तिङन्तात्मनेपदप्रकरणम्‌

सम्पाद्यताम्

अनुदात्तङित आत्मनेपदम्‌ (2157)| आस्ते । शेते ।

  • (2679) भावकर्मणोः <1-2-13>
बभूवे । अनुबभूवे ।
  • (2680) कर्तरि कर्मव्यतिहारे <1-3-14>
क्रियाविनिमये द्योत्ये कर्तर्यात्मनेपदं स्यात् । व्यतिलुनीते । अन्यस्य योग्यं लवनं करोतीत्यर्थः ॥ श्नसोरल्लोपः-(सू2469) । व्यतिस्ते । व्यतिषाते । व्यतिषते । तासस्त्योः -(सू2191) इति सलोपः । व्यतिसे । धि च -(सू2241) । व्यतिध्वे । ह एति -(सू2250) । व्यतिहे । व्यत्यसै । व्यतिषीत् । व्यत्यास्त । व्यतिराते । व्यतिराते । व्यतिराते । व्यतिभाते । व्यतिभाते । व्यतिभाते । व्यतिबभे ।
  • (2681) न गतिहिंसार्थेभ्यः <1-3-15>
व्यतिगच्छन्ति । व्यतिघ्नन्ति ॥ । प्रतिषेधे हसादीनामुपसंख्यानम् (वा) ॥ हसादयो हसप्रकाराः शब्दक्रियाः । व्यतिहसन्ति । व्यतिजल्पन्ति ॥ हरतेरप्रतिषेधः ॥ संप्रहरन्ते राजानः ॥
  • (2682) इतरेतरान्योन्योपपदाच्च <1-3-16>
परस्परोपपदाच्चेति वक्तव्यम् (वा) ॥ इतरेतरस्यान्योन्यस्य परस्परस्य वा व्यतिलुनन्ति ॥
  • (2683) नेर्विशः <1-3-17>
निविशते ।
  • (2684) परिव्यवेभ्यः क्रियः <1-3-18>
अकर्त्रभिप्रायार्थमिदम् । परिक्रीणीते - विक्रीणीते - अवक्रीणीते ।
  • (2685) विपराभ्यां जेः <1-3-19>
विजयते । पराजयते ।
  • (2686) आङो दोऽनास्यविहरणे <1-3-20>
आङ्पूर्वाद्ददातेर्मुखविकसनादन्यत्रार्थे वर्तमानादात्मनेदं स्यात् । विद्यमादत्ते । अनास्येति किम् ? मुखं व्याददाति । आस्यग्रहणमविवक्षितम् । विपादिकां व्याददाति । पादस्फोटो विपादिका । नदी कूलं व्याददाति ॥ । पराङ्गकर्मकान्न निषेधः ॥ व्याददते पिपीलिकाः पतङ्गस्य मुखम् ॥
  • (2687) क्रीडोनुसंपरिभ्यश्च <1-3-21>
चादाङः । अनुक्रीडते संक्रीडते । परिक्रीडते । आक्रीडते । अनोः कर्मप्रवचनीयान्न । उपसर्गेन समा साहचर्यात् । माणवकमनुक्रीडति । तेन सहेत्यर्थः । तृतीयार्थे -(सू549) इत्यनोः कर्मप्रवचनीयत्वम् ॥ । समोऽकूजने (वा) ॥ संक्रीडते । कूजने तु संक्रीडति चक्रम् ॥ आगमे क्षमायाम् (वा) ॥ ण्यन्तस्येदं ग्रहणम् । आगमयस्व तावत् । मा त्वरिष्ठा इत्यर्थः ॥ । शिक्षेर्जिज्ञासायाम् (वा) ॥ धनुषि शिक्षते ॥ धनुर्विषये ज्ञाने शक्तो भवितुमिच्छतीत्यर्थः ॥ । आशिषि नाथः (वा) ॥ आशिष्येवेति नियमार्थं वार्तिकमित्युक्तम् । सर्पिषो नाथते । सर्पिर्मे स्यादित्याशास्त इत्यर्थः । कथं नाथसे किमु पतिं न भूभृतामिति । नाधसे इति पाठ्यम् ॥ । हरतेर्गतताच्छील्ये (वा) ॥ गतं प्रकारः । पैतृकमश्वा अनुहरन्ते । मातृकं गावः । पितुर्मातुश्चागतं प्रकारं सततं परिशीलयन्तीत्यर्थः । ताच्छील्ये किम् ? मातुरनुहरति ॥ । किरतेर्हर्षजीविकाकुलायकरणेष्विति वाच्यम् (वा) ॥ हर्षादयो विषयाः ॥ तत्र हर्षो विक्षेपस्य कारणम् । इतरे फले ॥
  • (2688) अपाच्चतुष्पाच्छकुनिष्वालेखने <6-1-142>
अपात्किरतेः सुट् स्यात् ॥ । सुडपि हर्षादिष्वेव वक्तव्यः (वा) ॥ अपस्किरते वृषो हृष्टः । कुक्कुटो भक्षार्थी । श्वा आश्रयर्थी च । हर्षादिषु इति किम् । अपकिरति कुसुमम् । इह तङ्सुटौ न । हर्षादिमात्रविवक्षायां यद्यपि तङ् प्राप्तस्तथापि सुडभावे नेष्यते इत्याहुः । गजोऽपकिरति ॥ । आङि नुप्रच्छ्योः (वा) ॥ आनुते । आपृच्छते ॥ । शप उपालम्भे (वा) ॥ आक्रोशार्थात्स्वरितेतोऽकर्तृगेऽपि फले शपथरूपेऽर्थे आत्मनेपदं वक्तव्यमित्यर्थः । कृष्णाय शपते ॥
  • (2689) समवप्रविभ्यः स्थः <1-3-22>
सन्तिष्ठते । स्थाघ्वोरिच्च -(सू2389) । समस्थित । समस्थिषाताम् । समस्थिषत । अवतिष्ठते । प्रतिष्ठते । वितिष्टते ॥ । आङः प्रतिज्ञायामुपसंख्यानम् (वा) ॥ शब्दं नित्यमातिष्ठते । नित्यत्वेन प्रतिजानीत इत्यर्थः ॥
  • (2690) प्रकाशनस्थेयाख्ययोश्च <1-3-23>
गोपी कृष्णाय तिष्ठते । आशयं प्रकाशयतीत्यर्थः । संशय्य कर्णादिषु तिष्ठते यः । कर्णादीन्निर्णेतृत्वेनाश्रयतीत्यर्थः ।
  • (2691) उदोऽनूर्ध्वकर्मणि <1-3-24>
मुक्तावुत्तिष्ठते । अनूर्ध्व इति किम् ? पीठादुत्तिष्ठति ॥ । ईहायामेव ॥ नेह । ग्राच्छतमुत्तिष्ठति ॥
  • (2692) उपान्मन्त्रकरणे <1-3-25>
आग्नेय्याग्नीध्रमुपतिष्ठते । मन्त्रकरणे किम् ? भर्तारमुपतिष्ठति यौवनेन ॥ । उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वाच्यम् (वा) ॥ आदित्यमुपतिष्ठते । कथं तर्हि स्तुत्यं स्तुतिभिरर्थ्याभिरूपतस्थे सरस्वतीति । देवतात्वारोपात् । नृपस्य देवतांशत्वाद्वा । गङ्गा यमुनामुपतिष्ठते । उपश्लिष्यतीत्यर्थः । रथिकानुपतिष्ठते । मित्रीकरोतीत्यर्थः । पन्थाः स्रुघ्नमुपतिष्ठते । प्राप्नोतीत्यर्थः ॥ । वा लिप्सायामिति वक्तव्यम् (वा) ॥ भिक्षुकः प्रभुमुपतिष्ठते - उपतिष्ठति वा । लिप्सया उपगच्छतीत्यर्थः ।
  • (2693) अकर्मकाच्च <1-3-26>
उपात्तिष्ठतेरकर्मकादात्मनेपदं स्यात् । भोजनकाले उपतिष्ठते । सन्निहितो भवतीत्यर्थः ॥
  • (2694) उद्विभ्यां तपः <1-3-27>
अकर्मकादित्येव । उत्तपते । वितपते । दीप्यत इत्यर्थः ॥ । स्वाङ्गकर्मकाच्चेति वक्तव्यम् (वा) ॥ स्वमङ्गं स्वाङ्गं न तु अद्रवम्- इति परिभाषितम् । उत्तपते वितपते वा पाणिम् । नेह । सुवर्णमुत्तपति । सन्तापयति विलापयति वेत्यर्थः । चेत्रौ मैत्रस्य पाणिमुत्तपति । सन्तापयीत्यर्थः ॥
  • (2695) आङो यमहनः <1-3-28>
आयच्छते । आहते । अकर्मकात्स्वाङ्गकर्मकादित्येव । नेह परस्य शिर आहन्ति । कथं तर्हि आजघ्ने विषमविलोचनस्य वक्षः इति भारविः ॥ आहध्वं मा रघूत्तममिति भट्टिश्च । प्रमाद एवायमिति भागवृत्तिः । प्राप्येत्यध्याहारो वा । ल्यब्लोपे पञ्चमीति तु ल्यबन्तं विनैव तदर्थावगतिर्यत्र तद्विषयम् । भेत्तुमित्यादि तुमुन्नन्ताध्याहारो वा । समीपमेत्येति वा ॥
  • (2696) आत्मनेपदेष्वन्यतरस्याम् <2-4-44>
हनो वधादेशो वा लुङि आत्मनेपदेषु परेषु । अवधिष्ट । अवधिषाताम् ॥
कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥
  • (2698) यमो गन्धने <1-2-15>
सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥
  • (2699) समो गम्यृच्छिभ्याम् <1-3-29>
अकर्मकाभ्याम् इत्येव । संगच्छते ॥
गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्टा - संगंसीष्ट । समगत - समगंस्त । समृच्छिष्यते । अकर्मकाभ्यां किम् ? ग्रामं संगच्छति ॥ । विदिप्रच्छिस्वरतीनामुपसंख्यानम् (वा) ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥
  • (2701) वेत्तेर्विभाषा <7-1-7>
वेत्तेः परस्य झादेशस्यातो रुडागमो वा स्यात् । संविद्रते । संविदते । संविद्रताम् । संविदताम् । समविद्रत । समविदत । संपृच्छते । संस्वरते ॥ । अर्तिश्रुदृशिभ्यश्चेति वक्तव्यम् (वा) ॥ अर्तीति द्वयोर्ग्रहणम् । अड्विधौ

त्वियर्तेरेवेत्युक्तम् । मा समृत । मा समृषाताम् । मा समृषतेति । समार्त । समार्षाताम् । समार्षतेति च भ्वादेः । इयर्तेस्तु - मा समरत । मा समरेताम् । मा समरन्त - समारत । समारेताम् । समारन्तेति च । संशृणुते । संपश्यते । अकर्मकादित्येव । अत एव रक्षांसीति पुरापि संशृणुमहे इति मुरारिप्रयोगः प्रामादिकःथ्द्य;त्याहुः । अध्याहारो वा ,इति कथयद्भ्य इति ॥ अथास्मिन्नकर्मकाधिकारे हनिगम्यादीनां कथमकर्मकतेति चेत् । शृणु ॥

धातोरर्थान्ते वृत्थेर्धात्वर्थेनोपसंग्रहात् ।
प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया ॥1 ॥

वहति भारम् । नदी वहति । स्यन्दत इत्यर्थः । जीवति । नृत्यति । प्रसिद्धेर्यथा । मेघो वर्षति । कर्मणोऽविवक्षातो यथा । हितान्नयः यः संशृणुते स किं प्रभुः ॥ । उपसर्गादस्यत्यूह्योर्वेति वाच्यम् (वा) ॥ अकर्मकादिति निवृत्तम् । बन्धं निरस्यति । निरस्यते । समूहति । समूहति ॥

  • (2702) उपसर्गाध्ह्रस्वः ऊहतेः <7-4-23>
यादौ क्ङिति । ब्रह्म समुह्यात् । अग्रिं समुह्य ॥
  • (2703) निसमुपविभ्यो ह्वः <1-3-30>
निह्वयते ।
  • (2704) स्पर्धायामाङः <1-3-31>
कृष्णश्चाणूरमाह्वयते । स्पर्धायां किम् । पुत्रमाह्वयति ।
  • (2705) गन्धनावक्षेपणसेवनसाहसिक्यप्रतियत्नप्रकथनोपयोगेषु कृञः <1-3-32>
गन्धनं हिंसा । उत्कुरुते । सूचयतीत्यर्थः । सूचनं हि प्राणवियोगानुकूलत्वाद्धिंसैव । अवक्षेपणं भर्त्सनम् । श्येनो वर्तिकामुदाकुरुते । भर्त्सयतीत्यर्थः । हरिमुपकुरुते । सेवते । परदारान्प्रकुरुते । भर्त्सयतीत्यर्थः । तेषु सहसा प्रवर्तते । एधोदकस्योपस्कुरुते । गुणमाधत्ते । गाथाः प्रकुरुते । प्रकथयति । शतं प्रकुरुते । धर्मार्थं विनियुङ्क्ते । एषु किम् । कटं करोति ॥
  • (2706) अधेः प्रसहने <1-3-33>
प्रसहनं क्षमाऽभिभवश्च । षह मर्षणेऽभिभवे चेति पाठात् । शत्रुमधिकुरुते । क्षमत इत्यर्थः । अभिभवतीति वा ।
  • (2707) वेः शब्दकर्मणः <1-3-34>
स्वरान्विकुरुते । उच्चारयतीत्यर्थः । शब्दकर्मणः किम् । चित्तं विकरोति कामः ।
  • (2708) अकर्मकाच्च <1-3-35>
वेः कृञ इत्येव । छात्रा विकुर्वते । विकारं लभन्ते इत्यर्थः ।
  • (2709) समाननोत्सर्जनार्चायकरणज्ञानभृतिविगणनव्ययेषु नियः <1-3-36>
अत्रोत्सञ्जनज्ञानविगणनव्यया नयतेर्वाच्याः । इतरे प्रयोगोपाधयः । तथा हि । शास्त्रे नयते । शास्त्रस्थं सिद्धान्तं शिष्येभ्यः प्रापयतीत्यर्थः । तेन च शिष्यसंमाननं फलितम् । उत्सञ्जने । दण्डमुन्नयते । उत्क्षिपतीत्यर्थः । माणवकमुपनयनते । विधिना आत्मसमीपं प्रापयतीत्यर्थः । उपनयनपूर्वकेणाध्यापनेन हि उपनेतरि आचार्यत्वं क्रियते । ज्ञाने । तत्वं नयते । निश्चिनोतीत्यर्थः । कर्मकारानुपनयते । भृतिदानेन स्वसमीपं प्रापयतीत्यर्थः । विगणनमृणादेर्निर्यातनम् । करं विनयते । राज्ञे देयं भागं परिशोधयतीत्यर्थः । शतं विनयते । धर्मार्थं विनियुङ्क्तं इत्यर्थः ॥
  • (2710) कर्तृस्थे चाशरीरे कर्मणि <1-3-37>
नियः कर्तृस्थे कर्मणि यदात्मनेपदं प्राप्तं तच्छरीरावयवभिन्ने एव स्यात् । सूत्रे शरीरशब्देन तदवयवो लक्ष्यते । क्रोधं विनयते । अपगमयति । तत्फलस्य चित्तिप्रसादस्य कर्तृगत्वात् स्वरितञित 2158 इत्येव सिद्धे नियमार्थमिदम् । तेनेह न । गडुं विनयति । कथं तर्हि विगणय्य नयन्ति पौरुषमिति । कर्तृगामित्वाविवक्षायां भविष्यति ।
  • (2711) वृत्तिसर्गतायनेषु क्रमः <1-3-38>
वृत्तिरप्रतिबन्धः । ऋचि क्रमते बुद्धिः । न प्रतिहन्यत इत्यर्थः । सर्ग उत्साहः । अध्ययनाय क्रमते । उत्सहते इत्यर्थः । क्रमन्तेऽस्मिन् शास्त्राणि । स्फीतानि भवन्तीत्यर्थः ।
  • (2712) उपपराभ्याम् <1-3-39>
वृत्त्यादिष्वाभ्यामेव क्रमेर्न तूपसर्गान्तरपूर्वात् । उपक्रमते । पराक्रमते । नेह । संक्रामति ।
  • (2713) आङ् उद्गमने <1-3-40>
आक्रमते सूर्यः । उदयत इत्यर्थः ॥ । ज्योतिरुद्गमन इति वाच्यम् (वा) ॥ नेह । आक्रामति धूमो हर्म्यतलात् ।
  • (2714) वेः पादविहरणे <1-3-41>
साधु विक्रमते वाजी । पादविहरणे किम् । विक्रामति सन्धिः । द्विधा भवति । स्फुटतीत्यर्थः ॥
  • (2715) प्रोपाभ्यां समर्थाभ्याम् <1-3-42>
समर्थौ तुल्यार्थौ । शकन्ध्वादित्वात्पररूपम् । प्रारम्भेऽनयोस्तुल्यार्थता । प्रक्रमते । उपक्रमते । समर्थाभ्यां किम् । प्रक्रामति । गच्छतीत्यर्थः । उपक्रामति । आगच्छतीत्यर्थः ॥
  • (2716) अनुपसर्गाद्वा <1-3-43>
क्रामति । क्रमते । अप्राप्तविभाषेयम् । वृत्त्यादौ तु नित्यमेव ॥
  • (2717) अपह्नवे ज्ञः <1-3-44>
शतमपजीनीते । अपलपतीत्यर्थः ।
  • (2718) अकर्मकाच्च <1-3-45>
सर्पिषो जानीते । सर्पिषो उपायेन प्रवर्तते इत्यर्थः ।
  • (2719) संप्रतिभ्यामनाध्याने <1-3-46>
शतं संजानीते । अवेक्षत इत्यर्थः । शतं प्रतिजानीते । अङ्गीकरोतीत्यर्थः । अनाध्यान इति योगो विभजते । तत्सामर्थ्यात् अकर्मकाच्च 2718 इति प्राप्तिरपि वार्यते । मातरं मातुर्वा संजानाति । कर्मणः शेषत्वविवक्षायां षष्ठी ।
  • (2720) भासनोपसंभाषाज्ञानयत्नविमत्युपमन्त्रणेषु वदः <1-3-47>
उपसंभाषोपमन्त्रणे धातोर्वाच्ये । इतरे प्रयोगोपाधयः । शास्त्रे वदते । भासमानो ब्रवीतीत्यर्थः । उपसंभाषोपसान्त्वनम् । भृत्यानुपवदते । सान्त्वयतीत्यर्थः । ज्ञाने । शास्त्रे वदते । यत्ने । क्षेत्रे । वदते । विमतौ । क्षेत्रे विवदन्ते । उपमन्त्रणमुपच्छन्दनम् । उपवदते । प्रार्थयत इत्यर्थः ॥
  • (2721) व्यक्तवाचां समुच्चारणे <1-3-48>
मनुष्याणां संभूयोच्चारणे वदेरात्मनेपदं स्यात् । संप्रवदन्ते ब्राह्मणाः । नेह । संप्रवदन्ति खगाः ॥
  • (2722) अनोरकर्मकात् <1-3-49>
व्यक्तवाग्विषयादनुपूर्वादकर्मकाद्वदेरात्मनेपदं स्यात् । अनुवदते कठः कलापस्य । अकर्मकात्किम् । उक्तमनुवदति । व्यक्तावाचां किम् । अनुवदति । वीणा ।
  • (2723) विभाषा विप्रलापे <1-3-50>
विरूद्धोक्तिरूपे व्यक्तवाचां समुच्चारणे उक्तं वा स्यात् । विप्रवदन्ते विप्रवदन्ति वा वैद्याः ।
  • (2724) अवाद्ग्रः <1-3-51>
अवगिरते । कृणातिस्त्ववपूर्वो न प्रयुज्यत एवेति भाष्यम् ।
  • (2725) समः प्रतिज्ञाने <1-3-52>
शब्दं नित्यं संगिरते । प्रतिजानीत इत्यर्थः । प्रतिज्ञाने किम् । संगिरति ग्रासम् ।
  • (2726) उदश्चरः सकर्मकात् <1-3-53>
धर्ममुच्चरते । उल्लङ्घ्य गच्छतीत्यर्थः । सकर्मकात्किम् । बाष्पमुच्चरति । उपरिष्टाद्गच्छतीत्यर्थः ।
  • (2727) समस्तृतीयायुक्तात् <1-3-54>
रथेन संचरते ।
  • (2728) दाणश्च सा चेच्चतुर्थ्यर्थे <1-3-55>
संपूर्वाद्दाणस्तृतीयान्तेन युक्तादुक्तं स्यात् तृतीया चेच्चतुर्थ्यर्थे । दास्या संयच्छते । पूर्वसूत्रे सम इति षष्ठी । तेन सूत्रद्वयमिदं व्यवहितेऽपि प्रवर्तते । रथेन समुदाचरते । दास्या संप्रयच्छते ।
  • (2729) उपाद्यमः स्वकरणे <1-3-56>
स्वकरणं स्वीकारः । भार्यामुपयच्छते ।
  • (2730) विभाषोपयमने <1-2-16>
यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ।
  • (2731) ज्ञाश्रुस्मृदृशां सनः <1-3-57>
सन्नन्तानामेषां प्राग्वत् । धर्मं जिज्ञासते । शुश्रूषते । सुस्मूर्षते । दिदृक्षते ।
  • (2732) नानोर्ज्ञः <1-3-58>
पुत्रमनुजिज्ञासति । पूर्वसूत्रस्यैवायं निषेधः । (प) अनन्तरस्येति न्यायात् । तेनेह न । सर्पिषोऽनुजिज्ञासते । सर्पिषा प्रवर्तितुमिच्छतीत्यर्थः । पूर्ववत्सनः 2734 इति तङ् । अकर्मकाच्च 2718 इति केवलाद्विधानात् ।
  • (2733) प्रत्याङ्भ्यां श्रुवः <1-3-59>
आभ्यां सन्नन्ताच्छ्रुव उक्तं स्यात् । प्रतिशुश्रूषति । आशुश्रूषति । कर्मप्रर्वचनीयात्स्यादेव । देवदत्तं प्रतिशुश्रूषते । शदेः शितः 2362 म्रियतेर्लुङलिङोश्च 2538 व्याख्यातम् ।
  • (2734) पूर्ववत्सनः <1-3-62>
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात् । एदिधिषते । शिशयिषते । निविविक्षते । पूर्ववत्किम् । बुभूषति । शदेः 2362 2528 इत्यादिसूत्रद्वये सनो नेत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेनेह न । शिशत्सति । मुमूर्षति । आम्प्रत्ययवत्कृञोऽनुप्रयोगस्य 2240 एधांचक्रे ।
  • (2735) प्रोपाभ्यां युजेरयज्ञपात्रेषु <1-3-64>
प्रयुङ्क्ते । उपयुङ्क्ते ॥ । स्वराद्यन्तोपसर्गादिति वक्तव्यम् (वा) ॥ उद्युङ्क्ते । नियुङ्क्ते । अयज्ञपात्रेषु किम् । द्वन्द्वंन्यञ्चि पात्राणि प्रयुनक्ति ।
  • (2736) समः क्ष्णुवः <1-3-65>
संक्ष्णुते शस्त्रम् ।
  • (2737) भुजोऽनवने <1-3-66>
ओदनं भुङ्क्ते । अभ्यवहरतीत्यर्थः । बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् । वृद्धो जनो दुःखशतानि भुङ्क्ते । इहोपभोगो भुजेरर्थः । अनवने किम् । महीं भुनक्ति ।
  • (2738) णेरणौ यत्कर्म णौ चेत्स कर्तानाध्याने <1-3-67>
ण्यन्तादात्मनेपदं स्यादणौ या क्रिया सैव चेत् ण्यन्तेनोच्येत अणौ यत्कर्मकारकं स चेण्णौकर्ता स्यान्नत्वनाध्याने । णिचश्च 2564 इति सिद्धेऽकर्त्रभिप्रायार्थमिदम् । कर्त्रभिप्राये तु विभाषोपपदेन 2744 इति विकल्पे अणावकर्मकात् 2754ति परस्मैपदेच परत्वात्प्राप्ते पूर्वविप्रतिषेधेनेदमेवेष्यते । कर्तृस्थभावकाः कर्तृस्थक्रियाश्चोदाहरणम् । तथा हि । पश्यन्ति भवं भक्ताः । चाक्षुषज्ञाविषयं कुर्वन्तीत्यर्थः । प्रेरणांशत्यागे । पश्यति भवः । विषयो भवतीत्यर्थः । ततो हेतुमण्णिच् । दर्शयन्ति भवं भक्ताः । पश्यन्तीत्यर्थः । पुनर्ण्यर्थस्याविवक्षायां दर्शयते भवः । इह प्रथमतृतीययोरवस्तयोर्द्वितीयचतुर्थ्योस्च तुल्योऽर्थः । तत्र तृतीयाकक्षायां न तङ् । क्रियासाम्येऽप्यणौ कर्मकारकस्य णौ कर्तुत्वाभावात् । चतुर्थ्यां तु तङ् । द्वितीयामादाय क्रियासाम्यात् । प्रथमायां कर्मणो भवस्येह कर्तृत्वाच्च । एमारोहयते हस्तीत्युदाहरणम् । आरोहन्ति हस्तिनं हस्तिपकाः । न्यग्भावयन्तीत्यर्थः । तत आरोहति हस्ती । न्यग्भवतीत्यर्थः । ततो णिच् । आरोहन्तीत्यर्थः । तत आरोहयते । न्यग्भवतीत्यर्थः । यद्वा पश्यन्त्यारोहन्तीति प्रथमकक्षा प्राग्वत् । ततः कर्मण एव हेतुत्वारोपाण्णिच् । दर्शयति भवः । आरोहयति हस्ती । पश्यत आरोहतश्च प्रेरयतीत्यर्थः । ततो णिज्भ्यां तत्प्रकृतिभ्यां च उपात्तयोरपि

प्रेषणयोस्त्यागे । दर्शयते आरोहयते इत्युदाहरणम् । अर्थः प्राग्वत् । अस्मिन्पक्षेद्वितीयकक्षायां न तङ् । समानक्रियत्वाभावाण्णिजर्थस्याधिक्यात् । अनाध्याने किम् । स्मरति वनगुल्मं कोकिलः । स्मरयति वनगुल्मः । उत्कण्ठापूर्वकस्मृतौ विषयो भवतीत्यर्थः । भीस्म्योर्हेतुभये 2594 व्याख्यातम् ।

  • (2739) गृधिवञ्चयोः प्रवम्भने <1-3-69>
प्रतारणेऽर्थे ण्यन्ताभ्यामाभ्यां प्राग्वत् । माणवकं गर्धयते वञ्चयते वा । प्रलम्भने किम् । श्वानं गर्धयति । अभिकाङ्क्षामस्योत्पादयतीत्यर्थः । अहिं वञ्चयति । वर्जयतीत्यर्थः । लियः संमाननशालिनीकरणयोश्च 2592 व्याख्यातम् ॥
  • (2740) मिथ्योपपदात्कृञोऽभ्यासे <1-3-71>
णेरित्येव । पदं मिथ्या कारयते । स्वरादिदुष्टमसकृदुच्चारयीत्यर्थः । मिथ्योपपदात्किम् । पदं सुष्ठु कारयति । अभ्यासे किम् । सकृत्पदं मिथ्या कारयति । स्वरितञितः कर्त्रभिप्राये क्रियाफले 2158 । यजते । सुनुते । कर्त्रभिप्राये किम् । ऋत्विजो यजन्ति । सुन्वन्ति ।
  • (2741) अपाद्वदः <1-3-73>
न्यायमपवदते । कर्त्रभिप्राये इत्येव । अपवदति । णिचश्च 2564 कारयते ।
  • (2742) समुदाङ्भ्यो यमोऽग्रन्थे <1-3-75>
अग्रन्थे इति च्छेदः । व्रीहीन्संयच्छते । भारमुद्यच्छते । वस्त्रमायच्छते । अग्रन्थे किम् । उद्यच्छति वेदम् । अधिगन्तुमुद्यमं करोतीत्यर्थः । कर्त्रभिप्राये इत्येव ।
  • (2743) अनुपसर्गाज्ज्ञः <1-3-76>
गां जानीते । अनुपसर्गात्किम् । स्वर्गं लोकं न प्रजानाति । कथं तर्हि भट्टिः । इत्थं नृपः पूर्वमवालुलोचे ततोनुडजज्ञे गमनं सुतस्येति । कर्मणि लिट् । नृपेणेति विपरणामः ।
  • (2744) विभाषोपपदेन प्रतीयमाने <1-3-77>
स्वरितञित 2158 इत्यादिपञ्चसूत्र्या यदात्मनेपदं विहितं तत्समीपोच्चारितेन पदेन क्रियाफलस्य कर्तृगामित्वे द्योतिते वा स्यात् । स्वं यज्ञं यजति यजते वा । स्वं कटं करोति कुरुते वा । स्वं पुत्रमपवदति अपवदते वा । स्वं यज्ञं कारयति कारयते वा । स्वं व्रीहिं संयच्छति संयच्छते वा । स्वां गां जानाति जानीते वा ॥
इति तिङन्तात्मनेपदप्रकरणम्‌

तिङन्तपरस्मैपदप्रकरणम्‌

सम्पाद्यताम्
  • (2745) अनुपराभ्यां कृञः <1-3-79>
कर्तृगेऽपि फले गन्धनादौ च परस्मैपदार्थमिदम् । अनुकरोति । पराकरोति । कर्तरीत्येव । भावकर्मणोर्मा भूत् । न चैवमपि कर्मकर्तरि प्रसङ्गः । कार्यातिदेशपक्षस्य मुख्यतया तत्र कर्मवत्कर्मणा 2766 इत्यात्मनेपदेन परेणास्य बाधात् । शास्त्रातिदेशपक्षे तु कर्तरि शप् 2167 इत्यतः शेषात् 2159 इत्यतश्च कर्तृग्रहणद्वयमुवर्त्य कर्तैव यः कर्ता नतु कर्मकर्ता तत्रेति व्याख्येयम् ॥
  • (2746) अभिप्रत्यतिभ्यः क्षिपः <1-3-80>
क्षिपप्रेरणे । स्वरितेत् । अभिक्षिपति ॥
  • (2747) प्राद्वहः <1-3-81>
प्रवहति ॥
  • (2748) परेर्मृषः <1-3-82>
परिमृष्यति । भौवादिकस्य तु परिमर्षति । इह परेरिति योगं विभज्य वहेरपीति केचित् ॥
  • (2749) व्याङ्परिभ्यो रमः <1-3-83>
विरमति ॥
यज्ञदत्तमुपरमति । उपरमयतीत्यर्थः । अन्तर्भावितण्यर्थोऽयम् ॥
  • (2751) विभाषाऽकर्मकात् <1-3-85>
उपाद्रमेरकर्मकात्परस्मैपदं वा । उपरमति । उपरमते वा । निवर्तत इत्यर्थः ॥
  • (2752) बुधयुधनशजनेङ्प्रद्रुस्रुभ्यो णेः <1-3-86>
एभ्यो ण्यन्तेभ्यः परस्मैपदं स्यात् । णिचश्च 2564 इत्यस्यापवादः । बोधयति पद्मम् । योधयति काष्ठानि । नाशयति दुःखम् । जनयति सुखम् । अध्यापयति वेदम् । प्रावयति । प्रापयतीत्यर्थः । द्रावयति । विलापयतीत्यर्थः । स्रावयति । स्यन्दयतीत्यर्थः ॥
  • (2753) निगरणचलनार्थेभ्यश्च <1-3-87>
निगारयति । आशयति । भोजयति । चलयति । कम्पयति ॥ । अदेः प्रतिषेधः ॥ आदयते देवदत्तेन । गतिबुद्धि 540 इति कर्मत्वम् ॥ आदिखाद्योर्नेति प्रतिषिद्धम् । निगरणचलन 2753 इति सूत्रेण प्राप्तस्यैवायं निषेधः । शेषात् 2159 इत्यकर्त्रभिप्राये परस्मैपदं स्यादेव । आदयत्यन्नं बटुना ॥
  • (2754) अणावकर्मकाच्चत्तवत्कर्तृकात् <1-3-88>
ण्यान्तात्परस्मैपदं स्यात् । शेते कृष्णस्तं गोपी शाययति ॥
  • (2755) न पादम्याङ्यमाङ्यसपरिमुहरुचिनृतिवदवसः <1-3-89>
एभ्यो ण्यन्तेभ्यः परस्मैपदं न । पिबतिर्निगरणार्थः । इतरे चित्तवत्कर्तृका अकर्मकाः । नृतिश्चलनार्थोऽपि । तेन सूत्रद्वयेन प्राप्तिः । पाययते । दमयते । आयामयते । आयासयते । परिमोहयते । रोचयते । नर्तयते । वादयते । वासयते ॥ । धेट उपसंख्यानम् ॥ धापयेते शिशुमेकं समीची । अकर्त्रभिप्राये शेषात् 2159 इति परस्मैपदं स्यादेव । वत्सान्पाययति पयः । दमयन्ती कमनीयतामदम् । भिक्षां वासयति । वा क्यषः 2669 । लोहितायति । लोहितायते । द्युद्भ्यो लुङि 2345 अद्युतत् । अद्योतिष्ट । वृद्भ्यः स्यसनोः 2347 । वर्त्सयति । वर्तिष्यते । विवृत्सति । विवर्तिषते । लुटि च क्लृपः 2341 कल्प्ता । कल्प्तासि । कल्पितासे । कल्प्तासे । कल्प्स्यति । कल्पिष्यते । कल्प्स्यते । चिक्लृप्सति । चिकल्पिषते । चिक्लृप्सते ॥ समाप्ता पदव्यवस्था ॥
इति तिङन्तपरस्मैपदप्रकरणम्‌

भावकर्मतिङ्प्रकरणम्‌

सम्पाद्यताम्
  • (2756) सार्वधातुके यक् <3-1-67>
धातोर्यक् प्रत्ययः स्याद्भावकर्मवाचिनि सार्वधातुके परे । भावो भावना, उत्पादना क्रिया सा च धातुत्वेन सकलधातुवाच्या भावार्थकलकारेणानूद्यते । युष्मदस्मद्भ्यां समानाधिकरण्याभावात्प्रथमपुरुषः । तिङ्वाच्यभावनाया असत्त्वरूपत्वेन द्वित्वाद्यप्रतीतेर्न द्विवचनादि । किंत्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानपेक्षत्वात् ॥ अनभिहिते कर्तरि तृतीया । त्वया मयाऽन्यैश्च भूयते । बभूवे ।
  • (2757) स्यसिच्सीयुट्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च <6-4-62>
उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाङ्गकार्यं वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट् चिण्वद्भावसन्नियोगशिष्टत्वात्तदभावे न । इहार्धधातुक इत्यधिकृतं सीयुटो विशेषणं नेतरेषामव्यभिचारात् । चिण्वद्भावाद्वृद्धिः । भाविता । भविता । भाविष्यते । भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट । भविषीष्ट ।
  • (2758) चिण्भावकर्मणो: <3-1-66>
च्लेश्चिण् स्वाद्भावकर्मवाचिनि तशब्दे परे । अभावि । अभाविष्यत । अभविष्यत । तिङोक्तत्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दश्चैत्रेण त्वया मया च । अनुभूयेते । अनुभूयन्ते । त्वमनुभूयसे । अहमनुभूये । अन्वभावि । अन्वभाविषाताम् । अन्वभविषाताम् । णिलोप: । भाव्यते । भावयांचक्रे । भावयांबभूवे । भावयामासे । इह तशब्दस्य एशि इट एत्वे च कृते ह एतीति हत्वं न । तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादौ सार्वधातुके एव ह एति 2250 इति हत्वप्रवृत्तेरित्याहु: । भाविता । चिण्वदिट आभीयत्वेनासिद्धत्वाण्णिलोप: । पक्षे भावयिता । भाविष्यते । भावयिष्यते । भाव्यताम् । अभाव्यत । भाव्येत । भाविषीष्ट । भावयिषीष्ट । अभावि । अभाविषाताम् । अभावयिषाताम् । बुभूप्यते । बुभूषांचक्रे । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यङ्लुगन्तात्तु । बोभूयते । बोभवांचक्रे । बोभाविता । बोभविता । अकृत्सार्व-2298 इति दीर्घ: । स्तूयते विष्णु: । तुष्टुवे । स्ताविता । स्तोता । स्ताविष्यते । स्तोष्यते । अस्तावि । अस्ताविषाताम् । अस्तोषाताम् । गुणोर्ति 2380 इति गुण: । अर्यते । स्मर्यते । सस्मरे । परत्वान्नित्यत्वाच्च गुणे रपरे कृतेऽजन्तत्वाभावेऽप्युपदेशग्रहणाच्चिण्वदिट् । आरिता । अर्ता । स्मारिता । स्मर्ता । गुणोऽर्ति-2380 इत्यत्र नित्यग्रहणानुवृत्तेरुक्तत्वान्नेह गुण: । संस्क्रियते । अनिदिताम्-415 इति नलोप: । स्रस्यते । इदितस्तु नन्द्यते । संप्रसारणम् । इज्यते । अयङ् यिक्ङिति 2649 । शय्यते ।
  • (2759) तनोतेर्यकि <6-4-44>
आकारोऽन्तादेशो वा स्यात् । तायते । तन्यते । ये विभाषा 2391 । जायते । जन्यते ।
  • (2760) तपोऽनुतापे च <3-1-65>
तपश्चलेश्चिण्न स्यात्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन । पापं कर्तृ । तेनाभ्याहत इत्यर्थ: । कर्मणि लुङ् । यद्वा पापेन पुंसा कर्त्रा अशोचीत्यर्थ: । घुमास्था-2462 इतीत्वम् । दीयते । धीयते । आदेच:-2370 इत्यत्राशितीति कर्मधारयादित्संज्ञकशकारादौ निषेध: । एष आदिशित्त्वाभावान्न तस्मिन् आत्वम् । जग्ले ।
  • (2761) आतो युक् चिण्कृतो: <7-3-33>
आदन्तानां युगागम: स्याच्चिणि ञिति णिति कृति च । दायिता । दाता । दायिषीष्ट । दासीष्ट । अदायि । अदायिषाताम् । स्थाघ्वोरिच्च 2389 । अदिषाताम् । अधायिषाताम् । अधिषाताम् । अग्लायिषाताम् । अग्लासाताम् । इत्यते । अचिण्णलो: 2574 इत्युक्तेर्हनस्तो न । हो हन्ते:-358 इति कुत्वम् । घानिता । हन्ता । धानिष्यते । हनिष्यते । आशीर्लिङि वधादेशस्यापवादश्चिण्वद्भाव: । आर्धधातुके सीयुटीति विशेषविहितत्वात् । घानिषीष्ट । पक्षे वधिषीष्ट । अघानि । अघानिषाताम् । अहसाताम् । पक्षे वधादेश: । अवधि । अवधिषाताम् । अघानिष्यत । अहनिष्यत । न च स्यादिषु चिण्वदित्यतिदेशाद्वधादेश: स्यादिति वाच्यम् । अङ्गस्य 200

इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम् । प्रकृतस्य वलादिलक्षणस्यैवेटो ग्रहोऽलिटि-2562 इत्यनेन दीर्घविधानात् । ग्राहिता । ग्रहीता । ग्राहिष्यते । ग्रहीष्यते । ग्राहिषीष्ट । ग्रहिषीष्ट । अग्राहि । अग्राहिषातम् । अग्रहीषाताम् । दृश्यते । अदर्शि । अदर्शिषाताम् । सिच: कित्त्वादम्न । अदृक्षाताम् । गिरतेर्लुङि ध्वमि चतुरधिकं शतम् । तथा हि चिण्वदिटो दीर्घो नेत्युक्तम् । अगारिध्वम् । द्वितीये त्विटि वॄतो वा 2391 इति वा दीर्घ: । अगरीध्वम् । अगरिध्वम् । एषां त्रायाणां लत्वं ढत्वं द्वित्वत्रयं चेति पञ्च वैकल्पिकानि । इत्थं षण्णवति: । लिङ्सिचो: 2528 इति विकल्पत्वादिडभावे उश्च 2368 इति कित्त्वम् । रपरत्वं हलि च 354 इति दीर्घ: । इण: षीध्वं-2247 इति नित्यं ढत्वम् । अशीढ्र्वम् । ढवमानां द्वित्वविकल्पे अष्टौ । उक्तषण्णवत्या सह संकलने उक्ता संख्येति ॥ इङ् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इत्याष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥ हेतुमण्ण्यन्तात्कर्मणि लः । यक् । णिलोपः । शभ्यते मोहो मुकुन्देन ॥

  • (2762) चिण्णमुलोर्दीर्घोऽन्यतरस्याम् <6-4-93>
चिण् परे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो मितां ह्रस्वः-2568 एव तु न विकल्पितः । ण्यन्ताण्णौ ह्रस्वविकल्पस्यासिद्धेः । दीर्घविधौ हि णिचो लोपो न स्थानिवदिति दीर्घः सिध्यति । ह्रस्वविधौ तु स्थानिवत्त्वं दुर्वारम् । भाष्ये तु पूर्वत्रासिद्धीये न स्थानिवदित्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्चरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं मास्तु इति तदाशयः । शामिता । शमिता । शमयिता । शामिष्यते । शमिष्यते । शमयिष्यते । यङन्ताण्णिच् । शंशम्यते । शंशामिता । शंशमिता । शंशमयिता । यङ्लुगन्ताण्णिच्यप्येवम् । भाष्यमते तु यङन्ताच्चिण्वदिटि दीर्घो नास्तीति विशेषः । ण्यन्तात्वाभावे शस्यते मुनिना ।
  • (2763) नोपदात्तोपदेशस्य मानतस्यानाचमेः <7-3-34>
उपाधाया वृद्धिर्न स्याच्चिणि ञिति णिति कृति च । अशमि । अदमि । उदात्तोपदेशस्येति किम् । अगामि । मान्तस्य किम् । अवादि । अनाचमेः किम् । आचामि ॥ । अनाचमिकमिवमीनामिति वक्तव्यम् (वा) ॥ चिणि आयादयः -2305 इति णिङभावे । अकामि । णिङ्णिचोरप्येवम् । अवामि । वध हिंसायाम् । हलन्तः । जनिवध्योः 2512 इति न वृद्धिः । अवधि । जाग्रोऽविचिण्णल्ङित्सु 2480 इत्युक्तेर्न गुणः । अजागारि ।
  • (2764) भञ्चेश्च चिणि <6-4-63>
नलोपो वा स्यात् । अभाजि । अभञ्जि ।
  • (2765) विभाषा चिण्णमुलोः <7-1-69>
लभेर्नुमागमो वा स्यात् । अलम्भि । अलाभि । व्यवस्थितविकल्पत्वात्प्रादेर्नित्यं नुम् । प्रालम्भि । द्विकर्मकाणां तु । गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् ॥ बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥ प्रयोज्यकर्मण्यन्येषां ण्यन्तानां लादयो मताः- गौर्दुह्यते पयः । अजा ग्रामं नीयते । ह्रियते । कृष्यते । उह्यते । बोध्यते माणवकं धर्मः । माणवके धर्ममिति वा । देवदत्तो ग्रामं गम्यते । अकर्मकाणां कालादिकर्मकाणां कर्मणि भावे च लकार इष्यते । मासो मासं वा आस्यते देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः ॥
इति भावकर्मतिङ्प्रकरणम्‌

कर्मकर्तृतिङ्प्रकरणम्‌

सम्पाद्यताम्
  • (2766) कर्मवत्कर्मणा तुल्यक्रियः <3-1-87>
कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिण्चिण्वदिटः स्युः । कर्तुरभिहितत्वात्प्रथमा । पच्यते ओदनः । भिद्यते काष्ठम् । अपाचि । अभेदि । ननु भावे लकारे कर्तुर्द्वितीया स्यादस्मादतिदेशादिति चेन्न । लकारवाच्य एव कर्ता कर्मवत् । व्यत्ययो बहुलं 3433 लिङ्याशिष्यङ् 3434 इति द्विलकारकाल्ल इत्यनुवृत्तेः । भावे प्रत्यये च कर्तुर्लकारेणानुपस्थितेः । अत एव कृत्यक्तखलार्थाः कर्मकर्तरि न भवन्ति । किं तु भावे एव । भेत्तव्यं कुसूलेन । ननु पचिभिद्योः कर्मस्था क्रिया विक्लत्तिर्द्विधाभवनं च । सैवेदानीं कर्तृस्था न तु तत्तुल्या । सत्यम् । कर्मत्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरणक्रियाया भेदमाश्रित्य व्यवहारः । कर्मणेति किम् । करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्ते साध्वसिरित्यादौ मा भूत् । किंच । कर्तृस्थक्रियेभ्यो माभूत् । गच्छति ग्रामः । आरोहति हस्ती । अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्वेषु तण्डुलेषु यथा वा छिन्नेषु काष्ठेषु तत्र कर्मस्था क्रिया नेतरत्र । न हि पक्वापक्वतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरूत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन कारिष्यते घट इत्यादि । यत्नार्थत्वे तु नैतत्सिद्ध्येत् । ज्ञानेच्छादिवद्यत्नस्य कर्तृस्थत्वात् । एतेन अनुव्यवस्यमानेऽर्थे इति व्याख्यातम् । कर्तृस्थत्वेन यगभावाच्छ्यनि कृते ओलोपे च रूपसिद्धेः । ताच्छील्यादावयं चानश् न त्वात्मनेपदम् ॥ । सकर्मकाणां प्रतिषेथो वक्तव्यः (वा) ॥ अन्योन्यं स्पृशतः । अजा ग्रामं नयति ॥ । दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम् (वा) ॥
  • (2767) न दुहस्नुनमां यक्चिणौ <3-1-89>
एषां कर्मकर्तरि यक्चिणौ न स्तः । दुहेरनेन यक एव निषेधः । चिण् तु विकल्पेनेष्यते । शब्लुक् । गौः पयो दुग्धे ॥
  • (2768) अचः कर्मकर्तरि <3-1-62>
अजन्तात् च्लेश्चिण् वा स्यात्कर्मकर्तरि तशब्दे परे । अकारि । अकृत ॥
अदोहि । पक्षे क्सः । लुग्वा--365 इति पक्षे लुक् । अदुग्ध । अधुक्षत । उदुम्बरः फलं पच्यते ॥ । सृजियुज्योः श्यंस्तु ॥ अनयोः सकर्मकयोः कर्ता बहुलं कर्मवत् यगपवादश्य श्यन्वाच्य इत्यर्थः ॥ । सृजेः श्रद्धोपपन्ने कर्तर्येवेति वाच्यम् ॥ सृज्यते स्रजं भक्तः । श्रद्धया निष्पादयतीत्यर्थः ॥ असर्जि । युज्यते ब्रह्मचारी योगम् ॥ । भूषाकर्मकिरादिसनां चान्यत्रात्मनेपदात् (वा) ॥ भूषावाचिनां किरादीनां सन्नन्तानां च यक्चिणौ चिण्वदिट् च नेति वाच्यमित्यर्थः । अलंकुरुते कन्या । अलमकृत । अवकिरते हस्ती । अवाकीर्ष्ट । गिरते । अगीर्ष्ट । आद्रियते । आदृत । किरीदिस्तुदाद्यन्तर्गणः । चिकीर्षते कटः । अचिकीर्षिष्ट । इच्छायाः कर्तृस्थत्वेऽपि करोतिक्रियापेक्षमिह कर्मस्थक्रियत्वम् ॥
अस्मात् च्लेश्चिण्न । अवारुद्ध गौः । कर्मकर्तरीत्येव । अवारोधि गौर्गोपेन ॥
  • (2771) तपस्तपः कर्मकस्यैव <3-1-88>
कर्ता कर्मवत्स्यात् । विध्यर्थमिदम् । एवकारस्तु व्यर्थ एवेति वृत्त्यनुसारिणः । तप्यते तपस्तापसः । अर्जयतीत्यर्थः । तपोऽनुतापे च 2760 इति चिण्निषेधात्सिच् । अतप्त । तपः कर्मः कस्येति किम् । उत्तपत सुवर्णं सुवर्णकारः । न दुहस्नुनमां यक्चिणौ 2767 । प्रस्नुते । प्रास्नाविष्ट । प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र

नमिः ॥ यक्चिणोः प्रतिषेधे-- । हेतुमण्णिश्रिब्रूञामुपसंख्यानम् ॥ कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चिण्वदिट् तु स्यादेव । कारिष्यते । उच्छ्रायिष्यते । ब्रूते कथा । अवोचत ॥ भारद्वाजीयाः पठन्ति ॥ । णिश्रन्थिग्रन्थिब्रूञात्मनेपदाकर्मकाणामुपसंख्यानम् ॥ पुच्छमुदस्यति । उत्पुच्छयते गौः । अन्तर्भावितण्यर्थतायाम् । उत्पुच्छयते गाम् । पुनः कर्तृत्वविवक्षायाम् । उत्पुच्छयते गौः । उदपुपुच्छत । यक्चिणोः प्रतिषेधाच्छप्चङौ । श्रन्थिग्रन्थ्योराधृषीयत्वाण्णिजभावपक्षे ग्रहणम् । ग्रन्थति ग्रन्थम् । श्रन्थति मेखलां देवदत्तः । ग्रन्थते ग्रन्थः । अग्रन्थिष्ट । श्रन्थते । अश्रन्थिष्ट । क्रैयादिकयोस्तु । श्रन्थीते ग्रन्थीते स्वयमेव । विकुर्वते सैन्धवाः । वल्गन्तीत्यर्थः । वेः शब्दकर्मणः 2707 , अकर्मकाच्च 2708 इति तङ् । अन्तर्भावितण्यर्थस्य पुनः प्रेषणत्यागे । विकुर्वते सैन्धवाः । व्यकारिष्ट । व्याकारिषाताम् । व्याकारिषत । व्यकृत । व्यकृषाताम् । व्यकृषत ॥

  • (2772) कुषिरजोः प्राचां श्यन्परस्मैपदं च <3-1-90>
अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥
इति कर्मकर्तृतिङ्प्रकरणम्‌

लकारार्थप्रकरणम्‌

सम्पाद्यताम्
  • (2773) अभिज्ञावचने लृट् <3-2-122>
स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् । लङोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृतौ वृत्तिसंभवात् ॥
यद्योगे उक्तं न । अभिजानासि कृष्ण यद्वने अभुञ्जमहि ॥
  • (2775) विभाषा साकाङ्क्षे <3-2-114>
उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण वने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासो लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छब्दयोगेऽपि नयदि 2774 इति बाधित्वा परत्वाद्विकल्पः । परोक्षे लिट् 2171 चकार । उत्तमपुरुषे चित्तविक्षेपादिना पारोक्ष्यम् । सुप्तोऽहं किल विललाप । बहु जगद पुरस्तात्तस्य मत्ता किलाहम् ॥ अत्यन्तापह्नवे लिड्वक्तव्यः (वा) ॥ कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम ॥
  • (2776) हशश्वतोर्लङ् च <3-2-116>
अनयोरुपपदयोर्लिङ्विषये लङ् स्यात् । इतिहाकरोच्चकार वा । शश्वदकरोच्चकार वा ॥
  • (2777) प्रश्ने चासन्नकाले <3-2-117>
प्रष्टव्यः प्रश्नः । आसन्नकाले पृच्छ्यमानेऽर्थे लिड्विषये लङ्लिटौ स्तः ॥ अगच्छत्किम् । जगाम किम् । अनासन्ने तु कंसं जघान किम् ॥
लिटोऽपवादः । यजति स्म युधिष्ठरः ॥
  • (2779) अपरोक्षे च <3-2-119>
भूतानद्यतने लट् स्यात् स्मयोगे । एवं स्म पिता ब्रवीति ॥
  • (2780) ननौ पृष्टप्रतिवचने <3-2-120>
अनद्यतनपरोक्ष इति निवृत्तम् । भूते लट् स्यात् । अकार्षीः किम् । ननु करोमि भोः ॥
  • (2781) नन्वोर्विभाषा <3-2-121>
अकार्षीः किम् । न करोमि नाकार्षम् । अहं तु करोमि । अहं न्वकार्षम् ॥
  • (2782) पुरि लुङ् चास्मे <3-2-122>
अनद्यतग्रहणं मण्डूकप्लुत्याऽनुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ् चाल्लट् नतु स्मयोगे । पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्राः । अवात्सुः । अवसन् । ऊषुर्वा । अस्मे किम् । यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने ॥
  • (2783) यावत्पुरानिपातयोर्लट् <3-3-4>
यावद्भुङ्क्ते । पुराभुङ्क्ते । निपातावेतौ निश्चयं द्योतयतः । निपातयोः किम् । यावद्दास्यते तावद्भोक्ष्यते । करणीभूतया पूरा यास्यति ॥
  • (2784) विभाषा कदाकर्ह्योः <3-3-5>
भविष्यति लड् वा स्यात् । कदा कर्हि वा भुङ्क्ते । भोक्ष्यते । भोक्ता वा ॥
  • (2785) किंवृत्ते लिप्सायाम् <3-3-6>
भविष्यति लड्वा स्यात् । कं कतरं कतमं वा भोजयसि भोजयिष्यसि भोजयितासि वा । लिप्सायां किम् । कः पाटलिपुत्रं गमिष्यति ॥
  • (2786) लिप्स्यमानसिद्धौ च <3-3-7>
लिप्स्यमानेनान्नादिना स्वर्गादेः सिद्धौ गम्यमानायां भविष्यति लड्वा स्यात् । योऽन्नं ददाति दास्यति दाता वा स

स्वर्गं याति यास्यति याता वा ॥

  • (2787) लोडर्थलक्षणे च <3-3-8>
लोडर्थः प्रैषादिर्लक्ष्यते येन तस्मिन्नर्थे वर्तमानाद्धातोर्भविष्यति लड्वा स्यात् । कृष्णश्चेद्भुङ्क्ते त्वं गाश्चारय । पक्षे लुड्लृटौ ॥
  • (2788) लिङ् चौर्ध्वमौहूर्तिके <3-3-9>
ऊर्ध्वं मुहूर्ताद्भवः ऊर्ध्वमौहूर्तिकः । निपातनात्समासः उत्तरपदवृद्धिश्च । ऊर्ध्वमौहूर्तिके भविष्यति लोडर्थलक्षणे वर्तमानाद्धातोर्लिङ्लटौ वा स्तः । मुरूर्तादुपरि उपाध्यायश्चेदागच्छेत् । आगच्छति । आगमिष्यति । आगन्ता वा । अथ त्वं छन्दोऽधीष्व ॥
  • (2789) वर्तमानसामीप्ये वर्तमानवद्वा <3-3-131>
समीपमेव सामीप्यम् । स्वार्थे ष्यञ् ।वर्तमाने लट् 2151 इत्यारभ्य उणादयो बहुलं 3169 इति यावद्येनोपाधिना प्रत्यया उक्तास्ते तथैव वर्तमानसमीपे भूते भविष्यति च वा स्युः । कदा आगतोऽसि । अयमागच्छामि । अयमागमम् । कदा गमिष्यसि । एष गच्छामि गमिष्यामि वा ॥
  • (2790) आशंसायां भूतवच्च <3-3-132>
वर्तमानसामीप्य इति नानुवर्तते । भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् । देवश्चेदवर्षीत् वर्षति वर्षिष्यति वा । धान्यमवाप्स्म वपामो वप्स्यामो वा । सामान्यातिदेशे विशेषानतिदेशः । तेन लङ्लिटौ न ॥
  • (2791) क्षिप्रवचने लृट् <3-3-133>
क्षिप्रपर्याये उपपदे पूर्वविषये लृट् स्यात् । वृष्टिश्चेत्क्षिप्रमाशु त्वरितं वा यास्यति । शीघ्रं वप्स्यामः । नेति वक्तव्ये लृङ्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीघ्रं वप्स्यामः ॥
  • (2792) आशंसावचने लिङ् <3-3-134>
आशंसावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । आशंसे क्षिप्रमधीयीय ॥
  • (2793) नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः <3-3-135>
क्रियायाः सातत्ये सामीप्ये च गम्ये लङ् लुटौ न । यावज्जीवमन्नमदाद्दास्यति वा । सामीप्यं तुल्यजातीयेनाव्यवधानम् । येयं पौर्णमास्यतिक्रान्ता तस्यामग्नीनाधित । सोमेनयाष्ट । येयममावस्याऽऽगामिनी तस्यामग्नीनाधास्यते । सोमेन यक्ष्यते ॥
  • (2794) भविष्यति मर्यादावचनेऽवरस्मिन् <3-3-136>
भविष्यति काले मर्यादोक्ताववरस्मिन्प्रविभागेऽनद्यतनवन्न । योऽयमध्वा गन्तव्य आ पाटलिपुत्रात्तस्य यदवरं कौशाम्ब्यास्तत्र सक्तून्पास्यामः ॥
  • (2795) कालविभागे चानहोरात्राणाम् <3-3-137>
पूर्वसूत्रं सर्वमनुवर्तते । अहोरात्रसंबन्धिनि विभागे प्रतिषेधार्थमिदम् । योगविभाग उत्तरार्थः । योऽयं वत्सर आगामी तस्य यदवरमाग्रहाण्यास्तत्र युक्ता अध्येष्यामहे । अनहोरात्राणां किम् । योऽयं मास आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्राध्येतास्महे ॥
  • (2796) परस्मिन्विभाषा <3-3-138>
अवरस्मिन्वर्जं पूर्वसूत्रद्वयमनुवर्तते । अप्राप्तविभाषेयम् । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्राध्येष्यामहे । अध्येतास्महे । लिङ्निमित्ते लङ्क्रियातिपत्तौ 2229 भविष्यतीत्येव । सुवृष्टिश्चेदभविष्यत्तदा सुभिक्षमभविष्यत् ॥
पूर्वसूत्रं संपूर्णमनुवर्तते ॥
वा आ उताप्योरिति छेदः । उताप्योः -- 2809 इत्यतः प्राग्भूते लिङ्निमित्ते लृङ् वेत्यधिक्रियते । पूर्वसूत्रं तु उताप्योरित्यादौ प्रवर्तते इति विवेकः ॥
  • (2799) गर्हायां लडपिजात्वोः <3-3-142>
आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥
  • (2800) विभाषा कथमि लिङ् च <3-3-143>
गर्हायामित्येव । कालत्रये लिङ् चाल्लट् । कथं धर्मं त्यजेस्त्यजसि वा । पक्षे कालत्रये लकाराः । अत्र भविष्यति नित्यं लृङ् भूते वा । कथं नाम तत्रभवान् धर्ममत्यक्षत् । अत्याक्षीद्वा ॥
  • (2801) किंवृत्ते लिङ्लृटौ <3-3-144>
गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
  • (2802) अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि <3-3-145>
गर्हायामिति निवृत्तम् । अनवक्लृप्तिरसंभावना । अमर्षोऽक्षमा । न संभावयामि न मर्षये वा भवान् हरिं निन्देत् निन्दिष्यति वा । लृङ् प्राग्वत् ॥
  • (2803) किंकिलास्त्यर्थेषु लृट् <3-3-146>
अनवक्लृप्त्यमर्षयोरित्येतत् गर्हायां च 2806 इति यावदनुवर्तते । किंकिलेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्थाः अस्तिभवतिविद्यतयः । लिङोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल त्वं शूद्रान्नं भोक्ष्यसे । अस्ति भवति विद्यते वा शूद्रीं गमिष्यसि । अत्र लृङ् न ॥
  • (2804) जातुयदोर्लिङ् <3-3-147>
। यदायद्योरुपसंख्यानम् ॥ लृटोऽपवादः । जातु यद्यदा यदि वा त्वादृशो हरिं निन्देन्नावकल्पयामि न मर्षयामि । लृङ् प्राग्वत् ॥
  • (2805) यच्चयत्रयोः <3-3-148>
यच्च यत्र वा त्वमेवं कुर्याः । न श्रद्दधे न मर्षयामि ॥
  • (2806) गर्हायां च <3-3-149>
अनवक्लृप्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां लिङेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजयेः । अन्याय्यं तत् ॥
  • (2807) चित्रीकरणे च <3-3-150>
यच्च यत्र वा त्वं शूद्रं याजयेः । आश्चर्यमेतत् ॥
  • (2808) शेषे लृडयदौ <3-3-151>
यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लृट् स्यात् । आश्चर्यमन्धो नाम कृष्णं द्रक्ष्यति । अयदौ किम् । आश्चर्यं यदि सोऽधीयीत ॥
  • (2809) उताप्योः समर्थयोर्लिङ् <3-3-152>
बाढमित्यर्थेऽनयोस्तुल्यार्थता । उत अपि वा हन्यादघं हरिः । समर्थयोः किम् । उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति लिङ्निमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो लृङ् ॥
  • (2810) कामप्रवेदनेऽकच्चिति <3-3-153>
स्वाभिप्रायाविष्करणे गम्यमाने लिङ् स्यान्न तु कच्चिति । कामो मे भुञ्जीत भवान् । अकच्चितीति किम् । कच्चिज्जीवति ॥
  • (2811) संभावनेऽलमिति चेत्सिद्धाप्रयोगे <3-3-154>
अलमर्थोऽत्र प्रौढिः । संभावनमित्यलमिति च प्रथमया सप्तम्या च विपरिणम्यते । संभावनेऽर्थे लिङ् स्यात्तच्चेत्संभावनमलमिति अलमि सिद्धाऽप्रयोगे सति । अपि गिरिं शिरसा भिन्द्यात् । सिद्धाप्रयोगे किम् । अलं कृष्णो हस्तिनं हनिष्यति ॥
  • (2812) विभाषा धातौ संभावनवचनेऽयदि <3-3-155>
पूर्वसूत्रमनुवर्तते । संभावनेऽर्थे धातावुपपदे उक्तेऽर्थे लिङ् वा स्यात् न तु यच्छब्दे । पूर्वेण नित्ये प्राप्ते वचनम् ।

