<1219>> कुस संश्लेषणे । अकुसत् । <<1220>> बुस उत्सर्गे <<1221>> मुस खण्डने । <<1222>> मसी परिणामे । परिणामे विकारः । समी इत्येके । <<1223>> लुठ विलोडने । <<1224>> उच समवाये । रउच्यति । उवोच । ऊचतुः । मा भवानुचत् । <<1225>> भृशु <<1226>> भ्रंशु अधः पतने । बभर्श । अभृशत् । अनिदिताम्--415 इति नलोपः । भ्रश्यति । अभ्रशत् । <<1227>> वृश वरणे । वृश्यति । अवृशत् । <<1228>> कृश तनूकरणे । कृश्यति । <<1229>> ञितृषा पिपासायाम् । <<1230>> हृष तृष्टौ । श्यन्नङौ भौवादिकाद्विसेषः । <<1231>> रुष <<1232>> रिष हिंसायाम् । तीषसह--2340 इति वेट् । रोषिता । रोष्टा । रेषिता । रेष्टा । <<1233>> डिप क्षेपे । <<1234>> कुप ग्रोदे । <<1235>> गुप व्याकुलत्वे । <<1236>> युप <<1237>> रुप <<1238>> लुप विमोहने । युप्यति । रुप्यति । लुप्यति । लोपिता । लुप्यतिः । सेट्कः । अनिट्कारिकासु लिपिसाहचर्यात्तौदादिकस्यैव ग्रहणात् । <<1239>> लुभ गार्ध्ये । गार्ध्यमाकाङ्क्षा । तीषसह--2340 इति वेट् । लोभिता । लोब्धा । लोभिष्यति । लुभ्येत् । लुभ्यात् । अलुभत् ॥ भ्वादेरवृक्तृतत्वाल्लोभतीत्यपीत्याहुः । <<1240>> क्षुभ संचलने । क्षुभ्यति । <<1241>> णभ <<1242>> तुभ हिंसायाम् । क्षुभिनभितुभयो द्युतादौ क्र्यादौ च पठ्यन्ते । तेषां द्युतादित्वादङ् सिद्धः । क्त्यादित्वात्पक्षे सिज्भवत्येव । इह पाठस्तु श्यनर्थः । <<1243>> क्लिदू आर्द्रीभावे । क्लिद्यति । चिक्लेदिथ । चिक्लेत्थ । चिक्लिदिव । चिक्लिद्व । चिक्लिदिम । चिक्लिद्म । क्लेदिता । क्लेत्ता । <<1244>> ञिमिदा स्नेहने । मिदेर्गुणः 2346 । मेद्यति । अमिदत् । द्युतादिपाठादेवामिदत् अमेदिष्टेति सिद्धे इह पाठोऽमेदीदिति माभूदिति । द्युतादिभ्यो बहिरेवात्मनेपदिषु पाठस्तूचितः । <<1245>> ञिक्ष्विदा स्नेहनमोचनयोः । <<1246>> ऋधु वृद्धौ । आनर्ध । आर्धत् । <<1247>> गृधु अभिकाङ्क्षायाम् । अगृधत् । वृत् । पुषादयो दिवादयश्च वृत्ताः । केचित्तु पुषादिसमाप्त्यर्थमेव वृत्करणम् ॥ दिवादिस्तु भ्वादिवदाकृतगणः । तेन क्षीयते । मृग्यतीत्यादिसिद्धिरित्याहुः ॥ इति दिवादयः ॥
इति तिङन्तदिवादिप्रकरणम्‌

तिङन्तस्वादिप्रकरणम्‌

सम्पाद्यताम्
<<1248>> षुञ् अङिषवे । अभिषवः स्नपनं पीडनं स्नानं सुरासंधानं च । तत्र स्नानेऽकर्मकः ॥
  • (2523) स्वादिभ्यः श्नुः <3-1-73>
सुनोति । सुनुतः । हुश्नुवोः - 2387 इति यण् । सुन्वन्ति । सुन्वः । सुनुवः । सुन्वहे । सुनुवहे । सुषाव । सुषुवे । सोता । सुनु । सुनवानि । सुनवै । सुनुयात् । सूयात् । स्तुसुधूञ्भ्यः---2385 इतीट् । असावीत् । असोष्ट । अभिषुणोति । अभ्यषुणोत् । अभिसुषाव ॥
  • (2524) सुनोतेः स्यसनोः <8-3-117>
स्ये सनि च परे सुञः षो न स्यात् । विसोष्यति । <<1249>> षिञ् बन्धने । सिनोति । विसिनोति । सिषाय । सिष्ये । <<1250>> शिञ् निशाने । तालव्यादिः । शेता । <<1251>> डुमिञ् प्रक्षेपणे । मीनातिमिनोति-- 2508 इत्यात्वम् । ममौ । ममिथ । ममाथ । मिम्ये । माता । मीयात् । मासीष्ट । अमासीत् । अमासिष्टाम् । अमास्त । <<1252>> चिञ् चयने । प्रणिचिनोति ॥
