सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१)

सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१)
भट्टोजीदीक्षितः
१९१०

पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/१ THE OF SRI BHRTT©JI DEEKSHITR WITH THE COM MENTARY SRI BALAMANORAMA OF SRl YRSUDEYH OEEKSHITH. PURVARDHAM. EDITED AND PUBLISHED BY S. CHANDRASEKHARA SASTRIGAL» TEPPAKULAM. PBllMD BV BR. JOSEPHj S. J., SUPDT., RT. JOSK?H'a TKDUSTEIAL SCHOOL PRESS. 1910 Registered according to Act XXV of 1867. ALL RIGHTS RESERYED BY THE PUBLISHER. ॥ श्रीरस्तु । ॥ सिद्धान्तकौमुदी । श्रीमद्भट्टोजिदीक्षितविरचिता ॥ पूर्वार्धम् । श्रीमद्वासुदेवदीक्षितप्रणीतया श्रीबालमनोरमाख्यया व्याख्यया समुद्भासिता । त्रिशिरःपुरवास्तव्येन आदनृर शं. चन्द्रशेखरशास्त्रिणा संशोध्य प्रकाशिता । १९१० . [एतद्गरन्थस्य मुद्रणाधिकारस्सर्वोऽपि प्रकाशकेन स्वायत्तीकृतः ।] पृष्ठम्:सिद्धान्तकौमुदी (बालमनोरमा पूर्व २-१).djvu/५ १. सज्ञाप्रकरणम् २. पारभाषाप्रकरणम् ३. अच्सन्धिप्रकरणम् ४. हल्सन्धिप्रकरणम् ५. विसर्गसन्धिप्रकरणम् स्वादिसन्धिप्रकरणम् ७. अजन्तपुल्लिंङ्गाः १. अदन्तप्रकरणम् २. आदन्तप्रकरणम् ३. इदन्तप्रकरणम् ४. ३दन्तप्रकरणम् ६. ५. उदन्तप्रकरणम् ७. ॥ कौमुदीपूर्वार्धगतविषयानुक्रमणिका । ८. १. ऊदन्तप्रकरणम् ९. लठदन्तप्रकरणम् ३. ऋदन्तप्रकरणम् १०. एदन्तप्रकरणम् ११. ओदन्तप्रकरणम् १२. ऐदन्तप्रकरणम् १३. अादन्तप्रकरणम् ८. अजन्तस्त्रीलिङ्गा ऋदन्तप्रकरणम् २. इदन्तप्रकरणम् अादन्तप्रकरणम् इदन्तप्रकरणम् ४. उदन्तप्रकरणम् ५. ऊदन्तप्रकरणम् ६. ऋदन्तप्रकरणम् ७. ओदन्तप्रकरणम् ८. ऐदन्तप्रकरणम् ९. औदन्तप्रकरणम् ९. अजन्नन्नपुसकालङ्गाः १. अदन्तप्रकरणम् २. आदन्तप्रकरणम् - १ १ १०- - - - पार्श्वम् ३४ - ७५९ ९३ ९९ १८४ ११ १४९ १५१ १६३ १७२ १७५ १७८ १७९ १८० १८१ १८२ १८४ १८४ १८५-२०६ १८५ १९७ २०३ २०४ २०५ २० ६ २०७-२२० २००७ २१२ १० ३' इदन्तप्रकरणम् ४. ६. ७. ८. ९. १०. १. ४. ६. २. वकारान्तप्रकरणम् ३. रेफान्तप्रकरणम् कौमुदीपूर्वार्धगतविषयानुक्रमणिका । इदन्तप्रकरणम् उदन्तप्रकरणम् ऊदन्तप्रकरणम् ऋदन्तप्रकरणम् ११. आादन्तप्रकरणम् ऐदन्तप्रकरणम् ५. मकारान्तप्रकरणम् अादन्तप्रकरणम् १५. हकारान्तप्रकरणम् १६. ७. नकारान्तप्रकरणम लकारान्तप्रकरणम् १०. दकारान्तप्रकरणम् णकारान्तप्रकरणम् - १२. चकारान्तप्रकरणम् १३. तकारान्तप्रकरणम् १४. पकारान्तप्रकरणम् थकारान्तप्रकरणम् शकारान्तप्रकरणम् षकारान्तप्रकरणम् १७. सूकारान्तप्रकरणम् ११. हलन्तस्त्रीलिङ्गा १. हकारान्तप्रकरणम् २. चकारान्तप्रकरणम् ३. रेफान्तप्रकरणम् ४. मकारान्तप्रकरणम् ५. जकारसन्तप्रकरणम् ६. दकारान्तप्रकरणम् - - पाश्धम् - २१ ६ २१७ २१८ २.१८ २२१-३०३ २१९. २ २ ८० २२१ २२९ २३१ ३ ११ २५५ २५५. २७९. २८ ० २८६ २९७ ३०४-३१० ३०४ ३०५ ३०६ ७. चकारान्तप्रकरणम् ८. पकारान्तप्रकरणम् १०. ९. २शकारान्तप्रकरणम् १५ कौमुदीपूर्वार्धगतविषयानुक्रमणिका ११. सकारान्तप्रकरणम् १२. हलन्तनपुंसकलिङ्गा २. ३. १. हकारान्तप्रकरणम् षकारान्तप्रकरणम् - वकारान्तप्रकरणम् रफान्तप्रकरणम् ४. मकारान्तप्रकरणम् ५. नकारान्तप्रकरणम् ६. जकारान्तप्रकरणम् ७. दकारान्तप्रकरणम् ८. चकारान्तप्रकरणम् - ९. तकारान्तप्रकरणम् १०. पकारान्तप्रकरणम् - ११. सकारान्तप्रकरणम् १३० अव्ययप्रकरणम् १४. स्त्राप्रत्ययप्रकरणम् २. द्वितीयाविभक्तिप्रकरणम् ३. तृतीयाविभक्तिप्रकरणम् ४. चतुर्थीविभक्तिप्रकरणम् ५. पञ्चमीविभक्तिप्रकरणम् ६. षष्ठीविभक्तिप्रकरणम् ७. सप्तमीविभक्तिप्रकरणम् १७. तत्पुरुषाः १. तत्पुरुषसमासप्रकरणम् २. कमधारयसमासप्रकरणम् ३. नञ्तत्पुरुषसमासप्रकरणम् - - ३११ - - पार्श्वम् ३०८ - ३०८ ३०८ ३०९ ३०९ ३२६ ३११ ३११ ३१३ ३१३ ३१४ ३१६ ३१७ ३१८ ३२५ ३२६ ३२७ ३३५ - ३९७-४६६ ९७ ४ ० ० ४२१ ४२६ ४३५ ४४५ ४५९ ४६७ ४८७ -५५१ ४८७ ५१७ ५२५ १८. ब उपपदसमासप्रकरणम् ६. असाधारणसमासान्तप्रकरणम् कौमुदीपूर्वार्धगतविषयानुक्रमणिका । २९ १९. द्वन्द्वसमासप्रकरणम् एकशेषसमासप्रकरणम् २१. सर्वसमासशेषप्रकरणम् २२ . सवसमासान्तप्रकरणम् २३. अलुक्समासप्रकरणम् २४. समासाश्रयविधिप्रकरणम् २५. तद्धिता १. अपत्यादिविकारान्तार्थसाधारणप्रत्ययाः २. अपल्याधिकारप्रकरणम् ३. चातुरर्थिकप्रकरणम् शैषिकप्रकरणम् ५. विकारार्थप्रकरणम् ६. ठगधिकारप्रकरणम् ७. प्राग्घितीयप्रकरणम् ८. आहये छयद्विधिप्रकरणम् १०. ठञ्अधिकारे कालाधिकारप्रकरणम् ११. ठञ्विधिप्रकरणम् १२. नञ्स्रङअधिकारप्रकरणम् १३ . पाञ्चमिकप्रकरणम् १४. मत्वर्थीयप्रकरणम् १५. प्राग्दिशीयप्रकरणम् १६. प्रागिवीयप्रकरणम् १७. स्वाथकप्रकरणम् २१ . द्विरुक्तिप्रकरणम् २७. सूत्रसूचिका २८ - ६६३- - - - - पार्श्वम् ५९१ ६०७ ६१३ ६१ ६ ६२५ ६३४ ९४५. ७०८ ७४०

  • ७८४

७९.२ ८ ०७ ८१३ ८ १९ ८३६ ८४२ ८४६ ८५४ ८९१ ८९७ ११९ ९४६ ९५७ ९८९

९९८

श्रीरस्तु ।

॥ अथ स्त्रीप्रत्ययप्रकरणम् ॥


४५३ । स्त्रियाम् । (४-१-३)

 अधिकारोऽयम् । समर्थानामिति यावत् ।

 अथ स्त्रीप्रत्ययाः निरूप्यन्ते । तदेवं 'ङ्याप्प्रातिपदिकात्' इत्यधिकृत्य ‘स्वौजसमौट्’ इति सूत्रं सप्रपञ्चन्निरूप्य तदुत्तरमनुक्रान्तान् स्त्रीप्रत्ययान्निरूपयितुमाह । स्त्रियाम् ॥ अधिकारोऽयमिति ॥ 'अजाद्यतष्टाप्' इत्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्रविधिरित्यर्थः । कियत्पर्यन्तमयमधिकारः इत्यत आह । समर्थेति । यावदित्यवधौ । 'समर्थानां प्रथमात्' इत्यतः प्रागित्यर्थः । अत्रेदमवधेयम् । “स्तनकेशवती स्त्री स्याल्लोमशः पुरुषस्स्मृषः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥” इति लक्षणलक्षितम् अवयवसंस्थानविशेषात्मकं लौकिकं स्त्रीपुंसयोर्लिङ्गं, तदभावे तयोरुभयोरभावे सति यदुभयोरन्तरं सदृशं तन्नपुंसकमित्यर्थः । तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते । तस्य अचेतने खट्वा मालादौ बाधात् स्त्रीप्रत्ययानापत्तेः । दारानित्यादौ 'तस्माच्छसो नः पुंसि' इति नत्वानापत्तेश्च । किन्तु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः पुंस्त्वम्, अपचयः स्त्रीत्वम्, स्थितिमात्रन्नपुंसकत्वम् । अत एव उत्कर्षापकर्षसत्त्वेऽपि स्थितिमात्रमादाय 'सामान्ये नपुंसकम्' इति प्रवादः । उत्कर्षापकर्षसाम्यात्मकावस्थात्रयसाधारणस्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः । ईदृशमवस्थात्रयं केवलान्वयि । अयं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्ठमेव । तदुक्तं भाष्ये “एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च” इति । एकस्मिन्नेवार्थे पुष्यस्तारका तारकं नक्षत्रम् इति शब्दनानात्वदर्शनात्, कुटी कुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः । पुल्लिङ्गशब्द इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचाराद्बोध्यः । नच उपचयादिधर्माणां विरुद्धत्वादेकत्र समावेशायोगादेकस्य द्वित्रिलिङ्गताऽनापत्तिरिति वाच्यम् । एकैकस्मिन् वस्तुनि क्षणभेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तञ्च भाष्ये “कश्चिदपि सत्त्वादिधर्मः क्वचिन्मुहूर्तमपि नावतिष्ठते यावदनेन वर्धितव्यमपायेन वा युज्यते” इति । नचैवं सति युगपत् द्वित्रिलिङ्गत्वानापत्तिरिति वाच्यम् । नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका । तथा सति भूतभविष्यद्व्यवहारोच्छेदापातात् । तत्र कश्चिच्छब्दः एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः, कश्चित्तु द्विलिङ्गे, कश्चित्तु त्रिलिङ्गे, इतीत्येतत्तु लिङ्गानुशासनशास्त्रादवगन्तव्यम् । एषां पुंस्त्रीनपुंसकशब्दानां वृध्द्यादिशब्दवदस्मिन् शास्त्रे सङ्केतश्च लिङ्गानुशासनत एव ज्ञेयः । उक्तञ्च कौमुदीपूर्वार्धगतविषयानुक्रमणिका उपपदसमासप्रकरणम् १८. बहुत्राहसमासप्रकरणम् १९ . द्वन्द्वसमासप्रकरणम् ६. असाधारणसमासान्तप्रकरणम् २१ . सवसमासशषप्रकरणम् २२. सवसमासान्तप्रकरणम् २९ २३. अलुक्समासप्रकरणम् २४. समासाश्रयविधिप्रकरणम् २५. तद्धिता २. अपल्याधकारप्रकरणम् ३. चातुरर्थिकप्रकरणम् ४. शैषिकप्रकरणम् ५. विकारार्थप्रकरणम् ६. ठगधिकारप्रकरणम् ७. प्राग्घितीयप्रकरणम् ८. आहींये छयद्विधिप्रकरणम् आहयप्रकरणम् १०. ठञ्अधिकारे कालाधिकारप्रकरणम् ११. ठञ्विधिप्रकरणम् १२. नञ्स्रअधिकारप्रकरणम् - १३ पाञ्चमिकप्रकरणम् १४. मत्वर्थीयप्रकरणम् १५. प्राग्दिशीयप्रकरणम् १६. प्रागिवीयप्रकरणम् १७. स्वाथकप्रकरणम् - २१ . द्विरुक्तिप्रकरणम् २७ . सूत्रसूचिका २८ १. अपत्यादावकारान्ताथसाधारणप्रत्ययाः ६६३ - - - - पार्श्वम् ५५२ ५९१ ६०७ ६१३ ६१६ ६३४ ९४५. ७०८ ७४० '७८४ ७९.२ ८०७ ८१३ ८१९ ८३६ ८४२ ८४६ ८५४ ८९१ ८९.७ ११९ ९४६ ९५७ ९८९ ९९८ ॥ अथ ४५३ । स्त्रियाम् । (४--३) अधिकारोऽयम् । समर्थानामिति यावत् । अथ स्त्रीप्रत्ययाः निरूप्यन्ते । तदेवं “डयाप्प्रातिपदिकात्' इत्यधिकृत्य “स्वौजस मौट्’ इति सूत्रं सप्रपञ्चन्निरूप्य तदुत्तरमनुक्रान्तान् स्त्रीप्रत्ययान्निरूपयितुमाह । स्त्रियाम्॥ अधिकारोऽयमिति ॥ “अजाद्यतष्टाप्’ इत्याद्युत्तरसूत्रेष्वनुवृत्त्यर्थमिदं सूत्रं, नतु स्वतन्त्र विधिरित्यर्थः । कियत्पर्यन्तमयमधिकारः इत्यत आह । समर्थति ॥ यावदित्यवधौ । “सम र्थानां प्रथमात्' इत्यतः प्रागित्यर्थः । अत्रेदमवधेयम् । “स्तनकेशवती स्त्री स्याल्लोमशः पुरुष स्स्मृषः । उभयोरन्तरं यच्च तदभावे नपुंसकम् ॥” इति लक्षणलक्षितम् अवयवसंस्थानविशेषा त्मकं लौकिकं स्त्रीपुंसयोर्लिङ्ग, तदभावे तयोरुभयोरभावे सति यदुभयोरन्तरं सदृशं तन्नपुंसक मित्यर्थः । तदिदं लौकिकं लिङ्गमस्मिन् शास्त्रे नोपयुज्यते । तस्य अचेतने खट्टा मालादौ बाधात् स्त्रीप्रत्ययानापत्तेः । दारानित्यादौ “तस्माच्छसो नः पुंसि ' इति नत्वानापत्तेश्च । किन्तु सत्त्वरजस्तमसां प्राकृतगुणानां वृद्धिः पुंस्त्वम्, अपचयः स्रीत्वम्, स्थितिमात्रन्नपुंसकत्वम् । अत एव उत्कर्षापकर्षसत्त्वेऽपि स्थितिमात्रमादाय * सामान्ये नपुंसकम्’ इति प्रवादः । उत्क षर्षापकर्षसाम्यात्मकावस्थात्रयसाधारणास्थितिमात्रविवक्षायां नपुंसकं भवतीति तदर्थः । ईदृश मवस्थात्रयं केवलान्वयि। अयं पदार्थः, इयं व्यक्तिः, इदं वस्तु, इति व्यवहारस्य सार्वत्रिकत्वात् । तच्चेदं लिङ्गमर्थनिष्टमेव । तदुक्तं भाष्ये “एकार्थे शब्दान्यत्वात् दृष्टं लिङ्गान्यत्वमवयवान्यत्वाच्च इति । एकस्मिन्नेवार्थे पुष्यस्तारका तारकं नक्षत्रम् इति शब्दनानात्वदर्शनात्, कुटी कुटीरादौ रेफाद्यवयवोपजनने लिङ्गभेददर्शनाच्च स्तनकेशाद्यतिरिक्तमेव लिङ्गमित्यर्थ इति कैयटः । पुलिङ्ग शब्द इत्यादिव्यवहारस्तु वाच्यवाचकयोरभेदोपचाराद्वोध्यः । नच उपचयादिधर्माणां विरुद्ध त्वादेकत्र समावेशायोगादेकस्य द्वित्रिलिङ्गताऽनापतिरिति वाच्यम् । एकैकस्मिन् वस्तुनि क्षण भेदेन त्रयाणां धर्माणामपि समावेशोपपत्तेः । उक्तञ्च भाष्ये “कश्चिदपि सत्त्वादिधर्मः कचिन्मुहू र्तमपि नावतिष्ठते यावदनेन वर्धितव्यमपायेन वा युज्यते” इति । नन्वेवं सति युगपत् द्वित्रि लिङ्गत्वानापत्तिरिति वाच्यम् । नहि व्यवहारे स्वसमकालिकपदार्थसत्ता प्रयोजिका । तथा सति भूतभविष्यद्यवहारोच्छेदापातात् । तत्र कश्चिच्छब्दः एकलिङ्गविशिष्ट एवार्थे प्रयोज्यः कश्चित्तु द्विलिङ्गे, कश्चितु त्रिलिङ्गे, इतीत्येतत्तु लिङ्गानुशासनशास्रादवगन्तव्यम् । एषां पुंस्त्री नपुंसकशब्दानां वृद्यादिशब्दवदस्मिन् शास्त्रे सङ्केतश्च लिङ्गानुशासनत एव ज्ञेयः । उक्तञ्च

        • ३३६
          [स्त्रीप्रत्यय
          सिद्धान्तकौमुदीसहिता


४५४ । अजाद्यतष्टाप् । (४-१-४)

अजादीनामकारान्तस्य च वाच्यं यत्स्त्रीत्वं तत्र द्योत्ये टाप् स्यात् ।


भाष्ये “अवश्यन्तावत् कश्चित् स्वकृतान्त आस्थेयः” इति, वैयाकरणसिद्धान्त इत्यर्थः । “कृतान्तौ यमसिद्धान्तौ' इत्यमरः । तत्र टिघुभादिसंज्ञावल्लघुसंज्ञामकृत्वा महासंज्ञाकरणसामर्थ्यात् सति सम्भवे स्तनकेशवतीत्यादिलौकिकं लिङ्गमप्यत्राश्रीयते । अन्यथा “पशुना यजेत’ इत्यत्र स्त्रीव्यक्तावपि सत्वाद्युपचारात्मकपुंस्त्वाद्यनपायात् “ आङो नाऽस्त्रियाम्' इति नाभावस्याविरोधात् स्रीपशुरप्यालभ्येत । तदेतच्चतुर्थस्य प्रथमपादे 'तथालिङ्गम्' इत्यधिकरणे अध्वरमीमांसाकुतूहल वृत्ताववोचाम। त्रिविधमपि एतलिङ्गं जातिव्यक्तिवत् प्रातिपदिकार्थ एव। प्रत्ययार्थत्वे प्राधान्यापत्ती अजा, खट्टा, इत्यादौ स्त्रीत्वविशिष्टतादात्म्यावच्छिन्नानादिबोधोऽनुभवसिद्धो विरुध्द्येत । किञ्च मातृदुहितृस्वसृगवादिशब्देषु विनापि टाबादिप्रत्ययं स्त्रीत्वविशिष्टार्थस्य बोधात् प्रातिपदिकस्य तत्र शक्त्यावश्यकत्वे टाबादीनामपि शक्तिकल्पने गौरवम् । 'ऋकारान्ता मातृदुहितृस्वसृयातृ ननान्दरः, प्रावृड़िपुडूक्त्विषः' इत्यादिलिङ्गानुशासनसूत्राण्यपि प्रकृतिविषयाण्येव दृश्यन्ते । अत एव च “कृदिकारादक्तिनः' इत्यत्र अक्तिन इत्येतदर्थवत् । अन्यथा अक्तिनैव स्रीत्वस्योक्तत्वात् डीपोऽप्राप्तः तद्वैयर्थ्य स्पष्टमेव । नचैवमपि प्रकृत्यैव स्रीत्वस्योक्तत्वात् कथं टाबादय इति वाच्यम् । द्वावित्यादिवत् प्रकृत्युक्तस्याव्यावर्तकत्वात् । अन्यथा टाबादिविधिवैयर्थ्यात् । तथाच स्त्रीत्वमिह प्रातिपदिकस्यैव वाच्यम् । टाबादयस्तु तद्दद्योतकाः। तथाच टाबादिषु सत्सु अवश्यं स्त्रीत्वबोधः इति नियमः, नतु टाबादिषु सत्स्ववेति नियम इति । अजाद्यतष्टाप् ॥ अजः आदिर्येषान्ते अजादयः ते च अच्चेति समाहारद्वन्द्वात् षष्ठी “डयाप्प्रातिपदिकात्' इत्यतः प्राति पदिकादित्यनुवृत्तं षष्ठया विपरिणतम् अजादिभिः अता च विशेष्यते, तदन्तविधिः । तत्राद्विषये समासप्रत्यविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः’ इति निषेधेो न, ‘उ गिद्वर्णग्रहणवर्जम्’ इत्युक्तेः । डयाब्ग्रहणन्तु नानुवर्तते “स्त्रियाम्' इत्यधिकारे तयोर्विधेयत्वात् । नच अजादिभिः प्रातिपदि कस्य विशेषणेऽपि तदन्तविधिर्नास्ति “समासप्रत्ययविधौ' इति निषेधात् “ग्रहणवता प्राति पदिकेन तदन्तविधिर्न' इति च निषेधादिति वाच्यम् । ‘शूद्रा चामहत्पूर्वा जातिः’ इत्यत्र अमह त्पूर्वेति वचनेनात्र तदन्तविधिज्ञापनात् । किञ्च स्त्रियां व्यक्तौ गम्यमानायामिति नार्थः । तर्हि अजा खट्टेत्यादौ अजत्वाद्याकारेण वस्तुतः स्त्रीव्यक्तौ गम्यमानायां टाबादिप्रत्ययाः स्युः । ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भानन्न नियतं स्यात् । अतः स्त्रियामिति भावप्रधानो निर्देशः । स्त्रीत्वे इति यावत् । तदाह । आजादीनामित्यादिना ॥ अजाद्यन्तानामित्यर्थः । द्योत्ये इति ॥ उक्तरीत्या स्त्रीत्वस्य प्रातिपदिकार्थत्वादिति भावः । उक्तं च भाष्ये “त्रियां यत् प्रातिपदिकं वर्तते तस्माट्टाबादयो भवन्ति स्वार्थे” इति । टाप् स्यादिति ॥ 'प्रत्ययः, परश्च' इत्यधिकृतम् । कस्मात् परो भवतीत्याकांक्षायां सन्निधानात् अजादिभ्यः अदन्ताच्चेति बोध्यम् । ननु अजादिगणे अज, अश्व , इत्याद्यदन्तपाठो व्यर्थः, अदन्तत्वादेव सिद्धेरित्यत आह । अजाद्युक्तिरिति ॥ 'वयसि प्रथमे, जातेरस्रीविषयात्' इत्यादिवक्ष्यमाणस्य ङीपो ङीषश्च

अदन्तटाबपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः । एवञ्च अदन्तटाबपवादौ ङीप्ङीषौ तयो

प्रकरणम्]
३३७
बालमनोरमा


अजाद्युक्तिडषो डीपश्च बाधनाय । अजा। अत , खट्टा । अजादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजी । 'द्विगोः' (सू ४७९) इति ङीप् । अत्र हि समा सार्थसमाहारनिष्टं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु जातिलक्षणो ङीष् प्राप्तः। बाला । वत्सा । होढा । मन्दा । बिलाता । एषु “वयसि प्रथमे' (सू४७८) इति ङीप् प्राप्त । “ सम्भस्राजिनशणपिण्डेभ्यः फलात्' (वा २४९७) । सम्फ़ला । भस्त्रफला । “ङ-यापो:-' (सू १००१) इति ह्रस्व ।


रप्यजादिटाबपवाद इति फलति । अजशब्दः छागजातौ वर्तते । “ अजा छागी तुभच्छाग बस्तच्छगलकाः अजे' इत्यमरः । अजशब्दात् टाप् टपावितौ, सवर्णदीर्घः, व्यपदेशिवत्त्वात् अजान्तत्वम् । अतः इति ॥ उदाहरणं वक्ष्यत इति शेषः । खट्वेति ॥ “खट कांक्षायाम् अशूपुषिलटिकणिखटिविशिभ्यः क्वन्’ खट्टशब्दः अदन्तः तस्मात् टापि सवर्णदीर्घः । * शयन म्मञ्चपर्यङ्कपल्यङ्काः खट्टया समाः' इत्यमरः । ननु “प्रत्ययः, परश्च' इत्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वात् अजादिभ्यः अतश्च टाप् स्यात् स्त्रीत्वे द्योत्ये इत्यर्थ एव युक्तः । तथाच “अजाद्यत इति षष्ठयाश्रयणमयुक्तमित्यत आह । अजादिभिरिति । अजाद्यत इति षष्ठीमाश्रित्य अजा दीनाम् अदन्तस्य च वाच्ये स्त्रीत्वे टाबित्येवम् अजादिभिः स्त्रीत्वस्य विशषणादित्यर्थः । पञ्चाजीति ॥ पञ्चानामजानां समाहारः इति विग्रहे “तद्धितार्थ' इत्यादिना द्विगुः । “अका रान्तोत्तरपदो द्विगुः स्त्रियामिष्टः’ इति स्त्रीत्वम् । 'द्विगोः' इति ङीप्। ‘यस्येति च' इत्यकारलोपः। नन्वत्र समासे अजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत आह । अत्रेति ॥ हि यतः अत्र पञ्चाजशब्दे समासार्थभूतो यः समाहारः तन्निष्ठं स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशः ब्दस्य, अतोऽत्र न टाबित्यर्थः । नचोक्तरीत्या तदन्तविधिसत्त्वादजशब्दान्तस्य पञ्चाजेति समा सस्य ग्रहणात् तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यम् । सत्यपि तदन्तविधौ अजादीनां श्रुतत्वेन स्रीत्वस्य तद्विशेषणताया एव न्याय्यत्वात् । 'अजादिभ्यष्टाप् स्त्रीत्वे द्यौत्ये' इति व्याख्याने तु स्त्रीत्वस्य अजादिशब्दवाच्यत्वालाभात् समाहारनिष्ठमपि स्त्रीत्वमादाय टाप् स्यादिति भावः । अथाजादीनुदाहरति । अजेत्यादिना । एडकेति ॥ 'मेण्डोरभ्रोरणोर्णायुमेषवृष्णय् एडके इत्यमरः । अस्य स्रीत्वे कोशान्तरम्मृग्यम् । अश्वेति ॥ * वाम्यश्वाबडबा' इत्यमरः । चट केति ॥ चटकः पक्षिजातिविशेषः । अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम् । अमरतु *चटकः कल विङ्कस्यात्तस्य स्त्री चटका' इत्याह । मूषिकेति ॥ ‘चुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका' इत्यमरः । एषु जातीति ॥ अजादिपञ्चसु 'जातेरस्री' इति ङीष् प्राप्तः । सः अजादिटापा बाध्यते इत्यर्थः । बालादयः प्रथमवयोवचनाः, तत्र होढादित्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः । एष्विति ॥ बालादिपञ्चसु * वयसि प्रथमे' इति ङीप् प्राप्तः । सः अजादिटापा बाध्यते इत्यर्थः । सम्भस्त्रेति ॥ “पाककर्ण' इति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतस्स ङ्गृहीतम् । सम्भस्रा, अजिन, शण, पिण्ड, एतेभ्यः परो यः फलशब्दः तस्मादपि “पाककर्ण इति ङीष् न भवति, किन्तु टाबेवेत्यर्थः । सम्फलेति ॥ समृद्धानि फलानि यस्या इति विग्रहः। 8

३३८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता
  • सद्च्काण्डप्रान्तशतैकेभ्यः पुष्पात् ' (वा १४९६) । सत्पुष्पा । प्राक्पुष्पा ।

प्रत्यक्पुष्पा । * शूद्रा चामहत्पूर्वा जातिः' (वा २४००-२४०१) पुंयोगे तु शूद्री । “अमहत्पूर्वा' किम् । महाशूद्री । कुचा । उष्णिहा । देवविशा । ज्येष्ठा। कनिष्ठा । मध्यमेतिपुयागेडपि । कोकिला जातावपि । ‘मूलान्नञः’ (वा २५००) । अमूला । 'ऋन्नेभ्यो ङीप्' (सू ३०६) । कत्र । दण्डिनी ।


भस्त्रफलेतिभस्त्रेव फलानि यस्या इति विग्रहः । “भस्राचर्मप्रसेविका' इत्यमरः । ननु भस्रा शब्दस्य नित्यस्त्रीत्वात् भाषितपुंस्कत्वाभावातू “स्त्रियाः पुंवत्' इति पुंवत्वस्याप्रसक्त्तेः कथं ह्रस्व इत्यत आह । ङयापोरिति ॥ ‘ङयापोस्संज्ञाच्छन्दसोर्बहुळम्’ इति हृस्व इत्यर्थः । अजिनफला शणफला, पिण्डफला, ओषधिविशेषसंज्ञाः । सद्च्काण्ड ॥ अयमपि “पाककर्ण' इति सूत्र पठितवार्तिकार्थसङ्ग्रहः । सत्, अच्, काण्ड, प्रान्त, शत, एक, एतेभ्यः परो यः पुष्पशब्दः तस्मादपि “पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाञ्च' इति ङीष् न भवति, किन्तु टाबेवेत्यर्थः । सत्पुष्पेति ॥ सन्ति पुष्पाणि यस्या इति विग्रहः । अच् इति लुप्तनकारः अञ्चूधातुः गृह्यते इत्यभिप्रेत्य उदाहरति । प्राक्पुष्पेति ॥ प्राचि पुष्पाणि यस्या इति विग्रहः । प्रत्यक्पुष्पति ॥ प्रत्यश्चि पुष्पाणि यस्या इति विग्रहः । काण्डपुष्पा। प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । शूद्रा चामहत्पूर्वा जातिः ॥ “ अजाद्यतः’ इति प्रकृतसूत्रे पठितं वार्तिकमेतत् । शूद्रजातिः वाच्या चेत् अमहत्पूर्वः शूद्रशब्दः स्त्रियां टापं लभते । जातिलक्षणङीषोऽपवादः । शूद्रात् स्वभार्यायां विधिना ऊढायामुत्पन्ना स्त्री शूद्रा । जातिरित्यस्य प्रयोजनमाह । पुंयोगे त्विति ॥ शूद्रस्य स्त्री इत्येव पुंयोगात् स्त्रियां व्यक्तौ जातिवाचित्वाभावान्न टाप् । किन्तु 'पुंयोगादाख्या याम्' इति ङीषेवेत्यर्थः । महाशूद्रीति ॥ महती च सा शूद्रा च इति विग्रहः । कर्मधारयः। पुंवत् कर्मधारय' इति पुवत्वम् । अत्र महत्पूर्वत्वान्न टाप्, किन्तु जातिलक्षणङीषेव । “ आ भीरी तु महाशूद्री जातिपुंयोगयोस्समे' इत्यमरः । नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्यां ब्राह्मणा दुत्पन्नः आभीरः, स्त्री चेदाभीरी । अत्र जातिग्रहंणस्य अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोद्दयोते च स्फुटः । कुञ्चेति ॥ कुञ्शब्दः चकारान्तः 'ऋत्विक् इत्यादिना क्विन्नन्तः । पक्षिजातिविशेषे वर्तते । “यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्” इति रामायणे । उष्णिहृशब्दः हकारान्तः छन्दोविशेषे “ऋत्विक्' इत्यादिना क्विन्नन्त एव । देववि श्शब्दः शकारान्तः, गणविशेषात्मकमरुत्सु वर्तते । “मरुतो वै देवानां विशः” इति श्रुतेः । एतेषामदन्तत्वाभावादप्राप्ते टापि तद्विधानार्थमजादिषु पाठः । “ङ्याप्प्रातिपदिकात्' इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तत्वम् आस्थितमिति ‘वष्टि भागुरिरल्लोपम्’ इति श्लोकव्या ख्यावसरे प्रपश्चितमनुपदमेव । ज्येष्ठेति ॥ यदा ज्येष्ठादिशब्दाः प्रथमोत्पन्नादौ वर्तन्ते तदा अदन्तत्वादेव टाप् सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्वादिविवक्षा तदापि पुयोगलक्षणं डीषं बाधित्वा टाबर्थमिह पाठ इत्यर्थः । कोकिलेति ॥ कोकिलशब्दस्य जातावपि जातिलक्षण ङीषं बाधित्वा टाबर्थमिह पाठः इत्यर्थः । मूलान्नञः इति ॥ “पाककर्ण' इति सूत्रे पठितं


( पाककर्ण-' इति प्राप्तस्य ङीषः) 'प्रतिषेधः' इति वार्तिकशेषः ।

प्रकरणम्]
३३९
बालमनोरमा

४५५ । उगितश्च । (४-१-६)

उगिदन्तात्प्रातिपदिकात्स्त्रियां ङीप्स्यात् । भवन्ती । पचन्ती । * शप्श्य नोः-(सू ४४६) इति नुम् । “उगिद्चाम् (सू ३६१) इति सूत्रे ऽज्ग्रहणेन * धातोश्चेदुगित्कार्यं तर्ह्यश्चतेरेव' इति नियम्यते । तेनेह न


वार्तिकमेतत् । नजः परो यः मूलशब्दः तस्मात् “पाककर्ण' इति ङीष् न भवति, किन्तु टाबे वेत्यर्थः । अमूलेति । अविद्यमानं मूलं यस्या इति विग्रहे 'नञोऽस्त्यर्थानां वाच्यो वा चोत्तर पदलोपः' इति बहुव्रीहिः । “ अत्र सम्भस्त्रेति, सदच्काण्डेति, मूलान्नञः' इति च वार्तिकत्रयं पाककर्ण' इति सूत्रभाष्यपठितमपि फले विशेषाभावाद्जादिगणे मूले प्रपञ्चितम् । नचैता न्यजाद्यन्तर्गणसूत्राणीति भ्रमितव्यम् अजादिराकृतिगणः । तेन “न भुने' इति सूत्रभाष्ये टायामादेश इति भाष्यप्रयोगस्सिद्धः।अत एव च पूर्वमीमांसायां द्वितीयस्य प्रथमपादे स्तुतशस्त्र योस्तु संस्कारो याज्यावद्देवताभिधानत्वादिति स्तुतशस्राधिकरणे वशाद्वा गुणार्थं स्यात्' इति गुणसूत्रव्याख्यावसरे शाबरभाष्यभट्टवार्तिकयोः छागस्य वपाया मेदस' इति प्राकृतमन्त्रस्य वायव्यामजां वशामालभेत” इत्यत्र छागाया वपाया इत्यूहानुक्रमणं सङ्गच्छते। अत एव च ब्रह्म मीमांसायां प्रथमस्य चतुर्थपाद चमसवदविशेषात्” इत्यधिकरणे शाङ्करभाष्यवाचस्पत्योः अजायां छागेति टाबन्तः प्रयोग उपपन्न अन्यथा जातिलक्षणङीष्प्रसङ्गादित्यास्तां तावत् ऋत्रेभ्यः' इति सूत्रमजन्तस्त्रीलिङ्गाधिकार प्रसङ्गात् व्याख्यातम्, इह तु सूत्रक्रमात् पुनस्त दुपन्यासः । उगितश्च ॥ उक् प्रत्याहारः, उक् इत् यस्य सः उगित, उगित इति पञ्चम्यन्तम् प्रातिपदिकादित्येतत् विशेष्यते, तदन्तविधिः, “उगिद्वर्णग्रहणवर्जम्' इत्युक्तः “समासप्रत्यय विधौ' इति प्रतिषेधेो न पूर्वसूत्रात् ङीबित्यनुवर्तेते । तदाह । उगिदन्तादिति ॥ उगित् द्विविधं प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति । भवन्वीति ॥ सर्वादिगणे भवतु इति अव्युत्पन्ने प्रातिपदिकं पठितं, तस्य व्यवदेशिवत्वेन उगिदन्तत्वात् ङीप्, ङपावितौ, “आ च्छीनद्योः' इति नुम् ‘शप्ष्श्यनोर्नित्यम्’ इति नुम् नः शत्रन्तत्वाभावात् । ‘उगिदचाम्’ इत्यपि न सर्वनामस्थानत्वाभावात् । अथ द्वितीयमुगितमुदाहरति । पचन्तीति पचेर्वलंटश्शतरि शपि पररूप पचच्छब्द तत्र शतृप्रत्ययः उगित् तदन्तं पचत् इति प्रातिपदिकमिति तस्मातू ङीपि शप्श्यनोर्नित्यम्' इति नुमिति भावः । यदि तु सवॉदिगणे पठितं भवतु इत्यतत् 'भातेर्डवतु इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोश्शतरि शपि, ऊकारस्य गुणे, अवादेशे, भवच्छब्दात् ङीपि तु, “शप्श्यनोर्नित्यम्' इति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्य अव्युत्पन्नत्वे तस्य कथं व्यपदेशिवत्वेन उगिदन्तत्वं 'व्यपदेशिवद्भावेोऽप्राति पदिकेन' इति वचनादिति वाच्यम् । प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्ते उगिदचाम् इति सूत्र इत्यादिग्रन्थः हलन्ताधिकारे गोमच्छब्दनिरूपणे व्याख्यात । तेनेति ।। अञ्चुव्यतिरिक्तधातोरुगित्कार्याभावलाभेनेत्यर्थः उखेति ॥ उखा कुण्डी, उखायास्त्र सते, पणत् ध्वंसते इति विग्रहः 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । स्नंसु ष्वंसु

३४०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता


उखास्रत् । क्विप् । अनिदिताम्--' (सू ४१५) इति नलोपः । पर्णध्वत् । अश्वतेस्तु स्यादेव । प्राची । प्रतीची ।

४५६ । वनो र च । (४-१-७)

वन्नन्तात्तदन्ताञ्च प्रातिपदिकात्स्त्रियां ङीप्स्यात् । रश्चान्तादेशः । वन्निति ड्रनिष्कनिव्वनिपां सामान्यग्रहणम् । “प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तद् न्तस्य ग्रहणम्' (प २४) । तेन प्रातिपदिकविशेषणात्तदन्तान्तमपि लभ्यते । सुत्वानमतिक्रान्ता, अतिसुत्वरी । अतिधीवरी । शर्वरी । “वनो न हशः इति