संभावयामि भुञ्जीत भोक्ष्यते वा भवान् । अयदि किम् । संभावयामि यद्भुञ्जीथास्त्वम् ॥

  • (2813) हेतुहेतुमतोर्लिङ् <3-3-156>
वा स्यात् कृष्णं नमेच्चेत्सुखं यायात् । कृष्णं नंस्यति चेत्सुखं यास्यति ॥ । भविष्यत्येवेष्यते ॥ नेह । हन्ताति पलायते ॥
  • (2814) इच्छार्थेषु लिङ्लोटौ <3-3-157>
इच्छामि भुञ्जीत भुङ्क्तां वा भवान् । एवं कामये प्रार्थये इत्यादियोगे बोध्यम् ॥ । कामप्रवेदन इति वक्तव्यम् (वा) ॥ नेह । इच्छन् करोति ॥
समानकर्तृकेषु इच्छार्थेषूपपदेषु लिङ् । भुञ्जीयेतीच्छति ॥
  • (2816) इच्छार्थेभ्यो विभाषा वर्तमाने <3-3-160>
लिङ् स्यात्पक्षे लट् ॥ इच्छेत् । इच्छति । कामयेत । कामयते । विधिनिमन्त्रण--2208इति लिङ् । विधौ । यजेत । निमन्त्रणे । इह भुञ्जीत भवान् । आमन्त्रणे । इहासीत । अधीष्टे । पुत्रमध्यापयेद्भवान् । संप्रश्ने । किं भो वेदमधीयीय उत तर्कम् । प्रार्थने । भोजनं लभेय । एवं लोट् ॥
  • (2817) प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च <3-3-163>
प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवतायष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥
  • (2818) लिङ् चोर्ध्वमौहूर्तिके <3-3-164>
प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूर्ध्वं यजेत यजतां वा । यष्टव्यम् ॥
पूर्वसूत्रस्य विषये । लिङः कृत्यानां चापवादः । ऊर्ध्वं मुहूर्ताद् यजतां स्म ॥
स्म उपपदेऽधीष्टे लोट् स्यात् । त्वं स्म अध्यापय ॥
यच्छब्दे उपपदे कालसमयवेलासु च लिङ् स्यात् । कालः समयो वेला वा यद्भुञ्जीत भवान् ॥
  • (2822) अर्हे कृत्यतृचश्च <3-3-169>
चाल्लिङ् । त्वं कन्यां वहेः ॥
शक्तौ लिङ् स्यात् चात्कृत्याः । त्वं भारं वहेः । माङि लुङ् 2219 मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥
  • (2824) धातुसंबन्धे प्रत्ययाः <3-4-1>
धात्वर्थानां संबन्धे यत्र काले प्रत्यया उक्तास्ततोऽन्यत्रापि स्युः । तिङ्वाच्यक्रियायाः प्राधान्यात्तदनुरोधेन गुणभूतक्रियावाचिभ्यः प्रत्ययाः । वसन् ददर्श । भूते लट् । अतीतवासकर्तृकर्तृकं दर्शनमर्थः । सोमयाज्यस्य पुत्रो भविता । सोमेन यक्ष्यमाणो यः पुत्रस्तत्कर्तृकं भवनम् ॥
  • (2825) क्रियासमभिहारे लोट् लोटो हिस्वौ वा च तध्वमोः <3-4-2>
पौनः पुन्ये भृशार्थे च द्योत्ये धातोर्लोट् स्यात्तस्य च हिस्वौ स्तस्तिङामपवादः । तौ च हिस्वौ क्रमेण परस्मैपदात्मनेपदसंज्ञौ स्तस्तिङ्संज्ञौ च । तध्वमोर्विषये तु हिस्वौ वा स्तः । पुरुषैकवचनसंज्ञे तु नानयोरतिदिश्येते । हिस्वविधानसामर्थ्यात् । तेन सकलपुरुषवचनविषये परस्मैपदिभ्यो हिः कर्तरि । आत्मनेपदिभ्यः स्वो भावकर्मकर्तृषु ॥
  • (2826) समुच्चयेऽन्यतरस्याम् <3-4-3>
अनेकक्रियासमुच्चये द्योत्ये प्रागुक्तं वा स्यात् ॥
  • (2827) यथाविध्यनुप्रयोगः पूर्वस्मिन् <3-4-4>
आद्ये लोड्विधाने लोट्प्रकृतिभूत एव धातुरनुप्रयोज्यः ॥
  • (2828) समुच्चये सामान्यवचनस्य <3-4-5>
समुच्चये लोड्विधौ सामान्यार्थस्य धातोरनुप्रयोगः स्यात् । अनुप्रयोगाद्याथायथं लडादयस्तिबादयश्च । ततः संख्याकालयोः पुरुषविशेषार्थस्य चाभिव्यक्तिः ॥ । क्रियासमभिहारे द्वे वाच्ये ॥ याहियाहीति याति । पुनःपुनरतिशयेन वा यानं ह्यन्तस्यार्थः । एककर्तृकं वर्तमानकालिकं यानं यातीत्यस्य । इतिशब्दस्त्वभेदान्वये तात्पर्यं ग्राहयति । एवं यातः । यान्ति । यासि । याथः । याथ । यातयातेति यूयं याथ । याहियाहीत्ययासीति । यास्यति वा । अधीष्वाधीष्वेत्यधीते । ध्वंविषये पक्षेऽधीध्वमधीध्वमितियूयमधीध्वे । समुच्चये तु सक्तून्पिब धानाः खादेत्यभ्यवहरति । अन्नं भुङ्क्ष्व दाधिकमास्वादयस्वेत्यभ्यवहरते । तध्वमोस्तु पिबत खादतेत्यभ्यवहरथ । भुङ्ध्वमास्वादयध्वमित्यभ्यवहरध्वे । पक्षे हिस्वौ । अत्र समुच्चीयमानविशेषाणामनुप्रयोगार्थेन सामान्येनाभेदान्वयः । पक्षे सक्तून् पिबति । धानाः खादति । अन्नं भुङ्क्ते । दाधिकामास्वादयते । एतेन पुरीमवस्कन्द लुनीहि नन्दनं मुषाण रत्नानि हरामहाङ्गनाः । विगृह्य चक्रे नमुचिद्विषा बली य इत्थमस्वास्थ्यमहर्दिवं दिव इति व्याख्यातम् । अवस्कन्दन-वनादिरूपा भूतानद्यतनपरोक्षा एककर्तृका अस्वास्थ्यक्रियेत्यर्थात् । इह पुनःपुनश्चस्कन्देत्यादिरर्थ इति तु व्याख्यानं भ्रममूलकमेव । द्वितीयसूत्रे क्रियासमभिहार इत्यस्यानुवृत्तेः । लोडन्तस्य द्वित्वापत्तेश्च । पुरीमवस्कन्देस्यादि मध्यमपुरुषैकवचनमित्यपि केषांचिद्भ्रम एव । पुरुषवचनसंज्ञे इह नेत्युक्तत्वात् ॥
इति लकारार्थप्रकरणम्‌

कृदन्तकृत्यप्रकरणम्‌

सम्पाद्यताम्
आ तृतीयसमाप्तेरधिकारोऽयम् । तत्रोपपदं सप्तमीस्थम् 781 । कृदतिङ् 374 ॥
  • (2830) वाऽसरुपोऽस्त्रियाम् <3-1-94>
परिभाषेयम् । अस्मिन्धात्वधिकारेऽसरूपोऽपवादप्रत्यय उत्सर्गस्यबाधको वा स्यात् स्त्र्यधिकारोक्तं विना ॥
अधिकारोऽयं ण्वुलः प्राक् ॥
  • (2832) कर्तरि कृत् <3-4-67>
कृत्प्रत्ययः कर्तरि स्यादिति प्राप्ते ॥
  • (2833) तयोरेव कृत्यक्तखलर्थाः <3-4-70>
एतेन भावकर्मणोरेव स्युः ॥
  • (2834) तव्यत्तव्यानीयरः <3-1-96>
धातोरेते प्रत्ययाः स्युः । तकाररेफौ स्वरार्थौ । एधितव्यम् । एधनीयं त्वया । भावे औत्सर्गिकमेकवचनं क्लीबत्वं च । चेतव्यश्चयनीयो वा धर्मस्त्वया ॥ । वसेस्तव्यत्कर्तरिणिच्च ॥ वसतीति वास्तव्यः ॥ । केलिमर उपसंख्यानम् ॥ पचेलिमा माषाः । पक्तव्याः । भिदेलिमाः सरलाः भेत्तव्याः । कर्मणि प्रत्ययः ॥ वृत्तिकारस्तु कर्मकर्तरि चायमिष्यत इत्याह तद्भाष्यविरुद्धम् ॥
उपसर्गस्थान्निमित्तात्परस्याच उत्तरस्य कृत्स्थस्य नस्य णत्वं स्यात् । प्रयाणीयम् । अचः किम् । प्रमग्नः ॥ । निर्विण्णस्योपसंख्यानम् । अचः परत्वाभावादप्राप्ते वचनम् । परस्य णत्वम् । पूर्वस्य ष्टुत्वम् । निर्विण्णः ॥
  • (2836) णेर्विभाषा <8-4-30>
उपसर्गास्थान्निमित्तात्परस्य ण्यन्ताद्विहितो यः कृत्तस्थस्य नस्य णो वा स्यात् । प्रयापणीयम् । प्रयापनीयम् । विहितविशेषणं किम् । यकाव्यवधानेऽपि यथा स्यात् । प्रयाप्यमाणं पश्य । णत्वे दुर उपसर्गत्वं नेत्युक्तम् । दुर्यानम् । दुर्यापनम् ॥
  • (2837) हलश्चेजुपधात् <8-4-31>
हलादेरिजुपधात्कृन्नस्याचः परस्य णो वा स्यात् । प्रकोपणीयम् । प्रकोपनीयम् । हलः किम् । प्रोहणीयम् । इजुपधात्किम् । प्रवपणीयम् ॥
  • (2838) इजादेः सनुमः <8-4-32>
सनुमश्चेद्भवति तर्हि इजादेर्हलन्ताद्विहितो यः कृत्तस्थस्यैव । प्रेङ्खणीयम् । इजादेः किम् । मगि सर्पणे । प्रमङ्गनीयम् । नुम्ग्रहणमनुस्वारोपलक्षणार्थम् । अट्कुप्वाङ्- 197 इति सूत्रेऽप्येवम् । तेनेह न । प्रेन्वनम् । इह तु स्यादेव । प्रोम्भणम् ॥
  • (2839) वा निंसनिक्षनिन्दाम् <8-4-33>
एषां नस्य णो वा स्यात् कृति परे । प्रणिंसितव्यम् । प्रनिंसितव्यम् ॥
  • (2840) न भाभूपूकमिगमिप्यायीवेपाम् <8-4-34>
एभ्यः कृन्नस्य णो न । प्रभानीयम् । प्रभवनीयम् ॥ षूञ एवेह ग्रहणमिष्यते ॥ पूङस्तु प्रपवणीयः सोमः ॥ । ण्यन्ताभादीनामुपसंख्यानम् ॥ प्रभापनीयम् । ख्शाञः शस्य यो वेत्युक्तम् । णत्वप्रकरणोपरि तद्बोध्यम् । यत्वस्यासिद्धत्वेन शकारव्यवधानान्न णत्वम् । प्रख्यानीयम् ॥
  • (2841) कृत्यल्युटो बहुलम् <3-3-113>
स्नान्त्यनेन स्नानीयं चूर्णम् । दीयतेऽस्मै दानीयो विप्रः ॥
अजन्ताद्धातोर्यत्स्यात् । चेयम् । जेयम् । अज्ग्रहणं शक्यमकर्तुम् । योगविभागोऽप्येवम् । तव्यादिष्वेव यतोऽपि

सुपठत्वात् ॥

यति परे आत ईत्स्यात् । गुणः । देयम् । ग्लेयम् ॥ तकिशसिचतियतिजनिभ्यो यद्वाच्यः ॥ तक्यम् । शस्यम् । चत्यम् । यत्यम् । जन्यम् । जनेर्यद्विधिः स्वरार्थः । ण्यतापि रूपसिद्धेः । न च वृद्धिप्रसङ्गः । जनिवध्योश्च 2512 इति नेषेधात् ॥ । हनो वा यद्वधश्च वक्तव्यः ॥ वध्यः । पक्षे वक्ष्यमाणो ण्यत् । घात्यः ॥
  • (2844) पोरदुपधात् <3-1-98>
पवर्गान्ताददुपधाद्यत्स्यात् । ण्यतोऽपवादः । शप्यम् । लभ्यम् । नानुबन्धकृतमसारूप्यम् । अतो न ण्यत् । तव्यदादयस्तु स्युरेव ॥
आङः परस्य लभेर्नुम् स्याद्यादौ प्रत्यये विवक्षिते । नुमि कृतेऽदुपधात्वाभावात् ण्यदेव । आलम्भ्यो गौः ॥
  • (2846) उपात्प्रशंसायाम् <7-1-66>
उपलम्भ्यः साधुः । स्तुतौ किम् । उपलब्धुं शक्य उपलभ्यः ॥
  • (2847) शकिसहोश्च <3-4-99>
शक्यम् । सह्यम् ॥
  • (2848) गदमदचरयमश्चानुपसर्गे <3-1-100>
गद्यम् । मद्यम् । चर्यम् ॥ । चरेराङि चागुरौ (वा) ॥ आचर्यो देशः । गन्तव्य इत्यर्थः । अगुरौ किम् । आचार्यो गुरुः । यमेर्नियमार्थम् । सोपसर्गान्माभूदिति । प्रयाम्यम् । निपूर्वात्स्यादेव । तेन न तत्र भवेद्विनिमयम्यमिति वार्तिकप्रयोगात् । एतेनानियम्यस्य नायुक्तिः । त्वया नियम्या ननु दिव्यचक्षुषेत्यादि व्याख्यातम् । नियमे साधुरिति वा ॥
  • (2849) अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु <3-1-101>
वदेर्नञि उपपदे वदः सुप् - 2854 इति यत्क्यपोः प्राप्तयोर्यदेव सोऽपि गर्हायामेवेत्युभयार्थं निपातनम् । अवद्यं पापम् । गर्ह्ये किम् । अनुद्यं गुरुनाम । तद्धि न गर्ह्यं वचनानर्हं च । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज्ज्येष्ठापत्यकलत्रयोः ॥ इति स्मृतेः । पण्या गौः । व्यवहर्तव्येत्यर्थः । पाण्यमन्यत् । स्तुत्यर्हमित्यर्थः । अनिरोधोऽप्रतिबन्धस्तस्मिन्विषये वृङो यत् । शतेन वर्याकन्या । वृत्यान्या ॥
  • (2850) वह्यं करणम् <3-1-102>
वहन्त्यनेनेति वह्यं शकटम् । करणं किम् । वाह्यम् । वोढव्यम् ॥
  • (2851) अर्यः स्वामिवैश्ययोः <3-1-103>
ऋ गतौ । अस्माद्यत् । ण्यतोपवादः । अर्यः स्वामी वैश्यो वा । अनयोः किम् । आर्यो ब्रह्मणः । प्राप्तव्य इत्यर्थः ॥
  • (2852) उससर्या काल्या प्रजने <3-1-104>
गर्भग्रहणे प्राप्तकाला चेदित्यर्थः । उपसर्ग गौः । गर्भाधानार्थं वृषभेणोपगन्तुं योग्येत्यर्थः । प्रजने काल्येति किम् । उपसार्या काशी । प्राप्तव्येत्यर्थः ॥
  • (2853) अजर्यं संगतम् <3-1-105>
नञ्पूर्वाज्जीर्यतेः कर्तरि यत् संगतं येद्विशेष्यम् । न जीर्यतीत्यजर्यम् । तेन संगतमार्येण रामाजर्यं कुरु द्रुतमिति भट्टिः । मृगैरजर्यं जरसोपदिष्टमदेहबन्धाय पुनर्बबन्धेत्यत्र तु संगतमिति विशेष्यमध्याहार्यम् । संगतं किम् । अजरिता कम्बलः । भावे तु संगतकर्तृकेऽपि ण्यदेव । अजार्यं संगतेन ॥
  • (2854) वदः सुपि क्यप्च <3-1-106>
उत्तरसूत्रादिह भाव इत्यपकृष्यते । वदेर्भावे क्यप्स्याच्चद्यत् अनुपसर्गे सुप्युपपदे । ब्रह्मोद्यम् । ब्रह्मवद्यम् । ब्रह्म वेदः तस्य वदनमित्यर्थः । कर्मणि प्रत्ययावित्यके । उपसर्गे तु ण्यदेव । अनुवाद्यम् । अपवाद्यम् ॥
क्यप्स्यात् । ब्रह्मणो भावो ब्रह्मभूयम् । सुप्युपपदे इत्येव । भव्यम् । अनुपसर्ग एव । प्रभव्यम् ॥
अनुपसर्गे सुप्युपपदे हन्तेर्भावे क्यप्स्यात्तकाश्चान्तादेशः । ब्राह्मणो हननं ब्रह्महत्या । स्त्रीत्वं लोकात् ॥
  • (2857) एतिस्तुशास्वृदृजुषः क्यप् <3-1-109>
एभ्यः क्यप्स्यात् ॥
  • (2858) ह्रस्वस्य पिति कृति तुक् <6-1-71>
इत्यः । स्तुत्यः । शास इदङ्हलोः 2486 । शिष्यः । वृ इति वृञो ग्रहणं न वृङः । वृत्यः । वृङस्तु वार्या ऋत्विजः । आदृत्यः । जुष्यः । पुनः क्यबुक्तिः परस्यापि ण्यतो बाधनार्था । अवश्यस्तुत्यः ॥ शंसिदुहिगुहिभ्यो वेति काशिका । शस्यम् । शंस्यम् । दुह्यम् । दोह्यम् । गुह्यम् । गोह्यम् । प्रशस्यस्य श्रः 2009 ईडवन्दवृशंसदुहां ण्यतः 3702इति सूत्रद्वयबलाच्छंसेः सिद्धम् । इतरयोस्तु मूलं मृग्यम् ॥ । आङ्पूर्वादञ्जेः संज्ञायामुपसंख्यानम् ॥ अञ्जू व्यक्तिम्रक्षणादिषु । बाहुलकात्करणे क्यप् । अनिदिताम्-- 415 इति नलोपः । आज्यम् ॥
  • (2859) ऋदुपधाच्चाक्लृपिचृतेः <3-1-110>
वृत् । वृत्यम् । वृध् । वृध्यम् । क्लृपिचृत्योस्तु । कल्प्यम् । चर्त्यम् । तपरकरणं किम् । कॄत् । कीर्त्यम् । अनित्यण्यन्ताश्चुरादय इति णिजभावे ण्यत् । णिजन्तात्तु यदेव ॥
चात्क्यप् । आद्गुणः 69 । खेयम् । इ चेति ह्रस्वः सुपठः ॥
  • (2861) भृञोऽसंज्ञायाम् <3-1-112>
भृत्याः कर्मकराः । भर्तव्या इत्यर्थः । क्रियाशब्दोऽयं न तु संज्ञा ॥ । समश्च बहुलम् (वा) ॥ संभृत्याः । संभार्याः । असंज्ञायामेव विकल्पार्थमिदं वार्तिकम् । असंज्ञायां किम् । भार्या नाम क्षत्रियाः । अथ कथं भार्या वधूरिति । इह हि संज्ञायां समज-3276 इति क्यपा भाव्यम् । संज्ञापर्युदासस्तु पुंसि चरितार्थः । सत्यं । बिभर्तेर्भॄ इति दीर्घान्तात् क्रयादेर्वा ण्यत् । क्यप् तु भरतेरेव । तदनुबन्धकग्रहणे नातदनुबन्धकस्य इति परिभाषया ॥
  • (2862) मृजेर्विभाषा <3-1-113>
मृजेः क्यब्वा स्यात्पक्षे ण्यत् । मृज्यः ॥
  • (2863) चजोः कु घिण्यतोः <7-3-52>
चस्य जस्य च कुत्वं स्यात् घिति ण्यति च प्रत्यये परे । निष्ठायामनिट इति वक्तव्यम् । तेनेह न । गर्ज्यम् । मृजेर्वृद्धिः । मार्ग्यः 2473 ॥
  • (2864) न्यङ्कादीनां च <7-3-53>
कुत्वं स्यात् । न्यङ्कुः । (उ)नावञ्चेरित्युप्रत्ययः ॥
  • (2865) राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः <3-1-114>
एते सप्त क्यबन्ता निपात्यन्ते । राज्ञा सोतव्योऽभिषवद्वारा निष्पादयितव्यः । यद्वा लतात्मकः सोमो राजा स सूयते कण्ड्यतेऽत्रत्यधिकरणे क्यप् । निपातनाद्दीर्घः । राजसूयः । राजसूयम् । अर्धर्चादिः । सरत्याकाशे सूर्यः । कर्तरि क्यप् । निपातनादुत्वम् । यद्वा षू प्रेरणे तुदादिः । सुवति कर्मणि लोकं प्रेरयति । क्यपो रुट् । मृषोपपदाद्वदेः कर्मणि नित्यं क्यप् । मृषोद्यम् । विशेष्यनिघ्नोऽयम् । उच्छ्रायसौन्दर्यगुणा मृषोद्याः । रोचते रुच्यः । गुपोरादेः कत्वं च संज्ञायाम् । सुवर्णरजतभिन्नं धनं कुप्यम् । गोप्यमन्यत् । कृष्टे स्वयमेव पच्यन्ते कृष्टपच्याः । कर्मकर्तरि । शुद्धे तु कर्मणि कृष्टपाक्याः । न व्यथते अव्यथ्यः ॥
  • (2866) भिद्योद्ध्यौ नदे <3-1-115>
भिदेरुज्झेश्च क्यप् । उज्झेर्धत्वं च । भिनत्ति कूलं भिद्यः । उज्झत्युदकमुद्ध्यः । नदे किम् । भेत्ता । उज्झिता ॥
  • (2867) पुष्यसिद्ध्यौ नक्षत्रे <3-1-116>
अधिकरणे क्यब्निपात्यते । पुष्यन्त्यस्मिन्नर्थाः पुष्यः । सिद्ध्यन्त्यस्मिन्सिद्ध्यः ॥
  • (2868) विपूयविनीयजित्या मुञ्जकल्कहलिषु <3-1-117>
पूङ्नीञ्जिभ्यः क्यप् । विपूयो मुञ्जः । रज्ज्वादिकरणाय शोधयितव्य इत्यर्थः । विनीयः कल्कः । पिष्ट

ओषधिविशेष इत्यर्थः । पापमिति वा । जित्यो हलिः । बलेन क्रष्टव्यः इत्यर्थः । कष्टसमीकरणार्थं स्थूलकाष्ठम् । अन्यत्र तु विपव्यम् । विनेयम् । जेयम् ॥

  • (2869) प्रत्यपिभ्यां ग्रहेः <3-1-118>
। छन्दसीति वक्तव्यम् ॥ प्रतिगृह्यम् । अपिगृह्यम् । लोके तु प्रतिग्राह्यम् । अपिग्राह्यम् ॥
  • (2870) पदास्वैरिबाह्यापक्ष्येषु च <3-1-119>
अवगृह्यम् । प्रगृह्यं पदम् । अस्वैरी परतन्त्रः । गृह्यकाः शुकाः । पञ्जरादिबन्धनेन परतन्त्रीकृता इत्यर्थः । बाह्यायाम् । ग्रामगृह्या सेना । ग्रामबहिर्भूतेत्यर्थः । स्त्रीलिङ्निर्देशात्पुंनपुंसकयोर्न । पक्षे भवः पक्ष्यः । दिगादित्वाद्यत् । आर्यैर्गृह्यते आर्यगृह्यः । तत्पक्षाश्रित इत्यर्थः ॥
  • (2871) विभाषा कृवृषोः <3-1-120>
क्यप्स्यात् । कृत्यम् । वृष्यम् । पक्षे ॥
  • (2872) ऋहलोर्ण्यत् <3-1-124>
ऋवर्णान्ताद्धलन्ताच्च धातोर्ण्यत्स्यात् । कार्यम् । वर्ष्यम् ॥
  • (2873) युग्यं च पत्रे <3-1-121>
पत्रं वाहनम् । युग्यो गौः । अत्र क्यप् कुत्वं च निपात्यते ॥
  • (2874) अमावस्यदन्यतरस्याम् <3-1-122>
अमोपपदाद्वसेरधिकणे ण्यत् । वृद्धौ सत्यां पाक्षिको ह्रस्वश्च निपात्यते । अमा सह वसतोऽस्यां चन्द्रार्कावमावस्या । अमावास्या । ऋहलोर्ण्यत् 2872 । चजोः 2863 इति कुत्वम् । पाक्यम् ॥ । पाणौ सृजेर्ण्यद्वाच्यः ॥ ऋदुपधलक्षणस्य क्यपोऽपवादः । पाणिभ्यां सृज्यते पाणिसर्ग्या रज्जुः ॥ । समवपूर्वाच्च ॥ समवसर्ग्या ॥
  • (2875) न क्वादेः <7-3-59>
क्वादेर्धातोश्चजोः कुत्वं न । गर्ज्यम् । वार्तिककारस्तु चजोः-2863 इति सूत्रे निष्ठायामनिट इति पूरयित्वा न क्वादेः 2875 इत्यादि प्रत्याचख्यौ । तेन अर्जितर्जिप्रभृतीनां न कुत्वम् । निष्ठायां सेट्त्वात् । ग्रुचुग्लुञ्चुप्रभृतीनां तु क्वादित्वेऽपि कुत्वं स्यादेव । सूत्रमते तु यद्यपि विपरीतं प्राप्तं तथापि यथोत्तरं मुनीनां प्रामाण्यम् ॥
  • (2876) अजिव्रज्योश्च <7-3-60>
न कुत्वम् । समाजः । परिव्राजः ॥
  • (2877) भुजन्युब्जौ पाण्युपतापयोः <7-3-61>
एतयोरेतौ निपातौ । भुज्यतेऽनेनेति भुजः पाणिः । हलश्च 3300 इति घञ् । न्युब्जन्त्यस्मिन्निति न्युब्जः । उपतापो रोगः । पाण्युपतापयोः किम् । भोगः । समुद्रः ॥
  • (2878) प्रयाजानुयाजौ यज्ञाङ्गे <7-3-62>
एतौ निपातौ यज्ञाङ्गे । पञ्च प्रयाजाः । त्रयोऽनुयाजाः । यज्ञाङ्गे किम् । प्रयागः । अनुयागः ॥
  • (2879) वञ्चेर्गतौ <7-3-63>
कुत्वं न । वञ्च्यम् । गतौ किम् । वङ्क्यं काष्ठम् । कुटिलाकृतमित्यर्थः ॥
उचेर्गुणकुत्वे निपात्येते के परे । ओकः शकुन्तवृषलौ । इगुपधलक्षणः कः । घञा सिद्धेऽन्तोदात्तार्थमिदम् ॥
  • (2881) ण्य आवश्यके <7-3-65>
कुत्वं न । अवश्यपाच्यम् ॥
  • (2882) यजयाचरुचप्रवच्चश्च <7-3-66>
ण्ये कुत्वं न । याज्यम् । याच्यम् । रोच्यम् । प्रवाच्यं ग्रन्थविशेषः । ऋच् । अर्च्यम् । ऋदुपधत्वेऽप्यत एव ज्ञापकात् ण्यत् ॥ । त्यजेश्च (वा) ॥ त्याज्यम् । त्यजिपूज्योश्चेति काशिका । तत्र पूजेर्ग्रहणं चिन्त्यम् । भाष्यानुक्तत्वात् । ण्यत्प्रकरणे त्यजेरुपसंख्यानमिति हि भाष्यम् ॥
  • (2883) वचोऽशब्दसंज्ञायाम् <7-3-67>
वाच्यम् । शब्दाख्यायां तु वाक्यम् ॥
  • (2884) प्रयोज्यनियोज्यौ शक्यार्थे <7-3-68>
प्रयोक्तुं शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यो भृत्यः ॥
  • (2885) भोज्यं भक्ष्ये <7-3-69>
भोग्यमन्यत् ॥ ण्यत्प्रकरणे लपिदभिभ्यां चेति वक्तव्यम् । लाप्यम् । दभिर्धातुष्वपठितोऽपि वार्तिकबलात्स्वीकार्यः । दाभ्यः ॥
उवर्णान्ताद्धातोर्ण्यत्स्यादवश्यंभावे द्योत्ये । लाव्यम् । पाव्यम् ॥
  • (2887) आसुयुवपिरपित्रपिचमश्च <3-1-126>
षुञ् । आसाव्यम् । यु मिश्रणे । याव्यम् । वाप्यम् । राप्यम् । त्राप्यम् । चाम्यम् ॥
  • (2888) आनाय्योऽनित्ये <3-1-127>
आङ्पूर्वान्नयतेर्ण्यदायादेशश्च निपात्यते । दक्षिणाग्निविशेष एवेदम् । स हि गार्हपत्यादानीयतेऽनियतश्च सततमप्रज्वलनात् । आनेयोऽन्यो घटादिः वैश्यकुलादेरानीतो दक्षिणाग्निश्च ॥
  • (2889) प्रणाय्योऽसम्मतौ <3-1-128>
संमतिः प्रीतिविषयीभवनं कर्मव्यापारः । तथा भोगेष्वादरोऽपि संमतिः । प्रणाय्यश्चोरः । प्रीत्यनर्ह इत्यर्थः । प्रणाय्योऽन्तेवासी । विरक्त इत्यर्थः । प्रणेयोऽन्यः ॥
  • (2890) पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधेनीषु <3-1-129>
मीयतेऽनेन पाय्यं मानम् । ण्यत् धात्वादेः षत्वं च । आतो युक् 2761 इति युक् । सम्यङ् नीयते होमार्थमग्निं प्रतीति सान्नाय्यं हविर्विशेषः । ण्यदायादेशः समो दीर्घश्च निपात्यते । निचीयतेऽस्मिन्धान्यादिकं निकायो निवासः । अधिकरणे ण्यत् आय् धात्वादेः कुत्वं च निपात्यते । धीयतेऽनया समिदिति धाय्या ऋक् ॥
  • (2891) क्रतौ कुण्डपाय्यसंचाय्यौ <3-1-130>
कुण्डेन पीयतेऽस्मिन्सोमः कुण्डपाय्यः क्रतुः । संचीयतेऽसौ संचाय्यः ॥
  • (2892) अग्नौ परिचाय्योपचाय्यसमूह्याः <3-1-131>
अग्निधारणार्थे स्थलविशेषे एते साधवः । अन्यत्र तु परिचेयम् । उपचेयम् । संवाह्यम् ॥
  • (2893) चित्याग्निचित्ये च <3-1-132>
चीयतेऽसौ चित्योऽग्निः । अग्नेश्चयनमग्निचित्या । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च 2817 । त्वया गन्तव्यम् । गमनीयम् । गम्यम् । इह लोटा बाधा माभूदिति पुनः कृत्यविधिः स्त्र्यधिकारादूर्ध्वं वासरूपविधिः क्वचिन्नेति ज्ञापयति । तेन क्तल्युट्तुमुन्खलर्थेषु नेति सिद्धम् ।अर्हे कृत्यतृचश्च 2822 । स्तोतुमर्हः स्तुत्यः, स्तुतिकर्म । स्तोता, स्तुतिकर्ता । लिङा बाधा माभूदिति कृत्यतृचोर्विधिः ॥
  • (2894) भव्यगेयप्रवचनीयोपस्थानीयजन्याप्लाव्यापात्या वा <3-4-68>
एते कृत्यान्ताः कर्तरि वा निपात्यन्ते । पक्षे तयोरेवेति सकर्मकात्कर्मणि अकर्मकात्तु भावे ज्ञेयाः । भवतीति भव्यः । भव्यमनेन वा । गायतीति गेयः साम्नामयम् । गेयं सामानेन वा इत्यादि । शकि लिङ् च 2823 । चात्कृत्याः । वोढुं वशक्यो वोढव्यः । वहनीयो वाह्यः । लिङा बाधा माभूदिति कृत्योक्तिः ॥ लाघवादनेनैव ज्ञापनसंभवे प्रैषादिसूत्रे कृत्याश्चेति सुत्यजम् । अर्हे कृत्यतृचोर्ग्रहणं च ॥
इति कृदन्तकृत्यप्रकरणम्

पूर्वकृदन्तप्रकरणम्‌

सम्पाद्यताम्
  • (2895) ण्वुल्तृचौ <3-1-133>
धातोरेतौ स्तः । कर्तरि कृत् 2832 इति कर्त्रर्थे । युवोरनाकौ 1247 । कारकः । कर्ता । वोढुमर्हो वोढा । कारिका । कर्त्री । गाङ्कुटा--2461 इति ङित्त्वम् । कुटिता । अञ्णिदित्युक्तेर्न ङित्त्वम् । कोटकः । विज इट् 2536 । विजिता । हनस्तोऽचिण्णलोः 2574 । घातकः । आतो युक् 2761 । दायकः । नोदात्तोपदेशस्य 2763 इति न वृद्धिः । शमकः । दमकः । अनिटस्तु नियामकः । जनिवध्योश्च 2512 । जनकः । वध हिंसायाम् । वधकः । रधिजभोरचि 2302 । रन्धकः । जम्भकः । नेट्यलिटि रधेः 2516 । रधिता । रद्धा । मस्जिनशोः 2517 इति नुम् । मङ्क्ता । नंष्टा । नशिता । रभेरशब्लिटोः 2581 । रम्भकः । रब्धा । लभेश्च 2582 । लम्भकः । लब्धा । तीषसह-2340 इति वेट् । एषिता । एष्टा । सहिता । सोढा । दरिद्रातेरालोपः । दरिद्रिता । ण्वुलि न । दरिद्रायकः । कृत्यल्युट 2841 इत्येव सूत्रमस्तु । यत्र विहितास्ततोऽन्यत्रापि स्युरित्यर्थात् । एवं च बहुलग्रहणं योगविभागेन कृन्मात्रस्यार्थव्यभिचारार्थम् । पादाभ्यां ह्रियते पादहारकः । कर्मणि ण्वुल् ॥ । क्रमेः कर्तर्यात्मनेपदविषयात्कृत इण्निषेधो वाच्यः ॥ प्रक्रन्ता ॥ कर्तरीति किम् । प्रक्रमितव्यम् । आत्मनेपदेति किम् । संक्रमिता । अनन्यभावे विषयशब्दः । तेन अनुपसर्गाद्वा 2716 इति विकल्पार्हस्य न निषेधः । क्रमिता । तदर्हत्वमेव तद्विषयत्वम् । तेन क्रन्तेत्यपीति केचित् । गमेरिट्-2401इत्यत्र परस्मैपदग्रहणं तङानयोरभावं लक्षयति । संजिगमिषिता । एवं न वृद्भ्यश्चतुर्भ्यः 2348 । विवृत्सिता । यङन्तात् ण्वुल् । अल्लोपस्य स्थानिवत्त्वान्न वृद्धिः । पापचकः । यङ्लुगन्तात्तु पापाचकः ॥
  • (2896) नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः <3-1-134>
नन्द्यादेर्ल्युर्ग्रह्यादेर्णिनिः पचादेरच् स्यात् । नन्दयतीति नन्दनः । जनमर्दयतीति जनार्दनः । मधुसूदनः । विशेषेण भीषयतीति विभीषणः । लवणः । नन्द्यादिगणे निपातनाण्णत्वम् । ग्राही । स्थायी । मन्त्री । विशयी । वृद्ध्याभावो निपातनात् । विषयी । इह षत्वमपि । परिभावी । परिभवी । पाक्षिको वृद्ध्यभावो निपात्यते । पचादिराकृतिगणः । शिवशमरिष्टस्य करे 3489 कर्मणि घटोऽठच् 8136 इति सूत्रयोः करोतेर्घटेश्चाच् प्रयोगात् । अच् प्रत्यये परे यङिलुग्विधानाच्च । केषांचिद्बाधकबाधनार्थः । पचतीति पचः । नदट् । चोरट् । देवट् । इत्यादयष्टितः । नदी । चोरी । देवी । दीव्यतेः । इगुपध--2897 इति कः प्राप्तः । न्यङ्क्वादिषु पाठात् श्वापकोऽपि । यङोऽचि च 2650 इति लुक् । न धातुलोप--2656 इति गुणवृद्धिनिषेधः । चेक्रियः । नेन्यः । लोलुवः । पोपुवः । मरीमृजः ॥ । चरिचलिपतिवदीनां वा द्वित्वमच्याक्चाभ्यासस्येति वक्तव्यम् (वा) ॥ आगमस्य दीर्घत्वसामर्थ्यादभ्यासह्रस्वो हलादिः शेषः 2179 च न । चराचरः । चलाचलः । पतापतः । वदावदः ॥ । हन्तेर्घत्वं च (वा) ॥ घत्वमभ्यासस्य उत्तरस्य तु अभ्यासाच्च 2430 इति कुत्वम् । घनाघनः ॥ । पाटेर्णिलुक्चोक्च दीर्घश्चाभ्यासस्य (वा) ॥ पाटुपटः ॥ पक्षे चरः । चलः । पतः । वदः । हनः । पाटः । रात्रेः कृति--1008 इति वा मुम् । रात्रिंचरः । रात्रचरः ।
  • (2897) इगुपधज्ञाप्रीकिरः कः <3-1-135>
एभ्यः कः स्यात् । क्षिपः । लिखः । बुधः । कृशः । ज्ञः । प्रीणातीति प्रियः । किरतीति किरः । वासरूपविधिना ण्वुल्तृचावपि । क्षेपकः । क्षेप्ता ॥
  • (2898) आतश्चोपसर्गे <3-1-136>
कः स्यात् ।श्याद्व्यधा---2903 इति णस्यापवादः । सुग्लः । प्रज्ञः ॥
  • (2899) पाघ्राध्माधेट्दृशः शः <3-1-137>
पिबतीति पिबः । जिघ्रः । धमः । धयः । धया कन्या । धेटष्टित्त्वात् स्तनन्धयीति खशीव ङीप् प्राप्तः । खशोऽन्यत्र नेष्यत इति हरदत्तः । पश्यतीति पश्यः ॥ घ्रः संज्ञायां न । व्याघ्रादिभिः--735 इति निर्देशात् ॥
  • (2900) अनुपसर्गाल्लिम्पविन्दधारिपारिवेद्युदेजिचेतिसातिसाहिभ्यश्च <3-1-138>
शः स्यात् । लिम्पः । विन्दः । धारयः । पारयः । वेदयः । उदेजयः । चेतयः । सातिः सुखार्थः । सौत्रो हेतुमण्ण्यन्तः । सातयः । वाऽसरूपन्यायेन क्विपि । सात् परमात्मा । सात्वन्तो भक्ताः । षह मर्षणे चुरादिः । हेतुमण्ण्यन्तो वा ।

साहयः । अनुपसर्गात्किम् । प्रलिपः ॥ । नौ लिम्पेर्वाच्यः (वा) ॥ निलिम्पा देवाः ॥ । गवादिषु विदेः संज्ञायाम् । गोविन्दः । अरविन्दम् ॥

  • (2901) ददातिदधात्योर्विभाषा <3-1-139>
शः स्यात् । ददः । दधः । पक्षे वक्ष्यमाणो णः । अनुपसर्गादित्येव । प्रदः । प्रधः ॥
  • (2902) ज्वलितिकसन्तेभ्यो णः <3-1-140>
इति शब्द आद्यर्थः । ज्वलादिभ्यः कसन्तेभ्यो णः स्याद्वा । पक्षेऽच् । ज्वालः । ज्वलः । चालः । चलः । अनुसर्गादित्येव । उज्ज्वलः ॥ । तनोतेरुपसंख्यानम् ॥ इहानुपसर्गादिति विभाषेति च न संबध्यते । अवतनोतीत्यतानः ॥
  • (2903) श्याद्व्यधास्रुसंस्वृतीणवसावह्रलिहश्लिषश्वसश्च <3-1-141>
श्यैङ्प्रभृतिभ्यो नित्यं णः स्यात् । श्यैङोऽवस्यतेश्चादन्तात्वात्सिद्धे पृथग्ग्रहणमुपसर्गे कं बाधितुम् । अवश्यायः । प्रतिश्यायः । आत् । दायः । धायः । व्याधः । स्रु गतौ । आङ्पूर्वः संपूर्वश्च । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥
  • (2904) दुन्योरनुपसर्गे <3-1-142>
णः स्यात् । दुनोतीति दावः । नीसाहचर्यात्सानुबन्धाद्दुनोतेरेव णः । दवतेस्तु पचाद्यच् । दवः । नयतीति नायः । उपसर्गे तु प्रदवः । प्रणयः ॥
  • (2905) विभाषा ग्रहः <3-1-143>
णो वा । पक्षेऽच् । व्यवस्थितविभाषेयम् । तेन जलचरे ग्राहः । ज्योतिषि ग्रहः ॥ भवतेश्चेति काशिका ॥ भवो देवः संसारश्च । भावाः पदार्थाः । भाष्यमते तु प्राप्त्यर्थाच्चुरादिण्यन्तादच् । भावः ॥
गेहे कर्तरि ग्रहेः कः स्यात् । गृह्णाति धान्यादिकमिति गृहम् । तात्स्थ्याद्गृहादाराः ॥
  • (2907) शिल्पिनि ष्वुन् <3-1-145>
क्रियाकौशलं शिल्पं तद्वति ष्वुन् स्यात् ॥ । नृतिखनिरञ्जिभ्य एव ॥ नर्तकः । नर्तकी । खनकः । खनकी ॥ । असि अकेऽने च रञ्जेर्नलोपो वाच्यः ॥ रजकः । रजकी । भाष्यमते तु नृतिखनिभ्यामेव ष्वुन् । रञ्जेस्तु (उ) क्वुन्शिल्पिसंज्ञयो रिति क्वुन् । टाप् । रजिका । पुंयोगे तु रजकी ॥
गायतेस्थकन् स्यात् । शिल्पिनि कर्तरि । गाथकः ॥
गायनः । टित्त्वाद्गायनी ॥
  • (2910) हश्च व्रीहिकालयोः <3-1-148>
हाको हाङश्च ण्युट् स्यात् व्रीहौ काले च कर्तरि । जहात्युदकमिति हायनो व्रीहिः । जहाति भावानिति हायनो वर्षम् । जिहीते प्राप्नोति वा ॥
  • (2911) प्रुसृल्वः समभिहारे वुन् <3-1-149>
समभिहारग्रहणेन साधुकारित्वं लक्ष्यते । प्रवकः । सरकः । लवकः ॥
आशीर्विषयार्थवृत्तेर्धातोर्वुन् स्यात्कर्तरि । जीवतात्-जीवकः । नन्दतात्--नन्दकः । आशीः प्रयोक्तुर्धर्मः । आशासितुः पित्रादेरियमुक्तिः ॥
  • (2913) कर्मण्यण् <3-2-1>
कर्मण्युपपदे धातोरण् प्रत्ययः स्यात् । उपपदसमासः । कुम्भं करोतीति कुम्भ कारः । आदित्यं पश्यतीत्यादावनभिधानान्न ॥ । शीलिकामिभक्ष्याचरिभ्यो णः ॥ अणोऽपवादार्थं वार्तिकम् । मांसशीला । मांसकामा । मांसभक्षा । कल्याणाचारा ॥ ईक्षिक्षमिभ्यां च ॥ सुखप्रतीक्षा । बहुक्षामा । कथं तर्हि

गङ्गाधरभूधरादयः । कर्मणः शेषत्वविवक्षायां भविष्यन्ति ॥

  • (2914) ह्वामश्च <3-2-2>
अण् स्यात् । कापवादः । स्वर्गह्वायः । तन्तुवायः । धान्यमायः ॥
  • (2915) आतोऽनुपसर्गे कः <3-2-3>
आदन्ताद्धातोरनुपसर्गात्कर्मण्युपपदे कः स्यान्नाऽण् । आतो लोपः । गोदः । पार्ष्णित्रम् । अनुपसर्गे किम् । गोसंदायः ॥ । कविधौ सर्वत्र संप्रसारणिभ्यो डः ॥ ब्रह्म जिनाति ब्रह्मज्यः । सर्वत्रग्रहणात् आतश्चोपसर्गे 2898 । आह्वः । प्रह्वः ॥
  • (2916) सुपि स्थः <3-2-4>
सुपीति योगो विभज्यते । सुपि उपपदे आदन्तात्कः स्यात् । द्वाभ्यां पिबतीति द्विपः । समस्थः । विषमस्थः । ततः--स्थः ॥ सुपि तिष्ठतेः कः स्यात् । आरम्भसामर्थ्याद्भावे । आखूनामुत्थानमाखूत्थः ॥
  • (2917) प्रष्ठोऽग्रगामिनि <8-3-92>
प्रतिष्ठत इति प्रष्ठौ गौः । अग्रतो गच्छतीत्यर्थः । अग्रेति किम् । प्रस्थः ॥
  • (2918) अम्बाम्बगोभूमिसव्यापद्वित्रिकुशेकुशङ्क्वङ्गुमञ्जिपुञ्जिपरमेबर्हिर्दिव्यग्निभ्यः स्थः <8-3-97>
स्थ इति कप्रत्ययान्तस्यानुकरणम् । षष्ठ्यर्थे प्रथमा । एभ्यः स्थस्य सस्य षः स्यात् । द्विष्ठः । त्रिष्ठः । इत ऊर्ध्वं कर्मणि सुपीति द्वयमप्यनुवर्तते । तत्राकर्मकेषु सुपीत्यस्य संबन्धः ॥
  • (2919) तुन्दशोकयोः परिमृजापनुदोः <3-2-5>
तुन्दशोकयोः कर्मणोरुपपदयोराभ्यां कः स्यात् ॥ । आलस्यसुखाहरणयोरिति वक्तव्यम् (वा) ॥ तुन्दं परिमार्ष्टीति तुन्दपरिमृजोऽलसः । शोकापनुदः । सुखस्याहर्ता । अलसादस्यत्र तुन्दपरिमार्ज एव । यश्च संसारासारत्वोपदेशेन शोकमपनुदति स शोकापनोदः ॥ । कप्रकरणे मूलविभुजादिभ्य उपसंख्यानम् (वा) ॥ मूलानि विभुजति मूलविभुजो रथः । आकृतिगणोऽयम् । महीध्रः । कुध्रः । गिलतीति गिलः ॥
  • (2920) प्रे दाज्ञः <3-2-6>
दारूपाज्जानातेश्च प्रोपसृष्टात्कर्मण्युपपदे कः स्यात् । अणोऽपवादः । सर्वप्रदः । पथिप्रज्ञः । अनुपसर्ग इत्युक्तेः प्रादन्यस्मिन्सति न कः । गोसंप्रदायः ॥
  • (2921) समि ख्यः <3-2-7>
गोसंख्यः ॥
  • (2922) गापोष्टक् <3-2-8>
अनुपसृष्टाभ्यामाभ्यां टक् स्यात्कर्मण्युपपदे । सामगः । सामगी । उपसर्गे तु सामसंगायः ॥ पिबतेः सुराशीध्वोरिति वाच्यम् (वा) ॥ सुरापी । शीधुपी । अन्यत्र क्षीरपा ब्राह्मणी । सुरां पाति रक्षतीति सुरापा ॥
  • (2923) हरतेरनुद्यमनेऽच् <3-2-9>
अंशहरः । अनुद्यमने किम् । भारहारः ॥ । शक्तिलाङ्गलाङ्कुशतोमरयष्टिघटघटीधनुष्षु ग्रहेरुपसंख्यानम् (वा) ॥ शक्तिग्रहः । लाङ्गलग्रहः ॥ । सूत्रे च धार्येऽर्थे ॥ सूत्रग्रहः । यस्तु सूत्रं केवलमुपादत्ते न तु धारयति तत्राणेव सूत्रग्राहः ॥
उद्यमनार्थं सूत्रम् । कवचहरः कुमारः ॥
  • (2925) आङि ताच्छील्ये <3-2-11>
पुष्पाण्याहरति तच्छीलः पुष्पाहरः । ताच्छील्ये किम् । भारहारः ॥
अर्हतेरच् स्यात्कर्मण्युपपदे । अणोपवादः । पूजार्हा ब्राह्मणी ॥
  • (2927) स्तम्बकर्णयो रमिजपोः <3-2-13>
। हस्तिसूचकयोरिति वक्तव्यम् ॥ स्तम्बे रमते स्तम्बेरमो हस्ती । तत्पुरुषे कृति--972 इति हलन्ता 966