  • (2525) विभाषा चेः <7-3-58>
अभ्यासात्परस्य चिञः कुत्वं वा स्यात्सनि लिटि च । प्रणिचिकाय । चिचाय । चिक्ये । चिच्ये । अचैषीत् । अचेष्ट । <<1253>> स्तृञ् आच्छादने । स्तृणोति । स्तृणुते । गुणोर्ति---2380 इति गुणः । स्तर्यात् ॥
  • (2526) ऋतश्च संयोगादेः <7-2-43>
ऋदन्तात्संयोगादेः परयोर्लुङ्सिचोरिड्वा स्यात्तङि । स्तरिषीष्ट । स्तृषीष्ट । अस्तरिष्ट । अस्तृत । <<1254>> कृञ् हिंसायाम् । कृणोति । कृणुते । चकार । चकर्थ । चक्रे । क्रियात् । कृषीष्ट । अकार्षीत् । अकृत । <<1255>> वृञ् वरणे ॥
  • (2527) बभूथाततन्थजगृभ्मववर्थेति निगमे <7-2-64>
एषां वेदे इडभावो निपात्यते । तेन भाषायां थलीट् । ववरिथ । ववृव । ववृवहे । वरिता ॥
  • (2528) लिङ्सिचोरात्मनेपदेषु <7-2-42>
वृङ्वृञ्भ्यामॄदन्ताच्च परयोर्लिङ्सिचोरिड्वा स्यात्तङि ॥
वॄतो लिङ इटो दीर्घो न स्यात् । वरिषीष्ट । वृषीष्ट । अवारीत् । अवरिष्ट । अवरीष्ट । अवृत । <<1256>> धुञ् कम्पने । धुनोति । धुनुते । अधौषीत् । अधोष्यत् । दीर्घान्तोऽप्ययम् । धूनोति । धूनुते । स्वरतिसूति--2279 इति वेट् । दुधविथ । दुधोथ । किति लिटि तु श्र्युकः --2389 इति निषेधं बाधित्वा क्रादिनियमान्नित्यमिट् । दुधुविव । स्तुसुधूञ्भ्यः---2385 इति नित्यमिट् । अधावीत् । अधविष्ट । अधोष्ट ॥
अथ परस्मैपदिनः ॥ <<1257>> टुदु उपतापे । दुनोति । <<1258>> हि गतौ वृद्धौ च ॥
  • (2530) हिनुमिना <8-4-15>
उपसर्गस्थान्निमित्तात्परस्य एतयोर्नस्य णः स्यात् । प्रहिणोति ॥
अभ्यासात्परस्य हिनोर्हस्य कुत्वं स्यान्न तु चङि । जिघाय । <<1259>> पृ प्रीतौ । पृणोति । पर्ता । <<1260>> स्पृ प्रीतिपालनयोः । प्रीतिचलनयोरित्यन्ये । चलनं जीवनमिति स्वामी । स्पृणोति । पस्पार । स्मृ इत्येके । स्मृणोति । पृणोत्यादयस्त्रयश्छान्दसा इत्याहुः । <<1261>> आप्लृ व्याप्तौ । आप्नोति । आप्नुतः । आप्नुवन्ति । आप्नुवः । आप । आप्ता । आप्नुहि । लृदित्त्वादङ् । आपत् । <<1262>> शक्लॄ शक्तौ । अशकत् । <<1263>> राध <<1264>> साध संसिद्धौ । राध्नोति ॥
  • (2532) राधो हिंसायाम् <6-4-123>
एत्वाभ्यासलोपौ स्तः किति लिटि सेटि थलि च । अपरेधतुः । रेधुः । रेधिथ । राद्धा । साध्नोति । साद्धा । असात्सीत् । असाद्धाम् ॥
अथ द्वावनुदात्तेतौ ॥ <<1265>> अशू व्याप्तौ संघाते च । अश्नुते ॥
  • (2533) अश्नोतेश्च <7-4-72>
दीर्घादभ्यासावर्णात्परस्य नुट् स्यात् । आनशे । अशिता । अष्टा । अशिष्यते । अक्ष्यते । अश्नुवीत । अक्षीष्ट । अशिषीष्ट । आशिष्ट । आष्ट । आक्षाताम् । <<1266>> ष्टिघ आस्कन्दने । स्तिघ्नुते । तिष्टिघे । स्तेघिता ॥