अवस्रंसने' सुपीत्यनुवृत्तौ ‘क्विप् च' इति क्विप्, उपपदसमासः, सुब्लुक्, “अनिदिताम् इति नलोपः, हल्डयादिना सोर्लोप 'वसुस्त्रंसु’ इति दत्वमिति भावः । स्यादेवेति ॥ ङीविति शेषः । प्राचीति ॥ प्रपूर्वात् अञ्चतेः 'ऋत्विक्' इत्यादिना क्विन्, “अनिदिताम्' इति नलोपः, उगित्वात् ङीप्, “अचः' इत्यकारलोपः, “चौ' इति दीर्घः । एवं प्रतीची । वनो र च ॥ वनः र व इति छेदः । र इति लुप्तप्रथमाकम्, अकार उच्चारणार्थः, चकारात् डीप् समुच्चीयते, वन इति पञ्चम्यन्तं, तेन वन्प्रत्ययान्तं तदन्तञ्च विवक्षितम् । प्रातिपदिकादित्य धिकृतम् । तदाह। वन्नन्तादित्यादिना । अन्तादेशः इति । प्रकृतेरिति शेषः । नान्तत्वादेव ङीप् प्राप्तः, तत्सन्नियोगेन रेफमात्रमिह विधेयम् । सामान्येति । अनुबन्धविनिर्मुक्तवन् ग्रहणस्य त्रिष्वपि साधारणत्वादिति भावः । ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह । प्रत्ययग्रहणे इति । यस्मात् प्रकृतिभूतात् शब्दात् यः प्रत्ययो विहित तदादेः सः प्रकृतिभूतश्शब्दः आदिर्यस्य तस्य, तदन्तस्य सः प्रत्ययः अन्तो यस्य समुदा यस्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्द्यवर्तिनश्च ग्रहणमित्यर्थः । “तिङ्ङतिङ इत्यत्र तिङ्ग्रहणेन शबादिविकरणस्यापि ग्रहणार्थ तदादिग्रहणम् । 'यस्मात् प्रत्ययविधिस्तदा दिप्रत्ययेऽङ्गम्’ इति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वन्नन्तेन प्रादिपादकादि त्यधिकृतस्य विशेषणात् पुनस्तदन्तविधिलाभादिति भावः । नचैवं सति वन्नन्तस्य कथं लाभ इति वाच्यम् । “येन विधिस्तदन्तस्य' इत्यत्र “ स्वं रूपं शब्दस्याशब्दसंज्ञा' इत्यतः स्वमि त्यनुवर्त्य विभक्तिविपरिणामेन स्वस्य चेति व्याख्यानादिति भावः । तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्वेन वन्नन्तान्तामिति केचित् । “ग्रहणवता प्रातिपदिकेन तदन्तविधि र्नास्ति’ इति तु ‘स्त्रियाम्’ इत्यस्मिन् अधिकारे न प्रवर्तते । ‘शूद्रा चामहत्पूर्वा जाति इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नन्तान्तमुदाहरति । सुत्वानमिति ॥ *षुञ् अभिषवे सुयजोर्ङ्वनिप् 'ह्रस्यस्य पितिकृति' इति तुक् । सुत्वन्शब्दः । सुत्वानमतिक्रान्ता इति विग्रहे अत्यादयः’ इति समासः । सुब्लुकि, ङीप्, नकारस्य रत्वम्, अतिसुत्वरीति रूपम्। अतिधी वरीति ॥ “डुधाञ् धारणपोषणयोः' आतो मनिन्क्वनिब्वनिपश्च' अन्येभ्योऽपि दृश्यते' इति भाषायामपि क्वनिप् “घुमास्था' इति ईत्वम्। धीवानमतिक्रान्ता इति विग्रहे “अत्यादयः' इति समासः । ङीप् रश्च, अतिधीवरीति रूपम् । भाष्ये तु ध्यायतेः क्वनिपि सम्प्रसारणे “हल

प्रकरणम्]
३३७
बालमनोरमा

वक्तव्यम्’ (वा २४०५) । हृशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्ता न्ताञ्च प्रातिपदिकान्डीव्रश्च नेत्यर्थः “ औणृ अपनयने' वनिप् * विड्वनोः (सू २९८२) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा । * बहुव्रीहौ वा' (वा २४०७) । बहुधीवरी । बहुधीवा । पक्षे डाव्वक्ष्यते ।

४५७ । पादोऽन्यतरस्याम् । (४-१-८)

पाच्छब्दः कृतसमासान्तस्तदन्तात्प्रातिपदिकान्ङीव्वा स्यात् । द्विपदी- द्विपाद् ।


इति दीर्घ इति स्थितम् । शर्वरीति ॥ 'श्रू हिंसायाम्' 'आतो मनिन्क्वनिव्वनिपश्च अन्येभ्योऽपि दृश्यते' इति भाषायामपि वनिप् “सार्वधातुकार्धधातुकयोः इति गुणः,

  • वनो र च' इति ङीप् रश्च । वन्नन्तस्योदाहरणमेतत् । अतिशर्वरीति पाठे तु इदमपि

वन्नन्तान्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरी, इति वन्नन्तस्योदाहरणानि । वनो नेति । पूर्ववत् वन्नन्तं वन्नन्तान्तञ्च गृह्यते । हृश इति पञ्चमी, तेन च धातोरित्यधि कृत्य विहितेन वना आक्षिप्तं धातोरित्येतत् विशेष्यते, तदन्ताविधिः, ङीबिति रश्चेति चानुवर्तते । तदाह । हशन्तादित्यादिना ॥ विहितविशेषणस्य प्रयोजनन्दर्शयन् वन्न न्तोदाहरणं दर्शयितुमाह । औणृ इत्यादिना ॥ वनिबिति । “अन्येभ्योऽपि दृश्यते इत्यनेति शेषः । अवावेति ॥ ओण् इत्यस्मात् वनिपि ‘विड़नोरनुनासिकस्यात्' इति णकारस्य आत्त्वे ओकारस्यावादेशे अवावन्शब्दः । स्त्रीत्वस्फोरणाय ब्राह्मणीति विशेष्यम् । अत्र ओण् इति धातोः हशन्तात् वन् विहितः, तदन्तत्वात् न डीब्रत्वे, किन्तु राजवद्रूपम् । हशन्तात् धातोः परो यो वन् इति व्याख्याने तु आत्वे सति वनो हशःपरत्वाभावात् निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरति । राजयुध्वेति ॥ राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्तमाने 'राजनि युधिकृञः' इति कनिप्, कर्मीभूते राजनि उपपदे युधेः कृञश्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुक् राजयुध्वन्शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदन्तो राजयुध्वन्शब्दः, अतो न ङीब्रादेशावित्यर्थः । बहुव्रीहौ ॥ इदं वार्तिकम् वनो र च' इति विधिः बहुव्रीहौ वा स्यादित्यर्थः । “अनेो बहुव्रीहेः' इति निषेधस्यापवादः । बहुधीवरीति ॥ बहवो धीवानो यस्या इति विग्रहः । बहुधीवेति ॥ ङीबुत्वयोरभावे राजवद्रूपम् । नव बहूनि पर्वाणि यस्यास्सा बहुपर्वेत्यत्रापि ङीब्रत्वविकल्पस्यादिति वाच्यम् अलोपोऽनः' इति उपधालोपयोग्यस्थले एव एतद्वार्तिकस्य प्रवृत्तेः भाष्ये उक्तत्वात् । बहु पर्वन्शब्दे च “न संयोगाद्वमन्तातू' इति अल्लोपनिषेधात् । पक्षे इति ॥ ङीब्रत्वाभावपक्षे डाबुभाभ्याम्' इति डाप् वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन् आ इति स्थिते *टेः' इति टिलोपे बहुधीवाशब्दात् सोहल्ड्यादिलोपे बहुधीवा इति रमावद्रूपम् । ङीब्रत्वयोः डापश्चाभावे सौ बहुधीवेयेव रूपम् । ङीब्रत्वयोः बहुधीवरीति । औजसादिषु तु बहुधीवर्यौ-बहुधीवे बहुधीवानौ, इत्यादि रूपत्रयमिति भावः। पादो । कृतसमासान्तः इति ॥ अन्तलोपात्मके

३४२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४५८ । टावृचि । (४-१-९)

ऋचि वाच्यायां पादन्ताट्टाप् स्यात् । द्विपदा ऋक् । एकपदा । “न षट् स्वस्रादिभ्यः' (सू ३०८) । पञ्च । चतस्रः । * पञ्च' इत्यत्र नलोपे कृतेऽपि 'ष्णान्ता षट्’ (सू ३६९) इति षट्संज्ञां प्रति ‘नलोपः सुप्स्वर-' (सू ३५३) इति नलोपस्यासिद्धत्वात् “न षट्स्वस्रादिभ्यः' (सू ३०८) इति न टाप् ।

४५९ । मनः । (४-१-११)


समासान्ते कृते परिशिष्टः पाद्शब्दः इह गृह्यत इत्यर्थः । तदन्तादिति ॥ पाच्छब्दान्तादि त्यर्थः । पाद इति पञ्चम्यन्तेन “प्रातिपदिकात्’ इत्यधिकृतस्य विशेषणादिति भावः । ङीब्वा स्यादिति ॥ 'ऋत्रेभ्यः' इत्यतः तदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यस्या इति बहुव्रीहिः । 'सङ्खयासुपूर्वस्य’ इति पादशब्दान्तस्याकारस्य लोपः । ङीपि भत्वात् पादः पत्, द्विपदीति रूपम् । ङीबभावे तु । द्विपादिति ॥ टाबृचि ॥ पादन्तादिति ॥ प्राति पदिकादिति शेषः । 'पादेऽन्यतरस्याम्' इत्यतः अनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः । 'पादोऽन्यतरस्याम्' इति ङीपोऽपवादोऽयम् ॥ द्विपदा ऋगिति ॥ द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पादो यस्या इति विग्रहः । उभयत्रापि टापि, पादः पत् । “डयाप्प्रातिपदिकात्' इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दमवः ष्टभ्य प्रत्याख्यातमेतत् । नच ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्तये एतत्सूत्रमिति वाच्यम् । एतद्भाष्यप्रामाण्येन तथाविधप्रयोगस्यापीष्टत्वादित्यलम् । न षट्स्वस्रादिभ्यः इति ॥ इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पञ्चेति ॥ इहान्तरङ्गत्वात् नान्तलक्षणङीपि प्राप्ते षट्त्वान्निषिद्धे “षड्भ्यो लुक्' इति जश्शसोर्लुकि नलोप इति भावः । चतस्रः इति ॥ चतसृभावे सति ऋदन्तलक्षणङीब न, स्वस्रादित्वात् । ननु “न षट्स्वस्रादिभ्यः' इति ङीबेव प्रतिषिध्यताम्, किं टावनुवृत्त्या । नान्तत्वात् टापः प्रसत्तेरभावेन तन्निषेधवैयर्थ्यादित्यत आह । पञ्चेत्यत्रेति ॥ पञ्चेत्यत्र ‘न षट्स्वस्रादिभ्यः' इति न टाबित्यन्वयः । अदन्तलक्षणष्टाबिति शेषः । नान्तलक्षणङीपि प्रतिषिद्धे सति जश्शसोर्लुकि नलोपे कृते अदन्तत्वात् प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकीति यावत् । नच नलोपस्यासिद्धत्वात् टापः प्रसक्तिरेव नेति वाच्यम् । सुप्स्वरसंज्ञातुग्विधिषु टाविधेरनन्तर्भावेन तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वा भावात् । ननु “न षट्स्वस्रादिभ्यः' इत्यत्र सत्यामपि टाबनुवृत्तौ कथमिह षट्संज्ञानिबन्धनस्त न्निषेधः, नलोपे कृते षट्संज्ञाविरहात् । नच टाब्निषेधे कर्तव्ये नलोपस्यासिद्धत्वं शङ्कयम् । टाब्नि षेधस्य सुप्स्वरसंज्ञातुग्विधिषु अनन्तर्भावादित्यत आह । नलोपे कृतेऽपीत्यादि असि द्वत्वादित्यन्तम् ॥ टाब्निषेधविधिरयं षट्संज्ञामपि विधत्ते । कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन्कर्तव्ये नलोपस्यासिद्धत्वेन षट्संज्ञाया निर्बाधतया षट्संज्ञानिबन्धनष्टाप्प्रतिषेधोऽत्र निर्बाध इति भावः । वस्तुतस्तु नलोपस्यासिद्धत्वेऽपि भूतपूर्वषट्संज्ञामाश्रित्य टाब्निषेध उपपद्यते । अत एव

प्रकरणम्]
३४३
बालमनोरमा

मन्नन्तान्न ङीप् । सीमा-सीमानौ

४६० । अनो बहुव्रीहेः । (४-१-१२)

अन्नन्ताद्वहुव्रीहेर्न ङीप् । बहुयज्वा-बहुयज्वानौ ।

४६१ । डाबुभाभ्यामन्यतरस्याम् । (४-१-१३)

सूत्रद्वयोपात्ताभ्यां डाब्वा स्यात् । सीमा, सीमे-सीमानौ। दामा दामे-दामानौ । 'न पुंसि दाम' इत्यमरः । बहुयज्वा, बहुयज्वे-बहुयज्वानौ ।


"षट्संज्ञायां नलोपासिद्धत्वस्य न फलम्” इति “नलोपस्सुप्स्वर' इति सूत्रभाष्ये उक्तमित्याहु मनः ॥ 'न षट्स्वस्रादिभ्यः' इत्यतः नेति * ऋन्नेभ्यः' इत्यतः ङीबिति चानुवर्तते । मन इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । तदाह । मन्नन्तान्न ङीबिति । सीमेति ॥ “षिञ् बन्धने' औणादिको मनिन् प्रकृतेर्दीधैश्च । सीमन्शब्दात् ङीपि निषिद्धे राजवद्रूपम्। ङीपि सति तु अल्लोपे सीम्नीति स्यादिति भावः । ननु वक्ष्यमाणडापि सीमेति सौ रूपसिद्धेः किं ङीनिषेधेन इत्यत आह । सीमानाविति ॥ डापि तु सति सीमे इत्येव स्यादिति भावः । अनो बहुव्रीहेः ॥ अन इति बहुव्रीहेरित्यस्य विशेषणम्, तदन्तविधिः । नेति ङीबिति च पूर्ववदनुवर्तते । तदाह । अन्नन्तादिति । बहुयज्वा, बहुयज्वानाविति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षणङीपः प्रतिषेधे राजवद्रूपाणि । ‘न संयोगात् इति निषेधान्नायमुपधालोपी । अतोऽत्र * अन उपधालोपिनः’ इति विकल्पो न प्रवर्तितुमर्हति । डाबुभाभ्याम् । उभाभ्यामियेतद्वयावष्टे । सूत्रद्वयोपात्ताभ्यामिति ॥ मन इति “ अनो बहुव्रीहेः' इति च सूत्रद्वयोपात्तात् मन्नन्तात् अन्नन्तबहुव्रीहेश्व इत्यर्थः । नन्विहान्यतरस्यां ग्रहणं व्यर्थम् । नच तदभावे डाब्नित्यस्यादिति वाच्यम् । डापो नित्यत्वे तेनैव ङीपो निवृत्ति सम्भवेन ङीब्निषेधवैयर्थ्यात् । एवञ्च ङीप्निषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धेः अन्य तरस्यां ग्रहणं व्यर्थमिति चेत्, स्पष्टार्थमिति वित् । भाष्ये तु “ अन्यतरस्याम्' इति योगवि भागमाश्रित्य “बहुव्रीहौ वा' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दात् डापि टिलोपे सीमाशब्दात् सोर्हल्डयादिलोपः । डाबभावपक्षेऽपि “मन:’ इति ङीब्निषेधे सौ सीमे त्येव राजवदूपम् । तर्हि डाव्विधेः किं फलमित्यत आह । सीमे, सीमानाविति ॥ मन्नन्त विषये उदाहरणान्तरमाह । दामेति ॥ दाधातोरौणादिको मनिन् “हिरण्मयन्दाम् दक्षिणा इत्यादौ दामन्शब्दस्य नपुंसकत्वदर्शनादाह । न पुंसीति ॥ दामन्शब्दः पुंसि न, किन्तु स्त्रीनपुं सकयोरित्यर्थः । “निषिद्धलिङ्गं शेषार्थम्' इति परिभाषितत्वात् । अन्नन्तबहुव्रीहेरुदाहरति । बहुयज्वेति । बहवो यज्वानो यस्या इति विग्रहः। डापि टिलोपे बहुयज्वाशब्दात् सोर्हल्डया दिलोपः। ङीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह । बहुयज्वे, बहुयज्वाना चिति ॥ शसि बहुयज्वनः । अत्र अल्लोपस्तु न भवति । “न संयोगाद्वमन्तात्' इति निषेधात् । अत एव “अन उपधालोपिनः' इत्यस्य नायं विषयः । अथ बहवो राजानो यस्या इति बहुव्रीहौ

बहुराजन् शब्दात् “अनो बहुव्रीहेः' इति ङीब्निषेधे ‘डाबुभाभ्याम्' इति डापि च नान्तत्वमाका

३४४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४६२ । अन उपधालोपिनोऽन्यतरस्याम् । (४-१-२८)

अन्नन्ताद्वहुव्रीहेरुपधालोपिनो वा ङीप्स्यात् । पक्षे डाब्डीब्निषेधौ । बहुराज्ञी-बहुराजा । बहुराज्ञ्यों-बहुराजे-बडुराजानौ ।

४६३ । प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः । (७-३-४४)

प्रत्ययस्थात्ककारात्पूर्वस्याकारस्येकारः स्यादापि परे, स आप्सुपः परो न चेत् । सर्विका । कारिका । * अतः' किम् । नौका । * प्रत्ययस्थात्


रान्तत्वञ्च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते । अन उपधा ॥ इदं सूत्रं नात्र प्रकरणे पठितम् । किन्तु “दामहायनान्ताञ्च' इत्युत्तरं पठितं प्रसङ्गादत्रोपन्यस्तम् । “बहुव्रीहे रूधसो ङीष्' इत्यतो बहुव्रीहेरिति अनुवर्तते, सङ्खयाव्ययादेङीप्” इत्यतो ङीबिति च । प्रादिपदिकादित्यधिकृतम् अन इत्यनेन विशेष्यते, तदन्तधिः । तदाह । अन्नन्तादित्यादिना ॥ पक्षे डाब्ङीनिषेधाविति । कदाचित् ङीब्निषेधः डापु चेत्यर्थः । अन्यतरस्यांग्रहणस्य प्रयोजनमिदम् । अकृते त्वन्यतरस्यांग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्य “अनो बहुव्रीहेः' इति डीप्प्रतिषेधस्य “डाबुभाभ्याम्' इति डापश्च बहुराजन्शब्दादावुपधालोपिनि अनवकाशेन ङीपा बाधस्यात् । बहुराज्ञीति । ङीपि अल्लोपे सोर्हल्ङयादिलोपः इति भावः । बहुराजेति ॥ डापि ङीब्निषेधे च सौ रूपम् । बहुराश्याविति ॥ ङीप्पक्षे औडि यण् । बहुराजे इति ॥ डाप्पक्षे औङि रूपम् । बहुरराजानाविा ॥ ङीब्निषेधे औङि रूपम् । प्रत्ययस्थात् ॥ ककारादिति ॥ क् इति वर्णादित्यर्थः । अकार उच्चारणार्थः । “वर्णात्कार इत्युक्त्तेः । एवञ्च सूत्रे कादित्यत्र अकार उच्चारणार्थ इति सूचितम् । स आबिति । इत्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः । सुपः परो न चेदिति ।। सूत्रे असुपः इति पञ्चम्यन्तम्, असमर्थसमासः । आपि सुपः परस्मिन् सति इत्वं न भवतीत्यर्थो विवक्षित इति भावः । सर्विकेति । सर्वशब्दाद्वापि सवर्णदीर्घे सर्वाशब्दः । एकादेशस्य पूर्वान्तत्वेन ग्रहणात् । सर्वनामकायेम् । ततश्च “अव्ययसर्वनान्नाम्' इति टेः प्रागकच् । तत्र ककारादकार उच्चारणार्थः ।चकारः इत् । अक् इति ककारान्तः प्रत्ययः टेः प्राग्भवति । सर्वकाशब्देऽस्मिन् ककारात्पूर्वस्य अत इत्वे सर्विकेति रूपम् । ननु ककारात्पूर्वस्य अकारस्य कथमित्वम् । कारण व्यवहिततत्ता आप्परकत्वाभावादिति चेन्न । “येन नाव्यवधानम्’ इति न्यायेन तद्वयवधानस्य अबाधकत्वात् । कारिकेति ॥ कृङओ ण्वुल्, अकादेशः, 'अचो ञ्णिति' इति ऋकारस्य वृद्धिः रपरत्वं, कारकशब्दात् टाप्, सवर्णदीर्घः, कात्पूर्वस्य रेफादकारस्य इत्त्वम् कादिति सङ्घातग्रहणे तु एतिका इति न सिध्द्यति । एतच्छब्दे टेः प्रागकचि एतकद््शब्दात् जसि, त्यदाद्यत्वे, पररूपे अदन्तत्वाट्टापि, कात्पूर्वस्य इत्वे, एतिका इति रूपम्। अत्राकचि अकारस्य उच्चारणार्थतया प्रत्यय स्थकशब्दाभावात् इत्त्वन्न स्यात् । ककारादुत्तरावर्णस्याकजनवयवत्वात् । नचाकचि अकारस्य नोचारणार्थत्वमिति शङ्कयम् । एवं सति निरित्यव्यये अकचि नकिर् इति न स्यात् । अतः कादि

त्यनेन ककारादित्येव विवक्षितम् । यका सकेत्यत्र ‘न यासयोः' इति इत्त्वनिषेधालिङ्गाच्च । अन्यथा

प्रकरणम्]
३४५
बालमनोरमा

किम् । शक्रोतीति, शका । “ असुपः' किम् । बहुपरिव्राजका नगरी । “कात् किम्, नन्दना । “पूर्वस्य' किम्। परस्य मा भूत् । कटुका । अत इति तपरः किम् । राका । “आपि' किम् । कारकः । *मामकनरकयोरुपसङ्ख-यानम् (वा ४५२४)। मामिका। नरान्कायतीति, नरिका । ‘त्यक्त्यपोश्च' (वा ४५२५) दाक्षिणात्यिका । इहत्यिका ।


तत्र प्रत्ययस्थककाराभावेन इत्त्वस्याप्राप्ते किन्तन्निषेधनेनत्यलम् । नौकेति ॥ नौशब्दात् स्वार्थिकः कः, टाप्। अत्र ककारात् पूर्वस्य औकारस्य इतत्त्वनिवृत्त्यर्थमत इति वचनम्। शकेति। शक्लृ शक्तौ' पचाद्यच्, टाप् । अत्र ककारस्य धात्ववयवस्य प्रत्ययस्थत्वाभावान्न ततः पूर्वस्य इत्वम् । बहुपरित्राजकेति । परिपूर्वाद्रूजेः ण्वुल्। बहवः परिव्राजकाः यस्यामिति बहुव्रीहिः । सुपो लुकि बहुपरिव्राजकशब्दात् टाप् । अत्राकारस्य कात्पूर्वस्य इत्त्वन्न । प्रत्ययलक्षणेन आप सुबपेक्षया परत्वात् । ‘न लुमता' इति निषेधस्तु न । तस्य लुमता लुप्ते प्रत्यये यदङ्गं तस्य कार्य एव प्रवृत्तेः । इत्वन्तु टाप्यनाङ्गकार्यमिति नात्र तन्निषेधः । यदि तु ' असुपः' इति पर्युदास आश्रीयेत, तर्हि बहुपरिव्राजक इति समुदायस्य सुवभिन्नत्वादापः ततः परत्वादित्वं दुर्वारं स्या दिति भावः । पूर्वस्य किमिति । एकादेशे कृते परस्थ हूस्वस्याभावात् पूर्वस्येत्यर्थसिद्धमिति प्रश्रः । कटुकेति । कटुशब्दात् स्वार्थे कः, टाप्, सवर्णदीर्घः । पूर्वस्येत्यनुक्तौ अत्र सवर्ण दीर्घत पूर्व वाणर्णादाङ्गस्य बलीयस्त्वादपवादत्वाच्च द्वितीयककारादुत्तरस्य अकारस्य आपि परे इत्त्वं स्यादिति भावः । अत इति तपरः किम् । रावका इति ॥ *कृदाधारार्चिकलिभ्यः कः' इति राधातोः औणादिकः कप्रत्ययः “उणादयो बहुळम्' इति बहुळग्रहणात् 'केऽणः’ इति हूस्वो न । ककारस्य च नेत्वं, टाप्, स्त्रीत्वं लोकात् । 'कलाहीने सानुमतिः पूर्णे राका निशाकरे' इत्यमरः । अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्त्वमिति भावः । मामकेति ॥ मामकनरकशब्दयोः का त्पूर्वस्य इत्वं वक्तव्यमित्यर्थः । मामिकेति ॥ ममेयमिति विग्रहे 'युष्मदस्मदोरन्यतरस्यां खञ् च' इत्यणि, “तवकममकावेकवचने' इति ममकादेशे, आदिवृद्धिः, टाप्, “टिड्ढाणञ्' इत्या दिना डीप्तु न 'केवलमामक' इत्यादिना संज्ञाच्छन्दसोरेव मामकशब्दातू ङीब्नियमात् । ततश्चात्र ककारस्य प्रत्ययस्थत्वाभावात् 'प्रत्ययस्थात्’ इत्यप्राप्तौ वचनमिदम् । नरानिति ॥ कैशब्दे आदेच उपदेशे' इत्यात्वे, ‘आतोऽनुपसर्गे क:’ इति कप्रत्यये ‘आतो लोप इटि च' इति आलोपः उपपदसमासः, सुपो लुक्, टाप्। अत्रापि ककारस्य प्रत्ययस्थत्वाभावात् ‘प्रत्ययस्थात्’ इत्यप्राप्तौ वचनम् । त्यक्तयपोश्चेति । त्यगन्ते त्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याकारस्य इत्वं वक्तव्यमि त्यर्थः । “उदीचामातस्थाने' इति विकल्पस्यापवादः । दाक्षिणात्यिकेति । दक्षिणस्यान्दिशि अदूरे इति विग्रहे ‘दक्षिणादाच्’ इत्याच्, ‘तद्धितश्चासर्वविभक्तिः’ इत्यव्यत्वम्। दक्षिणाशब्दात् भवाद्यर्थे “दक्षिणापश्चात्पुरसस्त्यक्' इति त्यक् किति च' इत्यादिवृद्धिः, दा टाप् । ततः स्वार्थिकः कः, 'केऽणः' इति टापो ह्रस्वः, पुनष्टाप्, इत्वमिति भावः । “दक्षिणस्यां दिशि भवेति विग्रहे दक्षिणाशब्दात् टाबन्तादेव त्यकन्” इति तु प्रौढमनोरमायां दूषितम् ।

इहत्यिकेति । “अव्ययात्त्यप्' इति त्यप्, टापू, स्वार्थिकः कः, 'केऽणः' इति हृस्वः, पुनः

३४६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४६४ । न यासयोः । (७-३-४५)

यत्तदोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् । “त्यकनश्च निषेधः' (वा ४५२६) । उपत्यका । अधित्यका । * आशिषि वुनश्च न ' (वा ४५२८) । जीवका । भवका । “उत्तरपदलोपे न’ (वा ४५२९) । देव दत्तिका-देवका । * क्षिपकादीनां च न' (चा ४५३०) । क्षिपका । ध्रुवका । कन्यका । चटका । “ तारका ज्योतिषि' (वा ४५३१) । अन्यत्र तारिका ।


टाप् । न यासयोः ॥ नात्र कृतटापोः प्रथमान्तयोर्निर्देशः। यत्तदोरित्येव विवक्षितमिति भाष्ये स्पष्टम् । 'प्रत्ययस्थात्' इत्यतः अत इति, इदिति चानुवर्तते । • तदाह । यत्तदोरिति ॥ यका । सका इति ॥ * अव्ययसर्वनाम्नाम्' इति यत्तच्छब्दयोष्टेः प्रागकवि सौ त्यदाद्यत्वं पररूपं, टाप्, हल्डयादिना सुलोपः, तच्छब्दे 'तदोस्सस्सौ' इति तकारस्य सकारः । उभयत्रापि “प्रत्ययस्थात्' इति प्राप्तमित्त्वमत्र सूत्रे निषिध्द्यते । अथ “न यासयोः' इत्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह । यकाम् । तकामिति । त्यकनश्च निषेधः इति ॥ त्यकन्प्रत्ययान्तस्यापि *प्रत्ययस्थात्' इति इत्त्वप्रतिषेधो वक्तव्य इत्यर्थः । उपत्यका । आधित्यकेति । “उपाधिभ्यां त्यकन्नासन्नारूढयोः' इति त्यकन्, टाप्, सोर्हल्डयादिलोप- । उपत्यकाद्रेरासन्ना भूमिरूध्र्वमधित्यका' इत्यमरः । ननु त्यकन्विधौ अकारस्य उच्चारणसामर्थ्यादेव इत्त्वन्न भवति । अन्यथा त्यिकनमेव विदध्द्यात्, अतः किं तन्निषेधेनेति चेत्, मैवम् । पञ्चोपत्यको ग्राम इत्यत्र अकारश्रवणार्थत्वादित्यलम्। आशिषीति ॥ आशिषि यो वुन् तस्य योऽयमकादेशः तदकारस्य 'प्रत्ययस्थात्' इति इत्त्वन्नेति वक्तव्यमित्यर्थः । जीवका । भवकेति ॥ जीवतात् भवतादित्यर्थे जीवधातोः भूधातोश्च ‘आशिषि च' इति वुन्, “युवेरनाकौ' इति तस्य अकादेश सार्वधातुकार्धधातुकयोः' इति भूधातोरूकारस्य गुणः अवादेशश्च । उत्तरपदेति ॥ उत्तरपद लोपेऽपि इत्वन्नेति वक्तव्यमित्यर्थः । देवकेति ॥ देवदत्तशब्दात् स्वार्थे कः ठाजादावृर्ध्वं द्विती यादचः ‘अनजादौ च विभाषा लोपो वक्तव्यः’ इति दत्तशब्दलोपः । देवकशब्दातू टापु । देवद तिकेति तु दत्तपदस्य लोपाभिव्यक्तये उपन्यस्तम् । क्षिपकादीनाञ्चेति ॥ क्षिपकादिशब्दा नामित्त्वन्नेति वक्तव्यमित्यर्थः । क्षिपकादिगणं पठति । क्षिपकेति ॥ 'क्षिप प्रेरणे' 'इगुपधज्ञाप्री किरः कः' कित्त्वान्न लघूपधगुणः, क्षिपाशब्दात् स्वार्थे कः, ‘केऽणः’ इति हृस्वः, पुनष्टाप् । ध्रुवकेति ।f ‘ध्रुव स्थैर्ये' कुटादिः, क्षिपकेतिवदूपम् । यद्वा ' ध्रु स्थैर्ये' पचाद्यच् “गाड् कुटादिभ्यः' इति डित्वान्न गुणः, उवङ्, ध्रुवशब्दात् टाप्, ततः स्वार्थिकः कः, 'केऽणः इति ह्रस्वः, पुनष्टाप् । कन्यकेति ॥ कन्याशब्दात् कः, 'केऽणः’ इति ड्रस्वः, पुनष्टाप् । चटकेति ॥ ‘चवट भेदने' पञ्चाद्यच् , स्वार्थे कः, ‘केऽणः’ इति ह्रस्वः, पुनष्टाप् । क्षिपकादिराकृः तिगणः । तेन अळका इष्टका इत्यादि । तारका ज्योतिषीति ॥ वार्तिकमिदम् । ज्योतिषिः वाच्ये तारकेति भवति इत्त्वन्न भवतीति यावत् “तृ अवनतरणयोः' ण्वुल्, अकादेशः, ऋकारस्य

वृद्धिः, रपरत्वं, टाप् । ज्योतिरित्यनेन नक्षत्रम् अक्ष्णः कनीनिका च विवक्षितम् । “नक्षत्र

प्रकरणम्]
३४७
बालमनोरमा ।

'वर्णका तान्तवे' (४५३२) । अन्यत्र वर्णिका । “ वर्तका शकुनो प्राचाम् (वा ४५३३) । उदीचां तु वर्तिका । “अष्टका पितृदेवत्ये' (वा ४५३४) । अष्टिकान्या । “ सूतकापुत्रिकाबृन्दारकाणां वेति वक्तव्यम्’ (वा ४५३५) । इह वा अ इति छेदः । कात्पूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशब्दे ङीनः


मृक्षम्भन्तारं तारकापि ” “तारकाक्ष्णः कनीनिका ?” इति चामरः । अन्यत्रेति ॥ ज्योति षोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः । वर्णका तान्तव इति ॥ इदमपि वार्तिकम् । तान्तवे गम्ये वर्णकेति भवति, इत्वन्नेत्यर्थः । तन्तूनां विकारस्तान्तवम्।* ओरञ् वर्णकेति प्रावार विशेषः । 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु' चुरादिः । ण्यन्तात् ण्वुल्, अकादेशः, णिलोपः टाप् । अन्यत्रेति ॥ तान्तवादन्यत्र वर्णिकेति इत्वमित्यर्थः । बर्णिका स्तोत्रीत्यर्थः । वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा । वर्तका शकुनौ प्राचामिति ॥ इदमपि वार्तिकम् । शकुनिः पक्षी, तत्र गम्ये प्राचाम्मते वर्तकेति भवति, इत्त्वं न भवतीत्यर्थः । प्राचांग्रहणस्य प्रयोजन माह । उदीचां त्विति ॥ उदीचाम्मते तु शकुनौ गम्य वर्तिकेति इत्त्वं भवतीत्यर्थः । वर्तयतेर्ण्वुल्, अकादेशः, णिलोपः, स्वार्थे कः, टाप् । 'कोयष्टिकष्टिट्टिभको वर्तको वर्तिकादय इत्यमरः । शकुनेरन्यत्र तु नित्यमेवेत्त्वम् । अष्टका पितृदेवत्ये इति ॥ इदमपि वार्ति कम्। पितरश्च ता देवताश्च पितृदेवताः तदर्थं, पितृदेवत्यम् “देवतान्तात् तादर्थ्यें यत्' इति यत्। पित्रर्थे कर्मणि वाच्ये अष्टकेति भवति ‘प्रत्ययस्थात्’ इति इत्त्वन्नेत्यर्थः । अश्रन्ति पित्रर्थे ब्राह्मणा यस्यामिति विग्रहे “ अश भोजने' इत्यस्मात् ‘इष्याशिभ्यान्तकन्’ इति तकन् प्रत्ययः, “त्रश्च आदिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दात् टाप् । अष्टिकान्येति ॥ अष्टौ अध्द्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाद्यायी, “सङ्खयायाः अतिशदन्तायाः कन्’ इति सूत्रेण अष्टौ इति सुबन्तात् कन्प्रत्ययः । सुबन्तात्तद्धितोत्पत्तेः सिद्धान्तयिष्यमाणत्वात् । ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात् “सुपो धातुप्रातिपदिकयोः' इति जसो लुकि निमित्तापायात् अष्टन आत्वनिवृत्तौ अन्तर्वर्तिनीं विभक्तिमाश्रित्य पदत्वान्नकारलोपे, अष्टकशब्दात्, टापि 'प्रत्ययस्थात्' इति इत्त्वं भवत्येव । नचान्तर्वर्तिसुपः परत्वं टापश्शङ्कयम् । अकारेण व्यवधानात् । असुपः इत्यस्य बहुपरिव्राजका नगरी इत्यत्र अव्यवहिते सुपः परे टापि चरितार्थत्वात् । अत एव “क्षिपकादी नान्न' इति निषेधोऽर्थवान् । अन्यथा क्षिपाशब्दात् सुबन्तात् स्वार्थिके कप्रत्यये सुपो लुकि अन्तर्वर्तिनीं विभक्तिमाश्रित्य टापस्सुबपेक्षया परत्वादसुपः इति निषेधसिद्धेः किं तेनेत्यलम् । 'वा सूतकापुत्रिकावृन्दारकाणाम्' इति वार्तिकमर्थतः पठति । सूतकेति । अत्र पुत्रिका शब्दः इकारमध्यः नत्वकारमध्द्यः । स्त्रियां पुत्रशब्दस्य शार्ङ्गरवादित्वेन ङीनन्तत्वादित्रि कैयटः । अत्रेत्वविकल्पभ्रमं वारयति । इह वा अ इति ॥ सवर्णदीर्घे सति वा इति निर्देश इति भावः । अत्र अ इति लुप्तप्रथमाकं कात्पूर्वस्येत्यनुवर्तते, अत इति निवृत्तम्, पुत्रिकाशब्दे अतोऽभावात् । तदाह । कात्पूर्वस्येति ॥ नन्वत्र इत्त्वविकल्प एव कुतो न विधीयत इत्यत आह । तेनेति ॥ अत्वविधानेनेत्यर्थः । पुत्रशब्दात् शार्ङ्गरवादत्वात् ङीनि स्वार्थिके कप्रत्यये

केऽणः' इति हूस्वे, टापि, पुत्रिकाशब्दः । अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका-पुत्रीकेति

३४८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

इवर्णस्य पक्षेऽकारः । अन्यत्रेत्त्वबाधनार्थमकारस्यैव पक्षेऽकारः । सूतिका सूतका इत्यादि ।

४६५ । उदीचामातः स्थाने यकपूर्वायाः । (७-३-४६)

यकपूर्वस्य स्त्रीप्रत्ययाकारस्य याऽकारस्तस्य कात्पूर्वस्येद्वा स्या

दापि परे । “ केऽण: ' (सू ८३४) इति ह्रस्वः । आर्यका-आर्यिका । चट कका-चटकिका | * आत: ' किम् । साङ्काश्ये भवा साङ्काश्यिका । ' यक'-