इति वा ङेरलुक् । कर्णेजपः सूचकः ॥

  • (2928) शमि धातोः संज्ञायाम् <3-2-14>
शंम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शंकरा नाम परिव्राजिका तच्छीला ॥
  • (2929) अधिकरणे शेतेः <3-2-15>
खे शेते खशयः ॥ । पार्श्वादिषूपसंख्यानम् ॥ पार्श्वाभ्यां शेते पार्श्वशयः । पृष्टशयः । उदरेण शेते उदरशयः ॥ । उत्तानादिषु कर्तृषु ॥ उत्तानः शेते उत्तानशयः । अवमूर्धशयः । अवनतो मूर्धा यस्य सः अवमूर्धा । अधोमुखः शेते इत्यर्थः ॥ । गिरौ डश्छन्दसि ॥ गिरौ शेते गिरिशः । कथं तर्हि गिरिशमुपचचार प्रत्यहं सा सुकेशीति । गिरिरस्यास्तीति विग्रहे लोमादित्वाच्छः ॥
अधिकरणे उपपदे । कुरुचरः । कुरुचरी ॥
  • (2931) भिक्षासेनादायेषु च <3-2-17>
भिक्षां चरतीति भिक्षाचरः । सेनाचरः । आदायेति ल्यबन्तम् । आदायचरः । कथं प्रेक्ष्य स्थितां सहचरीमिति । पचादिषु चरडिति पाठात् ॥
  • (2932) पुरोऽग्रतोऽग्रेषु सर्तेः <3-2-18>
पुरस्सरः । अग्रतसरः । अग्रमग्रेणाग्रे वा सरतीत्यग्रेसरः । सूत्रेऽग्रे इति एदन्तत्वमपि निपात्यते । कथं तर्हि यूथं तदग्रसरगर्वितकृष्णसारमिति । बाहुलकादिति हरदत्तः ॥
  • (2933) पूर्वे कर्तरि <3-2-19>
कर्तृवाचिनि पूर्वशब्दे उपपदे सर्तेष्टः स्यात् । पूर्वः सरतीति पूर्वसरः । कर्तरि किम् । पूर्वं देशं सरतीति पूर्वसारः ॥
  • (2934) कृञो हेतुताच्छील्यानुलोम्येषु <3-2-20>
एषु द्योत्येषु करोतेष्टः स्यात् । अतः कृकमि 160 इति सः । यशस्करी विद्या । श्राद्धकरः । वचनकरः ॥
  • (2935) दिवाविभानिशाप्रभास्करान्तान्तादिबहुनान्दीकिंलिपिलिबिबलिभक्तिकर्तृचित्रक्षेत्रसंख्याजङ्घाबाह्वहर्यतद्धनुररुष्षु <3-2-21>
एषु कृञष्टः स्याद् अहेत्वादावपि । दिवाकरः । विभाकरः । निशाकरः । कस्कादित्वात्सः । भास्करः । बहुकरः । बहुशब्दस्य वैपुल्यार्थं संख्यापेक्षया पृथग्ग्रहणम् । लिपिलिबिशब्दौ पर्यायौ । संख्या । एककरः । द्विकरः । कस्कादित्वादहस्करः । नित्यं समासेऽनुत्तरपदस्थस्य 159 इति षत्वम् । धनुष्करः । अरुष्करः ॥ । किंयत्तद्बहुषु कृञोऽज्विधानम् । इति वार्तिकम् । किंकरा । यत्करा । तत्करा । हेत्वादौटं बाधित्वा परत्वादच् । पुंयोगे ङीषु । किंकरी ॥
  • (2936) कर्मणि भृतौ <3-2-22>
कर्मशब्दे उपपदे करोतेष्टः स्यात् । कर्मकरो भृतकः । कर्मकारोऽन्यः ॥
  • (2937) न शब्दश्लोककलहगाथावैरचाटुसूत्रमन्त्रपदेषु <3-2-23>
एषु कृञष्टो न । हेत्वादिषु प्राप्तः प्रतिषिध्यते । शब्दकार इत्यादि ॥
  • (2938) स्तम्बशकृतोरिन् <3-2-24>
। व्रीहिवत्सयोरिति वक्तव्यम् ॥ स्तम्बकरिर्व्रीहिः । शकृत्करिर्वत्सः । व्रीहिवत्सयोः किम् । स्तम्बकारः । शकृत्कारः ॥
  • (2939) हरतेर्दृतिनाथयोः पशौ <3-2-25>
दृतिनाथयोरुपपदयोर्हृञ इन् स्यात्पशौ कर्तरि । दृतिं हरतीति दृतिहरिः । नाथं नासारज्जुं हरतीति नाथहरिः । पशौ किम् । दृतिहारः । नाथहारः ॥
  • (2940) फलेग्रहिरात्मम्भरिश्च <3-2-26>
फलानि गृह्णाति फलेग्रहिः । उपपदस्य एदन्तत्वं ग्रहेरिन्प्रत्ययश्च निपात्यते । आत्मानं बिभर्तीति आत्मम्भरिः । आत्मनो मुमागमः । भृञ इन् । चात्कुक्षिम्भरिः । चान्द्रास्तु आत्मोदरकुक्षिष्विति पेठुः । ज्योत्स्नाकरम्भमुदरम्भरयश्चकोरा इति मुरारिः ॥
ण्यन्तादेजेः खश् स्यात् ॥
  • (2942) अरुर्द्विषदजन्तस्य मुम् <6-3-67>
अरुषोद्विषतोऽजन्तस्य च मुमागमः स्यात् खिदन्ते उत्तरपदे न त्वव्ययस्य । शित्त्वाच्छबादि । जनमेजयतीति जनमेजयः ॥ । वातशुनीतिलशर्धेष्वजधेट्तुदजहातिभ्यः खश उपसंख्यानम् ॥ वातमजा मृगाः ॥
  • (2943) खित्यनव्ययस्य <6-3-66>
खिदन्ते परे पूर्वपदस्य ह्रस्वः स्यात् । ततो मुम् । शुनिन्धयः । तिलन्तुदः । शर्धंजहा माषाः । शर्धोऽपानशब्दः तं जहति इति विग्रहः । जहातिरन्तर्भावितण्यर्थः ॥
  • (2944) मासिकास्तनयोर्ध्माधेटोः <3-2-29>
अत्र वार्तिकम् ॥ । स्तने धेटो नासिकायां ध्मश्चेति वाच्यम् ॥ स्तनं धयतीति स्तनन्धयः । धेटष्टित्त्वात् स्तनन्धयी । नासिकन्धमः । नासिकन्धयः ॥
  • (2945) नाडीमुष्ट्योश्च <3-2-30>
एतयोरुपपदयोः कर्मणोर्ध्माधेटोः खश् स्यात् ॥ यथासंख्यंनेष्यते ॥ नाडिन्धमः । नाडिन्धयः । मुष्टिन्धमः । मुष्टिन्धयः ॥ । घटीखारीखरीषूपसंख्यानम् ॥ घटिन्धमः । घटिन्धय इत्यादि ॥ खारी परिमाणविशेषः । खरी गर्दभी ॥
  • (2946) उदि कूले रुजिवहोः <3-2-31>
उत्पूर्वाभ्यां रुजिवहिभ्यां कूले कर्मण्युपपदे खश् स्यात् । कूलमुद्रुजतीति कूलमुद्रुजः । कूलमुद्वहः ॥
  • (2947) वहाभ्रे लिहः <3-2-32>
वहः स्कन्धस्तं लेढीति वहंलिहो गौः । अदादित्वाच्छपो लुक् । खशो ङित्वान्न गुणः । अभ्रंलिहो वायुः ॥
  • (2948) परिमाणे पचः <3-2-33>
प्रस्थम्पचा स्थाली । खारिम्पचः कटाहः ॥
मितम्पचा ब्राह्मणी । नखम्पचा यवागूः । पचिरत्र तापवाची ॥
  • (2950) विध्वरुषोस्तुदः <3-2-35>
विधुन्तुदः । मुमि कृते संयोगान्तस्य लोपः । अरुन्तुदः ॥
  • (2951) असूर्यललाटयोर्दृशितपोः <3-2-36>
असूर्यमित्यसमर्थसमासः । दृशिना नञः संबन्धात् । सूर्यं न पश्यन्तीत्यसूर्यम्पश्या राजदाराः । ललाटन्तपः सूर्यः ॥
  • (2952) उग्रंपश्येरंमदपाणिंधमाश्च <3-2-37>
एते निपात्यन्ते । उग्रमिति क्रियाविशेषणं तस्मिन्नुपपदे दृशेः खश् । उग्रं पश्यतीत्युग्रंपश्यः । इरा उदकं तेन माद्यति दीप्यतेऽबिन्धनत्वादिति इरंमदो मेघज्योतिः । इह निपातनात् श्यन्न । पाणयो ध्मायन्तेऽस्मिन्निति पाणिंधमोऽध्वा । अन्धकाराद्यावृत इत्यर्थः । तत्र हि सर्पाद्यपनोदनाय पाणयो ध्मायन्ते ॥
  • (2953) प्रियवशे वदः खच् <3-2-38>
प्रियंवदः । वशंवदः ॥ गमेः सुपि वाच्यः (वा) ॥ असंज्ञार्थमिदम् । मितङ्गमो हस्ती ॥ । विहायसो विह इति वाच्यम् (वा) ॥ । खच्च डिद्वा वाच्यः (वा) ॥ विहंगमः । विहङ्गः । भुजंगमः । भुजंगः ॥
  • (2954) द्विषत्परयोस्तापेः <3-2-39>
खच्स्यात् ॥
  • (2955) खचि ह्रस्वः <6-4-94>
खच्परे णौ उपधाया ह्रस्वः स्यात् । द्विषन्तं परं वा तापयतीति द्विषन्तपः । परंतपः । घटघटीग्रहणाल्लिङ्गविशिष्टपरिभाषा अनित्या । तेनेह न । द्विषतीं तापयतीति द्विषतीतापः ॥
  • (2956) वाचि यमो व्रते <3-2-40>
वाक् शब्दे उपपदे यमेः खच् स्याद्व्रते गम्ये ॥
  • (2957) वाचंयमपुरन्दरौ च <6-3-69>
वाक्पुरोरमन्तत्वं निपात्यते । वाचंयमो मौनव्रती । व्रते किम् । अशक्त्यादिना वाचं यच्छतीति वाग्यामः ॥
  • (2958) पूः सर्वयोर्दारिसहोः <3-2-41>
पुरं दारयतीति पुरन्दरः । सर्वंसहः । सहिग्रहणमसंज्ञार्थम् ॥ भगे च दारेरिति काशिका । बाहुलकेन लब्धमिदमित्याहुः । भगं दारयतीति भगन्दरः ॥
  • (2959) सर्वकूलाभ्रकरीकेषेषु कषः <3-2-42>
सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो वायुः । करीङ्कषा वात्या ॥
  • (2960) मेघर्तिभयेषु कॄञः <3-2-43>
मेघङ्करः । भयंकरः । भयशब्देन तदन्तविधिः । अभयङ्करः ॥
  • (2961) क्षेमप्रियमद्रेऽण्च <3-2-44>
एषु कृञोऽण् स्यात् । चात् खच् । क्षेमङ्करः । क्षेमकारः । प्रियङ्करः । प्रियकारः । मद्रङ्करः । मद्रकारः । वेति वाच्येऽण्ग्रहणं हेत्वादिषु टो मा भूदिति । कथं तर्हि अल्पारम्भाः क्षेमकरा इति । कर्मणः शेषत्वविवक्षायां पचाद्यच् ॥
  • (2962) आशिते भुवः करणभावयोः <3-2-45>
आशितशब्दे उपपदे भवतेः खच् । आशितो भवत्यनेनाशितंभवः ओदनः । आशितस्य भवनं आशितम्भवः ॥
  • (2963) संज्ञायां भृतॄवृजिधारिसहितपिदमः <3-2-46>
विश्वं बिभर्तीति विश्वम्भरः । विश्वंभरा । रथंतरं साम । इह रथेन तरतीति व्युत्पत्तिमात्रं न त्ववयवार्थानुगमः । पतिंवरा कन्या । शत्रुंजयो हस्ती । युगंधरः पर्वतः । शत्रुंसहः । शत्रुंतपः । अरिंदमः । दमिः शमनायां तेन सकर्मक इत्युक्तम् । मतान्तरे तु अन्तर्भावितण्यर्थोऽत्र दमिः ॥
सुतंगमः ॥
  • (2965) अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः <3-2-48>
संज्ञयामिति निवृत्तम् । एषु गमेर्डः स्यात् । डित्त्वासामर्थ्यादभस्यापि टेर्लोपः । अन्तं गच्छतीत्यन्तग इत्यादि ॥ । सर्वत्रपन्नयोरुपसंख्यानम् (वा) ॥ सर्वत्रगः । पन्नं पतितं गच्छतीति पन्नगः । पन्नमिति पद्यतेः क्तान्तं क्रियाविशेषणम् ॥ । उरसो लोपश्च ॥ उरसा गच्छतीत्युरगः ॥ । सुदुरोरधिकरणे ॥ सुखेन गच्छत्यत्र सुगः । दुर्गः ॥ । अन्यत्रापि दृश्यत इति वक्तव्यम् ॥ ग्रामगः ॥ डे च विहायसो विहादेशो वक्तव्यः । विहगः ॥
  • (2966) आशिषि हनः <3-2-49>
शत्रुं वध्याच्छत्रुहः । आशिषि किम् । शत्रुघातः ॥ । दारावाहनोऽणन्तस्य च टः संज्ञायाम् (वा) ॥ दारुशब्दे उपपदे आङ्पूर्वाद्धन्तरेण् टकारश्चान्तादेशो वक्तव्य इत्यर्थः । दार्वाघाटः ॥ । चारौ वा ॥ चार्वाघाटः ॥ । कर्मणि समि च ॥ कर्मण्युपदे संपूर्वाद्धन्तेरुक्तं वेत्यर्थः । वर्णान्संहन्तीति वर्णसङ्घाटः । पदसङ्घाटः । वर्णसङ्घातः । परसङ्घातः ।
  • (2967) अपे क्लेशतमसोः <3-2-50>
अपपूर्वाद्धन्तेर्डः स्यात् । अनाशीरर्थमिदम् । क्लेशापहः पुत्रः । तमोपहः सूर्यः ॥
  • (2968) कुमारशीर्षयोर्णिनिः <3-2-51>
कुमारघाती । शिरसः शीर्षभावो निपात्यते । शीर्षघाती ॥
  • (2969) लक्षणे जायापत्योष्टक् <3-2-52>
हन्तेष्टक् स्याल्लक्षणवति कर्तरि । जायाघ्नो ना । पतिघ्नी स्त्री ॥
  • (2970) अमनुष्यकर्तृके च <3-2-53>
जायाघ्नस्तिलकालकः । पतिघ्नी पाणिरेखा । पित्तघ्नं घृतम् । अमनुष्येति किम् । आखुघातः शूद्रः । अथ कथं बलभद्रः प्रलम्बघ्नः । शत्रुघ्नः । कृतघ्न इत्यादि । मूलविभुजादित्वात्सिद्धम् ॥ चोरघातो नगरघातो हस्तीति तु बाहुलकादणि ॥
  • (2971) शक्तौ हस्तिकपाटयोः <3-2-54>
हन्तेष्टक् स्यात् शक्तौ द्योत्यायाम् । मनुष्यकर्तृकार्थमिदम् । हस्तिघ्नो ना । कपाटघ्नश्चोरः । कवाटेति पाठान्तरम् ॥
  • (2972) पाणिघताडघौ शिल्पिनि <3-2-55>
हन्तेष्टक् टिलोपो घत्वं च निपात्यते पाणिताडयोरुपपदयोः । पाणिघः । ताडघः । शिल्पिनि किम् । पाणिघातः । ताडघातः ॥ । राजघ उपसंख्यानम् ॥ राजनं हन्ति राजघः ॥
  • (2973) आढ्यसुभगस्थूलपलितनग्नान्धप्रियेषु च्व्यर्थेष्वचौ कृञः करणे ख्युन् <3-2-56>
एषु च्व्यर्थेष्वच्व्यन्तेषु कर्मसूपपदेषु कृञः ख्युन् स्यात् । आढ्यामाढ्यं कुर्वन्त्यनेन आढ्यकरणम् । अच्वौ किम् । आढ्यीकुर्वन्त्यनेन । प्रतिषेधसामर्थ्यात् इह ल्युडपि नेति काशिका । भाष्यमते तु ल्युट् स्यादेव । अच्वावित्युत्तरार्थम् ॥
  • (2974) कर्तरि भुवः खिष्णुच्खुकञौ <3-2-57>
आढ्यादिषु च्व्यर्थेष्वच्व्यन्तेषु भवतेरेतौ स्तः । अनाढ्य आड्यो भवतीति आढ्यंभविष्णु । आड्यंभावुकः । स्पृशोऽनुदके क्विन् 432 । घृतस्पृक् । कर्मणीति निवृत्तम् । मन्त्रेण स्पृशतीति मन्त्रस्पृक् । ऋत्विद्गधृक्स्रद्गिगुष्णिगञ्चुयुजिक्रुञ्चां च 373 । व्याख्यातम् । त्यदादिषु दृशोऽनालोचने कञ्च 429 ॥ । समानान्ययोश्चेति वाच्यम् (वा) ॥ सदृक् । सदृशः । अन्यादृक् । अन्यादृशः ॥ । क्सोऽपि वाच्यः (वा) ॥ तादृक्षः । सदृक्षः । अन्यादृक्षः ॥
  • (2975) सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप् <3-2-61>
एभ्यः क्विप्स्यादुपरसर्गे सत्यसति च सुप्युपपदे । द्युसत् । उपनिषत् । अण्डसूः । प्रसूः । मित्रद्विट् । प्रद्विट् । मित्रध्रुक् । प्रध्रुक् । गोधुक् । प्रधुक् । अश्वयुक् । प्रयुक् । वेदवित् । निविदित्यादि ॥ । अग्रग्रामाभ्यां नयतेर्णो वाच्यः ॥ अग्रणीः । ग्रामणीः ॥
  • (2976) भजो ण्विः <3-2-62>
सुप्युपसर्गे चोपपदे भजेर्ण्विः स्यात् । अंशभाक् । प्रभाक् ॥
  • (2977) अदोऽनन्ने <3-2-68>
विट् स्यात् । आममत्ति आमात् । सस्यात् । अनन्ने किम् । अन्नादः ॥
  • (2978) क्रव्ये च <3-2-69>
अदेर्विट् । पूर्वेण सिद्धे वचनमण्बाधनार्थम् । क्रव्यात् आममांसभक्षकः । कथं तर्हि क्रव्यादोऽस्रप आशर इति । पक्वमांसशब्दे उपपदेऽण् । उपपदस्य क्रव्यादेशः पृषोदरादित्वात् ॥
  • (2979) दुहः कब्घश्च <3-2-70>
कामदुघा ॥
  • (2980) अन्येभ्योऽपि दृश्यन्ते <3-2-75>
छन्दसीति निवृत्तम् । मनिन् क्वनिप् वनिप् विच् एते प्रत्यया धातोः स्युः ॥
  • (2981) नेड्वशि कृति <7-2-8>
वशादेः कृत इण्न स्यात् । शॄ । सुशर्मा । प्रातरित्वा ॥
  • (2982) विड्वनोरनुनासिकस्यात् <6-4-41>
अनुनासिकस्य आत्स्यात् । विजायत इति विजावा । ओणृ । अवावा । विच् । रोट् । रेट् । सुगण् ॥
अयमपि दृश्यते । सत्सूद्विष---2975 इति त्वस्यैव प्रपञ्चः । उखास्रत् । पर्णध्वत् । वाहभ्रट् ॥
पदान्तस्यानितेर्नस्य णत्वं स्यादुपसर्गस्थान्निमित्तात्परश्चेत् । हे प्राण् । शास इत्--- 2486 इतीत्वम् । मित्राणि शास्ति मित्रशीः ॥ । आशासः क्वावुपाधाया इत्वं वाच्यम् ॥ आशीः इत्वोत्वे । गीः । पूः ॥
  • (2985) इस्मन्त्रन्क्विषु च <6-4-97>
एषु छादेर्हस्वः स्यात् । तनुच्छत् । अनुनासिकस्य क्वि--2666 इति दीर्घः । मो नो धातोः 341 । प्रतान् । प्रशान् । च्छ्वोः --2561 इत्यूठ् । अक्षद्यूः । ज्वरत्वरः--2654 इत्यूठ् । जूः । जूरौ । जूरः । तूः । स्रूः । ऊः । वृद्धिः । जनानवतीति जनौः । जनावौ । जनावः । मूः । मुवौ । मुवः । सुमूः । सुम्वौ । सुम्वः । राल्लोपः 2655 । मूर्छा, मूः । मुरौ । मुरः । धुर्वी, धूः ॥
अनुनासिकलोपः स्यात् । अङ्गत् ॥ । गमादीनामिति वक्तव्यम् (वा) ॥ परीतत् । संयत् । सुनुत् ॥ । ऊङ् च गमादीनामिति वक्तव्यम् ॥ लोपश्च ॥ अग्रेगूः । अग्रेभ्रूः ॥
चात् क्विप् । शंस्थः । शंस्थाः । शमि धातोः--2928 इत्यचं बाधितुं सूत्रम् ॥
  • (2988) सुप्यजातौ णिनिस्ताच्छील्ये <3-2-78>
अजात्यर्थे सुपि धातोर्णिनिः स्यात्ताच्छील्ये द्योत्ये । उष्णभोजी । शीतभोजी । अजातौ किम् । ब्राह्मणानामन्त्रयिता । ताच्छील्ये किम् । उष्णं भुङ्क्ते कदाचित् । इह वृत्तिकारेणोपसर्गभिन्न एव सुपि णिनिरिति व्याख्याय उत्प्रतिभ्यामाङि सर्तेरुपसंख्यानमिति पठितम् । हरदत्तमाधवीदिभिश्च तदेवानुसृतम् । तच्च भाष्यविरोधादुपेक्ष्यम् । प्रसिद्धश्चोपसर्गेऽपि णिनिः । स बभूवोपजीविनाम् । अनुयायिवर्गः । पतत्यधो धाम विसारि । न वञ्चनीयाः प्रभवोऽनुजीविभिरित्यादौ ॥ । साधुकारिण्युपसंख्यानम् ॥ । ब्रह्मणि वदः (वा) ॥ अताच्छील्यार्थं वार्तिकद्वयम् । साधुकारी । ब्रह्मवादी ॥
  • (2989) कर्तुर्युपमाने <3-2-79>
णिनिः स्यात् । उपदार्थः कर्ता प्रत्ययार्थस्य कर्तुरुपमानम् । उष्ट्र इव क्रोशति उष्ट्रक्रोशी । ध्वाङ्क्षरावी । अताच्छील्यार्थं जात्यर्थं च सूत्रम् । कर्तरि किम् । अपूपानिव भक्षयति माषान् । उपमाने किम् । उष्ट्रः क्रोशति ॥
णिनिः स्यात् । स्थण्डिलशायी ॥
  • (2991) बहुलमाभीक्ष्ण्ये <3-2-81>
पौनःपुन्ये द्योत्ये सुप्युपपदे णिनिः । क्षीरपायिण उशीनराः ॥
सुपि मन्यतेर्णिनिः स्यात् । दर्शनीयमानी ॥
  • (2993) आत्ममाने खश्च <3-2-83>
स्वकर्मके मनने वर्तमानान्मन्यतेः सुपि खश् स्यात् चाण्णिनिः । पण्डितमात्मानं मन्यते पण्डितंमन्यः । पण्डितमानी । खित्यनव्ययस्य 2943 । कालिंमन्या । अनव्ययस्य किम् । दिवामन्या ॥
  • (2994) इच एकाचोऽम्प्रत्ययवच्च <6-3-68>
इजन्तादेकाचोऽम् स्यात्स च स्वाद्यम्वत्खिदन्ते परे । औतोऽम्शसोः 285 । गांमन्यः । वाम्शसोः 302 । स्त्रियंमन्यः । स्त्रींमन्यः । नृ । नरंमन्यः । भुवंमन्यः । श्रियमात्मानं मन्यते श्रिमन्यं कुलम् । भाष्यकारवचनात् श्रीशब्दस्य ह्रस्वो मुममोरभावश्च ॥
अधिकारोऽयम् । वर्तमाने लट् 2151 । इति यावत् ॥
करणे उपपदे भूतार्थाद्यजेर्णिनिः स्यात्कर्तरि । सोमेनेष्टवान् सोमयाजी । अग्निष्टोमयाजी ॥
  • (2997) कर्मणि हनः <3-2-86>
पितृव्यघाती । कर्मणीत्येतत् सहे च 3006 इति यावदधिक्रियते ॥
  • (2998) ब्रह्मभ्रूणवृत्रेषु क्विप् <3-2-87>
एषु कर्मसूपपदेषु हन्तेर्भूते क्विप्स्यात् । ब्रह्महा । भ्रूणहा । वृत्रहा । क्विप् च 2983 इत्येव सिद्धे नियमार्थमिदम् । ब्रह्मादिष्वेव हन्तेरेव भूते एव क्विबेवेति चतुर्विधोऽत्र नियम इति काशिका । ब्रह्मादिष्वेव क्विबेवेति द्विविधो नियम इति भाष्यम् ॥
  • (2999) सुकर्मपापमन्त्रपुण्येषु कृञः <3-2-89>
सौ कर्मादिषु च कृञः क्विप्स्यात् । त्रिविधोऽत्र नियम इति काशिका । सुकृत् । कर्मकृत् । पापकृत् । मन्त्रकृत् । पुण्यकृत् । क्विबेवेति नियमात्कर्म कृतवानित्यत्राण्न । कृञ एवेति नियमान्मन्त्रमधीतवान्मन्त्राध्यायः । अत्र न क्विप् । भूत एवेति नियमान्मन्त्रं करोति करिष्यति वेति विवक्षायां न क्विप् । स्वादिष्वेवेति नियमाभावादन्यस्मिन्नप्युपपदे क्विप् । शास्त्रकृत् । भाष्यकृत् ॥
  • (3000) सोमे सुञः <3-2-90>
सोमसुत् । चतुर्विधोऽत्र नियम इति काशिका । एवमुत्तरसूत्रेऽपि ॥
  • (3001) अग्नौ चेः <3-2-91>
अग्निचित् ॥
  • (3002) कर्मण्यग्न्याख्यायाम् <3-2-92>
कर्मण्युपपदे कर्मण्येव कारके चिनोतेः क्विप्स्यात् अग्न्याधारस्थलविशेषस्याख्यायाम् । श्येन इव चितः श्येनचित् ॥
  • (3003) कर्मणीनि विक्रियः <3-2-93>
कर्मण्युपपदे विपूर्वात्क्रीणातेरिनिः स्यात् ॥ । कुत्सितग्रहणं कर्तव्यम् (वा) ॥ सोमविक्रयी । घृतविक्रयी ॥
  • (3004) दृशेः क्वनिप् <3-2-94>
कर्मणि भूत इत्येव । पारं दृष्टवान् पारदृश्वा ॥
  • (3005) राजनि युधि कृञः <3-2-95>
क्वनिप्स्यात् । युधिरन्तर्भावितण्यर्थः । राजानं योधितवान् राजयुध्वा । राजकृत्वा ॥
कर्मणीति निवृत्तम् । सहयुध्वा । सहकृत्वा ॥
  • (3007) सप्तम्यां जनेर्डः <3-2-97>
सरसिजम् । मन्दुरायां जातो मन्दुरजः । ङ्यापोः--1001 इति ह्रस्वः ॥
  • (3008) पञ्चम्यामजातौ <3-2-98>
जातिशब्दवर्जिते पञ्चम्यन्ते उपपदे जनेर्डः स्यात् । संस्कारजः । अदृष्टजः ॥
  • (3009) उपसर्गे च संज्ञायाम् <3-2-99>
प्रजा स्यात्सन्ततौ जने ॥
  • (3010) अनौ कर्मणि <3-2-100>
अनुपूर्वाज्जनेः कर्मण्युपपदे डः स्यात् । पुमांसमनुरुध्य जाता पुमनुजा ॥
  • (3011) अन्येष्वपि दृश्यते <3-2-101>
अन्येष्वप्युपपदेषु जनेर्डः स्यात् । अजः । द्विजः । ब्राह्मणजः । अपिशब्दः सर्वोपाधिव्यभिचारार्थः । तेन धात्वन्तरादपि कारकान्तेरेष्वपि क्वचित् । परितः खाता परिखा ॥
  • (3012) क्तक्तवतू निष्ठा <1-1-26>
एतौ निष्ठासंज्ञौ स्तः ॥
भूतार्थवृत्तेर्धातोर्निष्ठा स्यात् । तत्र तयोरेव-- 2833 इति भावकर्मणोः क्तः कर्तरि कृत् 2832 इति कर्तरि क्तवतुः । उकावितौ । स्नातं मया । स्तुतस्त्वया विष्णुः । विष्णुर्विश्वं कृतवान् ॥
  • (3014) निष्ठायामण्यदर्थे <6-4-60>
ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥
  • (3015) क्षियो दीर्घात् <8-2-46>
दीर्घात् क्षियो निष्ठातस्य नः स्यात् । क्षीणवान् । भावकर्मणोस्तु क्षितः कामो मया । श्र्युकः किति 2381 । श्रितः । श्रितवान् । भूतः । भूतवान् । क्षुतः ॥ । ऊर्णोतेर्णुवद्भावो वाच्यः (वा) ॥ तेन एकाच्त्वान्नेट् । ऊर्णुतः । नुतः । वृतः ॥
  • (3016) रदाभ्यां निष्ठातो नः पूर्वस्य च दः <8-2-42>
रेफदकाराभ्यां परस्य निष्ठातस्य नः स्यात् । निष्ठापेक्षया पूर्वस्य धातोर्दकारस्य च । शॄ । ऋत इत् 2390 । रपरः । णत्वम् । शीर्णः । बहिरङ्गत्वेन वृद्धेरसिद्धत्वान्नेह । कृतस्यापत्यं कार्तिः । भिन्नः । छिन्नः ॥
  • (3017) संयोगादेरातो धातोर्यण्वतः <8-2-43>
निष्ठातस्य नः स्यात् । द्राणः । स्त्यानः । ग्लानः । म्लानः ॥
  • (3018) ल्वादिभ्यः <8-2-44>
एकविंशतेर्लूञादिभ्यः प्राग्वत् । लूनः । ज्या । ग्रहिज्या--2412 । जीनः ॥ दुग्वोर्दीर्घश्च ॥ दु गतौ दूनः । टुदु उपताप इत्ययं तु न गृह्यते सानुबन्धकत्वात् । मृदुतया दुतयेति माघः । गूनः ॥ । पूञो विनाशे ॥ पूना यवाः । विनष्टा इत्यर्थः । पूतमन्यत् ॥ । सिनोतेर्ग्रासकर्मकर्तृकस्य ॥ सिनो ग्रासः । ग्रासेति किम् । सिता पाशेन सूकरी । कर्मकर्तृकेति किम् । सितो ग्रासो देवदत्तेन ॥
भुजो । भुग्नः । टुओश्वि । उच्छूनः । ओहाक् । प्रहीणः । (ग) स्वादय ओदितः इत्युक्तम् । सूनः । सूनवान् । दूनः । दूनवान् । ओदिन्मध्ये डीङ पाठमर्थ्यान्नेट् । उड्डीनः ॥
  • (3020) द्रवमूर्तिस्पर्शयोः श्यः <6-1-24>
द्रवस्य मूर्तौ काठिन्ये स्पर्शे चार्थे श्यैङः संप्रसारणं स्यान्निष्ठायाम् ॥
  • (3021) श्योऽस्पर्शे <8-2-47>
श्यैङो निष्ठातस्य नः स्यादस्पर्शेऽर्थे । हलः -- 2559 इति दीर्घः । शीनं घृतम् । अस्पर्शे किम् । शीतं जलम् । द्रवमूर्तिस्पर्शयोः किम् । संश्यानो वृश्चिकः । शीतात्संकुचित इत्यर्थः ॥
  • (3022) प्रतेश्च <6-1-25>
प्रतिपूर्वस्य श्यः संप्रसारणं स्यान्निष्ठायाम् । प्रतिशीनः ॥
  • (3023) विभाषाऽभ्यवपूर्वस्य <6-1-26>
श्यः संप्रसारणं वा स्यात् । अभिश्यानं घृतम् । अभिशीनम् । अवश्यानोऽवशीनो वृश्चिकः । व्यवस्थितविभाषेयम् । तेनेह न । समवश्यानः ॥
  • (3024) अञ्चोऽनपादाने <8-2-48>
अञ्चो निष्ठातस्य नः स्यान् त्वपादाने ॥
  • (3025) यस्य विभाषा <7-2-15>
यस्य क्वचिद्विभाषयेड्विहितस्ततो निष्ठाया इण्न स्यात् । उदितो वा 3328 इति क्त्वायां वेट्त्वादिह नेट् । समक्नः । अनपादाने किम् । उदक्तमुदकं कूपात् । नत्वस्यासिद्धत्वात् व्रश्च--294 इति षत्वे प्राप्ते ॥ । निष्ठादेशः षत्वस्वरप्रत्ययेड्विधिषु सिद्धो वाच्यः ॥ वृक्णः । वृक्णवान् ॥
  • (3026) परिस्कन्दः प्राच्यभरतेषु <8-3-75>
पूर्वेण मूर्धन्ये प्राप्ते तदभावो निपात्यते । परिस्कन्दः । प्राच्येति किम् । परिष्कन्दः । परिस्कन्दः ।परेश्च 2399 इति विकल्पः । स्तम्भेः 2272 इति षत्वे प्राप्ते ॥
  • (3027) प्रतिस्तब्धनिस्तब्धौ च <8-3-114>
अत्र षत्वं न स्यात् ॥
  • (3028) दिवोऽविजिगीषायाम् <8-3-49>
दिवो निष्ठातस्य नः स्यादविजिगीषायाम् । द्यूनः । विजिगीषायां तु द्यूतम् ॥
  • (3029) निर्वाणोऽवाते <8-2-50>
अवाते इति छेदः । निपूर्वाद्वातेर्निष्ठातस्य नत्वं स्याद्वातस्चेत्कर्ता न । निर्वाणोऽग्निर्मुनिश्च । वाते तु निर्वातो वातः ॥
निष्ठात इत्येव । शुष्कः ॥
पक्वः ॥
  • (3032) क्षायो मः <8-2-53>
क्षामः ॥
  • (3033) स्त्यः प्रपूर्वस्य <6-1-23>
प्रात् स्त्यः संप्रसारणं स्यान्निष्ठायाम् ॥
  • (3034) प्रस्त्योऽन्यतरस्याम् <8-2-54>
निष्ठातस्य मो वा स्यात् । प्रस्तीमः । प्रस्तीतः । प्रात्किम् । स्त्यानः ॥
  • (3035) अनुपर्सगात्फुल्लक्षीबकृशोल्लाघाः <8-2-55>
ञिफाला । फुल्लः । निष्ठातस्य लत्वं निपात्यते । क्तवत्वेकदेशस्यापीदं निपातनमिष्यते । फुल्लवान् । क्षीबादिषु तु क्तप्रत्यस्यैव तलोपः । तस्यासिद्धत्वात्प्राप्तस्येटोऽभावश्च निपात्यते । क्षीबो मत्तः । कृशस्तनुः । उल्लाघो नीरोगः । अनुपसर्गात्किम् ॥
आकारेतो निष्ठाया इण्न स्यात् ॥
चरफलोपत उत्स्यात्तादौ किति । प्रफुल्तः । प्रक्षीबितः । प्रकृशितः । प्रोल्लाघितः । कथं तर्हि लोध्रद्रुमं सानुमतः प्रफुल्लमिति । फुल्ल विकसने पचाद्यच् । सूत्रं तु फुल्तादिनिवृत्त्यर्थम् ॥ । उत्फुल्लसंफुल्लयोरुपसंख्यानम् ॥
  • (3038) नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम् <8-2-56>
एभ्यो निष्ठातस्य नो वा । नुन्नः । नुत्तः । विदविचारणे रौधादिक एव गृह्यते उन्दिना परेण साहचर्यात् । विन्नः । वित्तः । वेत्तेस्तु विदितः । विद्यतेर्विन्नः । उन्दी ॥
  • (3039) श्वीदितो निष्ठायाम् <7-2-14>
श्वयतेरीदितश्च निष्ठाया इण्न । उन्नः । उत्तः । त्राणः । त्रातः । घ्राणः । घ्रातः । ह्रीणः । ह्रीतः ॥
  • (3040) न ध्याख्यापॄमूर्च्छिमदाम् <8-2-57>
एभ्यो निष्ठातस्य नत्वं न । ध्यातः । ख्यातः । पूर्तः । राल्लोपः 2655 । मूर्तः । मत्तः ॥
  • (3041) वित्तो भोगप्रत्यययोः <8-2-58>
विन्दतेर्निष्ठातस्य निपातोऽयं भोग्ये प्रतीते चार्थे । वित्तं धनम् । वित्तः पुरुषः । अनयोः किम् । विन्न । विभाषा गमहन--3099 इति क्वसौ वेट्त्वादिह नेट् ॥
  • (3042) भित्तं शकलम् <8-2-59>
भिन्नमन्यत् ॥
  • (3043) ऋणमाधमर्ण्ये <8-2-60>
ऋधातोः क्ते तकारस्य नत्वं निपात्यते अधमर्णव्यवहारे । ऋतमन्यत् ॥
  • (3044) स्फायः स्फी निष्ठायाम् <6-1-22>
स्फीतः ॥
  • (3045) इण्निष्ठायाम् <7-2-47>
निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषा 3025 इति निषेधे प्राप्ते पुनर्विधिः । निष्कुषितः ॥
  • (3046) वसतिक्षुधोरिट् <7-2-52>
आभ्यां क्त्वानिष्ठयोर्नित्यमिट् स्यात् । उषितः । क्षुधितः ॥
  • (3047) अञ्चेः पूजायाम् <7-2-53>
पूजार्थादञ्चेः क्त्वानिष्ठयोरिट् स्यात् । अञ्चितः । गतौ तु अक्तः ॥
  • (3048) लुभोऽविमोहने <7-2-54>
लुभः क्त्वानिष्ठयोर्नित्यमिट् स्यान्नतु गार्ध्ये । लुभितः । गार्ध्ये तु लुब्धः ॥
  • (3049) क्लिशः क्त्वानिष्ठयोः <7-2-50>
इड्वा स्यात् । क्लिश उपतापे नित्यं प्राप्ते । क्लिशू विबाधने । अस्य क्त्वायां विकल्पे सिद्धेऽपि निष्ठायां निषेधे प्राप्ते विकल्पः । क्लिशितः । क्लिष्टः ॥
पूङः क्त्वानिष्ठयोरिड्वा स्यात् ॥
  • (3051) पूङः क्त्वा च <1-2-22>
पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । ोपधात्--3324 इत्यत्र हि क्त्वैव संबध्यते ॥
  • (3052) निष्ठा शीङ् स्विदिमिदिक्ष्विदिधृषः <1-2-19>
एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः । शेश्यितः । शेश्यितवान् ॥ । आदिकर्मणि निष्ठा वक्तव्या (वा) ॥
  • (3053) आदिकर्मणि क्तः कर्तरि च <3-4-71>
आदिकर्मणि यः क्तः स कर्तरि स्यात् चाद्भावकर्मणोः ॥
  • (3054) विभाषा भावादिकर्मणोः <7-2-17>
भावे आदिकर्मणि चादितो निष्ठाया इड्वा स्यात् । प्रस्वेदितश्चैत्रः । प्रस्वेदितं तेन । ञिष्विदेति भ्वादिरत्र गृह्यते । ञीद्भिः साहचर्यात् । स्विद्यतेस्तु स्विदित इत्येव । ञिमिदा । ञिक्ष्विदा । दिवादी भ्वादी च । प्रमेदितः । प्रमेदितवान् । प्रक्ष्वेदितः । प्रक्ष्वेदितवान् । प्रधर्षितः । प्रधर्षितवान् । प्रधर्षितं तेन । सेट् किम् । प्रस्विन्नः । प्रस्विन्नं तेनेत्यादि ॥
  • (3055) मृषस्तितितक्षायाम् <1-2-20>
सेण्निष्ठाकिन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः ॥
  • (3056) उदुपधाद्भवादिकर्मणोरन्यतरस्याम् <1-2-21>
उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः । प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट्किम् । क्रुष्टम् ॥ । शब्विकरणेभ्य एवेष्यते (वा) ॥ नेह । गुध्यतेर्गुधितम् ॥
  • (3057) निष्ठायां सेटि <6-4-52>
णेर्लोपः स्यात् । भावितः । भावितवान् । श्वीदितः--3039 इति नेट् । संप्रसारणम् । शूनः । दीप्तः । गुहू, गूढः । वनु, वतः । तनु,ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्ते द्वितीयाश्रित--- 686 इति सूत्रे वेट्कत्वात्सिद्धे

कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषा 3025 इत्यत्रैकाच इत्येव । दरिद्रतः ॥

  • (3058) क्षुब्धस्वान्तध्वान्तलग्नम्लिष्टविरिब्धफाण्टबाढानि मन्थमनस्तमः सक्ताविस्पष्टस्वरानायासभृशेषु <7-2-18>
क्षुब्धादीन्यष्टावनिट्कानि निपात्यन्ते समुदायेन मन्थादिषु वाच्येषु । द्रवद्रव्यसंपृक्ताः सक्तवो मन्थो मन्थनदण्डश्च । क्षुब्धो मन्थश्चेत् । स्वान्तं मनः । ध्वान्तं तमः । लग्नं सक्तम् । निष्ठानत्वमपि निपातनात् । म्लिष्टविस्पष्टम् । विरिब्धः स्वरः । म्लेच्छ रेभृ अनयोरुपधाया इत्वमपि निपात्यते । फाण्टम् अनायाससाध्यः कषायविशेषः । माधवस्तु नवनीतभावात्प्रागवस्थापन्नं द्रव्यं फाण्टमिति वेदभाष्ये आह । बाढं भृशम् । अन्यत्र तु क्षुभितम् । क्षुब्धो राजेति त्वागमशास्त्रस्यानित्यत्वात् । स्वनितम् । ध्वनितम् । लगितम् । म्लेच्छितम् । विरेभितम् । फणितम् । वाहितम् ॥
  • (3059) धृषिशसी वैयात्ये <7-2-19>
एतौ निष्ठायामविनये एवानिटौ स्तः । धृष्टः । विशस्तः । अन्यत्र धर्षितः । विशसितः । भावादिकर्मणोस्तु वैयात्ये धृषिर्नास्ति । अत एव नियमार्थमिदं सूत्रमिति वृत्तिः । धृषेरादित्त्वे फलं चिन्त्यमिति हरदत्तः । माधवस्तु भावादिकर्मणोरवैयात्ये विकल्पमाह । धृष्टम् । धर्षितम् । प्रधृष्टः । प्रधर्षितः ॥
  • (3060) दृढः स्थुलबलयोः <7-2-20>
स्थूले बलवति न निपात्यते । दृह दृहि वृद्धौ । क्तस्येडभावः तस्य ढत्वम् । हस्य लोपः । इदितो नलोपश्च । दृहितः । दृंहितोऽन्यः ॥
  • (3061) प्रभौ परिवृढः <7-2-21>
वृह वृहि वृद्धौ । निपातनं प्राग्वत् । परिवृहितः । परिवृंहितोऽन्यः ॥
  • (3062) कृच्छ्रगहनयोः कषः <7-2-22>
कषो निष्ठाय इण्न स्यादेतयोरर्थयोः । कष्टं दुःखं तत्कारणं च । स्तात्कष्टं कृच्छ्रमाभीलम् । कष्टो मोहः । कष्टं शास्त्रम् । दुरवगाहमित्यर्थः । कषितमन्यत् ॥
  • (3063) घुषिरविशब्दने <7-2-23>
घुषिर्निष्ठायामनिट् स्यात् । घुष्टा रज्जुः । अविशब्दने किम् । घुषितं वाक्यम् । शब्देन प्रकटीकृताभिप्रायमित्यर्थः ॥
  • (3064) अर्देः संनिविभ्यः <7-2-24>
एतत्पूर्वादर्देर्निष्ठाया इण्न स्यात् । समर्णः । न्यर्णः । व्यर्णः । अर्दितोऽन्यः ॥
  • (3065) अभेश्चाविदूर्ये <7-2-25>
अभ्यर्णम् । नातिदूरं नासन्नं वा । अभ्यर्दितमन्यत् ॥
  • (3066) णेरध्ययने वृत्तम् <7-2-26>
ण्यन्ताद्वृत्तेः क्तस्येडभावो णिलुक्चाधीयमानेऽर्थे । वृत्तं छन्दश्छात्रेण । संपादितम् । अधीतमिति यावत् । अन्यत्र तु वर्तिताः रज्जुः ॥
  • (3067) शृतं पाके <6-1-27>
श्रातिश्रपयत्योः क्ते शृभावो निपात्यते । क्षीरहविषोः पाके । शृतं क्षीरम् । स्वयमेव विक्लिन्नं पक्वं वेत्यर्थः । क्षीरहविर्भ्यामन्यत्तु श्राणं श्रपितं वा ॥
  • (3068) वा दान्तशान्तपूर्णदस्तस्पष्टच्छन्नज्ञप्ताः <7-2-27>
एते णिचि निष्ठान्ता वा निपात्यते । पक्षे । दमितः । शमितः । पूरितः । दासितः । स्पाशितः । छादितः । ज्ञपितः ॥
  • (3069) रुष्यमत्वरसंघुषाऽऽस्वनाम् <7-2-28>
एभ्यो निष्ठाया इड्वा । रुषितः । रुष्टः । आन्तः । अमितः । तूर्णः । त्वरितः । अस्याऽऽत्त्वे फलं मन्दम् । संघुष्टः । संघुषितः । आस्वान्तः । आस्वनितः ॥
  • (3070) ह्रषेर्लोमसु <7-2-29>
हृषेर्निष्ठाया इड्वा स्यात् लोमसु विषये । हृष्टं हृषितं लोम ॥ । विस्मितप्रतिघातयोश्च ॥ हृषो हृषितो मैत्रः । विस्मितः प्रतिहतो वेत्यर्थः । अन्यत्र तु । हृषु अलीके । उदित्वान्निष्ठायां नेट् । हृष तुष्टौ इट् ॥
  • (3071) अपचितश्च <7-2-30>
चायतेर्निपातोऽयं वा । अपचितः । अपचायितः ॥
  • (3072) प्यायः पी <6-1-28>
वा स्यान्निष्ठायाम् । व्यवस्थितविभाषेयम् । तेन स्वाङ्गे नित्यम् । पीनं सुखम् । अन्यत्र प्यानः पीनः स्वेदः । सोपसर्गस्य न प्रप्यानः । आङ्पूर्वस्यान्धूधसोः स्यादेव । आपीनोन्धुः । आपीनमूधः ॥
  • (3073) ह्लादोः निष्ठायाम् <6-4-94>
ह्रस्वः स्यात् । प्रह्लन्नः ॥
  • (3074) द्यतिस्यतिमास्थामित्ति किति <7-4-40>
एषामिकारोऽन्तादेशः स्यात्तादौ किति । ईत्वदद्भावयोरपवादः । दितः । सितः । मा माङ् मेङ् । मितः । स्थितः ॥
  • (3075) शाच्छोरन्यतरस्याम् <7-4-41>
शितः । शातः । छितः । छातः । व्यवस्थितविभाषात्वाद्व्रतविषये श्यतेर्नित्यम् । संशितं व्रतम् । सम्यक्संपादितमित्यर्थः । संशितो ब्राह्मणः । व्रतविषयकयत्नवानित्यर्थः ॥
  • (3076) दधातेर्हिः <7-4-42>
तादौ किति । अभिहितम् । निहितम् ॥
  • (3077) दो दद्धोः <7-4-46>
घुसंज्ञकस्य दा इत्यस्य दथ् स्यात्तादौ किम् । चर्त्वम् । दत्तः । घोः किम् । दातः । तान्तो वायमादेशः न चैवं विदत्तमित्यादावुपसर्गस्य दस्ति 3079 इति दीर्घापत्तिः । तकारादौ तद्विधानात् । दान्तो वा धान्तो वा । न च दान्तत्वे निष्ठानत्वं धान्तत्वे झषस्तथोः--2280 इति धत्वं शङ्क्यम् । सन्निपातपरिभाषाविरोधात् ॥
  • (3078) अच उपसर्गात्तः <7-4-47>
अजन्तादुपसर्गात्परस्य दा इत्यस्य घोरचस्तः स्यात्तादौ किति । चर्त्वम् । प्रत्तः । अवत्तः । अवदत्तं विदत्तं च प्रदत्तं चादिकर्मणि । सुदत्तमवुदत्तं च निदत्तमिति चेष्यते ॥ चशब्दाद्यथाप्राप्तम् ॥
इगन्तोपसर्गस्य दीर्घः स्याद्दादेशो यस्तकारस्तदादावुत्तरपदे । खरिच 121 इति चर्त्वमाश्रयात्सिद्धम् । नीत्तम् । सूत्तम् । घुमास्था 2462 इतीत्वम् । धेट् । धीतम् । गीतम् । पीतम् । जनसन -- 2504 इत्यात्वम् । जातम् । सातम् । खातम् ॥
  • (3080) अदो जग्धिर्ल्यप्ति किति <2-4-36>
ल्यबिति लुप्तसप्तमीकम् । अदो जग्धिः स्यात् ल्यपि तादौ किति च । इकार उच्चारणार्थः । धत्वम् । झरो झरि 71 । जग्धः । आदिकर्मणि क्तः कर्तरि च 3053 । प्रकृतः कटं सः । प्रकृतः कटस्तेन । निष्ठायामण्यदर्थे 3014 इति दीर्घः । क्षियो दीर्घात् 3015 इति णत्वम् । प्रक्षीणः सः ॥
  • (3081) वाक्रोशदैन्ययोः <6-4-61>
क्षियो निष्ठायां दीर्घो वा स्यादाक्रोशे दैन्ये च । क्षीणायुर्भव । क्षितायुर्वा । क्षीणोऽयं तपस्वी । क्षितो वा ॥
  • (3082) निनदीभ्यां स्नातेः कौशले <8-3-89>
आभ्यां स्नातेः सस्य षः स्यात्कौशले गम्ये । निष्णातः । शास्त्रेषु । नद्यां स्नातीति नदीष्णः । सुपि 2916 इति कः ॥
  • (3083) सूत्रं प्रतिष्णातम् <8-3-90>
प्रतेः स्नातेः षत्वम् । प्रतिष्णातं सूत्रम् । शुद्धमित्यर्थः । अन्यत्र प्रतिस्नातम् ॥
  • (3084) कपिष्ठलो गोत्रे <8-3-91>
कपिष्ठलो नाम यस्य कापिष्ठलिः पुत्रः । गोत्रे किम् । कपीनां स्थलं कपिस्थलम् ॥
  • (3085) विकुशमिपरिभ्यः स्थलम् <8-3-96>
एभ्यः स्थलस्य सस्य षः स्यात् । विष्ठलम् । कुष्ठलम् । शमिष्ठलम् । परिष्ठलम् ॥
  • (3086) गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च <3-4-72>
एभ्यः कर्तरि क्तः स्यात् भावकर्मणोश्च । गङ्गां गतः । गङ्गां प्राप्तः । ग्लानः सः । लक्ष्मीमाश्लिष्टो हरिः । शेषमधिशयितः । वैकुण्ठमधिष्ठितः । शिवमुपासितः । हरिदिनमुपोषितः । राममनुजातः । गरुडमारूढः । विश्वमनुजीर्णः । पक्षे प्राप्ता गङ्गा येनेत्यादि ॥
  • (3087) क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः <3-4-76>
एभ्योऽधिकरणे क्तः स्यात् चाद्याथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितामिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमिति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥
ञिक्ष्विदा । क्ष्विण्णः । ञिःथ्द्य;न्धी । इद्धः ॥
  • (3089) मतिबुद्धिपूजार्थेभ्यश्च <3-2-188>
मतिरिहेच्छा । बुद्धेः पृथगुपादानात् । राज्ञां मतः इष्टः । तैरिष्यमाण इत्यर्थः । बुद्धः । विदितः । पूजितः । अर्चितः । चकारोऽनुक्तसमुच्चयार्थः । शीलितो रक्षितः क्षान्त आकृष्टो जुष्ट इत्यादि ॥
  • (3090) नपुंसके भावे क्तः <3-3-114>
क्लीबत्व विशिष्टे भावे कालसामान्ये क्तः स्यात् । जल्पितम् । शयितम् । हसितम् ।
  • (3091) सुयजोङ्र्वनिप् <3-2-103>
सुनोतेर्यजेश्चङ्वनिप्स्याद्भूते । सुत्वा । सुत्वानौ । यज्वा । यज्वानौ ॥
  • (3092) जीर्यतेरतृन् <3-2-104>
भूत इत्येव । जरन् । जरन्तौ । जरन्तः । वासरूपन्यायेन निष्ठापि । जीर्णो जीर्णवान् ॥
  • (3093) छन्दसि लिट् <3-2-105>
  • (3094) लिटः कानज्वा <3-2-106>
इह भूतसामान्ये छन्दसि लिट् तस्य विधीयमानौ क्वसुकानचावपि छान्दसाविति त्रिमुनिमतम् । कवयस्तु बहुलं प्रयुञ्जते । तं तस्थिवांसं नगरोपकण्ठे इति । श्रेयांसि सर्वाण्यधिजग्मुषस्ते इत्यादि ॥
  • (3096) वस्वेकाजाद्धसाम् <7-2-67>
कृतद्विर्वचनानामेकाचामादन्तानां घसेश्च वसोरिट् नान्येषाम् । एकाच् । आदिवान् । आरिवान् । आत् । ददिवान् । जक्षिवान् । एषां किम् । बभूवान् ॥
  • (3097) भाषायां सदवसश्रुवः <3-2-108>
सदादिभ्यो भूतसामान्ये भाषायां लिड्वा स्यात् तस्य च नित्यं क्वसुः । निषेदुषीमासनबन्धधीरः । अध्यूषुषस्तामभवञ्जनस्य । शुश्रुवान् ॥
  • (3098) उपेयिवाननाश्वाननूचानश्च <3-2-109>
एते निपात्यन्ते । उपपूर्वादिणो भाषायामपि भूतमात्रे लिड्वा तस्य नित्यं क्वसुः । इट् । उपेयिवान् । उपेयुषः स्वामपि मूर्तिमग्र्याम् । उपेयुषी । उपेत्यविवक्षितम् । ईयिवान् । समीयिवान् । नञ्पूर्वादश्नातेः क्वसुरिडभावश्च । धृतजयधृतेरनाशुष इति भारविः । अनुपूर्वाद्वचेः कर्तरि कानच् । वेदस्यानुवचनं कृतवाननूचानः ॥
  • (3099) विभाषा गमहनविदविशाम् <7-2-68>
एभ्यो वसोरिड्वा । जग्मिवान् । जगन्वान् । जघ्निवान् । जगन्वान् । विविदिवान् । विविद्वान् । विविशिवान् । विविश्वान् । विशिना साहचर्याद्विन्दतेर्ग्रहणम् । वेत्तेस्तु विविद्वान् । नेड्वशि कृति 2981 इतीण्निषेधः ॥ दृशेश्च (वा) ॥ ददृशिवान् । ददृश्वान् ॥
  • (3100) लटः शतृशानचावप्रथमासमानाधिकरणे <2-2-124>
अप्रथमान्तेन सामानाधिकरण्ये सतीत्यर्थः । शबादि । पचन्तं चैत्रं पश्य ॥
अङ्गस्यातो मुमागमः स्यादाने परे । पचमानं चैत्रं पश्य । लडित्यनुवर्तमाने पुनर्लड्ग्रहणमधिकविधानार्थम् । तेन प्रथमासामानाधिकरण्येऽपि क्वचित् । सन् ब्राह्मणः ॥ । माड्याक्रोशे इति वाच्यम् ॥ मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । माङि लुङ् 2219 इति प्राप्ते एतद्वचनसामर्थ्यालुक् ॥
हे पचन् । हे पचमान ॥
  • (3103) लक्षणहेत्वोः क्रियायाः <3-2-126>
क्रियायाः परिचायके हेतौ चार्थे वर्तमानाद्धातोर्लटः शतृशानचौ स्तः । शयाना भुञ्जते यवनाः । अर्जयन्वसति । हरिं पश्यन्मुच्यते । हेतुः फलं कारणं च । कृत्यचः 2835 । प्रपीयमाणः सोमः ॥
आसः परस्यानस्य ईत्स्यात् । आदेः परस्य 44 । आसीनः ॥
  • (3105) विदेः शतुर्वसुः <7-1-36>
वेत्तेः परस्य शतुर्वसुरादेशो वा स्यात् । विदन् । विद्वान् । विदुषी ॥
तौ शतृशानचौ सत्संज्ञौ स्तः ॥
  • (3107) लृटः सद्वा <3-3-14>
व्यवस्थितविभाषेयम् । तेनाप्रथमासामानाधिकरण्ये प्रत्ययोत्तरपदयोः संबोधने लक्षणहेत्वोश्च नित्यम् । करिष्यन्तं करिष्यमाणं पश्य । करिष्यतोऽपत्यं कारिष्यतः । करिष्यद्भक्तिः । हे करिष्यन् । अर्जयिष्यन्वसति । प्रथमासमानाधिकरणेऽपि क्वचित् । करिष्यतीति करिष्यन् ॥
  • (3108) पुङ्यजो शानन् <3-2-128>
वर्तमाने । पवमानः । यजमानः ॥
  • (3109) ताच्छील्यवयोवचनशक्तिषु चानश् <3-2-129>
एषु द्योत्येषु कर्तरि चानश् । भोगं भुञ्जानः । कवचं बिभ्राणं । शत्रून्निघ्नानः ॥
  • (3110) इङ्धार्योः शत्रकृच्छ्रिणि <3-2-130>
आभ्यां शतृ स्यादकृच्छ्रिणि कर्तरि । अधीयन् । धारयन् । अकृच्छ्रिणि किम् । कृच्छ्रेणाधीते । धारयति ॥
  • (3111) द्विषोऽमित्रे <3-2-131>
द्विषन् शत्रुः ॥
  • (3112) सुञो यज्ञसंयोगे <3-2-132>
सर्वे सुन्वन्तः सर्वे यजमानाः सत्रिणः ॥
  • (3113) अर्हः प्रशंसायाम् <3-2-133>
अर्हन् ॥
  • (3114) आक्वेस्तच्छीलतद्धर्मतत्साधुकारिषु <3-2-134>
क्विपमभिव्याप्य वक्ष्यमाणाः प्रत्ययास्तच्छीलतद्धर्मतत्साधुकारिषु कर्तृषु बोध्याः ॥
कर्ता कटान् ॥
  • (3116) अलंकृञ्निराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् <3-2-136>
अलंकरिष्णुः । निराकरिष्णुः । प्रजनिष्णुः । उत्पतिष्णु । उत्पचिष्णुः । उन्मदिष्णुः । रोचिष्णुः । अपत्रपिष्णुः ।

वर्तिष्णुः । वर्धिष्णुः । सहिष्णुः । चरिष्णुः ॥

  • (3117) णेश्छन्दसि <3-2-137>
वीरुधः पारयिष्णवः ॥
छन्दसीत्येव । भविष्णुः । कथं तर्हि जगत्प्रभोरप्रभविष्णुः वैष्णवमिति । निरङ्कुशाः कवयः । चकारोऽनुक्तसमुच्चयार्थः । भ्राजिष्णुरिति वृत्तिः । एवं क्षयिष्णुः । नैतद्भाष्ये दृष्टम् ॥
  • (3119) ग्लाजिस्थश्च ग्स्नुः <3-2-139>
छन्दसीति निवृत्तम् । गिदयं न तु कित् । तेन स्थः ईत्वं न । ग्लास्नुः । गित्त्वान्न गुणः । जिष्णुः । स्थास्नुः । चाद्भुवः । श्र्युकः किति 2381 इत्यत्र गकारप्रश्लेषान्नेट् । भूष्णुः ॥ दंशेश्छन्दस्युपसंख्यानम् ॥ दङ्क्ष्णवः पशवः ॥
  • (3120) त्रसिगृधिधृषिक्षिपेः क्नुः <3-2-140>
त्रस्नुः । गृध्नुः । धृष्णुः । क्षिप्नुः ॥
  • (3121) शमित्यष्टाभ्यो घिनुण् <3-2-141>
उकार उच्चारणार्थ इति काशिका । अनुबन्ध इति भाष्यम् । तेन शमिनितरा शमिनीतरेत्यत्र गितश्च 987 इति ह्रस्वविकल्पः । न चैवं शमिनावित्यादौ नुम्प्रसङ्गः । झल्ग्रहणमपकृष्य झन्तानामेव तद्विधानात् । नोदात्तोपदेशस्य --2763 इति वृद्धिनिषेधः । शमी । तमी । दमी । श्रमी । भ्रमी । क्षमी । क्लमी । प्रमादी । उत्पूर्वान्मदेः अलंकृञादिसूत्रेणेष्णुजुक्तो वासरूपविधिना घिनुणपि । उन्मादी । ताच्छीलिकेषु वासरूपविधिर्नास्तीति तु प्रायिकम् ॥
  • (3122) संपृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदहपरिमुहदुषद्विषद्रुहदुहयुजाक्रीडविविचत्यजरजभजातिचरापचरामुषाभ्याहन्Éश्च <3-2-142>
घिनुण् स्यात् । संपर्की । अनुरोधी । आयामी । आयासी । परिसारी । संसर्गी । परिदेवी । संज्वारी । परिक्षेपी । परिराटी । परिवादी । परिदाही । परिमोही । दोषी । द्वेषी । द्रोही । दोही । योगी । आक्रीडी । विवेकी । त्यागी । रागी । भागी । अतिचारी । अपचारी । आमोषी । अभ्यघाती ॥
  • (3123) वौ कषलसकत्थस्रम्भः <3-2-143>
विकाषी । विलासी । विकत्थी । विस्रम्भी ॥
चाद्वौ । अपलाषी । विलाषी ॥
  • (3125) प्रे लपसृद्रुमथवदवसः <3-2-145>
प्रलापी । प्रसारी । प्रद्रावी । प्रमाथी । प्रवादी । प्रवासी ॥
  • (3126) निन्दहिंसक्लिशखादविनाशपरिक्षिपपरिवादिव्याभाषासूयो वुञ् <3-2-146>
पञ्चम्यर्थे प्रथमा । एभ्यो वुञ् स्यात् । निन्दकः । हिंसक इत्यादि । ण्वुला सिद्धे वुञ्वचनं ज्ञापकं तच्छीलादिषु वासपरूपन्यायेन तृजादयो नेति ॥
  • (3127) देविक्रुशोश्चोपसर्गे <3-2-147>
आदेवकः । आक्रोशकः । उपसर्गे किम् । देवयिता । क्रोष्टा ॥
  • (3128) चलनशब्दार्थादकर्मकाद्युच् <3-2-148>
चलनार्थाच्छब्दार्थाच्च युच् स्यात् । चलनः । चोपनः । कम्पनः । शब्दनः । रवणः । अकर्मकात्किम् । पठिता विद्याम् ॥
  • (3129) अनुदात्तेतश्च हलादेः <3-2-149>
अकर्मकाद्युच् स्यात् । वर्तनः । वर्धनः । अनुदात्तेतः किम् । भविता । हलादेः किम् । एधिता । अकर्मकात्किम् । वसिता वस्त्रम् ॥
  • (3130) जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः <3-2-150>
जु इति सौत्रो धातुर्गतौ वेगे च । जवनः । चङ्क्रमणः । दन्द्रमणः । सरणः । पूर्वेण सिद्धे पदिग्रहणं लषपतपत 3134 इत्युकञा बाधा माभूदिति । तेन ताच्छीलिकेषु परस्परं वासरूपविधिर्नास्तीति । तेनालंकृञस्तृन्न ॥
  • (3131) क्रुधमण्डार्थेभ्यश्च <3-2-151>
क्रोधनः । रोषणः । मण्डनः । भूषणः ॥
यकारान्ताद्युच् न स्यात् । क्नूयिता । क्ष्मायिता ॥
  • (3133) सूददीपदीक्षश्च <3-2-153>
युच् न स्यात् । सूदिता । दीपिता । दीक्षिता । नमिकम्पि--3147 इति रेण युचो बाधे सिद्धे दीपेर्ग्रहणं ज्ञापयति ताच्छीलिकेषु वासरूपविधिर्नास्तीति प्रायिकमिति । तेन कम्रा कमना युवतिः । कम्प्रा कम्पना शाखा । यदि सूदेर्युज् न । कथं मधुसूदनः । नन्द्यादिः ॥
  • (3134) लषपतपदस्थाभूवृषहनकमगमशॄभ्य उकञ् <3-2-154>
लाषुकः । पातुक इत्यादि ॥
  • (3135) जल्पभिक्षकुट्टलुण्टवृङः षाकन् <3-2-155>
जल्पाकः । भिक्षाकः । कुट्टाकः । लुण्टाकः । वराकः । वराकी ॥
  • (3136) प्रजोरिनिः <3-2-156>
प्रजवी । प्रजविनौ । प्रजविनः ॥
  • (3137) जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च <3-2-157>
जयी । दरी । क्षयी । विश्रयी । अत्ययी । वमी । अव्यथी । अभ्यमी । परिभवी । प्रसवी ॥
  • (3138) स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच् <3-2-158>
आद्यास्त्रयश्चुरादावदन्ताः । स्पृहयालुः । गृहयालुः । पतयालुः । दयालुः । निद्रालुः । तत्पूर्वो द्रा । तदो नान्तत्वं निपात्यते । तन्द्रालुः ॥ । शीङो वाच्यः ॥ शयालुः ॥
  • (3139) दाधेट्सिशदसदो रुः <3-2-159>
दारुः । धारुः । सेरुः । शद्रुः । सद्रुः ॥
  • (3140) सृघस्यदः क्मरच् <3-2-160>
सृमरः । घस्मरः । अद्मरः ॥
  • (3141) भञ्जभासमिदो घुरच् <3-2-161>
भङ्गुरः । भासुरः । मेदुरः ॥
  • (3142) विदिभिदिच्छिदेः कुरच् <3-2-162>
विदुरः । भिदुरम् । छिदुरम् ॥
  • (3143) इण्नशजिसर्तिभ्यः क्वरप् <3-2-163>
इत्वरः । इत्वरी । नश्वरः । जित्वरः । सृत्वरः ॥
गमेरनुनासिकलोपोऽपि निपात्यते । गत्वरी ॥
जागर्तेरूकः स्यात् । जागरूकः ॥
  • (3146) यजजपदशां यङः <3-2-166>
एभ्यो यङ्न्तेभ्यः ऊकः स्यात् । दशामिति भाविना नलोपेन निर्देशः । यायजूकः । जञ्जपूकः । दन्दशूकः ॥
  • (3147) नमिकम्पिस्म्यजसकमहिंसदीपो रः <3-2-167>
नम्रः । कम्प्रः । स्मेरः । जसिर्नञ्पूर्वः क्रियासातत्ये वर्तते । अजस्रम् । सन्ततमित्यर्थः । कम्रः । हिंस्रः । दीप्रः ॥
  • (3148) सनाशंसभिक्ष उः <3-2-168>
चिकीर्षुः । आशंसुः । भिक्षुः ॥
  • (3149) विन्दुरिच्छुः <3-2-169>
वेत्तेर्नुम् एषेश्छत्वं च निपात्यते । वेत्ति तच्छीलो विन्दः । इच्छति इच्छुः ॥
  • (3150) क्याच्छन्दसि <3-2-170>
देवाञ्जिगाति सुम्नयुः ॥
  • (3151) आदृगमहनजनः किकिनौ लिट् च <3-2-171>
आदन्तादृदन्ताद्गमादिभ्यश्च किकिनौ स्तश्छन्दसि तौ च लिड्वत् । पपिः सोमं ददिर्गाः । बभ्रिर्वज्रम् । जग्मिर्युवा । जघ्निर्वृत्रममित्रियम् । जज्ञिः ॥ । भाषायां धाञ्कृसृगमिजनिनमिभ्यः ॥ दधिः । चक्रिः । सस्रिः । जग्मिः । जज्ञिः । नेमिः ॥ । सासहिवावहिचाचलिपापतीनामुपसंख्यानम् ॥ यङ्न्तेभ्यः सहेत्यादिभ्यः किकिनौ पतेर्नीगभावश्च निपात्यते ॥
  • (3152) स्वपितृषोर्नुजिङ् <3-2-172>
स्वप्नक् । तृष्णक् । तृष्णजौ । तृष्णजः । धृषेश्चेति वाच्यमिति काशिकादौ । धृष्णक् ॥
  • (3153) शॄवन्द्योरारुः <3-2-173>
शरारूः । वन्दारुः ॥
  • (3154) भियः क्रुक्लुकनौ <3-2-174>
भीरुः । भीलुकः ॥ । क्रुकन्नपि वाच्यः (वा) ॥ भीरुकः ॥
  • (3155) स्थेशभासपिसकसो वरच् <3-2-175>
स्थावरः । ईश्वरः । भास्वरः । पेस्वरः । कस्वरः ॥
यातेर्यङन्ताद्वरच् स्यात् । अतो लोपः 2380 । तस्य अचः परस्मिन् 50 इति स्थानिवद्भावे प्राप्ते पदस्य चरमावयवे द्विर्वचनादौ च कर्तव्ये परनिमित्तोऽजादेशे न स्थानिवत् तस्य यलोपं प्रति स्थानिवद्भावनिषेधात् लोपो व्योः--- 873 इति यलोपः । अल्लोपस्य स्थानिवत्त्वामाश्रित्य आतो लोपे प्राप्ते । वरे लुप्तं न स्थानिवत् । यायावरः ॥
  • (3157) भ्राजभासधुर्विद्यतोर्जिपॄजुग्रावस्तुवः क्विप् <3-2-177>
विभ्राट् । भाः । भासौ । धूः । धुरौ । विद्युत् । ऊकर्‌ । पूः । पुरौ । दृशिग्रहणस्यापकर्षाज्जवतेर्दीर्घः । जूः । जुवौ । जुवः । ग्रावशब्दस्य धातुना समासः सूत्रे निपात्यते । ततः क्विप् । ग्रावस्तुत् ॥
  • (3158) अन्येभ्योऽपि दृश्यते <3-2-178>
क्विप् । छित् । भिद् । दृशिग्रहणं विध्यन्तरोपसंग्रहार्थम् । क्वचिद्दीर्घः क्वचिदसंप्रसारणं क्वचिद्द्वे क्वचिद्ध्रस्वः । तथा च वार्तिकम् ॥ । किब्वचिप्रच्छयायतस्तुकटप्रुजुश्रीणं दीर्घोऽसंप्रसारणं च ॥ किब्वचीत्यादिना उणादिसूत्रेण केषांचित्सिद्धे तच्छीलादौ तृना बाधा मा भूदिति वार्तिके ग्रहणम् । वक्तीति वाक् । पृच्छतीति प्राट् । आयतं स्तौतीति आयतस्तूः । कटं प्रवते कटप्रूः । जूरुक्तः । श्रयति हरिं सा श्रीः ॥ । द्युतिगमिजुहोतीनां द्वे च (वा) ॥ दृशिग्रहणादभ्याससंज्ञा । दिद्युत् । जगत् ॥ । जुहोतेर्दीर्घश्च ॥ जुहूः । दॄ भये । अस्य ह्रस्वश्च । दीर्यति ददृत् ॥ । ध्यायतेः संप्रसारणं च ॥ धीः ॥
  • (3159) भुवः संज्ञान्तरयोः <3-2-179>
मित्रभूर्नाम कश्चित् । धनिकाधमर्णयोरन्तरे यस्तिष्ठति विश्वासार्थं स प्रतिभूः ॥
  • (3160) विप्रसंभ्यो ड्वसंज्ञायाम् <3-2-180>
एभ्यो भुवो डुः स्यान्न तु संज्ञायाम् । विभूर्व्यापकः । प्रभुः स्वामी । संभुर्जनिता । संज्ञायां तु विभूर्नाम कश्चित् ॥ । मितद्र्वादिभ्य उपसंख्यानम् ॥ मितं द्रवतीति मितद्रुः । शतद्रुः । शंभुः । अन्तर्भावितण्यर्थोऽत्र भवतिः ॥
  • (3161) धः कर्मणि ष्ट्रन् <3-2-181>
धेटो घाञश्च कर्मण्यर्थे ष्ट्रन् स्यात् । धात्री जनन्यामलकीवसुमत्युपमातृषु ॥
  • (3162) दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे <3-2-182>
दावादेः ष्ट्रन् स्यात्करणेऽर्थे । दान्त्यनेन दात्रम् । नेत्रम् ॥
  • (3163) तितुत्रतथसिसुसरकसेषु <7-2-9>
एषां दशानां कृत्प्रत्ययानामिण्न स्यात् । शस्त्रम् । योत्रम् । योक्त्रम् । स्तोत्रम् । तोत्रम् । सेत्रम् । सेक्त्रम् । मेढ्रम् । पत्रम् । दंष्ट्रा । नद्ध्री ॥
  • (3164) हलसूकरयोः पुवः <3-2-183>
पूङ्पूञोः करणे ष्ट्रन् स्यात् तच्चेत्करणं हलसूकरयोरवयवः । हलस्य सूकरस्य वा पोत्रम् । मुखमित्यर्थः ॥
  • (3165) अर्तिलूधूसूखनसहचर इत्रः <3-2-184>
अरित्रम् । लवित्रम् । धवित्रम् । सवित्रम् । खनित्रम् । सहित्रम् । चरित्रम् ॥
  • (3166) पुवः संज्ञायाम् <3-2-185>
पवित्रम् । येनाज्यमुत्पूयते यच्चानामिकावेष्टनम् ॥
  • (3167) कर्तरि चर्षिदेवतयोः <3-2-186>
पुव इत्रः स्यात् ऋषौ करणे देवतायां कर्तरि । ऋषिर्वेदमन्त्रः । तदुक्तमृषिणेति दर्शनात् । पूयतेऽनेनेति पवित्रम् ॥ देवतायां त्वग्निः पवित्रं स मा पुनातु ॥
इति पूर्वकृदन्तप्रकरणम्‌