अथ आगणन्तात्परस्मैपदिनः ॥ <<1267>> तिक <<1268>> तिग गतौ च । चादास्कन्दने । तिक्नोति । तिग्नोति । <<1269>> षघ हिंसायाम् । सघ्नोति । <<1270>> ञिधृषा प्रागल्भ्ये । धृष्णोति । दधर्ष । धर्षिता । <<1271>> दम्भु दम्भने । दम्भनं दम्भः । दभ्नोति । ददम्भ । श्रन्थिग्रन्थिदम्भिस्वञ्जीनां लिटः कित्त्वं वेति व्याकरणान्तरमिहाप्याश्रीयत इत्युक्तम् । अनिदिताम्--415 इति नलोपः । तस्याभीयत्वेनासिद्धत्वादेत्वाभ्यासलोपयोरप्राप्तौ ॥ । दम्भेश्च ॥ एत्वाभ्यासलोपौ वक्तव्यौ ॥ देभतुः । ददम्भतुः । इदं कित्त्वं पिदपिद्विषयकमिति सुधाकरादयः । तन्मते तिप्सिप्मिप्सु । देभ । देभिथ । देभेति रूपान्तरं बोध्यम् । ददम्भ । ददम्भिथ । ददम्भेत्येव । दभ्यात् । <<1272>> ऋधु वृद्धौ । तृप प्रीणन इत्येके ॥ क्षुभ्रादित्वाण्णत्वं न । तृप्नोति । (ग) छन्दसि । आगणन्तादधिकारोऽयम् । <<1273>> अह व्याप्तौ । अह्नोति । <<1274>> दघ घातने पालने च । दघ्नोति । <<1275>> चमु भक्षणे । चम्नोति । <<1276>> रि <<1277>> क्षि <<1278>> चिरि <<1279>> जिरि <<1280>> दाश <<1281>> दृ हिंसायाम् । रिणोति । क्षिणोति । अयं भाषायामपीत्येके । नतद्यशः शस्त्रभृतां क्षिणोति । ऋक्षीत्येक एवाजादिरित्यन्ये । ऋक्षिणोति । चिरिणोति । जिरिणोति । दाश्नोति । वृत् ॥
इति तिङन्तस्वादिप्रकरणम्‌

तिङन्ततुदादिप्रकरणम्‌

सम्पाद्यताम्
<<1282>> तुद व्यथने ॥ इतः षट् स्वरितेतः ॥
  • (2534) तुदादिभ्यः शः <3-1-77>
तुदति । तुदते । तुतोद । तुतोदिथ । तुतुदे । तोत्ता । अतौत्सीत् । अतुत्त । <<1283>> णुद प्रेरणे । नुदति । नुदते । नुनोद । नुनुदे । नोत्ता । <<1284>> दिश अतिसर्जने । अतिसर्जनं दानम् । देष्टा । दिक्षीष्ट । अदिक्षत् । अदिक्षत । <<1285>> भ्रस्ज पाके । ग्रहिज्या--2412 इति संप्रसारणम् । सस्य श्चुत्वेन शः । शस्य जश्त्वेन जः । भृज्जति । भृज्जते ॥
  • (2535) भ्रस्जो रोपधयो रमन्यतरस्याम् <6-4-47>
भ्रस्जे रेफस्योपधायाश्च स्थाने रमागमो वा स्यादार्धधातुके । मित्तवादन्त्यादचः परः । स्थानषष्ठीनिर्देशाद्रोपधयोर्निवृत्तिः । बभर्ज । बभर्जतुः । बभर्जिथ । बभर्ष्ठ । बभर्जे । रमभावे । बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । स्कोः-- 380 इति सलोपः । व्रश्च-- 294 इति षः । बभ्रष्ठ । बभ्रज्जे । भ्रष्टा । भर्ष्टा । भ्रक्ष्यति । भर्क्ष्यति ॥ । क्ङिति रमागमं बाधित्वा संप्रसारणं पूर्वविप्रतिषेधेन ॥ भृज्ज्यात् । भृज्ज्यास्ताम् । भर्क्षीष्ट । भ्रक्षीष्ट । अभार्क्षीत् । अभ्राक्षीत् । अभर्ष्ट । अभ्रष्ट । <<1286>> क्षिप प्रेरणे । क्षिपति । क्षिपते । क्षेप्ता । अक्षैप्सीत् । अक्षिप्त । <<1287>> कृष विलेखने । कृषति । कृषते । क्रष्टा । कर्ष्टा । कृष्यात् । कृक्षीष्ट ॥ स्पृशमृशकृषेति सिज्वा । पक्षे क्सः । सिचि अम्वा । अक्राक्षीत् । अकार्क्षीत् । अकृक्षत् । तङि लिङ्सिचौ---2300 इति कित्त्वादम्न । अकृष्ट । अकृक्षाताम् । अकृक्षत । अकृक्षाताम् । अकृक्षन्त । <<1288>> ऋषी गतौ । परस्मैपदी । ऋषति । आनर्ष । <<1289>> जुषी प्रीतिसेवनयोः ॥ आत्मनेपदिनश्चत्वारः । जुषते । <<1290>> ओविजी भयचलनयोः । प्रायेणायमुत्पूर्वः । उद्विजते ॥
विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते । <<1291>> ओलजी <<1292>> ओलस्जी व्रीडायाम् । लजते । लेजे । लज्जते । ललज्जे ॥
अथ परस्मैपदिनः । <<1293>> ओव्रश्चू छेदने । ग्रहिज्या---2412 । वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्चिथ । वव्रष्ठ । लिट्यभ्यासस्य--2408 इति संप्रसारणम् । रेफस्य ऋकारः । उरत् 2244 तस्य अचः परस्मिन्--50 इति स्थानिवद्भावात् । न संप्रसारणे---363 इति वस्योत्वं न । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत् । अव्राक्षीत् । <<1294>> व्यच व्याजीकरणे । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् ॥ व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते (वा) ॥ अनसीति पर्युदासेन कृन्मात्रविषयत्वात् । <<1295>> उछि उञ्छे । उञ्छति । <<1296>> उच्छी विवासे । उच्छति । <<1297>> ऋच्छ गतीन्द्रियप्रलयमूर्तिभावेषु । ऋच्छत्यॄताम् 2383 इति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता । <<1298>> मिच्छ उत्क्लेशे । उत्क्लेशः । पीडा । मिमिच्छा । अमिच्छीत् । <<1299>> जर्ज <<1300>> चर्च <<1301>> झर्झ परिभाषणभर्त्सनयोः । <<1302>> त्वच संवरणे । तत्वाच । <<1303>> ऋच स्तुतौ । आनर्च । <<1304>> उब्ज आर्जवे । <<1305>> उज्झ उत्सर्गे । <<1306>> लुभ विमोहने । विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति । <<1307>> रिफ कत्थनयुद्धमनिन्दायहिंसादानेषु । रिफति । रिरेफ । रिहेत्येके । शिशुं न विप्रा मतिभी रिहन्ति । <<1308>> तृप <<1309>> तृम्फ तृप्तौ । आद्यः प्रथमान्तः । द्वितीयो द्वितायान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ स्पृशमृशेति सिज्विकल्पः पौषादिकस्यैव अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् अनिदिताम्---415 इति नलोपे ॥ । शे तृम्फादीनां नुम्वाच्यः ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् । <<1310>> तुप <<1311>> तुम्प <<1312>> तुफ <<1313>> तुम्फ हिंसायाम् । तुपति । तुम्पति । तुफति । तुम्फति । <<1314>> दृप <<1315>> दृम्फ उत्क्लेशे । प्रथमः प्रथमान्तः । द्वितायो द्वितायान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति । <<1316>> ऋफ <<1317>> ऋम्फ हिंसायाम् । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार । <<1318>> गुफ <<1319>> गुम्फ ग्रन्थे । गुफति । जुगोफ । गुम्फति । जुगुम्फ । <<1320>> उभ <<1321>> उम्भ पूरणे । उभति । उवोभ ।