इन्मध्द्यः ईन्मध्द्यश्च स्यात् । अत्वविधौ तु पुत्रका पुत्रिकेति अकारमध्द्यः इकारमध्यश्च फल तीति । ननु सूतकाशब्दे वृन्दारकाशब्दे च कात्पूर्वस्याकारस्य अकारविधिः किमर्थमित्यत आह । अन्यत्रेति । सूतकाशब्दे वृन्दारकाशब्दे च 'प्रत्ययस्थात्' इति नित्यभित्त्वे प्राप्त तद्विकल्पार्थ मित्यर्थः।'घूञ् प्राणिगर्भविमोचने' धात्वर्थेनोपसङ्ग्रहादकर्मक । ‘गत्यर्थाकर्मक’ इत्यादिना कर्तरि क्तः,टाप्, स्वार्थिकः कः, ‘केऽणः इति ह्रस्वः, पुनष्टाप् । अत्राकारस्य अत्त्वाभावपक्षे ‘प्रत्ययस्थात्’ इति इत्वम् । बृन्दमस्यास्तीति मत्वर्थे श्रृङ्गवृन्दाभ्यामारकन् इति आरकन्प्रत्ययः । अमरेण तावत् देवतावाची बृन्दारकशब्दः 'अमरा निर्जरा देवाः' इत्यादिना पुलिङ्गेष्वनुक्रान्तः । रूपि वाची मुख्यवाची च त्रिलिङ्गः “त्रिषूत्तरे” इत्युपक्रम्य “बृन्दारकौ रूपिमुख्यौ” इत्यमरः । स्त्रियां टाप् । अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम् । उदीचामात: ॥ ‘प्रत्ययस्थात्' इति सूत्रमनुवर्तते। यश्च कश्च यकौ तौ पूर्वो यस्या इति विग्रहः । यकेति वर्णग्रहणम्, अकारावुच्चार णार्थौं, यकपूर्वाया इत्येतत् आत इत्यस्य विशेषणम् । तेन आकारस्य स्त्रीवाचकत्वं लभ्यते । तदाह । यकपूर्वस्येत्यादिना ॥ “उदीचांग्रहणं विकल्पार्थमेव । नतु देशतो व्यवस्थार्थ म्” इति “न वेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् । नच 'षष्ठी स्थानेयोगा' इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम् । अनुवादे परिभाषाणामनुपस्थितेः । तत्र च इदमेव स्थाने ग्रहणं ज्ञापकम् । अत एव *वृद्धिर्यस्याचामादिस्तदृद्धम्' इत्यत्र यस्यादिः वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते । तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्स्थानिकत्वाभावात् । ततश्चशालीयइति ‘वृद्धाच्छ:’ इतिछः न स्यात्, औपगवीयः इत्यादावेव स्यादित्यलम् । केऽणः इति हृस्वः इति ॥ आर्यशब्दात् स्वार्थिके कप्रत्यये यकारादाका रस्य “केऽणः' इति हृस्व इत्यर्थः । पुनष्टापि आर्यकाशब्दः । तत्र यकारादकारस्य आकार स्थानिकत्वादित्वविकल्प । “प्रत्ययस्थात्' इति नित्यस्य इत्वस्यापवादः । तदाह । आर्यका-आर्यिकेति ॥ यकारपूर्वस्य उदाहरणमिदम् । अथ ककारपूर्वस्य उदाहरति । चटकका-चटकिकेति ॥ चटकाशब्दात् स्वार्थे कः, 'केऽणः’ इति ह्रस्वः, पुनष्टाप् इत्वविकल्प इति भावः । साङ्कश्यिकेति । सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम् । “बुञ् छण्कटच्’ इत्यादिना सङ्काशादिभ्यो ण्यः, आदिवृद्धिः, * यस्येति च' इत्यकारलोपः । साङ्काश्यशब्दात् भवार्थे 'धन्वयोपधादुञ्’ अकादेशः, 'यस्येति च' इत्यकारलोपः, टाप्,

प्रत्ययस्थात्' इति नित्यमित्त्वम् । इह यकारादकारस्य आकारस्थानिकत्वाभावादित्त्व

प्रकरणम्]
३४९
बालमनोरमा ।

इति किम् । अश्विका । * स्त्रीप्रत्यय-' इति किम् । शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका । “धात्वन्तयकोस्तु नित्यम्' (वा ४५३६) । सुन । यिका । सुपाकिका

४६६ । भस्त्रैषाजाज्ञाद्वास्वा नञ्पूर्वाणामपि । (७-३-४७)

स्वेत्यन्तं लुप्तषष्टीकं पदम् । एषामत इद्वा स्यात् । तदन्तविधिनैव सिद्धे नञ्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राग्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तर


विकल्पो न भवतीति भावः । ननु स्त्रीप्रत्ययस्य अत इद्वा स्यादित्येवास्तु, “आतः स्थाने इति मास्तु । साङ्काश्यकाशब्दे यकारादकारस्य वुञादशावयवत्वेन स्त्रीबोधकत्वाभावादिति चेत् । तर्ह्यातः स्थाने इति स्पष्टार्थमित्याहुः । अश्विकेति । अश्वाशब्दात् कः, “केऽण इति हूस्वः, पुनष्टाप्, अश्वकाशब्दः । अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वाभावा दित्वविकल्पो न, किन्तु “प्रत्ययस्थात्' इति नित्यमित्वमिति भावः । स्त्रीप्रत्यय इति किमिति ॥ यकपूर्वाया इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः । शुभंयिकेति ॥ शुभमिति मान्तमव्ययम् । तस्मिन्नुपपदे 'या प्रापणे' इति धातोः अन्येभ्यो ऽपि दृश्यते इति विच्। शुभंयाशब्दात् स्वार्थे कः। 'केऽणः' इति ड्रस्वः, टाप्, शुभंयकाशब्दः । अत्र यकारादकारस्य धात्ववयवस्य स्त्रीवाचकत्वाभावादित्वविकल्पो न, किन्तु “प्रत्ययस्थात् इति नित्यमेवेत्वमिति भावः । “यकपूर्वे धात्वन्तप्रतिषेधः' इति वार्तिकमर्थतस्सङ्गृह्णाति । धात्वन्तयकोस्तु नित्यमिति ॥ यश्च कश्चेति विग्रहः। धात्वन्तयकारककारयोरुपरि विद्य मानस्य अकारस्य नित्यमित्वम्, न तु विकल्प इत्यर्थः । सुनयिकेति ॥ णीञ् धातोः पचाद्यच् । “सार्वधातुकार्धधातुकयोः' इति गुणे अयादेशे नयशब्दः । सु शोभनः नय यस्यास्सा सुनया, ततः स्वार्थे कः, “केऽणः' इति हूस्वः, पुनष्टाप्, सुनयकाशब्दः, अत्र यकारस्य धात्वन्तत्वान्न ततः परस्याकारस्य इत्त्वविकल्पः, किन्तु ‘प्रत्ययस्थात्’ इति नित्यमित्व मिति भावः । सुपाकिकेति ॥ पचधातोर्घञि *चजो: कु घिण्यतोः' इति चकारस्य कुत्वे उपधावृद्धौ पाकशब्दः । सु शोभनः पाको यस्यास्सा सुपाका । स्वार्थे कः, “केऽणः' इति ह्रस्वः, पुनष्टापू, सुपाककाशब्दः । अत्र ककारस्य धात्वन्तत्वात् ततः परस्याकारस्य नेत्त्व विकल्पः । किन्तु 'प्रत्ययस्थात्' इति नित्यमित्वमिति भावः । भस्त्रैषा ॥ यकपूर्वत्वाभावात् 'उदीचाम्' इत्यप्राप्तौ वचनमिदम् । स्वेत्यन्तमिति ॥ भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा , एषां षण्णां द्वन्द्वः । ततः षष्ठ्या आर्षों लुक् । भस्त्रैषाजाज्ञाद्वास्वानामिति विवक्षितमिति भावः । एषामिति ॥ भस्रादीनामित्यर्थः । अत इद्वति ॥ पूर्वसूत्रादुदीचांग्रहणस्य ‘प्रत्ययस्थात् इति सूत्रात् इदित्यस्य चानुवृत्तेरिति भावः । नन्वाङ्गत्वात्तदन्तविधौ भस्रादिशब्दान्तानामिति लभ्यते व्यपदेशिवत्वेन केवलानामपि लभ्यते । एवञ्च नञ्पूर्वाणान्तद्भिन्नपूर्वाणां केवलानाञ्च सिद्धे नञ्पूर्वाणामपीति व्यर्थमित्यत आह । तदन्तविधिनैवेति । ननु तदन्तविधिना

भस्रादिशब्दानां नञ्पूर्वाणामनञ्पूर्वाणाञ्च प्राप्तौ, नञ्पूर्वाणामेवेति नियमार्थ नञ्पूर्वग्रहणम् ।

३५०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

सूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयोर्नेत्त्वम् । अन्तर्वर्तिनीं विभक्तिमा श्रित्य * असुपः' इति प्रतिषेधात् । अनेषका । परमैषका । अद्वके । परमद्वके ।


तथा सति केवलानां भस्रादिशब्दानां ग्रहणव्यावृत्तिस्यादित्यपिशब्द इति व्याख्यातुमुचित मिति चेन्न । एवं सति निर्भस्त्रिकेत्याद्यसिद्धेः । तस्मात् “नञ्पूर्वाणामिति स्पष्टार्थमेव' इति भाष्ये स्पष्टम् । ननु भस्त्राशब्दस्य नित्यस्त्रीलिङ्गतया “अभाषितपुंस्काञ्च' इत्युत्तरसूत्रेणैव इत्त्वविकल्पसिद्धेरिह भस्त्राग्रहणं व्यर्थमित्यत आह । भस्राग्रहणमुपसर्जनार्थमिति निर्भस्त्रिका इत्युपसर्जनत्वे त्रिलिङ्गतया भाषितपुंस्कत्वेन तत्र “अभाषितपुंस्काञ्च' इत्यस्य अप्र वृत्तेरिति भावः । अन्यस्य त्विति । उपसर्जनादन्यस्य भस्त्राशब्दस्य तु परमभस्त्रका-परम भस्त्रिकेत्यत्र नित्यस्त्रीलिङ्गतया “ अभाषितपुंस्काच' इत्युत्तरसूत्रेणैव पाक्षिकमित्वं सिद्धम्। अत भस्त्रैषा' इत्यत्र भस्त्राग्रहणं तदर्थन्न भवतीत्यर्थः । ननु अनेषका, परमैषका, अद्वके परमट्टके, इत्यत्रापि पाक्षिकमेतदित्वं स्यादित्यत आह । एषा द्वेति । एषा द्वा एतयोस्तु पूर्व पदसहितयोरिदं पाक्षिकमित्वन्नेत्यर्थः । कुत इत्यत आह । अन्तर्वर्तिनीमिति । अत्राप्यसुप इत्यनुवर्तते । इह तु टाप् सुपः पर इति भावः । ननु टाबत्र सुपः परो न भवति । तथाहि एतच्छब्दस्य टेः प्राक् ‘अव्ययसर्वनान्नाम्' इति अकचि, एतकद्शब्दात् सौ “तदेोस्सस्सौ' इति तकारस्य सत्वे, “आदेशप्रत्यययोः' इति षत्वे, त्यदाद्यत्वे, पररूपे, स्त्रियामदन्तत्वात् टापि, सवर्णदीर्घे, हल्ङयादिलोपे, एषकेति रूपम् । ततः न एषकेति विग्रहे नञ्तत्पुरुषे कृते, “नलोपो नञः' इति नञो नकारस्य लोपे, “त स्मान्नुडचि' इति नुटि, अनेषकेति रूपम् । तथा परमा एषकेति कर्मधारये, परमैषकेति रूपम् । अत्र सौ परे, प्रवृत्तत्यदाद्यत्वसिद्ध मदन्तत्वमाश्रित्य प्रवृत्तष्टाप् कथं सुपः परस्यात् । नच नञ्तत्पुरुषे सोस्सामासिके लुकि सति, सत्वत्यदाद्यत्वटान्निवृत्तौ, समासात् पुनस्सौ, सत्वत्यदाद्यत्वटाप्सु कृतेषु, हल्ङयादिलोपे अनेषकेत्यत्र समासात् प्राक् प्रवृत्तात् सुपः पर एव टाबिति वाच्यम् । सामासिकलुगपेक्षया हल्डयादिलोपस्यैवान्तरङ्गत्वात् प्रवृत्तेः । ततश्च लुसेऽपि सौ प्रत्ययलक्षणसत्त्वेन निमित्तानपायात् पूर्वप्रवृत्तसत्वत्यदाद्यत्वटापां निवृत्तिर्नास्ति । सच टाप् न सुपः परः इति चेत्, अत्र बूमः । अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते' इति परिभाषया “सुपो धातुप्रातिपदिकयोः' इति सुब्लुग्विषये अन्तरङ्गोऽपि हल्ङयादिलोपो न प्रवर्तते । अतः राजकुमारीत्यादौ श्रूयमाणे एव सुपि समासः प्रवर्तते । एवञ्च गोमान् प्रियो यस्य सः गोमत्प्रियः इत्यत्र गोमच्छब्दात् सोर्लुका लुप्तत्वात् ‘उगिदचाम्’ इति नुमुपधादीर्घादिकं न इति *प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । “कृत्तद्धित' इति सूत्रे प्रौढमनोरमायां परिष्कृतमेतत् । एवञ्च नञ् सु, एतकद् सु इति स्थिते, नञ्तत्पुरुषे कृते, “अन्तरङ्गानपि' इति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेव सामासिक लुकि, अनेतकद्शब्दात् समासात्पुनस्सौ, सत्वे, त्यदाद्यत्वे, पररूपे, टापि, सवर्णदीर्घे, सोर्ह ल्डयादिलोपे, अनेषकेति भवति । अत्र सवर्णदीर्घप्रवृत्तेः प्राक्समासात्पूर्वोत्पन्नसुपः पर एव टाप् भवतीत्यास्तान्तावत् । अद्वके इति ॥ न सु, द्वकि औ, इति स्थिते, नञ्तत्पुरुषे “ अन्तरङ्गा

नपि' इति न्यायेन त्यदाद्यत्वप्रवृत्तेः प्रागेवं समासे, औडो लुकि कृते, अद्वकिशब्दात् समासा

प्रकरणम्]
३५१
बालमनोरमा

स्वशब्दग्रहणं संज्ञोपसर्जनार्थम् । इह हि * आतः स्थाने' इत्यनुवृत्तं स्वशब्द स्यातो विशेषणम्। नतु द्वैषयोरसम्भवात् नाप्यन्येषामव्यभिचारात् । स्व । तु । शब्दस्त्वनुपसर्जनमात्मीयवाची अकजर्हः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्ज


त्पुनरौङि, त्यदाद्यत्वे, पररूपे, टापि औडश्शीभावे, आद्गुणे, अद्वके इति भवति । अत्रापि समासात्पूर्वोत्पन्नादौडस्सुपः पर एव टाबिति भावः । एवं परमद्वके इत्यत्रापि । स्यादेतत् । आत्मात्मीयज्ञातिधनवाची स्वशब्दः । तत्र ज्ञातावात्मनि च पुलिङ्ग एव । आत्मीये तु विशेष्यनिन्घस्त्रिलिङ्गः । धने तु पुन्नपुंसकलिङ्गः । “स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने” इति कोशात् । यदा तु स्त्रीव्यक्तिविशेषस्य स्वशब्दस्संज्ञा तदापि स्त्रीलिङ्गः । तत्र “स्वमज्ञातिधनाख्यायाम्' इत्युक्तेः ज्ञातिधनवाचित्वे सर्वनामत्वन्नास्ति । आत्मात्मी यवाचिन एव सर्वनामता, साप्यनुपसर्जनस्यैव भवति । “संज्ञोपसर्जनीभूतास्तु न सर्वादय इत्युक्तेरिति स्थितिः । तत्रात्मीयायां वाच्यायां सर्वनामत्वात् अकचि, टापि, 'प्रत्ययस्थात् इति नित्यमित्वे, स्विकेत्येवेष्यते । तत्तु न युज्यते । “भस्त्रैषा' इत्यादिना इत्त्वविकल्पस्य दुर्वारत्वात् । नचात्र अकजकारस्य आतःस्थानिकत्वाभावान्नायमित्वविकल्प इति वाच्यम् । एषामत इद्वा स्यादिति विवरणवाक्ये आत :स्थानिकस्येत्यनुवृत्तेरित्यत आह । स्वशब्दग्रहणं संज्ञोपसर्जनार्थमिति ॥ स्वशब्दस्य संज्ञाभूतस्य सर्वनामत्वाभावादकजभावे, स्त्रियां टापि, सौ कृते, स्वार्थिककप्रत्यये, उक्तरीत्या “अन्तरङ्गानपि विधीन् बाहिरङ्गो लुक् बाधते इति परिभाषया हल्डयादिलोपं बाधित्वा प्रातिपदिकावयवत्वात् सोर्लुकि, “केऽणः' इति ह्रस्वे, कप्रत्ययान्तात् पुनष्टापि, स्वकाशब्दः । निर्गता स्वस्या इति विग्रहे 'निरादयः क्रान्ता द्यर्थे पञ्चम्या' इति समासे सुब्लुकि, “गोस्त्रियोः' इति हृस्वे, टापि, सुपि, स्वार्थिके कप्रत्यये केऽणः’ इति ह्रस्वे, पुनष्ठापि, निस्स्वकाशब्दः । एतद्वयमेव “भस्त्रैषा' इति स्वशब्दस्य उदा हरणम् । आत्मीयायान्तु स्वशब्दो न संज्ञाभूतः, नाप्युपसर्जनीभूत इति नोदाहरणमित्यर्थः । कुत इत्यत आह । इह हीति ॥ इह 'भस्त्रैषा' इति सूत्रे 'उदीचाम्' इति पूर्वसूत्रात् आत:स्थाने इत्यनुवृत्तम्, तच्च स्वशब्दस्यैव अतो विशेषणम् । एवञ्च स्वशब्दस्य आत स्थानिकस्य अत इद्वा स्यादिति लभ्यते । एतद्विशेषविवक्षयैव एषामत इद्वा स्यादिति विव रणवाक्ये आतःस्थाने इत्यस्यानुवृत्तिर्न प्रदर्शितेति भावः । नतु द्वैषयोरिति ॥ द्वा एषा इत्येतयोस्तु विषये आतःस्थान इति न सम्बध्द्यत इत्यर्थः । कुत इत्यत आह । असम्भवा दिति ॥ एषा द्वेति सर्वाद्यन्तर्गणत्यदादित्वप्रयुक्तसत्वात्वनिर्देशेन सर्वनामत्वावश्यकत्वादकच्च् । तदकारस्य आत:स्थानिकत्वस्याप्रसक्त्तेरित्यर्थः । नाप्यन्येषामिति ॥ भस्राजाज्ञाशब्दानामपि आतःस्थान इति विशेषणे नेत्यर्थः । कुत इत्यत आह । अव्यभिचारादिति ॥ भस्राजा ज्ञाशब्दानां सर्वनामत्वाभावनाकजनर्हतया कप्रत्ययान्ततया तेषु “केऽणः’ इति हूस्वसम्पन्नस्य अतः आत:स्थानिकत्वनियमेन तद्विशेषणवैयर्थ्यादित्यर्थः । ननु आत:स्थाने इत्यनुवृत्तम्, स्वशब्दस्य अतो विशेषणमस्तु, तावता आत्मीयायां स्विका इत्यत्र इत्तत्त्वविकल्पशङ्कायाः किमायातमित्यत

आह । स्वशब्दस्त्विति ॥ अनुपसर्जनात्मीयवाची स्वशब्दस्तु सर्वनामत्वादकजर्हः ।

३५२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

नीभूतस्तु कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां स्विका । परम स्विकेति नित्यमेवेत्त्वम् । निर्भस्त्रका-निर्भस्त्रिका एषका-एषिका । कृत षत्वनिर्देशान्नेह विकल्पः एतिके-एतिकाः।अजका-अजिका । ज्ञकाः ज्ञिका । द्वके-द्विके । नि:स्वका-नि:स्विका


अतस्तदकारस्य आतःस्थानिकत्वाभावान्न प्रकृतसूत्रेणेत्त्वविकल्पशङ्का, किन्तु 'प्रत्ययस्थात् इति नित्यमेव इत्वमित्यर्थः। ननु स्वशब्दस्य आत्मात्मीयज्ञातिधनवाचिनः आत्मीयाया मुदाहरणत्वाभावेऽपि आत्मज्ञातिधनवाचिनस्तस्य उदाहरणत्वसम्भचात् स्वशब्दग्रहणं संज्ञो पसर्जनार्थमित्यनुपपन्नमित्यत अाह अर्थान्तरे तु न स्त्री इति आत्मज्ञाति धनेषु स्वशब्दो न स्त्रीलिङ्ग। उदाहृतकोशरीत्या आत्मज्ञातिवा चिनस्वशब्दस्य नित्यपुलिङ्ग त्वात् धनवाचिनस्तस्य पुन्नपुंसकलिङ्गत्वाचेत्यर्थः। तथाच टापि परे इत्त्वस्याभावान्नोदाहर णत्वप्रसक्त्तिः ।प्रत्ययस्थातू' इत्यतः आबित्यनुवृत्तेरिति भावः। इदमुपलक्षणम् । आत्मनि वाच्ये स्वशब्दस्य सर्वनामत्वेन अकजर्हतया तदकारस्य आत्स्थानिकत्वाभावाच्चेत्यपि द्रष्टव्यम् ननु संज्ञोपसर्जनीभूतस्यापि स्वशब्दस्य कथमुदाहरणत्वं, तस्याप्यकचि तदकारस्य आत्स्थानि कत्वाभावादित्यत आह।सज्ञोपसर्जनीभूतस्त्विति ॥संज्ञोपसर्जनीभूतस्य स्वशब्दस्य असर्वनामतया अकजनर्हत्वेन स्वाशब्दात् सुबन्तात् स्वार्थिके कप्रत्यये, सुब्लुकि, पुनष्टापि केऽणः’ इति हूस्वापन्नस्य अतः आत्स्थानिकतया भवत्युदाहरणत्वमित्यर्थः । नचान्तर्वर्तिसुप परष्टाबिति शङ्कयम्, केन व्यवधानादिति भावः। तदेवं “भस्त्रैषा' इत्यत्र आतः स्थाने इत्यनुवृत्तस्य स्वशब्देऽन्वयलाभात् स्वशब्दावयवस्य आत्स्थानिकस्य अत इद्धा स्यादिति लब्धम्, तस्य प्रयोजनमाह । एवञ्चेति॥ उक्तरीत्या स्वशब्दे आत्स्थानिकस्यैव अत इत्त्वविकल्पलाभादात्मीयायां स्वशब्दस्य सर्वनामत्वादकचि, तदकारस्य आत्स्थानिकत्वाभावा दित्वविकल्पाप्रवृत्तौ, “प्रत्ययस्थात्' इति नित्यमेवेत्त्वमित्यर्थः। तदेवं प्रत्युदाहरणान्युका उदा हरणान्याह । निर्भस्रकेत्यादि । भस्राया निष्क्रान्तेति विग्रहे 'निरादयः कान्ताद्यर्थे' इति समासे गोस्त्रियोः' इति हृस्वत्वे, पुनष्टापि, समासात् सौ, कप्रत्यये केऽणः' इति हृस्वे निर्भस्रकशब्दात् पुनष्टापि, सवर्णदीर्घ, निर्भस्रकाशब्द तत्र 'प्रत्ययस्थात्' इति नित्यमित्वे प्राप्त अनेन इत्वविकल्पे निर्भस्त्रिका निर्भस्रकेति रूपद्वयम् । केन व्यवधानान्न सुपः परष्टाबिति भावः । एषका। एषिकेति ॥ अकचि एतकद्शब्दात् सुः । ‘तदोस्सस्सौ' इति सत्वम्, षत्वम्, त्यदाद्यत्वम् पररूपम् टाप् प्रत्ययस्थात्' इति नित्यमित्वं बाधित्वा इत्त्वविकल्प इति भावः । ननु अकवि एतकद्शब्दात् स्त्रियामौजसादिषु एतिके एतिकाः इत्यादौ नित्यमित्त्व ध्यते । तद्वाधित्वा अनेन इत्त्वविकल्पस्यादित्यत आह । कृतषत्वेति ॥ ‘भस्त्रैतज्ज्ञास्वा' इति वक्तव्ये एषेति कृतषत्वनिर्देशात् औजसादिषु षत्वाभावान्नेत्वविकल्प इत्यर्थः । अजका-अजिकेति ॥ अजाशब्दात् कः, ह्रस्वः, पुनष्टाप्, सवर्णदीर्घः, इत्त्वविकल्पः । ज्ञका-ज्ञिकेति ज्ञाधातोः ‘इगुपधज्ञाप्रीकिरः कः’ इति कः ‘आतो लोप इटि च' इत्याल्लोपः । स्त्रियामदन्तत्वाट्टाप्

सवर्णदीर्घ ज्ञाशब्दातू सुबन्तात् कः, सुब्लुक्, “केऽणः' इति ह्रस्वः, पुनष्टाप्, सवर्णदीर्घ

प्रकरणम्]
३५३
बालमनोरमा ।

४६७ । अभाषितपुंस्काच्च । (७-३-४८)

एतस्माद्विहितस्य आत: स्थाने अत इद्वा स्यात् । गङ्गका-गङ्गिका । बहुव्रीहेर्भाषितपुंस्कत्वात्ततो विहितस्य नित्यम् । अज्ञाता खट्टा अखट्टिका । शैषिके कपि तु विकल्प एव ।

४६८ । आदाचार्याणाम् । (७-३-४९)

पूर्वेसूत्रविषये आद्वा स्यात् । गङ्गाका । उक्तपुंस्कात्तु शुभ्रिका ।

४६९ । अनुपसर्जनात् । (४-१-१४)


इंत्त्वविकल्पः इति भावः । द्वके-द्विके इति ॥ अकचि द्वकिशब्दात् स्त्रियामौङि, त्यदाद्यत्वम् पररूपम्, टाप्, इत्वविकल्पः, औडश्शी, आद्गुणः । निःस्वका-निःस्विकेति ॥ स्वस्या निष्कान्तेति विग्रह * निरादयः’ इति समास उपसर्जनहूस्वः, टाप्, सुपि कः, सुब्लुक् कप्रत्ययान्तात् पुनष्टापि सवर्णदीर्घः, इत्त्वविकल्प इति भाव अभाषितपुंस्काञ्च उद चामातस्थाने' इत्यनुवर्तते, अत इदिति च अभाषितः पुमान् येनेति विग्रहः । विहितस्ये त्यध्द्याहार्यम् । तदाह । एतस्मादिति ॥ अभाषितपुंस्कादित्यर्थः । अयकपूर्वार्थ वचनम्। गङ्गका गङ्गिकेति ।। गङ्गाशब्दात् कः। * केऽणः' इति ह्रस्वः, इत्त्वविक।ल्पः । विहितविशे षणस्य फलमाह । बहुव्रीहेरिति अविद्यमाना खट्वा यस्या इति विग्रहे 'नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहौ कृते, विद्यमानपदलोपे नो नलोपे 'शेषाद्विभाषा इति कबभावपक्षे, गोस्त्रियोः' इति हृस्वे अखट्वशब्दात् टापि, सुपि, अज्ञातादौ के, सुब्लुकि केऽणः’ इति हूस्वे, पुनष्टापि अभाषितपुंस्काद्विहितस्य आतस्थाने अतः अभावान्नेत्वाविकल्प किंतु 'प्रत्ययस्थात्' इति नित्यमित्वमित्यर्थः । अभाषितपुंस्कात् परस्येति व्याख्याने तु तादृशखट्व शब्दात् परस्य आतस्थाने अतस्सत्त्वादित्वविकल्पस्यादिति भावः । शैषिके कपि त्विति न स् खट्वा सू इत्यवस्थायां कपि, सुब्लुक्। प्रत्ययलक्षणेन भागद्वयस्य सुबन्तत्वात् ‘नञोऽस्त्यर्था नाम्' इति बहुव्रीहिसमासः । समासान्तः इत्यन्वर्थसंज्ञाबलात् कबन्तस्यैव समासत्वम् । ततश्च अखट्वाकशब्दे अखट्वा इत्यंशस्य उपसर्जनस्त्रीप्रत्ययान्तसमासरूपप्राति पदिकत्वाभावात् ‘गोस्त्रियो इति हूस्वो न भवति । नापि “केऽणः’ इति स्व न कपि' इति निषेधात् । किन्तु आपोऽन्यतरस्याम्' इति हूस्वविकल्पः । तत्र खट्वाशब्दात् विहितस्य कपः प्राग्वर्तिनः टापः अभाषितपुंस्काद्विहितत्वेन तत्स्थानिकह्रस्वाकारस्य अयम् इत्त्वविकल्पो भवत्येवेत्यर्थः।आपोड न्यतरस्याम्' इति हूस्वाभावपक्षे तु अखट्वाकेत्येव बोध्द्यम् । आदाचार्याणाम् ॥ पूर्वसूत्र विषय इत अभाषितपुंस्काद्विहितस्यातस्थाने अत इत्यर्थः । शुभ्रिकेति ॥ शुभ्रशब्दो विशेष्यनिघ्नः अनियतलिङ्गः, ततः स्त्रियां टापि, शुभ्राशब्दात् कः “केऽणः’ इति ह्रस्व पुनष्टाप् । अत्र कात्पूर्ववर्तिनष्टापः अभाषितपुंस्काद्विहितत्वाभावात् तत्स्थानिकस्यातो नेत्त्व

विकल्पः । किन्तु 'प्रत्ययस्थात्' इति नित्यमित्वमित्यर्थः। अनुपसर्जनादित्यधिकारस्य

३५४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

अधिकारोऽयम् । 'यूनस्ति:’ (सू ५३१) इत्यभिव्याप्य । अयमेव स्त्री प्रत्ययेषु तदन्तविधिं ज्ञापयति ।

४७० । टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः ।(४-१-१५)

अनुपसर्जनं यट्टिदादि तदन्तं यददन्तं प्रातिपदिकं ततः स्त्रियां ङीप् स्यात् । कुरुचरी । नदट्-नदी। उपसर्जनत्वान्नेह । बहुकुरुचरा । वक्ष्यमाणेत्यत्र


उत्तरावधिमाह । यूनस्तिरित्यभिव्याप्येति ॥ 'यूनस्तिः' इत्यत्राप्ययमधिकार , नतु तत प्रागित्यर्थः । अत्र च व्याख्यानमेव शरणम् । अत्र यद्वक्तव्यन्तत् ‘यूनस्ति:’ इत्यत्र वक्ष्यते । ननु बहवः कुरुचराः यस्यां सा बहुकुरुचरा, नदमतिक्रान्ता अतिनदा, इत्यादिषु उपसर्जनेषु कुरुचर नदादिशब्देभ्यः 'टिड्ढाणञ्' इत्यादिना विधीयमानानां डीबादिप्रत्यानां प्रसक्तिरेव नास्ति । समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । तस्मादनुपसर्जनाधिकारो व्यर्थ इत्यत आह । अय मेवेति । अनुपसर्जनादित्यधिकार एवायं स्त्रीप्रत्ययेषु तदन्तविधिं ज्ञापयतीत्यर्थः । एतच्च भाष्ये स्पष्टम् । तत्फलन्तु “वनो र च' इत्यत्र वन्नन्तान्तलाभ इत्यादि ज्ञेयम् । ननु स्त्रीप्रत्ययेषु तदन्तविच्द्यभावेऽपि नद इवाचरति नदा स्त्री इत्यादिषु आचारक्विबन्तप्रकृतिककर्तृक्विबिन्तेषु ढीवादिनिवृत्तये अनुपसर्जनाधिकारस्यावश्यकत्वात् कथन्तस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञाप कतेति चेन्न । अनुपसर्जनाधिकारस्य स्त्रीप्रत्ययविधिषु तदन्तविधिज्ञापनार्थत्वपरभाष्यप्रामाण्येन स्त्रियामाचारक्विबन्तप्रकृतिककर्तृक्विबन्तानामनभिधानोन्नयनादित्यलम् । टिड्ढाणञ् ॥ टित् ढ अण अञ् द्वयसच् दघ्रच् मात्रच् तयप् ठक् ठञ् कञ्, क्नरप्, एषा द्वा दशानां समाहारद्वन्द्वात् पञ्चम्येकवचनम् । ढादयः एकादश प्रत्ययाः । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । टित्तु प्रत्ययः अप्रत्ययश्च । टिदादिभिश्च प्रातिपदिकादित्यधिकृतं विशेष्यते, विशेषणत्वात् तदन्तविधिः । ततश्च टेिदन्तात् ढाणादिप्रत्ययान्ताञ्च प्रातिपदिकादिति लभ्यते । “अजाद्यतष्टाप्’ इत्यस्मादतः इत्यनुवृत्तम्, तेनापि प्रातिपदिकं विशेष्यते । तदन्त विधिः, “अनुपसर्जनात्' इत्येतत् श्रुतेषु टिदादिष्वेवान्वेति, नतु तदन्तेषु । स्त्रियामित्यधि कृतम् । तदाह । अनुपसर्जनं यट्टिदादीत्यादिना । तदन्तमिति ॥ टिदन्तं ढादि प्रत्ययान्तान्तच्चेत्यर्थः । टित त्रिविधः । प्रत्ययः, । प्रातिपदिकम्., धातुश्च । तत्राद्यमुदाहरति कुरुचरीति ॥ कुरुषु चरतीति अधिकरणे उपपदे 'चरेष्टः' इति कर्तरि टः । टकार इत्, उपपदसमासः । नच प्रत्ययस्यैवात्र टित्वात् प्रत्ययग्रहणपरिभाषया चरेत्येव टिदन्तम् , नतु कुरुचरशब्दः, तदादिनियमादिति वाच्यम् । नदट् देवट् इत्यादेरप्रत्ययस्यापि टितस्सत्त्वेन तत्र प्रत्ययग्रहणपरिभाषायाः अप्रवृत्तौ ‘येन विधिः' इति टिदन्तत्वस्य कुरुचरशब्दे सत्त्वात् । अथ द्वितीयं टितमुदाहरति । नदडिति ॥ पञ्चादिगणे पठितं प्रातिपदिकमेतत् । तृतीयन्तु कृदन्ते स्तनन्धयीत्युदाहरिष्यते । अनुपसर्जनत्वविशेषणस्य प्रयोजनमाह । उपसर्जनत्वा न्नेहेति ॥ बहुकुरुचरेति ॥ बहव: कुरुचराः यस्यामिति विग्रहः । बहुव्रीहिरयमन्यपदार्थ

प्रधानः । ततश्च टितः टप्रत्ययस्य उपसर्जनत्वान्न ङीप्। अनुपसर्जनत्वस्य प्रातिपदिकविशेषणत्वे

प्रकरणम्]
३५५
बालमनोरमा ।

टित्वादुगित्वाच्च ङीप्प्राप्तः । यासुटो ङिन्त्वेन 'लाश्रयमनुबन्धकार्य नादे शानाम्' (प ७०) इति ज्ञापनान्न भवति । श्नः शानचः शित्त्वेन क्वचिदनु


तु ङीबत्र दुर्वारः । अत एव च आपिशलिना प्रोक्तमधीते आपिशला ब्राह्मणीत्यत्रापि न ङीप् । तत्र हि आपिशलेिना प्रोक्तमित्यर्थे 'तेन प्रोक्तम्' इत्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे 'तदधीते तद्वेद’ इत्यणि 'प्रोक्ताल्लुक्’ इति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनुपसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात् स्त्रियां वर्त मानत्वाच्च अणन्तत्वनिबन्धनो ङीप् दुर्वारस्यात् । तस्य च श्रुतटिदाद्यन्वये तु प्रोक्ताणः उपसर्जनत्वान्न दोषः । अध्द्यत्रण तु लुप्तः । अणो योऽकारः इति व्याख्यानेन वर्णाश्रयतया प्रत्ययलक्षणाभावात् । नच 'स्त्रियाम्' इत्यस्य श्रुतटिदादिविशेषणत्वात् प्रोक्ताणश्च स्त्रि यामवर्तनादेव न ङीपः प्रसक्तिरिति वाच्यम् । ज्ञापिते तदन्ताविधौ प्राधान्यात् “स्त्रियाम् इत्यस्य डीप्प्रकृतिविशेणताया एव उचितत्वात् । अन्यथा अनुपसर्जनाधिकारवैयर्थ्याच्च अत एव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम् । स्यादेतत् । 'वच परिभाषणे' । अस्मात् कर्मणि लट् “लटस्सद्वा' इति तस्य शानजादेशः “स्यतासी लृलुटोः' इति स्य कुत्वषत्वे, आने मुक्, णत्वम्, टाप्, वक्ष्यमाणेति रूपम् । अत्र लृडादेशस्य स्थानिवत्त्वेन टित्वादुगित्त्वाच टिड्ढाणञ्' इति 'उगितश्च' इति च ङीप् प्राप्रोति । नच स्थानिनो लृटष्टकारस्य ऋकारस्य च इत्त्वाश्रयणात् ङीब्विधेरल्विधित्वादनल्विधाविति निषेधः शङ्कयः । “घुमास्थागापाजहातिसां हलि' इति किङिति विहितस्य ईत्त्वस्य “न ल्यपि ' इति निषेधेन लिङ्गेन अनुबन्धकार्ये अनल्विधाविति निषेधाभावज्ञापनात् । अनुबन्धकार्येऽप्यनाल्विधाविति निषेधप्रवृत्तौ हि खादेशस्य ल्यपः कित्त्वाप्रसक्तस्तस्मिन् परतः ईत्त्वस्याप्रसक्त्या तन्निषेधवैयर्थ्यं स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्त्वेन शानचष्टित्वादुगित्त्वाच्च ङीप् दुर्वार इत्याशङ्कय परि हरति । वक्ष्यमाणेत्यादिना। वक्ष्यमाणेत्यत्र टित्त्वादुगित्वाच्च ङीप् प्राप्तो न भवतीत्यन्वयः । कुतो नेत्यत आह । यासुट इत्यादि ज्ञापनादित्यन्तम् ॥ *यासुट् परस्मैपदेषूदात्तेो ङिच्च इति लिङादेशानां तिप्, तस्, झि, इत्यादिपरस्मैपदानां यासुडागमस्य ङित्वं विहितम् । “यदा गमाः' इति न्यायेन यासुडागमो लिङादेशावयवः । ततश्च स्थानिवत्वेनैव ङित्वसिद्धेर्यासुट स्तद्विधिवैयर्थ्यं स्यात् । अतः 'लाश्रयमनुबन्धकार्यमादेशानान्न' इति विज्ञायते । ततश्च वक्ष्य माणेत्यत्र लृडादेशस्य शानचः टिदुगित्कार्ये ङीपि कर्तव्ये स्थानिवत्त्वाभावान्न ङीबित्यर्थः । ननु 'लाश्रयमनुबन्धकार्यमादेशानान्न' इति ज्ञापनेऽपि बूतादित्यत्र 'बुव ईट्' इति पिति तिपि परतो विधीयमान ईडागमो दुर्वारः । तस्य तिबाश्रयत्वेऽपि लाश्रयत्वाभावेन तस्मिन् कर्तव्ये तातङः स्थानिवत्त्वेन पित्त्वस्य निर्बाधत्वादित्यस्वरसादाह । श्र्नः शानचः इति ॥ श्र्ना इत्यस्मात् षष्ठयेकवचने आल्लोपे श्र्न इति रूपम् । “ धातोः' इत्यत्र आत इति योगविभा

गमाश्रित्य अधातोरपि कृचिदाल्लोपाभ्युपगमात् । 'हलश्श्शानज्झौ' इति श्र्वनाप्रत्ययस्य शान

जादेशो विधीयते । तत्र स्थानिवत्वेनैव सिद्धत्वात् शानचाशित्त्वं व्यर्थम् । नचानल्विधाविति