Saroj sharma writing== उत्तरकृदन्तप्रकरणम्‌ ==

  • (3169) उणादयो बहुलम् <3-3-1>
एते वर्तमाने सञ्ज्ञायां च बहुलं स्युः । केचिदविहिता अप्यूह्याः ॥ सञ्ज्ञासु धातुरूपाणि प्रत्ययाश्चयाश्च ततः परे । कार्याद्विद्यादनूबन्धमेतच्छास्त्रमुणादिषु ॥
  • (3170) भूतेऽपि दृश्यन्ते <3-3-2>
  • (3171) भविष्यन्ति गम्यादयः <3-3-3>
  • (3172) दाशगोघ्नौ संप्रदाने <3-4-73>
एतौ सम्प्रदानकारके निपात्येते । दशन्ति तस्मै दाशः । गां हन्ति तस्मै गोघ्नोऽतिथिः ॥
  • (3173) भीमादयोऽपादाने <3-4-74>
भीमः । भीष्मः । प्रस्कन्दनः । प्ररक्षः । मूर्खः । खलतिः ॥
  • (3174) ताभ्यामन्यत्रोणादयः <3-4-75>
सम्प्रदानपरामर्शार्थं ताभ्यामिति । ततोऽसौ भवति तन्तुः । वृत्तं तदिति वर्त्म । चरितं तदिति चर्म ॥
  • (3175) तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् <3-3-10>
क्रियार्थायां क्रियायामुपपदे भविष्यत्यर्थे धातोरेतौ स्तः । मान्तत्वादव्ययत्वम् । कृष्णं द्रष्टुं याति । कृष्णं दर्शको याति । अत्र वासरूपेण तृजादयो न । पुनर्ण्वुलुक्तेः ॥
  • (3176) समानकर्तृकेषु तुमुन् <3-3-158>
अक्रियार्थोपपदार्थमेतत् । इच्छार्थेष्वेककर्तृकेषूपपदेषु धातोस्तुमुन् स्यात् । इच्छति भोक्तुम् । वष्टि वाञ्छति वा ॥
  • (3177) शकधृषज्ञागलाघटरभलक्रमसहार्हास्त्यर्थेषु तुमुन् <3-4-65>
एषूपपदेषु धातोस्तुमुन् स्यात् । शक्नोति भोक्तुम् । एवं धृष्णोतीत्यादौ । अर्थग्रहणमस्तिनैव सम्बध्यते । अनन्तरत्वात् । अस्ति भवति विद्यते वा भोक्तुम् ॥
  • (3178) पर्याप्तिवचनेष्वलमर्थेषु <3-4-66>
पर्याप्तिः पूर्णता । तद्वाचिषु सामर्थ्यवचनेषूपपदेषु तुमुन् स्यात् । पर्याप्तो भोक्तुं प्रवीणः कुशलः पटुरित्यादि । पर्याप्तिवचनेषु किम् । अलं भुक्त्वा । अलमर्थेषु किम् । पर्याप्तं भुङ्क्ते । प्रभूततेह गम्यते न तु भोक्तुः सामर्थ्यम् ॥
  • (3179) कालसमयवेलासु तुमुन् <3-3-167>
पर्यायोपादानमर्थोपलक्षणार्थम् । कालार्थेषूपपदेषु तुमुन् स्यात् । कालः समयो वेला अनेहा वा भोक्तुम् । प्रैषादिग्रहणमिहानुवर्तते । तेनेह न । भूतानि कालः पचतीति वार्ता ॥
  • (3180) भाववचनाश्च <3-3-11>
भाव इत्यधिकृत्य वक्ष्यमाणा घञादयः क्रियार्थायां क्रियायां भविष्यति स्युः । यागाय याति ॥
  • (3181) अण् कर्मणि च <3-3-12>
कर्मण्युपपदे क्रियार्थायां क्रियायां चाण् स्यात् । ण्वुलोऽपवादः । काण्डलावो व्रजति । परत्वादयं कादीन् बाधते । कम्बलदायो व्रजति ॥
  • (3182) पदरुजविस्पृशो घञ् <3-3-16>
भविष्यतीति निवृत्तम् । पद्यतेऽसौ पादः । रुजतीति रोगः । विशतीति वेशः । स्पृशतीति स्पर्शः ॥
  • (3183) सृ स्थिरे <3-3-17>
सृ इति लुप्तविभक्तिकम् । सर्तेः स्थिरे कर्तरि घञ् स्यात् । सरति कालान्तरमति सारः ॥ । व्याधिमत्स्यबलेषु चेति वाच्यम् ॥ अतीसारो व्याधिः । अन्तर्भावितण्यर्थोऽत्रसरतिः । रुधिराधिकमतिशयेन सारयतीत्यर्थः । विसारो मत्स्यः । सारो बले स्थिरांशे च ॥
सिद्धावस्थापन्ने धात्वर्थे वाच्ये धातोर्घञ् स्यात् । पाकः । पाकौ ॥
  • (3185) स्फुरतिस्फुलत्योर्घञि <6-1-47>
अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । उपसर्गस्य घञि-1044 इति दीर्घः । परीहारः । इकः काशे 1045 काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः ।नोदात्तोपदेश 2763 इति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥
  • (3186) स्यदो जवे <6-4-28>
स्यन्देर्घञि नलोपो वृद्ध्यभावश्च निपात्यते । स्यदो वेगः । अन्यत्र स्यन्दः ॥
  • (3187) घञि च भावकरणयोः <6-4-27>
रञ्जेर्नलोपः स्यात् । रागः । अनयोः किम् । रजत्यस्मिन् रङ्गः । प्रास्यते इति प्रासः । सञ्ज्ञायामिति प्रायिकम् । को भवता लाभो लब्धः । इत उत्तरं भावे अकर्तरि च कारके-3188 इति कृत्यल्युटो बहुलं-2841 इति यावत् द्वयमप्यनुवर्तते ॥
  • (3188) अकर्तरि च कारके संज्ञायाम् <3-3-19>
कर्तृभिन्ने कारके घञ् स्यात् ॥
  • (3189) अवोदैधौद्मप्रश्रथहिमश्रथाः <6-4-29>
अवोदः अवक्लेदनम् । एध इन्धनम् । ओद्म उन्दनम् । श्रन्थेर्नलोपो वृद्ध्यभावश्च ॥
  • (3190) परिमाणाख्यायां सर्वेभ्यः <3-3-20>
घञ् । अजपोर्बाधनार्थमिदम् । एकस्तण्डुलनिचायः । द्वौ शूर्पनिष्पावौ । द्वौ कारौ ॥ । दारजारौ कर्तरि णिलुक्च ॥ दारयन्तीति दाराः । जरयन्तीति जाराः ॥
घञ् । अचोऽपवादः । उपेत्य अस्मादधीयते उपाध्यायः ॥ अपादाने स्त्रियामुपसङ्ख्यानं तदन्ताच्च वा ङीष् ॥ उपाध्याया । उपाध्यायी ॥ शॄ वायुवर्णनिवृतेषु ॥ शृ इत्यविभक्तिको निर्देशः । शारो वायुः । करणे घञ् । शारो वर्णः । चित्रीकरणमिह धात्वर्थः । निव्रियते आव्रियतेऽनेनेति निवृतमावरणम् । बाहुलकात्करणे क्तः । गौरिवाकृतनीशारः प्रायेण शिशिरे कृशः । अकृतप्रावरण इत्यर्थः ॥
  • (3192) उपसर्गे रुवः <3-3-22>
घञ् । संरावः । उपसर्गे किम् । रवः ॥
  • (3193) अभिनिसः स्तनः शब्दसंज्ञायाम् <8-3-86>
अस्मात् स्तनेः सस्य मूर्धन्यः । अभिनिष्टानो वर्णः । शब्दसञ्ज्ञायां किम् । अभिनिःस्तनति मृदङ्गः ॥
  • (3194) समि युद्रुदुवः <3-3-23>
संयूयते मिश्रीक्रियते गुडादिभिरिति संयावः । पिष्टविकारोऽपूपविशेषः । सन्द्रावः । सन्दावः ॥
  • (3195) श्रिणीभुवोऽनुपसर्गे <3-3-24>
श्रायः । नायः । भावः । अनुपसर्गै किम् । प्रश्रयः । प्रणयः । प्रभवः । कथं प्रभावो राज्ञ इति । प्रकृष्टो भाव इति प्रादिसमासः । कथं राज्ञो नय इति । बाहुलकात् ॥
  • (3196) वौ क्षुश्रुवः <3-3-25>
विक्षावः । विश्रावः । वौ किम् । क्षवः । श्रवः ॥
  • (3197) अवोदोर्नियः <3-3-26>
अवनायः अधो नयनम् । उन्नायः ऊर्ध्वनयनम् । कथमुन्नयः उत्प्रेक्षेति । बाहुलकात् ॥
  • (3198) प्रे द्रुस्तुस्रुवः <3-3-27>
प्रद्रावः । प्रस्तावः । प्रस्रावः । प्रे इति किम् । द्रवः । स्तवः । स्रवः ॥
  • (3199) निरभ्योः पूल्वोः <3-3-28>
निष्पूयते शूर्पादिभिरिति निष्पावो धान्यविशेषः । अभिलाषः । निरभ्योः किम् । पवः । लवः ॥
  • (3200) उन्न्योर्ग्रः <3-3-29>
उद्गारः । निगारः । उन्योः किम् । गरः ॥
  • (3201) कॄ धान्ये <3-3-30>
कॄ इत्यस्माद्धान्यविषयादुन्न्योर्घञ् स्यात् । उत्कारो निकारो धान्यस्य । विक्षेप इत्यर्थः । धान्ये किम् । भिक्षोत्करः । पुष्पनिकरः ॥
  • (3202) यज्ञे समि स्तुवः <3-3-31>
समेत्य स्तुवन्ति यस्मिन् देशे छन्दोगाः स देशः संस्तावः । यज्ञे किम् । संस्तवः परिचयः ॥
  • (3203) प्रे स्त्रोऽयज्ञे <3-3-32>
अयज्ञे इति छेदः यज्ञे इति प्रकृतत्वात् । प्रस्तारः । अयज्ञे किम् । बर्हिषः प्रस्तरो मुष्टिविशेषः ॥
  • (3204) प्रथने वावशब्दे <3-3-33>
विपूर्वात् स्तृणातेर्घञ् स्यादशब्दविषये प्रथने । पटस्य विस्तारः । प्रथने किम् । तृणविस्तरः । अशब्दे किम् । ग्रन्थविस्तरः ॥
  • (3205) छन्दोनाम्नि च <3-3-34>
स्र इत्यनुवर्तते । विष्टारपङ्क्तिश्छन्दः । विस्तीर्यन्तेऽस्मिन्नक्षराणीत्यधिकरणे घञ् । ततः कर्मधारयः ॥
  • (3206) छन्दोनाम्नि च <8-3-94>
विपूर्वात्स्तृणातेर्घञन्तस्य सस्य षत्वं स्याच्छन्दोनाम्नि । इति षत्वम् ॥
  • (3207) उदि ग्रहः <3-3-35>
उद्ग्राहः ॥
  • (3208) समि मुष्टौ <3-3-36>
मल्लस्य सङ्ग्राहः । मुष्टौ किम् । द्रव्यस्य सङ्ग्रहः ॥
  • (3209) परिन्योर्नीणोर्द्यूताभ्रेषयोः <3-3-37>
परिपूर्वान्नयतेर्निपूर्वादिणश्च घञ् स्यात् क्रमेण द्यूतेऽभ्रेषे च विषये । परिणायेन शारान् हन्ति । समन्तान्नयनेनेत्यर्थः । एषोऽत्र न्यायः । उचितमित्यर्थः । द्यूताभ्रेषयोः किम् । परिणयो विवाहः । न्ययो नाशः ॥
  • (3210) परावनुपात्यय इणः <3-3-38>
क्रमप्राप्तस्य अनतिपातोऽनुपात्ययः । तव पर्यायः । अनुपात्यये किम् । कालस्य पर्ययः । अतिपात इत्यर्थः ॥
  • (3211) व्युपयोः शेतेः पर्याये <3-3-39>
तव विशायः । तव राजोपशायः । पर्याये किम् । विशयः संशयः । उपशयः समीपशयनम् ॥
  • (3212) हस्तादाने चेरस्तेये <3-3-40>
हस्तादान इत्यनेन प्रत्यासत्तिरादेयस्य लक्ष्यते । पुष्पप्रचायः । हस्तादाने किम् । वृक्षाग्रस्थानां फलानां यष्ट्या प्रचयं करोति । अस्तेये किम् । पुष्पप्रचयश्चौर्येण ॥
  • (3213) निवासचितिशरीरोपसमाधानेष्वादेश्च कः <3-3-41>
एषु चिनोतेर्घञ् आदेश्च ककारः । उपसमाधानं राशीकरणं तच्च धात्वर्थः । अन्ये प्रत्ययार्थस्य कारकस्योपाधिभूताः । निवासे । काशीनिकायः । चितौ । आकायमग्निं चिन्वीत । शरीरे । चीयतेऽस्मिन्नस्थ्यादिकमिति कायः । समूहे । गोमयनिकायः । एषु किम् । चयः । चः क इति वक्तव्ये आदेरित्युक्तिर्यङ्लुक्यादेरेव यथा स्यादिति । गोमयानां निकेचायः । पुनः पुना राशीकरणमित्यर्थः ॥
  • (3214) संघे चानौत्तराधर्ये <3-3-42>
चेर्घञ् आदेश्च कः । भिक्षुनिकायः । प्राणिनां समूहः सङ्घः । अनौत्तराधर्ये किम् । सूकरनिचयः । सङ्घे किम् । ज्ञानकर्मसमुच्चयः ॥
  • (3215) कर्मव्यतिहारे णच् स्त्रियाम् <3-3-43>
स्त्रीलिङ्गे भावे णच् ॥
  • (3216) णचः स्त्रियामञ् <5-4-14>
  • (3217) न कर्मव्यतिहारे <7-3-6>
अत्र ऐच् न स्यात् । व्यावक्रोशी । व्यावहासी ॥
  • (3218) अभिविधौ भाव इनुण् <3-3-44>
इनण्यनपत्ये 1245 । सांराविणं वर्तते ॥
  • (3220) आक्रोशेऽवन्योर्ग्रहः <3-3-45>
अव नि एतयोर्ग्रहेर्घञ् स्यात् शापे । अवग्राहस्ते भूयात् । अभिभव इत्यर्थः । निग्राहस्ते भूयात् । बाध इत्यर्थः । आक्रोशे किम् । अवग्रहः पदस्य । निग्रहश्चोरस्य ॥
  • (3221) प्रे लिप्सायाम् <3-3-46>
पात्रप्रग्राहेण चरति भिक्षुः ॥
  • (3222) परौ यज्ञे <3-3-47>
उत्तरः परिग्राहः । स्फ्येन वेदेः स्वीकरणम् ॥
  • (3223) नौ वृ धान्ये <3-3-48>
वृ इति लुप्त पञ्चमीकम् । नीवाराः । धान्ये किम् । निवरा कन्या । क्तिन्विषयेऽपि बाहुलकादप् । प्रवरा सेतिवत् ॥
  • (3224) उदि श्रयतियौतिपूद्रुवः <3-3-49>
उच्छ्रायः । उद्यावः । उत्पावः । उद्रावः । कथं पतनान्ताः समुच्छ्रया इति । बाहुलकात् ॥
  • (3225) विभाषाऽऽङि रुप्लुवोः <3-3-50>
आरावः । आरवः । आप्लावः । आप्लवः ॥
  • (3226) अवे ग्रहो वर्षप्रतिबन्धे <3-3-51>
विभाषेति वर्तते । अवग्रहः । अवग्राहः । वर्षप्रतिबन्धे किम् । अवग्रहः पदस्य ॥
  • (3227) प्रे वणिजाम् <3-3-52>
प्रे ग्रहेर्घञ् वा वणिजां सम्बन्धी चेत्प्रत्ययार्थः । तुलासूत्रमिति यावत् । तुलाप्रग्राहेण चरति । तुलाप्रग्रहेण वा ॥
प्रग्रहः । प्रग्राहः ॥
  • (3229) वृणोतेराच्छादने <3-3-54>
विभाषा प्र इत्येव । प्रावारः । प्रवरः ॥
  • (3230) परौ भुवोऽवज्ञाने <3-3-55>
परिभावः । परिभवः । अवज्ञाने किम् । सर्वतो भवनं परिभवः ॥
चयः । जयः ॥ भयादीनामुपसङ्ख्यानम्, नंपुसके क्तादिनिवृत्त्यर्थम् । भयम् । वर्षम् ॥
ऋवर्णान्तादुवर्णान्तादप् । करः । गरः । शरः । यवः । लवः । स्तवः । पवः ॥
  • (3233) वृक्षासनयोर्विष्टरः <8-3-93>
अनयोर्विपूर्वस्य स्रः षत्वं निपात्यते । विष्टरो वृक्ष आसनं च । वृक्षे किम् । वाक्यस्य विस्तरः ॥
  • (3234) ग्रहवृदृनिश्चिगमश्च <3-3-58>
अप् स्यात् । घञचोरपवादः । ग्रहः । वरः । दरः । निश्चयः । गमः ॥ वशिरण्योरुपसङ्ख्यानम् ॥ वशः । रणः ॥ घञर्थे कविधानम् ॥ प्रस्थः । विघ्नः ॥ द्वित्वप्रकरणे के कृञादीनामिति वक्तव्यम् ॥ चक्रम् । चिक्लिदम् । चक्नसः ॥
  • (3235) उपसर्गेऽदः <3-3-59>
अप् स्यात् ॥
अदेर्घस्लृ स्यात् घञि अपि च । प्रघसः । विघसः । उपसर्गे किम् । घासः ॥
नौ उपपदे अदेर्णः स्यादप् च । न्यादः । निघसः ॥
  • (3238) व्यधजपोरनुपसर्गे <3-3-61>
अप् स्यात् । व्यधः । जपः । उपसर्गे तु । आव्याधः । उपजापः ॥
  • (3239) स्वनहसोर्वा <3-3-62>
अप् । पक्षे घञ् । स्वनः । स्वानः । हसः । हासः । अनुपसर्गे इत्येव । प्रस्वानः । प्रहासः ॥
  • (3240) यमः समुपनिविषु च <3-3-63>
एषु अनुपसर्गे च यमेरप् वा । संयमः । संयामः । उपयमः । उपयामः । नियमः । नियामः । वियमः । वियामः । यमः । यामः ॥
  • (3241) नौ गदनदपठस्वनः <3-3-64>
अप् वा स्यात् । निगदः । निगादः । निनदः । निनादः । निपठः । निपाठः । निस्वनः । निस्वानः ॥
  • (3242) क्वणो वीणायां च <3-3-65>
नावनुपसर्गे च वीणाविषयाच्च क्वणतेरप् वा स्यात् । वीणाग्रहणं प्राद्यर्थम् । निक्वणः । निक्वाणः । क्वणः । क्वाणः । वीणायां तु । प्रक्वणः । प्रक्वाणः ॥
  • (3243) नित्यं पणः परिमाणे <3-3-66>
अप् स्यात् । मूलकपणः । शाखपणः । व्यवहारार्थं मूलकादीनां परिमितो मुष्टिर्बध्यते सोऽस्य विषयः । परिमाणे किम् । पाणः ॥
  • (3244) मदोऽनुपसर्गे <3-3-67>
धनमदः । उपसर्गे तु । उन्मादः ॥
  • (3245) प्रसदसंमदौ हर्षे <3-3-68>
हर्षे किम् । प्रमादः । संमादः ॥
  • (3246) समुदोरजः पशुषु <3-3-69>
संपूर्वोऽजिः समुदाये उत्पूर्वञ्च प्रेरणे तस्मात्पशुविषयकादप् स्यात् । अघञपोरित्युक्तेर्वीभावो न । समजः पशूनां सङ्घः । उदजः पशूनां प्रेरणम् । पशुषु किम् । समाजो ब्राह्मणानाम् । उदजः क्षत्रियाणाम् ॥
  • (3247) अक्षेषु ग्लहः <3-3-70>
अक्षशब्देन देवनं लक्ष्यते । तत्र यत्पणरूपेण ग्राह्यं तत्र ग्लह इति निपात्यते । अक्षस्य ग्लहः । व्यात्युक्षीमभिसरणग्लहामदीव्यन् । अक्षेषु किम् । पादस्य ग्रहः ॥
  • (3248) प्रजने सर्तेः <3-3-71>
प्रजनं प्रथमगर्भग्रहणम् । गवामुपसरः । कथमवसरः प्रसर इति । अधिकरणे पुंसि सञ्ज्ञायां-3296 इति घः ॥
  • (3249) ह्वः संप्रसारणं च न्यभ्युपविषु <3-3-72>
निहवः । अभिहवः । उपहवः । विहवः । एषु किम् । प्रह्वायः ॥
  • (3250) आङि युद्धे <3-3-73>
आहूयन्तेऽस्मिन्नित्याहवः । युद्धे किम् । आह्वायः ।
  • (3251) निपानमाहावः <3-3-74>
आङ्पूर्वस्य ह्वयतेः सम्प्रसारणमप् वृद्धिश्चोदकाधारश्चेद्वाच्यः । आहावस्तु निपानं स्यादुपकूपजलाशये ॥
  • (3252) भावेऽनुपसर्गस्य <3-3-75>
अनुपसर्गस्य ह्वयतेः सम्प्रसारणमप् च स्यात् भावे । हवः ॥
  • (3253) हनश्च वधः <3-3-76>
अनुपसर्गाद्धन्तेर्भावे अप् स्यात् वधादेशश्चान्तोदात्तः वधेन दस्युम् । चाद्घञ् । घातः ॥
  • (3254) मूर्तौ घनः <3-3-77>
मूर्तिः काठिण्यं तस्मिन्नभिधेये हन्तेरप् स्यात् घनश्चादेशः । अभ्रघनः । कथं सैन्धवघनमानयेति । धर्मशब्देन धर्मी लक्ष्यते ॥
  • (3255) अन्तर्घनो देशे <3-3-78>
वाहीकग्रामविशेषस्य सञ्ज्ञेयम् । अन्तर्घण इति पाठान्तरम् ॥
  • (3256) अगारैकदेशे प्रघणः प्रघाणश्च <3-3-79>
द्वारदेशे द्वौ प्रकोष्ठावलिन्दौ आभ्यन्तरो बाह्यश्च । तत्र बाह्ये प्रकोष्ठे निपातनमिदम् । प्रविशद्भिर्जनैः पादैः प्रकर्षेण हन्यते इति प्रघणः । प्रघाणः । कर्मण्यप् । पक्षे वृद्धिः ॥
  • (3257) उद्धनोऽत्याधनम् <3-3-80>
अत्याधानमुपरि स्थापनम् । यस्मिन् काष्ठे अन्यानि काष्ठानि स्थापयित्वा तक्ष्यन्ते तदुद्घनः । अधिकरणेऽप् ॥
  • (3258) अपघनोऽङ्गम् <3-3-81>
अङ्गं शरीरावयवः । स चेह न सर्वः किन्तु पाणिः पादश्चेत्याहुः । करणेऽप् । अपघातोऽन्यः ॥
  • (3259) करणेऽयोविद्रुषु <3-3-82>
एषु हन्तेः करणेऽप् स्याद्घनादेशश्च । अयो हन्यतेऽनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इत्येके । पूर्वपदात्सञ्ज्ञायां 857 इति णत्वम् । सञ्ज्ञैषा कुठारस्य । द्रुर्वृक्षः ॥
  • (3260) स्तम्बे क च <3-3-83>
स्तम्बे उपपदे हन्तेः करणे कः स्यादप् च पक्षे घनादेशश्च । स्तम्बघ्नः । स्तम्बघनः । करण इत्येव । स्तम्बघातः ॥
परौ हन्तेरप् स्यात्करणे घशब्दश्चादेशः । परिहन्यतेऽनेनेति परिघः ॥
  • (3262) परेश्च घाङ्कयोः <8-2-22>
परे रेफस्य लो वा स्याद्घशब्दे अङ्कशब्दे च । पलिघः । परिघः । पर्यङ्कः । पल्यङ्कः । इह तरप्तमपौ घः 2003 इति कृत्रिमस्य न ग्रहणं व्याख्यानात् ।
  • (3263) उपघ्न आश्रये <3-3-85>
उपपूर्वाद्धन्तेरप् स्यादुपधालोपश्च । आश्रयशब्देन सामीप्यं लक्ष्यते । पर्वतेनोपहन्यते सामीप्येन गम्यते इति पर्वतोपघ्नः ।
  • (3264) संघोद्धौ गणप्रशंसयोः <3-3-86>
संहननं सङ्घः । भावेऽप् । उद्धन्यते उत्कृष्टो ज्ञायते इत्युद्धः । कर्मण्यप् । गत्यर्थानां बुध्यर्थत्वाद्धन्तिर्ज्ञाने ।
  • (3265) निघो निमितम् <3-3-87>
समन्तान्मितं निमितम् । निर्विशेषं हन्यते इति निघा वृक्षाः । समारोहपरिणाहा इत्यर्थः ।
  • (3266) ड्वितः क्त्रिः <3-3-88>
अयं भाव एव स्वभावात् । क्त्रेर्मम्नित्यम् 1570 नित्यग्रहणात्क्त्रिर्मब्विषयः । अत एव क्यन्तेन विग्रहः । डुपचष् । पाकेन निर्वृत्तं पक्त्रिमम् । डुवप् उप्त्रिमम् ॥
  • (3267) ट्वितोऽथुच् <3-3-89>
अयमपि स्वभावाद् भाव एव । टुवेपृ । वेपथुः । श्वयथुः ॥
  • (3268) यजयाचयतविच्छप्रच्छरक्षो नङ् <3-3-90>
यज्ञः । याच्ञा । यत्नः । विश्नः । प्रश्नः । प्रश्नेचासन्नकाले 2777 इति ज्ञापकान्न सम्प्रसारणम् । ङित्वं तु विश्न इत्यत्र गुणनिषेधाय । रक्ष्णः ॥
  • (3269) स्वपो नन् <3-3-91>
स्वप्नः ॥
  • (3270) उपसर्गे घोः किः <3-3-92>
प्रधिः । अन्तर्धिः । उपाधीयतेऽनेनेत्युपाधिः ॥
  • (3271) कर्मण्यधिकरणे च <3-3-93>
कर्मण्युपपदे घोः किः स्यादधिकरणेऽर्थे । जलानि धीयन्तेऽस्मिन्निति जलधिः ॥
  • (3272) स्त्रियां क्तिन् <3-3-94>
स्त्रीलिङ्गे भावादौ क्तिन् स्याद्घञोऽपवादः । अजपौ तु परत्वाद्बाधेते । कृतिः । चितिः । स्तुतिः । स्फायी । स्फातिः । स्फीतिकाम इति तु प्रामादिकम् । क्तान्ताद्धात्वर्थे णिचि अच इरिति वा समाधेयम् ॥ श्रुयजीषिस्तुभ्यः करणे ॥ श्रूयतेऽनया श्रुतिः । यजेरिषेश्च । इष्टिः । स्तुतिः ॥ । ऋल्वादिभ्यः क्तिन्नष्ठावद्वाच्यः ॥ तेन नत्वम् । कीर्णिः । गीर्णिः । लूनिः । धूनिः । पूनिः । ह्लादः 3073 इति योगविभागात् क्तिनि ह्रस्वः । प्रह्लन्निः । ति च 3037 चूर्तिः । फुलति ॥ चायतेः क्तिनि चिभावो वाच्यः ॥ अपचितिः ॥ सम्पदादिभ्यः क्विप् ॥ सम्पत् । विपत् ॥ क्तिन्नपीष्यते ॥ सम्पत्तिः । विपत्तिः ॥
  • (3273) स्थागापापचो भावे <3-3-95>
क्तिन् स्यादङोऽपवादः । प्रस्थितिः । उपस्थितिः । सङ्गीतिः । सम्पीतिः । पक्तिः । कथमवस्था संस्थेति । व्यवस्थायामिति ज्ञापकात् ॥
  • (3274) ऊतियूतिजूतिसातिहेतिकीर्तयश्च <3-3-97>
अवतेः ज्वरत्वर 2654 इत्यूठ । ऊतिः । स्वरार्थं वचनम् । उदात्त इति हि वर्तते । यूतिः । जूतिः । अनयोर्दीर्घत्वं च निपात्यते । स्यतेः सातिः । द्यतिस्यति 3074 इतीत्वे प्राप्ते इत्वाभावो निपात्यते । सनोतेर्वा जनसन 2504 इत्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिनोतेर्वा हेतिः । कीर्तिः ॥
  • (3275) व्रजयजोर्भावे क्यप् <3-3-98>
व्रज्या । इज्या ॥
  • (3276) संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः <3-3-99>
समजादिभ्यः स्त्रियां भावादौ क्यप्स्यात्स चोदात्तः सञ्ज्ञायाम् ॥ अजेः क्यपि वीभावो नेति वाच्यम् ॥ समजन्त्यस्यामिति समज्या सभा । निषीदन्त्यस्यामिति निषद्या आपणः । निपतन्त्यस्यामिति निपत्या पिच्छिला भूमिः । मन्यतेऽनयेति मन्या गलपार्श्वशिरा । विदन्त्यनया विद्या । सुत्या । अभिषवः । शय्या । भृत्या । ईयतेऽनया इत्या शिबिका ॥
कृञ इति योगविभागः । कृञः क्यप्स्यात् । कृत्या ॥ श च ॥ चात् क्तिन् । क्रिया । कृतिः ॥
ईषेर्भावे शो यगभावश्च निपात्यते । इच्छा ॥ परिचर्यापरिसर्यामृगयाटाट्यानामुपसङ्ख्यानम् ॥ शो यक् च निपात्यते । परिचर्या पूजा । परिसर्या परिसरणम् । अत्र गुणोऽपि । शे यकि णिलोपः । मृगया । अटतेः शे यकि ट्यशब्दस्य द्वित्वं पूर्वभागे यकारनिवृत्तिर्दीर्घश्च । अटाट्या ॥ जागर्तेरकारो वा ॥ पक्षे शः । जागरा । जगर्या ॥
  • (3279) अ प्रत्ययात् <3-3-102>
प्रत्ययान्तेभ्यो धातुभ्यः स्त्रियामकारप्रत्ययः स्यात् । चिकीर्षा । पुत्रकाम्या ॥
  • (3280) गुरोश्च हलः <3-3-103>
गुरुमतो हलन्तात् स्त्रियामकारः स्यात् । ईहा । ऊहा । गुरोः किम् । भक्तिः । हलः किम् । नीतिः ॥ निष्ठायां सेट इति वक्तव्यम् ॥ नेह । आप्तिः । तितुत्र-3163 इति नेट् । दीप्तिः ॥ तितुत्रेष्वग्रहादीनामिति वाच्यम् ॥ निगृहीतिः । निपठितिः ॥
  • (3281) षिद्भिदादिभ्योऽङ् <3-3-104>
षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् । जॄष् । ऋदृशोऽङि गुणः 2406 । जरा । त्रपूष् । त्रपा । भिदा । विदारण एवायम् । भित्तिरन्या । छिदा । मृजा ॥ (ग) क्रपेः सम्प्रसारणं च । कृपा ॥
  • (3282) चिन्तिपूचिकथिकुम्बिचर्चश्च <3-3-105>
अङ् स्याद्युचोपवादः । चिन्ता । पूजा । कथा । कुम्बा । चर्चा ॥
  • (3283) आतश्चोपसर्गे <3-3-106>
अङ् स्यात् । क्तिनोऽपवादः । प्रदा । उपदा । श्रदन्तरोरुपसर्गवद्वृत्तिः । श्रद्धा । अन्तर्धा । उपसर्गे घोः किः 3270 इत्यनेन किः । अन्तर्धिः ॥
  • (3284) ण्यासश्रन्थो युच् <3-3-107>
अकारस्यापवादः । कारणा । हारणा । आसना । श्रन्थना ॥ घट्टिवन्दिविदिभ्यश्चेति वाच्यम् ॥ घट्टना । वन्दना । वेदना ॥ षेरनिच्छार्थस्य ॥ अन्वेषणा ॥ परेर्वा ॥ पर्येषणा । परीष्टिः ॥
  • (3285) रोगाख्यायां ण्वुल्बहुलम् <3-3-108>
प्रच्छर्दिका । प्रवाहिका । विचर्चिका । क्वचिन्न । शिरोर्तिः ॥ धात्वर्थनिर्देशे ण्वुल्वक्तव्यः ॥ आसिका । शायिका ॥ इक्श्तिपौ धातुनिर्देशे ॥ पचिः । पचतिः ॥ वर्णात्कारः ॥ निर्देशे इत्येव । अकारः । ककारः ॥ रादिफः । रेफः ॥ । मत्वर्थाच्छः ॥ बहुलवचनादकारलोपः । मत्वर्थीयः ॥ इणजादिभ्यः ॥ आजिः । आतिः ॥ इञ्वपादिभ्यः ॥ वापिः । वासिः । स्वरे भेदः ॥ इक् कृष्यादिभ्यः ॥ कृषिः । गिरिः ॥
  • (3286) संज्ञायाम् <3-3-109>
अत्र धातोर्ण्वुल् । उद्दालकपुष्पभञ्जिका ॥
  • (3287) विभाषाख्यानपरिप्रश्नयोरिञ्च <3-3-110>
परिप्रश्ने आख्याने च गम्ये इञ् स्याच्चात् ण्वुल् । विभाषोक्तेर्यथाप्राप्तमन्येऽपि । कां त्वं कारिं कारिकां क्रियां कृत्यां कृतिं वाकार्षी । सर्वां कारिं कारिकां क्रियां कृत्यां कृति वाऽकार्षम् । एवं गणिं गणिकां गणनाम् । पाचिं पाचिकां पचां पक्तिम् ॥
  • (3288) पर्यायार्हणोत्पत्तिषु ण्वुच् <3-3-111>
पर्यायः परिपाटीक्रमः । अर्हणमर्हः योग्यता । पर्यायादिषु द्योत्येषु ण्वुच् वा स्यात् । भवत आसिका । शायिका । अग्रगामिका । भवानिक्षुकामर्हति । ऋणे । इक्षुभक्षिकां मे धारयति । उत्पत्तौ । उक्षुभक्षिका उपपादि ॥
  • (3289) आक्रोशे नञ्यनिः <3-3-112>
विभाषेति निवृत्तम् । नञि उपपदेऽनिः स्यादाक्रोशे । अजीवनिस्ते शठ भूयात् । आप्रयाणिः । कृत्यल्युटो बहुलम् 2841 भावेऽकर्तरि च कारके सञ्ज्ञायामिति च निवृत्तम् । राज्ञा भुज्यन्ते राजभोजनाः शालयः । नपुंसके भावे क्तः-3090 ॥
हसितम् । हसनम् । योगविभागः उत्तरार्थः ॥
  • (3291) कर्मणि च येन संस्पर्शात्कर्तुः शरीरसुखम् <3-3-116>
येन स्पृश्यमानस्य कर्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे ल्युट् स्यात् । पूर्वेण सिद्धे नित्यसमासार्थं वचनम् । पयःपानं सुखम् । कर्तरीति किम् । गुरोः स्नापनं सुखम् । नेह गुरुः कर्ता किं तु कर्म ॥
अजेर्वी वा स्याद् यौ । प्रवयणम् । प्राजनम् ॥
  • (3293) करणाधिकरणयोश्च <3-3-117>
ल्युट् स्यात् । इध्मप्रव्रश्चनः कुठारः । गोदोहनी स्थाली । खलः प्राक्करणाधिकरणयोरित्यधिकारः ॥
  • (3294) अन्तरदेशे <8-4-24>
अन्तः शब्दाद्धन्तेर्नस्य णः स्यात् । अन्तर्हणनम् । देशे तु अन्तर्हननो देशः । अत्पूर्वस्येत्येव । अन्तर्घ्नन्ति । तपरः किम् । अन्तरघानि ॥
अयनस्य णोन्तः शब्दात्परस्य । अन्तरयणम् । अदेश इत्येव । अन्तरयनो देशः ॥
  • (3296) पुंसि संज्ञायां घः प्रायेण <3-3-118>
  • (3297) छादेर्घेऽद्व्युपसर्गस्य <6-4-96>
द्विप्रभृत्युपसर्गहीनस्य छादेर्ह्रस्वः स्याद्धे परे । दन्ताश्छाद्यन्तेऽनेन दन्तच्छदः । आकुर्वन्त्यस्मिन् आकरः ॥
  • (3298) गोचरसंचरवहव्रजव्यजापणनिगमाश्च <3-3-119>
घान्ता निपात्यन्ते । हलश्च 3300 इति वक्ष्यमाणस्य घञोऽपवादः । गावश्चरन्त्यस्मिन्निति गोचरो देशः । सञ्चरन्त्यनेन सञ्चरो मार्गः । वहन्त्यनेन वहः स्कन्धः । व्रजः । व्यजस्तालवृन्तम् । निपातनाद्वीभावो न । आपणः पण्यस्थानम् । निगच्छन्त्यनेन निगमश्छन्दः । चात्कषः । निकषः ॥
  • (3299) अवे तॄस्त्रोर्घञ् <3-3-120>
अवतारः कूपादेः । अवस्तारो जवनिका ॥
हलन्ताद्घञ् स्यात् । घापवादः । रमन्ते योगिनोऽस्मिन्निति रामः । अपमृज्यतेऽनेन व्याध्यादिरित्यपामार्गः । विमार्गः समूहनी ॥
  • (3301) अध्यायन्यायोद्यावसंहाराश्च <3-3-122>
अधीयतेऽस्मिन् अध्यायः । नियन्ति उद्यवन्ति संहरन्त्यनेनेति विग्रहः ॥ अवहाराधारावायानामुपसङ्ख्यानम् ॥
  • (3302) उदङ्कोऽनुदके <3-3-123>
उत्पूर्वादञ्चतेर्घञ् स्यात् न तूदके । घृतमुदच्यते उद्ध्रियतेऽस्मिन्निति घृतोदङ्कश्चर्ममयं भाण्डम् । अनुदके किम् । उदकोदञ्चनः ॥
आनीयन्ते मत्स्यादयोऽनेनेत्यानायः । जालमिति किम् । आनयनः ॥
चाद्घञ् । आखनः । आखानः । घित्करणमन्यतोऽप्ययमिति ज्ञापनार्थम् । तेन भगः पदमित्यादि ॥ खनेर्डडरेकेकवका वाच्याः ॥ आखः । आखरः । आखनिकः । आखनिकवकः । एते खनित्रवचनाः ॥
  • (3305) ईषद्दुः सुषु कृच्छ्राकृच्छार्थेषु खल् <3-3-126>
करणाधिकरणयोरिति निवृत्तम् । एषु दुःखसुखार्थेषूपपदेषु खल् स्यात् । तयोरेव-2833 इति भावे कर्मणि च । कृच्छ्रे । दुष्करः कटो भवता । अकृच्छ्रे । ईषत्करः । सुकरः ॥ निमिमीलियां खलचोरात्वं नेति वाच्यम् ॥ ईषन्निमयः । दुष्प्रमयः । सुविलयः । निमयः । मयः । लयः ॥
  • (3306) उपसर्गात्खल्घञोः <7-1-67>
उपसर्गादेव लभेर्नुम् स्यात् । ईषत्प्रलम्भः । दुष्प्रलम्भः । सुप्रलम्भः । उपालम्भः । उपसर्गात्किम् । लाभः ॥
  • (3307) न सुदुर्भ्यां केवलाभ्याम् <7-1-68>
उपसर्गान्तररहिताभ्यां सुदुर्भ्यां लभेर्नुम्न स्यात् खल्घञोः । सुलभम् । दुर्लभम् । केवलाभ्यां किम् । सुप्रलम्भः । अतिदुर्लम्भः । कथं तर्हि अतिसुलभमतिदुर्लभमिति । यदा स्वती कर्मप्रवचनीयौ तदा भविष्यति ॥
  • (3308) कर्तृकर्मणोश्च भूकृञोः <3-3-127>
कर्तृकर्मणोरीषदादिषु चोपपदेषु भूकृञोः खल् स्यात् । यथासङ्ख्यं नेष्यते । कर्तृकर्मणी च धातोरव्यवधानेन प्रयोज्ये ईषदादयस्तु ततः प्राक् ॥ । कर्तृकर्मणोश्च्व्यर्थयोरिति वाच्यम् ॥ खित्त्वान्मुम् । अनाढ्येनाढ्येन दुःखेन भूयते दुराढ्यम्भवम् । ईषदाढ्यम्भवम् । स्वाढ्यम्भवम् । ईषदाढ्यङ्करः । दुराढ्यङ्करः । स्वाढ्यङ्करः । च्व्यर्थयोः किम् । आढ्येन सुभूयते ॥
खलोऽपवादः । ईषत्पानः सोमो भवता । दुष्पानः । सुपानः ॥ । भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः ॥ दुःशासनः । दुर्योधन इत्यादि ॥
  • (3310) षात्पदान्तात् <8-4-35>
नस्य णो न । निष्पानम् । सर्पिष्पानम् । षात्किम् । निर्णयः । पदान्तात्किम् । पुष्णाति । पदे अन्तः पदान्तोऽयमिति सप्तमीसमासोऽयम् । तेनेह न । सुसर्पिष्केण ॥
  • (3311) अवश्यकाधमर्ण्ययोर्णिनिः <3-3-170>
अवश्यङ्कारि । शतंदायी ॥
आवश्यकाधमर्ण्ययोरित्येव । अवश्यं हरिः सेव्यः । शतं देयम् ॥
  • (3313) क्तिच्क्तौ च संज्ञायाम् <3-3-174>
धातोः क्तिच् क्तश्च स्यादाशिषि सञ्ज्ञायाम् । तितुत्र-3163 इति नेट् । भवतात् । भूतिः ॥
  • (3314) न क्तिचि दीर्घश्च <6-4-39>
अनिटां वनतितनोत्यादीनां च दीर्घानुनासिकलोपौ न स्तः क्तिचि परे । यन्तिः । रन्तिः । वन्तिः । तन्तिः ॥
  • (3315) सनः क्तिचि लोपश्चास्यान्यतरस्याम् <6-4-45>
सनोतेः क्तिचि आत्वं वा स्याल्लोपश्च वा । सनुतात् । सातिः । सतिः । सन्तिः । देवा एनं देयासुर्देवदत्तः ॥
  • (3316) अलंखल्वोः प्रतिषेधोः प्राचां क्त्वा <3-4-18>
प्रतिषोधार्थयोरलंखल्वोरुपपदयोः क्त्वा स्यात् । प्राचां ग्रहणं पूजार्थम् । अमैवाव्ययेन 783 इति नियमान्नोपपदसमासः । दो दद्धोः 3077 । अलं दत्त्वा । घुमास्था-2462 । पीत्वा खलु । अलंखल्वोः किम् । मा कार्षीत् । प्रतिषेधयोः किम् । अलंकारः ॥
  • (3317) उदीचां माङो व्यतीहारे <3-4-19>
व्यतीहारेऽर्थे माङः क्त्वा स्यात् । अपूर्वकालार्थमिदम् ॥
  • (3318) मयतेरिदन्यतरस्याम् <6-4-70>
मेङ इकारोऽन्तादेशः स्याद्वा ल्यपि । अपमित्य याचते । अपमाय । उदीचां ग्रहणाद्यथाप्राप्तमपि । याचित्वा अपमयते ॥
  • (3319) परावरयोगे च <3-4-20>
परेण पूर्वस्यावरेण परस्य योगे गम्ये धातोः क्त्वा स्यात् । अप्राप्य नदीं पर्वतः । परनदीयोगोऽत्र पर्वतस्य । अतिक्रम्य पर्वतं स्थिता नदी । अवरपर्वतयोगोऽत्र नद्याः ॥
  • (3320) समानकर्तृकयोः पूर्वकाले <3-4-21>
समानकर्तृकयोर्धात्वर्थयोः पूर्वकाले विद्यमानाद्धातोः क्त्वा स्यात् । क्त्वा तु अव्ययकृतो भावे । भुक्त्वा व्रजति । द्वित्वमतन्त्रम् । स्नात्वा भुक्त्वा पीत्वा व्रजति । अनुदात्त-2428 इत्यनुनासिकलोपः । विष्णुं नत्वा स्तौति । स्वरत्यादेः श्र्युकः किति 2381 इति नित्यमिडभावः पूर्वविप्रतिषेधेन । स्वृत्वा । सूत्वा । धूत्वा ॥
  • (3321) क्त्वि स्कन्दिस्यन्दोः <6-4-31>
एतयोर्नलोपो न स्यात् क्त्वि परे । स्कन्त्वा । ऊदित्त्वादिड्वा । स्यन्त्वा । स्यन्दित्वा ॥
  • (3322) न क्त्वा सेट् <1-2-18>
सेट् क्त्वा किन्न स्यात् । शयित्वा । सेट् किम् । कृत्वा ॥
  • (3323) मृडमृदगुधकुषक्लिशवदवसः क्त्वा <1-2-7>
एभ्यः सेट् क्त्वा कित् । मृडित्वा ।क्लिशः क्त्वा 3049 इति वेट् । क्लिशित्वा । क्लिष्टा । उदित्वा । उषित्वा । रुदविद-2609 इति कित्वम् । रुदित्वा । विदित्वा । मुषित्वा । गृहीत्वा ॥
  • (3324) नोपधात्थफान्ताद्वा <1-2-23>
सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥
  • (3325) वञ्चिलुञ्च्यृतश्च <1-2-24>
सेट् क्त्वा किद्वा । वचित्वा । वञ्चित्वा । लुचित्वा । लुञ्चित्वा । ऋतित्वा । अर्तित्वा ॥
  • (3326) तृषिमृषिकृशेः काश्यपस्य <1-2-25>
एभ्यः सेट् क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधात्-2617 इति वा कित्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधात्किम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट्-3046 । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायाम् 3047 इति नित्यमिट् । अञ्चित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहने-3048 इतीट् । विमोहने तु लुब्ध्वा ॥
  • (3327) जॄव्रश्च्योः क्त्वि <7-2-55>
आभ्यां परस्य क्त्वा इट् स्यात् । जरीत्वा । जरित्वा । व्रश्चित्वा ॥
उदितः परस्य क्त्वा इड्वा । शमित्वा । अनुनासिक्स्य क्वि 2666 इति दीर्घः । शान्त्वा । द्यूत्वा । देवित्वा ॥
  • (3329) क्रमश्च क्त्वि <6-4-18>
क्रम उपधाया वा दीर्घः स्यात् झलादौ क्त्वि परे । क्रान्त्वा । क्रन्त्वा । झलि किम् । क्रमित्वा । पूङश्च 3050 इति वेट् । पवित्वा । पूत्वा ॥
  • (3330) जान्तनशां विभाषा <6-4-32>
जान्तानां नशेश्च नलोपो वा स्यात् क्त्वि परे । भक्त्वा । भङ्क्त्वा । रक्त्वा । रङ्क्त्वा । मस्जिनशोः-2517 इति नुम् । तस्य पक्षे लोपः । नष्ट्वा । नंष्ट्वा । रधादिभ्यश्च 2514 इतीट् । पक्षे नशित्वा ॥ झलादाविति वाच्यम् ॥ नेह । अञ्जित्वा । ऊदित्वाद्वेट् । पक्षे अक्त्वा । अङ्क्त्वा । जनसन-2504 इत्यात्वम् । खात्वा । खनित्वा । द्यतिस्यति-3074 इतीट् । दित्वा । सित्वा । मित्वा । स्थित्वा । दधातोर्हिः 3076 । हित्वा ॥
  • (3331) जहातेश्च क्त्वि <7-4-43>
हित्वा । हाङस्तु । हात्वा । अदो जग्धिः-3080 । जग्ध्वा ॥
  • (3332) समासेऽनञ्पूर्वे क्त्वो ल्यप् <7-1-37>
अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् । तुक् । प्रकृत्य । अनञ् किम् । अकृत्वा । पर्युदसाश्रयणान्नेह । परमकृत्वा ॥
  • (3333) षत्वतुकोरसिद्धः <6-1-86>
षत्वे तुकि च कर्तव्ये एकादेशशास्त्रमसिद्धं स्यात् । कोऽसिचत् । इह षत्वं न । अधीत्य । प्रेत्य । ह्रस्वस्य-2858 इति तुक् ॥
अनुदात्तोपदेशानां वनतितनोत्यादीनामनुनासिकलोपो वा स्याल्ल्यपि । व्यवस्थितविभाषेयम् । तेन मान्तानिटां वा नान्तनिटां वनादीनां च नित्यम् । आगत्य । आगम्य । प्रणत्य । प्रणम्य । प्रहत्य । प्रमत्य । प्रवत्य । वितत्य । अदो जग्धिः-3080 । (ग) अन्तरङ्गानपि विधीन्बहिरङ्गो ल्यब्बाधते ॥ जग्धिविधौ ल्यब्ग्रहणात् । तेन । हित्वदत्त्वात्वेत्वदीर्घत्वशूठिटो ल्यपि न । विधाय । प्रधाय । प्रखन्य । प्रस्थाय । प्रक्रम्य । आपृच्छ्य । प्रदीव्य । प्रपठ्य ॥
ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनो-2508 इत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः 2509 । विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥
  • (3336) ल्यपि लघुपूर्वात् <6-4-56>
लघुपूर्वात्परस्य णेरयादेशः स्यात् ल्यपि । विगणय्य । प्रणमय्य । प्रबेभिदय्य । लघुपूर्वात्किम् । सम्प्रधार्य ॥
  • (3337) विभाषापः <6-4-57>
आप्नोतेर्णेरयादेशो वा स्यात् ल्यपि । प्रापय्य । प्राप्य ॥
क्षियो ल्यपि दीर्घः स्यात् । प्रक्षीय ॥
वेञो ल्यपि सम्प्रसारणं न स्यात् । प्रवाय ॥
प्रज्याय ॥
उपव्याय ॥
  • (3342) विभाषा परेः <6-1-44>
परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । तुकं बाधित्वा परत्वात्हल-2559 इति दीर्घः । परिवीय । परिव्याय । कथं मुखं व्यादाय स्वपिति । नेत्रे निमील्य हसतीति । व्यादानसम्मीलनोत्तरकालेऽपि स्वापहासयोरनुवृत्तेस्तदंशविवक्षया भविष्यति ॥
  • (3343) आभीक्ष्ण्ये णमुल् च <3-4-22>
पौनः पुन्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । द्वित्वम् । स्मारं स्मारं नमति शिवम् । स्मृत्वा स्मृत्वा । पायं पायम् । भोजं भोजम् । श्रावं श्रावम् । चिण्णमुलोः 2762 इति णमुल्परे णौ वा दीर्घः । गमं गमम् । गामं गामम् । विभाषा चिण्णमुलोः 2765 इति नुम् वा । लम्भं लम्भम् । लाभं लाभम् । व्यवस्थितविभाषया उपसृष्टस्य नित्यं नुम् । प्रलम्भं प्रलम्भम् । जाग्रोऽविचिण्ण-2480 इति गुणः । जागरं जागरम् । ण्यन्तस्याप्येवम् ॥
  • (3344) न यद्यनाकाङ्क्षे <3-4-23>
यच्छब्दे उपपदे पूर्वकाले यत्प्राप्तं तन्न यत्र पूर्वोत्तरे क्रिये तद्वाक्यमपरं नाकाङ्क्षते चेत् । यदयं भुङ्क्ते ततः पठति । इह क्त्वाणमुलौ न । अनाकाङ्क्षे किम् । यदयं भुक्त्वा व्रजति ततोऽधीते ॥
  • (3345) विभाषाग्रेप्रथमपूर्वेषु <3-4-24>
आभीक्ष्णे इति नानुवर्तते । एषूपपदेषु समानकर्तृकयोः पूर्वकाले क्त्वाणमुलौ वा स्तः । अग्रेभोजं व्रजति । अग्रे भुक्त्वा । प्रथमं भोजम् । प्रथमं भुक्त्वा । पूर्वं भोजम् । पूर्वं भुक्त्वा । पक्षे लडादयः । अग्रे भुङ्क्ते ततो व्रजति । आभीक्ष्ण्ये तु पूर्वविप्रतिषेधेन नित्यमेव विधिः । अग्रे भोजं भोजं व्रजति । भुक्त्वा भुक्त्वा ॥
  • (3346) कर्मण्याक्रोशे कृञः खमुञ् <3-4-25>
कर्मण्युपपदे आक्रोशे गम्ये । चौरङ्कारमाक्रोशति । करोतिरुच्चारणे । चोरशब्दमुच्चार्येत्यर्थः ॥
  • (3347) स्वादुमि णमुल् <3-4-26>
स्वाद्वर्थेषु कृञो णमुल् स्यादेककर्तृकयोः पूर्वकाले पूर्वपदस्य मान्तत्वं निपात्यते । अस्वादुं स्वादुं कृत्वा भुङ्क्ते स्वादुङ्कारं भुङ्क्ते । सम्पन्नङ्कारम् । लवणङ्कारम् । सम्पन्नलवणशब्दौ स्वादुपर्यायौ । वासरूपेण क्त्वापि । स्वादुं कृत्वा भुङ्क्ते ॥
  • (3348) अन्यथैवंकथामत्थंसु सिद्धाऽप्रयोगश्चेत् <3-4-27>
एषु कृञो णमुल् स्यात् सिद्धः अप्रयोगोऽस्य एवम्भूतश्चेत् कृञ् । व्यर्थत्वात्प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवङ्कारम् । कथङ्कारम् । इत्थङ्कारं भुङ्क्ते । इत्थंभुङ्क्ते इत्यर्थः । सिद्धेति किम् । शिरोऽन्यथा कृत्वा भुङ्क्ते ॥
  • (3349) यतातथयोरसूयाप्रतिवचने <3-4-28>
कृञः सिद्धाप्रयोग इत्येव । असूयया प्रतिवचने । यथाकामहं भोक्ष्ये तथाकारं भोक्ष्ये किं तवानेन ॥
  • (3350) कर्मणि दृशिविदोः साकल्ये <3-4-29>
कर्मण्युपपदे णमुल् स्यात् । कन्यादर्शं वरयति । सर्वाः कन्या इत्यर्थः । ब्राह्मणवेदं भोजयति । यं यं ब्राह्मणं जानाति लभते विचारयति वा तं सर्वं भोजयतीत्यर्थः ॥
  • (3351) यावति विन्दजीवोः <3-4-30>
यावद्वेदं भुङ्क्ते । यावल्लभ्यते तावदित्यर्थः । यावज्जीवमधीते ॥
  • (3352) चर्मोदरयोः पूरेः <3-4-31>
कर्मणीत्येव । चर्मपूरं स्तृणाति । उदरपूरं भुङ्क्ते ॥
  • (3353) वर्षप्रमाण ऊलोपेश्चास्यान्यतरस्याम् <3-4-32>
कर्मण्युपपदे पूरेर्णमुल् स्यादूकारलोपश्च वा समुदायेन वर्षप्रमाणे गम्ये । गोष्पदपूरं वृष्टो देवः । गोष्पदप्रं वृष्टो देवः । अस्येति किम् । उपपदस्य मा भूत् । मूषिकाबिलप्रम् ॥
  • (3354) चेले क्नोपेः <3-2-33>
चेलार्थेषु कर्मसूपपदेषु क्नोपेर्णमुल् स्याद्वर्षप्रमाणे । चेलक्नोपं वृष्टो देवः । वस्त्रक्नोपम् । वसनक्नोपम् ॥
  • (3355) निमूलसमूलयोः कषः <3-4-34>
कर्मणीत्येव कषादिष्वनुप्रयोगं वक्ष्यति । अत्र प्रकरणे पूर्वकाल इति न संबध्यते । निमूलकाषं कषति । समूलकाषं कषति । निमूलं समूलं कषतीत्यर्थः । एकस्यापि धात्वर्थस्य निमूलादिविशेषणसम्बन्धाद्भेदः । तेन सामान्यविशेषभावेन विशेषणविशेष्यभावः ॥
  • (3356) शुष्कचूर्णेरूक्षेषु पिषः <3-4-35>
एषु कर्मसु पिषेर्णमुल् । शुष्कपेषं पिनष्टि । शुष्कं पिनष्टीत्यर्थः । चूर्णपेषम् । रूक्षपेषम् ॥
  • (3357) समूलाकृतजीवेषु हन्कृञ्ग्रहः <3-4-36>
कर्मणीत्येव । समूलघातं हन्ति । अकृतकारं करोति । जीवग्राहं गृण्हाति । जीवतीति जीवः । इगुपलक्षणः कः । जीवन्तं गृण्हातीत्यर्थः ॥
पादघातं हन्ति । पादेन हन्तीत्यर्थः । यथाविध्यनुप्रयोगार्थः सन्नित्यसमासार्थोऽयं योगः । भिन्नधातुसम्बन्धे तु हिंसार्थानां च 3369 इति वक्ष्यते ॥
  • (3359) स्नेहने पिषः <3-4-38>
स्न्यिह्यते येन तस्मिन् करणे पिषेर्णमुल् । उदपेषं पिनष्टि । उदकेन पिनष्टीत्यर्थः ॥
  • (3360) हस्ते वर्तिग्रहोः <3-4-39>
हस्तार्थे करणे । हस्तवर्तं वर्तयति । करवर्तम् । हस्तेन गुलिकां करोतीत्यर्थः । हस्तग्राहं गृण्हाति । करग्राहम् । पाणिग्राहम् ॥
  • (3361) स्वे पुषः <3-4-40>
करण इत्येव । स्व इत्यर्थग्रहणम् । तेन स्वरूपे पर्याये विशेषे च णमुल् । स्वपोषं पुष्णाति । धनपोषम् । गोपोषम् ॥
  • (3362) अधिकरणे बन्धः <3-4-41>
चक्रबन्धं बध्नाति । चक्रे बध्नातीत्यर्थः ॥
  • (3363) संज्ञायाम् <3-4-42>
बध्नातेर्णमुल् सञ्ज्ञायाम् । क्रौञ्चबन्धं बद्धः । मयूरिकाबन्धम् । अट्टालिका बन्धम् । बन्धाविशेषाणां सञ्ज्ञा एताः ॥
  • (3364) कर्त्रोर्जीवपुरुषयोर्नशिवहोः <3-4-43>
जीवनाशं नश्यति । जीवो नश्यतीत्यर्थः । पुरुषवाहं वहति । पुरुषो वहतीत्यर्थः ॥
  • (3365) ऊर्ध्वे शुषिपूरोः <3-4-44>
ऊर्ध्वे कर्तरि । ऊर्ध्वशोषं शुष्यति । वृक्षादिरूर्ध्व एव तिष्ठन् शुष्यतीत्यर्थः । ऊर्ध्वपूरं पूर्यते । ऊर्ध्वमुख एव घटादिर्वर्षोदकादिना पूर्णो भवतीत्यर्थः ॥
  • (3366) उपमाने कर्मणि च <3-4-45>
चात्कर्तरि । घृतनिधायं निहितं जलम् । घृतमिव सुरक्षितमित्यर्थः । अजकनाशं नष्टः । अजक इव नष्ट इत्यर्थः ॥
  • (3367) कषादिषु यथाविध्यनुप्रयोगः <3-4-46>
यस्माण्णमुलुक्तः स एवानुप्रयोक्तव्य इत्यर्थः । तथैवोदाहृतम् ॥
  • (3368) उपदंशस्तृतीयायाम् <3-4-47>
इतः प्रभृति पूर्वकाल इति सम्बध्यते । तृतीयाप्रभृतीन्यन्यतरस्याम् 784 इति वा समासः । मूलकोपदंशं भुङ्क्ते । मूलकेनोपदंशम् । दश्यमानस्य मूलकस्य भुजिं प्रति करणत्वात्तृतीया । यद्यप्युपदंशिना सह न शाब्दः सम्बन्धस्तथाप्यार्थोऽस्त्येव कर्मत्वात् । एतावतैव सामर्थ्येन प्रत्ययः समासश्च । तृतीयायामिति वचनसामर्थ्यात् ॥
  • (3369) हिंसार्थानां च समानकर्मकाणाम् <3-4-48>
तृतीयान्ते उपपदेऽनुप्रयोगधातुना समानकर्मकाद्धिंसार्थात् णमुल् स्यात् । दण्डोपघातं गाः कालयति । दण्डेनोपघातम् । दण्डताडम् । समानकर्मकाणामिति किम् । दण्डेन चोरमाहत्य गाः कालयति ॥
  • (3370) सप्तम्यां चोपपीडरुधकर्षः <3-4-49>
उपपूर्वेभ्यः पीडादिभ्यः सप्तम्यन्ते तृतीयान्ते चोपपदे णमुल् स्यात् । पार्श्वोपपीडं शेते । पार्श्वयोरुपपीडम् । पार्श्वाभ्यामुपपीडम् । व्रजोपरोधं गाः स्थापयति । व्रजेन व्रजे वा उपरोधम् । पाण्युपकर्षं धानाः संगृह्णाति । पाणावुपकर्षम् । पाणिनोपकर्षम् ॥
  • (3371) समासत्तौ <3-4-50>
तृतीयासप्तम्योर्धातोर्णमुल् स्यात्सन्निकर्षे गम्यमाने । केशग्राहं युध्यन्ते । केशेषु गृहीत्वा । हस्तग्राहम् । हस्तेन गृहीत्वा ॥
  • (3372) प्रमाणे च <3-4-51>
तृतीयासप्तम्योरित्येव । द्व्यङ्गुलोत्कर्षं खण्डिकां छिनत्ति । द्व्यङ्गुलेन द्व्यङ्गुले वोत्कर्षम् ॥
  • (3373) अपादाने परिप्सायाम् <3-4-52>
परीप्सा त्वरा । शय्योत्थायं धावति ॥
  • (3374) द्वितीयायां च <3-4-53>
परीप्सायामित्येव । यष्टिग्राहं युध्यन्ते । लोष्टग्राहम् ॥
  • (3375) अपगुरो णमुलि <6-1-53>
गुरी उद्यमने इत्यस्यैचो वा आत्स्याण्णमुलि । अस्यपगोरं युध्यन्ते अस्यपगारम् ॥
  • (3376) स्वाङ्गेऽध्रुवे <3-4-54>
द्वितीयायामित्येव । अध्रुवे स्वाङ्गे द्वितीयान्ते धातोर्णमुल् । भ्रूविक्षेपं कथयति । भ्रुवं विक्षेपम् । अध्रुवे किम् । शिर उत्क्षिप्य । येन विना न जीवनं तद्ध्रुवम् ॥
  • (3377) परिक्लिश्यमाने च <3-4-55>
सर्वतो विबाध्यमाने स्वङ्गे द्वितीयान्ते णमुल् स्यात् । उरः प्रतिपेषं युध्यन्ते । कृत्स्नमुरः पीडयिन्त इत्यर्थः । उरोविदारं प्रतिचस्करे नखैः । ध्रुवार्थमिदम् ॥
  • (3378) विशिपतिपदिस्कन्दां व्याप्यमानासेव्यामानयोः <3-4-56>
द्वितीयायामित्येव । द्वितीयान्ते उपपदे विश्यादिभ्यो णमुल् स्याद्व्याप्यमाने आसेव्यमाने चार्थे गम्ये । गेहादिद्रव्याणां विश्यादिक्रियाभिः साकल्येन सम्बन्धो व्याप्तिः । क्रियायाः पौनः पुन्यमासेवा । नित्यविप्सयोः-2140 इति द्वित्वं तु न भवति । समासेनैव स्वभावतस्तयोरुक्तत्वात् । यद्यप्याभीक्ष्ण्ये णमुलुक्त एव तथापि उपपदसञ्ज्ञार्थमासेवायामिहपुनर्विधिः । गेहानुप्रवेशमास्ते । गेहंगेहमनुप्रवेशम् । गेहमनुप्रवेशमनुप्रवेशम् । एवं गेहानुप्रपातम् । गेहानुप्रपादम् । गेहानुस्कन्दम् । असमासे तु गेहस्य णमुलन्तस्य च पर्यायेण द्वित्वम् ॥
  • (3379) अस्यतितृषोः क्रियान्तरे कालेषु <3-4-57>
क्रियामन्तरयति व्यवधत्त इति क्रियान्तरः । तस्मिन्धात्वर्थे वर्तमानादस्यतेस्तृष्यतेश्च कालवाचिषु द्वितीयान्तेषु उपपदेषु णमुल् स्यात् । द्व्यहात्यासं गाः पाययति । द्व्यहमत्यासम् । द्व्यहतर्षम् । द्व्यहंतर्षम् । अत्यसनेन तर्षणेन च गवां पानक्रिया व्यवधीयते । अद्य पाययित्वा द्व्यहमतिक्रम्य पुनः पाययतीत्यर्थः ॥
  • (3380) नाम्न्यादिशिग्रहोः <3-4-58>
द्वितीयायामित्येव । नामादेशमाचष्टे । नामग्राहमाह्वयति ॥
  • (3381) अव्ययेऽयथाभिप्रेताख्याने कृञः क्त्वाणमुलौ <3-4-59>
अयथाभिप्रेताख्यानं नाम अप्रियस्योच्चैः प्रियस्य नीचैः कथनम् । उच्चैःकृत्य । उच्चैः कृत्वा । उच्चैःकारमप्रियमाचष्टे । नीचैःकृत्य । नीचैःकृत्वा । नीचैःकारं प्रियं ब्रूते ॥
  • (3382) तिर्यच्यपवर्गे <3-4-60>
तिर्यक्शब्दे उपपदे कृञः क्त्वाणमुलौ स्तः समाप्तौ गम्यायाम् । तिर्यक्कृत्य तिर्यक्कृत्वा गतः । तिर्यक्कारं समाप्य गत इत्यर्थः । अपवर्गे किम् । तिर्यक्कृत्वा काष्ठं गतः ॥
  • (3383) स्वाङ्गे तस्प्रत्यये कृभ्वोः <3-4-61>
मुखतःकृत्य गतः । मुखतःकृत्वा । मुखतःकारम् । मुखतोभूय । मुखतो भूत्वा । मुखतो भावम् ॥
  • (3384) नाधार्थप्रत्यये च्व्यर्थे <3-4-62>
नाधार्थप्रत्ययान्ते च्व्यर्थविषये उपपदे कृभ्वोः क्त्वाणमुलौ स्तः । अनाना नाना कृत्वा नानाकृत्य । नाना कृत्वा नानाकारम् । विनाकृत्य । विना कृत्वा । विनाकारम् । नानाभूय । नाना भूत्वा । नानाभावम् । अनेकं द्रव्यमेकं भूत्वा । एकधाभूय । एकधा भूत्वा । एकधाभावम् । एकधाकृत्य । एकधा कृत्वा । एकधाकारम् । प्रत्ययग्रहणं किम् । हिरुक्कृत्वा । पृथग्भूत्वा ॥
  • (3385) तूष्णीमि भुवः <3-4-63>
तूष्णींशब्दे उपपदे भुवः क्त्वाणमुलौ स्तः । तूष्णींभूय । तूष्णीं भूत्वा । तूष्णींभावम् ॥
  • (3386) अन्वाच्यानुलोम्ये <3-4-64>
अन्वक्शब्दे उपपदे भुवः क्त्वाणमुलौ स्त आनुकूल्ये गम्यमाने । अन्वग्भूय आस्ते । अन्वग्भूत्वा । अन्वग्भावम् । अग्रतः पार्श्वतः पृष्ठतो वाऽनुकूलो भूत्वा आस्त इत्यर्थः । आनुलोम्ये किम् । अन्वग्भूत्वा तिष्ठति । पृष्ठतो भूत्वेत्यर्थः ॥