उम्भति । उम्भांचकार । <<1322>> शुभ <<1323>> शुम्भ शोभार्थे । शुभति । शुम्भति । <<1324>> दृभी ग्रन्थे । दृभति । <<1325>> चृती हिंसाग्रन्थनयोः । चर्तिता । सेसिचि-- 2506 इति वेट् । चर्तिष्यति । चर्त्स्यात् । अचर्तीत् । <<1326>> विध विधाने । विधति । वेधिता । <<1327>> जुड गतौ । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति । <<1328>> मृड सुखने । मडति । मर्डिता । <<1329>> पृड च । पृडति । <<1330>> पृण प्रीणने । पृणति । पपर्ण । <<1331>> वृण च । वृणति । <<1332>> मृण हिंसायाम् । <<1333>> तुण कौटिल्ये । तुतोण । <<1334>> पुण कर्मणि शुभे । पुणति । <<1335>> मुण प्रतिज्ञाने । <<1336>> कुण श्ब्दोपकरणयोः । <<1337>> शुन गतौ । <<1338>> द्रुण हिंसागतिकौटिल्येषु । <<1339>> घुण <<1340>> घूर्ण भ्रमणे । <<1341>> षुर ऐश्वर्यदीप्त्योः । सुरति । सुषोर । आशिषि सूर्यात् । <<1342>> कुर शब्दे । कुरति । कूर्यात् । अत्र न भकुर्छुरम् 1629 इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः । <<1343>> खुर छेदने । <<1344>> मुर संवेष्टने । <<1345>> क्षुर विलेखने । <<1346>> घुर भीमार्थशब्दयोः । <<1347>> पुर अग्रगमने । <<1348>> वृहू उद्यमने । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये । <<1349>> तृहू <<1350>> स्तृहू <<1351>> तृंहू हिंसार्थाः । तृहति । ततर्ह । स्तृहति । तस्तर्ह । स्तहिंता । स्तर्ढा । अतृंहीत् । अताङ्र्क्षीत् । अतार्ण्ढाम् । <<1352>> इष इच्छायाम् । इषुगमि--2400 इति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् । <<1353>> मिष स्पर्धायाम् । मिषति । मेषिता । <<1354>> किल श्वैत्यक्रीडनयोः । <<1355>> तिल स्नेहने । <<1356>> चिल वसने । <<1357>> चल विलसने । <<1358>> इल स्वप्नक्षेपणयोः । <<1359>> विल संवरणे । दन्त्योष्ठ्यादिः । <<1360>> बिल भेदने । ओष्ठ्यादिः । <<1361>> णिल गहने । <<1362>> हिल भावकरणे । <<1363>> शिल <<1364>> षिल उञ्छे । <<1365>> मिल श्लेषणे । <<1366>> लिख अक्षरविन्यासे । लिलेख । <<1367>> कुट कौटिल्ये । गाङ्कुटादिभ्यः---2461 इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता । <<1368>> पुट संश्लेषणे । <<1369>> कुच सङ्कोचने । <<1370>> गुज शब्दे । <<1371>> गुड रक्षायाम् । <<1372>> डिप क्षेपे । <<1373>> छुर छेदने । न भकुर्छुराम् 1629 इति न दीर्घः । छुर्यात् । <<1374>> स्फुट विकसने । स्फुटति । पुस्फोट । <<1375>> मुट आक्षेपमर्दनयोः । <<1376>> त्रुट छेदने । वाभ्रास--2321 इति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुडिता । <<1377>> तुट कलहकर्मणि । तुटति । तुतोट । तुटिता । <<1378>> चुट <<1379>> छुट छेदने । <<1380>> जुड बन्धने । <<1381>> कड मदे । <<1382>> लुट संश्लेषणे । <<1383>> कृड घनत्वे । घनत्वं सान्द्रता । चकर्ड । कृडिता । <<1384>> कुड बाल्ये । <<1385>> पुड उत्सर्गे । <<1386>> घुट प्रतिघाते । <<1387>> तुड तोडने । तोडनं भेदः । <<1388>> थुड <<1389>> स्थुड संवरणे । थुडति । तुथोड । तुस्थोड । खुड छुड इत्येके । <<1390>> स्फुर <<1391>> स्फुल संचलने । स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥

  • (2537) स्फुरतिस्फुलत्योर्निर्निविभ्यः <8-3-76>