३५६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

बन्धकार्येऽप्यनाल्विधाविति निषेधज्ञापनाद्वा । सौपर्णेयी । ऐन्द्री । औत्सी । ऊरुद्वयसी-ऊरुद्दनी-ऊरुमात्री । पञ्चतयी । आक्षिकी । लावणिकी । याद्यः शी । इत्वरी । “ताच्छीलिके णेऽपि ' (प ६८) । चौरी । * नञ्स्रञ्जीकक्ख्र्युं


निषेधश्शङ्कयः । “न ल्यपि' इति लिङ्गेन अनुबन्धकार्ये अनात्विधाविति निषेधाभावस्यानुपद मेवोक्तत्वात् । एवञ्च क्वचिदनुबन्धकार्येऽपि अनल्विधाविति निषेधप्रवृत्तिर्विज्ञायते । तथाच वक्ष्यमाणेत्यत्र टिदुगित्कार्ये : अनल्विधौ ' इति निषेधप्रवृत्त्या स्थानिवत्त्वाभावेन टित्त्त्वोगित्व योरभावात् न ङीबित्यर्थः । वस्तुतस्तु “लाश्रयमनुबन्धकार्यन्नादेशानाम्' इत्यत्र यासुटो ङीत्त्वं न ज्ञापकम् । तस्य तिप्सिब्मिबर्थत्वात् । नहि लिङादेशत्वेऽपि तिपसिब्मिपां डित्वं स्थानिवत्त्व लभ्यम् । ‘हलः श्रश्शानज्झौ' इति सूत्रे भाष्ये ‘ङीच पिन्न, पिञ्च ङीन्न' इति प्रपञ्चितत्वात् । तथा श्रश्शानचश्शित्वमपि न लिङ्गम् । तत्र शित्वस्य भाष्ये प्रत्याख्यातत्वात् । प्रत्युत शित्त्वस्य ज्ञापकत्वे “सेर्ह्यपिच्च' इति हेरपित्वस्य तातङो ङीत्वस्य च वैयर्थ्यमिति भाष्ये दूषणाभि धानाच्च । तस्मात् वक्ष्यमाणेत्यत्र ङीबेव युक्तः, टाप् त्वसाधुरेव । अजादित्वाट्टाबिति वा कथ श्चित् समाधेयभित्यास्तान्तावत् । सौपर्णेयीति ॥ सुपण्याः अपत्यं स्त्री इत्यर्थे “स्त्रीभ्यो ढक्' इति ढकि “ आयनेय्' इत्येयादेशः । 'यस्येति च' इतीकारलोपः, 'किति च' इत्यादि वृद्धिः । सौपर्णेयशब्दात् ङीप्, “यस्येति च' इत्यकारलोपः, सौपर्णेयीति रूपम् । नच 'नि रनुवन्धकग्रहणे न सानुबन्धकस्य' इति परिभाषया “ शिलाया ढ:', 'ढश्छन्दसि' इत्यनयोरेव ग्रहणमिति वाच्यम् । तयोः स्त्रियामप्रवृत्तरगत्या सानुबन्धकस्य ढस्य ग्रहणादिति भाष्ये स्पष्टम् । ऐन्द्रीति ॥ इन्द्रो देवता अस्या आमिक्षाया इति विग्रहः, “सास्य देवता इत्यणि, “यस्येति च' इत्यकारलोपः, आदिवृद्धिः, ऐन्द्रशब्दात् ङीप्, “यस्येति च' इत्य कारलोपः । इन्द्रस्येयमिति वा विग्रहः, *तस्येदम्' इत्यण् । औत्सीति ॥ “उत्सः प्रस्रवणं वारि” इत्यमरः । ऋषिविशेषो वा उत्सः । उत्सस्येयमिति विग्रहः । “उत्सादिभ्योऽञ् यस्यति च' ङीप् । उत्सस्यापत्यं स्त्री औत्सी इति तु नोदाहरणम् । जातेरित्यनुवृत्तौ ‘शार्ङ्गं रवाद्यञ्जो डीन्' इत्येव सिद्धेः । “गोत्रञ्च चरणैस्सह” इत्यपत्यप्रत्ययान्तस्य जातित्वादि त्यलम् । ऊरुडयसी-ऊरुदी-उरुमात्रीति ॥ ऊरू प्रमाणमस्या इति विग्रहः । प्रमाणे द्वयसच्दघ्नञ्मात्रचः’ ङीप् । पञ्चतयीति ॥ पञ्च अवयवा यस्या इति विग्रहः । सङ्खयाया अवयवे तयपु' ङीप् । आक्षिकीति ॥ अक्षैदीव्यतीति विग्रहः । 'तेन दीव्यति खनति जयति जितम्' इति ठक्, आदिवृद्धिः, 'ठस्येकः’, ‘यस्येति च' इत्यकारलोपः। आक्षिकशब्दात् ङीप्, “यस्येति च ' । लावणिवकीति ॥ लवणं पण्यमस्या इति विग्रहः । लवणाद्वञ्', 'ठस्येकः' आदिवृद्धिः, 'यस्येति च ’, लावणिकशब्दात् ङीप्, “यस्येति च ठेत्येव सिद्धे ठक्ठञोः पृथग्ग्रहणन्तु ठनो ञिठस्य च व्यावृत्त्यर्थम् । दण्डोऽस्त्यस्याः दण्डिका । अत इनिठनौ' काश्यां भवा काशिका 'काझ्यादिभ्यष्ठञ्ञिठौ' इति ञिठः । यादृशीति । त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, “आ सर्वनाम्नः' इति यच्छब्दस्याकारः

ङीप्, “यस्येति च ' । इत्वरीति ॥ 'इण् गतौ' 'इण्नशिजिसर्तिभ्यः क्वरप्' 'हृस्वस्य

प्रकरणम्]
३५५
बालमनोरमा ।

स्तरुणतलुनानामुपसङ्ख-यानम्’ (वा २४२५) । स्त्रैणी । पौंस्री । शाक्तीकी । आढ्यङ्करणी । तरुणी-तलुनी ।

४७१ । यञ्श्च । (४-१-१६)

यञन्तात्स्रियां ङीप्स्यात् । अकारलोपे कृते ।


पिति कृति' इति तुक्, इत्वरशब्दात् ङीप्, 'यस्येति चव ', 'स्थेशभास' इति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् । “विन्यस्तमङ्गळमहौषधिरीश्वरायाः” इति भारविः । “सैन मीश्वराप्रदह” इति वेदे क्वरपि, अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेः अनुबन्धद्वयो पादानं स्पष्टार्थम् । ईश्वरी इति तु ईश्वरशब्दात् ईश्वरस्य स्त्रीति पुंयोगे ङीष् । अथवा अश्र्नोतेराशुकर्मणि वरट् च' इति वरडन्तात् टित्वात् ङीप् । यद्वा “आतो मनिन्क्वनि ध्वनिपश्च' * अन्येभ्योऽपि दृश्यते' इति क्वनिपि वनिपि च * वनो र च' इति ङीब्रौ । ताच्छीलिके णेऽपीति ॥ तच्छीले भवस्ताच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् णप्रत्यये सति तदन्तादपि ङीप् भवतीत्यर्थः । ज्ञापकसिद्धमेतत् । तथाहि । शील मित्यनुवृत्तौ ‘छत्रादिभ्यो णः' इति विहिते णप्रत्यये अण्कार्यं भवति । “कार्मस्ताच्छील्ये इति ज्ञापकात् । कर्म शीलमस्येति विग्रहे छत्रादित्वात् णप्रत्यये “नस्तद्धिते' इति टिलोपे कार्म इति भवति । नतु “अन्’ इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र आणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात् ताच्छीलिके णप्रत्यये अण्कार्य विज्ञायते । अतस्ताच्छीलिकणप्रत्ययान्तादण्कार्यं ङीप् भवतीति भावः । चौरीति ॥ चुरा शीलमस्या इति विग्रहः । छत्रादित्वात् णः, आदिवृद्धिः, 'यस्येति च चौरशब्दात् ङीपि, 'यस्येति च' । नञ्स्नञ् ॥ नञ्, स्रञ्, ईकक्, ख्युन्, तरुण, तलुन एतेषामपि ङीविधौ वचनं कर्तव्यमित्यर्थः । नञ्जादयश्चत्वारः प्रत्ययाः । अतस्तदन्तविधिः । स्त्रैणी, पौस्नीति ॥ * स्त्रीपुंसाभ्याम्' इति नञ्स्रञौ। तत्र स्त्रीशब्दान्नजि, आदिवृद्धिः, णत्वम्, ङीप्, “यस्येति च' पुंस्शब्दात् स्नञि आदिवृद्धिः, ङीप् , 'यस्येतिच'। शाक्तीकी ति ॥ शक्तिः आयुधविशेषः प्रहरणम् अस्या इति विग्रह । ‘शक्तियष्ठयोरीकक्', आदि वृद्धिः, ङीप्, यस्येति च । आाढ्यङ्करणीति ॥ अनाढ्यः आढ्यः क्रियते अनयेति विग्रहः । आढ्यसुभग' इत्यादिना ख्युन् । ‘युवोः' इत्यनादेशः । 'अरुर्द्विषित्' इति मुम् । णत्वं ङीप्, ‘यस्येति च' । तरुणी-तलुनीति ॥ यद्यप्यनयोः 'वयसि प्रथमे' इत्येव ङीप् सिद्ध तथापि गौरादिषु पाठातू ङीषि प्राप्त इदं वचनम् । गौरादिपाठात् हीषि स्वरे विशेष इति भावः । यञश्च ॥ यञ इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो ङीबित्यनुवर्तते । स्त्रियामित्यधिकृतम् । तदाह । यञन्तादिति ॥ यद्यपि ‘टिड्ढाणञ्' इति पूर्वसूत्र एव यञ्ग्रहणं कर्तुमुचितम् । तथापि ‘प्राचां ष्फ तद्धितः' इत्युत्तरसूत्रे, यञ एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति ॥ गार्गीत्युदाहरणं वक्ष्यति । गर्गस्यापत्यं स्त्री

इत्यर्थे ‘गर्गादिभ्यो यञ्' इति यञ्, आदिवृद्धिः, 'यस्येति च' इति गकारादकारस्य लोपः

३५८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४७२ । हलस्ताद्वितस्य । (६-४-१५०)

हलः परस्य तद्धितयंकारस्योपधाभूतस्य लोपः स्यादीति परे । गार्गी । अनपत्याधिकारस्थान्न ङीप्’ (वा २४२६) । द्वीपे भवा द्वैप्या । अधिकार ग्रहणान्नेह । देवस्यापत्यं दैव्या । “ देवाद्यञञौ' इति हि यञ्प्राग्दीव्यतीयः, न त्वपत्याधिकारपठितः ।

४७३ । प्राचां ष्फ तद्वितः । (४-१-१७)

यञन्तात्प्फो वा स्यात्स्त्रियाम्, स च तद्धितः ।

४७४ । षः प्रत्ययस्य । (१-३-६)


गार्ग्यशब्दात् ङीपि “हलस्तद्धितस्य, इति यकारलोपात् परत्वात् “यस्येति च' इति यकारा दकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः । हलस्तद्धितस्य ॥ हल इति दिग्योगे पञ्चमी । परस्येत्यध्द्याहार्यम् । “यस्येति च ’ इति सूत्रात् ईतीत्यनुवर्तते सूर्यतिघ्यागस्त्य इत्यतः उपधाया इति, य इति षष्ठयन्तं च, “ढे लोपोऽकद्राः' इत्यत: लोप इति च । तदाह । हलः परस्येत्यादिना ॥ अकारलोपात् प्रागेव यकारलोपो न सम्भवति । अकारे सति यकारस्य ईकारपरकत्वाभावात् । ननु कृते अकारलोपे कथं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्कयम् । यलोपविधौ तन्निषेधादिति चेन्न । यलोपे कर्तव्ये अल्लोपस्या भीयत्वेनासिद्धतया यकारस्य उपधात्वसम्भवात् । उपधाग्रहणाननुवृत्तौ तु अल्लोपस्यासिद्धत्वा द्यकारस्य ईकारपरकत्वाभावात् लोपो न स्यात् । यदा तु सूत्रारम्भसामर्थ्यादेवाकारव्यवधानेऽपि यकारस्य लोपस्सम्भवतीत्युच्यते, तदा उपधाग्रहणानुवृत्तिर्मास्तु । गार्गीति ॥ इह “गोत्रञ्च चरणैस्सह” इति जातित्वेऽपि ‘जातेतरस्त्रीविषयात्' इति न ङीष् । योपधत्वात् । अनपत्या धिकारेति ॥ 'तस्यापत्यम्' इत्यपत्याधिकारविहितभिन्नयञन्तान्न ङीबिति वक्तव्यमित्यर्थः । द्वैप्येति ॥ द्वीपे भवेति विग्रहे 'द्वीपादनुसमुद्रं यञ्' इति यञ् । आदिवृद्धिः । 'यस्येति च' टापि सवर्णदीर्घः । अस्य यञः अपत्याधिकारविहितत्वाभावान्न ङीबिति भावः । नन्वनपत्यान्न ङीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासात् अधिकारग्रहणं किमर्थमित्यत आह । अधिवकार ग्रहणादिति ॥ इह नेति शेषः । देवस्यापत्यमिति विग्रहे “देवाद्यञञौ' इति यञ्, आदिवृद्धिः यस्येति च' दैव्यशब्दात् टाप्, सवर्णदीर्घः,दैव्येति रूपम् । अनपत्यान्न ङीबित्युक्त्तेः अस्य यञः आपत्यत्वात् ङीनिषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधस्यादेव । अस्य यञः आपत्यत्वेऽपि “तस्यापत्यम्' इत्यधिकारबहिर्भूतत्वात् । तदेतदुपपादयति । देवादिति ॥ देवाद्यञञौ ' इति तु 'तस्यापत्यम्' इत्यधिकारात् प्रागेव “प्राग्दीव्यतोऽण्' इत्यधिकारपठित सचापत्यादिविकारान्तार्थेषु साधारणत्वात् अपत्यार्थकोऽपि भवति । न त्वपत्याधिकारपठित इत्यर्थः । यद्यपि “यञश्च' इति सूत्रे ‘आपत्यग्रहणं कर्तव्यम्’ इत्येव भाष्ये दृश्यते । तथापि तत्र

आपत्यपदम् अपत्याधिकारविहितपरामिति मनोरमायां शब्दरत्रे च प्रपञ्चितम् । प्राचां ष्फ

प्रकरणम्]
३५९
बालमनोरमा ।

प्रत्ययस्यादः षः इत्स्यात् ।

४७५ । आयनेयीनीयियः फढखछघां प्रत्ययादीनाम् । (७-१-२)

प्रत्ययादिभूतानां फादीनां क्रमादायन्नाद्य आदेशाः स्युः । तद्धितान्त त्वात्प्रातिपदिकत्वम् । षित्वसामर्थ्यात्ष्फेणोत्तेऽ स्त्रीत्वे “षिद्गौरा ४९८) इति वक्ष्यमाणो ङीष् । गार्ग्यायणी ।

४७६ । सर्वत्र लोहितादिकतन्तेभ्यः । (४-१-१८)

लोहितादिभ्यः कतशब्दान्तेभ्यो यञन्तेभ्यो नित्यं ष्फः स्यात् । लौहि त्यायनी । कात्यायनी ।


तद्वितः ॥ यञ इत्यनुवर्तते, स्त्रियामित्यधिकृतम् । ष्फेति लुप्तप्रथमाकम् । तदाह । यञ न्तादिति । षः प्रत्ययस्य ॥ “ आदिर्ञटुडवः' इत्यतः आदिरित्यनुवर्तते । “ उपदेशेऽज नुनासिक इत्' इत्यतः इदिति च । तदाह । प्रत्ययस्यादिरिति ॥ षकारस्य इत्संज्ञायां तस्य लोपः । आयनेयीनीयियः ॥ आयन्, एय्, ईन्, ईय्, इय्, एषां द्वन्द्वात् प्रथमा बहुवचनम् । फ, ढ, ख, छ, घ, एषां द्वन्द्वात् षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासङ्खयपरिभाषया क्रमेणान्बयः । तदाह । प्रत्ययादिभूतानामित्यादिना ॥ आयनो नस्य इत्वे नित्स्वरोपयोगेऽपि नेत्त्वम् । फिनो नित्करणात् ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एयादिषु च यस्य नेत्त्वम् । प्रयोजनाभावात् । ननु ष्फस्य तद्धितसंज्ञा किमर्थे त्यत आह । तद्धितान्तत्वादिति ॥ ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह । षिद्वौरेति वक्ष्यमाणो ङीषिति ॥ 'षिद्रौरादिभ्यश्च' इत्यत्र प्रातिपदिकादित्यनुवृत्तम्, ततश्च ष्फान्तस्य प्रातिपदिकत्वाभावे ङीष न स्यादिति भावः । ननु ष्फप्रत्ययेनैव स्त्रीत्वस्य द्योति तत्वात् 'उक्तार्थानामप्रयोगः' इति न्यायादत्र कथं ङीषित्यत आह । षित्वसामर्थ्या दिति ॥ ष्फेण द्योतितेऽपि स्रीत्वे षित्करणसामर्थ्यात् ङीषित्यर्थः । गार्ग्यायणीति ॥ गर्ग स्यापत्यं स्त्री इति विग्रहः । गर्गादियञन्तात् गार्ग्यशब्दात् ष्फः, षकारः इत्, फकारस्य आय न्नादेशः, “यस्येति च' इति यकारादकारस्य लोपः, “हलस्तद्धितस्य' इति तु न भवति । ईती त्यनुवृत्तेः । “आपत्यस्य च' इत्यपि न । अनातीति निषेधात् । षित्वात् ङीष्, णत्वमिति भावः । सर्वत्र ॥ लोहितादिः गर्गाद्यन्तर्गणः । लोहितः आदिः येषामिति, कतः अन्तो येषामिति च विग्रहः । कतन्तेत्यत्र शकंध्वादित्वात् पररूपम् । यञ इत्यनुवृत्तं बहुवचनान्त तया विपरिणम्यते । *प्राचवां ष्फ तद्धितः' इति सूत्रं प्राचांवर्जमनुवर्तते । सर्वत्रेति सर्वेषु मतेष्वित्यर्थः । नित्यमिति यावत् । तदाह । लोहितादिभ्य इत्यादिना ॥ लौहिः त्यायनीति ॥ लोहितस्यापत्यं स्त्री इति विग्रहः । लोहितशब्दात् गर्गादियञन्तात् ष्फः

ष इत्, फकारस्यायन् 'यस्येति च' इति यकारादकारस्य लोपः, तद्धित इत्यप्यनुवृत्तेः ।

३६०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४७७ । कौरव्यमाण्डूकाभ्यां च । (४-१-१९)

आभ्यां ष्फः स्यात् । क्रमेण टाव्डीषोरपवादः ।“कुर्वादिभ्यो ण्यः'(सू ११७५) । कोरव्यायणी ढक्च मण्डूकात्' (सू ११२२) इत्यण् । माण्डू कायनी । * आसुरेरुपसङ्खयानम्' (वा २४३३) आसुरायणी ।

४७८ । वयसि प्रथमे । (४-१-२०)

प्रथमवयोवाचिनोऽदन्तात्स्त्रियां ङीप्स्यात् । कुमारी । वयस्यचरम इति वाच्यम्' (वा २४३५) । वधूटी । चिरण्टी । वधूटचिरण्टशब्दैौ


षित्वात् ङीषिति भाव:। कात्यायनीति पूर्ववत् प्रक्रिया बोध्या। कौरव्यमाण्डूका भ्याश्व आभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति।।कौरव्यशब्दात् टापः माण्डूकशब्दात् ङीषश्चापवाद इत्यर्थः। कौरव्यशव्दस्य यञ्जन्तत्वात् माण्डूक्यशब्दस्य अण न्तत्वाच्च । ङीपोऽपवाद इत्युचितमिति भ्रमं वारयितुमाह । कुर्वादिभ्य इत्यादिना कौरव्यायणीति ॥ कुरोरपत्यं स्री इति विग्रहः। कुर्वादिभ्यो ण्यः' इति ण्यः। णकार इत् ओर्गुणः' आदिवृद्धिः, “गोत्रञ्च वरणैस्सह' इति जातित्वेऽपि योपधत्वात् “जातेतरस्त्रीविषयातू इति डीषभावे टाप् प्राप्तः । तं बाधित्वा ष्फः, ष इत्, आयन् “यस्येति च इत्यकारलोपः । षि त्वात् डीष् । 'यस्येति च' इति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः तस्यापत्यं स्री इति विग्रहः 'ढक् चव मण्डूकात्' इत्यणु, आदिवृद्धिः 'यस्यति च' 'गोत्रञ्च चरणैस्सह' इति जातित्वात् डीष् प्राप्तः, तं बाधित्वा रुफः, ष इत्, आयन्, ‘यस्येति च' षित्वात् डीष् यस्येति च' इति भावः । टाब्डीपोरपवाद इति पाठतु प्रामादिकः । आसुरेरुपसङ्खयान मिति ॥ ष्फस्येति शेषः । आसुरायणीति ॥ असुरस्यापत्यं स्त्री इति विग्रहः “अत इञ् आदिवृद्धिः । ष्फः, ष इत्, आयन् ‘यस्यति च' षित्वात् डीष् “यस्येति च' णत्वमिति भाव वयसि प्रथमे ॥ प्राणिनां कालकृतावस्थाविशेषो वयः । तच्च कौमारं यौवनं वार्द्धकञ्चेति त्रिधा। पिता रक्षति कौमारे भर्ता रक्षति यौवने । पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति इति दर्शनात् । चतुर्विधं वय इत्यन्ये आद्ये वयसि नाधीतं द्वितीये नार्जितं धनम् । तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति इति दर्शनात् । प्रथमे वयसीत्यनन्तरं विद्यमानादिति विशेषः । अजाद्यतष्टाप्' इत्यतः अत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विशेष्यते। तदन्तविधि त्रियामत्यधिकृतम् । ऋश्र्नेभ्यः' इत्यतो डीबित्यनुवर्तते । तदाह । प्रथम वयोवाचिन इत्यादिना ॥ कुमारीति । अत्रादुर्भूतयौवनेत्यर्थः । वृद्धा कौमारीति तु वृद्धायामेव कुमारीत्वारोपात् बोध्द्यः। वयस्यचरम इति ॥ चरमम् अन्त्यं वय तद्भिन्नम् अचरमं, प्रथमे इत्यपनीय अवरमे इति वक्तव्यमित्यर्थः । किमर्थमित्यत आह । वधूटी, चिरण्टीति ॥ अनयोर्द्वितीयवयोवाचित्वादप्राप्तिरिति भाव अनयोर्द्वितीयवयसि

अप्रसिद्धत्वादाह । वधूटचिरण्टशब्दौ यौवनवाचिनाविति ॥ भाष्यप्रामाण्यादिति

प्रकरणम्]
३६१
बालमनोरमा ।

यौवनवांचिनौ | ' अत:' किम्, शिशुः । ' कन्याया न' । ' कन्यायाः कनीन च' (सू १११९) इति निर्देशात् ।

४७९ । द्विगोः । (४-१-२१)

अदन्ताद्विगोर्ङीप्स्यात्। त्रिलोकी । अजादित्वात्रिफला । त्र्यनीका सेना ।

४८० । अपरिमाणबिस्ताचितकम्बळ्येभ्यो न तद्धितलुकि । (४-१-२२)

अपरिमाणान्ताद्विस्ताद्यन्ताच्च द्विगोर्ङीन्न स्यात्तद्धितलुकि सति । पञ्च भिरश्वैः क्रीता पञ्चाश्वा । आर्हीयष्ठक् । “ अध्यर्ध -' (सू १६९३) इति


भावः । शिशुरिति ॥ शिशुशब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाभावात् न ङीबिति भावः । कन्याया नेति । ङीबिति शेषः । कुत इत्यत आह । कन्यायाः कनीन चेति ॥ नच द्विवर्षी स्त्री इत्यादावपि ङीप् शङ्कयः । शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमवयोवाचित्वाभावात् । पदान्तरसमभिव्याहारप्रकरणाद्यनपेक्ष्य यः वयोवाची तस्यैव विव क्षितत्वात् । द्विगोः । स्त्रियामिति अत इति डङीबिति चानुवर्तते । तदाह । अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः । “तद्धितार्थोत्तरपदसमाहारे च ' इति द्विगुसमासः “ अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीत्वम्। त्रिलोकशब्दात् टाबप वादो ङीप् । 'यस्येति च' इति भावः । ननु त्रिफला खयनीका इत्यत्रापि ङीप् प्राप्रोतीत्यत आह । अजादित्वात् त्रिफला, त्रत्यनीकेति ॥ भवतीति शेषः । त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे 'ताद्धितार्थ' इति द्विगुः । “ अकारान्तोत्तरपदः इति स्त्रीत्वम्, “द्विगोः' इति ङीपं बाधित्वा अजादित्वाट्टाबिति भावः । अनीकशब्दः ऐन्द्रवाय वाग्रत्वे शुक्राग्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्रयनीकाधिकरणे मीमांसकाः । अपरिमाण ॥

  • द्विगोः' इति ङीबिति चानुवर्तते । प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्त

विधिः । तदाह । अपरिमाणान्तादित्यादिना ॥ अपरिमाणान्तमुदाहरति । पञ्च भिरिति ॥ तद्धितलुकं दर्शयति । आर्हीयष्ठक् । अध्यर्धेति लुगिति । पञ्चभिः रश्चैः क्रीतेति विग्रहे “तद्धितार्थ' इति द्विगुः । “ आर्हीदगोपुच्छसङ्खयापरिमाणाठ्ठक’ इत्यधि कारे *तेन क्रीतम्' इति ठक् । अध्द्यर्धपूर्वाद्दिगोर्लुगसंज्ञायाम्' इति तस्य लुक्। अत्र द्विगोः' इति ङीप् न भवति, अपरिमाणान्तद्विगुत्वात् । नन्वत्र 'द्विगोः' इति प्राप्तङीन्निषेधे ऽपि 'टिड्ढाणञ्' इति ठन्निमित्तको ङीप् दुर्वारः । द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्र

  • सङ्खयाया अतिशदन्तायाः' इति कनः “अद्यर्ध' इति लुकि “ अपरिमाण' इति निषेधस्य

चरितार्थत्वात् इति चेत् । सत्यम् टिड्ढाणन्' इत्यत्र प्रत्यासत्त्या टिड्ढाणजादीनां य

अकारः तदन्तमिति विवक्षितम् । पञ्चाश्वशब्दश्चायं ठगवयवाकारान्तो न भवतीति न दोषः ।

३६२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

लुक् । द्वौ बिस्तौ पचति द्विबिस्ता । व्याचिता । द्विकम्बल्या । परिमाणान्तात्तु व्याढकी । ' तद्धितलुकि' किम् । समाहारे पञ्चाश्वी ।

४८१ । काण्डान्तात्क्षेत्रे । (४-१-२३)

क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । द्वे काण्डे प्रमाणमस्या द्विकाण्डा क्षेत्रभक्ति ।'प्रमाणे द्वयसच्--' (सू १८३८) इति


नच प्रत्ययलक्षणेन ठगवयवाकारान्तत्वं शङ्कयम् । वर्णाश्रये प्रत्ययलक्षणाभावात् । बिस्ता दिशब्दानान्तु परिमाणविशेषवाचित्वात् “अपरिमाण' इत्यनेन अप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति ॥ “सुवर्णबिस्तौ हेम्नोऽक्षे ” इत्यमरः । “गुञ्जाः पञ्चाद्यमाषकाः । ते षोडशाक्षः” इति च । गुञ्जापञ्चक माषपरिमाणम् । माषोडशकम् अक्षपरिमाणम्, तच्च अशीतिगुञ्जात्मकम् । तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णविस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे “तद्धितार्थ' इति द्विगुः । 'सम्भवत्यवहरतिपचति' इति ठक्, तस्य अद्यर्ध' इति लुक् । 'द्विगोः' इति डीपि अनेन प्रतिषिद्धे सति टापि द्विबिस्ता मूषा । द्विबिस्तपरिमाणकहिरण्यं द्रावयतीत्यर्थः । पचिरिह द्रावणे द्रष्टव्यः । ह्द्याचितेति । “ आ चितो दश भाराः” इत्यमरः । “तुला स्त्रियां फलशतं भारस्याद्विंशतिः पुमान्” इति च । द्वावाचितौ वहतीत्यर्थे 'आढकाचितपात्रातू खोऽन्यतरस्याम्, द्विगोष्ठंश्च' इति खठनोरभावे प्राग्वतीयष्ठञ् । “अच्द्यर्ध' इति तस्य लुक्तः । अनेन ‘द्विगोः' इति डीपि निषिद्धे टापि द्याचिता शकटी । द्विकम्बळ्येति ॥ कम्बळस्य प्रकृतिभूतं द्रव्यं कम्बळ्यम् ऊर्णापलशतम् ।

  • तदर्थं विकृतेः प्रकृतौ' इत्यर्थे * कम्बळाच्च संज्ञायाम्' इति यत् । द्वाभ्यां कम्बळ्याभ्यां

क्रीतेति विग्रहे “तेन क्रीतम्' इति ठञ्ज । “अध्द्यर्ध' इति लुक् । 'द्विगोः' इति ङीपि अनेन प्रतिषिद्धे टापु । नन्वत्र न तद्धितलुकि इत्येवास्तु । तावतैव पञ्चभिरश्वैः क्रीता पञ्चाश्वेति सिद्धेः * अपरिमाण' इति मास्तु । एवञ्च द्विबिस्ता द्याचिता द्विकम्बळ्येत्यपि सिद्धेर्बिस्तादि ग्रहणमपि मास्त्वित्यत आह । परिमाणान्तात्विति ॥ “गुञ्जाः पञ्च तु माषस्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ॥ पलद्वयन्तु प्रसृतं द्विगुणं कुडबं मतम् । चतुर्भिः कुडबैः प्रस्थः प्रस्थाश्चत्वार आाढवकः । इति स्मृतिः । द्वावाढकौ पञ्चतीति विग्रहे “ आढकाचितपात्रात् खोऽन्यतरस्याम्, द्विगोष्ठंश्च' इति खठनोरभावे प्रग्वती यष्टञ् । “ अध्द्यर्ध' इति लुक् । 'द्विगोः' इति ङीप् । द्वयाढकीति रूपम् । 'न तद्धितलुकि इत्येतावत्येवोक्ते अत्रापि ङीपो निषेधस्यात् । अतः अपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्त्ते द्विबिस्तत्यादौ परिमाणत्वात् ङीनिषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति भावः । काण्डान्तात् क्षेत्रे ॥ 'द्विगोः' इति, न तद्धितलुकीति, चानुवर्तते । तदाह । क्षेत्रे य इत्यादि । द्वे काण्डे इति ॥ षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे प्रमाणमस्याः इति विग्रहे “तद्धितार्थ' इति द्विगुसमासे द्विकाण्ड

शब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्काव्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं

प्रकरणम्]
३६३
बालमनोरमा ।

विहेितस्य मात्रचः *प्रमाणे लः, द्विगोर्नित्यम्' इति लुक् । 'क्षेत्रे' किम् । द्विकाण्डी रज्जु

४८२ । पुरुषात्प्रमाणेऽन्यतरस्याम् । (४-१-२४)

प्रमाणे यः पुरुषस्तदन्ताद्विगोर्ङीव्वा स्यात्तद्धितलुकि । द्वौ पुरुषौ प्रमाणमस्याः सा द्विपुरुषी-द्विपुरुषा वा परेिखा ।


दर्शयितुमाह । प्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्कयम् । असति ह्यन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं स्यात् । श्रुतत्वात् । क्षेत्रे यः काण्डशब्दः तदन्तादिति लभ्येत । एवञ्च द्विकाण्डा क्षेत्रभक्तिरित्यत्र द्विकाण्डशब्दस्यैव क्षेत्रवर्तित्वात् काण्डशब्दस्य प्रमाणवाचित्वात् ङीन्निषेधो न स्यात् । द्वाभ्यां काण्डाभ्यां काण्डप्रमितक्षेत्राभ्यां क्रीता द्विकाण्डी बडबेत्यत्रैव ङीन्निषेधः स्यात् । अतः अन्तग्रहणम् । द्विकाण्डी रज्जुरिति ॥ पूर्ववत् मात्रचो लुकि 'द्विगो इति ङीप् । क्षेत्रवृत्तित्वाभावात् न तन्निषेध इति भावः । ननु “अपरिमाण' इति पूर्वसूत्रे परेि माणशब्देन किं परिच्छेदकमात्रं विवक्षितम्, उत “ऊध्र्वमानं किलोन्मानं परिमाणन्तु सर्वतः । आयामस्तु प्रमाणं स्यात्” इति वार्तिकानुसारेण परितः सर्वतः आरोहतः परिणाहतश्च येन मीयते तत् परिमाणमित्याढककुडबाद्येव आयामव्यावृत्तं विवक्षितम् । नाद्यः । तथा सति द्वैौ हस्तौ प्रमाणमस्या इति विग्रहे द्विहस्ता भित्तिरित्यत्र पूर्ववन्मात्रचो लुकि ङीनिषेधो न स्यात् । न द्वितीयः । तथा सति काण्डशब्दस्यायामप्रमाणपरतया उक्तपरिमाणपरत्वाभावेन अपरिमाण इत्यनेनैव द्विकाण्डाक्षेत्रभक्तिः इत्यत्रापि ङीनिषेधसम्भवेन काण्डान्तात् क्षेत्रे इति सूत्रारम्भवैयर्थ्यादित्युभयत:पाशा रज्जुरिति चेत् । सत्यम् । “ अपरिमाण' इति पूर्व सूत्रे पारिभाषिकमेव परिमाणं विवक्षितं, न त्वायामोऽपि । ततश्च द्विहस्ता भित्तिरित्यत्र “अप रिमाण' इति ङीनिषेधो निर्बाधः । काण्डान्तादिति सूत्रन्तु काण्डान्तात् क्षेत्र एव ङीब्नि षेधः नान्यत्र द्विकाण्डी रज्जुरित्यादाविति नियमार्थमित्यन्यत्र विस्तरः । पुरुषात् ॥ द्विगो रिति तद्धितलुकीति ङीबिति चानुवर्तते । तदाह । प्रमाणे य इत्यादिना ॥ प्रमाणमायामः आयामस्तु प्रमाणं स्यात्' इति वचनात् । द्वौ पुरुषाविति ॥ पञ्चहस्तायामः पुरुषः इत्युच्यते । “पञ्चारत्निः पुरुषः' इति शुल्बसूत्रात् । द्वौ पुरुषौ प्रमाणमस्या इति विग्रहे “तद्धि तार्थ' इति द्विगुसमासः । 'प्रमाणे द्वयसज्दघ्नञ्मात्रचः' इति विहितस्य मात्रचः “प्रमाणे ल: द्विगोर्नित्यम्' इति लुक् । अत्र उक्तरीत्या पुरुषप्रमाणस्य आयामात्मकस्य “अपरिमाण' इति नित्यं ङीनिषेधे प्राप्ते विकल्पार्थमिदं वचनम् । अन्ये तु “तदस्य परिमाणम्’ इति ठक्ठञौ वा । “अध्द्यर्ध' इति लुक् । तत्र हि उत्तरसूत्रानुरोधात् परिमाणशब्देन परिच्छेदकमात्रं गृह्यते इत्याहुः, इत्यास्तान्तावत् । द्विपुरुषी द्विपुरुषा वा परिखेति ॥ तिर्यक् द्विपुरुषायतेत्यर्थः ।

दुर्गे परितः तत्संरक्षणार्थो जलाशयः परिखा । अथ कुण्डमिव ऊधो यस्या इति बहुव्रीहौ

३६४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

४८३ । ऊधसोऽनङ् । (५-४-१३१)

उधोऽन्तस्य बहुव्रीहेरनङादेशः स्यात्स्रियाम् । इत्यनङिः कृते डाब्डी ब्रिषेधेषु प्राप्तेषु ।

४८४ । बहुव्रीहेरूधसो ङीष् । (४-१-२५)

ऊधोऽन्ताद्वहुव्रीहेर्ङीष् स्यात्स्त्रियाम् । कुण्डोध्नी । 'स्त्रियाम्' किम् । कुण्डोधो धैनुकम् । इहानङ्ङपि न । तद्विधौ *स्त्रियाम्' (वा ३३६७) इत्युपसख्यानात् ।

४८५ । सङ्खयाव्ययादेर्ङीप् । (४-१-२६)

ङीषोऽपवादः। द्वयूध्नी । अत्यूध्नी । बहुव्रीहेरित्येव । ऊधोऽतिक्रान्ता अत्यूधाः ।


कुण्डोधस्शब्दः। तत्र विशेषमाह । ऊधसोऽनङ् ॥ 'बहुव्रीहौ सक्थ्यक्ष्णोः' इत्यतो बहुव्रीहावित्यनुवृत्तं षष्ठया विपरिणम्यते, ऊधसः इत्यनेन विशेष्यते, तदन्तविधिः । तदाह । उधोऽन्तस्येति ॥ समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्द्यम् । इत्यनडिः कृते इति ॥ अनङि ङकार इत्, अकार उच्चारणार्थ ङिच्च इत्यन्त्यस्य सकारस्य अन् पररूपम् कुण्डोधन् इति स्थिते सतीत्यर्थः । डाब्ङीनिषेधेष्विति ॥ 'डाबुभाभ्याम्' इति वैकल्पिके डापि 'अन उपधालोपिनः’ इति वैकल्पिके ङीपि तदुभयाभावे 'ऋत्रेभ्यः' इति प्राप्तस्य ङीपः

  • अनो बहुव्रीहेः' इति निषेधे प्राप्त इत्यर्थः । वहुव्रीहेः ॥ ऊधस इति वहुव्रीहेर्विशेषणम्

तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह । ऊधोऽन्तादिति ॥ कुण्डोघ्नीति ॥ अनङि कृते ङीषि “ अलोपोऽनः' इति भावः । “ ऊधस्तु क्लीबमापीनम्” इत्यमरः । स्त्रियां किमिति ॥ ङीष्विधौ स्त्रियामित्यनुवृत्तिः किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति ॥ कुण्डमिव ऊधो यस्येति विग्रहः । नपुंसकत्वस्फोरणाय धैनुकमिति विशेष्यम् । धेनूनां समूह इत्यर्थः । “अछित्तहस्तिधनोष्ठक्' 'इसुसुक्तान्तात्कः' आदिवृद्धिः, क्लीबत्वं लोकात् । ङीघ्निषे धस्यतु स्वरे विशेषः फलम्। अत्र स्त्रीत्वाभावान्न ङीषित्यर्थः। ननु मास्तु ङीषु, अनङ्तु कुतो न स्यात् । समासान्तप्रकरणस्थे ऊधसोऽनङ्विधौ स्त्रियाम्' इत्यभावादित्यत आह । तद्विधाविति ॥ ऊधसोऽनड़िविधौ 'त्रियाम्' इत्युपसङ्खयानादित्यर्थः । बहुव्रीहेः किम् । ऊधः प्राप्तेति विग्रहे प्राप्तापन्ने च द्वितीयया ' इति समासे प्राप्तोधाः । सङ्खयाव्ययादेङीप् ॥ सङ्खयाव्ययादेरूधो ऽन्तात् स्त्रियां ङीप् स्यादित्यर्थः । ङीषोऽपवादः इति ॥ 'बहुव्रीहेरूधसेो डीष्’ इत्यस्या पवाद इत्यर्थः । स्वरे विशेषः । सङ्खयादेरुदाहरति । द्वयूघ्नीति ॥ द्वे ऊधसी यस्याः इति विग्रहः । अनडि ङीपि अल्लोप इति भावः । अव्ययादेरुदाहरति । अत्यूध्नीति ॥ अतिशयित मूधो यस्याः इति विग्रहः । बहुव्रीहेरित्येवेति ॥ बहुव्रीहेरित्यनुवर्तत एवेत्यर्थः । ऊधो