इत्थं लौकिकशब्दानां दिङ्मात्रमिह दर्शितम् । विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ॥1 ॥ भट्टोजिदीक्षितकृतिः सैषा सिद्धान्तकौमुदी । प्रीत्यै भूयाद्भगवतोर्भवानीविश्वनाथयोः ॥2 ॥

इति उत्तरकृदन्तप्रकरणम्‌

वैदिकप्रकरणम्‌

सम्पाद्यताम्
  • (3387) छन्दसि पुनर्वस्वोरेकवचनम् <1-2-61>
द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥
  • (3388) विशाखयोश्च <1-2-62>
प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥
  • (3389) षष्ठीयुक्तश्छन्दसि वा <1-4-9>
षष्ठ्यन्तेन युक्तः पतिशब्दश्छन्दसि घिसंज्ञो वा स्यात् । क्षेत्रस्य पतिना वयम् (क्षेत्र॑स्य पति॑ना व॒यम्) । इह वेति योगं विभज्य छन्दसीत्यनुवर्तते । सर्वे विधयश्छन्दसि वैकल्पिकाः । तेन बहुलं छन्दसि--3401 इत्यादिरस्यैव प्रपज्ञः । यचि भम् 231 । भोऽङ्गिरोमनुषां वत्युपसंख्यानम् (वा) ॥ नभसा । तुल्यं नभस्वत् । भत्वाद्रुत्वाभावः अङ्गिरस्वदङ्गिरः (अ॒ङ्गि॒र॒स्वद॑ङ्गिरः) । मनुष्वदग्ने (म॒नु॒ष्वद॑ग्ने) । (उ.) जनेरुसिः इति विहित उसिप्रत्ययो मनेरपि बाहुलकात् ॥ । वृषण्वस्वश्वयोः (वा) ॥ वृषन् वर्षुकं वसु यस्य स वृषण्वसुः । वृषा अश्वो यस्यासौ वृषणश्वः । इहान्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वे सति नलोपः प्राप्तो भत्वाद्वार्यते । अत एव पदान्तस्य 198 इति णत्वनिषेधोऽपि न । अल्लोपोनः 234 इत्यल्लोपो न । अनङ्गत्वात् ॥
  • (3390) अयस्मयादीनि च्छन्दसि <1-4-20>
एतानि छन्दसि साधूनि । भपदसंज्ञाधिकाराद्यथायोग्यं संज्ञाद्वयं बोध्यम् । तथा च वार्तिकम् ॥ उभयसंज्ञान्यपीति वक्तव्यमिति (वा) ॥ स सुष्टुभा स ऋक्वता गणेन (स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑) । पदत्वात्कुत्वम् । भत्वाज्जश्त्वाभावः । जश्त्वविधानार्थायाः पदसंज्ञाया भत्वसामर्थ्येन बाधात् । नैनं हिन्वन्त्यपि वाजिनेषु (नैनं॑ हिन्व॒न्त्यपि॒ वाजि॑नेषु) । अत्र पदत्वाज्जश्त्वम् । भत्वात्कुत्वाभावः । े प्राग्धातोः 2230 ॥
  • (3391) छन्दसि परेऽपि <1-4-8>
  • (3392) व्यवहिताश्च <1-4-82>
हरिभ्यां याह्योक आ (हरि॑भ्यां या॒ह्योक॒ आ) । आ मन्द्रैरिन्द्र हरिभिर्याहि(आ म॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि) ॥
  • (3393) इन्धिभवतिभ्यां च <1-2-6>
आभ्यां परोऽपिल्लिट् कित् स्यात् । समीधे दस्युहन्तमम् (समी॑धे दस्यु॒हन्त॑मम्) । पुत्र ईधे अथर्वणः (पु॒त्र ई॑धे॒ अथ॑र्वणः) । बभूव । इदं प्रत्याख्यातम् । इन्धेश्छन्दोविषयत्वाद्भुवो वुको नित्यत्वात्ताभ्यां लिटः किद्वचनानर्थक्यमिति ॥
  • (3394) तृतीया च होश्छन्दसि <2-3-3>
जुहोतेः कर्मणि तृतीया स्याद्द्वितीया च । यवाग्वाऽग्निहोत्रं जुहोति । अग्निहोत्रशब्दोऽत्र हविषि वर्तते । यस्याग्निहोत्रमधिश्रितममेध्यमापद्येतेत्यादिप्रयोगदर्शनात् । अग्नये हूयत इति व्युत्पत्तेश्च । यवाग्वाख्यं हविर्देवतोद्देशेन त्यक्त्वा प्रक्षिपतीत्यर्थः ॥
  • (3395) द्वितीया ब्राह्मणे <2-3-60>
ब्राह्मणविषये प्रयोगे दिवस्तदर्थस्य कर्मणि द्वितीया स्यात् । षष्ठ्यपवादः । गामस्य तदहः सभायां दीव्येयुः ॥
  • (3396) चतुर्थ्यर्थे बहुलं छन्दसि <2-3-62>
षष्ठी स्यात् । पुरुषमृगश्चन्द्रमसः । गोधाकालकादार्वाघाटस्ते वनस्पतीनाम् । वनस्पतिभ्य इत्यर्थः ॥ षष्ठ्यर्थे चतुर्थीति वाच्यम् (वा) ॥ या खर्वेण पिबति तस्यै खर्वः ॥
  • (3397) यजेश्च करणे <2-3-63>
इह छन्दसि बहुलं षष्ठी । घृतस्य घृतेन वा यजते ॥
  • (3398) बहुलं छन्दसि <2-4-39>
अदो घस्लादेशः स्यात् । घस्तान्नूनम् । लुङि मन्त्रे घस--3402 इति च्लेर्लुक् । अडभावः । सग्धिश्च मे

(सग्धि॑श्च मे) ॥

  • (3399) हेमन्तशिशिरावहोरात्रे च छन्दसि <2-4-28>
द्वन्द्वः पूर्ववल्लिङ्गः । हेमन्तश्च शिशिरं च हेमन्तशिशिरौ । अहोरात्रे । अदिप्रभृतिभ्यः शपः 2423 ॥
  • (3400) बहुलं छन्दसि <2-3-73>
वृत्रं हनति वृत्रहा । अहिः शयत उप पृक्पृथिव्याः (अहिः॑ शयत उप॒ पृक्पृ॑थि॒व्याः) । अत्र लुङ्ग । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः (त्राध्वं॑ नो दे॒वाः) । जुहोत्यादिभ्यः श्लुः 2489 ॥
  • (3401) बहुलं छन्दसि <2-4-76>
दाति प्रियाणिचिद्वसु (दाति॑ प्रि॒याणि॑चि॒द्वसु॑) । अन्यत्रापि । पूर्णां विवष्टि ॥
  • (3402) मन्त्रे घसह्वरणशवृदहाद्वृच्कृगमिजनिभ्यो लेः <2-4-80>
एभ्यो लेर्लुक् स्यान्मन्त्रे । अक्षन्नमीमदन्त हि (अक्ष॒न्नमी॑मदन्त हि) । घस्लादेशस्य गमहन--2363 इत्युपधालोपे शासिवसि -- 2410 इति षः । माह्वर्मित्रस्य (माह्व॑र्मि॒त्रस्य॑) । धूर्तिः प्रणङ्मर्त्यस्य (धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य) ।नशेर्वा--431 इति कुत्वम् । सुरुचो वेन आवः (सु॒रुचो॑ वे॒न आ॑वः) । मा न आधक् (मा न॒ आध॑क्) । आदित्याकारान्तग्रहणम् । आ प्राद्यावापृथिवी (आ प्रा॒द्यावा॑पृथि॒वी) । परावर्ग्भारभृद्यथा (परा॒वर्ग्भार॒भृद्य॑था) । अक्रन्नुषासः (अक्र॑न्नु॒षासः॑) । त्वे रयिं जागृवांसो अनुग्मन् (त्वे र॒यिं जा॑गृ॒वांसो॒ अनु॑ग्मन्) । मन्त्रग्रहणं ब्राह्मणस्याप्युपलक्षणम् । अज्ञत वा अस्य दन्ताः । विभाषानुवृत्तेर्नेह । न ता अगृभ्भ्रन्नजनिष्ट हि षः (न ता अ॑गृभ्भ्र॒न्नज॑निष्ट॒ हि षः) ॥
  • (3403) अभ्युत्सादयां प्रजनयां चिकयां रमयामकः पावयां क्रियाद्विदामक्रन्निति च्छन्दिस <3-1-42>
आद्येषु चतुर्षु लुङि आम् अक इत्यनुप्रयोगश्च । अभ्युत्सादयामकः । अभ्युदसीषददिति लोके । प्रजनयामकः । प्राजीजनदित्यर्थः । चिकयामकः । अचैषीदित्यर्थे चिनोतेराम् द्विवचनं कुत्वं च । रमयामकः । अरीरमत् । पावयांक्रियात् । पाव्यादिति लोके । विदामक्रन् । अवेदिषुः ॥
  • (3404) गुपेश्छन्दसि <3-1-50>
च्लेश्चङ्वा । गृहानजूगुपतं युवम् (गृहा॒नजू॑गुपतं यु॒वम्) । अगौप्तमित्यर्थः ॥
  • (3405) नोनयतिध्वनयत्येलयत्यर्दयतिभ्यः <3-1-51>
च्लेश्चङ् न । मा त्वायतो जरितुः काममूनयीः (मा त्वा॑य॒तो ज॑रि॒तुः काम॑मूनयीः । मा त्वाग्निर्ध्वनयीत् (मा त्वा॒ग्निर्ध्व॑नयीत्) ॥
  • (3406) कृमृदृरुहिभ्यश्छन्दसि <3-1-59>
च्लेरङ् वा । इदं तेभ्योऽकरं नमः (इ॒दं तेभ्यो॑ऽकरं॒ नमः॑) । अमरत् । अदरत् । यत्सानोः सानुमारुहत् (यत्सानोः॒ सानु॒मारु॑हत्) ॥
  • (3407) छन्दसि निष्टर्क्यदेवहूयप्रणीयोन्नीयोच्छिष्यमर्यस्तर्याध्वर्यखन्यखान्यदेवयज्यापृच्छ्यप्रतिषीव्यब्रह्मवाद्यभाव्यस्ताव्योपचाय्यापृडानि <3-1-123>
कृन्ततेर्निस्पूर्वात्क्यपि प्राप्ते ण्यत् । आद्यन्तयोर्विपर्यासो निसः षत्वं च । निष्टर्क्यं चिन्वीत पशुकामः । देवशब्दे उपपदे ह्वयतेर्जुहोतेर्वा क्यप् दीर्घश्च । स्पर्धन्ते वा उ देवहूये (स्पर्ध॑न्ते॒ वा उ॑ देव॒हूये॑) । प्र उत् आभ्यां नयतेः क्यप् । प्रणीयः । उन्नीयः । उत्पूर्वाच्छिषेः क्यप् । उच्छिष्यः । मृङ्स्तृञ्ध्वृभ्यो यत् । मर्यः । स्तर्या । स्त्रियामेवायम् । ध्वर्यः । खनेर्यण्ण्यतौ । खन्यः । खान्यः । यजेर्यः । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै (शुन्ध॑ध्वं॒ दैव्या॑य॒ कर्म॑णे देवय॒ज्यायै॑) । आङ्पूर्वात्पृच्छेः क्यप् । आपृच्छ्यं धरुणं वाज्यर्षति (आ॒पृच्छ्यं॑ ध॒रुणं॑ वा॒ज्य॑र्षति) । सीव्यतेः क्यप् षत्वं च । प्रतिषीव्यः । ब्रह्मणि वदेर्ण्यत् । ब्रह्मवाद्यम् । लोके तु वदः सुपि क्यप् च-2854 इति क्यब्ण्यतौ । भवतेः स्तौतेश्च ण्यत् । भाव्यः । स्ताव्यः । उपपूर्वाच्चिनोतेर्ण्यत् आयादेशश्च पृडे उत्तरपदे । उपचाय्यपृडम् ॥ हिरण्य इति वक्तव्यम् (वा) ॥

उपचेयपृडमन्यत् ॥ मृड सुखने पृड चेत्यस्मादि गुपधलक्षणः कः ॥

  • (3408) छन्दसि वनसनरक्षिमथाम् <3-2-27>
एभ्यः कर्मण्युपपदे इन् स्यात् । ब्रह्मवनिं त्वा क्षत्रवनिम् (ब्रह्मवनिं॑ त्वा क्षत्र॒वनि॑म्) । उत नो गोषणिं धियम् (उ॒त नो॑ गो॒षणिं॒ धि॒य॑म्) । ये पथां पथिरक्षयः (ये प॒थां प॑थि॒रक्ष॑यः) । चतुरक्षौ पथिरक्षी (च॒तु॒र॒क्षौ प॑थि॒रक्षी॑) । हविर्मथीनामभि (हवि॒र्मथी॑नाम॒भि) ॥
  • (3409) छन्दसि सहः <3-2-63>
सुप्युपपदे सहेर्ण्विः स्यात् । पृतनाषाट् ॥
प्राग्वत् । दित्यवाट् (दि॒त्य॒वाट्) । योगविभाग उत्तरार्थः ॥
  • (3411) कव्यपुरीषपुरीष्येषु ञ्युट् <3-2-65>
एषु वहेर्ञ्युट् स्याच्छन्दसि । कव्यवाहनः । पुरीषवाहनः । पुरीष्यवाहनः ॥
  • (3412) हव्येऽनन्तः पादम् <3-2-66>
अग्निश्च हव्यवाहनः (अ॒ग्निश्च॑ हव्य॒वाह॑नः) । पादमध्ये तु वहश्च 3410 इति ण्विरेव । हव्यवाळग्निरजरः पिता नः (ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नः॑) ॥
  • (3413) जनसनखनक्रमगमो विट् <3-2-67>
विड्वनोः--2982 इत्यात्वम् । अब्जाः (अ॒ब्जाः) । गोजाः (गो॒जाः) । गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॒सि) । सनोतेरनः--3645 इति षत्वम् । इयं शुष्मेभिर्बिसखा इवारुजत् (इ॒यं शुष्मे॑भिर्बिस॒खा इ॑वारुजत्) । आ दधिक्राः शवसा पञ्च कृष्टीः (आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः) । अग्रेगाः (अग्रे॒गाः) ॥
  • (3414) मन्त्रे श्वेतवहोक्थशस्पुरोडाशो ण्विन् <3-2-71>
स्वेतवहादीनां डस्पदस्येति वक्तव्यम् (वा) ॥ यत्र पदत्वं भावि तत्र ण्विनोऽपवादो डस् वक्तव्य इत्यर्थः । श्वेतवाः । श्वेतवाहौ । श्वेतवाहः । उक्थानि उक्थैर्वा शंसति उक्थशा यजमानः । उक्थशासौ । उक्थशासः । पुरो दाश्यते दीयते पुरोडाः ॥
अवयाः । अवयाजौ । अवयाजः ॥
  • (3416) अवयाः श्वेतवाः पुरोडाश्च <8-2-67>
एते संबुद्धौ कृतदीर्घा निपात्यन्ते । चादुक्थशाः ॥
  • (3417) विजुपे छन्दसि <3-2-73>
उपे उपपदे यजेर्विच् । उपयट् ॥
  • (3418) आतो मनिन्क्वनिब्वनिपश्च <3-2-74>
सुप्युपसर्गे चोपपदे आदन्तेभ्यो धातुभ्यश्छन्दसि विषये मनिनादयस्त्रयः प्रत्ययाः स्युः । चाद्विच् । सुदामा । सुधीवा । सुपीवा । भूरिदावा । घृतपावा । विच् । कीलालपाः । ब्रह्मभ्रूणवृत्रेषु क्विप्--2998 ॥
  • (3419) बहुलं छन्दसि <3-2-88>
उपपदान्तरेऽपि हन्तेर्बहुलं क्विप् स्यात् । मातृहा । पितृहा । छन्दसि लिट्--3093 । भूतसामान्ये । अहं द्यावापृथिवी आ ततान (अ॒हं द्यावा॑पृथि॒वी आ त॑तान) । लिटः कानज्वा--3094 । क्वसुश्च 3095 । छन्दसि लिटः कानच्क्वसू वा स्तः । चक्राणा वृष्णि (च॒क्रा॒णा वृष्णि॑) । यो नो अग्ने अररिवॉं अघायुः (यो नो॑ अग्ने॒ अर॑रिवॉं अघा॒युः) । णेश्छन्दसि--3117 । ण्यन्ताद्धातोश्छन्दसि इष्णुच् स्यात्तच्छीलादौ । वीरुधः पारयिष्णवः (वी॒रुध॑ पारयि॒ष्णवः॑) । भुवश्च--3118 । अस्मात्केवलात्प्राग्वत् । भविष्णुः ॥ छन्दसि परेच्छायां क्यच उपसंख्यानम् (वा) ॥ क्याच्छन्दसि--3150 ।

उप्रत्ययः स्यात् । अघायुः ॥ एरजधिकारे जवसवौ छन्दसि वाच्यौ (वा) ॥ जवे याभिर्यूनः (ज॒वे याभि॒र्यूनः॑) । ऊर्वोर्मे जवः । देवस्य सवितुः सवे (दे॒वस्य॑ सवि॒तुः॒ स॒वे) ॥

  • (3420) मन्त्रे वृषेषपचमनविभूवीरा उदात्तः <3-3-96>
वृषादिभ्यः क्तिन्स्यात्स चोदात्तः । वृष्टिं दिवः (वृ॒ष्टिं दि॒वः) । सुम्नमिष्टये (सु॒म्नमि॒ष्टये॑) । पचात्पक्तीरुत (पचा॑त्प॒क्तीरु॒त) । इयं ते नव्यसी मतिः (इ॒यं ते॒ नव्य॑सी म॒तिः) । वित्तिः । भूतिः (भू॒तिः) । अग्न आ याहि वीतये (अग्न॒ आ या॑हि वी॒तये॑) । रातौ स्यामो भयासः (रा॒तौ स्या॑मो॒ भया॑सः) ॥
  • (3421) छन्दसि गत्यर्थेभ्यः <3-3-129>
ईषदादिषूपपदेषु गत्यर्थेभ्यो धातुभ्यश्छन्दसि युच् स्यात् । खलोऽपवादः । सूपसदनोऽग्निः ॥
  • (3422) अन्येभ्योऽपि दृश्यते <3-3-130>
गत्यर्थेभ्यो येऽन्ये धातवस्तेभ्योऽपि छन्दसि युच् स्यात् । सुवेदनामकृणोर्ब्रह्मणे गाम् (सु॒वे॒द॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम्) ॥
  • (3423) छन्दसि लुङ्लङ्लिटः <3-4-6>
धात्वर्थानां संबन्धे सर्वकालेष्वेते वा स्युः । पक्षे यथास्वं प्रत्ययाः । देवो देवेभिरागमत् (दे॒वो दे॒वेभि॒राग॑मत्) । लोडर्थे लुङ् । इदं तेभ्योकरं नमः (इ॒दं तेभ्यो॑करं॒ नमः॑) । लङ् । अग्निमद्य होतारमवृणीतायं यजमानः । लिट् । अद्या ममार (अ॒द्या म॒मार॑) । अद्य म्रियत इत्यर्थः ॥
  • (3424) लिङर्थे लेट् <3-4-7>
विध्यादौ हेतुहेतुमद्भावादौ च धातोर्लेट् स्याच्छन्दसि ॥
  • (3425) सिब्बहुलं लेटि <3-1-34>
  • (3426) इतश्च लोपः परस्मैपदेषु <3-4-97>
लेटस्तिङामितो लोपो वा स्यात्परस्मैपदेषु ॥
  • (3427) लेटाऽडादौ <3-4-94>
लेटः अट् आट् एतावागमौ स्तस्तौ च पितौ ॥ ब्बिहुलं णिद्वक्तव्यः (वा) ॥ वृद्धिः । प्रण आयूंषि तारिषत् (प्रण॒ आयूं॑षि तारिषत्) । सुपेशसस्करति जोषिषद्धि (सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि) । आ साविषदर्शसानाय (आ सा॑विषदर्शसा॒नाय॒) । सिप इलोपस्य चाभावे । पाताति दिद्युत् (पाता॑ति दि॒द्युत्) । प्रियः सूर्ये प्रियो अग्ना भवाति (प्रि॒यः सूर्ये॑ प्रि॒यो अ॒ग्ना भ॑वाति) ॥
  • (3428) स उत्तमस्य <3-4-98>
लेडुत्तमसकारस्य वा लोपः स्यात् । करवाव । करवावः । टेरेत्वम् ॥
लेट आकारस्य ऐ स्यात् । सुतेभिः सुप्रयसा मादयैते (सु॒तेभिः॑ सुप्र॒यसा॑ मा॒दयै॑ते) । आतामित्याकारस्य ऐकारः । विधिसामार्थ्यादाट ऐत्वं न । अन्यथा हि ऐटमेव विदध्यात् । यो यजाति यजात इत् (यो यजा॑ति॒ यजा॑त॒ इत्) ॥
  • (3430) वैतोऽन्यत्र <3-4-96>
लेट एकारस्य ऐस्याद्वा आत ऐ--3429 इत्यस्य विषयं विना । पशूनामीशै । ग्रहा गृह्यान्तै । अन्यत्र किम् । सुप्रयसा मादयैते (सुप्र॒यसा॑ मा॒दयै॑ते) ॥
  • (3431) उपसंवादाशङ्कयोश्च <3-4-8>
पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेज्जिह्मा यन्तौ नरकं पताम (नेज्जि॑ह्मा य॒न्तौ नरकं॒ प॑ताम) । हलः श्नः शानज्झौ--2557 ॥
  • (3432) छन्दसि शायजपि <3-1-84>
अपिशब्दाच्छानच् ॥ हृग्रहोर्भश्छन्दसि इति हस्य भः । गृभाय जिह्वया मधु (गृ॒भा॒य जि॒ह्वया॒

मधु॑) । बधान देव सवितः (ब॒धान॑ देव सवितः) । अनिदितां---(415) इति बध्नातेर्नलोपः । गृभ्णामि ते (गृ॒भ्णामि॑ ते) । मध्वा जभार (मध्वा॑ ज॒भार॑) ॥

  • (3433) व्यत्ययो बहुलम् <3-1-85>
विकरणानां बहुलं व्यत्ययः स्यात् छन्दसि । आण्डा शुष्णस्य भेदति (आ॒ण्डा शुष्ण॑स्य॒ भेद॑ति) । भिनत्तीति प्राप्ते । जरसा मरते पतिः (ज॒रसा॒ मर॑ते॒ पतिः॑) । म्रियत इति प्राप्ते । इन्द्रो वस्तेन नेषतु (इन्द्रो॑ व॒स्तेन॑ नेषतु) । नयतेर्लोट् शप्सिपौ द्वौ विकरणौ । इन्द्रेण युजा तरुषेम वृत्रम् (इन्द्रे॑ण यु॒जा त॑रुषेम वृ॒त्रम्) । तरेमेत्यर्थः । तरतेर्विध्यादौ लिङ् । उः शप् सिप् चेति त्रयो विकरणाः ॥ सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिध्यति बाहुलकेन ॥1 ॥ धुरि दक्षिणायाः (धु॒रि दक्षि॑णायाः) । दक्षिणस्यामिति प्राप्ते । चषालं ये अश्वयूपाय तक्षति (च॒षालं॒ ये अ॑श्वयूपाय॒ तक्ष॑ति) । तक्षन्तीति प्राप्ते । उपग्रहः परस्मैपदात्मनेपदे । ब्रह्मचारिणमिच्छते । इच्छतीति प्राप्ते । प्रतीपमन्य ऊर्मिर्युध्यति । युध्यत इति प्राप्ते । मधोस्तृप्ता इवासते (मधो॑स्तृ॒प्ता इ॑वासते) । मधुन इति प्राप्ते । नरः पुरुषः । अधा स वीरैर्दशभिर्वियूयाः (अधा॒ स वी॒रैर्द॒शभि॒र्वियू॑याः) । वियूयीदिति प्राप्ते । कालः कालवाची प्रत्ययः । श्वोऽग्नीनाधास्यमानेन । लुटो विषये लृट् । तमसो गा अदुक्षत् (तम॑सो॒ गा अ॑दुक्षत्) । अधुक्षदिति प्राप्ते । मित्र वयं च सूरयः (मित्र॑ व॒यं च॑ सू॒रयः॑) । मित्रा वयमिति प्राप्ते । स्वरव्यत्ययस्तु वक्ष्यते । कर्तृशब्दः कारकमात्रपरः । तथा च तद्वाचिनां कृत्तद्धितानां व्यत्ययः । अन्नादाय । अण्विषये अच् । अवग्रहे विशेषः । यङो यशब्दादारभ्य लिङ्याशिष्यङ्--3434 इति ङकारेण प्रत्याहारः । तेषां व्यत्ययो भेदतीत्यादिरुक्त एव ॥
  • (3434) लिङ्याशिष्यङ् <3-1-86>
आशीर्लिङि परे धातोरङ् स्याच्छन्दसि । वच उम्--2454 । मन्त्रं वोचेमाग्नये (मन्त्रं॑ वोचेमा॒ग्नये॑) ॥ ृशोरग्वक्तव्यः (वा) ॥ पितरं च दृशेयं मातरं च (पि॒तरं॑ च दृ॒शेयं॑ मा॒तरं॑ च) । अङि तु ऋदृशोऽङि--2406 इति गुणः स्यात् ॥
  • (3435) छन्दस्युभयथा <3-4-117>
धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः---2387 इति यण् । आदृगमहनजनः किकिनौ लिट् च--3151 । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम्---2383 इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि--3578 इत्युत्वम् । ततुरिः । जगुरिः ॥
  • (3436) तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः <3-4-9>
से । वक्षे रायः । सेन् । ता वामेषे (ता वा॒मेषे॑) । असे । शरदो जीवसे धाः (श॒रदो॑ जी॒वसे॑ धाः) । असेन्नित्त्वादाद्युदात्तः । क्से । प्रेषे । कसेन् । गवामिव श्रियसे (गवा॑मिव श्रि॒यसे॑) । अध्यै । अध्यैन् । जठरं पृणध्यै (ज॒ठरं॑ पृ॒णध्यै॑) । पक्षे आद्युदात्तम् । कध्यै । कध्यैन् । आहुवध्यै (आहु॒वध्यै॑) । पक्षे नित्स्वरः । शध्यै । राधसः सह मादयध्यै (राध॑सः स॒ह मा॑द॒यध्यै॑) । शध्यैन् । वायवे पिबध्यै (वा॒यवे॒ पिब॑ध्यै) । तवै । दातवाउ (दात॒वाउ॑) । तवेङ् । सूतवे (सूत॑वे) । तवेन् । कर्तवे (कर्त॑वे) ॥
  • (3437) प्रयै रोहिष्यै अध्यथिष्यै <3-4-10>
एते तुमर्थे निपात्यन्ते । प्रयातुं रोढुमव्यथितुमित्यर्थः ॥
  • (3438) दृशे विख्ये च <3-4-11>
द्रष्टुं विख्यातुमित्यर्थः ॥
  • (3439) शकि णमुल्कमुलौ <3-4-12>
शक्नोतावुपपदे तुमर्थे एतौ स्तः । विभाजं नाशकत् । अपलुपं नाशकत् । विभक्तुमपलोप्तुमित्यर्थः ॥
  • (3440) ईश्वरे तोसुन्कसुनौ <3-4-13>
ईश्वरो विचरितोः । ईश्वरो विलिखः । विचरितुं विलेखितुमित्यर्थः ॥
  • (3441) कृत्यार्थे तवैकेन्केन्यत्वनः <3-4-14>
नम्लेच्छितवै । अवगाहे । दिदृक्षेण्यः (दि॒दृ॒क्षेण्यः) । भूर्यस्पष्ट कर्त्वम् (भूर्यस्प॑ष्ट॒ कर्त्व॑म्) ॥
  • (3442) अवचक्षे च <3-4-15>
रिपुणा नावचक्षे (रि॒पुणा॒ नाव॒चक्षे॑) । अवख्यातव्यमित्यर्थः ॥
  • (3443) भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् <3-4-16>
आसंस्थातोः सीदन्ति । आसमाप्तेः सीदन्तीत्यर्थः । उदेतोः । अपकर्तोः । काममाविजनितोः संभवामः । इति श्रुतिः ॥
  • (3444) सृपितृदोः कसुनः <3-1-47>
भावलक्षणे इत्येव । पुरा क्रूरस्य विसृपो विरप्शिन् (पु॒रा क्रू॒रस्य॑ वि॒सृपो॑ विर॒प्शिन्) । पुरा जत्रुभ्य आतृदः (पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑) ॥ इति तृतीयोऽध्यायः ॥
  • (3445) रात्रेश्चाजसौ <4-1-31>
रात्रिशब्दान्ङीप्स्यात् अजस्विषये छन्दसि । रात्री व्यख्यदायती (रात्री॒ व्य॑ख्यदाय॒ती) । लोके तु (ग.)कृदिकारादिति ङीष्यन्तोदात्तः ॥
  • (3446) नित्यं छन्दसि <4-1-46>
बह्वादिभ्यश्छन्दसि विषये नित्यं ङीष् । बह्वीषु हि त्वा (ब॒ह्वीषु॒ हि त्वा) । नित्यग्रहणमुत्तरार्थम् ॥
ङीष् स्यात् छन्दसि । विभ्वी । प्रभ्वी । विप्रसंभ्य 3160 इति डुप्रत्ययान्तं सूत्रेऽनुक्रियते । उत इत्यनुवृत्तेः । उवङादेशस्तु सौत्रः ॥ मुद्गलाच्छन्दसि लिच्च (वा) ॥ ङीषो लित्त्वामानुक् चागमः । लित्स्वरः । रथीरभून्मुद्गलानी (र॒थीर॑भून्मुद्ग॒लानी॑) ॥
  • (3448) दीर्घजिह्वी च छन्दसि <4-1-59>
संयोगोपधत्वादप्राप्ते ङीष् विधीयते । आसुरी वै दीर्घजिह्वी देवानां यज्ञवाट् ॥
  • (3449) कद्रुकमण्डल्वोश्छन्दसि <4-1-71>
उङ् स्यात् । कद्रूश्च वै कमण्डलूः ॥ गुग्गुलुमधुजतुपतयालूनामिति वक्तव्यम् (वा) ॥ गुग्गुलूः । मधूः । जतूः । पतयालूः । अव्ययात्त्यप् 1324 ॥ आविष्ट्यस्योपसंख्यानं छन्दसि (वा) ॥ आविष्ट्यो वर्धते (आ॒विष्ट्यो॑ वर्धते) ॥
  • (3450) छन्दसि ठञ् <4-3-19>
वर्षाभ्यष्ठकोऽपवादः । स्वरे भेदः । वार्षिकम् ॥
  • (3451) वसन्ताच्च <4-3-20>
ठञ् स्यात् छन्दसि । वासन्तिकम् ॥
  • (3452) हेमन्ताच्च <4-3-21>
छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । शौनकादिभ्यछन्दसि 1486 णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥
  • (3453) द्व्यचश्छन्दसि <4-3-150>
विकारे मयट् स्यात् । शरमयं बर्हिः । यस्य पर्णमयी जुहूः ॥
  • (3454) नोत्वद्वर्ध्रबिल्वात् <4-3-151>
उत्वान् उकारवान् । मौञ्जं शिक्यम् । वर्ध्रं चर्म तस्य विकारो वार्ध्री रज्जुः । बैल्वो यूपः । सभाया यः-- 1657 ॥
सभेयो युवा ॥
  • (3456) भवे छन्दसि <4-4-110>
सप्तम्यन्ताद्भवार्थे यत् । मेघ्याय च विद्युत्याय च (मे॒घ्या॑य च विद्यु॒त्या॑य च) । यथायथं शैषिकाणामणादीनां घादीनां चापवादोऽयं यत् । पक्षे तेऽपि भवन्ति । सर्वविधीनां छन्दसि वैकल्पिकत्वात् । तद्यथा । मुञ्जवान्नाम पर्वतः । तत्र भवो मौञ्जवतः । सोमस्येव मौजवतस्य भक्षः (सोम॑स्येव मौजव॒तस्य॑ भ॒क्षः) । आ चतुर्थसमाप्तेश्छन्दोऽधिकारः ॥
  • (3457) पाथोनदीभ्यां ड्यण् <4-4-111>
तमुत्वा पाथ्यो वृषा (तमु॑त्वा पा॒थ्यो वृषा॑) । चनो दधीत नाद्यो गिरो मे (चनो॑ दधीत ना॒द्यो गिरो॑ मे) । पाथसि भवः पाथ्यः । नद्यां भवो नाद्यः ॥
  • (3458) वेशन्तहिमवद्भ्यामण् <4-4-112>
भवे । वैशन्तीभ्यः स्वाहा (वै॒श॒न्तीभ्यः॒ स्वाहा॑) । हैमवतीभ्यः स्वाहा (है॒म॒व॒तीभ्यः॒ स्वाहा॑) ॥
  • (3459) स्रोतसो विभाषा ड्यड्ड्यौ <4-4-113>
पक्षे यत् । ड्यड्ड्ययोस्तु स्वरे भेदः । स्रोतसि भवः स्रोत्याः । स्रोतस्यः ॥
  • (3460) सगर्भसयूथसनुताद्यन् <4-4-114>
अनुभ्राता सगर्भ्यः । अनुसखा सयूथ्यः । यो नः सनुत्य उत वा जघत्नुः (यो नः॒ सनु॑त्य उ॒त वा॑ जघ॒त्नुः) । नुतिर्नुतम् । नपुंसके भावे क्तः--3090 । सगर्भादयस्त्रयोऽपि कर्मधारयाः । समानस्य छन्दसि 1012 इति सः । ततो भवार्थे यन् । यतोऽपवादः ॥
  • (3461) तुग्राद्धन् <4-4-115>
भवेर्थे । पक्षे यदपि । आ वः शमं वृषभं तुग्र्यासु (आ वः॒ शमं॑ वृष॒भं तुग्र्या॑सु) । इति बह्वृचाः । तुग्रियास्विति शाखान्तरे । धनाकाशयज्ञवरिष्ठेषु तुग्रशब्द इति वृत्तिः ॥
  • (3462) अग्राद्यत् <4-4-116>
अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥
चाद्यत् । अग्रे भवोऽग्र्यः । अग्रियः । अग्रीयः ॥
  • (3464) समुद्राभ्राद्धः <4-4-118>
समुद्रिया अप्सुरसो मनीषिणम् (स॒मु॒द्रिया॑ अप्सु॒रसो॑ मनी॒षिण॑म्) । नानदतो अभ्रियस्येव (नान॑दतो अ॒भ्रिय॑स्येव॒) । घोषाः॑ ॥
  • (3465) बर्हिषि दत्तम् <4-4-119>
प्राग्घिताद्यत् 1626 इत्येव । बर्हिष्येषु निधिषु प्रियेषु (ब॒र्हि॒ष्येषु॑ नि॒धिषु॑ प्रि॒येषु॑) ॥
  • (3466) दूतस्य भागकर्मणी <4-4-120>
भार्गोऽशः । दूत्यम् ॥
  • (3467) रक्षोयातूनां हननी <4-4-121>
या ते अग्ने रक्षस्या तनूः (या ते॑ अग्ने रक्ष॒स्या॑ त॒नूः) ॥
  • (3468) रेवतीजगतीहविष्याभ्यः प्रशस्ये <4-4-122>
प्रशंसने यत्स्यात् । रेवत्यादीनां प्रशंसनं रेवत्यम् । जगत्यम् । हविष्यम् ॥
  • (3469) असुरस्य स्वम् <4-4-123>
असुर्यं देवोभिर्धायि विश्वम् ॥
आसुरी माया ॥
  • (3471) तद्वानासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः <4-4-125>
वर्चस्वानुपधानो मन्त्र आसामिष्टकानां वर्चस्याः । ऋतव्याः ॥
  • (3472) अश्विमानण् <4-4-126>
आश्विनीरुप दधाति ॥
  • (3473) वयस्यासु मूर्ध्नो मतुप् <4-4-127>
तद्वानासामिति सूत्रं सर्वमनुवर्तते । मातोरिति पदमावर्त्य पञ्चम्यन्तं बोध्यम् । मतुबन्तो यो मूर्धशब्दस्ततो मतुप्स्यात्प्रथमस्य मतोर्लुक्च वयः शब्दवन्मन्त्रोपधेयासु मूर्धन्वतीरुपदधातीति प्रयोगः ॥
  • (3474) मत्वर्थे मासतन्वोः <4-4-128>
नभोऽभ्रम् । तदस्मिन्नस्तीति नभस्यो मासः । ओजस्या तनूः ॥
माधवः । मधव्यः ॥
  • (3476) ओजसोऽहनि यत्खौ <4-4-130>
ओजस्यमहः । ओजसीनं वा ॥
  • (3477) वेशोयशआदेर्भगाद्यल् <4-4-131>
यथासंख्यं नेष्यते । वेशो बलं तदेव भगः । वेशोभग्यः । वेशोभगीनः । यशोभग्यः । यशोभगीनः ॥
योगविभाग उत्तरार्थः क्रमनिरासार्थश्च ॥
  • (3479) पूर्वैः कृतमिनयौ च <4-4-133>
गम्भीरेभिः पथिभिः पूर्विणेभिः (ग॒म्भी॒रेभिः॑ प॒थिभिः॑ पूर्वि॒णेभिः) । ये ते पन्थाः सवितः पूर्व्यासः (ये ते॒ पन्थाः॑ सवितः पूर्व्यासः॑) ॥
  • (3480) अद्भिः संस्कृतम् <4-4-134>
यस्येदमप्यं हविः (यस्ये॒दमप्यं॑ ह॒विः) ॥
  • (3481) सहस्रेण संमितौ घः <4-4-135>
सहस्त्रियासो अपां नोर्मयः (स॒ह॒स्त्रिया॑सो अ॒पां नोर्मयः॑) । सहस्रेण तुल्या इत्यर्थः ॥
सहस्रशब्दान्मत्वर्थे घः स्यात् । सहस्रमस्यास्तीति सहस्रियः ॥
  • (3483) सोममर्हति यः <4-4-137>
सोम्यो ब्राह्मणः । यज्ञार्ह इत्यर्थः ॥
सोमशब्दाद्यः स्यान्मयडर्थे । सोम्यं मधु (सो॒म्यं मधु॑) । सोममयमित्यर्थः ॥
मधुशब्दान्मयडर्थे यत्स्यात् । मधव्यः । मधुमयः इत्यर्थः ॥
  • (3486) वसोः समूहे च <4-4-140>
चान्मयडर्थे यत् । वसव्यः । अक्षरसमूहे छन्दस उपसंख्यानम् ॥ छन्दः शब्दातदक्षरसमूहे वर्तमानात्स्वार्थे यदित्यर्थः । आश्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कार एष वै सप्तदशाक्षरश्छान्दस्यः ॥
  • (3487) नक्षत्राद्धः <4-4-141>
स्वार्थे । नक्षत्रियेभ्यः स्वाहा (न॒क्ष॒त्रिये॑भ्यः॒ स्वाहा॒) ॥
  • (3488) सर्वदेवात्तातिल् <4-4-142>
स्वार्थे । सविता नः सुवतुसर्वतातिम् (स॒वि॒ता नः॑ सुवतु स॒र्वता॑तिम्) । प्रदक्षिणिद्देवतातिमुराणः (प्र॒द॒क्षि॒णिद्दे॒वता॑तिमुरा॒णः) ॥
  • (3489) शिवशमरिष्टस्य करे <4-4-143>
करोतीति करः । पचाद्यच् । शिवं करोतीति शिवतातिः । याभिः शन्ताती भवथो ददादुषे (याभिः॒ शन्ता॑ती॒ भव॑थो द॒दा॒दुषे॑) । अथो अरिष्टतातये (अथो॑ अरि॒ष्टता॑तये ॥
शिवादिभ्यो भावे तातिः स्याच्छन्दसि । शिवस्य भावः शिवतातिः । शन्तातिः । अरिष्टतातिः ॥
  • (3491) सप्तनोऽञ्छन्दसि <5-1-61>
तदस्य परिमाणम् - 1723 इति वर्ग इति च । सप्त साप्तानि असृजत् (सप्त॑ सा॒प्तानि॑ असृजत् ॥ शन्शतोर्डिनिश्छन्दसि तदस्य परिमाणमित्यर्थे वाच्यः (वा) ॥ पञ्चदशिनोऽर्धमासाः । त्रिंशिनोमासाः ॥ विंशतेश्चेति वाच्यम् (वा) ॥ विंशिनोऽङ्गिरसः ॥ युष्मदस्मदोः सादृश्ये वतुब्वाच्यः (वा) ॥ त्वाववतः पुरूवसो (त्वाव॑वतः पुरूवसो) । न त्वावॉं अन्यः (न त्वावॉं॑ अ॒न्यः) । यज्ञं विप्रस्य मावतः (यज्ञं विप्र॑स्य मा॑वतः) ॥
प्रातिपदिकमात्रात्तदर्तहतीति यत् । सादन्यं विदर्थ्यम् (सा॒द॒न्यं॑ विद॒र्थ्य॑म्) ॥
  • (3493) वत्सरान्ताच्छश्छन्दसि <5-1-91>
निर्वृत्तादिष्वर्थेषु । इद्वत्सरीयः ॥
  • (3494) संपरिपूर्वात्ख च <5-192>
चाच्छः । संवत्सरीणः । संवत्सरीयः । परिवत्सरीणः । परिवत्सरीयः ॥
  • (3495) छन्दसि घस् <5-1-106>
ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥
  • (3496) उपसर्गाच्छन्दसि धात्वर्थे <5-1-118>
धात्वर्थविशिष्टे साधने वर्तमानात्स्वार्थे वतिः स्यात् । यदुद्वतो निवतः (यदु॒द्वतो॑ नि॒वतः॑) । उद्गतान्निर्गातादित्यर्थः ॥
  • (3497) थट् च छन्दसि <5-2-50>
नान्तादसंख्यादेः परस्य डटस्थट् स्यान्मट् च । पञ्चथम् । पञ्चमम् । छन्दसि परिपन्थिपरिपरिणौ पर्यवस्थातरि - 1889 । पर्यवस्थाता शत्रुः । अपत्यं परिपन्थिनम् (अ॒प॒त्यं प॑रिपन्थिनम्) । मात्वा परिपरिणौ विदन् (मात्वा॒ परि॒परि॑णौ विदन्) ॥
  • (3498) बहुलं छन्दसि <5-2-122>
मत्वर्थे विनिः स्यात् । छन्दोविन्प्रकरणेऽष्ट्रामेखलाद्वयोभयरुजाह्रदयानां दीर्घश्चेति वक्तव्यम् (वा) ॥ इति दीर्घः । मंहिष्टमुभयाविनम् (मंहि॑ष्ठसुभया॒विन॑म्) । शुनमष्ट्राव्यचरत् (शु॒नम॑ष्ट्रा॒व्य॑चरत्) ॥ छन्दसीवनीपौ च वक्तव्यौ (वा) ॥ ई ॥ रथीरभूत् (र॒थीर॑भूत्) ॥ सुमङ्गलीरियं वधूः (सु॒म॒ङ्ग॒लीरि॒यं व॒धूः) । मघवानमीमहे (म॒घवा॑नमीमहे) ॥
  • (3499) तयोर्दार्हिलौ च छन्दसि <5-3-20>
इदन्तदोर्यथासंख्यं स्तः । इदा हि व उपस्तुतिम् (इ॒दा हि व॒ उप॑स्तुतिम्) । तर्हि ॥
  • (3500) था हेतौ च छन्दसि <5-3-26>
किमस्था स्याद्धेतौ प्रकारे च । कथा ग्रामं न पृच्छसि (क॒था ग्रामं॒ न पृ॑च्छसि) । कथा दाशेम (क॒था दा॑शेम) ॥
  • (3501) पश्च पश्चा च छन्दसि <5-3-33>
अवरस्य अस्तात्यर्थे निपातौ । पश्च हि सः । नो ते पश्चा । तुश्छन्दसि 2007 तृजन्तात्तृन्नन्ताच्च इष्ठन्नीयसुनौ

स्तः । आसुतिं करिष्ठाः (आसुतिं करि॑ष्ठः) । दोहीयसी धेनुः ॥

  • (3502) प्रत्नपूर्ववितश्वेमात्थाल्छन्दसि <5-3-111>
इवार्थे । तं प्रत्नथा पूर्वथा विश्वथेमथा (तं प्र॒त्नथा॑ पूर्वथा॑ वि॒श्वथे॒मथा॑) ॥
  • (3503) अमु च छन्दसि <5-4-12>
किमेत्तिङव्ययघादित्येव । प्रतं नयं प्रतरम् (प्रतं न॑यं प्रत॒रम्) ॥
  • (3504) वृकज्येष्ठाभ्यां तिल्तातिलौ च छन्दसि <5-4-41>
स्वार्थे । यो नों दुरेवो वृकतिः (यो नों॑ दु॒रेवो॑ वृ॒कतिः) । ज्येष्ठतातिं बहिर्षदम् (ज्ये॒ष्ठता॑तिं बर्हि॒षद॑म्) ॥
  • (3505) अनसन्तान्नपुंसकाच्छन्दसि <5-4-103>
तत्पुरूषाट्टच् स्यात्समासान्तः । ब्रह्मसामं भवति । देवच्छन्दसानि ॥
  • (3506) बहुप्रजाश्छन्दसि <5-4-123>
बहुप्रजा निर्ऋतिमाविवेश (ब॒हु॒प्र॒जा निर्ऋ॑ति॒मावि॑वेश) ॥
दन्तस्य दतृशब्दः स्याद्बहुव्रीहौ । उभयतोदतः प्रतिगृह्णाति ॥
  • (3508) ऋतश्छन्दसि <5-4-148>
ऋदन्ताद्बहुव्रीहेर्न कप् । हता माता यस्य हतमाता ॥
  • (3509) तुजादीनां दीर्घोऽभ्यास्सय <6-1-7>
तुदीदिराकृतिगणः ॥ प्रभरा तूतुजानः (प्रभ॑रा॒ तूतु॑जानः) । सूर्ये मामहानम् (सूर्ये॑ मामहा॒नम्) । दाधार यः पृथिवीम् (दा॒धार॒ यः पृ॑थि॒वीम्) । स तूताव (स तू॑ताव) ॥
  • (3510) बहुलं छन्दसि <6-1-34>
ह्वः संप्रसारणं स्यात् । इन्द्रमाहुव ऊतये (इन्द्र॒माहु॑व ऊ॒तये॑) ॥ ऋचि त्रेरुत्तरपदादिलोपश्च छन्दसि (वा) ॥ ऋच्शब्दे परेत्रेः संप्रसारणुत्तरपदादेर्लोपश्चेति वक्तव्यम् । तृचं सूक्तम् । छन्दसि किम । त्र्यृचानि ॥ रयेर्मतौ बहुलम् (वा) ॥ रेवान् । रयिमान्पुष्टिबर्धनः (रयि॒मान्पु॑ष्टि॒बर्ध॑नः) ॥
न्यंन्यं चिक्युर्न निचिक्युरन्यम् (न्यं1न्यं चि॒क्युर्न निचि॑क्युर॒न्यम्) । लिटि उसि रूपम् । बहुलग्रहणानुवृत्तेर्नेह । अग्निं ज्योतिर्निचाय्य (अ॒ग्निं ज्योति॒र्नि॒चाय्य॑) ॥
  • (3512) अपस्पृधेथामानृचुरानृहुश्चिच्युषेतित्याजश्राताश्रितमाशीराशीर्ताः <6-1-36>
एते छन्दसि निपात्यन्ते । इन्द्रश्च विष्णो यदपस्पृधेयाम् (इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेयाम्) । स्पर्धेर्लङि आथाम् । अर्कमानृचुः (अ॒र्कमा॑नृ॒चुः) । वसून्यानृहुः । अर्चेरर्हेश्च लिट्युसि । चिच्युषे (चि॒च्युषे॑) । च्युङो लिटि थासि । यस्तित्याज (यस्ति॒त्याज॑) । त्यजेर्णलि । श्रातास्त इन्द्र सोमाः (श्रा॒तास्त॑ इन्द्र॒ सोमाः॑) । श्रिता नो ग्रहाः । श्रीञ् पाके निष्ठायाम् । आशीरं दुहे (आ॒शीरं॑ दु॒हे) । मध्यत आशीर्तः (म॒ध्य॒त आशी॑र्तः) । श्रीञ् एव क्विपि निष्ठायां च ॥
  • (3513) खिदेश्छन्दसि <6-1-52>
खिद दैन्ये । असेयैच आद्वा स्यात् । चिखाद । चिखेदेत्यर्थः ॥
  • (3514) शीर्षंश्छन्दसि <6-1-60>
शिरःशब्दस्य शीर्षन् स्यात् । शीर्ष्णः शीर्ष्णोजगतः (शी॒र्ष्णः शी॑र्ष्णो॒जग॑तः) ॥
दीर्घाज्जसि इचि च पूर्वसवर्णदीर्घो वा स्यात् । वाराही । वाराह्यौ । मानुषीरीळते विशः (मानु॑षीरीळते॒ विशः॑) । उत्तरसूत्रद्वयेऽपीदं वाक्यभेदेन संबध्यते । तेनामि पूर्वत्वं वा स्यात् । शमीं च शम्यं च । सूर्मं सुषिरामिव (सू॒र्मं॑ सुषि॒रामि॑व) । संप्रसारणाच्च 330 इति पूर्वरूपमपि वा । इज्यमानः ।