षत्वं वा स्यात् । निःष्फुस्फुरति । निःस्फुरति । स्फर इत्यकारोपधं केचित्पठन्ति । पस्फार । <<1392>> स्फुड <<1393>> चुड <<1394>> वृड संवरणे । <<1395>> क्रुड <<1396>> भृड निमज्जन इत्येके । <<1397>> गुरी उद्यमने । अनुदात्तेत् । गुरते । जुगुरे । गुरिता । <<1398>> णू स्तवने । दीर्घान्तः । परिणूतगुणोदयः ॥ इतश्चत्वारः परस्मैपदिनः ॥ नुवति । अनुवीत् । <<1399>> धू विधूनने । धुवति । <<1400>> गु पुरीषोत्सर्गे । जुगुविथ । जुगुथ । गुता । गुष्यति । अगुषीत् । ह्रस्वादङात् 2369 । अगूताम् । अगुषुः । <<1401>> ध्रु गतिस्थैर्ययोः । ध्रुव इति पाठान्तरम् । आद्यस्य ध्रुवतीत्यादि गुवतिवत् । द्वितीयस्तु सेट् । दुध्रुविथ । ध्रुविता । ध्रुविष्यति । ध्रूव्यात् । अध्रुवीत् । अध्रुविष्टाम् । <<1402>> कुङ् शब्दे । दीर्घान्त इति कैयटादयः । कुविता । अकुविष्ट । ह्रस्वान्त इति न्यासकारः । कुता । अकुत । वृत् । कुटादयो वृत्ताः । <<1403>> पृङ् व्यायामे । प्रायेण व्याङ्पूर्वः । रिङ् । इयङ् । व्याप्रियते । व्यापप्रे । व्यापप्राते । व्यापरिष्यते । व्यापृत । व्यापृषाताम् । <<1404>> मृङ् प्राणत्यागे ॥
  • (2538) म्रियतेर्लुङ्लिङोश्च <1-3-61>
लुङ्लिङोः शितश्च प्रकृतिभूतान्मृङस्तङ् नान्यत्र । ङित्त्वं स्वरार्थम् । म्रियते । ममार । ममर्थ । मम्रिव । मर्तासि । मरिष्यति । मृषीष्ट । अमृत ॥
अथ परस्मैपदिनः सप्त ॥ <<1405>> रि <<1406>> पि गतौ । अन्तरङ्गत्वादियङ् । रियति । पियति । रेता । पेता । <<1407>> धि धारणे । <<1408>> क्षि निवासगत्योः । <<1409>> षू प्रेरणे । सुवति । सविता । <<1410>> कॄ विक्षेपे । किरति । किरतः । चकार । चकरतुः । करिता । करीता । कीर्यात । अकारीत् ॥
  • (2539) किरतौ लवने <6-1-140>
उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति ॥ अडभ्यासव्यवायेऽपि सुट् कात्पूर्व इति वक्तव्यम् (वा) ॥ उपास्किरत् । उपचस्कार ॥
  • (2540) हिंसायां प्रतेश्च <6-1-141>
उपात्प्रेतश्च किरतेः सुट् स्याद्धिंसायाम् । उपस्किरति । प्रतिस्किरति । <<1411>> गॄ निगरणे ॥
  • (2541) अचि विभाषा <8-2-21>
गिरते रेफस्य लत्वं वा स्यादजादौ । गिरति । गिलति । जगार । जगाल । जगरिथ । जगलिथ । गरिता । गरीता । गलिता । गलीता । <<1412>> दृङ् आदरे । आद्रियते । आद्रियेते । आदद्रे । आदद्रिषे । आदर्ता । आदरिष्यते । आदृषीष्ट । आदृत । आदृषाताम् । <<1413>> धृङ् अवस्थाने । ध्रियते ॥
अथ परस्मैपदिनः षोडश ॥ <<1414>> प्रच्छ ज्ञीप्सायाम् । पृच्छति । पप्रच्छ । पप्रच्छतुः । पप्रच्छिथ । पप्रष्ठ । प्रष्टा । प्रक्ष्यति । अप्राक्षीत् । वृत् । किरादयो वृत्ताः । <<1415>> सृज विसर्गे । विभाषा सृजिदृशोः 2404 ससर्जिथ । सस्रष्ठ । स्रष्टा । स्रक्ष्यति । सृजिदृशोर्झल्यमकिति 2405 इत्यमागमः । सृजेत् । सृज्यात् । अस्राक्षीत् । <<1416>> टुमस्जो शुद्धौ । मज्जति । ममज्ज । मस्जिनशोर्झलि 2517 इति नुम् ॥ । मस्जेरन्त्यात्पूर्वो नुम्वाच्यः ॥ संयोगादिलोपः । ममङ्क्थ । ममज्जिथ । मङ्क्ता । मङ्क्ष्यति । अमाङ्क्षीत् । अमाङ्क्ताम् । अमाङ्क्षुः । <<1417>> रुजो भङ्गे । रोक्ता । रोक्ष्यति । अरौक्षीत् । अरौक्ताम् । <<1418>> भुजो कौटिल्ये । रुजिवत् । <<1419>> छुप स्पर्शे । छोप्तां । अच्छौप्सीत् । <<1420>> रुश <<1421>> रिश हिंसायाम् । तालव्यन्तौ । रोष्टा । रोक्ष्यति । रेष्टा । रेक्ष्यति । <<1422>> लिश गतौ । अलिक्षत् । <<1423>> स्पृश संस्पर्शने । स्प्रष्टा । स्पर्ष्टा । स्प्रक्ष्यति । स्पर्क्ष्यति । अस्प्राक्षीत् । अस्पार्क्षीत् । अस्पृक्षत् । <<1424>> विच्छ गतौ । गुपूधूप -- 2303 इत्यायः । आर्धधातुके वा । विच्छायति । विच्छायांचकार । विविच्छ । <<1425>> विश प्रवेशने । विशति । वेष्टा । <<1426>> मृश आमर्शने । आमर्शनं स्पर्शः । अम्राक्षीत् । अमार्क्षीत् । अमृक्षत् । <<1427>> णुद प्रेरणे । कर्त्रभिप्रायेऽपि फले परस्मैपदार्थः पुनः पाठः । <<1428>> षद्लृ विशरणगत्यवपसादनेषु । सीदतीत्यादि भौवादिकवत् । इह पाठोनुम्विकल्पार्थः । सीदति । सीदन्ती । ज्वालादौ पाठस्तु णार्थः । सादः । स्वरार्थश्च । शबनुदात्तः । शस्तूदात्तः । <<1429>> शद्लॄ शातने । स्वरार्थ एव पुनः पाठः । शता तु नास्ति । शदेः शितः-- 2362 इत्यात्मनेपदोक्तेः ॥
अथ षट् स्वरितेतः ॥ <<1430>> मिल सङ्गमे । मिल संश्लेषणे इति पठितस्य पुनः पाठः कर्त्रभिप्राये तङर्थः । मिलति । मिलते । मिमेल । मिमिले । <<1431>> मुच्लृ मोक्षणे ॥
  • (2542) शे मुचादीनाम् <7-1-59>
नुम् स्यात् । मुञ्चति । मुञ्चते । मोक्ता । मुच्यात् । मुक्षीष्ट । अमुचत् । अमुक्त । अमुक्षाताम् । <<1432>> लुप्लॄ छेदने । लुम्पति । लुम्पते । अलुपत् । अलुप्त । <<1433>> विद्लृ लाभे । विन्दति । विन्दते । विवेद । विविदे । व्याघ्रभूत्यादिमते सेट्कोऽयम् । वेदिता । भाष्यादिमतेऽनिट्कः । वेत्ता । परिवेत्ता । परिर्वर्जने । ज्येष्ठं परित्यज्य दारानग्नींश्च लब्धवानित्यर्थः । तृन्तृचौ । <<1434>> लिप उपदेहे । उपदेहो वृद्धिः । लिम्पति । लिम्पते । लेप्ता । लिपिसिचि---2418 इत्यङ् । तङि तु वा । अलिपत् । अलिपत । अलिप्त । <<1435>> षिच क्षरणे । सिञ्चति । सिञ्चते । असिचत् । असिचत । असिक्त । अभिषिञ्चति । अभ्यषिञ्चत् । अभिषिषेच ॥
अथ त्रयः परस्मैपदिनः ॥ <<1436>> कृती छेदने । कृन्तति । चकर्त । कर्तिता । कर्तिष्यति । कर्त्स्यति । अकर्तीत् । <<1437>> खिद परिघाते । खिन्दति । चिखेद । खेत्ता । अयं दैन्ये दिवादौ रुधादौ च । <<1438>> पिश अवयवे । पिंशति । पेशति । अयं दीपनायामपि । त्वष्टा रूपाणि पिंशतु । वृत् । मुचादयो वृत्ताः तुदादयश्च ॥
इति तिङन्ततुदादिप्रकरणम्‌

तिङन्तरुधादिप्रकरणम्‌

सम्पाद्यताम्
<<1439>> रुधिर् आवरणे । नव स्वरितेत इरितश्च ॥
  • (2543) रुधादिभ्यः श्नम् <3-1-78>