ऽतिक्रान्तेति ॥ 'अत्यादयः क्रान्ताद्यर्थे द्वितीयया' इति समासस्य अबहुव्रीहित्वान्न ङीप् ।

प्रकरणम्]
३६५
बालमनोरमा ।

४८६ । दामहायनान्ताच्च । (४-१-२७)

संख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च डीप्स्यात् । दामान्ते डाप्प्रति षेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्री । अव्ययग्रहणाननु वृत्तेरुद्दामा बडबेत्यत्र डाब्रिषेधावपि पक्षे स्तः । द्विहायनी बाला । त्रिचतुभ्यां हायनस्य णत्वं वाच्यम्’ (वा ५०३८) । “ वयोवाचकस्यैव हायनस्य ङीव्णत्वं चेष्यते' (वा २४४१) । त्रिहायणी । चतुर्हयणी । वयसोऽन्यत्र द्विहायना, त्रिहायना, चतुहृायना, शाला ।

४८७ । नित्यं संज्ञाछन्दसोः । (४-१-२९)

अन्नन्ताद्वहुव्रीहेरुपधालोपिनो ङीप्स्यात्सज्ञाछन्दसोः । सुराज्ञी नाम नगरी । अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्ध्नी ।

४८८ । केवलमामकभागधेयपापापरसमानार्य कृतसुमङ्गलभेषजाच्च । (४-१-३०)

एभ्यो नवभ्यो नित्यं ङीप्स्यात्संज्ञाछन्दसोः । “अथो त इन्द्रः केवली वैिश:' मामकी तनू । भागधेयी । पापी । अपरी । समानी । आर्यकृती ।


अत एव नानड्, नापि ङीष् । दामहायनान्ताच्च । सङ्खयादेः ङीप् इति चानुवर्तते तदाह । सङ्खयादेरिति ॥ अव्ययग्रहणन्तु नानुवर्तते । अस्वरितत्वादिति भावः । बहुव्रीहि विशेषणत्वादेव सिद्धे अन्तग्रहणं स्पष्टार्थम् । दामान्ते इति ॥ द्विदामन्शब्दे दामान्ते डाबुभाभ्याम्' इति डापि * अन उपधालोपिनः' इति डीपि, ‘अनो बहुव्रीहेः’ इति ङीप्प्रतिषेधे च प्राप्ते, द्विहायनीत्यत्र हायनान्ते अदन्तत्वाट्टापि प्राप्से “दामहायनान्ताच' इति वचनमित्यर्थः । द्विदास्रीति ॥ द्वे दामनी यस्याः इति विग्रहः । डीपि “अल्लोपोऽनः' इति भावः । ननु अव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह । अव्ययग्रहणेति ॥ उद्दामेति ॥ उत्क्रान्तं दाम यस्या इति विग्रहः । डान्निषेधावपीति ॥ अपिना ‘अन उपधा' इति डीप् गृह्यते । अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरति । द्विहायनी बालेति ॥ द्वौ हायनौ यस्या इति विग्रहः । अथ त्रिहायणीत्यत्र भिन्नपदत्वात् णत्वाप्राप्तावाह । त्रिचतुर्भ्यामिति । नन्वेवमपि द्विहायना शाला इत्यत्रापि ङीप् स्यात्, त्रिहायणी शालेत्यत्र तु ङीप् णत्वञ्च स्यातामित्यत आह । वयोवाचकस्येति ॥ इष्यते इति ॥ भाष्यकृतेति शेषः । केवलमामक ॥ “नित्यं संज्ञाच्छन्दसेोः' इति पूर्वसूत्रमनुवर्तते । एवञ्च अन उपधालोपिनोऽन्यतरस्याम्' इति अन्यतरस्याङ्गहणं निवृत्तम् । “सङ्खयाव्ययादेर्ङीप् इत्यतो डीबत्यनुवर्तते । तदाह । एभ्य इति ॥ केवल, मामक, भागधेय, पाप, अपर

समान, आर्यकृत, सुमङ्गल, भेषज, इत्येतेभ्यो नवभ्यः इत्यर्थः । छन्दस्युदाहरति ।

३६६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

सुमङ्गली । भेषजी अन्यत्र केवला इत्यादि मामकग्रहणं नियमार्थम् अण्णन्तत्वादेव सिद्धे: ।तेन लोके़ऽ़ज्ञायां मामिका ।

४८९ । अन्तर्वत्पतिवतोर्नुक्(४-१-३२)

एतयोः स्त्रिया नुकस्यात् ऋन्नेभ्यो डीप्' (सू ३०६) । गर्भिण्यां जीवद्भर्तृकायां च प्रकृतिभागौ निपात्येते तत्रान्तरस्त्यस्यां गर्भ इति विग्रहे अन्तश्शब्दस्याधिकरणशक्तिप्रधानतयास्तिसामानाधिकरण्याभावादप्राप्तो मतुन्नि पात्यतस् पतिवत्री' इत्यत्र तु वत्त्वं निपात्यते । अन्तर्वत्री । पतिवत्री प्रत्युदाहरणं तु अन्तरस्त्यस्यां शालायां घट: । पतिमती पृथिवी ।


अथोत इन्द्रः केवलीरिति ॥ मामकी तनू इति । मदीयायामित्यर्थः। युष्म दस्मदोरन्यतरस्यां खञ् च' इत्यणि 'तवकममकावकवचने' इति प्रकृतेर्ममकादेशः ।ङीप् सुपां सुलुक्' इति सप्तम्या लुक् मित्रावरुणयोर्भागधेयी स्थ।भागरूपनामभ्यो ध्यः । इति स्वार्थिको धेयप्रत्ययः। भागशब्दस्य पुलिङ्गत्वेऽपि “स्वार्थिकाः प्रकृतेः क्वचिलिङ्गवचनान्य तिवर्तन्ते' इति स्त्रीत्वम्, डीप्। तन्वस्सन्तु पापी पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात् स्रीत्वे डीप्। उत वा परीभ्यो मघवा विजिग्ये। अपरशब्दः पवर्गमध्द्य समानीव आकूतिः ।” आर्यकृतीति क्वचित् वेदे अन्वेषणीयम् । एवं सुमङ्गलीति च।“सुमङ्गलीरियं वधूः इत्यत्र 'छन्दसीवनिपौ च' इति मत्वर्थे ईप्रत्यय । शिवा रुद्रस्य भेषजी' भेषज शबेदः रोग निवर्तके औषधे प्रसिद्धः । अत एव सूत्रात् स्त्रीत्वमपि । यद्वा भिषजः इयामित्यर्थे अणि इकारस्य एकारः, अत एव निपातनात् संज्ञायामप्येवमेव सर्वत्र डीबुदाहार्य संज्ञाच्छन्दो भ्यामन्यत्र तु केवला मामिका इत्यादि नन्वणन्तत्वादेव “टिडढाणञ्' इति डीपि सिद्धे मामकग्रहणं व्यर्थमित्यत आह । मामकग्रहणमिति ॥ लोके असंज्ञायाञ्च डीन्नि वृत्त्यर्थमिति भावः। एव भेषजशब्दस्य अणन्तत्वेऽपि ज्ञेयम् एतदर्थमेव वैदिकप्रक्रि यायाम् इदं नोपन्यस्तम् अन्तर्वत्पतिवतोर्नुक् । एतयोः स्त्रियां नुगिति।। कित्त्वसामर्थ्यात् अयमागमः, नतु प्रत्यय इति भावः। कित्त्वादन्तावयवः, अन्तर्वत् न्, पतिवत् न् इति स्थिते आह । ऋन्नेभ्यो ङीबिति ॥ गर्भिण्यामिति ॥ गर्भिण्याञ्जीव द्भर्तृकायाञ्च स्त्रियाम् अन्तर्वत् पतिवत् इति प्रकृतिभागौ नुक्सन्नियोगेन निपात्येत इति । वार्ति कमेतत् । कतरस्मिन् किन्निपात्यते इत्यत आह । तत्रेति ॥ तयोर्मध्ध्ये इत्यर्थः। अन्तर स्त्यस्यां गर्भः इति विग्रहे अप्राप्तो मतुप् निपात्यते इत्यन्वयः । कथमप्राप्तिर्मतुप इत्यत आह अन्तश्शब्दस्येत्यादि अभावादित्यन्तम् ॥ 'तदस्यास्त्यस्मिन्निति मतुप्’ इति सूत्रेण आस्तिसमानाधिकरणात् कर्तृकारकप्रधानप्रथमान्तात् मतुप्प्रत्ययो विहितः । यथा गौरस्यास्तीति गोमानित्यादौ । प्रकृते तु प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरण नतु अन्तश्शब्दः। तस्याधिकरणकारकप्रधानतया अस्तिसामानाधिकरण्यासम्भवात् । अतोऽत्र

अप्राप्तो मतुन्निपात्यत इत्यर्थः। मादुपधायाश्च मतोर्वा ' इति मकारस्य वत्वे अन्तर्वत्

प्रकरणम्]
३६७
बालमनोरमा

४९० । पत्युर्नो यज्ञसंयोगे । (४-१-३३)

पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । वसिष्ठस्य पत्नी । तत्कर्तृकस्य यज्ञस्य फलभोक्रीत्यर्थः । दम्पत्योः सहाधिकारात् ।

४९१ । विभाषा सपूर्वस्य । (४-१-३४)

पतिशब्दान्तस्य सपूर्वस्य प्रातिपदिकस्य नो वा स्यात् । गृहस्य पतिः गृहपतिः-गृहपत्नी । “अनुपसर्जनस्य' इतीहोत्तरार्थमनुवृत्तमपि न पत्युर्विशेषणं किं तु तदन्तस्य । तेन बहुव्रीहावपि । दृढपत्नी-दृढपतिः । वृषलपत्नी-


इति प्रकृतिभावः सम्पद्यत इति भावः । वत्वमिति । पतिरस्याः अस्तीति विग्रहे * तदस्याः स्त्यस्मिन्' इति मतुपो मकारस्य मादुपधात् परत्वाभावेन “मादुपधायाः’ इति वत्वमप्राप्त न्निपात्यते इत्यर्थः । प्रत्युदाहरणं त्विति ॥ गर्भिण्यामेव मतुन्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहवाक्यमेव , नतु मतुबित्यर्थः । पतिमती पृथिवीति ॥ जीव द्भर्तृकायामेव वत्त्वनिपातनादिह वत्त्वाभाव इति भावः । पत्युर्नो । पत्युरिति षष्ठी । न इत्यकार उच्चारणार्थः, स्त्रियामित्यधिकृतम् । तदाह । पतिशब्दस्येति । यज्ञेनेति । यज्ञसम्बन्धः यज्ञेन सह स्वामितया सम्बन्धः, यज्ञफलभोक्तृत्वमिति यावत् । तदाह । तत्कर्तृकस्येति ॥ वसिष्ठकर्तृकस्येत्यर्थः । ननु वसिष्ठकर्तृकयज्ञस्य वसिष्ठ एव फलभोक्त्ते त्युचितं, नतु तत्स्त्रयपि, स्वर्गकामः इत्यादिपुलिङ्गशब्दैः पुंस एवाधिकारावगमात् इत्यत आह । दम्पत्योस्सहाधिकारादिति । एतच्च प्रकृतसूत्रे भाष्ये स्पष्टम् । अत एव पूर्वमीमांसायां षष्ठस्य प्रथमपादे “लिङ्गविशेषनिर्देशात् पुंयुक्तमैतिशायन ” इत्यधिकरणे “स्वपतेस्तु वचनादैककर्म्ये स्यात्' इत्यधिकरणे च दम्पत्योस्सहाधिकारस्सिद्धान्तितः । प्रपश्चित चैतदस्माभिरध्वरमीमांसाकुतूहलवृत्तौ । विभाषा सपूर्वस्य ॥ पत्युर्नः इत्यनुवर्तते । प्रातिपदिकादित्यनुवृत्तं षष्ठया विपरिणतं पत्युरित्यनेन विशेष्यते, तदन्तविधिः, सपूर्वस्यत्यतत् पतिशब्दान्तप्रातिपदिके अन्वेति । पूर्वावयवसाहितस्येत्यर्थः । तदाह । पतिशब्दान्तस्येत्या दिना ॥ यज्ञसंयोगाभावेऽपि अप्राप्तविभाषेयम् । गृहपतिः-गृहपत्नीति ॥ नत्वपक्षे ऋन्न' इति ङीप् । अत्र गृहपतिशब्दः पतिशब्दान्तः गृहशब्दात्मकपूर्वावयवसहितश्चेति भावः । नच “ग्रहणवता प्रातिपदिकेन' इति निषेधश्शङ्कयः । “शूद्रा चामहत्पूर्वा' इति लिङ्गेन तस्य स्त्रियामित्यधिकारे अप्रवृत्तेरुक्तत्वात् । ननु दृढः पतिः यस्या इति बहुव्रीहौ दृढपतिः-दृढपत्नीति नत्वविकल्प इष्यते, स तु न सम्भवति । अनुपसर्जनादित्यधिकारात् पतिशब्दस्यात्रोपसर्जन त्वात् । नच 'अनुपसर्जनात्' इति नात्र सम्बध्द्यते इति वाच्यम्। उत्तरत्रानुवृत्तये इहापि तदनु वृत्तेरावश्यकत्वात् इत्यत आह । अनुपसर्जनस्येत्यादि । किन्तु तदन्तस्येति ॥ सपू र्वस्येति पत्यन्तस्य श्रुतत्वेन तद्विशेषणताया एव न्याय्यत्वात् अवान्तरवाक्यार्थबोधोत्तरमेव

अनुपसर्जनत्वविशेषणप्रवृत्त्या तत्काले सपूर्वस्य श्रुतत्वेन तेनैव सम्बन्धे जाते सति पश्चात्

३६८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

वृषलपतिः । अथ ' वृषलस्य पत्नी' इति व्यस्ते कथमिति चेन्न । पत्नीव पत्नीत्युपचारात् । यद्वा । आचारक्विबन्तात्कर्तरि किप् अस्मिञ्च पक्षे पत्नियौ । पत्निय: इतीयङ्कविषये विशेषः । । सपूर्वस्य' किम्। गवां पतिः स्त्री ।

४९२ । नित्यं सपत्न्यादिषु । (४-१-३५)

पूर्वविकल्पापवादः । समानख्य सभावोऽपि निपात्यते । समानः पति र्यस्याः सा सपत्नी । एकपत्नी । वीरपत्नी ।


पतिशब्देऽपि पुनव्यपारे मानाभावादिति भावः । तेनेति । अनुपसर्जनत्वस्य पत्यन्तविशेषणत्वे नेत्यर्थः । यज्ञसंयोगग्रहणमनुवर्त्यं प्राप्तविभाषा कुतो न स्यादित्यत आह । वृषळपत्नीति ॥ पाति रक्षतीति पतिः वृषळस्य पतिः स्त्री इति विग्रहः । अपशूद्राधिकरणे शूद्राणां यज्ञाधिकार निराकरणादिह यज्ञसंयोगाभावादप्राप्तमेव नत्वं विभाष्यत इति भावः । आक्षिपति । अथेति ॥ आक्षेपारम्भद्योतकोऽथशब्दः, प्रश्रद्योतको वा । “मङ्गळानन्तरारम्भप्रश्रकार्त्स्न्येष्वथो अथ ' इत्यमरः । व्यस्ते इति । विग्रहवाक्ये इत्यर्थः । ततश्च सपूर्वत्वाभावात् न प्रकृतसूत्रेण नत्वविकल्पः । यज्ञसंयोगाभावाच्च न पूर्वेसूत्रेण । अतो वृषळस्य पत्नीत्यनुपपन्नमित्याक्षेपः । इति चेन्नेति । इत्याक्षिपसि चेत् नैतद्युक्तमित्यर्थः । पत्नीवेति । यज्ञसंयुक्तायां द्विजभार्यायां यः पत्नीशब्दो व्युत्पादितः तस्यैव शूद्रस्त्रियामपि यज्ञसंयुक्तायां पाणिग्रहणादिधर्मपुरस्कारेण गौण्या वृत्त्या प्रयोगः । यथा गङ्गायामिति स्त्रीलिङ्गस्य तीरे प्रयोगः । उक्तश्च भाष्ये । “तुषज कस्य पत्नीत्युपमानात्सिद्धम्” इति । यद्वेति प्रौढिवादमात्रमिदम् । स्त्रियामाचारक्विबन्त प्रकृतिकक्विबन्तशब्दाः न सन्तीति “अनुपसर्जनात्' इत्यत्रोक्तत्वात् । सपूर्वस्येति कि मिति । प्रातिपदिकविशेषणतया पतिशब्दस्य तदन्तलाभे सति पतिशब्दान्तस्य सपूर्वत्वा व्यमिचारात् सपूर्वस्येति किमर्थमिति प्रश्नः । गवां पतिः स्त्रीति । स्वामिनी रक्षित्री वे त्यर्थः । असमस्तत्वात् गवामित्यस्य न पूर्वावयवत्वामिति भावः । यद्यपि “यत्र सङ्घाते पूर्वो भागः पदं तत्र चत् प्रातिपदिकसंज्ञा भवति तर्हि समासस्यैव, इति नियमेन गवांपतिः इति समुदायस्य पत्यन्तत्वेऽपि प्रातिपदिकत्वाभावादेवात्र नत्वविकल्पो न भवति । तथापि गवां पतिरित्यत्र पतिशब्दस्यैव व्यपदेशिवत्वेन तदन्ततया नत्वविकल्पप्राप्तौ तन्निवृत्त्यर्थ सपूर्वस्येति वचनामिति भावः । वस्तुतस्तु “व्यपदेशिवद्भावोऽप्रातिपदिकेन' इति निषेधादिह केवलपति शब्दस्य पांतेशव्दान्तत्वाभावादेव नत्वविकल्पनिवृत्तिसिद्धेः सपूर्वस्येति स्पष्टार्थमित्याहुः । नित्यं सपत्नयादिषु । विषयसप्तम्येषा । सपत्नयादिविषये तत्सिध्द्यर्थे नित्यं नत्वमित्यर्थः । पूर्व विकल्पेति ॥ “विभाषा सपूर्वेस्य' इति विकल्पस्यापवाद इत्यर्थः । आरम्भसामर्थ्यादेव सिद्धे नित्यग्रहणं स्पष्टार्थम् । ननु समानः पतिर्यस्यास्सा सपत्नीति वक्ष्यति । तत्र समानशब्दस्य सभावोऽनुपपन्नः, अतः सदृशपर्यायेण सहशब्देनैव बहुव्रीहिराश्रयणीयः । एवञ्च 'वोपसर्जनस्य इति वैकल्पिकस्सभाव इत्यत आह । समानस्येति । इह गणे समान, एक, वीर, भ्रातृ. पुत्र, इति समानादयः पठिताः । अतस्समानशब्देनैव बहुत्रीहिरुचितःनिपातनादेव

,

प्रकरणम्]
३६९
बालमनोरमा ।

४९३ । पूतक्रतोरै च । (४-१-३६)

अस्य स्त्रियामै आदेशो डीप्च । * इयं त्रिसूत्री पुंयोग एवेष्यते' (वा २४४९) । पूतक्रतोः स्त्री पूतक्रतायी । “यया तु ऋतवः पूताः स्यात्पूतक्रतुरेव

४९४ । वृषाकप्यग्विकुसितकुसिदानामुदात्तः । (४-१-३७)

एषामुदात्त ऐ आदेशः स्यान्डीप्च । वृषाकपेः स्त्री वृषाकपायी । ' हरविष्णू वृषाकपी' इत्यमरः । “ वृषाकपायी श्रीगौर्योः' इति च । अग्नायी । कुसितायी-कुसिदायी । कुसिद्शब्दो ह्रस्वमध्यो न तु दीर्घमध्यः ।

४९५ । मनो रौ वा । (४-१-३८)


नित्यं सभाव इति भावः । समानः पतिरिति । अत्र सम्मानशब्द एकपर्यायः, पतिशब्दस्तु विवाहनिबन्धनभर्तृशव्दपर्यायः । वीरपत्नीति । वारः पतिर्यस्याः इति विग्रह । सपत्नया दित्वान्नत्वम् । पूतक्रतोरै च ॥ ऐ इति लुप्तप्रथमाकम् । पूतक्रतुशब्दात् स्त्रियां ङीप्स्यात् प्रकृतेरैकारोऽन्तादेशश्वत्यर्थः । इयं त्रिस्त्रूत्रीति । वार्तिकमिदम् । पूतक्रतोरित्यादिसूत्रत्रयं पुंयोगात् स्त्रियां वृत्तावेवेत्यर्थः । पूतक्रतायीति । पूतः क्रतुः चेन सः पूतक्रतुः, तस्य स्त्री त्यर्थे ङीप्, तकारादुकारस्य एकारः, तस्य आयादेश इति भावः । पुंयोगः इत्यस्य प्रयोजन माह । ययेति । वृषाकप्यग्नि ॥. ऐ चेत्यनुवर्तते । तदाह । एषामिति ॥ वृषाकपा यीति ॥ डीप् प्रकृतेरुदात्तः ऐकारेऽन्तादेशः, तस्य आयादेशः, तस्य ऐकारस्थानिकत्वात् तदाकारोऽप्युदात्त । “ अनुदात्त पदमेकवर्जम्' इति अवशिष्टानामवामनुदात्तत्वम् । उदात्त इति किम् । 'लघावन्ते द्वयोश्च बह्वषो गुरुः' इति वृषाकपिशब्दो मध्ध्योदात्तः। “नाहमिन्द्राणि रारणसख्युर्वेृषाकपेः' इति यथा। अन्ते एकस्मिन् लघौ सति द्वयोर्वा लघ्वोस्सतोः पूर्वः बह्वच्कस्य गुरुः उदात्तस्यादिति तदर्थः। ततश्च षकारादाकारस्य उदात्तत्वे “ अनुदात्तं पदमेकवर्जम्' इत्य वशिष्टानामचामनुदात्तत्वमिति स्थितिः । तथा च पकारादिकारस्यानुदात्तत्वात् तत्स्थाने ऐकारः अनुदात्तस्स्यात् । ततश्च तदादेशभूतायादेशाकारस्याप्यनुदात्तत्वं स्यात् । अतोऽत्र उदात्तत्व विधिः । अग्नायीति ॥ * अग्निमूर्धा' इत्यादौ अग्निशब्द: अन्तोदात्तः, ततो डीप्, प्रकृतेर्रैकारो ऽन्तादेशः, स च भवन्नान्तर्यादुदात्त एव भवति । अतस्तदादेशायादेशाकारस्य उदात्तत्वसिद्धे रुदात्त इत्येतदन्निशब्दे अन्वयं न लभत, प्रयोजनाभावात् कुसितायी-कुसिद्दायीति ॥ कुसितकुसिदे अव्युत्पन्नप्रातिपदिके देवताविशेषस्य नामधेये, फिट्स्वरेणान्तोदात्ते, ततो डीप् ऐकारश्चान्तादेशः, सच भवन्नान्तर्यादुदात्त एवेति, कुसितकुसिदशब्दयोरपि उदात्त इत्यस्य नान्वय इति वृत्त्यादिग्रन्थेषु स्थितम्। अत एवाह । कुसिद्दशब्दो ह्रस्वमध्यो न तु दीर्घ मध्यः इति ॥ ह्रस्वमध्द्यत्वे हि “लघावन्ते' इति मध्द्योदात्ततया शिष्टस्वरेण दकारादकारस्या नुदात्ततया तत्स्थाने ऐकारस्यानुदात्ततया तत्स्थाने आकारस्यानुदात्तत्वापत्त्या तान्निवृत्त्यर्थे तत्रा प्युदात्तग्रहणस्यावश्यकत्वादुदाहृतवृत्त्यादिग्रन्थविरोधः स्पष्ट एवेति भावः । मनो रौ वा ॥

7

३७०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

मनुशब्दस्यौकारादेशः स्यादुदातैकारश्च वा । ताभ्यां सन्नियोगशिष्टो डीप्च । मनोः स्त्री मनायी-मनावी-मनुः ।

४९६ । वणोदनुदात्तात्तोपधात्तो नः । (४-१-३९)

वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङी प्स्यात् तकारस्य नकारादेशश्च । एनी—एता । रोहिणी-रोहिता । वर्णानां तणतिनितान्तानाम्’ (फि ३३) इति फिट्सूत्रेणाद्युदात्तः । 'त्र्येण्या शलल्या'


ए चेति, उदात्त इति, ङीबिति, चानुवर्तते । तदाह । मनुशब्दस्येति । उदात्त ऐकारश्च वेति ॥ औकार ऐकारश्च वा स्यादित्यर्थः । उदातैकार इति समाननिर्देशादुदात्त इत्यौकारेण न सम्बध्द्यत इति सूचितम् । तच्च वृत्तिपदमञ्जर्योः स्पष्टम् । चकारात् ङीप् ऐकारौकाराभ्यां समुच्चीयते । तदाह । ताभ्यामिति ॥ ऐकारौकाराभ्यां समुच्चयेनैव विहित इत्यर्थः । ततश्च तदुभयाभावपक्षे ङीबपि नेति लभ्यते । “सन्नियोगशिष्टानां सह वा प्रवृत्तिस्सह वा निवृत्ति:’ इति परिभाषावशादिति भावः । इयन्तु परिभाषा ‘पूतक्रतोरै च' इतिसूत्रभाष्ये स्थिता । मनायीति ॥ यद्वै किञ्च मनुरवदत्' इत्यादौ मनुशब्दो 'ञ्नित्यादिर्नित्यम्’ इति आद्युदात्तः । “धान्ये नित् इत्यतो निदित्यनुवृत्तौ ‘शूस्वृन्निह’ इत्यादिना मनेरुप्रत्यविधेः । ततश्च शिष्टस्वरेण नकारादुकारः अनुदात्तः, तस्य स्थाने उदात्त ऐकारः, तस्यायादेशः ङीप्चेति भावः । मनावीति ॥ अत्रौ कारोऽनुदात्त एव । मनुरिति ॥ ऐकारस्य औकारस्य चाभावे तत्सन्नियोगशिष्टो ङीबपि नेत्युक्तमेव । वर्णादनु ॥ वेति ङीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणम् तदन्तविधिः, तोपधादित्यपि वर्णादित्यत्रान्वेति, तकारः उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः । वर्णादित्यस्य * स्वं रूपं शब्दस्य' इति वर्णशब्दादिति नार्थः, तोपधत्वासम्भ वात् । किन्तु वर्णवाचिनश्शब्दादित्यर्थो विवक्षितः । वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेष णम्, तदन्तविधिः, त इति षष्ठी । तकारस्येत्यर्थः । न इत्यत्र नकारादकार उच्चारणार्थः, नकार इत्यर्थः । तदाह । वर्णवाचीत्यादिना ॥ तदन्तादनुपसर्जनादिति ॥ अनुपसर्जनादि त्यनुवृत्तं वर्णान्ते अन्वेति, नतु वर्णादित्यत्रेति भावः । एनी-एतेति ॥ श्रेतेत्यर्थः । एत शब्दात् ङीप्, तकारस्य नकारश्च, ङीबभावे टाबेव, नत्वन्तु न भवति, ङीपा सन्नियोगशि ष्टत्वात् । एतशब्दश्वेतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरुद्रदत्तप्रभृतयो याज्ञिकाः । रोहिणी-रोहितेति ॥ रोहितशब्दो रक्तवर्णपर्यायः । ङीपि णत्वे रोहि णीति, तदभाव टाप् । अनुदात्तान्तत्वं गमयितुमाह । वर्णानामिति ॥ तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, तू इत्यन्तानां आदिरुदात्त इत्यर्थः । एत शाणः, शितिः, पृश्रिः, पृषत् इति क्रमेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य रोहितशब्दे ओकारस्य चोदात्तत्वे * अनुदात्तं पदमेकवर्जम्' इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्व दन्तानुदात्तत्वमित्यर्थः । ननु 'अनुपसर्जनात्' इत्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तम्

नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह । त्रयेण्येति ॥ त्रीणि एतानि श्वेतानि

प्रकरणम्]
३७१
बालमनोरमा ।

इति गृह्यम् । त्रीण्येतान्यस्या इति बहुव्रीहि अनुदात्तात्' किम् । श्वेता घृतादीनां च' (फ २१) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री । पिशङ्गादुपसंख्यानम्' (वा २४५५) । पिशङ्गी-पिशङ्गा। असितपलि तयोर्न' (वा २४५३) । असिता । पलिता । “छन्दसि क्रमेके' (वा २४५४) असिक्री । पलिक्री । अवदातशब्दस्तु न वर्णवाची, किं तु विशुद्धवाची तन्न अवदाता इत्येव ।

४९७ । अन्यतो ङीष् । (४-१-४०)


अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्रयेतशब्द तत्र एतशब्दस्य वर्णवाचिनः उपसर्ज नत्वात् “डीब्रत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्रयेतशब्दस्यानुप सर्जनत्वान्न दोष इति भावः । शलल्येति ॥ शल्यकाख्यमृगवेिशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्यमिति ॥ गृह्यन्ते सङ्गृह्यन्ते औपासनाग्निसाध्यकर्मण्यत्रेति व्युत्पत्त्या आपस्तम्बाश्वलायनादिप्रणीतकल्पसूत्रविशेष उच्यते त्रयेण्येति णत्वमार्षम् यजुर्वेदे तु “त्रि एण्या शलल्या निवर्तयेत' इति पठितम् । तत्र त्रीणि एतानि श्वेतानि यस्या इति विग्रहः। यणभावो णत्वञ्च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु “वर्णानान्तणति' इति श्वेतशब्दस्याद्युदात्तत्वात् शिष्टस्वरेणानुदात्तान्तत्वमेवत्यत आह । घृतादीनामिति ॥ अत इत्येवेति अजाद्यतष्टाप्' इत्यस्मात् अत इत्यनुवर्तत एवेत्यर्थः । शितिः स्त्रीति “शिती धवळमेचकैौ' इत्यमरः । पिशङ्गीति ॥ 'लघावन्ते' इति पिशङ्गशब्दस्य मध्यो दात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावात् अप्राप्तो डीबुपसङ्खयायते । “ अन्यतो डीषु' इति वक्ष्यमाणडीषोऽपवाद स्वरे विशेषः । असितेति ॥ वार्तिकमेतत् । असित शब्दस्य कृष्णवाचकतया पलितशब्दस्य श्वेतवाचकतया च वर्णानान्तणति इति प्राप्ते डीब्रत्वे निषिध्येते । छन्दसि क्रमेके इति ॥ इदमपि वार्तिकम् । असितपलितयो स्तकारस्य डीप्सन्नियोगेन क्रादेशम् अन्येय आचार्याः इच्छन्तीत्यर्थः। असिक्रीति ॥ आसित शब्दात् ङीप्तकारस्य क्रादेशे पररूपे 'यस्त्येति च' इत्यत्रकारलोपः। क्र इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्रीत्यपि पलितं जरसा शौकलयम्” इत्यमर ननु “अवदातः सितो गौरः” इति कोशादवदातशब्दस्य वर्णवाचित्वात् 'लघावन्ते ’ इति मध्योदात्ततया अनुदात्ता न्तत्वात्तोपधत्वाच्च वर्णोदनुदात्तात्' इति ङीघ्नत्वे स्यातामित्यत आह। अवदातशब्द स्त्निति ।। अवदातस्सिते पीते शुद्धे” इति कोशात् । 'दैप् शोधने' इत्यस्मात् तप्रत्यये अवदात्तशब्दस्य व्युत्पत्नेश्चेति भावः एतच्च ' पुंयागादाख्यायाम् इति सूत्र भाष्ये स्पष्टम् ।अवदातस्सितो गौरः” इति कोशस्तु शुद्धत्वसाधर्म्यात् बोध्द्यः। अन्यतो ङीष्।। पञ्चम्यास्तसिः । वर्णादिति, अनुदात्तादिति, तोपधादिति, चानुवर्तते । तत्र कस्मादन्यतः इत्यपेक्षायां तोपधादिति प्रतियोगित्वेनान्वेति । तोपधापेक्षया अन्यत इति । तदाह । ती

पधभिन्नादिति ॥ कल्माषीति॥ चित्रवर्णेत्यर्थः।चित्रकिम्मीरकल्माषशबऴैताश्च

३७२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

तोपधभिन्नाद्वर्णवाचिनोऽनुदात्तान्तात्प्रातिपदिकात्स्त्रियां ङीष्स्यात्। कल्माषी । सारङ्गी । लघावन्ते द्वयोश्च वह्वषो गुरु:' (फि ४२) इति मध्योः दात्तावेतौ । “ अनुदात्तान्तात्' किम् । कृष्णा । कपिलां ।

४९८ । षिदौरादिभ्यश्च । (४-१-४१)

षिद्भयो गौरादिभ्यश्च डीप:स्यात् । नर्तकी । गौरी । अनडुहः स्त्रियां आम् वा' (वा ४३७८) । अनडुही--अनङ्वाही । पिप्पल्यादयश्च' (ग ४७) । आकृतिगणोऽयम् ।

४९९ । सूर्यतिप्यागस्त्यमत्रथानां य उपधायाः । (६-४-१४९)

अङ्गस्योपधायाः यस्य लोपः स्यात्स चेद्यः सूर्याद्यवय । ' मत्स्यस्य ड-याम्' (४१९८) । ' सूर्यागस्त्ययोश्छे च ङयां च' (वा ४१९९) ।


कर्बुरे ” इत्यमरः । सारङ्गीति ॥ “सारङ्गश्शवळे त्रिषु' इत्यमरः । 'फिषोऽन्त उदात्त इत्यन्तोदात्तत्वशङ्कां व्युदस्यति । लघाविति । एतत्सूत्रं वृषाकपीति व्याख्याघसरे व्या ख्यातम् । कृष्णा । कपिलेति ॥ फिट्स्वरेणान्तोदात्ताविमाविति भावः । षिद्गोरादिभ्यश्च । ष् इत् येषान्ते षित गारः आदिः येषान्ते गोरादयः, षितश्च गौररादयश्चेति द्वन्द्वः। नर्तकीति ॥ 'नृती गात्रविक्षेपे' 'शिल्पिनि ष्चुन्' 'षः प्रत्ययस्य' इति षकार इत् , हलन्त्यम्' इति नकारश्ध इत्, युवोरनाकौ इति अकादशः, लघूपधगुणः, रपरत्वम्, नर्तक शब्दात् ङीष् टापोऽपवादः, “यस्येति च' इत्यकारलोपः इति भावः । गौरीति ॥ श्वेतेत्यर्थः । फिट्स्वरेण अन्तोदात्तत्वात् ‘अन्यतो डीप्' इत्यप्राप्तेरिह विधिरिति भावः । संज्ञाशब्दो वायम् । उमा कात्यायनी गौरी” इत्यमरः । “दशवर्षा भवेद्रौरी ' इति स्मृतिः । अनडुही अनङ्वाहीति ॥ अनडुहः स्त्रीत्यर्थः । अनो वहतीति यौगिको वा । गौरादिगणे निपातनादेव डीषि आम्विकल्पः । एवञ्च * अनुडुहः स्त्रियाम् आम् वेति वक्तव्यम्' इति वार्तिकन्न कर्तव्यमिति भावः । पिप्पल्यादयश्चेति । अत्र गौर, मत्स्य, मनुष्य, श्रृङ्ग, गवय, हय, मुकय, गौतम, अनङ्वाही, अनडुही, तरुण, तलुन, श्वन्, इति पठित्वा 'पिप्पल्यादयश्च' इत्युक्ता पिप्पली, हरीतकी, कोशातकी, पृथिवी, मातामही, इत्यादि पठितम् । तत्र पिप्पलीशब्दस्य जातिवाचित्वेऽपि नियतस्त्रीलिङ्गत्वात् डीषोऽप्राप्तरिह पाठः । श्वन्शब्दस्य तु 'ऋत्रेभ्य इति डीपि प्राप्त डीषंर्थः इह पाठः । स्वरे विशेषः । आकृतिगणोऽयमिति ॥ गौरादि रित्यर्थः । पिप्पल्यादेरवान्तरगणत्वे प्रयोजनं चिन्त्यम् । मत्स्यशब्दात् गौरादित्वात् डीषि विशेषन्दर्शयितुमाह । सूर्यतिष्यागस्त्य ॥ “ढे लोपोऽद्राः' इत्यतो लोप इत्यनुवर्तते । य इति षष्ठी, अङ्गस्येत्यधिकृतमवयवषष्ठयन्तम्, तच्च उपधायामन्वेति । अङ्गस्य उपधाभूतो यो यकारः तस्य लोपस्स्यादिति लभ्यते । सूर्यतिष्यागस्त्यमत्स्यानामित्यप्यवयवषष्ठयन्तं यकारेऽन्वेति, न त्वङ्गविशेषणम् । तदाह । अङ्गस्येत्यादिना ॥ मत्स्यस्य ङ्यामिति ॥

[स्त्रीप्रत्यय

प्रकरणम्]
३७३
बालमनोरमा ।

तिष्यपुष्ययोर्नक्षत्राणि यलोप इति वाच्यम्’ (वा ४२००) । मत्सी । “मा- तरि षिच' (वा २७१०) इति षित्वादेव सिद्धे गौरादिषु मातामहीशब्द पाठादनित्यः षितां डीष् । दंष्ट्रा ।

५०० । जानपदकुण्डगोणस्थलभाजनागकालनीलकुशकामुक कबरादृत्यमत्रावपनाकृत्रिमाश्राणास्थौल्यवर्णानाच्छादना योविकारमैथुनेच्छाकेशवेशेषु । (४-१-४२)

एकादशभ्यः प्रातिपदिकेभ्यः क्रमाद्वत्यादिष्वर्थेषु डीष्स्यात् । जान पदी वृत्तिश्चेत्, अन्या तु जानपदी । उत्सादित्वाद्ञ्यन्तत्वेन 'टिडू-' (सू ४७०) इति डीप्याद्युदात्तः । कुण्डी अमत्रं चेत्, कुण्डान्या । “कुडि दाहे' ।