यज्यमानः ॥

  • (3516) शेश्छन्दसि बहुलम् <6-1-70>
लोपः स्यात् । या ते गात्राणाम् (ता ता॒ पिण्डा॑नाम्) ॥ या ते गात्राणाम् (या ते॒ गात्रा॑णाम्) । ता ता पिण्डानाम् (ता ता॒ पिण्डा॑नाम्) ॥ एमन्नादि तु छन्दसि वक्तव्यम् (वा) ॥ अपां त्वेमन् (अ॒पां त्वे॒मन्) । अपां त्वोद्मन् (अ॒पां त्वो॒द्मन्) ॥
  • (3517) भय्यप्रवय्ये च छन्दसि <6-1-83>
बिभेत्यस्मादिति भय्यः । वेतेः प्रवय्या इति स्त्रियामेव निपातनम् । प्रवेयमित्यन्यत्र । छन्दसि किम् । भेयम् । प्रवेयम् ॥ ह्रदय्या उपसंख्यानम् (वा) ॥ ह्रदे भवा ह्रदय्या आपः । भवे छन्दसि यत् ॥
  • (3518) प्रकृत्यान्तः पादमव्यपरे <6-1-115>
ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् (उ॒प॒प्र॒यन्तो॑ अध्व॒रम्) । सुजाते अश्वसूनृते (सुजा॑ते अश्व॑सूनृते) । अन्तःपादं किम् । एतास एतेऽर्चन्ति (ए॒तास॑ ए॒तेऽर्च॑न्ति) । अव्यपरे किम् । तेऽवदन् (ते॑ऽवदन्) ॥
  • (3519) अव्यादवद्यादवक्रमुरव्रतायमवन्त्ववस्युषु च <6-1-116>
एषु व्यपरेऽप्यति एङ् प्रकृत्या । वसुभिर्नो अव्यात् (वसु॑भिर्नो अव्यात्) । मिमहो अवद्यात् (मि॑महो अ॒व॒द्यात्) । मा शिवासो अवक्रमुः (मा शि॑वासो॒ अव॑क्रमुः) । ते नो अव्रत (ते नो॑ अव्रत) । शतधारो अयं मणिः (श॒तधा॑रो अ॒यं म॒णिः) । ते नो अवन्तु (ते नो॑ अवन्तु) । कुशिकासो अवस्यवः (कुशि॒कासो॑ अव॒स्यवः॑) । यद्यपि बह्वृचैस्तेनोऽवन्तु,रथतूः,सोऽयमगात्, तेऽरुणेभिरित्यादौ प्रकृतिभावो न क्रियते तथापि बाहुलकात्समाधेयम् । प्रातिशाख्ये तु वाचनिक एवायमर्थः ॥
उरःशब्द एङन्तोऽति प्रकृत्या यजुषि । उरो अन्तरिक्षम् (उ॒रो अ॒न्तरि॑क्षम्) । यजुषि पादाभावादनन्तः पादार्थ वचनम् ॥
  • (3521) आपो जुषाणो वृष्णो वर्षिष्ठेऽम्बेऽम्बालेऽम्बिके पूर्वे <6-1-118>
यजुषि अति प्रकृत्या । आपो अस्मान्मातरः (आपो॑ अ॒स्मान्मा॒तरः॑) । जुषाणो अग्निराज्यस्य (जु॒षा॒णो अ॒ग्निराज्य॒स्य) । वृष्णो अंशुभ्याम् (वृष्णो॒ अंशु॑भ्याम्) । वर्षिष्ठे अधि नाके (वर्षि॑ष्ठे॒ अधि॒ नाके॑) । अम्बे अम्बाले अम्बिके । अस्मादेव वचनात् अम्बार्थ - 267 इति ह्रस्वो न ॥
  • (3522) अङ्ग इत्यादौ च <6-1-119>
अङ्गशब्दे य एङ् तदादौ च अकारे य एङ् पूर्वः सोऽति प्रकृत्या यजुषि । प्राणो अङ्गे अङ्गे अदीध्यत् ॥
  • (3523) अनुदात्ते च कुधपरे <6-1-120>
कवर्गधकारपरे अनुदात्तेऽति परे एङ् प्रकृत्या यजुषि । अयं सो अग्निः (अ॒यं सो अ॒ग्निः) । अयं सो अध्वरः (अ॒यं सो अ॑ध्व॒रः) । अनुदात्ते किम् । अथोऽग्रे रुद्रे । अग्रशब्द आद्युदात्तः । कुधपरे किम् । सोऽयमग्निमतः ॥
अनुदात्ते अकारदौ अवपथाःशब्दे परे यजुषि एङ् प्रकृत्या । त्रीरुंद्रेभ्यो अवपथाः (त्रीरुं॒द्रेभ्यो॑ अवपथाः) । वपेस्थासि लङि तिङ्ङतिङः - 3935 इत्यनुदात्तत्वम् । अनुदात्ते किम् । यद्रुद्रेभ्योऽवपथाः (यद्रुद्रेभ्यो॑ऽवपथाः) । निपातैर्यद्यदि - 3937 इति निघातो न ॥
  • (3525) आङोऽनुनासिकश्छन्दसि <6-1-126>
आङोऽचि परेऽनुनासिकः स्यात् स च प्रकृत्या । अभ्र आँ अपः (अ॒भ्र आँ अ॒पः) । गभीर आँ उग्रपुत्रे (गभी॒र आँ उ॒ग्रपु॑त्रे) ॥ ईषाअक्षादीनां छन्दसि प्रकृतिभावो वक्तव्यः (वा) ॥ ईषाअक्षो हिरण्यः । ज्या इयम् (ज्या इ॒यम्) । पूषा अविष्टु (पू॒षा अ॒विष्टु) ॥
  • (3526) स्यश्छन्दसि बहुलम् <6-1-133>
स्य इत्यस्य सोर्लोपः स्याद्धलि । एष स्य भानुः (ए॒ष स्य भा॒नुः) ॥
  • (3527) ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे <6-1-151>
ह्रस्वात्परस्य चन्द्रशब्दस्योत्तरपदस्य सुडागमः स्यान्मन्त्रे । हरिश्चन्द्रो मरुद्गणः (हरि॑श्चन्द्रो म॒रुद्ग॑णः) । सुश्चन्द्र दस्म (सुश्च॑न्द्र दस्म) ॥
  • (3528) पितरामातरा च छन्दसि <6-3-33>
द्वन्द्वे निपातः । आ मा गन्तां पितरा मातरा च (आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॑ च) । चाद्विपरीतमपि । न मातरा पितरा नू चिदिष्टौ (न मा॒तारा॑ पि॒तरा॒ न चि॑दि॒ष्टौ) । समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु 1012 समानस्य सः स्यान्मूर्धादिभिन्ने उत्तरपदे । सगर्भ्यः ॥ छन्दसि स्त्रियां बहुलम् (वा) ॥ विष्वद्गेवयोरद्र्यदेशः । विश्वाची च घृताची च (वि॒श्वाची॑ च घृ॒ताची॑च) । देवद्रीची नयत देवयन्तः (देव॒द्रीची॑ नयत देव॒यन्तः॑) । कद्रीची (क॒द्रीची॑) ॥
  • (3529) सध मादस्थयोश्छन्दसि <6-3-96>
सहस्य सधादेशः स्यात् । इन्द्र चास्मिन्सधमादे (इन्द्र॑ चा॒स्मिन्स॑ध॒मादे॑) । सोमः सधस्थम् (सोमः॑ स॒धस्थ॑म्) ।
  • (3530) पथि च छन्दसि <6-3-108>
पथिशब्दे उत्तरपदे कोः कवं कादेशश्च । कवपथः । कापथः । कुपथः ।
  • (3531) साढ्यै साढ्वा साढेति निगमे <6-3-108>
सहेः क्त्वाप्रत्यये आद्यं द्वयं तृनि तृतीयं निपात्यते । मरुद्भिरुग्रः पृतनासु साह्ला (म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साह्ला॑) । अचोर्मध्यस्थस्य डस्य ळः ढस्य ह्लाश्च प्रातिशाख्ये विहितः । आहहि । द्वयोश्चास्य स्वरयोर्मध्यमेत्य संपद्यते स डकारो ळकारः ह्लाकारतामेति स एव चास्य ढकारः सन्नूष्मणा संप्रयुक्त इति ।
अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ।
  • (3533) मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ <6-3-131>
दीर्घः स्यान्मन्त्रे । अश्वावतीं सोमावतीम् (अ॒श्वा॒व॒तीं सो॑माव॒तीम्) । इन्द्रियावान्मदिन्तमः (इ॒न्द्रि॒यावा॑न्म॒दिन्त॑मः ) । विश्वकर्मणा विश्वदेव्यावता (वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता) ।
  • (3534) ओषधेश्च विभक्तावप्रथमायाम् <6-3-132>
दीर्घः स्यान्मत्रे । यदोषधीभ्यः (यदोष॑धीभ्यः) । अदधात्योषधीषु (अ॒द॒धा॒त्योष॑धीषु) ।
  • (3535) ऋचितुनुघमक्षुतङ्कुत्रोरुष्याणाम् <6-3-133>
दीर्घः स्यात् । आ तू न इन्द्र (आ तू न॑ इन्द्र) । नू मर्तः (नू मर्तः॑) । उत वा घा स्यालात् (उ॒त वा॑ घा स्या॒लात्) । मक्षू गोमन्तमीमहे (म॒क्षू गोम॑न्तमीमहे) । भरता जातवेदसम् (भर॑ता जातवे॑दसम्) । तङिति थादेशस्य ङित्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । कूमनाः (कूम॑नाः) । अत्रा ते भद्रा (अत्रा॑ ते भ॑द्रा) । यत्रा नश्चका (यत्रा॑ नश्च॒का) । उरूष्याणः (उरू॒ष्याणः॑) ।
ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् (अ॒भीषुणः॒ सखी॑नाम्) । सुञः 3644 इति षः । नश्च धातुस्थोरुषभ्यः 3649 इति णः ।
  • (3537) द्व्यचोऽतस्तिङः <6-3-135>
मन्त्रे दीर्घः । विद्मा हि चक्रा जरसम् (वि॒द्मा हि च॒क्रा ज॒रस॑म्) ।
  • (3538) निपातस्य च <6-3-136>
एवा हि ते (ए॒वा हि ते॒) ।
  • (3539) अन्येषामपि दृश्यते <6-3-137>
अन्येषामपि पूर्वपदस्थानां दीर्घः स्यात् । पूरुषः (पूरु॑षः) । दण्डादण्डि ।
  • (3540) छन्दस्युभयथा <6-4-5>
नामि दीर्घो वा । धाता धातॄणाम् (धा॒ता धा॑तॄ॒णाम्) इति बह्वृचाः । तैत्तिरीयास्तु ह्रस्वमेव पठन्ति ।
  • (3541) वा षपूर्वस्य निगमे <6-4-9>
षपूर्वस्याच उपधाया वा दीर्घोऽसंबुद्धौ सर्वनामस्थाने परे । ऋभुक्षाणम् (ऋभु॒क्षाण॑म्) । ऋभुक्षणम् (ऋभु॒क्षण॑म्) । निगमे किम् । तक्षा । तक्षाणौ ।
  • (3542) जनिता मन्त्रे <6-4-53>
इडादौ तृचि णिलोपो निपात्यते । यो नः पिता जनिता (यो नः॑ पि॒ता ज॑नि॒ता) ।
  • (3543) शमिता यज्ञे <6-4-54>
शमयितेत्यर्थः ।
  • (3544) युप्लुवोर्दीर्घश्छन्दसि <6-4-58>
ल्यपीत्यनुवर्तते । वियूय । विप्लूय । आडजादीनाम् 2254 ।
  • (3545) छन्दस्यपि दृश्यते <6-4-73>
अनजादीनामित्यर्थः । आनट् (आन॑ट्) । आवः (आ॑वः) । न माङ्योगे 2228 ।
  • (3546) बहुलं छन्दस्यमाङ्योगेऽपि <6-4-75>
अडाटो न स्तो माङ्योगेऽपि स्तः । जनिष्ठा उग्रः सहसे तुराय (जनि(स्वा)ष्ठा उ॒ग्रः सह॑से तु॒राय॑) । मा वः क्षेत्रे परबीजान्यवाप्सुः (मा वः॒ क्षेत्रे॑ परबी॒जान्यवा॑प्सुः) ।
प्रथमं दध्र आपः (प्रथ॒मं द॑ध्र॒ आपः॑) । रेभावस्याभीयत्वेनासिद्धत्वादालोपः । अत्र रेशब्दस्येटि कृते पुनरपि रेभावस्तदर्थं च सूत्रे द्विवचनान्तं निर्दिष्टमिरयोरिति ।
  • (3548) छन्दस्युभयथा <6-4-86>
भूसुधियोर्यण् स्यादियङुवङौ च । वनेषु चित्रं विभ्य (वने(स्ल)षु चि॒त्रं वि॒भ्य॑) । विभुवं वा । सुध्यो3 नव्य मग्ने (सु॒ध्यो॒3॒॑ नव्य॑ मग्ने) । सुधियो वा ॥ तन्वादीनां छन्दसि बहुलम् ॥ तन्वं पुषेम (त॒न्वं॑ पुषेम) । तनुवं वा । त्रम्बकम् (त्र॑म्बकम्) । त्रियम्बकम् ।
  • (3549) तनिपत्योश्छन्दसि <6-4-99>
एतयोरुपधालोपः क्ङिति प्रत्यये । वितत्निरे कवयः (वित॑त्निरे क॒वयः॑) । शकुना इव पप्तिम (शकु॒ना इ॑व पप्तिम) ।
  • (3550) घसिभसोर्हलि च <6-4-100>
सग्धिश्च मे (सग्धि॑श्च मे) । बब्धां ते हरी धानाः (ब॒ब्धां ते॒ हरी॑ धा॒नाः) । हुझलूभ्यो हेर्धिः 2425 ।
  • (3551) श्रुशृणुपॄकृवृभ्यश्छन्दसि <6-4-102>
श्रुधी हवम् (श्रु॒धी हव॑म्) । शृणुधी गिरः (शृणुधी॒ गिरः॑) । रायस्पूर्धि (रा॒यस्पू॑र्धि) । उरुणस्कृधि (उ॒रुण॑स्कृधि) ।
  • (3552) वा छन्दसि <3-4-88>
हिरपिद्वा ।
हेर्धिः स्यात् । रारन्धि (रा॒र॒न्धि) । रमेर्व्यत्ययेन परस्मैपदम् । शपः श्लुरभ्यासदीर्घश्च । अस्मे प्रयन्धि

(अ॒स्मे प्रय॑न्धि) । युयोधि जातवेदः (यु॒योधि॑ जातवेदः) । यमेः शपो लुक् । यौतेः शपः श्लुः ।

  • (3554) मन्त्रेष्वाड्यादेरात्मनः <6-4-141>
ात्मन्शब्दस्यादेर्लोपः स्यादाङि । त्मना देवेषु (त्मना॑ दे॒वेषु॑) ।
  • (3555) विभाषर्जोश्छन्दसि <6-4-162>
ऋजुशब्दस्य ऋतः स्थाने रः स्याद्वा इष्ठेमेयस्सु । त्वं रजिष्टमनुनेषु (त्वं रजि॑ष्ट॒मनु॑नेषु) । ऋजिष्ठं वा ।
  • (3556) ऋत्व्यवास्त्व्यवास्त्वमाध्वीहिरण्ययानि छन्दसि <6-3-175>
ऋतौ भवमृत्व्यम् । वास्तुनि भवं वास्त्व्यम् वास्त्वं च । मधुशब्दस्याणि स्त्रिया यणादेशो निपात्यते । माध्वीर्नः सन्त्वोषधीः (माध्वी॑र्नः स॒न्त्वोष॑धीः) । हिरण्यशब्दाद्विहितस्य मयटो मशब्दस्य लोपो निपात्यते । हिरण्ययेन सविता रथेन (हिर॒ण्यये॑न सवि॒ता रथे॑न) ॥
  • (3557) बहुलं छन्दसि <7-1-8>
शीङो रुट् 2442 ।

रुडागमः स्यात् । लोपस्त आत्मनेपदेषु 3563 इति पक्षे तलोपः । धेनवो दुह्रे (धे॒नवो॑ दुह्रे) । लोपाभावे । घृतं दुहर्ते (घृ॒तं दु॑हर्ते) । अदृश्रमस्य (अदृ॑श्रमस्य) । अतो भिस ऐस् 203 ।

  • (3558) बहुलं छन्दसि <7-1-10>
अग्निर्देवेभिः (अ॒ग्निर्दे॒वेभिः॑) ।
  • (3559) नेतराच्छन्दसि <7-1-26>
स्वमोरदड् न । वार्त्रघ्नमितरम् । छन्दसि किम् । इतरत्काष्ठम् । समासेऽनञ्पूर्वे क्त्वो ल्यप् 3332 ।
  • (3560) क्त्वापि छन्दसि <7-1-38>
यजमानं परिधापयित्वा ।
  • (3561) सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः <7-1-39>
ऋजवः सन्तु पन्थाः पन्थान (ऋ॒जवः॑ सन्तु॒ पन्थाः॑ पन्थान) इति प्राप्ते सुः । परमे व्योमन् (पर॒मे व्यो॑मन्) । व्योमनि इति प्राप्ते ङेर्लुक् । धीती मती सुष्टुती (धी॒ती म॒ती सु॑ष्टु॒ती) । धीत्या मत्या सुष्टुत्येति प्राप्ते पूर्वसवर्णदीर्घ । या सुरथा रथीतमोभा देवा दिविस्पृशा (या सु॒रथा॑ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा॑) । अश्विना (अ॒श्विना॒) । यौ सुरथौ दिविस्पृशावित्यादौ प्राप्ते आ । नताह्ब्रह्मणम् । नतमिति प्राप्ते आत् । या देव विद्म ता त्वा (या दे॒व वि॒द्म ता त्वा॑) । यमिति प्राप्ते न युष्मे वाजबन्धवः (न यु॒ष्मे वा॑जबन्धवः) । अस्मे इन्द्राबृहस्पती (अ॒स्मे इ॑न्द्राबृहस्पती) । युष्मासु अस्मभ्यमिति प्राप्ते शे । उरुया । धृष्णुया । उरुणा धृष्णुनेति प्राप्ते या । नाभा॑ पृथिव्याः । नाभाविति प्राप्ते डा । ता अनुष्ठ्योच्यावयतात् । अनुष्ठानमनुष्ठा व्यवस्थावदङ् । आङो ड्या । साधुया (साधु॒या) । साध्विति प्राप्ते याच् । वसन्ता यजेत । वसन्ते इति प्राप्ते आल् ॥ ईयाडियाजीकाराणामुपसंख्यानम् ॥ उर्विया । दार्विया । उरुणा दारुणेति प्राप्ते इया । सुक्षेत्रिया (सु॒क्षे॒त्रि॒या) । सुक्षेत्रिणेति प्राप्ते डियाच् । दृतिं न शुष्कं सरसी शयानम् (दृतिं॒ न शुष्कं॑ सर॒सी शया॑नम्) । ङेरीकार इत्याहुः । तत्राद्युदात्ते पदे प्राप्ते व्यत्ययेनान्तोदात्तता । वस्तुतस्तु ङीषन्तात् ङेर्लुक् । ईकारादेशस्य तूदाहरणान्तरं मृग्यम् ॥ आङ्याजयारामुपसंख्यानम् ॥ प्र बाहवा सिसृतम् (प्र बा॒हवा॑ सिसृतम्) । बाहुनेति प्राप्ते आङादेशः । घेर्ङिति-245 इति गुणः । स्वप्नया । स्वप्नेनेति प्राप्ते अयाच् । स नः सिन्धुमिव नावया (स नः॒ सिन्धु॑मिव ना॒वया॑) । नावेति प्राप्ते अयार् । रित्स्वरः ।
मिबादेशस्यामो मश् स्यात् । अकार उच्चारणार्थः । शित्त्वात्सर्वादेशः । अस्तिसिचः-2225 इतीट् । वंधीं वृत्रम् (वंधीं॑ वृ॒त्रम्) । अवधिषमिति प्राप्ते ।
  • (3563) लोपस्त आत्मनेपदेषु <7-1-41>
छन्दसि । देवा अदुह्र । अदुहतेति प्राप्ते दक्षिणतः शये । शेते इति प्राप्ते । आत्मेति किम् । उत्सं दुहन्ति (उत्सं॑ दुहन्ति) ।
  • (3564) ध्वमो ध्वात् <7-1-42>
अन्तरेवोष्माणं वारय ध्वात् । वारयध्वमिति प्राप्ते ।
  • (3565) यजध्वैनमिति च <7-1-43>
एनमित्यस्मिन्परे ध्वमोऽन्तलोपो निपात्यते । यजध्वैनं प्रियमेधाः (यज॑ध्वैनं प्रियमेधाः) । वकारस्य यकारो निपात्यत इति वृत्तिकारोक्तिः प्रामादिकी ।
  • (3566) तस्य तात् <7-1-44>
मध्यमपुरुषबहुवचनस्य स्थाने तात्स्यात् । गात्रमस्यानूनं कृणुतात् । कृणुतेति प्राप्ते सूर्यं चक्षुर्गमयतात् (कृणुतेति प्राप्ते सूर्यं॒ चक्षु॑र्गमयतात्) । गमयतेति प्राप्ते ।
  • (3567) तप्तनप्तनथनाश्च <7-1-45>
तस्येत्येव । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । शृणुतेति प्राप्ते तप् । सुनोतन पचन ब्रह्मवाहसे दधस्तन द्रविणं चित्रमस्मे (सुनोतन पचन ब्रह्मवाहसे दधस्त॒न द्रवि॑णं चि॒त्रम॒स्मे) । तनप् । मरुतस्तज्जुजुष्टन (म॒रुत॒स्तज्जु॑जुष्टन) । जुषध्वमिति प्राप्ते व्यत्ययेन परस्मैपदं श्लुश्च । विश्वेदेवदेवासो मरुतो यतिष्ठन (विश्वेदेवासो मरुतो॒ यति॒ष्ठन॑) । यत्संख्याकाः स्थेत्यर्थः । यच्छब्दाच्छान्सो डतिः अस्तेस्तस्य थनादेशः ।
  • (3568) इदन्तो मसि <7-1-46>
मसीत्यविभक्तिको निर्देशः । इकार उच्चारणार्थः । मस् इत्ययमिकार रूपचरमावयवविशिष्टः स्यात् । मस इगागमः स्यादिति यावत् । नमो भरन्त एमसि (नमो॒ भर॑न्त॒ एम॑सि ) । त्वमस्माकं तव स्मसि (त्वम॒स्माकं॒ तव॑ स्मसि) । इमः स्मः इति प्राप्ते ।
  • (3569) क्त्वो यक् <7-1-47>
दिवं सुपर्णो गत्वाय (दिवं॑ सुप॒र्णो ग॒त्वाय॑) ।
  • (3570) इष्ट्वीनमिति च <7-1-48>
क्त्वाप्रत्ययस्य ईनम् अन्तादेशो निपात्यते । इष्ट्वीनं देवान् । इष्ट्वा इति प्राप्ते ।
  • (3571) स्नात्व्यादयश्च <7-1-49>
आदिशब्दः प्रकारार्थः । आकारस्य ईकारो निपात्यते । स्विन्नः स्नात्वी मलादिव (स्वि॒न्नः स्ना॒त्वी मला॑दिव) । पीत्वी सोमस्य वावृधे (पी॒त्वी सोम॑स्य वावृधे) । स्नात्वा पीत्वेति प्राप्ते ।
  • (3572) आज्जसेरसुक् <7-1-50>
अवर्णान्तादङ्गात्परस्य जसोऽसुक् स्यात् । देवासः (दे॒वासः॑) । ब्राह्मणासः (ब्रा॒ह्म॒णासः॑) ।
  • (3573) श्रीग्रामण्योश्छन्दसि <7-1-56>
आमो नुट् श्रीणामुदारो धरुणो रयीणाम् (श्री॒णामु॑दा॒रो ध॒रुणो॑ रयी॒णाम्) । सूतग्रामणीनाम् ।
  • (3574) गोः पदान्ते <7-1-57>
विद्मा हि त्वा गोपतिं शूर गोनाम् (वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना॑म्) । पादान्ते किम् । गवां शता पृक्षयामेषु (गवां॑ श॒ता पृ॒क्षयामेषु) । पादान्तेऽपि क्वचिन्न । छन्दसि सर्वेषां वैकल्पिकत्वात् । विराजं गोपतिं गवाम् (वि॒राजं॒ गोप॑तिं॒ गवा॑म्) ।
  • (3575) छन्दस्यपि दृश्यते <7-1-76>
अस्थ्यादीनामनङ् । इन्द्रो दधीचो अस्थभिः (इन्द्रो॑ दधी॒चो अ॒स्थभिः॑) ।
  • (3576) ई च द्विवचने <7-1-77>
अस्थ्यादीनामित्येव । अक्षीभ्यां ते नासिकाभ्याम् (अ॒क्षीभ्यां॑ ते॒ नासि॑काभ्याम्) ।
  • (3577) दृक्स्ववस्स्वतवसां छन्दसि <7-1-83>
एषां नुम् स्यात्सौ । कीदृङ्ङिन्द्रः (की॒दृङ्ङिन्द्रः॑) । स्ववान् (स्ववा॑न्) । स्वतवान् (स्वत॑वान्) । उदोष्ठ्यपूर्वस्य--2494 ।
  • (3578) बहुलं छन्दसि <7-1-103>
ततुरिः (ततु॑रिः) । जगुरिः पराचैः (जगु॑रिः परा॒चैः) ।
  • (3579) ह्नु ह्वरेश्छन्दसि <7-1-103>
ह्ररेर्निष्ठाया ह्रु आदेशः स्यात् । अह्रुतमसि हविर्धानम् ।
  • (3580) अपरिह्वृताश्च <7-2-32>
पूर्वेण प्राप्तस्यादेशस्याभावो निपात्यते । अपह्वृताः सनुयाम वाजम् (अप॑ह्वृताः सनुयाम॒ वाज॑म्) ।
  • (3581) सोमे ह्वरितः <7-2-33>
इड्गुणौ निपात्येते । मा नः सोमो ह्वरितः (मा नः॒ सोमो॑ ह्वरितः) ।
  • (3582) ग्रसितस्कभितस्तभितोत्तभितचत्तविकस्ताविशस्तृशंस्तृशास्तृतरुतृतरूतृवरुतृवरूतृवरूत्रीरुज्ज्वलितिक्षरितिवमित्यमितीति च । <7-2-34>
अष्टादश निपात्यन्ते । तत्र ग्रसु स्कम्भु स्तम्भु एषामुदित्त्वान्निष्ठायामिट्प्रतिषेधे प्राप्ते इण्निपात्यते । युवं शचीभिर्ग्रसिताममुञ्चतम् (यु॒वं शची॑भिर्ग्रसि॒ताममुञ्चतम्) । विष्कभिते अजरे (विष्क॑भिते अ॒जरे॑) । येन स्वः स्तभितम् (येन॒ स्वः॑ स्तभि॒तम्) । सत्येनोत्तभिता भूमिः (स॒त्येनोत्त॑भिता॒ भूमिः॑) । स्तभितेत्येव सिद्धे उत्पूर्वस्य पुनर्निपातनमन्योपसर्गपूर्वस्य मा भूदिति । चते याचने । कस गतौ । आभ्यां क्तस्येडभावः । चत्तो इतश्चत्तामुतः (च॒त्तो इ॒तश्च॒त्तामुतः॑) । त्रिधा ह श्यावमश्विना विकस्तम् (त्रिधा॑ ह॒ श्याव॑मश्विना॒ विक॑स्तम्) । उत्तानाया हृदयं यद्विकस्तम् । निपातनबहुत्वापेक्षं सूत्रे बहुवचनं विकस्ता इति । तेनैकवचनान्तोऽपि प्रयोगः साधुरेव । शसु शंसु शासु एभ्यस्तृच इडभावः । एकस्त्वष्टुरश्वस्याविशस्ता (एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ता) । ग्रावग्राभ उत शंस्ता (ग्रा॒व॒ग्रा॒भ उ॒त शंस्ता॑) । प्रशास्ता पोता (प्र॒शा॒स्ता पोता॑) । तरतेर्वृङ्वृञोश्च तृच उट् उट् एतावागमौ निपात्येते । तरुतारं रथानाम् (त॒रु॒तारं॒ रथा॑नाम्) । तरूतारम् । वरूतारम् । वरूत्रीभिः सुशरणो नो अस्तु (वरू॑त्रीभिः सुशर॒णो नो॑ अस्तु) । अत्र ङीबन्तनिपातनं प्रपञ्चार्थम् । वरूतृशब्दो हि निपातितः । ततो ङीपा गतार्थत्वात् उज्ज्वलादिभ्यश्चतुर्भ्यः शप इकारादेशो निपात्यते । ज्वल दीप्तौ । क्षर संचलने । टुवम उद्गिरणे । अम गत्यादिषु । इह क्षरितीत्यस्यानन्तरं क्षमितीत्यपि केचित्पठन्ति । तत्र क्षमूष् सहने इति धातुर्बोध्यः । भाषायां तु ग्रस्तस्कब्धोस्तब्धोत्तब्धचतितविकसिताः । विशसिता । शंसिता । शासिता । तरीता । तरिता । वरीता । वरिता । उज्जवलति । क्षरति । पाठान्तरे, क्षमति । वमति । अमति । बभूथाऽततन्थजगृभ्मववर्थेति निगमे 2527 विद्मा तमुत्सु यत आवभूथ (वि॒द्मा तमुत्सु॒ यत॑ आव॒भूथ॑) । येनान्तरिक्षमुर्वाततन्थ (येना॒न्तरि॑क्षमु॒र्वा॑त॒तन्थ॑) । जगृभ्मा ते दक्षिणामिन्द्र हस्तम् (ज॒गृभ्मा ते॒ दक्षि॑णामिन्द्र॒ हस्त॑म्) । त्वं ज्योतिपा वितमो ववर्थ (त्वं ज्योति॑पा॒ वितमो॑ ववर्थ) । भाषायां तु बभूविथ । आतेनिथ । जहृहिम । ववरिथेति ।
  • (3583) सनिंससनिवांसम् <7-2-69>
सनिमित्येतत्पूर्वात्सनतेः सनोतेर्वा क्वसोरिट् एत्वाभ्यासलोपाभावश्च निपात्यते ॥ (अञ्जित्वाग्ने सनिंससनिवांसम्) ॥ पावकादीनां छन्दसि प्रत्ययस्थात्कादित्वं नेति वाच्यम् ॥ हिरण्यवर्णाः शुचयः पावकाः (हिर॑ण्यवर्णाः॒

शुच॑यः पाव॒काः ) ।

  • (3584) घोर्लोपो लेटि वा <7-2-70>
दधद्रत्नानि दाशुपे (दध॒द्रत्ना॑नि दा॒शुपे॑) । सोमो ददद्गन्धर्वाय (सोमो॑ ददद्गन्ध॒र्वाय॑) । यदग्निरग्नय ददात् (यद॒ग्निर॒ग्नय॑ ददात्) ।
  • (3585) मीनातेर्निगमे <7-3-81>
शिति ह्रस्वः । प्रमिणन्ति व्रतानि (प्रमि॑णन्ति व्र॒तानि॑) । लोके प्रमीणन्ति । अस्तिसिचोऽपृक्ते 2225 ।
  • (3586) बहुलं छन्दसि <7-3-97>
सर्वमा इदम् (सर्व॑मा इ॒दम्) । आसीदिति प्राप्ते ॥ (अस्तेर्लङ् तिप्ईडभाव अपृक्तत्वाद्धल्ङ्यादिलोपः । रुत्वविसर्गौ । संहितायां तु भोभगो--167 इति यत्वम् । लोपः शाकल्यस्य 67 इति यलोपः । गोभिरक्षाः (गोभि॒रक्षाः॑) । सिच इडभावश्छान्दसः । अट् । शेषं पूर्ववत् ।) ठह्रस्वस्य गुणः 242 । जसि च 241 ॥ जसादिषु छन्दसि वावचनं प्राङ् णौ चङ्युपधायाः ॥ अधा शतकत्वो यूयम् (अधा॑ शतकत्वो यू॒यम्) । शतकतवः । पश्वेनृभ्यो यथा गवे (पश्वे॒नृभ्यो॒ यथा॒ गवे॑) । पशवे ॥ ठनाभ्यस्तस्याचि 2503 इति निषेधे बहुलं छन्दसीति वक्तव्यम् ॥ अनुषग्जुजोपत् (अनु॒षग्जुजो॑पत्) ।
  • (3587) नित्यं छन्दसि <7-4-8>
छन्दसि विषये चङ्युपधाया ऋवर्णस्य ऋन्नित्यम् । अवीवृधत् ।
  • (3588) न छन्दस्यपुत्रस्य <7-4-35>
पुत्रभिन्नस्यादन्तस्य क्यचि ईत्वदीर्घौ न । मित्रयुः । क्याच्छन्दसि 3150 इति उः । अपुत्रस्य किम् । पुत्रीयन्तः सुदानवः (पु॒त्रीयन्तः॑ सु॒दान॑वः) ॥ अपुत्रादीनामिति वाच्यम् ॥ जनीयन्तोन्वग्रवः (ज॒नी॒यन्तोन्वग्र॑वः) । जनमिच्छन्त इत्यर्थः ।
  • (3589) दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति <7-4-36>
एते क्यचि निपात्यन्ते । भाषायां तु उप्रत्ययाभावात् दुष्टीयति । द्रविणीयति । वृषीयति । रिष्टीयति ।
  • (3590) अश्वाघस्यात् <7-4-37>
अश्व अघ एतयो क्यचि आत्स्याच्छन्दसी । अश्वायन्तो मघवन् (अ॒श्वा॒यन्तो॑ मघवन्) । मात्वा वृका अघायवः । न च्छन्दसि-3588 इति निषेधो नेत्वमात्रस्य किं तु दीर्घस्यापीति । अत्रेदमेव सूत्रं ज्ञापकम् ।
  • (3591) देवसुम्नयोर्यजुषि काठके <7-4-38>
अनयोः क्यचि आत्स्याद्यजुषि कठशाखायाम् । देवायन्तो यजमानाः । सुम्नायन्तो हावमहे (सु॒म्ना॒यन्तो॑ हवामहे) । इह यजुःशब्दो न मन्त्रमात्रपरः किंतु वेदोपलक्षकः । तेन ऋगात्मकेऽपि मन्त्रे यजुर्वेदस्थे भवति । किं च ऋग्वेदेऽपि भवति । स चेन्मन्त्रो यजुषि कठशाखायां दृष्टः । यजुषीति किम् । देवाञ्जिगाति सुम्नयुः (दे॒वाञ्जि॑गाति सुम्न॒युः) । बह्वृचानामप्यस्ति कठशाखा ततो भवति प्रत्युदाहरणमिति हरदत्तः ।
  • (3592) कव्यध्वरपृतनस्यर्चि लोपः <7-4-39>
एषामन्त्यस्य लोपः स्यात् क्यचि ऋग्विषये । सपूर्वया निविदा कव्यतायोः (सपूर्व॑या नि॒विदा॑ क॒व्यता॒योः) । अध्वर्युं वा मधुपाणिम् । दमयन्तं पृतन्युम् (द॒मय॑न्तं पृत॒न्युम्) । दधातेर्हि 3076 । जहातेश्च क्त्वि 3331 ।
  • (3593) विभाषा छन्दसि <7-4-44>
हित्वा शरीरम् । हीत्वा वा ।
  • (3594) सुधित वसुधित नेमधित धिष्व धिषीय च <7-4-45>
सु वसु नेम एतत्पूर्वस्य दधाते क्तप्रत्यये इत्वं निपात्यते । गर्भं माता सुधितं वक्षणासु (गर्भं॑ मा॒ता सुधि॑तं व॒क्षणा॑सु) । वसुधितमग्नौ । नेमधिता न पौंस्या (ने॒मधि॑ता॒ न पौंस्या॑) ।

क्तिन्यपि दृश्यते । उत श्वेतं वसुधितिं निरेके (उ॒त श्वे॒तं वसु॑धितिं निरे॒के) । धिष्ववज्रं दक्षिण इन्द्र हस्ते (धि॒ष्ववज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॑) । धत्स्वेति प्राप्ते । सुरेता रेतो धिषीय । आशीर्लिङि इट् । इटोऽत् 2257 । धीसीयेति प्राप्ते । अपोभि 442 ॥ मासश्छन्दसीति वक्तव्यम् ॥ माद्भिः । शरद्भिः (श॒रद्भिः॑) ॥ स्ववःस्वतवसोरुषसश्चेष्यते ॥ स्ववद्भिः (स्वव॒द्भिः) । समुषद्भिरजायथाः (समु॒षद्भि॑रजायथाः) । मिथुनेऽसिः । वसेः उषः किदिति प्राग्व्याख्यातम् । व कवतेर्यङि 2641 ।

  • (3595) कृषेश्छन्दसि <7-4-64>
यङि अभ्यासस्य चुत्वं न । करीकृष्यते ।
  • (3596) दाधर्तिदर्धर्ति दर्धर्षि बोभूतु तेतिक्तेऽलर्ष्याऽऽपनीफणत्संसनिष्यदत्करिक्रत्कनिक्रदद्भरिभ्रद्दविध्वतोदविद्युतरित्रतः सरीसृपतं वरीवृजन्मर्मृज्याऽऽगनीगन्तीति च <7-4-62>
एतेष्टादश निपात्यन्ते । आद्यास्त्रयो धृङो धारयतेर्वा । भवतेर्यङ्लुगन्तस्य गुणाभावः । तेन भाषायां गुणो लभ्यते । तिजेर्यङ्लुगन्तात्तङ् । इयर्तेर्लटि हलादिःशेषापवादो रेफस्य लत्वमित्वाभावश्च निपात्यते । अलर्षि युध्म खजकृत्पुरन्दर (अल॑र्षि युध्म खजकृत्पुरन्दर) । सिपा निर्देशो न तन्त्रम् । अलर्ति दक्ष उत (अल॑र्ति॒ दक्ष॑ उ॒त) । फणतेराङ्पूर्वस्य यङ्लुगन्तस्य शतरि अभ्यासस्य नीगागमो निपात्यते । अन्वापनीफणत् (अन्वा॒पनी॑फणत्) । स्यन्देः संपूर्वस्य यङ्लुकि शतरि अभ्यासस्य निक् । धातुसकारस्य षत्वम् । करोतेर्यङ्लुगन्तस्याभ्यासस्य चुत्वाभावः । क्रन्देर्लुङिच्लेरङ्द्विर्वचनमभ्यासस्य चुत्वाभावो निगागमश्च । कनिक्रदज्जनुपम् (कनि॑क्रदज्ज॒नुप॑म्) । अक्रन्दीदित्यर्थः । बिभर्तेरभ्यासस्य जश्त्वाभावः । वि यो भरिभ्रदोषधीषु (वि यो भरि॑भ्र॒दोष॑धीषु) । ध्वरतेर्यङ्लुगन्तस्य शतरि अभ्यासस्य विगागमो धातोर्ऋकारलोपश्च । दविध्वतो रश्मयः सूर्यस्य (दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य) । द्युतेरभ्यासस्य संप्रसारणाभावोऽत्वं विगागमश्च । दविद्युतद्दीद्यच्छोशुचानः (दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः) । तरतेः शतरि श्लौ द्वितीयैकवचने रीगागमोऽभ्यासस्य । वृजेः शतरि श्लावभ्यासस्य रीक् । मृजेर्लिटि णल् अभ्यासस्य रुक् धातोश्च युक् । गमेराङ्पूर्वस्य लटि श्लावभ्यासस्य चुत्वाभावो नीगागमश्च । वक्ष्यन्ती वेदागनीगन्ति कर्णम् (वक्ष्यन्ती॒ वेदाग॑नीगन्ति कर्ण॑म्) ।
  • (3597) ससूवेति निगमे <7-4-74>
सूतेर्लिटि परस्मैपदं वुगागमोऽभ्यासस्य चात्वं निपात्यते । गृष्टिः ससूव स्थविरम् (गृ॒ष्टिः स॑सूव स्थवि॑रम्) । सुपुवे इति भाषायाम् ।
  • (3598) बहुलं छन्दसि <7-4-78>
अभ्यासस्य इकारः स्याच्छन्दसि । पूर्णां विवष्टि (पूर्णां विव॑ष्टि) । वशेरेतद्रूपम् ॥
  • (3599) प्रसमुपोदः पादपूरणे <8-1-6>
एषां द्वे स्तः पादपूरणे । प्रपायमग्निः । संसमिद्युवसे (संसमिद्यु॑वसे) । उपोप मे परामृश (उपो॑प मे परा॑मृश) । किं नोदुदु हर्पसे (किं नोदु॑दु हर्पसे) ।
  • (3600) छन्दसीरः <8-2-15>
इवर्णान्ताद्रेफान्ताच्च परस्य मतोर्मस्य वः स्यात् । हरिवते हर्यश्वाय (हरि॑वते॒ हर्य॑श्वाय) । गीर्वान् ।
अन्नन्तान्मतोर्नुट् स्या । अक्षण्वन्तः कर्णवन्तः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः) । अस्थन्वन्तं यदनस्था (अ॒स्थ॒न्वन्तं॒ यद॑न॒स्था) ।
  • (3602) नाद्धस्य <8-2-17>
नान्तात्परस्य घस्य नुट् । सुपथिन्तरः ॥ भूरिदान्नस्तुड्वाच्यः ॥ भूरिदावत्तरो जनः (भू॒रि॒दाव॑त्तरो जनः॑) ॥ ईद्रथिनः ॥ रथीतरः (र॒थीत॑रः) । रथीतमं रथीनाम् (र॒थीत॑मं र॒थीना॑म्) ।
  • (3603) नसत्तनिषत्तानुत्तप्रतूर्तसूर्तगूर्तानि छन्दसि <8-2-61>
सदेर्नञ्पूर्वान्निपूर्वाच्च निष्ठायां नत्वाभावो निपात्यते । नसत्तमञ्जसा । निपत्तमस्य चरतः । असन्नं निषण्णमिति प्राप्ते । उन्देर्नञ्पूर्वस्यानुत्तम् । प्रतूर्तमिति त्वरतेः, तुर्वीत्यस्य वा । सूर्तमिति सृ इत्यस्य । गूर्तमिति गुरी इत्यस्य ।
  • (3604) अम्नरूधरवरित्युभयथा छन्दसि <8-2-70>
रुर्वा रेफो वा । अम्न एव । अम्नरेव । ऊध एव । ऊधरेव । अवएव । अवरेव ।
  • (3605) भुवश्च महाव्याहृतेः <8-2-71>
भुव इति (भुव॒ इति॑) । भवरिति (भुव॒रिति॑) ॥
  • (3606) ओमभ्यादाने <8-2-7>
ओंशब्दस्य प्लुतः स्यादारम्भे । ओ3म् अग्निमीळे पुरोहितम् (ओ3म् अ॒ग्निमी॑ळे पु॒रोहि॑तम्) । अभ्यादाने किम् । ओमित्येकाक्षरम् ।
  • (3607) यो यज्ञकर्मणि <8-2-88>
ये3यजामहे । यज्ञेति किम् । ये यजामहे ।
  • (3608) प्रणवष्टेः <8-2-89>
यज्ञकर्मणि टेरोमित्यादेशः स्यात् । अपां रेतांसि जिवन्तो3म् (अ॒पां रेतां॑सि जिवन्तो3म्) । टेः किम् । हलन्ते अन्त्यस्य माभूत् ।
  • (3609) याज्यान्तः <8-2-90>
ये याज्या मन्त्रास्तेषामन्त्यस्य टे प्लुतो यज्ञकर्मणि । जिह्वामगग्ने चकृषे हव्यवाहा3म् (जि॒ह्वाम॑ग्ने चकृषे हव्यवाहा3म्) । अन्तः किम् । याज्यानामृचां वाक्यसमुदाय रूपाणां प्रतिवाक्यं टेः स्यात् । सर्वान्त्यस्य चेत्यते ।
  • (3610) ब्रूहिप्रेष्यश्रौषड्वौषडावहानामादेः <8-2-91>
एषामादेः प्लुतो यज्ञकर्मणि । अग्नयेनुब्रू3हि । अग्नये गोमयानि प्रे3ष्य । अस्तु श्रौ3षट् । सोमस्याग्ने वीही वौ3षट् । अग्निमा3वह ।
  • (3611) अग्नीत्प्रेषणे परस्य च <8-2-92>
अग्नीधः प्रेषणे आदेः प्लुतस्तस्मात्परस्य च । ओ3श्रा3वय ।
  • (3612) विभाषा पृष्टप्रतिवचने हेः <8-2-93>
प्लुतः अकार्षीः कटम् । अकार्षं हि3 । अकार्षं हि । पृष्टेति किम् कटं करिष्यति हि । हेः किम् । कटं करोति ननु ।
  • (3613) निगृह्यानुयोगे च <8-2-94>
अत्र यद्वाक्यं तस्य टेः प्लुतो वा । अद्यामावास्येत्यात्थ3 । अमावास्येत्येवंवादिनं युक्त्या स्वमतात्प्रच्याव्य एवमनुयुज्यते ।
  • (3614) आम्रेडितं भर्त्सने <8-2-95>
दस्यो3दस्यो3घातयिष्यामि त्वाम् । आम्रेडितग्रहणं द्विरुक्तोपलक्षणम् । चौर3 चौर3 ।
  • (3615) अङ्गयुक्तं तिङाकाङ्क्षम् <8-2-96>
अङ्गेत्यनेन युक्तं तिङन्तं प्लवते । अङ्ग कूज3 इदानीं ज्ञास्यसिजाल्म । तिङ् किम् । अङ्ग देवदत्त मिथ्या वदसि । आकाङ्क्षं किम् । अङ्ग पच । नैतदपरमाकाङ्क्षति । भर्त्सन इत्येव । अङ्गाधीष्व भक्तं तव दास्यामि ।
  • (3616) विचार्यमाणानाम् <8-2-97>
वाक्यानां टेः प्लुतः । होतव्यं दीक्षितस्य गृहा3इ । न होतव्य3मिति । होतव्यं न होतव्यमिति विचार्यते । प्रमाणैर्वस्तुतत्त्वपरीक्षणं विचारः ।
  • (3617) पूर्वं तु भाषायाम् <8-2-98>
विचार्यमाणानां पूर्वमेव प्लवते । अहिर्नु3 रज्जुर्नु । प्रयोगापेक्षं पूर्वत्वम् । भाषाग्रहणात्पूर्वयोगश्छन्दसीति ज्ञायते ।
  • (3618) प्रतिश्रवणे च <8-2-99>
वाक्यस्य टे प्लुतोऽभ्युपगमे प्रतिज्ञाने श्रवणाभिमुख्ये च । गां मे देहि भोः । हन्त ते ददामि3 । नित्यः शब्दो भवितुमर्हति 3 । दत्त किमात्थ3 ।
  • (3619) अनुदात्तं प्रश्नान्ताभिपूजितयोः <8-2-100>
अनुदात्तः प्लुतः स्यात् । दूराद्धूतादिषु सिद्धस्य प्लुतस्यानुदात्तत्वमात्रमनेन विधीयते । अग्निभूत 3 इ । पट 3 उ । अग्निभूते पटो एतयोः प्रश्नान्ते टेरनुदात्तः प्लुतः । शोभनः खल्वसि माणवक3 ।
  • (3620) चिदिति चोपमार्थे प्रयुज्यमाने <8-2-101>
वाक्यस्य टेरनुदात्तः प्लुतः अग्निचिद्भाया3त् अग्निरिव भायात् । उपमार्थे किम् । कथंचिदाहुः प्रयुज्यमाने किम् । अग्निर्माणवको भायात् ।
  • (3621) उपरिस्विदासीदिति च <8-2-102>
टेः प्लुतोऽनुदात्तः स्यात् । उपरिस्विदासी 3 त् (उ॒परि॑स्विदासी 3 त्) । अधः स्विदासी 3 त् (अ॒धः स्वि॑दा॒सी 3 त्) इत्यत्र तु विचार्यमाणानाम् 3616 इत्युदात्तः प्लुतः ।
  • (3622) स्वरितमाम्रेडितेऽसूयासंमतिकोपकुत्सनेषु <8-2-103>
स्वरितः प्लुतः स्यादाम्रेडिते परेऽसूयादौ गम्ये । असूयायाम् । अभिरूपक3 अभिरूपकरिक्तं ते आभिरूप्यम् । संमतौ । अभिरूपक 3 अभिरूपक शोभनोऽसि । कोपे । अविनीतक 3 अविनीतक इदानीं ज्ञास्यसि जाल्म । कुत्सने । शाक्तीक 3 शाक्तीकरिक्ता ते शक्तिः ।
  • (3623) क्षियाशीःप्रैषेषु तिङाकाङ्क्षम् <8-2-104>
आकाङ्क्षस्य तिङन्तस्य टेः स्वरितः प्लुतः स्यादाचारभेदे । स्वयं ह रथेन याति 3 उपाध्यायं पदातिं गमयति । प्रार्थनायाम् । पुत्रंश्च लप्सीष्ट 3 धनं च तात । व्यापारणे । कटं कुरु 3 ग्रामं गच्छ । आकाङ्क्षं किम् । दीर्घायुरसि अग्नीदग्नीन्विहर ।
  • (3624) अनन्त्यस्यापि प्रश्नाख्यानयोः <8-2-105>
अनन्त्यस्यान्त्यस्यापि पदस्य टेः स्वरितः प्लुतः एतयोः । अगमः 3पूर्वा 3 न् ग्रामा 3 न् । सर्वपदानामयम् । आख्याने । अगम3 म् पूर्वा 3 न् ग्रामा 3 न् ।
  • (3625) प्लुतावैच इदुतौ <8-2-106>
दूराद्धूतादिषु प्लुतो विहितस्तत्रैव ऐचः प्लुतप्रसङ्गे तदवयवाविदुतौ प्लवेते । ऐ 3 तिकायन । औ 3 पगव । चतुर्मात्रावत्र ऐचौ संपद्येते ।
  • (3626) एचोऽप्रगृह्यस्यादूराद्धूते पूर्वस्यार्धस्याऽऽदुत्तरस्येदुतौ <8-2-107>
अप्रगृह्यस्य एचोऽदूराद्धूते प्लुतविषये पूर्वस्यार्धस्याकारः प्लुतः स्यादुत्तरस्य त्वर्धस्य इदुतौ स्तः ॥ प्रश्नान्ताभिपूजितविचार्यमाणप्रत्यभिवादयाज्यान्तेष्वेव ॥ प्रश्नान्ते । अगमः 3 पूर्वा 3 न् ग्रामा 3 न् । अग्निभूत 3 इ । अभिपूजिते । करोषि पट 3 उ । विचार्यमाणे । होतव्यं दीक्षितस्य गृह 3 इ । न होतव्य 3 मिति । प्रत्यभिवादे । आयुष्मानेधि अग्निभूत 3 इ । याज्यान्ते । स्तोर्मैर्विधेमा॒ग्नया 3 इ । परिगणनं किम् । विष्णुभूते घातयिष्यामि त्वाम् । अधूराद्धूत इति न वक्तव्यम् । पदान्तग्रहणं तु कर्तव्यम् । इह माभूत् । भद्रं करोषि गौरिति । अप्रगृह्यस्य किम् । शोभने माने ॥ आमन्त्रिते छन्दसि प्लुतविकारोऽयं वक्तव्यः ॥ अग्न 3 इ पत्नी वः ।
  • (3627) तयोर्य्वावचि संहितायाम् <8-2-108>
इदुतोर्यकारवकारौ स्तोऽचि संहितायाम् । अग्न 3 याशा । पट 3 वाशा । अग्न 3 यिन्द्रम् । पट 3 वुदकम् । अचि किम् । अग्ना 3 इ वरुणौ । संहितायां किम् । अग्न 3 इ इन्द्रः । संहितायामित्यध्यायसमाप्तेरधिकारः । इदुतोरसिद्धत्वादयमारम्भः सवर्मदीर्घत्वस्य शाकल्यस्य च निवृत्त्यर्थम् । यवयोरसिद्धत्वात् उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य 3657 इत्यस्य बाधनार्थो वा ।
  • (3628) मतुवसो रु संबुद्धौ छन्दसि <8-2-1>
रु इत्यविभक्तिको निर्देशः । मत्वन्तस्य वस्वन्तस्य च रुः स्यात् । अलोऽन्त्यस्य 42 इति परिभाषया नकारस्य । इन्द्र मरुत्व इह पाहि सोमम् (इन्द्र॑ मरुत्व इ॒ह पा॑हि सोम॑म्) । हरिवो मेदिनं त्वा (हरिवो मे॒दिनं॑ त्वा) । छन्दसीरः 3600 इति वत्वम् ।
  • (3629) दाश्वान्साह्वान्मीढ्वांश्च <6-1-12>
एते क्वस्वन्ता निपात्यन्ते । मीढ्वस्तोकाय तनयाय (मीढ्व॑स्तो॒का॒य तन॑याय) ॥ वन उपसंख्यानम् ॥ क्वनिब्वनिपोः सामान्यग्रहणम् । अनुबन्धपरिभाषा तु नोपतिष्ठते । अनुबन्धस्येहानिर्देशात् । यस्त्वायन्तं वसुना प्रातरित्वः (यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वः) । इणः क्वनिप् ।
  • (3630) उभयथर्क्षु <8-3-8>
अम्परे छवि नकारस्य रुर्वा । पशून्तांश्चक्रे (प॒शून्तांश्च॑क्रे) ।
  • (3631) दीर्घादटि समानपादे <8-3-9>
दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । देवां अच्छा सुमती (दे॒वां अच्छा॑ सुम॒ती) । महां इन्द्रो य ओजसा (म॒हां इन्द्रो॒ य ओज॑सा) । उभयथेत्यनुवृत्तेर्नेह । आदित्यान्याचिषामहे (आ॒दित्यान्या॑चिषामहे) ।
  • (3632) आतोऽटि नित्यम् <8-3-3>
अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महॉं इन्द्रः (म॒हॉं इन्द्रः॑) । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ।
  • (3633) स्वतवान्पायौ <8-3-11>
रुर्वा । भवस्तस्य स्वतवॉं पायुरग्ने (भुव॒स्तस्य॒ स्वत॑वॉं पा॒युर॑ग्ने) ।
  • (3634) छन्दसि वाऽप्राम्रेडितयोः <8-3-49>
विसर्गस्य सो वा स्यात् कुप्वोः प्रशब्दमाम्रेडितं च वर्जयित्वा । अग्ने त्रातर्ऋतस्कविः (अग्ने त्रातर्ऋ॒तस्क॒विः) । गिरिर्न विश्वतस्पृथुः (गि॒रिर्न वि॒श्वत॑स्पृ॒थुः) । नेह । वसुनः पूर्व्यस्पतिः (वसु॑नः पू॒र्व्यस्पतिः॑) । अप्रेत्यादि किम् । अग्निः प्रविद्वान् । परुषः परुषः (परु॑षः परुषः) ।
  • (3635) कःकरत्करतिकृधिकृतेश्वनदितेः <8-3-50>
विसर्गस्य सः स्यात् । प्रदिवो अपस्कः (प्र॒दिवो॒ अप॒स्कः) । यथा नो वस्यसस्करत् (यथा॑ नो॒ वस्य॑स॒स्कर॑त्) । सुपेशसस्करति (सु॒पेश॑सस्करति॒) । उरुणस्कृधि (उ॒रुण॑स्कृधि) । सोमं न चारु मघवत्सु नस्कृतम् (सोमं॒ न चारुं॑ म॒घव॑त्सु नस्कृतम्) । अनदितेरिति किम् । यथा नो अदितिः करत् (यथा॑ नो॒ अदि॑तिः॒ कर॑त्) ।
  • (3636) पञ्चम्याः परावध्यर्थे <8-3-51>
पञ्चमीविसर्गस्य सः स्यादुपरिभवार्थे परिशब्दे परतः । दिवस्परि प्रथमं जज्ञे (दि॒वस्परि॑ प्रथमं ज॑ज्ञे) । अध्यर्थे किम् । दिवस्पृथिव्याः पर्योजः (दि॒वस्पृ॑थि॒व्याः पर्योजः॑) ।
  • (3637) पातौ च बहुलम् <8-3-52>
पञ्चम्या इत्येव । सूर्यो नो दिवस्पातु (सूर्यो॑ नो दि॒वस्पा॑तु) ।
  • (3638) षष्ठ्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु <8-3-53>
वाचस्पतिं विश्वकर्माणम् (वा॒चस्पतिं॑ वि॒श्वक॑र्माणम्) । दिवस्पुत्राय सूर्याय (दि॒वस्पु॑त्राय

सूर्या॑य) । दिवस्पृष्ठं भनभन्दमानः (दि॒वस्पृ॒ष्ठं भन्द॑मानः) । तमसस्पारमस्य (तम॑सस्पा॒रम॒स्य) । परिवीत इळस्पदे (परि॑वीत इ॒ळस्प॒दे) । दिवस्पयो दिधिषाणाः (दि॒वस्पयो॒ दिधि॑षाणाः) । रायस्पोषं यजमानेषु (रा॒यस्पोषं॒ यज॑मानेषु) ।

पतिपुत्रादिषु परेषु । इलायास्पुत्रः (इळा॑यास्पुत्रः) । इळायाः पुत्रः । इळायास्पदे (इळा॑यास्प॒दे) । इळायाः पदे । निसस्तपतावनासेवने 2403 निसः सकारस्य मूर्धन्यः स्यात् । निष्टप्तं रक्षो निष्टप्ता अरातयः (निष्ट॑प्तं रक्षो॒ निष्ट॑प्ता॒ अरा॑तयः) । अनासेवने किम् । निस्तपति । पुनःपुनस्तपतीत्यर्थः ।
  • (3640) युष्मत्तत्ततक्षुष्वन्तःपादम् <8-3-103>
पादमध्यस्थस्य सस्य मूर्धन्यः स्यात्तकारादिष्वेषु परेषु । युष्मदादेशाः त्वंत्वातेतवाः । त्रिभिष्ट्वं देव सवितः (त्रि॒भिष्ट्वं दे॑व सवितः) । तेभिष्ट्वा (तेभि॑ष्ट्वा) । आभिष्टे (आभिष्टे॑) । अप्स्वग्ने सधिष्टव (अ॒प्स्व॑ग्ने सधि॒ष्टव॑) । अग्निष्टद्विश्वम् (अ॒ग्निष्टद्विश्व॑म्) । द्यावा पृथिवी निष्टतक्षुः (द्यावा॑ पृथि॒वी नि॑ष्टत॒क्षुः) । अन्तः पादं किम् । तदग्निस्तदर्यमा (तद॒ग्निस्तद॑र्य॒मा) । यन्म आत्मनो मिन्दाभूदग्निस्तत्पनराहार्जातवेदा विचर्षणिः (यन्म॑ आ॒त्मनो॑ मि॒न्दाभू॑द॒ग्निस्तत्पुन॒राहा॑र्जा॒तवे॑दा विच॑र्षणिः) । अत्राग्निरिति पूर्वपादस्यान्तो न तु मध्यः ।
  • (3641) यजुष्येकेषाम् <8-3-104>
युष्मत्तत्ततक्षुषु परतः सस्य मूर्धन्यो वा । अर्चिभिष्ट्वम् । अग्निष्टे अग्रम् । अर्चिभिष्टतक्षुः । पक्षे अर्चिभिस्त्वमित्यादि ।
  • (3642) स्तुतस्तोमयोश्छन्दसि <8-3-105>
नृभिष्टुतस्य । नृभिःस्तुतस्य । गोष्टोमम् । गोस्तोमम् । पूर्वपदादित्येव सिद्धे प्रपञ्चार्थमिदम् ।
  • (3643) पूर्वपदात् <8-3-106>
पूर्वपदस्थान्निमित्तात्परस्य सस्य षो वा । यदिन्द्राग्नी दिविष्ठः (यदि॑न्द्राग्नी दि॒विष्ठः) । युवं हि स्थः स्वर्पती (यु॒वं हि स्थः स्व॑र्पती) ।
पूर्वपदस्थान्निमित्तात्परस्य सुञो निपातस्य सस्य षः । ऊर्ध्व ऊषुणः (ऊ॒र्ध्व ऊषुणः॑) । अभीषुणः (अ॒भीषुणः॑) ।
गोषा इन्दो नृषा असि (गो॒षा इ॑न्दो नृ॒षा अ॑सि) । अनः किम् । गोसनिः ।
  • (3646) सहेः पृतनर्ताभ्यां च <8-3-109>
पृतनाषाहम् । ऋताषाहम् । चात् ऋतीषाहम् ।
  • (3647) निव्यभिभ्योङ्रव्यवाये वा छन्दसि <8-3-119>
सस्य मूर्धन्यः । न्यषीदत् । न्यसीदत् । व्यषीदत् । व्यसीदत् । अभ्यष्टौत् । अभ्यस्तौत् ।
  • (3648) छन्दस्यृवग्रहात् <8-4-27>
ऋकारान्तादवग्रहात्परस्य नस्य णः । नृमणाः । पितृयाणम् ।
  • (3649) नश्च धातुस्थोरुषुभ्यः <8-4-27>
धातुस्थात् । अग्ने रक्षा णः (अग्ने॒ रक्षा॑ णः) । शिक्षा णो अस्मिन् (शिक्षा॑ णो अ॒स्मिन्) । उरु णस्कृधि (उ॒रु ण॑स्कृधि) । अभीषु णः (अ॒भीषु णः॑) । मो षु णः (मो षु णः॑) ॥ इत्यष्टमोऽध्यायः ॥
इति वैदिकप्रकरणम्‌

स्वरप्रकरणम्‌

सम्पाद्यताम्
  • (3650) अनुदात्तं पदमेकवर्जम् <6-1-158>
परिभाषेयं स्वरविधिविषया । यस्मिन्पदे यस्योदात्तः स्वरितो वा विधीयते तमेकमचं वर्जयित्वा शेषं

तत्पदमनुदात्ताच्कं स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । अत्र सनाद्यन्ताः--2304 इति धातुत्वे धातुस्वरेण यकाराकार उदात्तः शिष्टमनुदात्तम् ॥ सति शिष्टस्वरबलीयस्त्वमन्यत्र विकरणेभ्य इति वाच्यम् ॥ तेनोक्तोदाहरणे गुपेर्धातुस्वर आयस्य प्रत्ययस्वरश्च न शिष्यते । अन्त्रेति किम् । यज्ञं यज्ञम्भिवृधे गृणीतः (य॒ज्ञं य॑ज्ञम॒भिवृ॒धे गृ॑णी॒तः) । अत्र सति शिष्टोऽपि श्ना इत्यस्य स्वरो न शिष्यते किं तु तस एव ।