शपोऽपवादः । मित्त्वादन्त्यादचः परः । नित्यत्वाद्गुणं बाधते । रुणद्धि ।श्नसोरल्लोपः 2469 । णत्वस्यासिद्धत्वादनुस्वारः परसवर्णः । तस्यासिद्धत्वाण्णत्वं न न पदान्त---51 इति सूत्रेणानुस्वारपरसवर्णयोरल्लोपो न स्थानिवत् । रुन्धः । रुन्धन्ति । रुन्धे । रोद्धा । रोत्स्यति । रुणद्धु । रुन्धात् । रुन्धि । रुणधानि । रुणधै । अरुणत् । अरुन्धाम् । अरुणत् । अरुणः । अरुणधम् । अरुधत् । अरौत्सीत् । अरुद्ध । <<1440>> भिदिर् विदारणे । भिनत्ति । भिन्ते । भेत्ता । भेत्स्यति । भेत्स्यते । अभिनत् । अभिन्ताम् । अभिनदम् । अभिन्त । अभिदत् । अभैत्सीत् । अभित्त । <<1441>> छिदिर् द्वैधिकरणे । अच्छिदत् । अच्छैत्सीत् । अच्छित्त । <<1442>> रिचिर् विरेचने । रिणक्ति । रिङ्क्ते । रिरेच । रिरिचे । रेक्ता । अरिणक् । अरिचत् । अरैक्षीत् । अरिक्त । <<1443>> विचिर् पृथग्भावे । विनक्ति । विङ्क्ते । <<1444>> क्षुदिर् संपेषणे । क्षुणत्ति । क्षुन्ते । क्षोत्ता । अक्षुदत् । अक्षौत्सीत् । अक्षुत्त । <<1445>> युजिर् योगे । योक्ता । <<1446>> उच्छृदिर् दीप्तिदेवनयोः । छृणत्ति । छृन्ते । चच्छर्द । सेसिचि---2506 इति वेट् । चच्छृदिषे । चच्छृत्से । छर्दिता । छर्दिष्यति । छर्त्स्यति । अच्छृदत् । अच्छर्दीत् । अच्छर्दिष्ट । <<1447>> उतृदिर् हिंसानादरयोः । तृणत्तीत्यादि छृणत्तिवत् । <<1448>> कृती वेष्टने । परस्मैपदी । कृणत्ति । आर्धधातुके तौदादिकवत् । <<1449>> ञि इन्धी । दीप्तौ ॥ त्रय आत्मनेपदिनः ॥
  • (2544) श्नान्नलोपः <6-4-23>
श्नमः परस्य नस्य लोपः स्यात् । श्नसोरल्लोपः । इन्धे । इन्त्से । इन्धिता । इनधै । ऐन्ध । ऐन्धाः । <<1450>> खिद दैन्ये खिन्ते । खेत्ता । <<1451>> विद विचारणे । विन्ते । वेत्ता ।
अथ परस्मैपदिनः । <<1452>> शिष्लृ विशेषणे । शिनष्टि । शिंष्टः । शिंषन्ति । शिशेषिथ । शेष्टा । शेक्ष्यति । हेर्धिः । जश्त्वम् । ष्टुत्वं । झरो झरि--71इति वा डलोपः । अनुस्वारपरसवर्णौ । शिण्ढि । शिण्ड्ढि । शिनषाणि । अशिनट् । लृदित्वादङ् । अशिषत् । <<1453>> पिषि संचूर्णने । शिषिवत् । पिनष्टि । <<1454>> भञ्चो आमर्दने । भनक्ति । बभञ्जिथ । बभङ्क्थ । भङ्क्ता । <<1455>> भुज पालनाभ्यवहारयोः । भुनक्ति । भोक्ता । भोक्ष्यति । अभुनक् । <<1456>> तृह <<1457>> हिसि हिंसायाम् ॥
तृहः श्नमि कृते इमागमः स्याद्धलादौ पिति । तृणेढि । तृण्ढः । ततर्ह । तर्हिता । अतृणेट् । हिनस्ति । जिहिंस । हिंसिता । <<1458>> उन्दी क्लेदने । उनत्ति । उन्तः । उन्दन्ति । उन्दाञ्चकार । औनत् । औन्ताम् । औन्दन् । औनः । औनत् । औनदम् । <<1459>> अञ्जू व्यक्तिम्रक्षणकान्तिगतिषु । अनक्ति । अङ्क्तः । अञ्जन्ति । आनञ्ज । आनञ्जिथ । आनङ्क्थ । अङ्क्ता । अञ्जिता । अङ्ग्धि । अनजानि । आनक् ॥
  • (2546) अञ्जेः सिचि <6-7-71>
अञ्जेः सिचो नित्यमिट् स्यात् । आञ्जीत् । <<1460>> तञ्जू सङ्कोचने । तनक्ति । तङ्क्ता । तञ्चिता । <<1461>> ओविजी भयचलनयोः । विनक्ति । विङ्क्तः । विज इट् 2536 इति ङित्त्वम् । विविजिथ । विजिता । अविनक् । अविजीत् । <<1462>> वृजी वर्जने । वृणक्ति । वर्जिता । <<1463>> पृची संपर्के । पृणक्ति । पपर्च ॥
इति तिङन्तरुधादिप्रकरणम्‌