तेनेह न, मत्स्यस्येदं मात्स्यम् । सूर्यागस्त्ययोश्छे च ङयाञ्चेति । सूरीयः । सूरी । अगस्तीय अगस्ती। नेह सौर्यम् । आगत्स्यम् । तिष्येति ॥ नक्षत्रेण युक्तः कालः सन्धिवेलाधृतुनक्षत्रेभ्योऽण्' इति च विहिते नक्षत्रसम्बन्धिनि अणि परतः तिष्यपुष्ययो र्यलोपः इत्यर्थः । तत्र तिष्यस्य यलोपो नियम्यते । पुष्यस्य त्वप्राप्तो विधीयते । तिष्येण युक्तः पूर्णमास तिध्ये भवो वा तैषः। एव पौषः। नेह । तिष्यस्य पुष्यस्य वाऽयं तैष्यः, पौष्यः । मत्सीति । मत्स्यशब्दात् गौरादिडीषि यलोपः, “यस्येति च' इत्यकारलोपः । ननु 'पितृव्यमातुलमातामहपितामहाः’ इति सूत्रे मातुः पिता पितुः पितेति विग्रहे मातृपितृभ्यां डामहचि टिलोपे मातामहपितामहशब्दौ निपातितौ । तत्र मातुर्माता पितुर्मातेति विग्रहे डामहचषित्वं विहितं “मातरि षिच्च ' इति । ततश्च षित्वविधानादेव ङीष् सिद्धेः गौरादिषु मातामहोशब्दपाठो न कर्तव्यः । नच 'मातरि षिच्च' इति न क्रियतामिति वाच्यम् । पितामहीत्यत्र डीषर्थ तस्यावश्यकत्वादित्यत आह । मातरीति । दंष्ट्रेति ॥ दंशेः दाम्नीशास' इति करणे ष्टून् । अत्र षित्वे सत्यपि न डीषिति भावः । सूर्यादीनामङ्गानामुपधा भूतस्य यकारस्य लोप इति तु न व्याख्यातम् । तथा सति सौरी बलाकेति न सिध्द्येत् । सूर्येणैकदिक् इत्यर्थे 'तेनैकदिक्' इत्यणि तदन्तात् डीपि अणन्तमङ्गम्, नतु सूर्यशब्द इति तदसिद्धिः । वचनन्तु सूरी कुन्तीत्यत्र चरितार्थमित्यन्यत्र विस्तरः । जानपद ॥ जानपदे त्यादि कबरादित्यन्तमेकपदम् । समाहारद्वन्द्वात् पञ्चमी । जानपदीति ॥ जनपदे भवेत्यर्थः । वृत्तिश्चेदिति ॥ जीविका गम्या चेदित्यर्थः । ननु “उत्सादित्वादञ्' इति डीपैव सिद्धे डीष् विधिव्यर्थ इत्यत आह । उत्सादित्वादिति ॥ * अनुदात्तौ सुप्पितौ' इति ङीप्याद्युदात्तत्वम् । डीषि तु प्रत्ययस्वरेरणान्तोदात्तत्वमिति भेद इत्यर्थः । कुण्डीति ॥ * पिठरं स्थाल्युखा कुण्डम् इत्यमरः । “पात्रामत्रे च भोजनम्' इति च । कुण्डशब्दस्य स्त्रीत्वमपि डीष्विधिसामर्थ्यात् ।

  • पिठरे तु न ना कुण्डम्' इति विश्वः । कुण्डान्येति ॥ दहनीयेत्यर्थः । तदेव विशदयति ।
    ३७४
    [स्त्रीप्रत्यय
    सिद्धान्तकौमुदीसहिता


'गुरोश्च हलः' (सू ३२८०) इत्यप्रत्ययः । यस्तु * अमृते जारजः कुण्ड इति मनुष्यजातिवचनस्ततो जातिलक्षणो ङीष् भवत्येव । अमत्रे हेि स्त्रीविषय त्वादप्राप्तो ङीष् विधीयते, न तु नियम्यते । गोणी आवपनं चेत्, गोणान्या । स्थली अकृत्रिमा चेवत्, स्थलान्या । भाजी श्राणा चेत्, भाजान्या । नागी स्थूला चेत्, नागान्या । गजवाची नागशब्दः स्थौल्यगुणयोगादन्यत्र प्रयुक्त उदाहरणम् । सर्पवाची तु दैर्ध्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत्, कालान्या । नीली अनाच्छादनं चेत्, नीलान्या । नील्या रक्ता शाटीत्यर्थः । * नील्या अन्वक्तव्यः' (वा २६८०) इत्यन् । अनाच्छादनेऽपि


कुडेि दाहे इति । गुरोश्चेति । गुरुमतो हलन्ताद्धातोः अप्रत्ययस्यात् भावकर्मणोः स्त्रि यामिति तदर्थः । ननु “ अमृते जारजः कुण्डो मृते भर्तरि गोळकः' इति मनुय्यजातिविशेष वाची कुण्डशब्दोऽपि प्रत्युदाहरणं किन्न स्यादित्यत आह । यस्त्विति ॥ जातिलक्षणः इति । जातेरत्रीविषयात्' इति जातिनिमित्तक इत्यर्थः । ननु अमत्रेऽपि वाच्ये कुण्डशब्दात् जाति लक्षणडीषि सिद्धे तद्वचनं व्यर्थम् । नच अमत्र एव डीषिति नियमार्थ तदिति वाच्यम् । एवं सति मनुष्यजातिविशेषवाचित्वे डीषोऽनुपपत्तेरित्यत आह । अमत्रे हेि स्त्रीविषयत्वा दिति ॥ 'जातेतरस्त्रीविषयात्' इत्यनित्यस्त्रीलिङ्गात् ङीष् विहितः । अमत्रे कुण्डशब्दो नित्य स्त्रीलिङ्गः, “पदान्तरं विना त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । “कुण्डी कमण्डली जारात् पतिवत्नीसुते पुमान्’ इति मेदिनीकोशाच्च । तथाच कुण्डशब्दात् जाति लक्षणडीषप्राप्त एव विधीयते, नतु नियम्यते । अतो मनुष्यजातिवाचित्वेऽपि डीष् निर्बाध इति भावः । आावपनञ्चेदिति ॥ ओप्यते निक्षिप्यते अस्मिन्नित्यर्थे आङ्पूर्वाद्वपे र्ल्युट् । गोणान्येति ॥ कस्याश्चिदिदन्नाम । अकृत्रिमा चेदिति ॥ इदानीन्तनपुरुषपरि ष्कृता भूमिः कृत्रिमा, तद्भिन्नेत्यर्थः । स्थलान्येति ॥ कृत्रिमेत्यर्थः । “स्थलयोदकं परिगृह्णन्ति’ इति यजुर्वेदे । भाजीति ॥ भज्यते सेव्यत इति कर्मणि घञ् । * घञ्जजबन्ताः पुंसि ' इति प्रायिकम् । श्राणा चेदिति ॥ “यवागूरुष्णिका श्राणा' इत्यमरः । भाजान्येति ॥ अश्रा णेत्यर्थः । “श्रा पाके' त्क्तः । संयोगादेरातो धातोर्यण्वतः' इति निष्ठानत्वम्, णत्वञ्च, पक्वेत्यर्थः । नागशब्दस्य स्थौल्ये क्वाप्यप्रसिद्धेराह । गजवाचीति । वर्णश्चेदिति ॥ वर्णः प्रवृत्तिनिमित्त चेदित्यर्थः । वर्णविशिष्टा चेति यावत् । अन्यथा कालशब्दस्य “गुणे शुक्लादयः पुंसि” इति पुंस्त्वापातात् । ।सूत्रे वर्णा इति च्छेदः । अर्श आद्यजन्ताट्टाप् । कालान्येति । क्रौर्ययुक्त त्यर्थः । संज्ञाशब्दो वा । अनाच्छादनञ्चेदिति। वस्रभित्रं गवादिकमित्यर्थः । नीलान्येति । नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः । पटीत्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे डीषः अप्रसक्तिरेव । 'नीलादोषधौ, प्राणिनि च' इति नियमस्य वक्ष्यमाणत्वादित्यत आह । नील्या रक्तेति । नील्या ओषध्या रागविशेषं प्राप्तेत्यर्थः । ननु कथमयमर्थो लभ्यत इत्यत

आह । नील्या अनिति ।। “तेन रक्तं रागात्, इत्यत्र इदं वार्तिकम् । नीलीशब्दादन्प्रत्यये

प्रकरणम्]
३७५
बालमनोरमा ।

न सर्वत्र । किन्तु ' नीलादोषधौ' (वा २४५६) । नीली । 'प्राणिनि च' (वा २४५८) । नीली गौः । “ संज्ञायां वा' (वा २४५७) । नीली-नीला । कुशी अयोविकारश्चेत्, कुशान्या "कामुकी मैथुनेच्छा चेत्, कामुकान्या । कबरी केशानां सन्निवेशश्चेत्, कबरान्या । चित्रेत्यर्थः ।

५०१ । शोणात्प्राचाम् । (४-१-४३)

शोणी-शोणा ।

५०२ । वोतो गुणवचनात् । (४-१-४४)

उदन्ताद्गुणवाचिनो वा डीष्स्यात् । मृद्वी-मृदु । “उतः' किम् ।


सति “यस्येति च' इति लोपे नीलशब्दः, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्व सत्वात् 'नीलादोषधौ प्राणिनि च' इति नियमे सत्यपि डीषः प्राप्तेस्तन्निवृत्त्यर्थमनाच्छादनग्रहण मिति भावः । ननु नीला कुण्डीत्यत्रापि अनाच्छादनत्वात् डीष् स्यादित्याशङ्कय आह । अना च्छादनेऽपीति । 'नीलादोषधौ, प्राणिनि च' इति वार्तिकमेतत् । नीलात् अनाच्छादनेऽपि भवन् डीष् ओषधौ प्राणिनि चैव स्यात्, न त्वन्यत्रेत्यर्थः । एवञ्च नीला कुण्डीत्यादौ न डीषिति भावः । “संज्ञायां वा' इत्यपि वार्तिकम् । संज्ञायामुक्तविषये तदन्यत्रापि डीषु वा स्यादित्यर्थः । अयोविकारश्चेदिति ॥ फाला इति प्रसिद्धः । कुशान्येति । छन्दोगसूत्रे ‘प्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसत्रेष्वेके प्रादेशमात्रीः कुशपृष्ठास्त्वत्क्तस्समामज्जते इति प्रसिद्धाः । कामुकीति ॥ कामयितुं शीलमस्या इति विग्रहे । 'लषपत' इत्यादिना कुमेरुकञ् । मैथुनेनच्छावती चेदित्यर्थः । अर्शआद्यजन्ताट्टाप् । कामुकान्येति । धनादीच्छा वतीत्यर्थः । शोणात् प्राचाम् । 'रोहितो लोहितो रक्तश्शेोण कोकनदच्छविः' इत्यमरः ।

  • वर्णानान्तणतिनितान्तानाम्' इति शोणशब्दः आद्युदात्तः अनुदात्तान्तः । ‘अन्यतो डीष्

इति नित्यं डीषि प्राप्त विकल्पार्थमिदम् । वोतो गुणवचनात् ॥ प्रातिपदिकादि त्यनुवृत्तम्, वा उत इति च्छेदः । उतः गुणवचनस्य प्रातिपदिकस्य विशेषणात् तदन्त विधिः । तदाह । उदन्तादिति । वा डीषिति ॥ डीबिति नात्रानुवर्तते । “गुणवचनात् डीषाद्युदात्तार्थः' इति वार्तिकादिति भावः । मृडीति ॥ मृदुशब्दात् डीषि य्ण् । अत्र सत्त्वे निविशतेऽपैति पृथक्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ।।' इति भाष्ये गुणलक्षणमुक्तम् । सत्त्वं द्रव्यं समवायिकारणं, तत्रैव निविशते समवैति यः स गुण इत्यन्वयः । द्रव्यमात्रसमवेत इति यावत् । मात्रपदात् सत्ताजातिर्व्यवच्छिद्यते । तस्याः द्रव्यगुणक्रियावृत्तित्वात् । अथ द्रव्यत्वे अतिव्याप्तिवारणाय आह । अपैतीति । कतिपय द्रव्यादपगच्छतीत्यर्थः । द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वान्नातिव्याप्तिरिति भावः । एवमपि गोत्वे अतिव्याप्तिवारणाय आह । पृथग्जातिषु दृश्यते इति । पृथक् भिन्नाः जातयः येषां ते

पृथग्जातयः, भिन्नजातीयद्रव्यवृत्तिरिति यावत् । गोत्वस्य गोजातीयेष्वेव सत्त्वात् भिन्नजाती

३७६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

शुचिः । 'गुणः-' इति किम् । आखुः । 'खरुसंयोगोपधान्न ' (वा २४६०) । 'खरुः, पर्तिवरा कन्या' । पाण्डुः ।

५०३ । बह्वादिभ्यश्च । (४-१-४५)


येषु अश्वादिष्वसत्त्वान्नातिव्याप्तिरिति भावः । एवमपि क्रियायामतिव्याप्तिवारणाय आह । आधेयश्चाक्रियाजश्चेति । आधीयते उत्पाद्यते इत्याधेयः उत्पाद्यः अक्रियाजः अनुत्पाद्यः । उत्पाद्यत्वानुत्पाद्यत्वाभ्यां द्विविध इति यावत् । गुणो नित्यानित्यभेदेन द्विविधो भवति । नित्यगतानां गुणानां नित्यत्वात्, अनित्यगतानामनित्यत्वात् । क्रियायास्तु सर्वस्या अप्युत्पा द्यत्वान्नातिव्याप्तिरिति भावः । एवमपि द्रव्ये अतिव्याप्तिः । तस्य अवयवद्रव्यसमवेतत्वात् विजातीयपार्थिवाद्यवयवेषु सत्त्वात् नित्यानित्यभेदसत्त्वाच्च । अत आह । असत्त्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । द्रव्यभिन्न इति यावत् । मात्रपदेन सत्ताजातेः, अपैती

त्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासात् तद्रिन्नत्वमिति लब्धम् । 'आधेयश्चाक्रियाजश्च' इत्यनेन क्रियानिरासात् क्रियाभिन्नत्वं लब्धम् । असत्वप्रकृतिः इत्यनेन द्रव्यस्य निरासान् द्रव्यभिन्नत्वं लव्धम् । तथाच जातिभिन्नत्वे सति क्रियाभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं वेदितव्यम् । समवेतत्वाभावादभावनिरासः । अत्र नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता एव' इति तार्किकाभिमतविशेषपदार्थङ्गीकारे तद्भिन्नत्व मपि निवेश्यम् । “ आकडारादेका संज्ञा' इतिं सूत्रभाष्ये तु “समासकृदन्ततद्धितान्तसर्वनाम जातिसङ्कयासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंझं भवति ” इत्युक्तम् । तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्यास्योक्त्तस्य प्रपञ्चनपरं वेदितव्यम् । परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्युपात्तम् । तदप्युक्तलक्षणे निवेश्यम् । न चैवमपि मृदुपट्वादिशब्दानां गुणविशिष्टद्रव्यवाचित्वात् गुणवचनत्वाभाव इति वाच्यम् । गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जन द्रव्यवाचित्वस्यैव विवक्षितत्वात् । एवञ्च रूपशब्दस्य न गुणवचनता, तस्य प्राधान्येन रूप वाचितया रूपवति प्रयोगाभावात् । रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणे “गुणवचनेभ्यो मतुपो लुगिष्टः” इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ रूपो घटः इत्यादिप्रयोगापत्तेः । प्रप ञ्चितचैतदरुणाधिकरणेऽस्माभिरध्वरमीमांसाकुतूहलवृत्तौ । शुचिरिति । शुक्लेत्यर्थः । “शुक्ल शुभ्रशुचिवश्वेतविशदश्येतपाण्डुराः” इत्यमरः । नच शुचिधातोः “इगुपधात् कित्' इत्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आकडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र डीषु न भविष्यतीति वाच्यम् । उणादीनाम् अव्युत्पतिपक्षाश्रयणात् । आखुरिति । मूषिके त्यर्थः । आखोस्तु जातिविशिष्टद्रव्यवचनत्वादुक्तगुणवचनत्वाभावान्न ङीप् । 'खरुसंयोगोपधान्न इति वार्तिकम् । खरुश्च संयोगोपधश्चेति समाहारद्वन्द्व । खरुशब्दात् संयोगोपधाच्च “वोतो गुणवचनात्’ इति डीप् नेत्यर्थः । खरुशव्दमप्रसिद्धत्वात् व्याचष्टे । पर्तिवरा कन्येति । पतिलाभोत्कण्ठावतीत्यर्थः । औत्कण्ठ्यलक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः ।

पाण्डुरिति । श्वेतेत्यर्थः । संयोगोपधत्वात् न ङीप् । बह्वादिभ्यश्च । गुणवचनत्वादेव

प्रकरणम्]
३७७
बालमनोरमा ।

एभ्यो वा डीष्स्यात् । बह्वी-बहुः । 'कृदिकारादक्तिन:' (ग ५०) । रात्रिः-रात्री । “सर्वतोऽक्तिन्नर्थादित्येके' (ग ५१) । शकटिः-शकटी । अक्तिन्नर्थात्' किम् । अजननिः । क्तिन्नन्तत्वाद्प्राप्ते विध्यर्थे पद्धतिशब्दो गणे पठ्यते । “हिमकाषिहतिषु च' (सू ९९२) इति पद्भावः । पद्धतिः-पद्धती ।

५०४ । । पुंयोगादाख्यायाम् । (४-१-४८)

या पुमाख्या पुंयोगात्स्रियां वर्तते ततो डीष्स्यात् । गोपस्य स्री गोपी । 'पालकान्तान्न (वा २४६१) । गोपालिका । अश्वपालिका । सूर्याद्देवतायां


सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः । वस्तुतस्तु अनुपदोदाहृताकडारसूत्रभाष्यरीत्या सङ्कयासंज्ञक शब्दानां गुणवचनत्वाभावात् अप्राप्तस्य डीषो विधानार्थ बहुग्रहणमित्याहुः । बह्वी-बहुरिति ॥ वैपुल्यवाची बहुशब्दोऽयम् । त्रित्वादिसमनियतसङ्खयाविशेषवावित्वे तु एकवचनानुपपत्तेः । वैपुल्यवाचित्वेऽपि ‘बहुगणवतुडति सङ्खया’ इति सङ्खयाशब्दत्वात् न गुणवचनत्वमिति न वैयर्थ्यं मिति भावः । “कृदिकारादक्तिनः' इति बह्वाद्यन्तर्गणसूत्रम् । कृतो य इकारस्तदन्तात् प्रति पदिकात् डीष् वा स्यात्, न तु क्तिन्नन्तादित्यर्थः । रात्रिः-रात्रीति ॥ 'राशदिभ्यां त्रिप् इति राधातोरौणादिकस्त्रिप् । गुणवचनत्वाभावात् उदन्तत्वाभावाच्चाप्राप्ते वचनम् । “सर्वतोऽक्ति न्नर्थादित्येके' इत्यपि बह्याद्यन्तर्गणसूत्रमेव । कृदिकारान्तादकृदिकारान्तादपि डीष् वा स्यात् । नतु क्तिन्नर्थकप्रत्ययान्तादित्यर्थः । शकटिः-शकटीति ॥ शकटिशब्दस्य अव्युत्पन्नप्राति पदिकत्वात् कृदन्तत्वाभावात् सर्वत इति वचनम् । अव्युत्पत्तिपक्षे रात्रिशब्दोऽप्युदाहरणं बोध्द्यम् । अजननिरिति ॥ स्त्रियां क्तिन्' इत्यधिकारे “ आक्रोशे नञ्यनिः' इति नञि उपपदे जनेरनिप्रत्ययः, अक्तिन इत्युक्तौ अत्र निषेधो न स्यात् । अतः अक्तिन्नर्थादित्युक्तिरिति भावः । ननु हनधातोः स्त्रियां कर्मणि क्तिनि “अनुदात्तोपदेश' इत्यादिना नलोपे हतिशब्दः, तस्य क्तिन्नन्तत्वात् कथं पद्धतिशब्दात् डीषित्यत आह । क्तिन्नन्तत्वादिति ॥ गणे इति ॥ बह्वादिगण इत्यर्थः । ननु पादाभ्यां हृतिरिति विग्रहे “कर्तृकरणे कृता बहुळम्' इति तृतीया समासे सुब्लुकि पाद हति इति स्थिते कथं पदादेशः, “पादः पत्' इत्यत्र कृतसमासान्तलोपस्यैव पाद्शब्दस्य ग्रहणात् भत्वाभावाच्च 'पादस्य पदाज्यातिगोपहतेषु' इत्यपि न सम्भवति । तस्य आज्यादिष्वेव परेषु प्रवृत्तेरित्यत आह । हिमकाषीति ॥ हिमादिषु परेषु पादशब्दस्य पदादेशस्यादिति तदर्थः । पुंयोगात् ॥ पुंयोगादिति हेतौ पञ्चमी । आख्यायामिति पञ्च म्यास्सप्तम्यादेशः । 'सुपां स्थाने सुपो भवन्तीति वक्तव्यम्’ इत्युक्तेः । आख्येत्यनेन वाचक श्शब्दो विवक्षितः, कस्य वाचकः इत्यपेक्षायां पुंयोगादित्युपस्थितत्वात् पुंस इति लभ्यते । तथाच आख्यायामित्यनेन पुंसि प्रसिद्धात् शब्दादिति लभ्यते । पुंयोगादिति त्रियामित्यत्रान्वेति। तथाच पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानादिति लभ्यते । तदाह । या पुमाख्ये त्यादिना ॥ डीषिति । “अन्यतो डीष्’ इत्यतस्तदनुद्युतेरिति भावः । 'वोतो गुणवचनात्

8

३७८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

चाब्वाच्यः' (वा २४७१) । सूर्यस्य स्त्री देवता सूर्या । “ देवतायाम् ' किम् । सूरी कुन्ती । मानुषीयम् ।


इति पूर्वसूत्रे तु “गुणवचनात् डीषाद्युदात्तार्थम्' इति वार्तिकात् डीषु लब्ध इति न तत्रास्यानु वृत्तिः । गोपस्य स्त्रीति । गाः पातीति गोपः, “आतोऽनुपसर्गे कः' तज्जायायान्तु गोरक्षणा भावेऽपि तद्भार्यात्वात् तद्वयपदेशः । ततश्च पुंयोगमाश्रित्य लक्षणया स्त्रियां वर्तमानत्वात् डीषि यस्येति च' इत्यकारलोपः इति भावः । हरेः स्त्री, शम्भोः स्त्री, इत्यादौ न डीष्। स्त्रीप्रत्यय विधिप्रकरणे अतः इत्यनुवृत्तेः । या तु स्वयमेव गाः पाति, नतु गोपस्य स्त्री, सा तु गोपा । तत्र गोपशब्दस्य स्वत एव स्त्रियां वृत्त्या पुंयोगादवृत्तेः । नच गोपस्य माता श्वश्रूः मातुलानी वा गोपीति स्यादिति वाच्यम्। अकुर्वती पापं भर्तृकृतान् वधबन्धादीन् यथा लभते एवं तच्छब्द मपीति भाष्यस्वारस्येन जायापत्यात्मकस्यैव पुंयोगस्य विवक्षितत्वात् । दुहितरि केकयी, देवकी इत्यादयस्तु गौरादौ पाठ्या इति शब्देन्दुशेखरे स्थितम् । आख्याग्रहणं किम् । प्रसूता । अयं हिशब्दो जातप्रसवाम हि । स च प्रसवः पुंयोगानिमित्तक तन्निमित्ता चास्य स्त्रियां वृत्तिः, न त्वयं पुंसि प्रसिद्धः, अतो न डीष्, अत्र ‘गोपालकादीनां प्रतिषेधः' इति वार्तिकम् । अत्र आदिपदेन अश्वपालिकेत्यादयः पालकान्ता एव गृह्यन्ते । भाष्ये तेषामेवोदाहरणात् । तदाह । पालकान्तान्नेति ॥ पुंयोगलक्षणडीषिति शेषः । गोपालिकेति ॥ गोपालकस्य स्त्रीत्यर्थः । ननु पालयतीति पालकः, कर्तरि ण्वुल्, 'युवोरनाकौ' इत्यकादेशः । ‘णेरनिटि' इति णिलोपः। गवां पालकः इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः । तत्र किं शेषषष्ठी उत “कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । न तावदाद्यः । प्रत्ययलक्षणमाश्रित्य टाप स्समासावयवात् पालकशब्दात् उत्पन्नसुपः परत्वेन असुप इति निषेधात् 'प्रत्ययस्थात्' इति इत्वानुपपत्तेः । नचास्तु कर्मणि षष्ठीति द्वितीयः पक्षः । “गतिकारकोपपदानां कृद्भिस्सह समास वचनं प्राक्सुबुत्पत्तेः’ इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठया स्समासे सति समासात् उत्पन्नस्य टापस्सुपः परत्वाभावेन इत्वस्य निर्बाधत्वादिति वाच्यम् । तृजकाभ्यां कर्तरि ' इति “कृद्योगलक्षणा षष्ठी न समस्यते' इति कारकषष्ठयास्समासनिषेधात् इति चेत् । मैवम् । गाः पालयतीति गोपालः । कर्मण्यण् । उपपदसमासः । गापाल एव गोपालकः, स्वार्थिकः कः । तद्धितावयवत्वात् सुब्लुक्। गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्या श्रयणात् । नह्यत्र टाप् सुपः परः, केन व्यवधानात् । अस्तु वा शेषष्ठया समासः । एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ठयास्समासप्रवृत्तेः। अत एव प्रकृतसूत्रे 'उपपदमतिङ्’ इति सूत्रे च भाष्ये “कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषष्ठ्यासमासःउपन्यस्तस्सङ्गच्छते इति शब्देन्दुशेखरे प्रपञ्चितम् । सूर्या द्देवतायामिति ॥ देवताभूतायां स्त्रियां पुंयोगाद्वर्तमानात् सूर्यशब्दात् चाप् वक्तव्यः इत्यर्थः । पुंयोगात्’ इति डीषोऽपवादः । चपावितौ । सूर्येति ॥ चापि सवर्णदीर्घः । देवतायां किमिति ॥ सूर्यस्त्रियां देवतात्वाव्यभिचारात् प्रश्रः । सूरी कुन्तीति ॥ डीषि 'सूर्यतिष्य

इति यकारलोपः, 'यस्येति च' इत्यकारलोपः । मानुषीयमिति ॥ इयं कुन्ती मानुषी

प्रकरणम्]
३७९
बालमनोरमा ।

५०५ ।इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययव यवनमातुलाचार्याणामानुक् । (४-१-४९)

एषामानुगागम: स्यान्डीष्च । इन्द्रादीनां षण्णां मातुलाचार्ययोश्च पुंयोग एवेष्यते । तत्र डीषि सिद्धे आनुगागममात्रं विधीयते । इतरेषां चतुर्णा मुभयम् । इन्द्राणी । 'हिमारण्ययोर्महत्वे' (वा २४७२) । महद्धिमं हिमानी । अरण्यानी । “यवाद्दोषे' (वा २४७३) । दुष्टो यवो यवानी । * यवना ल्लिप्याम्' (वा २४७४) । यवनानां लिपिर्यवनानी । मातुलोपाद्धयाययोरानु ग्वा । मातुलानी-मातुली । उपाद्धयायानी—उपाद्धयायी । या तु स्वयमेवाद्धया


न तु देवतेत्यर्थः । तच्च महाभारतादौ स्पष्टम् । नच “सूर्याद्देवतायान्न ” इत्येवोच्यताम्, डीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यम्, टापि हि सति पित्वादनुदात्तत्वम् । “ अनुदात्तौ सुप्पितौ इत्युक्तेः । चापि तु “चितः' इत्यन्तोदात्तत्वमिति भेदः । इन्द्रवरुण ॥ आनुगागम इति ॥ कित्वादागमलिङ्गादिति भावः । डीष् चेति ॥ 'अन्यतो डीष्' इत्यतस्तदनुवृत्तेरिति भावः । पुंयोग एवेष्यते इति ॥ पुंयोगादित्यनुवृत्तेः तेषां स्त्रीत्वे पुंयोगं विना अप्रवृत्तेश्चेति भावः । नन्वेवं पुंयोगादित्येव सिद्धे डीष्विधिर्व्यर्थ इत्यत आह । तत्रेति ॥ तत्र इन्द्रादषट्सु मातु लाचार्ययोश्च पुंयोगादित्येव डीषि सिद्धे तत्सान्नियोगेन आनुगागममात्रं विधीयते इत्यर्थः । इतरेषामिति ॥ हिमारण्यवयवनानान्तु आनुक् ङीष् चेत्युभयं विधीयते । तत्र पुंयोग स्यासम्भवादिति भावः । इन्द्राणीति ॥ आनुकि ककार इत्, उकार उच्चारणार्थः, कित्त्वा दन्तावयवः, सवर्णदीर्घः, णत्वमिति भावः । वरुणानी, भवानी, शर्वाणी, रुद्राणी, मृडानी इत्युदाहरणानि सुगमत्वात् उपेक्षितानि । दीर्घोच्चारणं विना अनुग्विधौ तु पररूपापतिः । अकारोच्चारणस्य अल्लोपनिवृत्त्या चरितार्थत्वात् । नुग्विधौ तु अल्लोपापत्तिरित्यन्यत्र विस्तरः । हिमारण्ययोर्महत्त्वे इति वार्तिकम् । महत्त्वविशिष्ट हिमे अरण्ये च वर्तमानयोरानुड्डीषा वेित्यर्थः । महद्धिमं हिमानीति ॥ महत्त्वयोगे स्त्रीत्वमत एव ज्ञेयम् । अरण्यानीति ॥ महदरण्यमित्यर्थः । “यवाद्दोषे' इति वार्तिकम् । आनुड्डीषाविति शेषः । दुष्टयवे वृत्तौ स्त्रीत्वमत एव ज्ञेयम् । यवनाल्लिप्याम् इत्यपि वार्तिकम् । लिपिरक्षरविन्यासः । तत्र लक्षणया वृत्तौ आनुड्डीषावित्यर्थः । मातुलोपाध्द्याययोरानुग्वेति ॥ इदमपि वार्तिकम् । अत्र पुंयोगादिति सम्बध्द्यते । हिमादिष्विवात्र असम्भवाभावात् । अत्र आनुगव तु विकल्प्यते आनुगभावेऽपि पक्षे डीष् भवत्येव । मातुलान्नित्यं प्राप्ते उपाध्ध्यायादप्रासे विभाषेयम् । मातु लानी-मातुलीति ॥ मातुलस्य स्त्रीत्यर्यः । उपाध्द्यायानी-उपाध्द्यायीति ॥ उपाध्द्या यस्य स्त्रीत्यर्थः । या तु स्वयमेवेति ॥ इदन्तु वार्तिकं तृतीयस्य तृतीये 'इडश्च इति सूत्रे पठितम् । या स्वयमेव अध्ध्यापयति न तूपाध्द्यायस्य स्त्री, तत्र पुंयोगाभावे

केवलडीष्विकल्पो वाच्य इत्यर्थः। युगान्तरे ब्रह्मवादिन्यः स्त्रियस्सन्ति, तद्विषय

३७०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

पिका तत्र वा डीषु वाच्यः । उपाद्धयायी—उपाद्धयाया । “ आचार्यादणत्वं (वा २४७७) । आचार्यस्य स्त्री आचार्यानी । पुंयोग इत्येव । आचार्या, स्वयं व्याख्यात्री ।' अर्यक्षत्रियाभ्यां वा' (वा २४७८) । अर्याणी-अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षत्रियाणी-क्षत्रिया । पुंयोगे तु, अर्यी । क्षत्रियी कथं । ब्रह्माणी' इति । ब्रह्माणमानयति जीवयतीति । ‘कर्मण्यण् '(सू २९१३)

५०६ । क्रीतात्करणपूर्वात् । (४-१-५०)

क्रीतान्तादन्तात्करणादेः स्त्रियां ङीष्स्यात् * वस्त्रक्रीती । 'क्वचिन्न' धनक्रीता ।


मिदम् । “पुरा युगेषु नारीणां मौञ्जीबन्धनमिष्यते। अध्द्यापनश्च वेदानां सावित्रीवचन न्तथा।” इति स्मरणात् । आाचार्यांदणत्वञ्च इत्यपि वार्तिकम् । चकारः आनुड्डीषोस्समुच्च यार्थः । आचार्यानीति ॥ आचार्यस्य स्रीत्यर्थः । ‘अट्कुप्वाङ्' इति णत्वं न भवति उपनीय तु यशिष्यं वेदमध्द्यापयेत्तु यः । सकल्पं सरहस्यञ्च तमाचार्य प्रचक्षते ॥” “एकदेशमुपाध्द्यायम् इति स्मृतिः । पुंयोग इत्येवेति ॥ पुंयोगग्रहणमनुवर्तत एवेत्यर्थः। तत्प्रयोजनमाह । आ चार्येति । अत्र पुंयोगाभावं विशदयति । स्वयं व्याख्यात्रीति ॥ धर्मोपदेष्ट्रीत्यर्थ यस्माद्धर्मानाचिनोति स आचार्यः' इति स्मरणादिति भावः । अर्यक्षत्यिाभ्यां वा इति वार्तिकम् । आनुड्डीषाविति शेषः । स्वार्थ इति व्याख्यानलभ्यम्, तेन पुंयोगनिरासः, अत एव भाष्ये “अर्याणी-अर्या' इत्येवोक्तम् । पुंयोग एव प्रवृत्तौ तु उपाध्द्यायीतिवत् अयति डीष मेवोदाहरेत् । अर्यशब्दं व्याचष्टे । स्वामिनी, वैश्या वेत्यर्थ इति ॥ * अर्यः स्वामिवैश्य योः' इति निपातनादिति भावः । क्षतूियाणी-क्षतूियेति ॥ क्षतूियात् क्षतूियायां भार्या यामुत्पन्नेत्यर्थ सवर्णेभ्यस्सवर्णासु जायन्ते हि सजातयः' इत्युपक्रम्य *विन्नास्वेष्वधिस्मृत इति स्मरणात् । विन्नास्वित्यस्य ऊढास्वित्यर्थः । पुंयोगे तु अर्यीं क्षतूियीति ॥ अर्यस्य स्त्री अर्यी, क्षत्तूियस्य स्त्री क्षत्तूियी, वैश्या शूद्रा वेत्यर्थः । कथमिति ॥ 'इन्द्रवरुण इत्यादिसूत्रे ब्रह्मन्शब्दस्य अग्रहणात् ब्रह्मणः स्त्रीत्यर्थे ब्रह्माणीत्यानुड्डीषौ कथमिति प्रश्नः। उत्तरमाह । ब्रह्माणमिति ॥ आनयतीत्यस्य व्याख्यानं जीवयतीति। अन प्राणने प्राणनं जीवनम्, अस्माद्धातोर्हेतुमण्णिचि उपधावृद्वौ तिपि शपि गुणायादेशयोः आनयतीति रूपम् । भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात् । ततश्च ब्रह्माणमानयतीति विग्रहे आनि इति ण्यन्तात् “ कर्मण्यण्' इति अणि “णेरनिटि' इति णिलोपे आनशब्देन ब्रह्माणमित्यस्य उपपद समासे सुब्लुकि सवर्णदीर्घे ब्रह्मानशब्दात् “टिड्ढाणञ्' इति डीपि 'यस्येति च' इत्यकारलोपे पूर्वपदात् संज्ञायाम्' इति णत्वे ब्रह्माणीति रूपमिति भावः । “एकाजुत्तरपदे' इति तु न आणि सति प्रातिपदिकस्य यच्कत्वात् । लुप्तेऽप्यणि लोपस्य स्थानिवत्वात् । पूर्वत्रासिद्धीये न स्थानिवत्' इति तु न तस्य दोषः' इत्युक्तेः । क्रीतात्करणपूर्वात् ॥ प्रातिपदिकादित्य

नुवृत्तम् अत इत्यनुवृत्तेन क्रीतादित्यनेन च विशेष्यते, तदन्तविधिः । तदाह । क्रीतान्ता

प्रकरणम्]
३८१
बालमनोरमा ।

५०७ । क्तादल्पाख्यायाम् । (४-१-५१)

करणादेः क्तान्ताद्दन्तात्स्त्रियां ङीष्स्यादल्पत्वे द्योत्ये । अभ्रलिप्ती द्यौः । 'अल्पाख्यायाम्' किम् । चन्दनलिप्ता अङ्गना ।

५०८ । बहुव्रीहेश्चान्तोदात्तात् । (४-१-५२)

बहुव्रीहेः क्तान्तादन्तोदात्ताद्दन्तात्स्त्रियां ङीष्स्यात् । 'जातिपूर्वादिति वक्तव्यम्' (वा २४८४) । तेन “ बहुनञ्सुकालसुखादिपूर्वान्न' ऊरुभिन्नी ।


दित्यादिना ॥ करणमादिर्यस्येति विग्रहः । प्रातिपदिकशब्दो विशेष्यम्, तेन करणादे रिति पुंस्त्वमुपपन्नम् । वस्त्रक्रीतीति ॥ ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे कर्तृकरणे कृता बहुळम्’ इति समासात्मकं प्रातिपदिकम् आदन्तमेव, न त्वदन्तमिति कथमत्र डीषिति चेत्, सत्यम् । समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः । वस्र भिस् क्रीत इति स्थिते 'गतिकारकोपपदानां कृद्भिस्सह समासवचनं प्राक् सुबुत्पत्तेः’ इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे 'सुपो धातु' इति सुब्लुकि वस्रक्रीतेति प्रातिपदिकस्य अदन्तत्वन्निर्बाधमिति भावः । एतञ्च 'पुंयोगादाख्यायाम्' इति सूत्रे भाष्ये स्पष्टम् । तर्हि धनकीतेत्यत्रापि डीष् स्यादित्यत आह । क्व चिन्नेति ॥ 'कर्तृकरणे कृता बहुळम्' इति बहुळग्रहणेन “गतिकारकोपपदानाम्' इत्यस्य क्वचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः। तत्र च सुपः प्रागेवान्तरङ्गत्वात् टापि सति ततस्सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तत्वाभावान्न डीषित्यर्थः । एवञ्च अत इत्यनुवृत्तेरेतत्प्रयोजनमित्युक्तं भवति । एतच्च 'उपपदमतिङ्' इत्यत्र कैयटे स्पष्टम् । करणपूर्वात् किम् । सुक्रीता । नचैव मपि वस्त्रेण क्रीतेति वाक्यात् डीष्प्रसङ्गः । क्रीतेति प्रातिपदिकस्य करणपूर्वत्वात् अदन्तत्वाच्चेति वाच्यम् । करणपूर्वादिति हि क्रीतान्तस्य प्रातिपदिकस्य विशेषणम्, नतु क्रीतशब्दस्य । करणं पूर्व यस्मिन् इति बहुव्रीहिः । करणशब्दात्मकपूर्ववयवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थ । एतदर्थमेव पूर्वग्रहणम् । अन्यथा क्रीतात्करणादित्येवावक्ष्यदित्यलम् । क्तादल्पाख्यायाम्।। करणादेरिति ॥ करणपूर्वादित्यनुवृत्तेरिति भावः । त्क्तान्तादिति ॥ क्तान्तान्तादित्यर्थः । प्रत्यग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात् । अदन्तादिति ॥ अत इत्यनु वृत्तरिति भावः । अल्पत्वे द्योत्ये इति ॥ अल्पाख्यायामिति समुदायोपाधिः । अल्पत्वं करणगतं क्रियागतं वा । अभ्रलिप्ती द्यौरिति ॥ अभ्रैरल्पैराच्छन्नेत्यर्थः । अभ्ररीषदाच्छ न्नेति वा । बहुव्रीहेश्च ॥ क्तादिति अत इति चानुवर्तते । तदाह । बहुत्रीहेरिति ॥ क्तान्तादिति ॥ क्तान्तान्तादित्यर्थः । तेनेति ॥ जातिपूर्वादिति विशेषणेन बह्वादिपूर्वान्न डीष् इत्यर्थः । “सुखादिभ्यः कर्तृवेदनायाम्' इत्यत्र सुखादिगणः पठितः । “जातिकालसुखा दिभ्योऽनाच्छादनात् तो कृतमितप्रतिपन्नाः' इति “नञ्सुभ्याम्' इति, बहोर्नञ्वदुत्तरपद भूम्नि' इति च, क्तान्तबहुव्रीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युत्तेर्बह्वादिपूर्व