  • (3651) अनुदात्तस्य च यत्रोदात्तलोपः <6-1-161>
यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् (दे॒वीं वाच॑म्) । अत्र ङीबुदात्तः ।
लुप्ताकारेऽञ्चतौ परे पूर्वस्यान्तोदात्तः स्यात् । उदात्तनिवृत्तिस्वरापवादः । देवद्रीचीं नयत देवयन्तः (दे॒व॒द्रीचीं॑ नयत देव॒यन्तः॑) ॥ अतद्धित इति वाच्यम् ॥ दाधीचः । माधूचः । प्रत्ययस्वर एवात्र ।
  • (3653) आमन्त्रितस्य च <6-1-198>
आमन्त्रित स्यादिरुदात्तः स्यात् । अग्न इन्द्र वरुण मित्र देवाः (अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॑) ।
  • (3654) आमन्त्रितस्य च <8-1-19>
पदात्परस्यापादादिस्थितस्यामन्त्रितस्य सर्वस्यानुदात्तः स्यात् । प्रागुक्तपाष्टस्यापवादोऽयमाष्टमिकः । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) । अपादादौ किम् । शुतुद्रि स्तोमम् (शुतु॑द्रि॒ स्तोम॑म्) । आमन्त्रितं पूर्वमविद्यमानवत् 412 । अग्न॒ इन्द्र॑ । अत्रेन्द्रादीनां निघातो न । पूर्वस्याविद्यमानत्वेन पदात्परत्वाभावात् । नामन्त्रिते समानाधिकरणे सामान्यवचनम् 413 समानाधिकरण आमन्त्रिते परे विशेष्यं पूर्वमविद्यमानवन्न । अग्ने तेजस्विन् (अग्ने॑ तेजस्विन्) । अग्ने त्रातः (अग्ने॑ त्रातः) । सामान्यवचनं किम् । पर्यायेषु मा भूत् । अघ्न्ये देवि सरस्वति (अघ्न्ये॑ देवि सरस्वति) ।
  • (3655) (सामान्यवचनं) विभाषितं विशेषवचने <8-1-74>
अत्र भाष्यकृता बहुवचनमिति पूरितम् । सामान्यवचनमिति च पूर्वसूत्रे योजितम् । आमन्त्रितान्ते विशेषणे परे पूर्वं बहुवचनान्तमविद्यमानवद्वा । द्वेवीः पलुर्वीरुरु नः कृणोत (द्वेवीः॑ पलुर्वीरु॒रु नः॑ कृणोत) । अत्र देवीनां विशेषणं षडिति । देवाशरण्याः । इह द्वितीयस्य निघातो वैकल्पिकः ।
  • (3656) सुवामन्त्रिते पराङ्गवत्सरे <2-1-2>
सुबन्तमामन्त्रिते परे परस्याङ्गवत्स्वरे कर्तव्ये । द्रवत्पाणी शुभस्तपती (द्रव॑त्पाणी॒ शुभ॑स्पती) । शुभ इति शुभेः क्विबन्तात्षष्ठ्यन्तस्य परशरीरानुप्रवेशे पाष्ठिकमामन्त्रिताद्युदात्तत्वम् । न चाष्टमिको निघातः शङ्क्यः । पूर्वामन्त्रितस्याविद्यमानत्वेन पादादित्वात् । यत्ते दिवो दुहितर्मर्त भोजनम् (यत्ते॑ दिवो दुहितर्मर्त॒ भोज॑नम्) । इह दिवःशब्दस्याष्टमिको निघातः । परशुना वृश्चन् ॥ षष्ठ्यामन्त्रितकारकवचनम् ॥ षष्ठ्यन्तमामन्त्रितान्तं प्रति यत्कारकं तद्वाचकं चेति परिगणनं कर्तव्यमित्यर्थः । तेनह न । अयमग्ने जरिता (अ॒यम॑ग्ने जरि॒ता ) । एतेनाग्ने ब्रह्मणा (ए॒तेना॑ग्ने॒ ब्रह्म॑णा) । समर्थानुवृत्त्या वा सिद्धम् ॥ पूर्वाङ्गवच्चेति वक्तव्यम् ॥ आ ते पितर्मरुताम् (आ ते॑ पितर्मरुताम्) । प्रति त्वा दुहितर्दिवः (प्रति॑ त्वा दुहितर्दिवः) ॥ अव्ययानां न ॥ उच्चारधीयान ॥ अव्ययीभावस्य त्विष्यते ॥ उपाभ्यधीयान ।
  • (3657) उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य <8-2-4>
उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ।
  • (3658) एकादेश उदात्तेनोदात्तः <8-2-5>
उदात्तेन सहैकादेश उदात्तः स्यात् । वोऽश्वाः । क्वावरं भरुतः (क्वाव॑रं भरुतः) ।
  • (3659) स्वरितो वानुदात्तो पदादौ <8-2-6>
अनुदात्ते पदादौ परे उदात्तेन सहैकादेशः स्वरितो वा स्यात् । पक्षे पूर्वसूत्रेणोदात्तः । वी1दं ज्योतिर्ह्रदये (वी॑1॒दं॒ ज्योति॒र्हृद॑ये) । अस्य श्लोको दिवीयते (अस्य श्लोको॑ दि॒वीय॑ते) । व्यवस्थितविभाषात्वादिकारयोः स्वरितः । दीर्घप्रवेशे तूदात्तः । किं च एङः पदान्तात्-86 इति पूर्वरूपे स्वरित एव । तेऽवदनम् (ते॑ऽवदनम्) । सो 3 यमागात् (सो॒ 3॒॑ यमागा॑त्) । उक्तं च प्रातिशाख्ये । इकारयोश्च प्रश्लेषे क्षैपाभिनिहतेषु चेति ।
  • (3660) उदात्तादनुदात्तस्य स्वरितः <8-4-66>
उदात्तात्परस्यानुदात्तस्य स्वरितः स्यात् । अग्निमीळे (अ॒ग्निमी॑ळे) । अस्याप्यसिद्धत्वाच्छेषनिघातो न । तमीशानासः (तमी॑शा॒नासः॑) ।
  • (3661) नोदात्तस्वरितोदयमगार्ग्यकाश्यपगालवानाम् <8-4-67>
उदात्तपरः स्वरितपरश्चानुदात्तः स्वरितो न स्यात् । गार्ग्यादिमते तु स्यादेव । प्रय आरुः (प्र य आ॒रुः) । वोश्वाः क्वा 1 भीशवः (वोश्वाः क्वा॑ 1॒ भीश॑वः) ।
  • (3662) एकश्रुति दूरात्संबुद्धौ <1-2-33>
दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्यापवादः । आगच्छ भो माणवक ।
  • (3663) यज्ञकर्मण्यजपन्यूङ्खसामसु <1-2-34>
यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूधा (अ॒ग्निर्मू॒र्धा) । दिवः ककुत् (दि॒वः क॒कुत्) । यज्ञेति किम् । स्वनाध्यायकाले त्रैस्वर्यमेव । अजपेति किम् । ममाग्ने वर्चो विहवेष्वस्तु (ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु) । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ।
  • (3664) उच्चैस्तरां वा वषट्कारः <1-2-35>
यज्ञकर्मणि वौषट्शब्द उच्चैसत्रां वा स्यादेकश्रुतिर्वा ।
  • (3665) विभाषा छन्दसि <1-2-36>
छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ।
  • (3666) न सुब्रह्मण्यायां स्वरितस्य तूदात्तः <1-2-37>
सुब्रह्मण्याख्ये निगदे यज्ञकर्मणि 3663 इति विभाषा छन्दसि 3635 इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो3म् ॥ (सुब्रह्मणि साधुरिति यत् । न च एकादेश उदात्तोनोदात्तः 3658 इति सिद्धे पुनरत्रेमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः । असावित्यन्तः ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्ग्यो यजते । ञित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते ॥ अमुष्येत्यन्तः ॥ स्यान्तस्योपोत्तमं च ॥ चादन्तस्येन द्वावुदात्तौ । गार्ग्यस्य पिता यजते ॥ वा नामधेयस्य ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ।
  • (3667) देवब्रह्मणोरनुदात्तः <1-3-38>
अनयोः स्वरितस्यानुदात्तः स्यात्सुब्रह्मण्यायाम् । देवाब्रह्माण आगच्छत ।
  • (3668) स्वरितात्संहितायामनुदात्तानाम् <1-2-39>
स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ।
  • (3669) उदात्तस्वरितपरस्य सन्नतरः <1-2-40>
उदात्तस्वरितौ परौ यस्मात्तस्यानुदात्तस्यादात्ततरः स्यात् । सरस्वति शुतुद्रि (सरस्वति॒ शुतु॑द्रि) । व्यचक्षयत्स्वः (व्य॑चक्षय॒त्स्वः॑) । तस्य परमाम्रेडितम् 83 ।
  • (3670) अनुदात्तं च <8-1-3>
द्विरुक्तस्य परं रूपमनुदात्तं स्यात् । दिवे दिवे (दि॒वे दि॑वे) ॥ इति साधारणस्वराः ।
अन्त उदात्तः स्यात् । गोपायतं नः (गो॒पा॒यतं॑ नः) । असि सत्यः (असि॑ स॒त्यः) ।
  • (3672) स्वपादिहिंसामच्यनिटि <6-1-188>
स्वपादीनां हिंसेश्चानिठ्यजादौ लसार्वधातुके परे आदिरुदात्तो वा स्यात् । स्वपादिरदाद्यन्तर्गणः । स्वपन्ति । श्वसन्ति । हिंसन्ति । पक्षे प्रत्ययस्वरेण मध्योदात्तता । क्ङित्येवेष्यते । नेह स्वपानि । हिनसानि ।
  • (3673) अभ्यस्तानामादिः <6-1-189>
अनिठ्यजादौ लसार्वधातुके परे अभ्यस्तानामादिरुदात्तः । ये ददति प्रिया वसु (ये दद॑ति प्रि॒या वसु॑) । परत्वाच्चित्स्वरमयं बाधते । दधाना इन्द्रे दधाना इन्द्रे ।
  • (3674) अनुदात्ते च <6-1-190>
अविद्यमानोदात्ते लसार्वधातुके परेऽभ्यस्तानामादिरुदात्तः । दधासि रत्नं द्रविणं च दाशुषे (दधा॑सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषे॑) ।
  • (3675) भीह्रीभृहुमदजनधनदरिद्राजागरां प्रत्ययात्पूर्वं पिति <6-1-192>
भीप्रभृतीनामभ्यस्तानां पिति लसार्वधातुके परे प्रत्ययात्पूर्वमुदात्तं स्यात् । योऽग्निहोत्रं जुहोति (यो॑ऽग्निहो॒त्रं जु॒होति॑) । मत्तु नः परिज्मा (म॒मत्तु॑ नः॒ परि॑ज्मा) । माता यद्वीरं दधनत् (मा॒ता यद्वी॒रं द॒धनत्) । जागर्षित्वम् ।
प्रत्ययात्पूर्वमुदात्तम् । चिकीर्षकः ।
  • (3677) आदिर्णमुल्यन्यतरस्याम् <6-1-194>
अभ्यस्तानामादिरुदात्तो वा णमुलि परे लोलूयंलोलूयम् । पक्षे लित्स्वरः ।
  • (3678) अचः कर्तृयकि <6-1-195>
उपदेशेऽजन्तानां कर्तृयकि परे आदिरुदात्तो वा । लूयते केदारः स्वयमेव ।
  • (3679) चङ्यन्यतरस्याम् <6-1-218>
चङन्ते धातावुपोत्तममुदात्तं वा । मा हि चीकरताम् । धात्वकार उदात्तः । पक्षान्तरे चङुदात्तः ॥ इति धातुस्वराः ॥
  • (3680) कर्षात्त्वतो घञोन्त उदात्तः <6-1-159>
कर्षतेर्धातोराकारवतश्च घञन्तस्यान्त उदात्तः स्यात् । कर्षः । शपा निर्देशात्तुदादेराद्युदात्त एव । कर्षः । पाकः ।
  • (3681) उञ्छादीनां च <6-1-160>
अन्त उदात्तः स्यात् । उञ्छादिषु युगशब्दो घञन्तोऽगुणो निपात्यते कालविशेषे रथाद्यवयवे च । वैश्वानरः कुशिकेभिर्युगेयुगे (वै॒श्वा॒न॒रः कु॑शि॒केभि॑र्यु॒गेयु॑गे) । अन्यत्र योगेयोगे तवस्तरम् (योगे॑योगे त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य तवस्तरम् (गावः॒ सोम॑स्य त॒वस्त॑रम्) । भक्षशब्दो घञन्तः । गावः सोमस्य प्रथमस्य भक्षः (गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः) । उत्तमशश्वत्तमावपि । उदुत्तमं वरुण (उदु॑त्त॒मं व॑रुण) । शश्वत्तममीलते (श॒श्व॒त्त॒ममी॑लते) ।
चतुरोन्त उदात्तः शसि परे । चतुरः कल्पयन्तः । अचि र-299 इति रादेशस्य पूर्वविधौ स्थानिवत्त्वान्नेह । चतस्रः पश्य । चतेरुरन् । नित्त्वादाद्युदात्तता ।
  • (3683) झल्युपोत्तमम् <6-1-180>
षट्त्रिचतुर्भ्यो या झलादिर्विभक्तिस्तदन्ते पदे उपोत्तममुदात्तं स्यात् । अध्वर्युभिः पञ्चभिः (अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑) । नवभिर्वाजैर्नवती (न॒वभि॑र्वाजै॑र्नव॒ती) । च (च॑) । सप्तम्भोजायमानः (स॒प्तम्भो॒जाय॑मानः) । आदशभिर्विवस्वतः (आद॒शभि॑र्वि॒वस्व॑तः) । उपोत्तमं किम् । आषड्भिर्हूयमानः (आष॒ड्भिर्हू॒यमानः) । विश्वैर्दवैस्त्रिभिः (विश्वैर्दे॒वैस्त्रि॒भिः॑) । झलि किम् । नवानां नवतीनाम् (न॒वा॒नां न॑वती॒नाम्) ।
  • (3684) विभाषा भाषायाम् <6-1-189>
उक्तविषये ।
  • (3685) सर्वस्य सुपि <6-1-191>
सुपि परे सर्वशब्दस्यादिरुदात्तः स्यात् । सर्वे नन्दन्ति यशसा (सर्वे॑ नन्दन्ति य॒शसा॑) ।
  • (3686) ञ्नित्यादिर्नित्यम् <6-1-197>
ञिदन्तस्य चादिरुदात्तः स्यात् । यस्मिन्विश्वानि पौंस्या (यस्मि॒न्विश्वा॑नि॒ पौंस्या॑) । पुंसः कर्मणि ब्राह्मणादित्वात् ष्यञ् । सुते दधिष्व नश्चनः (सु॒ते द॑धिष्व न॒श्चनः॑) । चायतेरसुन् । (उ.) चायेरन्ने ह्रस्वश्च इति चकारादसुनो नुडागमश्च ।
  • (3687) पथिमथोः सर्वनामस्थाने <6-1-199>
आदिरुदात्तः स्यात् । अयं पन्थाः (अ॒यं पन्थाः॑) सर्वनामस्थाने किम् । ज्योतिष्मः पथो रक्ष (ज्योति॑ष्मतः प॒थो र॑क्ष) । उदात्तनिवृत्तिस्वरेणान्तोदात्तं पदम् ।
  • (3688) अन्तश्च तवैयुगपत् <6-1-200>
तवैप्रत्ययान्तस्याद्यन्तौ युगपदाद्युदात्तौ स्तः । हर्षसे दातवा उ (हर्षसे॒ दात॒वा उ॑) ।
  • (3689) क्षयो निवासे <6-1-201>
आद्युदात्तः स्यात् । स्वे क्षये शुचिव्रत (स्वे क्षये॑ शुचिव्रत) ।
करणवाची जयशब्द आद्युदात्तः स्यात् । जयत्यनेन जयोऽश्वः ।
  • (3691) वृषादीनां च <6-1-203>
आदिरुदात्तः । आकृतिगणोऽयम् । वाजेभिर्वाजिनीवती (वाजे॑भिर्वा॒जिनी॑वती) । इन्द्रं वाणीः (इन्द्रं(आ) वाणीः॑) ।
  • (3692) संज्ञायामुपमानम् <6-1-204>
उपमान शब्दः संज्ञायामाद्युदात्तः । चञ्चेव चञ्चा । कनोऽत्र लुप् । एतदेव ज्ञापयति क्वचित्स्वरविधौ

प्रत्ययलक्षणं नेति । संज्ञायां किम् । अग्निर्माणवकः । उपमानं किम् । जैत्रः ।

  • (3693) निष्ठा च द्व्यजनात् <6-1-205>
निष्ठान्तस्य द्व्यचः संज्ञायामादिरुदात्तो न त्वाकारः । दत्तः । द्व्यच् किम् । चिन्तितः । अनात्किम् । त्रातः । संज्ञायामित्यनुवृत्तेर्नेह । कृतम् । हृतम् ।
  • (3694) शुष्कधृष्टौ <6-1-206>
एतावाद्युदात्तौ स्तः । असंज्ञार्थमिदम् । अत सं न शुष्कम् (अत॒ सं न शुष्क॑म् ) ।
  • (3695) आशितः कर्ता <6-1-207>
कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ।
  • (3696) रिक्ते विभाषा <6-1-208>
रिक्तशब्दे वाऽऽदिरुदात्तः । रिक्तः । संज्ञायां तु निष्टा च द्व्यजनात् 3693 इति नित्यमाद्युदात्तत्वं पूर्वविप्रतिषेधेन ।
  • (3697) जुष्टार्पिते च छन्दसि <6-1-209>
आद्युदात्ते वा स्तः ।
  • (3698) नित्यं मन्त्रे <6-1-210>
एतत्सूत्रं शक्यमकर्तुम् । जुष्टो दमूनाः (जुष्टो॒ दमू॑नाः) । षळर आहुरर्पितम् (षळ॑र आहु॒रर्पि॑तम्) । इत्यादेः पूर्वेणैव सिद्धेः । छन्दसि पाठस्य व्यवस्थिततया विपरीतापादनायोगात् । अर्पिताः षर्ष्टिर्न च लाचलासः (अ॒र्पि॒ताः ष॒र्ष्टिर्न च॑लाच॒लासः॑) । इत्यत्रान्तोदात्तदर्शनाच्च ।
  • (3699) युष्मदस्मदोर्ङसि <6-1-211>
आदिरुदात्तः स्यात् । नहिषस्तव नो मम ।
तुभ्यं हिन्वानः (तुभ्यं॑ हिन्वा॒नः) । मद्यं वातः पवताम् (मद्यं॒ वातः॑पवताम्) ।
यत्प्रत्ययान्तस्य द्व्यच आदिरुदात्तो नावं विना । यञ्जन्त्यस्य काम्या (यु॒ञ्जन्त्य॑स्य काम्या॑) । कमेर्णिङन्तादचो यत् । झ्र्अनावः किम् । नवतिं नाव्यानाम् (न॒व॒तिं ना॒व्याना॑म्) ।ट
  • (3702) ईडवन्दवृशंसदुहां ण्यतः <6-1-214>
एषां ण्यदन्तानामादिरुदात्तः । ईड्यो नूतनैरुत (ईड्यो॒ नूत॑नैरु॒त) । ाजुह्वान ईड्यो (आ॒जुह्वा॑न॒ ईड्यो॒) । श्रेष्ठं नो धेहिवार्यम् (श्रेष्ठं नो धेहि॒ वार्यम्) । उक्थमिन्द्राय शंस्यम् (उक्थमिन्द्रा॑य॒ शंस्य॑म्) ।
  • (3703) विभाषा वेण्विन्धानयोः <6-1-215>
आदिरुदात्तो वा । इन्थानो अग्निम् (इन्धा॑नो अ॒ग्निम्) ।
  • (3704) त्यागरागहासकुहश्वठकथानाम् <6-1-216>
आदिरुदात्तो वा । आद्यास्त्रयो घञन्ताः । त्रयः पचाद्यजन्ताः ।
  • (3705) मतोः पूर्वमात्संज्ञायां स्त्रियाम् <6-1-219>
मतोः पूर्वमाकार उदात्तः स्त्रीनाम्नि । उदुम्बरावती । शरावती ।
  • (3706) अन्तोऽवत्याः <6-1-220>
अवतीशब्दस्यान्त उदात्तः । वेत्रवती । ङीपः पित्त्वादनुदात्तत्वं प्राप्तम् ।
ईवत्यन्तस्यापि प्राग्वत् । अहीवती । मुनीवती ॥
  • (3708) आद्युदात्तश्च <3-1-3>
प्रत्यय आद्युदात्त एव स्यात् । अग्निः । कर्तव्यम् ।
  • (3709) अनुदात्तौ सुप्पितौ <3-1-4>
पूर्वस्यापवादः । यज्ञस्य । न यो युच्छति (न यो युच्छ॑ति) । शप्तिपोरनुदात्तत्वे स्वरितप्रचयौ ।
अन्त उदात्तः स्यात् ॥ चितः सप्रकृतेर्बह्वकजर्थम् ॥ चिति प्रत्यये सति प्रकृतिप्रत्ययसमुदायस्यान्त उदात्तो वाच्य इत्यर्थः । नभन्तामन्यके समे (नभ॑न्तामन्य॒के स॑मे) । यके सरस्वतीमनु (य॒के सर॑स्वती॒मनु॑) । तकत्सुते (त॒कत्सुते॑) ।
चितस्तद्धितस्यान्त उदात्तः । पूर्वेण सिद्धे ञित्स्वरबाधनार्थमिदम् । कौञ्जायनाः ।
कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ।
  • (3713) तिसृभ्यो जसः <6-1-166>
अन्त उदात्तः । तिस्रोद्यावः सवितुः (ति॒स्रोद्यावः॑ सवि॒तुः) ।
  • (3714) सावेकाचस्तृतीयादिर्विभक्तिः <6-1-168>
साविति सप्तमीबहुवचनम् । तत्र य एकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता । वाचा विरूपः (वा॒चा वि॑रूपः) । सौ किम् । राज्ञेत्यादौ एकाचोऽपि राजशब्दात्परस्य माभूत् । राज्ञो नु ते (राज्ञो॒ नु ते॑) । एकाचः किम् । विधते राजनि त्वे (विध॒ते राज॑नि॒ त्वे) । तृतीयादिः किम् । न ददर्श वाचम् (न द॑दर्श॒ वाच॑म्) ।
  • (3715) अन्तोदात्तादुत्तरपदादन्यतरस्यामनित्यसमासे <6-1-169>
नित्याधिकारविहितसमासादन्यत्र यदुत्तरपदमन्तोदात्तमेकाच् ततः परा तृतीयादिर्विभक्तिरुदात्ता वा स्यात् परमवाचा ।
  • (3716) अञ्चेश्छन्दस्यसर्वनामस्थानम् <6-1-170>
अञ्चेः परा विभक्तिरुदात्ता । इन्द्रो दधीचः (इन्द्रो॑ दधी॒चः) । चाविति पूर्वपदान्तोदात्तत्वं प्राप्तम् । तृतीयादिरित्यनुवर्तमाने असर्वनामस्थानग्रहणं शस्परिग्रहार्थम् । प्रतीचो बाहूनू (प्र॒ती॒चो बा॒हूनू) ।
  • (3717) ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः <6-1-176>
एभ्योऽसर्वनामस्थानविभक्तिरुदात्ता । प्रष्ठौहः । प्रष्ठौहा ॥ ऊठ्युपधाग्रहणं कर्तव्यम् ॥ इह मा भूत् । अक्षद्युवा (अक्ष॒द्युवा॑) । अक्षद्युवे । इदम् । एभिर्नृभिर्नृतमः (ए॒भिर्नृभि॒र्नृत॑मः) । अन्वादेशे न । अन्तोदात्तादित्यनुवृत्तेः । न च तत्रान्तोदात्तताप्यस्तीति वाच्यम् । इदमोन्वादेशेऽशनुदात्तस्तृतीयादौ 350 इति सूत्रेणानुदात्तस्य अशो विधानात् । प्रते बभू (प्रते॑ ब॒भ्रू) । मभ्यां गा अनु (माभ्यां॒ गा अनु॑) । पद्दन्नोमास्हृन्निश् 228 इति षट् पदादयः । पद्भ्यां भूमिः (प॒द्भ्यां भूमिः॑) । दद्भिर्न जिह्वा (द॒द्भिर्न जि॒ह्वा) । अहरहर्जायते मासिमासि (अह॑रहर्जायते मा॒सिमा॑सि) । मनश्चिन्महेहृद आ (मन॑श्चिन्मेहृ॒द आ) । अप् । अपां फेनेन (अ॒पां॒ फेने॑न) । पुम् । अभ्रातेव पुंसः (अ॒भ्रा॒तेव॑ पुं॒सः) । रै । राया वयम् (रा॒या व॒यम्) । रायोधर्ता विवस्वतः (रा॒योध॒र्ता वि॒वस्व॑तः) । दिव् । उपतत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दिवेदि॑वे) ।
  • (3718) अष्टनो दीर्घात् <6-1-172>
शसादिर्विभक्तिरुदात्ता । अष्टाभिर्दशभिः ।
  • (3719) शतुरनुमो नद्यजादी <6-1-173>
अनुम् यः शतृप्रत्ययस्तदन्तादन्तोदात्तात्परा नदी अजादिश्च शसादिर्विभक्तिरुदात्ता स्यात् । अच्छा रवं प्रथमा

जानती (अच्छा॒ रवं॑ प्रथ॒मा जा॑न॒ती) । कृण्वते । अन्तोदात्तात्किम् । दधती । अभ्यस्तानामादिः 3673 इत्याद्युदात्तः । अनुमः किम् । तुदन्ती । एकादेशोऽत्र उदात्तः । अदुपदेशात्परत्वाच्छतुः लसार्वधातुक 3730 इति निघातः ।

  • (3720) उदात्तयणो हल्पूर्वात् <6-1-174>
उदात्तस्थाने यो यण् हल्पूर्वस्तस्मात्परा नदी शसादिर्विभक्तिश्च उदात्ता स्यात् । चोदयित्री सूनृतानाम् (चो॒द॒यि॒त्री सू॒नृता॑नाम्) । एषा नेत्री (ए॒षा ने॒त्री) । ऋतं देवाय कृण्वते सवित्रे (ऋ॒तं दे॒वाय॑ कृण्वते॒ स॑वि॒त्रे) ।
  • (3721) नोङ्धात्वोः <6-1-175>
अनयोर्यणः परे शसादय उदात्ता न स्युः । ब्रह्मबन्ध्वा । सेत्पृशिनः सुभ्वे (सेत्पृश्निः॑ सु॒भ्वे॑) ।
  • (3722) ह्रस्वनुड्भ्यां मतुप् <6-1-176>
ह्रस्वान्तादन्तोदात्तान्नुटश्च परो मतुबुदात्तः । यो अब्दि मॉंउदनिमॉंइयर्ति (यो अ॑ब्दि॒मॉंउ॑दनि॒मॉंइय॑र्ति) । नुटः । अक्षण्वन्तः कर्णवन्तः सखायः (अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा॑यः) । अन्तोदात्तात्किम् । मात्वा विदषुमान् (मात्वा॑ विद॒दिषु॑मान्) । स्वरविधौ व्यञ्जनविद्यमानवदित्येतदत्र न । णरुत्वानिन्द्र (म॒रुत्वा॑निन्द्र) । नियुत्वान्वायवा गहि (नि॒युत्वा॑न्वाय॒वा ग॑हि) ॥ रेशब्दाच्च ॥ रेवॉंइद्रेवतः (रे॒वॉंइद्रे॒वतः॒) ।
  • (3723) नामन्यतरस्याम् <6-1-177>
मतुपि यो ह्रस्वस्तदन्तादन्तोदात्तात्परो नामुदात्तो वा । चेतन्ती सुमतीनाम् (चेत॑न्ती सुमती॒नाम्) ।
  • (3724) ङ्याश्छन्दसि बहुलम् <6-1-178>
ङ्याः परो नामुदात्तो वा । देवसेनानामभिभञ्जतीनाम् (दे॒व॒से॒नाना॑मभिभञ्जती॒नाम्) । वेत्युक्तेर्नेह । जयन्तीनां मरुतो यन्तु (जय॑न्तीनां म॒रुतो॑ यन्तु) ।
  • (3725) षट्त्रिचतुर्भ्यो हलादिः <6-1-179>
एभ्यो हलादिर्विभक्तिरुदात्ता । आषङ्भिर्हूयमानः (आष॒ड्भिर्हू॒यमा॑नः) । त्रिभिष्ट्वं देव (त्रिभिष्ट्वं दे॑व) ।
  • (3726) न गोश्वन्साववर्णराडङ्कुङ्कृद्भ्यः <6-1-182>
एभ्यः प्रागुक्तं न । गवां शता (गवां॑ श॒ता) । गोभ्यो गातुम् (गोभ्यो॑ गा॒तुम्) । शुनश्चिच्छेपम् (शुन॑श्चि॒च्छेप॑म्) । सौ प्रथमैकवचने अवर्णान्तात् । तेभ्यो द्युन्नम् (तेभ्यो॑ द्यु॒न्नम्) । तेषां पाहि श्रुधी हवम् (तेषां॑ पाहि श्रु॒धी हव॑म्) ।
दिवः परा झलादिर्विभक्तिर्नोदात्ता । द्युभिरक्तुभिः (द्युभि॑र॒क्तुभिः॑) । झलिति किम् । उपत्वाग्ने दिवेदिवे (उप॑त्वाग्ने दि॒वेदि॑वे) ।
  • (3728) नृ चान्यतरस्याम् <6-1-184>
नुः परा झलादिर्विभक्तिर्वोदात्ता । नभिर्येमानः (नृभि॑र्येमा॒नः) ।
  • (3729) तित्स्वरितम् <6-1-185>
निगदव्याख्यातम् । क्वनूनम् (क्व॑नू॒नम्) ।
  • (3730) तास्यनुदात्तेन्ङिददुपदेशाल्लसार्वधातुकमनुदात्तमन्ह्विङोः <6-1-183>
अस्मात्परं लसार्वधातुकमनुदात्तं स्यात् । तासि । कर्ता । कर्तारौ । कर्तारः । प्रत्ययस्वरापवादोऽयम् । अनुदात्तेत् । य आस्ते । ङितः । अभिचष्टे अनृतेभिः (अ॒भिच॑ष्टे॒ अनृ॑तेभिः) । अदुपदेशात् । पुरुभुजा चनस्यतम् (पुरु॑भुजा चन॒स्यत॑म्) । चित्स्वरोऽप्यनेन बाध्यते । वर्धमानं स्वे दमे (वर्ध॑मानं॒ स्वे दमे॑) । तास्यादिभ्यः किम् । अभि वृधे गृणीतः (अ॒भि वृ॒धे गृ॑णी॒तः) । उपदेशग्रहणान्नेह । हतो वत्राण्यार्या (ह॒तो वृत्राण्यार्या॑) । लग्रहणं किम् । कितीह पचमानाः ।

सार्वधातुकं किम् । शिश्ये । अन्ह्विङोः किम् । ह्नुते । यदधीते ॥ विन्दीन्धिखिदिभ्यो नेति वक्तव्यम् ॥ इन्धे राजा (इ॒न्धे राजा॑) । एतच्च अनुदात्तस्य च यत्र-3651 इति सूत्रे भाष्ये स्थितम् ।

  • (3731) आदिः सिचोऽन्यतरस्याम् <6-1-187>
सिजन्तस्यादिरुदात्तो वा । यासिष्टं वर्तिरश्विना (या॒सि॒ष्टं व॒र्तिर॑श्विना) ।
  • (3732) थलि च सेटीडन्तो वा <6-1-196>
सेटि थलन्ते पदे इडुदात्तः अन्तो वा आदिर्वा स्यात् । यदा नैते त्रयस्तदा लिति 3676 इति प्रत्ययात्पूर्वमुदात्तं स्यात् । लुलविथ । अत्र चत्वारोऽपि पर्यायेणोदात्ताः ।
  • (3733) उपोत्तमं रिति <6-1-297>
रित्प्रत्ययान्तस्योपोत्तममुदात्तं स्यात् । यदाहवनीये ॥
अन्तः उदात्तः स्यात् । यज्ञश्रियम् (य॒ज्ञ॒श्रिय॑म्) ।
  • (3735) बहुव्रीहौ प्रकृत्या पूर्वपदम् <6-2-1>
उदात्तस्वरितयोगि पूर्वपदं प्रकृत्या स्यात् । सत्यश्चित्रश्रवस्तमः (स॒त्यश्चि॒त्रश्र॑वस्तमः) । उदात्तेत्यादि किम् । सर्वानुदात्ते पूर्वपदे समासान्तोदात्तत्वमेव यथा स्यात् । समपादः ।
  • (3736) तत्पुरुषे तुल्यार्थतृतीयासप्तम्युपमानाव्ययद्वितीयाकृत्याः <6-2-2>
सप्तैते पूर्वपदभूतास्तत्पुरुषे प्रकृत्या । तुल्यश्वेतः । कृत्यतुल्याख्या अजात्या 749 इति तत्पुरुषः । किरिणा काणः किरिकाणः । पतयन्मन्दयत्सखम् (प॒त॒यन्म॑न्द॒यत्स॑खम्) । मन्दयति मादके इन्द्रे । सखेति सप्तमीतत्पुरुषः । शस्त्रीश्यामा ॥ अव्यये नञ्कुनिपातानाम् ॥ अयज्ञो वा एषः । परिगणनं किम् । स्नात्वाकालकः । मुहूर्तसुखम् । भोज्येष्णम् ।
  • (3737) वर्णोवर्णेष्वनेते <6-2-3>
वर्णवाचिन्युत्तरपदे एतवर्जिते वर्णवाचि पूर्वपदं प्रकृत्या तत्पुरुषे । कृष्णसारङ्गः । लोहितकल्पमाषः । कृष्णशब्दो नक्प्रत्ययान्तः लोहितशब्द इतन्नन्तः । वर्णः किम् । परमकृष्णः । वर्णेषु किम् । कृष्णतिलाः अनेते किम् । कृष्णैतः ।
  • (3738) गाधलवणयोः प्रमाणे <6-2-4>
एतयोरुत्तरपदयोः प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या स्यात् । अरित्रगाधमुदकम् । तत्प्रमाणमित्यर्थः ।

गोलवणम् । यावद्गवे दीयते तावदित्यर्थः । अरित्रशब्दः इत्रान्तो मध्योदात्तः । प्रमाणमियत्ता परिच्छेदमात्रं न पुनरायाम एव । प्रमाणे किम् । परमगाधम् ।

  • (3739) दायाद्यं दायादे <6-2-5>
तत्पुरुषे प्रकृत्या । धनदायादः । धनशब्दः क्युप्रत्ययान्तः प्रत्ययस्वरेणाद्युदात्तः । दायाद्यं किम् । परमदायादः ।
  • (3740) प्रतिबन्धि चिरकृच्छ्रयोः <6-2-6>
प्रतिबन्धवाचि पूर्वपदं प्रकृत्या एतयोः परतस्तत्पुरुषे । गमनचिरम् । व्याहरणकृच्छ्रम् । गमनं कारणविकलतया चिरकालभावि कृच्छ्रयोगि च प्रतिबन्धि जायते । प्रतिबन्धि किम् । मूत्रकृच्छ्रम् ।
  • (3741) पदेऽपदेशे <6-2-7>
व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तः थाथ-3878 आदिस्वरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ।
  • (3742) निवाते वातत्राणे <6-2-8>
निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीपन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ।
  • (3743) शारदेऽनार्तवे <6-2-9>
ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः(उदृ)सृजेरसुम्च इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् । उत्तमशारदम् ।
  • (3744) अध्वर्युकषाययोर्जातौ <6-2-10>
एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् वैशम्पायनान्तेवासिभ्यश्च 1484 इति णिनेः कठचरकाल्लुक् 1487 इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ।
  • (3745) सदृशप्रतिरूपयोः सादृश्ये <6-2-11>
अनयोः पूर्वं प्रकृत्या । पितृसदृशः । सादृश्ये किम् । परमसदृशः । समासार्थोऽत्र पूज्यमानता न सादृश्यम् ।
  • (3746) द्विगौ प्रमाणे <6-2-12>
द्विगावुत्तरपदे प्रमाणवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । प्राच्यसप्तसमः । सप्तसमाः प्रमाणमस्य ॥ प्रमाणे लोद्विगोर्नित्यम् । इति मात्रचो लुक् । प्राच्यशब्द आद्युदात्तः । प्राच्यश्चासौ सप्तसमश्च प्राच्यसप्तसमः । द्विगौ किम् । व्रीहिप्रस्थः । प्रमाणे किम् । परमसप्तसमम् ।
  • (3747) गन्तव्यपण्यं वाणिजे <6-2-13>
वाणिजशब्दे परे तत्पुरुषे गन्तव्यवाचि पण्यवाचि च पूर्वपदं प्रकृतिस्वरम् । मद्रवाणिजः । गोवाणिजः । सप्तमीसमासः । मद्रशब्दो रक्प्रत्ययान्तः । गन्तव्येति किम् । परमवाणिजः ।
  • (3748) मात्रोपज्ञोपक्रमच्छाये नपुंसके <6-2-14>
मात्रादिषु परतो नपुंसकवाचिनि तत्पुरुषे तथा । भिक्षायास्तुल्यप्रमाणं भिक्षामात्रम् । भिक्षाशब्दो गुरोश्च हलः 3280 इत्यप्रत्ययान्तः । पाणिन्युपज्ञम् । पाणिनि शब्द आद्युदात्तः । नन्दोपक्रमम् । नन्दशब्दः पचाद्यजन्तः । इषुच्छायम् । इषुशब्द आद्युदात्तो नित्त्वात् । नपुंसके किम् । कुड्यच्छाया ।
  • (3749) सुखप्रिययोर्हिते <6-2-15>
एतयोः परयोर्हितवाचिनि तत्पुरुषे तथा । गमनप्रियम् । गमनसुखम् । गमनशब्दे लित्स्वरः । हिते किम् । परमसुखम् ।
प्रीतौ गम्यायां प्रागुक्तम् । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः । ब्राह्मणसुखं पायसम् । छात्रप्रियोऽनध्यायः

। ब्राह्मणच्छात्रशब्दौ प्रत्ययस्वरेणान्तोदात्तौ । प्रीतौ किम् । राजसुखम् ।

  • (3751) स्वं स्वामिनि <6-2-17>
स्वामिशब्दे परे स्ववाचि पूर्वपदं तथा । गोस्वामी । स्वं किम् । परमस्वामी ।
  • (3752) पत्यावैश्वर्ये <6-2-98>
दमूना गृहपतिर्दमे (दमू॑ना गृ॒हप॑ति॒र्दमे॑) ।
  • (3753) न भूवाक्चिद्दिधिषु <6-2-19>
पतिशब्दे परे ऐश्वर्याचिनि तत्पुरुषे नैतानि प्रकृत्या । भुवः पतिर्भूपतिः । वाक्यपतिः । चित्पतिः । दिधिषूपतिः ।
  • (3754) वा भुवनम् <6-2-20>
उक्तविषये । भुवनपतिः(उदृ) भूसूधूभ्रस्जिभ्यः इति क्युन्नन्तो भुवनशब्दः ।
  • (3755) आशङ्काऽबाधनेदीयस्सु संभावने <6-2-21>
अस्तित्वाध्यवसायः संभावनम् । गमनाशङ्कमस्ति । गमनाबाधम् । गमननेदीयः । गमनमाशङ्क्यते आबाध्यते निकटतरमिति वा संभाव्यते । संभावने किम् । परमनेदीयः ।
  • (3756) पूर्वे भूतपूर्वे <6-2-22>
आढ्यो भूतपूर्वः आढ्यपूर्वः । पूर्वशब्दो वृत्तिविषये भूतपूर्वे वर्तते । भूतपूर्वे किम् । परमपूर्वः ।
  • (3757) सविधसनीडसमर्यादसवेशसदेशेषु सामीप्ये <6-2-23>
एषु पूर्वं प्रकृत्या । मद्रसविधम् । गान्धारसनीडम् । काश्मीरसमर्यादम् । मद्रसवेशम् । मद्रसदेशम् । सामीप्ये किम् । सह मर्यादया समर्यादं क्षेत्रम् । चैत्रसमर्यादम् ।
  • (3758) विस्पष्टादीनि गुणवचनेषु <6-2-24>
विस्पष्टकटुकम् । विस्पष्टशब्दो गतिरनन्तरः 3783 इत्याद्युदात्तः । विस्पष्टेति किम् । परमलवणम् । गुणेति किम् । विस्पष्टब्राह्मणः । विस्पष्ट । विचित्र व्यक्त । संपन्न । पण्डित । कुशल । चपल । निपुण ।
  • (3759) श्रज्याऽवमकन्पापवत्सु भावे कर्मधारये <6-2-25>
श्र ज्य कन् इत्यादेशवति अवमशब्दे पापशब्दवति चोत्तरपदे भाववाचि पूर्वपदे प्रकृत्या । गमनश्रेष्ठम् । गमनज्यायः । गमनावमम् । गमनकनिष्ठम् । गमनपापिष्ठम् । श्रेत्यादि किम् । गमनशोभनम् । भावे किम् । गम्यतेऽनेनेति गमनम् । गमनं श्रेयो गमनश्रेयः । केति किम् । षष्ठीसमासे मा भूत् ।
  • (3760) कुमारश्च <6-2-26>
कर्मधारये । कुमारश्रमणा । कुमारशब्दोऽन्तोदात्तः ।
  • (3761) आदिः प्रत्येनसि <6-2-27>
कुमारस्यादिरुदात्तः प्रत्येनसि परे कर्मधारये । प्रतिगतमेनोऽस्य प्रत्येनाः । कुमारप्रत्येनाः ।
  • (3762) पूगेष्वन्यतरस्याम् <6-2-28>
पूगा गणास्तेषूक्तं वा । कुमारचातकाः । कुमारजीमूताः । आद्युदात्तत्वाभावे कुमारश्च 3760 इत्येव भवति ।
  • (3763) इगन्तकालकपालभगालशरावेषु द्विगौ <6-2-29>
एषु परेषु पूर्वं प्रकृत्या । पञ्चारत्नयः प्रमाणमस्य पञ्चारत्निः । दश मासान् भूतो दशमास्यः । पञ्चमासान् भूतः पञ्चमास्यः । ठतमधीष्ट-इत्यधिकारे द्विगोर्यप् । पञ्चकपालः । पञ्चकपालः । पञ्चभगालः । पञ्चशरावः । (फिट्‌)न्रः संख्यायाः इति पञ्चञ्छब्द आद्युदात्तः । इगन्तादिषु किम् । पञ्चाश्वः । द्विगौ किम् । परमाऽरत्निः ।
  • (3764) बह्वन्यतरस्याम् <6-2-30>
बहुशब्दस्तथा वा । बह्वरत्निः । बहुमास्यः । बहुकपालः । बहुशब्दोऽन्तोदात्तः । तस्य यणि सति उदात्तस्वरितयोः 3657 इति भवति ।
  • (3765) दिष्टिवितस्त्योश्च <6-2-31>
एतयोः परतः पूर्वपदं प्रकृत्या वा द्विगौ । पञ्चदिष्टिः । पञ्चवितस्तिः ।
  • (3766) सप्तमी सिद्धशुष्कपक्वबन्धेष्वकालात् <6-2-32>
अकालवाचि सप्तम्यन्तं प्रकृत्या सिद्धादिषु । साङ्काश्यसिद्धः । साङ्काश्येति ण्यान्तः । आतपशुष्कः । भ्राष्ट्रपक्वः । भ्राष्ट्रेति ष्ट्रन्नन्तः । चक्रबन्धः चक्रशब्दोऽन्तोदात्तः । अकालात्किम् । पूर्वाह्णसिद्धः । कृत्स्वरेण बाधितः सप्तमीस्वरः प्रतिप्रसूयते ।
  • (3767) परिप्रत्युपापा वर्ज्यमानाऽहोरात्रावयवेषु <6-2-33>
एते प्रकृत्या वर्ज्यमानवाचिनि अहोरात्रावयववाचिनि चोत्तरपदे । परित्रिगर्तं वृष्टो देवः । प्रतिपूर्वाह्णम् । उपपूर्वाह्णम् । उपपूर्वरात्रम् । अपत्रिगर्तम् । उपसर्गा आद्युदात्ताः । बहुव्रीहितत्पुरुषयोः सिद्धत्वादव्ययीभावार्थमिदम् । अपपर्योरेव वर्ज्यमानमुत्तरपदम् । तयोरेव वर्ज्यमानार्थत्वात् । अहोरात्रावयवा अपि वर्ज्यमाना एव तयोर्भवन्ति । वर्ज्येति किम् । अग्निं प्रति । प्रत्यग्नि ।
  • (3768) राजन्यबहुवचनद्वन्द्वेन्धकवृष्णिषु <6-2-34>
राजन्यवाचिनां बहुवचनान्तानामन्धकवृष्णिषु वर्तमाने द्वन्द्वे पूर्वपदं प्रकृत्या । श्वाफल्कचैत्रकाः । शिनिवासुदेवाः । शिनिराद्युदात्तो लक्षणया तदपत्ये वर्तते । राजन्येति किम् । द्वैप्यभैमायनाः । द्वीपे भवा द्वैप्याः । भैमेरपत्यं युवा भैमायनः । अन्धकवृष्मय एते न तु राजन्याः । राजन्यग्रहमिहाभिषिक्तवंश्यानां क्षत्रियाणां ग्रहणार्थम् । नैते तथा । बहुवचनं किम् । संकर्षणवासुदेवौ । द्वन्द्वे किम् । वृष्णीनां कुमाराः वृष्णिकुमाराः । अन्धकवृष्णिषु किम् । कुरुपञ्चालाः ।
संख्यावाचि पूर्वपदं प्रकृत्या द्वन्द्वे । द्वादश । त्रयोदश । त्रेस्त्रयसादेश आद्युदात्तो निपात्यते ।
  • (3770) आचार्योपसर्जनश्चान्तेवासी <6-2-36>
आचार्योपसर्जनान्तेवासिनां द्वन्द्वे पूर्वपदं प्रकृत्या । पाणिनीयरौढीयाः । छस्वरेण मध्योदात्तावेतौ । आचार्योपसर्जनग्रहणं द्वन्द्वविशेषणम् । सकलो द्वन्द्व आचार्योपसर्जनो यथा विज्ञायेत । तेनेह न । पाणिनीयदेवदत्तौ । आचार्येति किम् । छान्दसवैयाकरणाः । अन्तेवासीति किम् । आपिशलपाणिनीये शास्त्रे ।
  • (3771) कार्तकौजपादयश्च <6-2-37>
एषां द्वन्द्वे पूर्वपदं प्रकृत्या । कार्तकौजपौ । कृतस्येदं कुजपस्येदमित्यण्णन्तावेतौ । सावर्णिमण्डूकेयौ ।
  • (3772) महान्व्रीह्यपराह्णगृष्टीष्वासजाबालभारभारतहैलिहिलरौरवप्रवृद्धेषु <6-2-38>
महच्छब्दः प्रकृत्या व्रीह्यादिषु दशसु । महाव्रीहिः । महापराह्णः । महागृष्टिः । महेष्वासः । महाहैलिहिलः । महच्छब्दोऽन्तोदात्तः । सन्महत्-740इति प्रतिपदोक्तसमास एवायं स्वरः । नेह । महतो व्रीहिर्महह्व्रीहिः ।
  • (3773) क्षुल्लकश्च वैश्वदेवे <6-2-39>
चान्महान् । क्षुल्लकवैश्वदेवम् । महावैश्वदेवम् । क्षुधं लातीति क्षुल्लः । तस्मादज्ञातादिषु केऽन्तोदात्तः ।
  • (3774) उष्ट्रः सादिवाम्योः <6-2-40>
उष्ट्रसादी । उष्ट्रवामी । उषेः ष्ट्रनि उष्ट्रशब्द आद्युदात्तः ।
  • (3775) गौ सादसादिसारथिषु <6-2-41>
गोसादः । गोसादिः । गोसारथिः ।
  • (3776) कुरुगार्हपतरिक्तगुर्वसूतजरत्यश्लीलदृढरूपापारेवडवातैतिलकद्रूपण्यकम्बलो दासीभाराणां च <6-2-42>
एषां सप्तानां समासानां दासीभारादेश्च पूर्वपदं प्रकृत्या । कुरूणां गार्हपतं कुरुगार्हपतम् । उप्रत्ययान्तः । कुरुः ॥ वृजेरिति वाच्यम् ॥ वृजिगार्हपतम् । वृजिराद्युदात्तः । रिक्तो गुरुः रिक्तगुरुः ।रिक्ते विभाषा 3696 इति रिक्तशब्द आद्युदात्तः । असूता जरती असूतजरती । अश्लीला दृढरूपा अश्लीलदृढरूपा । अश्लीलशब्दो नञ्समासत्वादाद्युदात्तः । श्रीर्यस्यास्ति तत् श्लीलम् । सिध्मादित्वाल्लच् । कपिलकादित्वाल्लत्वम् । पारे वडवेव पारेवडवा । निपातनादिवार्थे समासो विभक्त्यलोपश्च । पारशब्दो घृतादित्वादन्तोदात्तः । तैतिलानां कद्रूः तैतिलकद्रूः । तितिलिनोऽपत्यं छात्रो वा इत्यण्णन्तः । पण्यशब्दो यदन्तत्वादाद्युदात्तः ॥ पण्यकम्बलः संज्ञायामिति वक्तव्यम् ॥ अन्यत्र पणितव्ये कम्बले समासान्तोदात्तत्वमेव प्रतिपदोक्ते समासे कृत्याः 2831 इत्येष स्वरो विहितः । दास्या भारो दासीभारः । देवहूतिः । यस्य तत्पुरुषस्य पूर्वपदप्रकृतिस्वरत्वमिष्यते न

विशिष्यवचनं विहितं स सर्वोऽपि दासीभारादिषु द्रष्टव्यः ॥ स राये स पुरंध्याम् (स रा॒ये स पुरं॑ध्याम्) । पुरं शरीरं धीयतेऽस्यामिति कर्मण्यधिकरणे च 3271 इति किप्रत्ययः । अलुक् छान्दसः । (फिट्‌)नब्विषयस्य इत्याद्युदात्तः पुरशब्दः ।

  • (3777) चतुर्थी तदर्थे <6-2-43>
चतुर्थ्यन्तार्थाययत्तद्वाचिन्युत्तरपदे चतुर्थ्यन्तं प्रकृत्या । यूपाय दारू यूपदारू ।
अर्थे परे चतुर्थ्यन्तं प्रकृत्या देवार्थम् ।
क्तान्ते परे चतुर्थ्यन्तं प्रकृत्या । गोहितम् ।
  • (3780) कर्मधारयेऽनिष्ठा <6-2-46>
क्तान्ते परे पूर्वमनिष्ठान्तं प्रकृत्या । श्रेणिकृताः । श्रेणिशब्द आद्युदात्तः । पूगकृताः । पूगशब्दोऽन्तोदात्तः । कर्मधारये किम् । श्रेण्या कृतं श्रेणिकृतम् । अनिष्ठा किम् । कृताकृतम् ।
  • (3781) अहीने द्वितीया <6-2-47>
समासे क्तान्ते परे द्वितीयान्तं प्रकृत्या । कष्टश्रितः । ग्रामगतः । कष्टशब्दोऽन्तोदात्तः । ग्रामशब्दो नित्स्वरेण । अहीने किम् । कान्तारातीतः ॥ अनुपसर्ग इति वक्तव्यम् ॥ नेह सुखप्राप्तः । थाथ-3878 इत्यस्यापवादोऽयम् ।
  • (3782) तृतीया कर्मणि <6-2-48>
कर्मवाचके क्तान्ते परे तृतीयान्तं प्रकृत्या । त्वोतासः । रुद्रहतः । महाराजहतः । रुद्रो रगन्तः । कर्मणि किम् । रथेन यातो रथयातः ।
  • (3783) गतिरनन्तरः <6-2-49>
कर्मार्थे क्तान्ते परेऽव्यवहितो गतिः प्रकृत्या । थाथ-3878 इत्यस्यापवादः । पुरोहितम् । अनन्तरः किम् । अभ्युद्धृतः । कारकपूर्वपदस्य तु सतिशिष्टस्थाथादिस्वर एव । दूरादागतः ।
  • (3784) तादौ च निति कृत्यतौ <6-2-50>
तकारादौ निति तुशब्दवर्जिते कृति परेऽनन्तरो गति प्रकृत्या । अग्नेरायो नृतमस्य प्रभूतौ (अग्ने॑रा॒यो नृत॑मस्य॒ प्रभू॑तौ) । सङ्गतिं गोः (सङ्ग॑तिं॒ गोः) । कृत्स्वरापवादः । तादौ किम् । प्रजल्पाकः । निति किम् । प्रकर्ता । तृजन्तः अतौ किम् । आगन्तुः ।
  • (3785) तवै चान्तश्च युगपत् <6-2-51>
तवैप्रत्ययान्तस्यान्त उदात्तो गतिश्चानन्तरः प्रकृत्या युगपच्चैतदुभयं स्यात् । अन्वेतवा उ (अन्वे॑त॒वा उ॑) । कृत्स्वरापवादः ।
  • (3786) अनिगन्तोऽञ्चतौ वप्रत्यये <6-2-52>
अनिगन्तो गतिर्वप्रत्ययान्तेऽञ्चतौ परे प्रकृत्या । ये पराञ्चस्तान् (ये परा॑ञ्चस्तान्) । अनिगन्त इति किम् । प्रत्यञ्चो यन्तु (प्र॒त्यञ्चो॑ यन्तु) । कृत्स्वरात्परत्वादयमेव । जहि वृष्ण्यानि कृणुही पराचः (ज॒हि वृष्ण्या॒नि कृणु॒ही परा॑चः) । वप्रत्यये किम् । उदञ्चनम् ।
वप्रत्ययान्तेऽञ्चताविगन्तावपि न्यधी प्रकृत्या । नयङ्ङुत्तानः (न्य॑ङ्ङुत्ता॒नः) । उदात्तस्वरितयोर्यण् इति अञ्चतेरकारः स्वरितः । अध्यङ् ।
  • (3788) ईषदन्यतरस्याम् <6-2-54>
ईषत्कडारः । ईषदित्ययमन्तोदात्तः । ईषद्भेद इत्यादौ कृत्स्वर एव ।
  • (3789) हिरण्यपरिमाणं धने <6-2-55>
सुवर्णपरिमाणवाचि पूर्वपदं वा प्रकृत्या धने । द्वे सुवर्णे परिमाणमस्येति द्विसुवर्णं तदेव धनं द्विसुवर्णधनम् ।

बहुव्रीहावपि परत्वाद्विकल्प एव । हिरण्यं किम् । प्रस्थधनम् । परिमाणं किम् । काञ्चनधनम् । धने किम् । निष्कमाला ।

  • (3790) प्रथमोऽचिरोपसंपत्तौ <6-2-56>
प्रथमशब्दो वा प्रकृत्याऽभिनवत्वे । प्रथमवैयाकरणः । संप्रति व्याकरणमध्येतुं प्रवृत्त इत्यर्थः । प्रथमशब्दः प्रथेरमजन्तः । अचिरेति किम् । प्रथमो वैयाकरणः ।
  • (3791) कतरकतमौ कर्मधारये <6-2-57>
वा प्रकृत्या । कतरकठः । कर्मधारयग्रहणमुत्तरार्थम् । इह तु प्रतिपदोक्तत्वादेव सिद्धम् ।
  • (3792) आर्यो ब्राह्मणरकुमारयोः <6-2-58>
आर्यकुमारः । आर्यब्राह्मणः । आर्यो ण्यदन्तत्वादन्तस्वरितः । आर्यः किम् । परमब्राह्मणः । ब्राह्मणादीति किम् । आर्यक्षत्रियः । कर्मधारय इत्येव ।
ब्राह्मणकुमारयोः परतो वा प्रकृत्या कर्मधारये । राजब्राह्मणः । राजकुमारः । योगविभाग उत्तरार्थः ।
  • (3794) षष्ठी प्रत्येनसि <6-2-60>
षष्ठ्यन्तो राजा प्रत्येनसि परे वा प्रकृत्या । राजप्रत्येनाः । षष्ठी किम् । अन्यत्र न ।
  • (3795) क्ते नित्यार्थे <6-2-61>
क्तान्ते परे नित्यार्थे समासे पूर्वं वा प्रकृत्या । नित्यप्रहसितः । कालाः 690 इति द्वितीयासमासोऽयम् । नित्यशब्दस्त्यबन्त आद्युदात्तः । हसित इति थाथादिस्वरेणान्तोदात्तः । नित्यार्थे किम् । मुहूर्तप्रहसितः ।
  • (3796) ग्रामः शिल्पिनि <6-2-62>
वा प्रकृत्या । ग्रामनापितः । ग्रामशब्द आद्युदात्तः । ग्रामः किम् । परमनापितः । शिल्पिनि किम् । ग्रामरथ्या ।
  • (3797) राजा च प्रशंसायाम् <6-2-63>
शिल्पिवाचिनि परे प्रशंसार्थं राजपदं वा प्रकृत्या । राजनापितः । राजकुलालः । प्रशंसायां किम् । राजनापितः । शिल्पिनि किम् । राजहस्ती ।
  • (3798) आदिरुदात्तः <6-2-64>
अधिकारोऽयम् ।
  • (3799) सप्तमीहारिणौ धर्म्येऽहरणे <6-2-65>
सम्तम्यन्तं हारिवाचि च आद्युदात्तं धर्म्ये परे । देयं यः स्वीकरोति स हारीत्युच्यते । धर्म्यमित्याचारनियतं देयम् । मुकुटेकार्षापणम् । हलेद्विपदिका । संज्ञायाम् 721 इत्यलुक् । याज्ञिकाश्वः । वैयाकरणहस्ती । क्वचिदयमाचारो मुकुटादिषु कार्षापणादि दातव्यं याज्ञिकादीनां त्वश्वादिरिति । धर्म्ये इति किम् । स्तम्बेरमः । कर्मकरवर्द्धितकः । अहरणे किम् । वाडवहरणम् । वडवाया अयं वाडवः । तस्य बीजनिषेकादुत्तरकालं शरीरपुष्ट्यर्थं यद्दीयते तद्धरणमित्युच्यते । परोऽपि कृत्स्वरो हारिस्वरेम बाध्यत इत्यहरण इति निषेधेन ज्ञाप्यते । तेन वाडवहार्यमिति हारिस्वरः सिध्यति ।
युक्तवाचिनि समासे पूर्वमाद्युदात्तम् । गोबल्लवः । कर्तव्ये तत्परो युक्तः ।
  • (3801) विभाषाऽध्यक्षे <6-2-67>
गवाध्यक्षः ।
  • (3802) पापं च शिल्पिनि <6-2-67>
पापनापितः । पापाणके-733 इति प्रतिपदोक्तस्यैव ग्रहणात् । षष्ठीसमासे न ।
  • (3803) गोत्राऽन्तेवासिमाणवब्राह्मणेषु क्षेपे <6-2-69>
भार्यासौश्रुतः । सुश्रुतापत्यस्य भार्याप्रधानतया क्षेपः । अन्तेवासी । कुमारीदाक्षाः । ओदनपाणिनीयाः । कुमार्यादिलाभकामा ये दाक्ष्यादिभिः प्रोक्तानि शास्त्रण्यधीयन्ते ते एवं क्षिप्यन्ते । भिक्षामाणवः । भिक्षां

लप्स्येऽहमिति माणवः । भयब्राह्मणः । भयेन ब्राह्मणः संपद्यते । गोत्रादिषु किम् । दासीश्रोत्रियः । क्षेपे किम् । परमब्राह्मणः ।

  • (3804) अङ्गानि मैरेये <6-2-70>
मद्यविशेषो मैरेयः । मधुमैरेयः । मधुविकारस्य तस्य मध्वङ्गम् । अङ्गानि किम् । परममैरेयः । मैरेये किम् । पुष्पासवः ।
  • (3805) भक्ताख्यास्तदर्थेषु <6-2-71>
भक्तमन्नम् । भिक्षाकंसः । भाजीकंसः । भिक्षादयोऽन्नविशेषाः । भक्ताख्याः किम् । समाशालयः । समशनं समाश इति क्रियामात्रमुच्यते । तदर्थेषु किम् । भिक्षाप्रियः । बहुव्रीहिरयम् । अत्र पूर्वपदमन्तोदात्तम् ।
  • (3806) गोबिडालसिंहसैन्धवेषूपमाने <6-2-72>
धान्यगवः । गोबिडालः । तृणसिंहः । सक्तुसैन्धवः । धान्यं गौरिवेति विग्रहः । व्याघ्रादिः । गवाकृत्या सन्निवेशितं धान्यं धान्यगवशब्देनोच्यते । उपमाने किम् । परमसिंहः ।
  • (3807) अके जीविकार्थे <6-2-73>
दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडा-711 इति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ।
  • (3808) प्राचां क्रीडायाम् <6-2-74>
प्राद्गेश वाचिना या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायाम् 3286 इति ण्वुल् । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ।
  • (3809) अणि नियुक्ते <6-2-75>
अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्रधारः । नियुक्ते किम् । काण्डलावः ।
  • (3810) शिल्पिनि चाऽकृञः <6-2-76>
शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमाद्युदात्तं स चेदण कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ।
  • (3811) संज्ञायां च <6-2-77>
अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ।
  • (3812) गोतन्तिवयं पाले <6-2-78>
गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थो योगः । गो इति किम् । वत्सपालः । पाले इति किम् । गोरक्षः ।
पुष्पहारी ।
  • (3814) उपमानं शब्दार्थप्रकृतावेव <6-2-80>
उपमानवाचि पूर्वपदं णिन्यन्ते परे आद्युदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ।
  • (3815) युक्तारोह्यादयश्च <6-2-81>
आद्युदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता ।
  • (3816) दीर्घकाशतुषभ्राष्ट्रवटं जे <6-2-82>
कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ।
  • (3817) अन्त्यात्पूर्वं बह्वचः <6-2-83>
बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि

  • (3818) ग्रामेऽनिवसन्तः <6-2-84>
ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ।
  • (3819) घोषादिषु च <6-2-86>
दाक्षिघोषः । दाक्षिकटः । दाक्षिह्रदः ।
  • (3820) छात्र्यादयः शालायाम् <6-2-86>
छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसके 3857 इत्येतस्मात्पूर्वप्रतिषेधेनायमेव स्वरः ।