स्यान्तोदात्तत्वेऽप्यर्थात् पर्युदास इति भावः । ऊरुभिन्नीति ॥ ऊरू भिन्नौ असंयुक्तौ

३८२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

नेह बहुक्रीता । “जातान्तान्न' (वा २४७९) । दन्तजाता । * पाणिगृहीती भार्यायाम्' (वा २४८०) । पाणिगृहीता अन्या ।

५०९ । अस्वाङ्गपूर्वपदाद्वा । (४-१-५३)

पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती-सुरापीता। “ अन्तोदात्तात् किम् । वस्त्रच्छन्ना । “ अनाच्छादनात्' इत्युदात्तनिषेधः । अत एव पूर्वेणापि

५१० । स्वाङ्गाचोपसर्जनादसंयोगोपधात् । (४-१-५४)


यस्या इति विग्रहः । ‘निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति । जातिकालसुखा दिभ्यः परा निष्ठा वाच्या' इति वार्तिकात् । “जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्त मिदम् । जातिलक्षणन्तु 'जातेतरस्रीविषयात्' इत्यत्र वक्ष्यते । बहुक्रीतेति । बहवः क्रीताः ययेति विग्रहः । अकृता, मासयाता, सुखयाता, दुःखयाता, इति च भाष्ये प्रत्युदाहृतम् । जातान्तान्न इति वार्तिकम्। ‘बहुव्रीहेश्च' इत्युक्तो डीष् नेत्यर्थः । दन्तजातेति । दन्ताः जाताः यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः । पाणिगृहीती भार्यायामिति ॥ इदमपि वार्तिकम्। विधिवदूढा भार्या, तस्यां विद्यमानादेव पाणिगृहीतशब्दात् डीषित्यर्थः। विवाहकाले विधि वत् पाणिः गृहीतो यस्या इति विग्रहः । पाणिगृहीतान्येति । दास्यादिरित्यर्थः । अस्वाङ्गपूर्व पदाद्वा ॥ स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते । अस्वाङ्गं यत् पूर्वपदं तस्मात् परं यत् क्तान्तं तदन्तात् बहुव्रीहेडीष् वा स्यात् इति सूत्रार्थः । यद्यपि अस्वाङ्गं पूर्वपदं यस्य तस्मात् त्क्तान्त बहुव्रीहेरित्यपि व्याख्यातुं शक्यम् । तथापि उत्तरसूत्रे अस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारय समासाश्रयणात् इहापि तथा व्याख्यानमुचितम् । ननु बहुकृता अंकृता इत्यादावपि अस्वाङ्गपूर्व पदक्तान्तबहुव्रीहित्वात् डीष्विकल्पस्यादित्याशङ्कय आह । पूर्वेणेति ॥ ‘बहुव्रीहेश्चान्तोदात्तात् इति पूर्वसूत्रेण नित्यं डीषि प्राप्त तद्विकल्पोऽत्र विधीयते इत्यर्थः । एवञ्च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य च इहापि सम्बन्धात् बहुकृता इत्यादौ नातिप्रसङ्ग इति भावः । सुरापीती सुरापीतेति ॥ सुरा पीता ययेति विग्रहः । ऊरुभिन्नीतिवत् पूर्वनिपातः । अन्तोदात्तात् किमिति ॥ 'बहुव्रीहेश्व' श्रुतं 'अस्वाङ्गपूर्वपदाद्वा' इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत् इत्यत्र किमर्थमिति प्रश्रः । वख्त्रच्छन्नेति ॥ ऊरुभिन्नीतिवत् पूर्वनिपातः । अथ वस्रच्छन्नेत्यत्र 'जाति कालसुखादिभ्यः’ इत्यन्तोदात्तत्वमाशङ्कय निरस्यति । अनाच्छादनादिति ॥ तथाच बहुव्रीहि त्वात् पूर्वपदप्रकृतिस्वरे शेषनिघातेन अनुदात्तान्तमेतादिति भावः । अत एवेति ॥ “अस्वाङ्ग पूर्वपदात्' इत्यनेन ‘बहुव्रीहेश्च' इति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च डीष् नेत्यर्थः । अन्तोदात्तत्व एवोभयोः प्रवृत्तिरिति भावः । स्वाङ्गाञ्च । उपसर्जनादिति असंयोगो

पधादिति च स्वाङ्गादित्यत्रान्वेति । स्वाङ्गादित्येतत् अत इत्यनुवृत्तञ्च प्रातिपदिकादित्यनुवृत्तस्य

प्रकरणम्]
३८३
बालमनोरमा ।

असंयोगोपधमुपसर्जनं यत्स्वाङ्ग तदन्ताद्दन्तात्प्रातिपदिकाद्वा डीष् । केशानतिक्रान्ता अतिकेशी-अतिकेशा । चन्द्रमुखी-चन्द्रमुखा संयोगो पधात्तु सुगुल्फा । “उपसर्जनात्' किम् । शिखा । स्वाङ्गं त्रिधा ।

अंद्रवं मूर्तिमत्स्वाङ्ग प्राणिस्थमविकारजम् ।

सुस्वेदा, द्रवत्वात् । सुज्ञाना, अमूर्तत्वात् । सुमुखा शाला, अप्राणिस्थत्वात् सुशोफा, विकारजत्वात् ।


विशेषणम्, तदन्तविधिः। तदाह । असंयोगोपधमित्यादिना ॥ वा डीषिति अस्वाङ्गपूर्वपदाद्वा' इत्यतः वेति “ अन्यतो डीष्' इत्यतः डीषित्यस्य चानुवृत्तेरिति भाव बहुव्रीहेरित्यनुवर्तमाने उपसर्जनग्रहणं किमर्थमित्याशङ्कय परिहरति । केशानतिक्रान्तेति अत्यादयः क्रान्ताद्यर्थे ' इति समासस्तत्पुरुष अत्र बहुव्रीहित्वाभावेऽपि प्राप्त्यर्थमुपसर्जन ग्रहणमिति भावः । 'एकविभक्ति चापूर्वनिपाते' इति केशशब्दस्य उपसर्जनत्वम्। चन्द्रमुखी चन्द्रमुखेति।चन्द्र इव मुखं यस्या इति विग्रहः । सुगुल्फेति । सु शोभनौ गुल्फौ यस्या इति विग्रहः।‘पदंघ्रिश्चरणोऽस्त्रियाम्'। 'तद्वन्थी घुटिके गुल्फौ' इत्यमरः। उपसर्जनात्। किमिति ॥ केवलकेशादिशब्दानां अनुपसर्जनानां स्त्रीत्वविरहादेवाप्राप्तेः प्रश्नः।शिखेति । अत्र स्वाङ्गान्तत्वात् केवलशिखाशब्दात्डीनिवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम् । अन्यथा टापं बाधि त्वा पक्षे डीषु स्यादिति भाव शोभना शिखा सुशिखेति क्वचित् पुस्तकेषु दृष्टम्, तत् प्रक्षिप्तं वेदितव्यम् । टाबन्तेन समासे अनदन्तत्वादेव प्राप्तिविरहात् । ननु स्वस्य अवयवीभूतस्य अङ्गं स्वाङ्गम् । तथा च सुमुखा शालेल्यादावतिव्याप्तिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात् ।किञ्च सुकेशी रथ्येत्यत्राव्या तत्र केशानां रथ्याङ्गत्वाभावादित्यत आह । स्वाङ्गं त्रिधेति ॥ “अद्रवम्मूर्तिमत् स्वाङ्गं प्राणिस्थमविकारजम् । अतत्स्थं तत्र दृष्टञ्च तेन चेत्तत्तथा युतम्” इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गमिह विवक्षितमि त्यर्थः।तत्र प्रथमार्धं प्रथमं स्वाङ्गलक्षणमित्यभिप्रेत्य विच्छिद्य पठति । अद्रवमिति।।न विद्यते द्रवः यस्य तत् अद्रवम् । मूर्तिः अवयवसंयोगः अस्यास्तीति मूर्तिमत्, अवयवसंयोगा समवायिकारणं द्रव्यमिति यावत् । प्राणिनि प्राणवति जन्तौ विद्यमानं प्राणिस्थम् । अविकारजं रोगादिविकाराजन्यच्च यत् तत् प्रथम स्वाङ्गमित्यर्थः। अद्रवमित्यस्य प्रयोजनमाह । सुस्वे देति ॥ सु शोभनः स्वेदः घर्मजः उदकप्रस्रवः यस्याः इति विग्रहः । स्वेदस्य शोभनत्वन्तु दुर्गन्धाभावः । द्रवत्वादिति ॥ न स्वाङ्गत्वमिति शेषः । अतो न डीषित्यर्थः । मूर्तिमदि त्यस्य प्रयोजनमाह । सुज्ञानेति ॥ सु शोभनं ज्ञानं यस्या इति विग्रहः । अमूर्तत्वादिति न स्वाङ्गत्वमिति शेषः। प्राणिस्थमित्यस्य प्रयोजनमाह । सुमुखा शालेति ॥ सु शोभनं मुखं प्रथमभागः यस्या इति विग्रहः । अप्राणिस्थत्वादिति । न स्वाङ्गत्वमिति शेष अविकारजमित्यस्य प्रयोजनमाह ।सुशोफेति ॥सु अधिकः शोफः श्वयथुः यस्या इति


भाष्योक्तमिदम् ।

३८४
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

अतत्स्थं तत्र दृष्टं च सुकेशी-सुकेशा वा रथ्या । अप्राणिस्थस्यापि प्राणिनि दृष्टत्वात् । --तेने चेत्तत्तथायुतम्' ॥ सुस्तनी-सुस्तना वा प्रतिमा । पेणवत्प्राणिसदृशे स्थितत्वात् ।

५११ । नासिकोदरोष्ठजङ्घादन्तकर्णश्रृङ्गाच्च । (४-१-५५)

एभ्यो वा डीष्स्यात्, आद्ययोर्बह्वज्लक्षणो निषेधो बाध्यते, पुरस्ताद्प वादन्यायात् । ओष्टादीनां पञ्चानां तु * असंयोगोपधात्' इति पर्युदासे प्राप्ते


विग्रहः । “शोफतु श्वयथुः' इत्यमरः । विकारजत्वादिति । रोगजत्वादित्यर्थः । न स्वाङ्गत्वमिति शेषः । अतत्स्थं तत्र दृष्टञ्चेति । द्वितीयं स्वाङ्गलक्षणम् । तच्छब्देन प्राणी परामृश्यते । अतत्स्थं अप्राणिस्थं तत्र प्राणिनि दृष्टं यत् तदपि स्वाङ्गमित्यर्थः । रथ्येति । रथ्यास्थानां केशानां प्राणिस्थत्वाभावात् पूर्वलक्षणेन स्वाङ्गत्वासिद्धेर्लक्षणान्तरमिति भावः । उक्तलक्षणमुदाहरणे योजयति । अप्राणिस्थस्यापीति ॥ इदानीं प्राणिस्थत्वाभावेऽपि कदा चित् प्राणिस्थत्वादपि स्वाङ्गत्वमित्यर्थः । तेन चेत्तत्तथा युतमिति ॥ तृतीयं स्वाङ्ग लक्षणम् । अत्र भाष्ये “स्वाङ्गमप्राणिनोऽपि' इति शेषः पूरितः । चेदिति यद्यर्थे । तेन प्राणि स्थेन स्तनाद्यङ्गाकृतिकावयवविशेषेण तत् अप्राणिद्रव्यं प्रतिमादि तथा प्राणिद्रव्यवत् युतं सम्बद्धं यदि तदा तत् स्तनाद्याकृतिकं अप्राणिनोऽपि स्वाङ्गमित्यर्थः । सुस्तनी सुस्तना वा प्रति मेति ॥ सु शेोभनौ स्तनौ स्तनाकृती अवयवौ यस्या इति विग्रहः । प्रतिमागतयोः स्तना कृतिकावयवयोः कदाचिदपि प्राणिस्थत्वाभावात् प्राण्यन्तरे अदृष्टत्वाच्च पूर्वलक्षणद्वयस्याप्यप्रवृत्ते र्लक्षणान्तरमिदम् । अथोदाहरणे लक्षणं योजयति । प्राणिवदिति । सप्तम्यन्ताद्वतिः । प्राणिवत् प्राणिसदृशे प्रतिमादिद्रव्ये स्थितत्वात् स्वाङ्गमित्यर्थः । नच कल्याणपाणिपादेति बहुव्रीहावपि डीषु स्यादिति वाच्यम् । “ अस्वाङ्गपूर्वपदाद्वा' इत्यनुवृत्तेः । अत्र हि पाणि पादेति समुदायो न स्वाङ्गम्, किन्तु स्वाङ्गसमुदाय एव । यत्तु स्वाङ्गं पादेति नतु तत् स्वाङ्गात् पूर्वपदात् परम्, पाणिपदेन व्यवधानात् । तथाच स्वाङ्गस्य पादस्य अस्वाङ्गात् पूर्वपदात् कल्याणशब्दात् परत्वाभावान्न डीषिति भाष्ये स्पष्टम् । नासिकोदरोष्ठजङ्गादन्तकर्ण शृङ्गाच्च ॥ “अस्वाङ्गपूर्वपदाद्वा' इत्यतो वेति “अन्यतो डीष' इत्यतो डीषिति चानुवर्तते । तदाह । एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः । पूर्वसूत्रादुपसर्जनादित्य नुवृत्तेः । ननु 'स्वाङ्गाच्च' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । आद्ययोरिति ।। नासिकोदरशब्दयेर्विषये “न कोडादिबह्वचः' इति निषेधः प्राप्तः, सः अनेन डीष्विकल्पविधिना बाध्द्यते इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका अनासिका, सहोदरा, अनुदरा, इत्यत्र “सहनञ्विद्यमानपूर्वाच्च' इति निषेधोऽपि अनेन बाध्द्यताम् ।'सहनञ्' इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्यत आह । पुरस्ता


१-२. भाष्योक्तमिदम्

प्रकरणम्]
३८५
बालमनोरमा ।

वचनं मध्येऽपवाद्न्यायात् । सहनञ्लक्षणस्तु प्रतिषेधः परत्वाद्स्य वाधक तुङ्गनासिकी-तुङ्गनासिंकेत्यादि । नेह। सहनासिका । अनासिका । अत्र वृत्तिः। अङ्गगात्रकण्ठेभ्यो वक्तव्यम्।स्वङ्गी-स्वङ्गेत्यादि ।एतच्चानुक्तसमुच्चायार्थेन चकारेण संग्राह्यमिति केचित् । * भाष्याद्यनुक्तत्वादप्रमाणम् इति प्रामाणिकाः। अत्र वार्तिकानि पुच्छाञ्च' (वा २४८९) । सुपुच्छी-सुपुच्छा कबरमणिविषशरेभ्यो नित्यम्' (वा २४९०) । कबरं चित्रं पुच्छं यस्याः सा कबरपुच्छी मयूरीत्यादि उपमानात्पक्षाच्च पुच्छाच्च' (वा २४९१) नित्यमित्येव । उलूकपक्षी शाला । उलूकपुच्छी सेना ।


दिति ।। “पुरस्तादपवादाः अनन्तरान्विधीन् बाधन्ते नोत्तरान्’ इति न्यायात् इत्यर्थः । ततश्च सहनञ्’ इति निषेधो न क्रोडादिसूत्रेण व्यवहितत्वात् ‘नासिकोदर’ इत्यनेन बाधं नार्हतीत्यर्थे ओष्ठादिपञ्चकस्य प्रयोजनमाह । ओष्टादीनामिति । सुगुल्फेत्यादौ असंयोगोपधादित्यस्य सावकाशत्वादिति भावः।ननु सहोष्ठा, अनोष्ठा, इत्यादौ “सहनञ्' इति निषेधोऽप्यनेन बाध्द्यतामित्यत आह । मध्द्येऽपवादेति ॥ “मध्ध्येऽपवादाः पूर्वान्विधीन् बाधन्ते नो त्तरान्' इति न्यायादित्यर्थः ननु “नासिकोदर' इति डीष्विकल्पस्तु तुङ्गनासिकी इत्यादौ सावकाशः। सहनञ्' इति निषेधस्तु सहकेशेत्यादौ सावकाशः, सहनासिकेत्यादौ तु उभय प्राप्तौ कतरस्य बाध इत्यत आह । सहनञ्जलक्षणस्त्विति ॥ अस्येति ॥ “नासिकोदर इति डीविकल्पविधेरित्यर्थः । तुङ्गनासकी-तुङ्गनासिकेति॥ न क्रोडादिबह्वचः' इति बह्वज्लक्षणडीष्निषेधं बाधित्वा “नासिकोदर' इति विकल्पः । इत्यादीति ॥ कुम्भोदरी कुम्भोदरा । अत्र बह्वज्लक्षणनिषेध बाधित्वा डीष्विकल्पः । बिम्बोष्ठी-बिम्बोष्ठा । सुजङ्घी सुजङ्घा । शुभ्रदन्ती-शुभ्रदन्ता । सुकर्णी-सुकर्णा । सुश्श्रृङ्गी-सुश्शृङ्गा । ओष्ठादिषु संयोगोपधत्वे ऽपि डीष्विकल्पः । नेह सहनासिकेति ॥ सहशब्दो विद्यमानवचनः, सह नासिका यस्या इति विग्रहः । अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापि “सहनञ्विद्य मान' इति डीष्निषेधः, नतु “नासिकोदर' इति डीष्विकल्प इत्यर्थः । वक्तव्यमिति।। वा डीषिति शेषः । संयोगोपधत्वाद्वचनम् । स्वङ्गीति ॥ सु शोभनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा । वृत्तिग्रन्थस्य मूलं दर्शयति । एतच्चेति प्रामाणिकाः इति ॥ एवञ्च तन्वङ्गी, सुगात्री, कळकण्ठी, इत्यपभ्रंशा एवेति भावः । पुच्छा च्चेति ॥ संयोगोपधत्वेऽपि पुच्छशब्दान्तातू डीष्वेति वक्तव्यमित्यर्थः । कबरमणीति कबरादिभ्यः परो यः पुच्छशब्दः तदन्तात् नित्यं डीषिति वक्तव्यमित्यर्थः । पुच्छाच्चेत्युक्त विकल्पापवादः । कबरमित्यस्य व्याख्यानं चित्रमिति । इत्यादीति ॥ मणिपुच्छी वृश्चिकी विषपुच्छी. शरपुच्छी पक्षिजातिविशेषः । उपमानादिति ॥ उपमानात् परौ यौ पक्षपुच्छ शब्दौ तदन्तादपि डीषेित्यर्थः । नित्यमित्येवेति ॥ नित्यमित्यनुवर्तत एवेत्यर्थः । विकल्पा

पवादः । उलूकपक्षी शालेति ॥ उलूकः पक्षिविशेषः, उलूकपक्षाविव पक्षौ पार्श्व यस्या

३८६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

५१२ । न क्रोडादिबह्वचः । (४-१-५६)

क्रोडादेर्बह्वचश्च स्वाङ्गान्न डीष् । कल्याणक्रोडा । अश्वानामुरः क्रोडा आकृतिगणोऽयम् । सुजघना ।

५१३ ।। सहनञ्विद्यमानपूर्वाच्च । (४-१-५७)

सहेत्यादित्रिकपूर्वान्न डीष् । सकेशा । अकेशा । विद्यमाननासिका ।

५१४ । नखमुखात्संज्ञायाम् (४-१-५८)

डीष्न स्यात् । शूर्पणखा । गौरमुखा । “ संज्ञायाम्' किम् । ताम्रमुखी कन्या ।।


इति विग्रहः। सप्तम्युपमानपूर्वपदस्य बहुव्रीहिर्वाच्यः उत्तरपदलोपश्च' इति समासः। संयो गोपधत्वादप्राप्ते विधिः। उलूकपुच्छी सेनेति ॥ उलूकपुच्छमिव पुच्छं पश्चिमान्तः यस्या इति विग्रहः । पूर्ववदेव बहुव्रीहिः । 'पुच्छाच्च' इति विकल्पस्यापवादः । न क्रोडादिबह्वचः। क्रोडा आदिर्यस्येति बहवः अचः यस्येति च विग्रहः । क्रोडादिश्च बह्वच् च इति समाहारद्वन्द्वः।। क्रोडादेरिति ॥ क्रीडादिर्गणः बह्वच् च यत् स्वाङ्गं तदन्तात् डीष नेत्यर्थः । कल्याण क्रोडेति ।। कल्याणी क्रोडा यस्या इति विग्रह स्त्रियाः पुंवत्' इति कल्याणशब्दस्य पुंवत्वम् । अश्वानामिति ॥ हरदत्तादिमते क्रोडाशब्दो नित्यस्त्रीलिङ्गः। उपसर्जनह्रस्वत्वे अदन्ततया 'स्वाङ्गाचोपसर्जनात्' इति प्राप्तो ङीष् निषिध्द्यते । अमरतु “न ना क्रोडं भुजा न्तरम्” इति स्त्रीत्वन्नपुंसकत्वञ्च आह । क्वचित् कोशे पुंस्त्वमपि दृश्यते। । क्रोडादिगणे क्रोडेति प्रातिपदिकं पठ्यते । एवञ्च लिङ्गत्रयेऽपि उदाहरणं निर्बाधम् । आकृतिगणोऽयमिति क्रोडादिरिति शेषः। सुजघनेति ॥ बह्वच उदाहरणम् । सु शोभनं जघनं यस्या इति विग्रहः। सहनञ् ॥ त्रिकपूर्वादिति स्वाङ्गादिति शेषः । सकेशेति ॥ सह केशाः यस्या इति बहुव्रीहिः । सहशब्दो विद्यमानवचनः। वोपसर्जनस्य' इति सभावविकल्पः । “ स्वाङ्गाच्च इति प्राप्तस्य निषेधः। नासिकोदर' इति डीष्विकल्पोऽनेन बाधद्यते इत्युक्तं स्मारयितुमुदा हरति विद्यमाननासिकेति ॥ विद्यमाना नासिका यस्याः इति बहुव्रीहिः । नखमुखात् संज्ञायाम् ॥ नखमुखादिति समाहारद्वन्द्वः । शेषपूरणेन सूत्रं व्याचष्टे । डीष् नेति स्वाङ्गाञ्च' इति प्राप्तस्य निषेधोऽयम् । शूर्पणखेति ॥ राक्षसीविशेषस्य नाम । शूर्पाणीव कररुहाः यस्या इत्यस्वपदविग्रहः । संज्ञात्वेन नित्यसमासत्वात् पूर्वपदात् संज्ञायाम्' इति णत्वम् । केवलयौगिकत्वे तु डीष भवत्येव । णत्वन्तु न । गौरमुखेति ॥ कस्याश्चिन्नाम श्वेतं मुखं यस्या इत्यस्वपदविग्रहः । ताम्रमुखीति ॥ यौगिकोऽयम् । ताम्र मुखं यस्या इति विग्रहः । दिक्पूर्वपदान्डीप् ॥ दिक् पूर्वपदं यस्येति विग्रहः । स्वाङ्गादित्यनु

वर्तते । प्रातिपदिकादिति च “ अन्यतो डीष्’ इत्यतो डीषित्यनुवृत्तं षष्ठया विपरिणम्यते ।

प्रकरणम्]
३८७
बालमनोरमा ।

५१५ । दिक्पूर्वपदान्ङीप् । (४-१-६०)

दिक्पूर्वपदात्स्वाङ्गान्तात्प्रातिपदिकात्परस्य डीषो डीबादेशः स्यात् । प्राङ्मुखी । आद्युदात्तं पदम् ।

५१६ । वाहः । (४-१-६१)

वाहन्तात्प्रातिपदिकान्ङीष्स्यात् । डीषेवानुवर्तते न डीप् । 'दित्यवाट् च मे दित्यौही च मे' ।

५१७ । सख्यशिश्विति भाषायाम् । (४-१-६२)

इतिशब्दः प्रकारे * भाषायाम्' इत्यस्यानन्तरं द्रष्टव्यः । तेन छन्द्स्य पि क्वचित् । सखी । अशिश्वी । “ आधेनवो धुनयन्तामशिश्वीः।' ।


तदाह । दिक्पूर्वेत्यादिना ॥ प्राङ्मुखीति ॥ प्राक् मुखं यस्या इति विग्रहः । डीषो ङीब्विधेः फलमाह । आद्युदात्तं पदमिति ॥ डीपः पित्वादनुदात्तत्वे बहुव्रीहिप्रकृतिस्वरेणा द्युदात्तत्त्वम् । डीषि तु प्रत्ययस्वरेणान्तादात्तत्वं स्यादित्यर्थः । नच स्वतन्त्रो डीबेव विधीयता मिति वाच्यम् । तथा सति प्राग्गुल्फेत्यादावपि “असंयोगोपधात्' इति निषेधं बाधित्वा डीष्प्र सङ्गात् । डीषो डीबादेशविधौ तु “स्वाङ्गाञ्चोपसर्जनादसंयोगोपधात्' इति विहितडीषो डीवि धानान्न दोषः । “असंयोगोपधात्' इत्यस्यानुवृत्त्यङ्गीकारे तु प्रतिपत्तिगौरवमिति भावः । वाहः ॥ वाह इति पञ्चम्यन्तं प्रातिपदिकादित्यनुवृत्तस्य विशेषणम्, तदन्तविधिः । तदाह । वाहन्तादिति ॥ ङीषेवानुवर्तते इति ॥ 'अन्यतो डीष्' इत्यत इति शेषः । न डीबिति ॥ 'दिक्पूर्वपदात्' इति पूर्वेसूत्रे सन्निहितमपि डीब्ग्रहणमिह नानुवर्तते, अस्वरित त्वादित्यर्थः । स्वरे विशेषः। दित्यौहीति । गवान्तावत् षण्मासात्मकमेकैकं वयः । “गर्भाश्च मे वत्साश्च मे” इत्यनुवाके अनुक्रान्तानि वयांसि । “तत्र तृतीयं वयो दित्यशब्देनोच्यते इति यजुर्वेदभाष्ये भवस्वामिधूर्तस्वाम्यादिकृतकल्पभाष्येषु च स्पष्टम् । दित्यं वहतीति विग्रहे च्छन्दसि सहः, वहश्च' इति ण्विः, उपधावृद्धिः, उपपदसमासः, दित्यवाहशब्दात् डीष् वाह ऊठ्, एत्येधत्यूटठ्सु' इति वृद्धिः । दित्यौहीति रूपम् । ण्विप्रत्ययस्य छन्दोमात्रविषयत्वा द्वेदवाक्यमुदाहृतम् । लोके तु वाहयतेः क्विपि , वाह्शब्दात् डीषि, दित्यौहीति रूपमस्ति । वैदिकप्रक्रियायामुपन्यसनीयमप्येतत् सूत्रमतदर्थमिहोपन्यस्तम् । सख्यशिश्वी ॥ सखि शब्दात् शिशुशब्दाच्च स्त्रियां ङीषु निपात्यते भाषायाम् । लौकिकप्रयोगो भाषा । तर्हि वेदे नैव स्यादित्यत आह । इतिशब्दः इति ॥ प्रकारे इत्यनन्तरं वर्तत इति शेषः । प्रकार स्सजातीयता । भाषायामित्यस्येति । सच इतिशब्दः भाषायामित्यस्यानन्तरं सन्निवेश्यते इत्यर्थः । ततश्च भाषायां वेदे चेति फलितम् । नन्वेवं सति भाषायामिति व्यर्थमित्यत आह । तेनेति । भाषाग्रहणेन भाषायां सर्वत्र भवति, वेदे तु क्वचिदिति लभ्यते इत्यर्थः । सखीति ॥

सखिशब्दात् डीषि “यस्येति च' इति खकारादिकारस्य लोपः । भाषायां किम् । “सखा

३८८
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

५१८ । जातेरस्त्रीविषयाद्योपधात् । (४-१-६३)

जातिवाचि यन्न च स्त्रियां नियतमयोपधं ततः स्त्रियां ङीष्स्यात् । 'आकृतिग्रहणा जाति: -- अनुगतसंस्थानव्यङ्ग-येत्यर्थः । तटी । --लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या --


सप्तपदा भव” । अशिश्वीति ॥ न विद्यते शिशुर्यस्या इति विग्रहः । अशिशुशब्दात् डीषि इकारस्य यण् “अशिश्वी शिशुना विना' इत्यमरः । छन्दस्यपि क्वचिदित्यस्योदाहरणमाह । आ धेनवो धुनयन्तामशिश्वीरिति । अशिश्वीशब्दात् जसि 'दीर्घाज्जसि च' इति पूर्वसवर्णदीर्घनिषेधाभावश्छान्दसः । जातेरस्त्री ॥ अर्थे कार्यासम्भवाच्छब्दे कार्ये विज्ञायते इत्याह । जातिवाचीति ॥ न च स्त्रियान्नियतमिति ॥ स्त्रीविषयः नियमेन वाच्या यस्याः इति बहुव्रीहिणा स्त्रीविषयशब्दो नियतस्त्रीलिङ्गपरः, तथाच अस्त्रीविषयादित्यनेन अनियतस्त्री लिङ्गादिति विवक्षितम्, नैयत्यलाभायैव विषयग्रहणम् । अन्यथा अस्त्रिया इत्येवावक्ष्यदिति भावः । ननु यदि “नित्यमेकमनेकानुगतं सामान्यम्' इति तार्किकोक्ता जातिः, तर्हि शुकादिगुणस्य नित्यत्वैकत्वपक्षे शुक्लेत्यादावतिव्याप्तिः, औपगवी कठी इत्यादावतिव्याप्तिश्च । सवर्णेभ्यस्स वर्णासु जायन्ते हि सजातयः' इत्यादिस्मृत्या जननेन यत् प्राप्यते ब्राह्मणत्वादि सा जाति श्चेद्युवत्वादावव्याप्तिः । तथा च युवतितरेत्यत्र “जातेश्च' इति पुंवत्वनिषेधो न स्यात् इति चेन्न । “ आकृतिग्रहणा जातिः लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्या गोत्रञ्च चरणैस्सह ' इति भाष्योक्तत्रिविधजातेर्विवक्षितत्वात् इत्यभिप्रेत्य भाष्योक्तत्रैविध्ध्यं प्रपञ्चयति । आाकृति ग्रहणा जातिरिति ॥ प्रथमेति शेषः । आकृतिः अवयवसन्निवेशविशेषः गृह्यते अनेनेति ग्रहणं व्यञ्जकम्, करणे ल्युट्, सामान्ये नपुंसकम्, आकृतिः ग्रहणं यस्या इति विग्रहः । उपसर्जनत्वात् 'टिड्ढाणञ्' इति डीब्न । फलितमाह । अनुगतेति ॥ सर्वासु घटादि तत्तद्यक्तिषु एकरूपतत्तदाकारव्यङ्गयेति यावत् । गृह्यत इति कर्मणि ल्युट् । आकृत्या ग्रहणा आकृतिग्रहणेति तु न व्याख्येयम् । “टिड्ढाणञ्’ इति डीप्प्रसङ्गात् । तटीति ॥ “तटं त्रिषु” इत्यमरः । जलसमीपप्रदेशः आकृतिविशेषविशिष्टस्तटः, अतस्तटत्वमाकृतिव्यङ्गयत्वा जातिः, अतस्तटशब्दस्य जातिवाचित्वादनियतस्त्रीलिङ्गत्वादयोपधत्वाच्च डीषिति भावः । युव त्वादिकमप्याकृतिव्यङ्गयत्वात् जातिरेव । अनेन प्रथमलक्षणेन अनुगताकारप्रत्ययासिद्धा तट त्वादिजातिरुक्ता । नन्वेवं सति वृषळत्वादीनां जातित्वं न स्यात् । तदवयवसन्निवेशस्य ब्राह्मणादिसाधारणत्वेन वृषळत्वादीनां तद्यङ्गयत्वाभावादित्याशङ्कय आह । लिङ्गानाञ्च न सर्वभाक् । सकृदाख्यातनिर्ग्राह्येति ॥ अन्या जातिरिति शेषः । लिङ्गानामिति कर्मणि षष्ठी । सर्वाणि लिङ्गानि न भजते इत्यर्थः । असमर्थसमास आर्षः । सकृदित्यतः पूर्व एकस्यां


१-२ भाषयोक्तिदम्

प्रकरणम्]
३८९
बालमनोरमा ।

' असर्वलिङ्गत्वे सत्येकस्यां व्यक्तौ कथनाद्यक्त्यन्तरे कथनं विनापि सुग्रहा जातिः' इति लक्षणान्तरम् । वृषळी । ' सत्यन्तम्’ किम् । शुक्ला । 'सकृत्'- इत्यादि किम् । देवदत्ता ।

-गोत्रं च चरणैः सह ॥'

अपत्यप्रत्ययान्तः शाखाद्धयेतृवाची च शब्दो जातिकार्ये लभत इत्यर्थः । औप गवी । कठी । कलापी । बहवृची । ब्राह्मणीत्यत्र तु शार्ङ्गेरवादिपाठान्डीना


व्यक्ताविति शेषः । आख्यातेति भावे त्क्तः, उपदेश इत्यर्थः । निर्ग्राह्येत्यस्य व्यक्तयन्तरे उपदेशं विनापि सुगमेत्यर्थः । निरित्युपसर्गवशात् । निर्ग्राह्येत्यनन्तरमन्या जातिरिति शेषः । फलित माह । असर्वेति ॥ एकस्यामिति । एकस्यां व्यक्तौ वृषळ इत्युपदेशात् व्यक्तयन्तरे तदुपदेशं विनापि सुगमेति यावत् । लक्षणान्तरमिति । जात्यन्तरमित्यर्थः । अन्यथा उक्ततटत्वादिजातेरेव “ आकृतिग्रहणा जातिः' इत्युक्तलक्षणादन्यदिदं लक्षणमिति स्यात्, नहीदं युज्यते । तटस्य सर्वलिङ्गत्वात् । वृषळीति ॥ वृषळत्वं ह्यसर्वलिङ्गम्, नपुं सकत्वाभावात् एकस्यां व्यक्तौ वृषळत्वे उपदिष्टे सति तदपत्यसहोदरादिषु तदुपदेशं विना तस्य सुग्रहत्वात् सकृदाख्यातनिर्ग्राह्यञ्चेति भावः । ब्राह्मणत्वन्तु पुत्रपौत्रादौ यद्यपि न सुगमम्, ब्राह्मणात् क्षत्त्रियायामुत्पन्नस्य ब्राह्मणत्वाभावात् । तथापि पित्रादौ सुगममेव । एवं क्षत्रियत्वं वैश्यत्वं व तत्पित्रादावेव सुग्रहम् । सत्यन्तं किमिति । असर्वलिङ्गत्वे सतीति किमर्थमित्यर्थः । शुक्लेति ॥ बलाकेति शेषः । ‘गुणे शुक्लादयः पुंसि गुणि लिङ्गास्तु तद्वति' इति विशेष्यनिघ्नतया त्रिलिङ्गत्वादसर्वलिङ्गत्वाभावात् शुक्लत्वन्न जातिः । अवयवसंस्थानव्यङ्गयत्वाभावान्न पूर्वलक्षणमपि । देवदत्तेति ॥ संज्ञात्वेन नपुंसकलिङ्गहीनतया असर्वलिङ्गत्वेऽपि न सकृदाख्यातनिग्रह्यत्वामिति भावः । अनेन द्वितीयलक्षणेन जनननिमि त्तकब्राह्मणत्वादिजातिसङ्गहः । नन्वेवमपि औपगवी कठीत्याद्यसङ्गहः, औपगवत्वादेरनु गतसंस्थानव्यङ्गयत्वाभावात् सर्वलिङ्गत्वाच्चेत्यत आह । गोत्रञ्च चरणैस्सहेति ॥ जाति रित्यनुषज्यते । गोत्रशब्देन अपत्यं विवक्षितम्, नतु पौत्रप्रभृतीति पारिभाषिकम् व्याख्यानात् । अत एवानन्तरापत्यप्रत्ययान्ते अवन्तीत्यत्र जातिप्रयुक्तो डीषिति “ अनुप सर्जनात्' इति सूत्रस्थभाष्यं सङ्गच्छते । शब्देन्दुशेखरे तु पारिभाषिकमेव गोत्रमिह विवक्षित मिति प्रपञ्चितम् । चरणशब्दतु शाखाध्द्येतरि प्रसिद्धः । चरणैस्सह गोत्रं जातिरिति लभ्यते । गोत्रञ्चरणाश्च जातिरिति यावत् । यद्यपि अनुगताकारप्रत्ययवेद्या जननविशेषप्रयुक्ता चेति द्विविधैव जातिलोके प्रसिद्धा । तत्र गोत्रचरणाः नान्तर्भवन्ति । तथापि अतस्मिन् तच्छब्द स्तद्वाचिषु शब्देषु तत्कार्यार्थ इत्यभिप्रेत्य व्याचष्टे । अपत्यप्रत्ययान्तः इत्यादिना ॥ गोत्र मुदाहरति । औपगवीति ॥ उपगोरपत्यं स्त्री इत्यर्थे 'तस्यापत्यम्’ इत्यणि 'टिड्ढाणञ्' इति डीपम्बाधित्वा परत्वादनेन डीष् । स्वरे भेदः । चरणमुदाहरति । कठीतेि ॥ कठेन प्रोक्तमधी यानेत्यर्थः । कलापीति । वैशम्पायनान्तेवासित्वनिबन्धनो णिनिः । “कठचरकाल्लुक्' इति

तस्य लुक् । ततः 'तदधीते' इत्यणः 'प्रोक्ताल्लुक्' इति लुक्, ततो डीष्, चरणविषये उदा