छात्रिशालम् ।

  • (3821) प्रस्थेऽवृद्धमकर्क्यादीनाम् <6-2-87>
प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ।
  • (3822) मालादीनां च <6-2-88>
वृद्धार्थमिदम् । मालाप्रस्थः ।
  • (3823) अमहन्नवन्नगरेऽनुदीचाम् <6-2-88>
नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ।
  • (3824) अर्मे चाऽवर्णं द्व्यच् त्र्यच् <6-2-90>
अर्मे परे द्व्यच् त्र्यच् पूर्वमवर्णान्तमाद्युदात्तम् । गुप्तार्मम् । कुक्कुटार्मम् । अवर्णं किम् । बृहदर्मम् । द्व्यच् त्र्यच् किम् । कपिञ्जलार्मम् । अमहन्नवन्नित्येव । महार्मम् । नवार्मम् ।
  • (3825) न भूताधिकसञ्जीवमद्राश्मकज्जलम् <6-2-91>
अर्मे परे नैतान्याद्युदात्तानि । भूतार्मम् । अधिकार्मम् । सञ्जीवार्मम् । मद्राश्मग्रहणं संघातविगृहीतार्थम् । मद्रार्मम् । अश्मार्मम् । मद्राश्मार्मम् । कज्जलार्मम् ॥ आद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ॥ दिवोदासाय दाशुषे (दिवो॑दासाय दा॒शुषे॑) ।
अधिकारोऽयम् । प्रागुत्तरपदादिग्रहणात् ।
  • (3827) सर्वं गुणकार्त्स्न्ये <6-2-93>
सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्वंकिम् । परमश्वेतः आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकार्त्स्न्ये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्त्स्न्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ।
  • (3828) संज्ञायां गिरिनिकाययोः <6-2-94>
एतयोः परतः पूर्वमन्तोतरत्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ।
  • (3829) कुमार्यां वयसि <6-2-95>
पूर्वपदमन्तोदात्तम् । वृद्धकुमारी । कुमारीशब्दः पुंसा सहासंप्रयोगमात्रं प्रवृत्तिनिमित्तमुपादाय प्रयुक्तो वृद्धादिभिः समानाधिकरणः । तच्च वय इह गृह्यते न कुमारत्वमेव । वयसि किम् । परमकुमारी ।
  • (3830) उदकेऽकेवले <6-2-96>
अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । स्वरे कृतेऽत्र एकादेशः । स्वरितो वानुदात्तेपदादौ 3659 इति पक्षे स्वरितः । अकेवले किम् । शीतोदकम् ।
  • (3831) द्विगौ क्रतौ <6-2-97>
द्विगावुत्तरपदे क्रतुवाचिनि समासे पूर्वमन्तोदात्तम् । गर्गत्रिरात्रः । द्विगौ किम् । अत्रिरात्रः । क्रतौकिम् । बिल्वहोमस्य सप्तरात्रो बिल्वसप्तरात्रः ।
  • (3832) सभायां नपुंसके <6-2-98>
सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् ।
  • (3833) पुरे प्राचाम् <6-2-99>
देवदत्तपुरम् । नान्दीपुरम् । प्राचां किम् । शिवपुरम् ।
  • (3834) अरिष्टगौडपूर्वे च <6-2-100>
पुरे परे अरिष्टगौडपूर्वसमासे पूर्वमन्तोदात्तम् । अरिष्टपुरम् । गौडपुरम् । पूर्वग्रहणं किम् । इहापि तथा स्यात् । अरिष्टाश्रितपुरम् । गौडभृत्यपुरम् ।
  • (3835) न हास्तिनफलकमार्देयाः <6-2-101>
पुरे परे नैतान्यन्तोदात्तानि । हास्तिनपुरम् । फलकपुरम् । मार्देयपुरम् । मृदेरपत्यमिति शुभ्रादित्वाड्ढक् ।
  • (3836) कुसूलकूपकुम्भशालं बिले <6-2-102>
एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलस्वामी ।
  • (3837) दिक्शब्दा ग्रामजनपदाख्यानचानराटेषु <6-2-103>
दिक्शब्दा अन्तोदात्त भवन्त्येषु । पूर्वेषुकामशमी । अपरकृष्णमृत्तिका । जनपद । पूर्वपञ्चालाः । आख्याने । पूर्वयातम् । पूर्वयायातम् । पूर्वचानराटम् । शब्दग्रहणं कालवाचिदिक्शब्दस्य परिग्रहार्थम् ।
  • (3838) आचार्योपसर्जनश्चाऽन्तेवासिनि <6-2-104>
आचार्योपसर्जनान्तेवासिनि परे दिक्शब्दा अन्तोदात्ता भवन्ति । पूर्वपाणिनीयाः । आचार्येति किम् । पूर्वान्तेवासी । अन्तेवासिनि किम् । पूर्वपाणिनीयं शास्त्रम् ।
  • (3839) उत्तरपदवृद्धौ सर्वं च <6-2-105>
उत्तरपदस्येत्यधिकृत्य या वृद्धिर्विहिता तद्वत्युत्तरपदे परे सर्वशब्दो दिक्शब्दाश्चान्तोदात्ता भवन्ति । सर्वपाञ्चालकः । अपरपाञ्चालकः । अधिकारग्रहणं किम् । सर्वभासः । सर्वकारकः ।
  • (3840) बहुव्रीहौ विश्वं संज्ञायाम् <6-2-106>
बहुव्रीहौ विश्वशब्दः पूर्वपदभूतः संज्ञायामन्तोदात्तः स्यात् । पूर्वपदप्रकृतिस्वरेण प्राप्तस्याद्युदात्तस्यापवादः । विश्वकर्मा विश्वदेवः (वि॒श्वक॑र्मा वि॒श्वदे॑वः) । आविश्वदेवं सत्पतिम् (आवि॒श्वदे॑वं॒ सत्प॑तिम्) । बहुव्रीहौ किम् । विश्वे च ते देवाश्च विश्वदेवाः । संज्ञायां किम् । विश्वदेवः (विश्व॑देवः) । प्रागव्ययीभावाद्बहुव्रीह्यधिकारः ।
  • (3841) उदराश्वेषुषु <6-2-107>
संज्ञायामिति वर्तते वृकोदरः । हर्यश्वः । महेषुः ।
उदराश्वेषुषु पूर्वमन्तोदात्तं बहुव्रीहौ निन्दायाम् । घटोदरः । कटुकाश्वः । चलाचलेषुः । अनुदरः इत्यत्र नञ्सुभ्याम् 3906 इति भवति विप्रतिषेधेन ।
  • (3843) नदी बन्धुनि <6-2-109>
बन्धुशब्दे परे नद्यन्तं पूर्वमन्तोदात्तं बहुव्रीहौ । गार्गीबन्धुः । नदी किम् । ब्रह्मबन्धुः । ब्रह्मशब्द आद्युदात्तः । बन्धुनि किम् । गार्गीप्रियः ।
  • (3844) निष्ठोपसर्गपूर्वमन्यतरस्याम् <6-2-110>
निष्ठान्तं पूर्वपदमन्तोदात्तं वा । प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्वं किम् । शुष्कमुखः ।
  • (3845) उत्तरपदादिः <6-2-111>
उत्तरपदाधिकार आपादान्तम् । आद्यधिकारस्तु प्रकृत्या भगालम् 3871 इत्यवधिकः ।
  • (3846) कर्णो वर्णलक्षणात् <6-2-112>
वर्णवाचिनो लक्षणवाचिनश्च परः कर्णशब्द आद्युदात्तो बहुव्रीहौ । शुक्लकर्णः । शङ्कुकर्णः । कर्णः किम् ।

श्वेतपादः । वर्णलक्षणात्किम् । शोभनकर्णः ।

  • (3847) संज्ञौपम्ययोश्च <6-2-113>
कर्ण आद्युदात्तः । मणिकर्णः । औपम्ये । गोकर्णः ।
  • (3848) कण्ठपृष्ठग्रीवाजङ्घं च <6-2-114>
संज्ञौ पम्ययोर्बहुव्रीहौ । शितिकण्ठः । काण्डपृष्ठः । सुग्रीवः । नाडीजङ्घः । औपम्ये । खरकण्ठः । गोपृष्ठः । अश्वग्रीवः । गोजङ्घः ।
  • (3849) श्रृङ्गमवस्थायां च <6-2-115>
शृङ्गशब्दोऽवस्थायां संज्ञौपम्ययोश्चाद्युदात्तो बहुव्रीहौ । उद्गतशृङ्गः । द्व्यङ्गुलशृङ्गः । अत्र शृङ्गोद्गमनादिकृतो गवादेर्वयोविशेषोऽवस्था । संज्ञायाम् । ऋष्यशृङ्गः । उपमायाम् । मेषश्रृङ्गः । अवस्थेति किम् । स्थूलशृङ्गः ।
  • (3850) नञो जरमरमित्रमृताः <6-2-116>
नञः परा एते आद्युदात्ता बहुव्रीहौ । न मे जरा अजरम् । अमरम् । अमित्रमर्दय । श्रवो देवेष्वमृतम् (श्रवो॑ दे॒वेष्व॑मृतम्) । नञः किम् । ब्राह्मणमित्रः । जेति किम् । अशत्रुः ।
  • (3851) सोर्मनसी अलोमोषसी <6-2-117>
सोः परं लोमोषसी वर्जयित्वा मन्नन्तमसन्तं चाद्युदात्तं स्यात् । नञ्सुभ्यम् 3906 त्यिस्यापवादः । सुकर्माणः सुयुजः (सु॒कर्मा॑णः सु॒युजः॑) । स ो वक्षदनिमानः सुवह्मा (स नो॑ वक्षदनिमा॒नः सुब्रह्मा॑) । शिवा पशुभ्यः सुमनाः सुवर्चाः (शि॒वा प॒शुभ्यः॑ सु॒मनाः॑ सु॒वर्चाः॑) । सुपेशससकरति (सु॒पेश॑सस्करति) । सोः किम् । कृतकर्मा मनसी किम् । सुराजा (सु॒राजा॑) । अलोमोषसी किम् सुलोमा । सूषाः कपि तु परत्वा कपि पूर्वम् 3907 इति भवति । सुकर्मकः सुस्रोतस्यः ।
  • (3852) कत्वादयश्च <6-2-118>
सोः परे आद्युदात्ताः स्युः । साम्राज्याय सुक्रतुः (साम्रा॒ज्याय सु॒क्रतुः॑) । सुप्रतीकः (सु॒प्रती॑कः) । सुहव्यः (सु॒हव्यः॑) । सुप्रतुर्तिनेहसम् (सु॒प्रतू॑र्तिने॒हस॑म्) ।
  • (3853) आद्युदात्तं द्व्यच् छन्दसि <6-2-119>
यदाय्दुयाद्तं द्व्यच् तत्सोरुत्तरं बहुव्रीहावाद्युदात्तम् । अधास्वश्वाः (अधा॒स्वश्वाः॑) । सुरॅंथा आतिथिग्वे (सु॒रॅंथा॑ आतिथि॒ग्वे) । नित्स्वरेणाश्वरथावाद्युदात्तौ । आद्युदात्तं किम् । या सुबाहुः (या सु॑बा॒हुः) । द्व्यच् किम् । सुगुरसत्सु हिरण्यः (सु॒गुर॑सत्सु हिर॒ण्यः) । हिरण्यशब्दस्त्र्यच् ।
  • (3854) वीरवीर्यौ च <6-2-120>
सोः परौ बहुव्रीहौ छन्दस्याद्युदात्तौ । सुवीरे रयिणा (सु॒वीरे(स्वः र॒यिणा॑) । सुवीर्यस्य गोमतः (सु॒वीर्य॑स्य॒ गोमतः॑) । वीर्यशब्दो यत्प्रत्ययान्तः । तत्र यतोऽनावः 3701 इत्याद्युदात्तत्वं नेति वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेणैव सिद्धं स्यात् ।
  • (3855) कूलतीरतूलमूलशालाऽक्षरसममव्ययीभावे <6-2-121>
उपकूलम् । उपतीरम् । उपतूलम् । उपमूलम् । उपशालम् । उपाक्षम् । सुषमम् । निःषमम् । तिष्ठद्गुप्रभृतिष्वेते । कूलादिग्रहणं किम् । उपकुम्भम् । अव्ययीभावे किम् । परमकूलम् ।
  • (3856) कंसमन्थसूर्पपाय्यकाण्डं द्विगौ <6-2-122>
द्विकंसः । द्विमन्थः । द्विशूर्पः । द्विपाय्यम् । द्विकाण्डम् । द्विगौ किम् । परमकंसः ।
  • (3857) तत्पुरुषे शालायां नपुंसके <6-2-123>
शालाशब्दान्ते तत्पुरुषे नपुंसकलिङ्गेउत्तरपदमाद्युदात्तम् । ब्राह्मणशालम् । तत्पुरुषे किम् । दृढशालं ब्राह्मणकुलम् । शालायां किम् । ब्राह्मणसेनम् नपुंसके किम् । ब्राह्मणशाला ।
तत्पुरुषे नपुंसकलिङ्गे कन्था शब्द उत्तरपदमाद्युदात्तम् । सौशमिकन्थम् । आह्वरकन्थम् । नपुंसके किम् । दाक्षिकन्या ।
  • (3859) आदिश्चिहणादीनाम् <6-2-125>
कन्थान्ते तत्पुरुषे नपुंसकलिङ्गे चिहणादीनामादिरुदात्तः । चिहमकन्थम् । मन्दुरकन्थम् । आदिरिति वर्तमाने पुनर्ग्रहणं पूर्वपदस्याद्युदात्तार्थम् ।
  • (3860) चेलखेटकटुककाण्डं गर्हायाम् <6-2-126>
चेलादीन्युत्तरपदान्याद्युदात्तानि । पुत्रचेलम् । नागरखेटम् । दधिकटुकम् । प्रजाकाण्डम् । चेलादिसादृश्येन पुत्रादीनां गर्हा व्याघ्रादित्वात्समासः । गर्हायां किम् परमचेलम् ।
  • (3861) चीरमुपमानम् <6-2-127>
वस्त्रं चीरमिव वस्त्रचीरम् । कम्बलचीरम् । उपमानं किम् । परमचीरम् ।
  • (3862) पललसूपशाकं मिश्रे <6-2-128>
घृतपललम् । घृतसूपः । घृतशाकम् । भक्ष्येण मिश्रीकरणम् 697 इति समासः । मिश्रे किम् । परमपललम् ।
  • (3863) कूलसूदस्थलकर्षां संज्ञायाम् <6-2-129>
आद्युदात्तास्तत्पुरुषे । दाक्षिकूलम् । शाण्डिसूदम् । दाण्डायनस्थलम् । दाक्षिकर्षः । ग्रामसंज्ञा एताः । संज्ञायां किम् । परमकूलम् ।
  • (3864) अकर्मधारये राज्यम् <6-2-130>
कर्मधारयवर्जिते तत्पुरुषे राज्यमुत्तरपदमाद्युदात्तम् । ब्राह्मण राज्यम् । अकेति किम् । परमराज्यम् ॥ चेलराज्यादिस्वरादव्ययस्वरः पूर्वविप्रतिषेधेन कुचेलम् । कुराज्यम् ।
  • (3865) वर्ग्यादयश्च <6-2-131>
अर्जुनवर्ग्यः वासुदेवपक्ष्यः । अकर्मधारय इत्येव । परमवर्ग्यः । वर्गादिर्दिगाद्यन्तर्गणः ।
  • (3866) पुत्र पुम्भ्यः <6-2-132>
पुम्शब्देभ्यः । परः पुत्रशब्द आद्युदात्तस्तत्पुरुषे । दाशकिपुत्रः । माहितपुत्रः । पुत्रः किम् । कौनटिमातुलः । पुम्ब्यः किम् । दाक्षीपुत्रः ।
  • (3867) नाचार्यराजर्त्विक्संयुक्तज्ञात्याख्येभ्यः <6-2-133>
एभ्यः पुत्रो नाद्युदात्तः । आख्याग्रहणात्पर्यायाणां तद्विशेषाणां च ग्रहणम् । आचार्यपुत्रः । उपाध्यायपुत्रः । शाकटायनपुत्रः । राजपुत्रः । ईश्वरपुत्रः । नन्दपुत्रः । ऋत्विक्पुत्रः । याजकपुत्रः । होतुः पुत्रः । संयुक्ताः संबन्धिनः । श्यालपुत्रः । ज्ञातयो मातापितृसंबन्धेन बान्धवाः । ज्ञातिपुत्रः । भ्रातुष्पुत्रः ।
  • (3868) चूर्णादीन्यप्रणिषष्ठ्याः <6-2-134>
एतानि प्राणिभिन्नषष्ठ्यन्तात्पराण्याद्युदात्तानि तत्पुरुषे । मुद्गचूर्णम् । अप्रेति किम् । मत्स्यचूर्णम् ।
  • (3869) षट् च काण्डादीनि <6-2-135>
अप्राणिषष्ठ्या आद्युदात्तानि । दर्भकाण्डम् । दर्भचीरम् । तिलपललम् । मुद्गसूपः । मूलकशाकम् । नदीकूलम् । षट् किम् । राजसूदः । अप्रेति किम् । दत्तकाण्डम् ।
  • (3870) कुण्डं वनम् <6-2-136>
कुण्डमाद्युदात्तं वनवाचिनि तत्पुरुषे । दर्भकुण्डम् । कुण्डशब्दोऽत्र सादृश्ये । वनं किम् । मृत्कुण्डम् ।
  • (3871) प्रकृत्या भगालम् <6-2-137>
भगालवाच्युत्तरपदं तत्पुरुषे प्रकृत्या । कुम्भीभगालम् । कुम्भीनदालम् । कुम्भीपालम् । मध्योदात्ता एते । प्रकृत्येत्यधिकृतम् अन्तः 3877 इति यावत् ।
  • (3872) शितेर्नित्याऽबह्वज्बहुव्रीहावभसत् <6-2-138>
शितेः परं नित्याबह्वच्कं प्रकृत्या । शितिपादः । शित्यंसः । पादशब्दो वृषादित्वादाद्युदात्तः । अंसशब्दः प्रत्ययस्य नित्त्वात् । शितेः किम् । दर्शनीयपादः । अभसत्किम् । शितिभसत् । शितिराद्युदात्तः ।

पूर्वपदप्रकृतिस्वरापवादोऽयं योगः ।

  • (3873) गतिकारकोपपदात्कृत् <6-2-139>
एभ्यः कृदन्तं प्रकृतिस्वरं स्यात्तत्पुरुषे । प्रकारकः । प्रहरणम् । शोणा धृष्णू नृवाहसा (शोणा॑ धृ॒ष्णू नृ॒वाह॑सा) । इध्मप्रव्रश्चनः । उपपदात् । उच्चैःकारम् । ईषत्करः । गतीति किम् । देवस्य कारकः । शेषलक्षणा षष्ठी । कृद्ग्रहणं स्पष्टार्थम् । प्रपचतितरामित्यत्र तरबाद्यन्तेन समासे कृते आम् । तत्र सतिशिष्टत्वादम्स्वरो भवतीत्येके । प्रपचतिदेश्यार्थं तु कृद्ग्रहणमित्यन्ये ।
  • (3874) उभे वनस्पत्यादिषु युगपत् <6-2-140>
एषु पूर्वोत्तरपदे युगपत्प्रकृत्या । वनस्पतिं वनआ (वन॒स्पतिं॒ वन॒आ) । बृहस्पतिं यः (बृह॒स्पतिं॒ यः) । बृहच्छब्दोऽत्राद्युदात्तो निपात्यते । हर्षया शचीपतिम् (ह॒र्ष॒या॒ शची॒पति॑म्) । शाङ्र्गरवादित्वादाद्युदात्तः शचीशब्दः । शचीभिर्न इति दर्शनात् । तनूनपादुच्यते (तनू॒नपा॑दुच्यते) । नराशंसं वाजिनम् (नरा॒शंसं॑ वा॒जिन॑म्) । निपातनाद्दीर्घः । शुनःशेपम् (शुनः॒शेप॑म्) ।
  • (3875) देवताद्वन्द्वे च <6-2-141>
उङे युगपत्प्रकृत्या स्तः । आ य इन्द्रावरुणौ (आ य इन्द्रा॒वरु॒णौ) । इन्द्राबृहस्पती वयम् (इन्द्रा॒बृह॒स्पती॑ व॒यम्) । देवता किम् । प्लक्षन्यग्रोधौ । द्वन्द्वे किम् । अग्निष्टोमः ।
  • (3876) नोत्तरपदेऽनुदात्तादावपृथिवीरुद्रपूषमन्थिषु <6-2-142>
पृथिव्यादिवर्जितेऽनुदात्तावुत्तरपदे प्रागुक्तं न । इन्द्राग्निभ्यां कं वृषणः (इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णः) । अपृथिव्यादौ किम् । द्यावापृथिवी जनयन् (द्यावा॑पृथि॒वी ज॒नय॑न्) । आद्युदात्तो द्यावा निपात्यते । पृथिवीत्यन्तोदात्तः । सोमा॑रुद्रौ । रोदेर्णिलुक्च इति रगन्तो रुद्रशब्दः । इन्द्रापूषणौ (इन्द्रा॑पूषणौ) । श्वन्नुक्षन् पूषन् इति पूषा अन्तोदात्तो निपात्यते । सुकामन्थिनौ । मन्थिन्निन्नन्तत्वादन्तोदात्तः । उत्तरपदग्रहणमनुदात्तादावित्युत्तरपदविशेषणं यथा स्यात् द्वन्द्वविशेषणं मा भूत् । अनुदात्तादाविति विधिप्रतिषेधयोर्विषयविभागार्थम् ।
अधिकारोऽयम् ।
  • (3878) थाथघञ्क्ताजवित्रकाणाम् <6-2-144>
थ अथ घञ् क्त अच् अप् इत्र क एतदन्तानां गतिकारकोपपदात्परेषामन्त उदात्तः । प्रभृथस्यायोः (प्र॑भृ॒थस्या॒योः) । आवसथः । घञ् । प्रबेदः । क्तः । धर्ता वज्री परुष्टुतः (ध॒र्ता व॒ज्री पु॑रुष्टु॒तः) । पुरुषु बहुप्रदेशेषु स्तुत इति विग्रहः । अच् । प्रक्षयः । अप् । प्रलवः । इत्र । प्रलवित्रम् । क । गोवृषः । मूलविभुजादित्वात्कः । गतिकारकोपपदादित्येव । सुस्तुतं भवता ।
  • (3879) सूपमानात्क्तः <6-2-145>
सोरुपमानाच्च परं क्तान्तमन्तोदात्तम् । ऋतस्य योनौ सुकृतस्य (ऋ॒तस्य योनौ॑ सुकृ॒तस्य॑) । शशप्लुतः ।
  • (3880) संज्ञायामनाचितादीनाम् <6-2-146>
गतिकारकोपपदात् क्तान्तमन्तोदात्तमाचितादीन्वर्जयित्वा उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । अनेति किम् । आचितम् । आस्थापितम् ।
  • (3881) प्रवृद्धादीनां च <6-2-147>
एषां क्तान्तमुत्तरपदमन्तोदात्तम् । प्रबृद्धः । प्रयुतः । असंज्ञार्थोऽयमारम्भः । आकृतिगणोऽयम् ।
  • (3882) कारकाद्दत्तश्रुतयोरेवाशिषि <6-2-148>
संज्ञायामन्त उदात्तः । देवदत्तः । विष्णुश्रुतः । कारकात्किम् । संभूतो रामायणः । दत्तश्रुतयोः किम् । देवपालितः । अस्मान्नियमादत्र संज्ञायामन-3880 इति न तृतीया कर्मणि-3782 इति तु भवति । एव किम् । कारकावधारणं यथा स्यात् दत्तश्रुतावधारणं मा भूत् । अकारकादपि दत्तश्रुतयोरन्तः उदात्तो भवति । संश्रुतः

। आशिषि किम् । देवैः खाता देवखाता । आशिष्येवेत्येवमत्रेष्टो नियमः । तेनानाहतो नदति देवदत्त इत्यत्र न शङ्खविशेषस्य संज्ञेयम् । तृतीया कर्मणि-3782 इति पूर्वपदप्रकृतिस्वरत्वमेव भवति ।

  • (3883) इत्थम्भूतेन कृतमिति च <6-2-149>
इत्थम्भूते कृतमित्येतस्मिन्नर्थे यः समासस्तत्र क्तान्तमुत्तरपदमन्तोदात्तं स्यात् । सुप्तप्रलपितम् । प्रमत्तगीतम् । कृतमिति क्रियासामान्ये करोतिर्नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि-3782 इत्यस्यापवादः ।
  • (3884) अनो भावकर्मवचनः <6-2-150>
कारकात्परमनप्रत्ययान्तं भाववचनं कर्मवचनं चान्तोदात्तम् । पयःपानं सुखम् । राजभोजनाः शालयः । अनः किम् । हस्तादायः । भेति किम् । दन्तधावनम् । करणे ल्युट् । कारकात्किम् । निदर्शनम् ।
  • (3885) मन्क्तिन्व्याख्यानशयनासनस्थानयाजकादिक्रीताः <6-2-151>
कारकात्पराणि एतान्युत्तरपदान्यन्तोदात्तानि तत्पुरुषे । कृत्स्वरापवादः । रथवर्त्म । पाणिनिकृतिः । छन्दोव्याख्यानम् । राजशयनम् । राजासनम् । अश्वस्थानम् । ब्राह्मणयाजकः । गोक्रीतः । कारकात्किम् । प्रभूतौ सङ्गतिम् । अत्र तादौ च निति-3784 इति स्वरः ।
  • (3886) सप्तम्याः पुण्यम् <6-2-152>
अन्तोदात्तम् । अध्ययनपुण्यम् । तत्पुरुषे तुल्यार्थेति प्राप्तम् । सप्तम्याः किम् । वेदेन पुण्यं वेदपुण्यम् ।
  • (3887) ऊनार्थकलहं तृतीयायाः <6-2-153>
माषोनम् । माषविकलम् । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवादोऽयम् । अत्र केचिदर्थेति स्वरूपग्रहममिच्छन्ति । धान्यार्थः । ऊनशब्देन त्वर्थनिर्देशार्थेन तदर्थानां ग्रहणमिति प्रतिपदोक्तत्वादेव सिद्धे तृतीयाग्रहणं स्पष्टार्थम् ।
  • (3888) मिश्रं चानुपसर्गमसन्धौ <6-2-154>
पणबन्धेनैकार्थ्यं सन्धिः । तिलमिश्राः । सर्पिर्भिश्राः । मिश्रं किम् । गुडधानाः । अनुपसर्गं किम् । तिलसंमिश्राः । मिश्रग्रहणे सोपसर्ग्रहणस्येदमेव ज्ञापकम् । असन्धौ किम् । ब्राह्मणमिश्रो राजा । ब्राह्मणैः सह संहित ऐकार्थ्यमापन्नः ।
  • (3889) नञो गुणप्रतिषेधे सम्पाद्यर्हहितालमर्थास्तद्धिताः <6-2-155>
संपाद्याद्यर्थतद्धितान्ता नञो गुणप्रतिषेधे वर्तमानात्परेऽन्तोदात्ताः । कर्णवेष्टकाभ्यां संपादि कार्णवेष्टकिकम् । न कार्णवैष्टकिकमकार्णवेष्टकिकम् । छेदमर्हति छैदिकः । न छैदिकोऽच्छैदिकः । न वत्सेभ्यो हितोऽवत्सीयः । न सन्तापाय प्रभवति । असान्तापिकः । नञः किम् । गर्दभरथमर्हति गार्दभरथिकः । द्विगार्दभरथिकः । गुणप्रतिषेदे किम् । गार्दभरथिकादन्योऽगार्दभरथिकः । गुणो हि तद्धितार्थे प्रवृत्तिनिमित्तं संपादित्वाद्युच्यते । तत्प्रतिषेधो यत्रोच्यते तत्रायं विधिः । कर्णवेष्टकाभ्यां न सम्पादि मुखमिति । संपेति किम् । पाणिनीयमधीते पाणिनीयः । न पाणिनीयः अपाणिनीयः । तद्धिताः किम् । वोढुमर्हति वोढा । न वोढाऽवोढा ।
  • (3890) ययतोश्चातदर्थे <6-2-156>
ययतौ यौ तद्धितौ तदन्तस्योत्तरपदस्य नञो गुणप्रतिषेधविषयात्परस्यान्त उदात्तः स्यात् । पाशानां समूहः पाश्या । न पाश्या अपाश्या । अदन्त्यम् । अतदर्थे किम् । अपाद्यम् । तद्धितः किम् । अदेयम् । गुणप्रतिषेधे किम् । दन्त्यादन्यददन्त्यम् । तदनुबन्धग्रहणे नातदनुबन्धकस्येति । नेह । अवामदेव्यम् ।
  • (3891) अच्कावशक्तौ <6-2-157>
अजन्तं कान्तं च नञः परमन्तोदात्तमशक्तौ गम्यायाम् । अपचः । पक्तुं न शक्तः । अविलिखः अशक्तौ किम् । अपचो दीक्षितः । गुणप्रतिषेधे इत्येव । अन्योऽयं पचादपचः ।
नञः परावच्कावन्तोदात्तावाक्रोशे । अपचो जाल्मः । पक्तुं न शक्नोतीत्येवमाक्रोश्यते । अविक्षिपः ।
  • (3893) संज्ञायाम् <6-2-159>
नञः परमन्तोदात्तं संज्ञायामाक्रोशे । अदेवदत्तः ।
  • (3894) कृत्योकेष्णुच्चार्वादयश्च <6-2-160>
नञः परेऽन्तोदात्ताः स्युः । अकर्तव्यः । उक् । अनागामुकः । इष्णुच् । अनलङ्करिष्णुः । इष्णुज्ग्रहणे खिष्णुचो द्व्यनुबन्धकस्यापि ग्रहणमिकारादेर्विधानसामर्थ्यात् । अनाढ्यंभविष्णुः । चार्वादिः । अचारुः । असाधुः ॥ (ग)राजाह्नोश्छन्दसि ॥ अराजा । अनाहः । भाषायां नञः स्वर एव ।
  • (3895) विभाषा तृन्नन्नतीक्ष्णशुचिषु <6-2-161>
तृन् । अकर्ता । अन्न । अनन्नम् । अतीक्ष्णम् । अशुचि पक्षे अव्ययस्वरः ।
  • (3896) बहुव्रीहाविदमेतत्तद्भ्य्- प्रथमपूरणयोः क्रियागणने <6-2-162>
एभ्योऽनयोरन्त उदात्तः । इदं प्रथमं यस्य स इदंप्रथमः । एतद्द्वितीयः । तत्पञ्चमः । बहुव्रीहौ किम् । अनेन प्रथम इदंप्रथमः । तृतीया-692 इति योगविभागात्समासः । इदमेतत्तद्भ्यः किम् । यत्प्रथमः । प्रथमपूरणयोः किम् । तानि बून्यस्य तद्बहुः । क्रियागणने किम् । अयं प्रथमः प्रधानं येषां ते इदं प्रथमाः । द्रव्यगणनमिदम् । गणने किम् । अयं प्रथमो येषां ते इदंप्रथमः । इदंप्रधाना इत्यर्थः । उत्तरपदस्य कार्यित्वात्कपि पूर्वमन्तोदात्तम् । इदंप्रथमकः । बहुव्रीहावित्यधिकारो वनं समासे-3912 इत्यतः प्राग्बोध्यः ।
  • (3897) संख्यायाः स्तनः <6-2-163>
बहुव्रीहावन्तोदात्तः । द्विस्तनी । चतुःस्तना । संख्यायाः किम् । दर्शनीयस्तना । स्तनः किम् । द्विशिराः ।
  • (3898) विभाषा छन्दसि <6-2-164>
द्विस्तनां करोति ।
  • (3899) संज्ञायां मित्राजिनयोः <6-2-165>
देवमित्रः । कृष्णाजिनम् । संज्ञायां किम् । प्रियमित्रः ॥ ऋषिप्रतिषेधो मित्रे ॥ विश्वामित्र ऋषिः ।
  • (3900) व्यवायिनोऽन्तरम् <6-2-166>
व्यवधानवाचकात्परमन्तोदात्तम् । वस्त्रमन्त्रं व्यवधायकं यस्य स वस्त्रान्तरः । व्यवायिनः किम् । आत्मान्तरः । अन्यस्वभाव इत्यर्थः ।
  • (3901) मुखं स्वाङ्गम् <6-2-167>
गौरमुखः । स्वाङ्गं किम् । दीर्घमुखा शाला ।
  • (3902) नाऽव्ययदिक्शब्दगोमहत्स्थूलमुष्टिपृथिवत्सेभ्यः <6-2-168>
उच्चैर्मुखः । प्राङ्मुखः । गोमुखः । महामुखः । स्थूलमुखः मुष्टिमुखः । पृथुमुखः । वत्समुखः । पूर्वपदप्रकृतिस्वरोऽत्र । गोमुष्टिवत्सपूर्वपदस्योपमानलक्षणोऽपि विकल्पोऽनेन बाध्यते ।
  • (3903) निष्ठोपमानादन्यतरस्याम् <6-2-169>
निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्ग-3844 इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् । सिंहमुखः ।
  • (3904) जातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः <6-2-170>
सारङ्गजग्धः । मासजातः । सुखजातः । दुःखजातः । जातिकालेति किम् । पुत्रजातः । अनाच्छादनात्किम् । वस्त्रच्छन्नः । अकृतेति किम् । कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । अस्माज्ज्ञापकान्निष्ठान्तस्य परनिपातः ।
जातिकालसुखादिभ्यः परो जातशब्दो वान्तोदात्तः । दन्तजातः । मासजातः ।
  • (3906) नञ्सुभ्याम् <6-2-172>
बहुव्रीहावुत्तरपदमन्तोदात्तम् । अव्रीहिः । सुमाषः ।
  • (3907) कपि पूर्वम् <6-2-173>
नञ्सुभ्यां परं यदुत्तरपदं तदन्तस्य समासस्य पूर्वमुदात्तं कपि परे । अब्रह्मबन्धुकः । सुकुमारीकः ।
  • (3908) ह्रस्वान्तेऽन्त्यात्पूर्वम् <6-2-174>
ह्रस्वान्त उत्तरपदे समासे वान्त्यात्पूर्वमुदात्तं कपि नञ्सुभ्यां परं बहुव्रीहौ । अव्रीहिकः । सुमाषकः । पूर्वमित्यनुवर्तमाने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमार्थम् । ह्रस्वान्तेऽन्त्यादेव पूर्वपदमुदात्तं न कपि पूर्वमिति अज्ञकः । कबन्तस्यैवान्तोदात्तत्वम् ।
  • (3909) बहोर्नञ्वदुत्तरपदभूम्नि <6-2-175>
उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः ।
  • (3910) न गुणादयोऽवयवाः <6-2-176>
अवयववाचिनो बहोः परे गुणादयो नान्तोदात्ता बहुव्रीहौ । बहुगुमा रज्जुः । बह्वक्षरं पदं । बह्वध्यायः । गुणादिराकृतिगणः । अवयवाः किम् । बहुगुमो द्विजः । अध्ययनश्रुतसदाचारादयो गुणाः ।
  • (3911) उपसर्गात्स्वाङ्गं ध्रुवमपर्शु <6-2-177>
प्रपृष्टः । प्रललाटः । ध्रुवमेकरूपम् । उपसर्गात्किम् । दर्शनीयपृष्ठः । स्वाङ्गं किम् । प्रशाखो वृक्षः । ध्रुवं किम् । उद्बाहुः । अपर्शु किम् । विपर्शुः ।
समासमात्रे उपसर्गादुत्तरपदं वनमन्तोदात्तम् । तस्येदिमे प्रवणे (तस्येदि॑मे प्रव॒णे) ।
अस्मात्परं वनमन्तोदात्तम् । अन्तर्वणो देशः । अनुपसर्गार्थमिदम् ।

उपसर्गादन्तः शब्दोऽन्तोदात्तः । पर्यन्तः समन्तः ।

  • (3915) न निविभ्याम् <6-2-181>
न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरे यणि च कृते उदात्तस्वरितयोर्यणः-3657 इति स्वरितः ।
  • (3916) परेरभितोभावि मण्डलम् <6-2-182>
परेः परमभित उभयतो भावो यस्यास्ति तत्कूलादि मण्डलं चान्तोदात्तम् । परिकूलम् । परिमण्डलम् ।
  • (3917) प्रादस्वाङ्गं संज्ञायाम् <6-2-183>
प्रगृहम् । अस्वाङ्गं किम् । प्रपदम् ।
  • (3918) निरुदकादीनि च <6-2-184>
अन्तोदात्तानि । निरुदकम् । निरुपलम् ।
  • (3919) अभेर्मुखम् <6-2-185>
अभिमुखम् । उपसर्गात्स्वाङ्गम्-3911 इति सिद्धे बहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं चेदम् । अभिमुखा शाला ।
अपमुखम् । योगविभाग उत्तरार्थः ।
  • (3921) स्फिगपूतवीणाऽञ्जेध्वकुक्षिसीरनामनाम च <6-2-187>
अपादिमान्यन्तोदात्तानि । अपस्फिगम् । अपपूतम् । अपवीणम् । अञ्जस् । अपाञ्जः । अध्वन् । अपाध्वा । उपसर्गादध्वनः-953 इत्यस्याभावे इदम् । एतदेव च ज्ञापकं समासान्तानित्यत्वे उपकुक्षिः । सीरनाम । अपसीरम् । अपहलम् । नाम अपनाम । स्फिगपूतकुक्षिग्रहणमबहुव्रीह्यर्थमध्रुवार्थमस्वाङ्गार्थं च ।
  • (3922) अधेरुपरिस्थम् <6-2-188>
अध्यारूढो दन्तोऽधिदन्तः । दन्तस्योपरि जातो दन्तः । उपरिस्थं किम् । अधिकरणम् ।
  • (3923) अनोरप्रधानकनीयसी <6-2-189>
अनोः परमप्रधानवाचि कनीयश्चान्तोदात्तम् । अनुगतो ज्येष्ठमनुज्येष्ठः । पूर्वपदार्थप्रधानः प्रादिसमासः । अनुगतः कनीयाननुकनीयान् । उत्तरपदार्थप्रधानः । प्रधानार्थं च कनीयोग्रहणम् । अप्रेति किम् । अनुगतो ज्येष्ठोऽनुज्येष्ठः ।
  • (3924) पुरुषश्चाऽन्वादिष्टः <6-2-190>
अनोः परोऽन्वादिष्टवाची पुरुषोऽन्तोदात्तः । अन्वादिष्ट पुरुषोऽनुपुरुषः । अन्वादिष्टः किम् । अनुगतः पुरुषोऽनुपुरुषः ।
  • (3925) अतेरकृत्पदे <6-2-191>
अतेः परमकृदन्तं पदशब्दश्चान्तोदात्तः । अत्यङ्कुशो नागः । अतिपदगायत्री । अकृत्पदे किम् । अतिकारः ॥ अतेर्धातुलोप इति वाच्यम् ॥ इह मा भूत् । शोभनो गार्ग्योऽतिगार्ग्यः । इह च स्यात् । अतिक्रान्तः कारुमतिकारुकः ।
निधानमप्रकाशता ततोऽन्यदनिधानं प्रकाशनमित्यर्थः । निमूलम् । न्यक्षम् । अनिधाने किम् । निहितो दण्डो निदण्डः ।
  • (3927) प्रतेरंश्वादयस्तत्पुरुषे <6-2-193>
प्रतेः परेंऽश्वादयोऽन्तोदात्ताः । प्रतिगतोंऽशुः प्रत्यंशुः प्रतिजनः । प्रतिराजा । समासान्तस्यानित्यत्वान्न टच् ।
  • (3928) उपाद्द्व्यजजिनमगौरादयः <6-2-194>
उपात्परं यत् द्व्यच्कमजिनं चान्तोदात्तं तत्पुरुषे गौरादीन्वर्जयित्वा । उपदेवः । उपेन्द्रः । उपाजिनम् । अगौरादयः किम् । उपगौरः । उपतैषः । तत्पुरुषे किम् । उपगतः सोमोऽस्य स उपसोमः ।
  • (3929) सोरवक्षेपणे <6-2-195>
सुप्रत्यवसितः । सुरत्र पूजायामेव । वाक्यार्थस्त्वत्र निन्दा । असूयया तथाभिधानात् । सोः किम् । कुब्राह्मणः । अवक्षेपणे किम् । सुवृषणम् ।
  • (3930) विभाषोत्पुच्छे <6-2-196>
तत्पुरुषे । उत्क्रान्तः पुच्छादुत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयतेः एरच्-3231 उत्पुच्छस्तदा थाथादिस्वरेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयम् । सेयमुभयत्र विभाषा । तत्पुरुषे किम् । उदस्तं पुच्छं येन स उत्पच्छः ।
  • (3931) द्वित्रिभ्या पाद्दन्मूर्धसु बहुव्रीहौ <6-2-197>
आभ्यां परेश्वेश्वन्तोदात्तो वा । द्विपाच्चतुष्पाच्चरथाय (द्वि॒पाच्चतु॑ष्पाच्च॒रथा॑य) । त्रिपादूर्ध्वः (त्रि॒पादू॒र्ध्वः) । द्विदन् । त्रिमूर्धानं सप्तरश्मिम् (त्रि॒मू॒र्धानं॑ स॒प्तरश्मिम्) । मूर्धन्नित्यकृतसमासान्त एव मूर्धशब्दः । तस्यैतत्प्रयोजनमसत्यपि समासान्ते अन्तोदात्तत्वं यथा स्यात् । एतदेव ज्ञापकमनित्यः समासान्तो भवतीति । यद्यपि च समासान्तः क्रियते तथापि बहुव्रीहिकार्यत्वात्तदेकदेशत्वाच्च समासान्तोदात्तत्वं पक्षे भवत्येव द्विमूर्धः । त्रिमूर्धः । द्वित्रिभ्यां किम् । कल्याणमूर्धा । बहुव्रीहौ किम् । द्वयोर्मूर्धा द्विमूर्धा ।
  • (3932) सक्थं चाऽक्रान्तात् <6-2-198>
गौरसक्थः । श्लक्ष्णसक्थः । आक्रान्तात्किम् । चक्रसक्थः । समासान्तस्य पचश्चित्त्वान्नित्यमेवान्तोदात्तत्वं भवति ।
  • (3933) परादिश्छन्दसि बहुलम् <6-2-199>
छन्दसि परस्य सक्थशब्दस्यादिरुदात्तो वा । अजिसक्थमालभेत । अत्र वार्तिकम् ॥ परादिश्च परान्तश्च पूर्वान्तश्चापि दृश्यते । पूर्वादयश्च दृश्यन्ते व्यत्ययो बहुलं ततः ॥ इति परादिः । तुविजाता उरुक्षया (तु॒वि॒जा॒ता उ॑रु॒क्षया॑) । परान्तः । नि येन मुष्टिहत्यया (नि येन॑ मुष्टिह॒त्यया॑) । यस्त्रिचक्रः (यस्त्रि॑च॒क्रः) । पूर्वान्तः । विश्वायुर्धेहि (वि॒श्वायु॑र्धेहि) ॥ इति समासस्वराः ॥
  • (3934) तिङो गोत्रादीनि कुत्सनाभीक्ष्ण्ययोः <8-1-27>
तिङन्तात्पदाद्गोत्रादीन्यनुदात्तान्येतयोः । पचति गोत्रम् । पचतिपचति गोत्रम् । एवं प्रवचनप्रहसनप्रकथनप्रत्यायनादयः । कुत्सनाभीक्ष्ण्यग्रहणं पाठविशेषणम् । तेनान्यत्रापि गोत्रादिग्रहणे कुत्सनादावेव कार्यं ज्ञेयम् । गोत्रादीनि किम् । पचति पापम् । कुत्सेति किम् । खनति गोत्रम् । समेत्य कूपम् ।
  • (3935) तिङ्ङतिङः <8-1-28>
अतिङन्तात्पदात्परं तिङन्तं निहन्यते । अग्निमीळे (अ॒ग्निमी॑ळे) ।
लुडन्तं न निहन्यते । श्वःकर्ता । श्वःकर्तारौ ।
  • (3937) निपातैर्यद्यदिहन्तकुविन्नेच्चेच्चण्कच्चिद्यत्रयुक्तम् <8-1-30>
एतैर्निपातैर्युक्तं न निहन्यते । यदग्ने स्यामहं त्वम् (यद॑ग्ने॒ स्याम॒हं त्वम्) । युवा यदीकृथः (युवा॒ यदी॑कृ॒थः) । कुविदङ्ग आसन् (कु॒विद॒ङ्ग आस॑न्) । अचित्तिभिश्चकृमा कच्चित् (अचि॑त्तिभिश्चकृ॒मा कच्चि॑त्) । पुत्रासो यत्र पितरो भवन्ति (पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव॑न्ति) ।
  • (3938) नह प्रत्यारम्भे <8-1-31>
नहेत्यनेन युक्तं तिङन्तं नानुदात्तम् । प्रतिषेधयुक्त आरम्भः प्रत्यारम्भः । नह भोक्ष्यसे । प्रत्यारम्भे किम् । नह वैतस्ंिमल्लोके दक्षिणमिच्छन्ति ।
  • (3939) सत्यं प्रश्ने <8-1-32>
सत्ययुक्तं तिङन्तं नानुदात्तं प्रश्ने । सत्यं भोक्ष्यसे । प्रश्ने किम् । सत्यमिद्वा उ तंयमिन्द्रं स्तवाम (स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं॑ स्तवाम) ।
  • (3940) अङ्गाऽप्रातिलोम्ये <8-1-33>
अङ्गेत्यनेन युक्तं तिङन्तं नानुदात्तम् । अङ्ग कुरु । अप्रातिलोम्ये किम् । अङ्ग कूजसि वृषल । इदानीं ज्ञास्यसि जाल्म । अनभिप्रेतमसौ कुर्वन्प्रतिलोमो भवति ।
हियुक्तं तिङन्तं नानुदात्तम् । आहि ष्मा याति (आहि ष्मा॒ याति॑) । आ हि रुहंतम् (आ हि रु॒हंत॑म्) ।
  • (3942) छन्दस्यनेकमपि साकाङ्क्षम् <8-1-35>
हीत्यनेन युक्तं साकाङ्क्षमनेकमपि नानुदात्तम् । अनृतं हि मत्तो वदति पाप्मा चैनं युनाति । तिङन्तद्वयमपि न निहन्यते ।
  • (3943) यावद्यथाभ्याम् <8-1-36>
आभ्यां युक्तं तिङन्तं नानुदात्तम् । यथाचित्कण्वमावतम् (यथा॑चि॒त्कण्व॒माव॑तम्) ।
  • (3944) पूजायां नान्तरम् <8-1-37>
यावद्यथाभ्यां युक्तमनन्तरं तिङन्तं पूजायां नानुदात्तम् । यावत्पचति शोभनम् । यथा पचति शोभनम् । पूजायां किम् । यावद्भुङ्क्ते । अनन्तरं किम् । यावद्देवदत्तः पचति शोभनम् । पूर्वेणात्र निघातः प्रतिषिध्यते ।
  • (3945) उपसर्गव्यपेतं च <8-1-38>
पूर्वेणानन्तरमित्युक्तम् । उपसर्गव्यवधानार्थं वचनम् । यावत्प्रत्पचति शोभनम् । अनन्तरमित्येव । यावद्देवदत्तः प्रपचति शोभनम् ।
  • (3946) तुपश्यपश्यताऽहैः पूजायाम् <8-1-39>
एभिर्युक्तं तिङन्तं न निहन्यते पूजायाम् । आदह धामनु पुनर्गर्भत्वमेरिरे (आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे॑रिरे) ।
एतद्योगे नानुदात्तं पूजायाम् । अहो देवदत्तः पचति शोभनम् ।
  • (3948) शेषे विभाषा <8-1-41>
अहो इत्यनेन युक्तं तिङन्तं वानुदात्तं पूजायाम् । अहो कटं करिष्यति ।
  • (3949) पुर च परीप्सायाम् <8-1-42>
पुरेत्यनेन युक्तं वानुदात्तं त्वरायाम् । अधीष्व माणवक पुराविद्योतते विद्युत् । निकटागामिन्यत्र पुराशब्दः परीप्सायां किम् । न तेनस्म पुराधीयते । चिरातीतेऽत्र पुरा ।
  • (3950) नन्वित्यनुज्ञैषणायाम् <8-1-43>
नन्वित्यनेन युक्तं तिङन्तं नानुदात्तमनुज्ञाप्रार्थनायाम् । ननु गच्छामि भोः । अनुजानीहि मां गच्छन्तमित्यर्थः । अन्विति किम् । आकर्षीः कटं त्वम् । ननु करोमि । पृष्टप्रतिवचनमेतत् ।
  • (3951) किं क्रियाप्रश्नेऽनुपसर्गमप्रतिषिद्धम् <8-1-44>
क्रियाप्रश्ने वर्तमानेन किंशब्देन युक्तं तिङन्तं नानुदात्तम् । किं द्विजः । पचत्याहोस्विद्गच्छति । क्रियेति किम् । साधनप्रश्ने मा भूत् । किं भक्तं पचत्यपूपान्वा । प्रश्ने किम् । किं पठति । क्षेपोऽयम् । अनुपसर्गं किम् । किं प्रपचति उत प्रकरोति । अप्रतिषिद्धं किम् । किं द्विजोन पचति ।
  • (3952) लोपे विभाषा <8-1-45>
किमोऽप्रयोगे उक्तं वा । देवदत्तः पचत्याहोस्वित्पठति ।
  • (3953) एहि मन्ये प्रहासे लृट् <8-1-46>
एहि मन्ये इत्यनेन युक्तं लृडन्तं क्रीडायाम् । एहि मन्ये भक्तं भोक्ष्यसे नहि भोक्ष्यसे भुक्तं तत्त्वतिथिभिः । प्रहासे किम् । एहि मन्यसे ओदनं भोक्ष्ये इति सुष्ठु मन्यसे । गत्यर्थलोटा लृट्-3958 इत्यनेनैव सिद्धे नियमार्थोऽयमारम्भः । एहिमन्येयुक्ते प्रहास एव नान्यत्र । एहि मन्यसे ओदनं भोक्ष्ये ।
  • (3954) जात्वपूर्वम् <8-1-47>
अविद्यमानपूर्वं यज्जातु तेन युक्तं तिङन्तं नानुदात्तम् । जातु भोक्ष्यसे । अपूर्वं किम् । कटं जातु करिष्यसि ।
  • (3955) किंवृत्तं च चिदुत्तरम् <8-1-48>
अविद्यमानपूर्वं चिदुत्तं यत्ंिकवृत्तं तेन युक्तं तिङन्तं नानुदात्तम् । विभक्त्यन्तं डतरडतमान्तं किमो रूपं किंवृत्तम् । कश्चिद्भुङ्क्ते । कतरश्चित् । कतमश्चिद्वा । चिदुत्तरं किम् । को भुङ्क्ते । अपूर्वमित्येव । रामः किंचित्पठति ।
  • (3956) आहो उताहो चाऽनन्तरम् <8-1-49>
आहो उताहो इत्याभ्यां युक्तं तिङन्तं नानुदात्तम् । आहो उताहो वा भुङ्क्ते । अनन्तरमित्येव । शेषे विभाषां वक्ष्यति । अपूर्वेति किम् । देव आहो भुङ्क्ते ।
  • (3957) शेषे विभाषा <8-1-50>
आभ्यां युक्तं व्यवहितं तिङन्तं वानुदात्तम् । आहो देवः पचति ।
  • (3958) गत्यर्थलोटा लृण्न चेत्कारकं सर्वान्यत् <8-1-51>
गत्यर्थानां लोटा युक्तं तिङन्तं नानुदात्तं यत्रैव कारके लोट् तत्रैव लृडपि चेत् । आगच्छ देव ग्रामं द्रक्ष्यस्येनम् । उह्यन्तां देवदत्तेन शालयो रामेण बोक्ष्यन्ते । गत्यर्थे किम् । पच देव ओदनं भोक्ष्यसेऽन्नम् । लोटा किम् । आगच्छेर्देव ग्रामं द्रक्ष्यस्येनम् । लृट् किम् । आगच्छ देव ग्रामं पश्यस्येनम् । न चेदिति किम् । आगच्छ देव ग्रामं पिता ते ओदनं भोक्ष्यते । सर्वं किम् । आगच्छ देव ग्रामं त्वं चाहं च द्रक्ष्याव एनमित्यत्रापि निघातनिषेधो यथा स्यात् । यल्लोडन्तस्य कारकं तच्चान्यच्च लृडन्तेनोच्यते ।
लोडन्तं गत्यर्थलोटा युक्तं नानुदात्तम् । आगच्छ देव ग्रामं पश्य । गत्यर्थेति किम् । पच देवौदनं भुङ्क्ष्वैनम् । लोट् किम् । आगच्छ देव ग्रामं पश्यसि । न चेत्कारकं सर्वान्यदित्येव । आगच्छ देव ग्रामं त्वं चाहं च पश्यावः । योगविभाग उत्तरार्थः ।
  • (3960) विभाषितं सोपसर्गमनुत्तमम् <8-1-53>
लोडन्तं गत्यर्थलोटा युक्तं तिङन्तं वानुदात्तम् । आगच्छ देव ग्रामं प्रविश । सोपसर्गं किम् । आगच्छ देव ग्रामं पश्य । अनुत्तमं किम् । आगच्छानि देव ग्रामं प्रविशानि ।
हन्तेत्यनेन युक्तमनुत्तमं लोडन्तं वानुदात्तम् । हन्त प्रविश । सोपसर्गमित्येव । हन्त कुरु । निपात्रैर्यद्यदि 3967 इति निघातप्रतिषेधः । अनुत्तमं किम् । हन्त प्रभुञ्जावहै ।
  • (3962) आम एकान्तरमामन्त्रितमनन्तिके <8-1-55>
आमः परमेकपदान्तरितमामन्त्रितं नानुदात्तम् । आम् पचसि देवदत्त3 । एकान्तरं किम् । आम् प्रपचसि देवदत्त3 । आमन्त्रितं किम् । आम् पचति देवदत्तः । अनन्तिके किम् । आम् पचसि देवदत्त ।
  • (3963) यद्धितुपरं छन्दसि <8-1-56>
तिङन्तं नानुदात्तम् । उदसृजो यदङ्गिरः (उ॒दसृ॑जो॒ यद॑ङ्गिरः) । उशन्ति हि (उ॒शन्ति॒ हि) । आख्यास्यामि तु ते । निपातैर्यत्-3937इति हिच 3941 इति तुपश्य-3946 इति च सिद्धे नियमार्थमिदम् । एतैरेव परभूतैर्योगे नान्यैरिति । जाये स्वारोहावैहि । एहीति गत्यर्थलोटा युक्तस्य लोडन्तस्य निघातो भवति ।
  • (3964) चनचिदिवगोत्रादितद्धिताम्रेडितेष्वगतेः <8-1-57>
एषु षट्सु परतस्तिङन्तं नानुदात्तम् । देवः पचति चन । देवः पचति चित् । देवः पचतीव । देवः पचति गोत्रम् । देवः पचतिकल्पम् । देवः पचतिपचति । अगतेः किम् । देवः प्रपचति चन ।
चवाहाहैवेषु तिङन्तं नानुदात्तम् । देवः पचति च खादति च । अगतेरित्येव । देवः प्रपचति च । प्रखादति च । प्रथमस्य चवायोगे 3966 इति निघातः प्रतिषिध्यते द्वितीयं तु निहन्यत एव ।
  • (3966) चवायोगे प्रथमा <8-1-59>
चवेत्याभ्यां योगे प्रथमा तिङ्विभक्तिर्नानुदात्ता । गाश्च चारयति वीणां वा वादयति । इतो वा सातितीमहे (इ॒तो वा॑ सा॒तिमीम॑हे) । उत्तरवाक्ययोरनुषञ्जनीयतिङन्तापेक्षयेयं प्राथमिकी । योगे किम् । पूर्वभूतयोरपि योगे निघातार्थम् । प्रथमाग्रहणं द्वितीयादेस्तिङन्तस्य मा भूत् ।
  • (3967) हेति क्षियायाम् <8-1-60>
हयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता धर्मव्यतिक्रमे । स्वयं हरथेन याति 3 उपाध्यायं पदातिं गमयति3 । क्षियाशीः-3623 इति प्लुतः ।
  • (3968) अहेति विनियोगे च <8-1-61>
अहयुक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता नानाप्रयोगे नियोगेक्षियायां च । त्वमह ग्रामं गच्छ । क्षियायाम् । स्वयमहरथेन याति3 उपाध्ययं पदातिं नयति ।
  • (3969) चाहलोप एवेत्यवधारणम् <8-1-62>
च अह एतयोर्लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता देव एव ग्रामं गच्छतु । देव एवारण्यं गच्छतु । ग्रामरण्यं च गच्छत्वित्यर्थः । देव एवं ग्रामं गच्छतु । राम एवारण्यं गच्छतु । ग्रामं केवलमरण्यं केवलं गच्छत्वित्यर्थं । इहाहलोपः । स च केवलार्थः । अवधारणं किम् । देव क्वेव भोक्ष्यसे । न क्विचिदित्यर्थः । अनवक्लृप्तावेव ।
  • (3970) चादिलोपे विभाषा <8-1-63>
चवाहाहैवानां लोपे प्रथमा तिङ्विभक्तिर्नानुदात्ता । चलोपे । इन्द्रवाजेषु नोऽव (इन्द्र॒वाजे॑षु नोऽव) । शुक्ला व्रीहयो भवन्ति । श्वेता गा आज्याय दुहन्ति । वालोपे । व्रीहिभिर्यजेत । यवैर्यजेत ।
  • (3971) वैवावेति च छन्दसि <8-1-64>
अहर्वै देवानामासीत् । अयं वाव हस्त आसीत् ।
  • (3972) एकान्याभ्यां समर्थाभ्याम् <8-1-65>
आभ्यां युक्ता प्रथमा तिङ्विभक्तिर्नानुदात्ता छन्दसि । अजामेकां जिन्वति । अजामेकां रक्षति । तयोरन्यः पिप्पलं स्वाद्वति (तयो॑र॒न्यः पिप्प॑लं स्वा॒द्वत्ति॑) । समर्थाभ्यां किम् । एको देवानुपातिष्ठत् । एक इति संख्यापरं नान्यार्थम् ।
  • (3973) यद्वृत्तान्नित्यम् <8-1-66>
यत्र पदे यच्छब्दस्ततः परं तिङन्तं नानुदात्तम् । यो भुङ्क्ते यदद्यङ्वायुर्वाति । अत्र व्यवहिते कार्यमिष्यते ।
  • (3974) पूजनात्पूजितमनुदात्तं काष्ठादिभ्यः <8-1-67>
पूजनेभ्यः काष्ठादिभ्यः पूजितवचनमनुदात्तम् । काष्ठाध्यापकः ॥ मलोपश्च वक्तव्यः ॥ दारुणाध्यापकः । अज्ञाताध्यापकः । समासान्तोदात्तत्वापवादः । एतत्समासे इष्यते । नेह । दारुणमध्यापक इति वृत्तिमतम् । पूजनादित्येव पूजितग्रहणे सिद्धे पूजितग्रहणमनन्तरपूजितलाभार्थम् । एतदेव ज्ञापकमत्र प्रकरणे पञ्चमी निर्देशेऽपि नानन्तर्यमाश्रीयत इति ।
  • (3975) सगतिरपि तिङ् <8-1-68>
पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः 3935 इति निघातस्य निपातैर्यत्-3937 इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ॥ गतिग्रहणे उपसर्गग्रहणमिष्यते ॥ नेह । यत्काष्ठां शुक्लीकरोति ।
  • (3976) कुत्सने च सुप्यगोत्रादौ <8-1-69>
कुत्सने च सुबन्ते परे सगतिरगतिरपि तिङनुदात्तः । पचति पूति । प्रपचति पूति । पचति मिथ्या । कुत्सने किम् । प्रपचति शोभनम् । सुपि किम् पचतिक्लिश्नाति । अगोत्रादौ किम् । पचति गोत्रम् ॥ क्रियाकुत्सन इति वाच्यम् ॥ कर्तुः कुत्सने मा भूत् । पचति । पूतिर्देवदत्तः ॥ पूतिश्चानुबन्ध इति वाच्यम् ॥ तेनायं चकारानुबन्धत्वादन्तोदात्तः ॥ वा बह्वर्थमनुदात्तमिति वाच्यम् ॥ पचन्ति पूति ।
  • (3977) गतिर्गतौ <8-1-70>
अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभर्याहि मयूररोमभिः (आम॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः) ।
  • (3978) तिङि चोदात्तवति <8-1-71>
गतिरनुदात्तः । यत्प्रपचति । तिङ्ग्रहणमुदात्तवतः परिमाणार्थम् । अन्यथा हि यत्क्रियायुक्ताः प्रादयस्तं प्रत्येव गतिस्तत्र धातावेवोदात्तवति स्यात् प्रत्यये न स्यात् । उदात्तवति किम् । प्रपचति ॥ इति तिङन्तस्वराः ॥
अथ वैदिकवाक्येषु स्वरसञ्चारप्रकारः कथ्यते- 'अग्निमीळे' इति प्रथमर्क्‌ । तत्राग्निशब्दोऽव्युत्पत्तिपक्षे 'फिष..' (फिट्‌ १) इत्यनोदात्त इति माधवः । वस्तुतस्तु घृतादित्वात्‌ । व्युत्पत्तौ तु निप्रत्ययस्वरेण । अम्सुप्त्वादनुदात्तः । अमि पूर्वः (194) इत्येकादेशस्तु एकादेश उदात्तेन 3658 इत्युदात्तः । ईळे । तिङ्ङततिङः 3135 इति निघातः । संहितायां तु उदात्तादनुदात्तस्य 3660 इतीकारः स्वरितः । स्वरितात्संहितायाम्‌ 3668 इति 'ळ' इत्यस्य प्रचयापरपर्याया एकश्रुतिः । पुरःशब्दोऽन्तोदात्तः 'पूर्वाधरावराणाम्‌-' 1975 इत्यसिप्रत्ययस्वरात्‌ । हितशब्दोऽपि धाञो निष्ठायाम्‌ दधातेर्हिः 3076 इति ह्यादेशे प्रत्ययस्वरेणान्तोदात्तः । पुरोऽव्ययम्‌ 768 इति गतिसंज्ञायां कुगति- 761 इति समासे समासान्तोदत्ते तत्पुरुषे तुल्यार्थ- 3736 इत्यव्ययपूर्वपदप्रकृतिस्वरे गतिकारकोपपदात्कृत्‌ 3873 इति कृदुत्तरपदप्रकृतिस्वरे थाथादिस्वरे च पूर्वपूर्वोपमर्देन प्राप्ते गतिरनन्तरः 3783 इति पूर्वपदप्रकृतिस्वरः । पुरःशब्दोकारस्य संहितायां प्रचये प्राप्ते उदात्तस्वरितपरस्य सन्नतरः 3669 इत्यनुदात्ततरः । यज्ञस्य । नडः प्रत्ययस्वरः । विभक्तेः सुप्त्वादनुदात्तत्वे स्वरितत्वम्‌ । देवम्‌ । पचाद्यच्‌ । फिट्स्वरेण प्रत्ययस्वरेण चित्स्वरेण वान्तोदात्तः । ऋत्विक्छब्दः कृदुत्तरपदप्रकृतिस्वरेणान्तोदात्तः । होतृशब्दस्तृन्प्रत्ययान्तो नित्स्वरेणाद्युदात्तः । रत्नशब्दो नब्विषयस्य (फिट्‌ २६) इत्याद्युदात्तः । रत्नानि दधातीति रत्नधाः । समासस्वरेण कृदुत्तरपदप्रकृतिस्वरेण वान्तोदात्तः । तमपः पित्त्वादनुदत्तत्वे स्वरितप्रचयावित्यादि यथाशास्त्रमुन्नेयम्‌ ।

स्वरप्रकरणम्‌

सम्पाद्यताम्
इत्थं वैदिकशब्दानां दिङ्मात्रमिह दर्शितम्‌ ।
तदस्तु प्रीतये श्रीमद्भवानीविश्वनाथयोः ॥