३९०
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

डीष्बाध्यते । “जातेः' किम् । मुण्डा । “ अस्त्रीविषयात्' किम् । बलाका । अयोपधात्' किम् । क्षत्रिया । योपधप्रतिषेधे “हयगवयमुकयमनुष्य मत्स्यानामप्रतिषेधः' (वा २४९५) । हयी। गवयी। मुकयी । “हलस्तद्धितस्य' (सू ४७२) इति लोपः । 'मनोर्जातावञ्यतौ षुक्च' मनुषी । “मत्स्यस्य ड-याम्' (वा ४१९८) । मत्सी ।


हरणान्तरमाह । बह्वृचीति ॥ बहवः ऋचः अध्द्येयाः यस्या इति विग्रहः । “ऋक्पूरब्धूः पथामानक्षे' 'अनृचबह्वृचावध्ध्येतर्येव' इत्यच्समासान्तः, ततो डीष् । 'पुरा कल्पे तु नारीणां मौञ्जीबन्धनमिष्यते । अध्द्यापनञ्च वेदानां सावित्रीवचनन्तथा ॥” इति यमादिस्मृतिः । ननु लिङ्गानाञ्च न सर्वभाक्' इति 'गोत्रञ्च चरणैस्सह' इति च जातिलक्षणे ब्राह्मणीति परित्यज्य वृषळी औपगवी इत्येवं कुत उदाहृतमित्यत आह । ब्राह्मणीत्यत्रेति । ब्रह्मणः अपत्यमि त्यर्थे 'तस्यापत्यम्’ इत्यणि 'ब्राह्मोऽजातौ' इति टिलोपाभावे आदिवृद्धौ ब्राह्मणशब्दः । स्त्रियान्तु जातिलक्षणं डीषं बाधित्वा 'शार्ङ्गरवाद्यञो ङीन् इति ङीन् । शार्ङ्गेरवादिगणे तत्पा ठस्य निरवकाशत्वादिति भावः । तदेवं जातिस्वरूपमुक्ता डीष्विधौ तद्रहणस्य प्रयोजनं पृच्छति । जातेः किमिति । मुण्डेति ॥ मुण्डत्वन्नाम विलुप्तसर्वकेशत्वम्, तत्तु नाकृति व्यङ्गव्यम् , केशदशायामपि तदाकृतेस्सत्त्वात् । “नापि लिङ्गानाञ्च ' इति लक्षणलक्षितम्, सर्व लिङ्गत्वात् । नापि गोत्रचरणान्तर्भूतम्, अतो न जातिरिति भावः । अस्त्रीविषयात् कि मिति । विषयग्रहणलभ्यं नियतत्वं प्रवेश्य अनियतस्त्रीलिङ्गादिति किमर्थमित्यर्थः । बला केति ॥ पक्षिवर्गे 'बलाका बिसकण्ठिका ' इत्यमरः । बलाकात्वस्य आकृतिव्यङ्गयतया जाति त्वेऽपि नियतस्त्रीलिङ्गत्वान्न डीषित्यर्थः । यद्यपि बलां कायतीति यौगिकत्वे त्रिलिङ्गत्वमस्ति तथापि प्रवृत्तिनिमित्तैक्ये स्त्रीलिङ्गान्यलिङ्गरहितभिन्नादित्यर्थो विवक्षित इति न दोषः । जाति विशेषे नियतस्त्रीलिङ्गत्वात् । भाष्ये तु अनियतस्त्रीलिङ्गत्वमङ्गीकृत्य अजादित्वाट्टाबिति समाहि तम् । क्षत्त्रियेति ॥ 'लिङ्गानाञ्च न सर्वभाक्' इति जातिलक्षणसत्वेऽपि योपधत्वान्न डीषिति भावः । योपधनिषेधे हयगवयेति ॥ वार्तिकमिदम् । हयादीनां योपधत्वेऽपि ङीष् वाच्य इत्यर्थः । हयीति । अश्वा प्रसिद्धा । गवयीति । गोसदृशश्चतुष्पाज्जातिविशेषः । मुक यीति ॥८-चतुष्पाज्जातिविशेषः । हलः इति ॥ मनुष्यशब्दात् स्त्रियां डीषि मनुष्य ई इतिं स्थिते “हलस्तद्धितस्य’ इति यकारस्य लोपे “यस्येति च' इत्यकारलोपे मनुषीति रूपमित्यर्थ । हलस्तद्वितस्य' इति लोपप्रवृत्तये यकारस्य तद्धितावयवत्वं दर्शयितुमाह । मनोर्जाता विति ॥ तद्धिताधिकारे अपत्याधिकारस्थमिदं सूत्रम् । मनुशब्दादपत्ये अञ्यतौ प्रत्ययौ स्तः प्रकृतेः षुक्च, प्रकृतिप्रत्ययसमुदायेन जातौ गम्यायामिति तदर्थः । मत्स्यशब्दात् ङीषि यकारस्य तद्धितावयवत्वाभावादप्राप्ते लोपे आह । मत्स्यस्य ड-यामिति ॥ “ सूर्यतिष्य इति सूत्रे वार्तिकमिदम् । मत्स्यस्यावयवस्य यकारस्य लोपस्स्यात् ङयामेवेति नियमार्थमिदम् ।

मत्सीति ॥ डीषि यकारलोपे 'यस्येति च' इति लोप इति भावः । ङयां किम् । मात्स्योऽव

प्रकरणम्]
३९१
बालमनोरमा ।

५१९ । पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच्च । (४-१-६४)

पाकाद्युत्तरपदाज्जातिवाचिनः स्रीविषयादपि डीष्स्यात् । ओदनपाकी । शङ्कुकर्णी । शालपर्णी । शङ्खपुष्पी । दासीफली। दर्भमूली । गोवाली। ओषधिविशेषे रूढा एते ।

५२० । इतो मनुष्यजातेः । (४-१-६५)

डीष्स्यात् । दाक्षी । योपधादपि । उदमेयस्यापत्यं स्त्री औदमेयी । मनुष्य-' इति किम् । तित्तिरिः ।

५२१ । ऊडुतः । (४-१-६६)

उकारान्ताद्योपधान्मनुष्यजातिवाचिनः स्त्रियामूड् स्यात् । कुरूः । कुरुनादिभ्यो ण्यः' (सू ११९०) । तस्य “स्त्रियामवन्ति-' (सू ११९५) इत्यादिना लुक् । अयापधात् किम् । अध्वयु : । “ अप्राणिजातेश्चारज्ज्वादी-


तारः । पाककर्ण ॥ 'जातेतरस्त्रीविषयात्' इति पूर्वसूत्रेणैव सिद्धे किमर्थमित्यत आह ॥ स्त्रीविषयादपीति । नियतस्त्रीलिङ्गादपीत्यर्थ । नियतस्त्रीलिङ्गत्वात् जातिवाचित्वन्दर्शयितु माह। ओषधिविशेषे रूढाः इति ॥ अवयवव्युत्पत्तिरहिता इत्यर्थः। इतो मनुष्यजातेः ॥ शेषपूरणेन सूत्रं व्याचष्टे । डीषु स्यादिति ॥ इदन्तान्मनुष्यजातिवाचिन स्त्रियां ङीष्स्त्यादि त्यर्थः । स्त्रीप्रत्ययविधिषु अत इत्यनुवृत्तेरिदन्तात् “जातेरस्त्रीविषयात्' इत्यप्राप्तौ वचनम् । दाक्षीति ॥ दक्षस्यापत्यं स्त्री इत्यर्थे अत इञि अल्लोपः, आदिवृद्धिः, डीष्, “यस्येति च' इति इकारलोपः । 'गोत्रञ्च चरणैस्सह' इति जातिवाचित्वम्, दक्षः प्रजापतिविशेषः । योपधा दपीति ॥ अयं डीषिति शेषः । पुनर्जातिग्रहणेन योपधग्रहणस्य अनुवृत्त्यभावबोधनादिति भावः । औदमेयीति ॥ उदमेयो नाम कश्चित्, तस्यापत्यं स्त्री इत्यर्थे अत इञ् । यस्येति च' इत्यल्लोपः । आदिवृद्धिः । औदमेयिशब्दात् डीष्, “यस्येति च' इति इकारलोपः । तित्तिरिरिति ॥ तित्तिरिः पक्षिजातिविशेषः । स्त्रियां ङीष् न । अमनुष्य जातिवाचित्वादिति भावः । ‘स्त्रीपुंसयोरपत्यान्तः द्विचतुष्षट्पदा अपि' इत्यमरकोशादयं स्त्रियामपि भवति, द्विपात्त्वात् । ऊडुतः ॥ अयोपधादिति मनुष्यजातेरिति चानुवर्तते, उत इति तद्विशेषणम्, तदन्तविधिः । तदाह। उकारान्तादित्यादिना ॥ कुरुरिति ॥ कुरुक्षेत्र स्य राजा कुरुः, तस्यापत्यं स्त्रीत्यर्थः । “गोत्रञ्च चरणैस्सह' इति जातित्वम् । कुरुशब्दात् ऊङी सवर्णदीर्घः । ऊङी दीघचारणस्य प्रयोजनं भाष्ये स्पष्टम् । “तस्यापत्यम्’ इत्यणमाशङ्कय आह । कुरुनादिभ्यो ण्यः इति ॥ अपत्याधिकारस्थमिदं सूत्रम् । अनेन सूत्रेण अणप वादो इत्यर्थः तर्हि श्रूयेतेत्यत आह । तस्येति । अध्वर्युरिति । अध्वर्यु ण्यप्रत्यय । स शाखाध्द्यायिनीत्यर्थः । चरणत्वातू जातित्वम् । “पुरा युगेषु नारीणां मौञ्जीबन्धनामिष्यते ।

अध्द्यापनञ्च वेदानां सावित्रीवचनं तथा ॥” इति यमादिस्मृतिः । अप्राणिजातेश्चेति ॥

३९२
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

नामुपसङ्ख-यानम्’ (वा २५०२) । रज्ज्वादिपर्युदासादुवर्णान्तेभ्य एव । अलाब्वा । कर्कन्ध्वा । अनयोर्दीर्घान्तत्वेऽपि * नोङ्धात्वोः' (सू ३७२१) इति विभक्त्युदात्तत्वप्रतिषेध ऊङः फलम् । प्राणिजातेस्तु कृकवाकुः । रज्ज्वादेस्तुः रञजुः। हनुः ।

५२२ । बाह्वन्तात्संज्ञायाम् । (४-१-६७)

स्त्रियामूङ् स्यात् । भद्रबाहूः । “ संज्ञायाम्' किम् । वृत्तबाहुः ।

५२३ । पङ्गोश्च । (४-१-६८)

पङ्गूः । 'श्वशुरस्योकाराकारलोपश्च' (वा ५०३९) । चादूङ् ।


वाचकानामिति शेष रज्ज्वादिभिन्नानामप्राणिजातिवाचकानामपि डीष् उपसङ्खयानमित्यर्थः। नन्वत्र उत इति सम्बध्द्यते वा न वा, नाद्यः, अलाबूरिति भाष्योदाहरणविरोधात् । अलाबू शब्दस्य ऊदन्तत्वात् । न द्वितीयः, अदन्तादपि अप्राणिजातिवाचिनः ऊडापत्तेरित्यत आह । रज्ज्वादिपर्युदासादिति ॥ उत इति न सम्बध्द्यते । अदन्तेषु नातिप्रसङ्गः 'नञिवयुक्त मन्यसदृशाधिकरणे तथाह्यर्थगतिः' इति न्यायेन रज्ज्वादिसदृशानामुवर्णान्तानामेव ग्रहणादिति भावः । अलाब्वेति ॥ अलाबूशब्दादूडि सवर्णदीघे अलाबूशब्दात् ऊङन्तात् सुबुत्पत्तिः । डयि यणादेशे अलाव्वै इति रूपम् । एवं कर्कन्धूशब्दादृङन्तात् डयि कर्कन्ध्वै इति रूपम् । कर्कन्धूर्बदरी” इत्यमरः । “तुम्व्यलावूरुभे समे” इति च । ननु ऊदन्तत्वादनयोरूङिवधि र्व्यर्थ इत्यत आह । अनयोरिति ॥ कृकवाकुरिति ॥ पक्षिजातिविशेष । अत्र मनुष्य जातित्वाभावात् पूर्वेणापि न डीष् । बाह्वन्तात्संज्ञायाम् ॥ ऊडुत इत्यतः ऊडित्यनुवर्तते स्त्रियामित्यधिकृतम्, प्रातिपदिकादिति च । तदाह । स्त्रियामूङ् स्यादिति ॥ भद्रबाहू रिति । कस्याश्चित्संज्ञा । संज्ञायां किमिति ॥ संज्ञायामित्येतत् किमर्थमिति प्रश्नः । वृत्तबाहुरिति । वृत्तौ बाहू यस्याः इति विग्रहः । स्त्रियामपि नोड् । पङ्गोश्च ॥ ऊडिति सूत्रशेषः । भग्नपादत्वं पङ्गुत्वं न जातिः । आसीने शयाने च आकृत्या दुर्ग्रहत्वात् एकस्यां व्यक्तौ विकलपादोऽयं पङ्गुरिति पङ्गुत्वस्योपदेशेऽपि व्यक्तयन्तरेषु आसनशयनाद्यवस्थेषु तस्य दुर्ग्रहत्वात्, गोत्रचरणानन्तर्भावाच्च । ततश्च 'ऊडुतः' इत्यप्राप्तौ वचनमिदम् । श्वशु रस्येति॥ वृत्त्यादौ पठितमिदम् । चकारात् ऊडनुकृष्यते । श्वशुरस्य स्री इत्यर्थे पुंयोगलक्षणे डीषि प्राप्ते तदपवादः ऊड्, तत्सन्नियोगेन रेफादकारस्य उकारस्य लोपश्चेत्यर्थः । नच वकारा दकारस्य लोपश्शङ्कयः । अन्त्यबाधेऽन्त्यसदेशस्य' इति वचनात् । “यस्येति च' इति तु


१ इदं च “श्वशुरः श्वश्वा' (१-२-७१) इति निर्देशसिद्धमिति भावः । “डयाप् --' (४-१-१) इति सूत्रस्थस्य 'उवर्णान्तादूङ् विधीयते । तत्रैकादेशः । एकादेशे कृतेऽन्तादिवद्भावात्प्रातिपदिकसंज्ञा भविष्यति' इति भाष्यस्य स्वरसस्तु 'जत्रादित्वान्निष्पन्नादूङ् दीर्घोकारान्त एव वा कर्तव्यः' इत्येव लभ्यते ।

प्रकरणम्]
३९३
बालमनोरमा ।

पुंयोगलक्षणस्य डीषोऽपवादः । लिङ्गविशिष्टपरिभाषया स्वादय : । श्वश्रुः ।

५२४ । ऊरूत्तरपदादौपम्ये । (४-१-६९)

उपमानवाचि पूर्वपदमूरूत्तरपदं यत्प्रातिपदिकं तस्मादूङ स्यात् । करभोरूः।

५२५ । संहितशफलक्षणवामादेश्च । (४-१-७०)

अनौपम्यार्थ सूत्रम् । संहितोरूः । सैव शफोरूः । शफौ खुरौ ताविव संश्लिष्टत्वादुपचारात् । लक्षणशब्दादर्शआद्यच् । लक्षणोरूः । वामोरूः ।


नात्र सम्बध्द्यते । ईकारे तद्धिते च तद्विधानात् । ननु श्वश्रूरित्यत्र क्रथं स्वादयः । 'डया प्प्रातिपदिकात्' इत्यधिकृत्य तद्विधेः । अस्य च डयाबन्तत्वाभावात् । ऊङन्तस्य च प्रत्यया । न्तत्वेन प्रातिपदिकत्वाभावादित्यत आह । लिङ्गविशिष्टेति । “प्रातिपदिकग्रहणे लिङ्ग विशिष्टस्यापि ग्रहणम्’ इति परिभाषयेत्यर्थः । वस्तुतस्तु श्वशुरस्येति वचनममूलकमेव । भाष्ये अदृष्टत्वात् ‘डयाप्प्रातिपदिकात्’ इति सूत्रस्थभाष्यविरोधाच्च । तत्र हि “ङयाप्प्रातिपदिकात्' इत्यत्र ऊङोऽपि ग्रहणं कर्तव्यमित्याक्षिप्य उवर्णन्तादूङ् विधीयते । तत्र सवर्णदीर्घे एकादेशे कृते पूर्वान्तत्वेन प्रातिपदिकत्वलाभादेव सिद्धमित्युक्तम् । यदि ह्यद्युक्तरीत्या श्वश्रूशब्दो व्युत्पाद्यते तर्हि रेफादकारस्य लुप्तत्वेन एकादेशाप्रसक्तस्तदसङ्गतिः स्पष्टैव । तथाच श्वश्रूरित्यव्युत्पन्नं प्राति पदिकमिति शब्देन्दुशेखरे स्पष्टम् । ऊरूत्तर ॥ ऊरुः उत्तरपदं यस्येति बहुव्रीहिः । प्राति पदिकादित्यनुवर्तते । उत्तरपदेत्यनेन पूर्वपदमाक्षिप्तम्, औपम्ये इति तत्रान्वेति, उपमीयते अनयेत्युपमा उपमानम्, उपमैव औपम्यं स्वार्थे ष्यञ् । तदाह । उपमानवाचीति ॥ कर भोरूरिति ॥ करभाविव ऊरू यस्या इति विग्रहः । * मणिबन्धादाकनिष्ठं करस्य करभो। बहिः' इत्यमरः । करभोरुत्वस्याजातित्वात् अप्राप्तौ वचनम् । ऊर्वाकृतेः करभसदृशपुरुषोरु साधारणत्वेन करभसादृश्यघटितकरभोरुत्वस्य आकृतिग्राह्यत्वाभावात् असर्वलिङ्गत्वाद्यभावाच्च । उपमानवाचीति किम् । वृत्तोरुः, करभोपमोरुरित्यादौ नोड् । करभशब्दस्य करभसदृशे अवृत्त्या उपमानवाचित्वाभावात् । संहितशफ ॥ संहित शफ लक्षण वाम एतत्पूर्वपदाद प्यूरूतरपदादूड् स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमित्यत आह । अनौपम्यार्थमिति संहितोरूरिति ॥ संहितौ संश्लिष्टौ ऊरू यस्या इति विग्रहः । सैव शफोरूरिति ॥ संहितोरूरेव शफोरूरित्यनेनोच्यत इत्यर्थः । शफशब्दं विवृणोति । शफौ खुराविति ॥ यद्यपि 'शर्फ क्लीबे खुरः पुमान्' इत्यमरः । तथापि “शफः खुरे गवादीनाम्' इति चन्द्रकोशात् पुंस्त्वमिति भावः । ननु शफत्वमूर्वोः प्रत्यक्षविरुद्धमित्यत आह । ताविवेति । यतः शफा विव, अत ऊरू शफशब्देनोच्येते इत्यर्थः । कुतस्तत्सादृश्यमित्यत आह । संश्लिष्टत्वादिति ॥ तर्ह्युपमानवाचिपूर्वपदत्वादेव सिद्धमित्यत आह । उपचारादिति ॥ शफवत् वास्तवं संश्लि ष्टत्वमवलम्ब्य शफत्वस्य आरोपादित्यर्थः । एवञ्च शफशब्दस्य तत्सादृश्याप्रतीतेर्नोक्तदोष इति

भावः । लक्षणोरूरिति ॥ लक्षणौ ऊरू यस्या इति विग्रहः । ननु मार्दवादिगुणपर्यायस्य

३३६
[स्त्रीप्रत्यय
सिद्धान्तकौमुदीसहिता

सहितसहाभ्यां चेति वक्तव्यम्’ (वा २५०३) । हितेन सह सहितौ ऊरू यस्याः सा सहितोरूः । सहेते इति सहौ ऊरू यस्याः सा सहोरूः । यद्वा विद्यमानवचनस्य सहशब्दस्य ऊर्वतिशयप्रतिपादनाय प्रयोग

५२६ । संज्ञायाम् । (४-१-७२)

कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यात्। कद्रुः । कमणडलूः। संज्ञायाम्' किम् । कद्रुः । कमण्डलुः । अच्छन्दोऽर्थं वचनम् ((C|५२७ । शार्ङ्गरवाद्यञो डीन् । (४-१-७३)}} शार्ङ्गरवादेरञो योऽकारस्तदन्ताच्च जातिवाचिनो डीन्स्यात्। शार्ङ्गरवी


लक्षणशब्दस्य कथमूरुशब्दसामानाधिकरण्यमित्यत आह । लक्षणशब्दादिति लक्षण मनयोरस्तीति विग्रहे लक्षणशब्दातू “ अर्शआदिभ्योऽच् इत्यच्प्रत्यय इत्यर्थः।तथा च लक्षणयुक्तौ इत्यर्थलाभादिह नोक्तदोष इति भावः । वामोरूरिति । वामौ सुन्दरौ ऊरू यस्या इति विग्रह वामौ वल्गुप्रतीपौ द्वौ' इत्यमरः । सहितेति ॥ सहित सह आभ्यां पर यः ऊरुशब्द: तस्मादपि ऊङ् स्यादिति वक्तव्यमित्यर्थः । ननु संहितग्रहणेनैव एकदेशविकृत न्यायेन सिद्धे पुनस्सहितग्रहणं व्यर्थमित्यत आह । हितेनेति । हितेन सहेति विग्रहे 'तेन सह' इति बहुव्रीहौ “वोपसर्जनस्य इति सभावे सहितशब्द इत्यर्थः । ननु सहशब्दस्य विद्यमा नवचनत्वे सहोरूरित्यत्र सहशब्दप्रयोगो व्यर्थ इत्यत आह । सहेते इति । रतिकालिकमर्द नमिति शेषः । विद्यमानवचनत्वेऽपि सहशब्दस्य न वैयर्थ्यमित्याह । यद्वेति ॥ अतिशयेन विद्यमानत्वं विवक्षितमिति न वैयर्थ्यैमिति भावः । संज्ञायाम् । कद्रुकमण्डल्वोः उडिति चानुवर्तते, स्त्रियामित्यधिकृतम् । तदाह । कद्रुकमण्डल्वोः संज्ञायां स्त्रियामूङ् स्यादिति ॥ अच्छन्दोऽर्थमिति ॥ पूर्वसूत्रे छन्दसीत्युक्तत्वात् लोके संज्ञायामप्राप्तौ अयमारम्भः। कद्रुरिति नागानां मातुस्संज्ञा । एतच्च महाभारतादौ स्पष्टम् । कमण्डलूरिति कस्य चिन्मृगस्य संज्ञा । अत एव 'चतुष्पाद्भ्यो ढञ्' इत्यत्र कामण्डलेय इत्युदाहरिष्यते । पात्रपर्या यस्तु नोदाहरणम् । तस्य स्त्रीलिङ्गत्वाभावात् । शार्ङ्गरवाद्यञो डीन् ॥ शार्ङ्गवादीति लुप्तपञ्चमीकम् । अञ् इति षष्ठी, अत इत्यनुवृत्तं पञ्चम्यन्ते अन्वेति जातारित्यनुवृत्तं अता विशेष्यते । तदन्तविधिः । तदाह । शार्ङ्गरवादेरित्यादिना । शार्ङ्गरवीति ॥ श्रृङ्गरो रपत्यं स्रीत्यर्थे अण्, आदिवृद्धिः, रपरत्वम्, ओर्गुणः, 'गोत्रञ्च चरणैस्सह' इति जातित्वात् डीषि प्राप्त डीन् । स्वरे विशेषः । बैदीति । बिदस्यापत्यं स्त्रीत्यर्थः । “अनृष्यानन्तर्ये बिदा दिभ्योऽञ् गोत्रत्वेन जातित्वात् डीषि प्राप्ते डीन् । अञा अकारस्य विशेषणान्नेह । शूर सेनी । जनपदशब्दात् इत्यपत्ये अञ्।अतश्च' इति तस्य लुक् । अत्र जातिलक्षणडीषेव

न तु डीन् । अजो लुप्तत्वेन नकारादकारस्य अञोऽवयवत्वाभावात् । नृनरयोर्वृद्धिश्चेति ॥

प्रकरणम्]
३९५
बालमनोरमा

बैदी । “जातेः' इत्यनुवृत्तेः पुंयोगे डीषेव “नृनरयोर्वृद्धिश्च' (ग ५४) इति गणसूत्रम् । नारी ।

५२८ । यङश्चाप् ।। ४-१-७४)

यङन्तात्स्रियां चाप्स्यात् । व्यङ्ष्यङोः सामान्यप्रहणम् । आम्बष्ठया । कारीषगन्ध्या । “ षाद्यञश्चाब्वाच्य:'(वा २५०५) । शार्कराक्ष्या। पौतिमाष्या।


चकारात् डीन् । नारीति । नृनरशब्दयोरुदाहरणम् । तत्र नृशब्दात् “ऋन्नेभ्यः' इति डीपि प्राप्से डीन्, ऋकारस्य वृद्धिः, रपरत्वम् । जातिलक्षणडीषस्तु नृशब्दान्न प्रसक्तिः, तत्र अत इत्यनु वृत्तेः । नरशब्दात्तु डीनि नकारादकारस्य वृद्धिः । ननु परमपि 'यस्येति च' इति लोपं बाधित्वा अन्तरङ्गत्वादलोऽन्त्यपरिभाषया रेफादकारस्य वृद्धिस्यात् । न च कृतायामपि वृद्वो “यस्येति च' इत्यकारलोपस्स्यादिति वाच्यम् । वृद्धिविधिसामर्थ्यादेव तस्य लोपाभावसिद्धेरिति चेदुच्यते । नृनरयोरित्यत्र नर इति रेफान्तस्य लुप्ताकारस्यानुकरणम् । नरः अः नरः, ना च नरश्च नृनरौ, तयोरिति विग्रहः । नचैवमपि वानरीशब्दे अतिप्रसङ्ग इति वाच्यम् । अर्थवत एव ग्रहणात् । न च नृशब्दात् डीनि वृद्धौ नारीति सिद्धेर्नरग्रहणं व्यर्थमिति वाच्यम् । नरत्व जातिवाचिनः नरशब्दात् स्त्रियां जातिलक्षणडीषि नरीति व्यावृत्त्यर्थत्वात् । वस्तुतस्तु *नृनर योर्वृद्धिश्च' इति गणसूत्रं नारब्धव्यमेव । 'तदस्य धर्म्यम्' इत्यनुवृत्तौ *ऋतोऽञ्' इति सूत्रेण

  • नरस्य चेति वक्तव्यम्’ इति वार्तिकेन च नुर्धर्म्या नरस्य धर्म्येत्यर्थे नृशब्दान्नरशब्दाच्च अञि

ततः 'टिड्ढाणञ्’ इति डीपि नारीति सिद्धेः । “ञ्नित्यादिर्नित्यम्' इति प्रकृतेराद्युदात्तत्वे डीपः पित्वादनुदात्तत्वम् । डीन्यपि नित्स्वरेण प्रकृतेरुदात्तत्वमिति स्वरे विशेषाभावात् । नचैवं सति मनुष्यधर्म्यत्वेनैव बोधस्स्यात्, न तु नरत्वेनेति वाच्यम् । योग्यतया हि तद्धर्म्या नरत्वजातिविशिष्टैव बुध्द्यते । अत एव वास्तुनि भवो वास्तव्य इति रूपस्य * दिगादिभ्यो यत्' इति भवार्थकतया सिद्धत्वात् “वसेस्तव्यत्कर्तरि णिच्च' इति वचनं न कर्तव्यमिति भाष्यं सङ्गच्छते । रूढानां यथाकथञ्चिदन्वाख्यानमिति कैयटः' इति शब्देन्दुशेखरे स्थितम् । यङश्चाप् ॥ पकारो “हल्डयाब्भ्यः' इत्यत्र ग्रहणार्थः । चकारः * चित :’ इत्यन्तोदात्तार्थः । सामान्येति । यडूपस्य उभयत्रापि सत्त्वादिति भावः । ञ्यङमुदाहरति । आम्बष्ठयेति । आम्बष्ठस्यापत्यं स्त्री इत्यर्थः वृद्धेत्कोसल' इति ञ्यङ् । आम्बष्ठयशब्दाच्चाप् । गोत्रत्वेन जातित्वात् डीषि प्राप्त चाप् । घ्यङमुदाहरति । कारीषगन्ध्येति । करीषं गवादिपशुपुरीषं, तस्येव गन्धो यस्य सः करीषगन्धिः । “उपमानाच्च' इति गन्धस्य इकारोऽन्तादेशः । करीषगन्धेः गोत्रापत्यं स्त्री इत्यर्थे अण्प्रत्ययः । “ अणिओरनार्षयोः' इति तस्य घ्यडादेशः । कारीषगन्ध्यशब्दात् गोत्रत्वेन जातित्वात् डीषि प्राप्ते चाप् । षाद्यञः इति । षकारात् परो यो यञ् तदन्तादपि चाबि

त्यर्थः । शार्कराक्ष्येति । शर्कराक्षस्यापत्यं स्त्रीत्यर्थः । पौतिमाष्येति । पूतिमाष

३९६
सिद्धान्तकौमुदीसहिता

५२९ । आवट्याञ्च । (४-१-७५)

अस्माचाप्स्यात् । “यञश्च' (सू ४७१) इति डीपोऽपवादः । अवट शब्दो गर्गादिः । आवट्या ।

५३० । तद्धिताः । (४-१-७६)

आपञ्चमसमाप्तेरधिकारोऽयम् ।

५३१ । यूनस्तिः । (४-१-७७)

युवन्शब्दातिप्रत्ययः स्यात्, स च तद्धितः । लिङ्गविशिष्टपरिभाषया सिद्धे तद्धिताधिकार उत्तरार्थः । युवतिः । अनुपसर्जनादित्येव । बहवो युवानो यस्यां सा बहुयुवा । युवतीति तु यौतेः शत्रन्तान्डीपि बोध्यम् । {{C|इति स्त्रीप्रत्ययप्रकरणम् {{Rule}] स्यापत्यं स्त्रीत्यर्थः । 'गर्गादिभ्यो यञ्' इत्युभयत्र यञ् । आवट्याञ्च । ननु कथमवट शब्दस्य यञ्जन्तत्वमित्यत आह । अवटशब्दः इति । आवट्येति । अवटस्यापत्यं स्त्रीत्यर्थः । गर्गादियाञि 'यस्येति च' इत्यकारलोपे आदिवृद्धौ आवट्यशब्दात् चाप् । ताद्धि ताः ॥ वक्ष्यमाणाः प्रत्ययाः तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । आधिकारसूत्रमेतत् । उत्तरा वधिमाह । आपञ्चमेति । यूनस्तिः । तद्धिताः इत्यनुवृत्तमेकवचनेन विपरिणम्यते । तदाह । युवन्शब्दात् तिप्रत्ययस्यात् स च तद्धितः इति । स्त्रियामिति शेषः । समर्थानाम्' इत्यतः प्राक् तदधिकारस्योक्तत्वादिति भावः । नान्तलक्षणडीपोऽपवादः । नन्वत्र तद्धितग्रहणानुवृत्तिर्व्यर्था । नच 'कृत्तद्धित' इति. प्रातिपदिकत्वार्थ तदनुवृत्तिरिति वाच्यम् । प्रातिपदिकत्वाभावेऽपि लिङ्गविशिष्टपरिभाषया तिप्रत्ययान्तात् सुबुत्पत्तिसिद्धेरित्यत आह । लिङ्गविशिष्टेति । युवतिरिति । स्वादिष्विति पदत्वात् ‘न लोप इति नकारलोपः । अनु पसर्जनादित्येवेति । अनुवर्तत एवेत्यर्थः । बहुयुवेति । उपसर्जनत्वातिप्रत्ययाभावे नान्तलक्षणडीपः “अनो बहुव्रीहेः' इति निषेधे 'डाबुभाभ्याम्' इति डापि च रूपम् । ननु युवतीभिः परिवृतः इत्यादौ कथं युवतीशब्द ईकारान्तः इत्यत आह । युवतीति त्विति । ‘यु मिश्रणे' इत्यस्माल्लटश्शतरि, शपो लुकि, उवङि, उगित्वान्डीपि युवतीशब्दो व्युत्पन्नो बोध्द्यः इत्यर्थः । पतिं सुखेन मिश्रयन्ती योषिदुच्यते । अन्ये तु युधातोरौणादिके बाहुळकात्तष्प्रत्यये कित्वात् गुणाभावे उवडि उगित्वात ङीषि युवतीशब्दः सिध्ध्यतीत्याहुः ॥

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां स्त्रीप्रत्ययनिरूपणं समाप्तम्।


श्रारस्तु

॥ अथ कारकप्रकरणम् ॥


अथ प्रथमा विभक्तिः ।

५३२ । प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा । (२-३-४६)

नियतोपस्थितिकः प्रातिपदिकार्थः । मात्रशब्दस्य प्रत्येकं योगः । प्राति पदिकार्थमात्रे लिङ्गमात्राद्याधिक्ये संख्यामात्रे च प्रथमा स्यात् । उच्चैः।


अथ कारकप्रकरणप्रारम्भः । तदेवं “डयाप्प्रातिपदिकात्' इत्यधिकृत्य विहिताः स्वादिप्रत्यास्सप्रपञ्चन्निरूपिताः । तत्र प्रथमादिसप्तम्यन्तसप्तविभक्तीनामर्थविशेषव्यवस्थान्दर्श यितुमुपक्रमते । प्रातिपदिकार्थेति । ननु प्रवृत्तिनिमित्तं व्यक्तिश्चेति द्विकं प्रातिपदिकार्थः प्रवृत्तिनिमित्तं व्यक्तिः लिङ्गं सङ्गया चेति चतुष्कं प्रातिपदिकार्थः, प्रवृत्तिनिमित्तं व्यक्तिः लिङ्गं सङ्खया कारकश्चेति पञ्चकं प्रातिपदिकार्थः, इत्येते पक्षाः “सरूपाणामेकशेष एकविभक्तौ, स्त्रियाम्' इत्यादिसूत्रेषु भाष्ये स्थिताः मञ्जूषायां प्रपच्चिताश्च । तत्र त्रिकादिपक्षेषु लिङ्गस्यापि प्रातिपदिकार्थत्वात् पृथग्ग्रहणं व्यर्थमित्यत आह । नियतेति ॥ नियता उपस्थितिर्यस्येति विग्रहः । यस्मिन् प्रातिपदिके उच्चारिते यस्यार्थस्य नियमेनोपस्थितिः स तदर्थ इत्यर्थः । एवञ्च तटः तटी तटम् इत्याद्यनियतलिङ्गेषु नियमेन कस्यापि लिङ्गस्योपस्थित्यभावात् प्राति पदिकार्थशब्देनाग्रहणात् पृथक् लिङ्गग्रहणमावश्यकमिति भावः । मात्रशब्दस्य वचनशब्देनैवा न्वयभ्रमं वारयति । मात्रशब्दस्येति ॥ प्रातिपदिकार्थश्च लिङ्गश्च परिमाणञ्च वचनश्चेति द्वन्द्वः । प्रातिपदिकार्थलिङ्गपरिमाणवचनान्येव प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रमित्यस्वपद् विग्रहः । मात्रशब्दोऽवधारणे । “मात्रं कार्त्स्न्येऽवधारणे ' इत्यमरः । “मयूरव्यंसूकादयश्च इति नित्यसमासः । मात्रशब्दस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रातिपदिकार्थे, लिङ्गे, परिमाणे, वचने च, प्रत्यकमन्वय इत्यर्थः । वचनं सङ्खयेति वक्ष्याति । ननु प्रातिपदिकार्थमात्रे लिङ्गमात्रे परि माणमात्रे सङ्खयामात्रे च प्रथमेत्यनुपपन्नम् । लिङ्गादीनां केवलानां प्रातिपदिकार्थे विना काप्य नुपस्थितेरित्याशङ्कय अत एव बाधकात् लिङ्गमात्रे अधिके इति विवक्षितमित्यभिप्रेत्य व्याचष्टे । लिङ्गमात्राद्याधिक्ये इति । लिङ्गमात्राधिक्ये परिमाणमात्राधिक्ये चेत्यर्थः । प्रातिपदि कार्थमात्रे इत्यस्योदाहरति । उच्चैरित्यादि । नन्वव्ययेषु 'सामान्ये नपुंसकम्' इति

नपुंसकत्वस्य च कृष्णशब्दे पुंस्त्वस्य च श्रीशब्दे स्त्रीत्वस्य च ज्ञानशब्दे नपुंसकत्वस्य च

३९८
[कारके प्रथमा
सिद्धान्तकौमुदीसहिता

नीचैः । कृष्ण: । श्रीः । ज्ञानम् । अलिङ्गा नियतलिङ्गाश्च प्रातिपदिकार्थ मात्रे इत्यस्योदाहरणम् । अनियतलिङ्गास्तु लिङ्गमात्राद्याधिक्यस्य । तट: तटी-तटम् । परिमाणमात्रे द्रोणो व्रीहिः । द्राणरूपं यत्परिमाणं तत्परि च्छिन्नो व्रीहिरित्यर्थः । प्रत्ययार्थे परिमाणे प्रकृत्यर्थोऽभेदेन संसर्गेण विशेषणम् ,


भानात् कथं प्रातिपदिकार्थस्योदाहरणान्येतानीत्यत आह । अलिङ्गा इत्यादि । “ अव्यया दाप् सुपः' इति सूत्रे “आव्ग्रहणं व्यर्थमलिङ्गत्वात्' इति भाष्योक्तरीत्या अव्यये कस्यापि लिङ्गस्यानुपस्थितिरिति प्रातिपदिकार्थमात्रे इत्यस्य भवत्यव्ययमुदाहरणम् । कृष्णशब्दे पुंस्त्व स्य श्रीशब्दे स्त्रीत्वस्य ज्ञानशब्दे नपुंसकत्वस्य च नियमेन भानमस्ति । तेषां नियतलिङ्गत्वात् । अतस्तेषु लिङ्गानामपिं प्रातिपदिकार्थान्तर्भावात् तेषामपि प्रातिपदिकार्थमात्रे इत्युदाहरणत्वं निर्बाधमिति भावः । यद्यपि कृष्णः पटः, कृष्णा पटी, कृष्णं वस्त्रम्’ इत्यादौ कृष्णशब्द स्त्रिलिङ्गः । तथापि भगवत्पर एवात्र कृष्णशब्दो विवक्षित इति भावः । नचव प्रातिपदिको क्तार्थे किं प्रथमयेति वाच्यम् । एकत्वादिसङ्खयाबोधार्थत्वात् । नचाव्ययात् प्रथमोत्पत्तेः फला भावः । ‘अव्ययादाप् सुपः’ इति लुकोऽवश्यं प्रवृत्तेरिति वाच्यम् । पदत्वार्थ सुबुत्पत्तरावश्य कत्वात् । तेन उचैरित्यादौ रुत्वविसर्गीौं “उचैस्ते सम्यगुच्चारणम्’ इत्यादौ तेमयादिसिद्धिश्च भवति । अनियतेति । अनियतलिङ्गास्तु तटादिशब्दाः लिङ्गमात्राधिक्यस्योदाहरणम् । तत्र लिङ्गानामनियतोपस्थितिकतया प्रातिपदिकार्थानन्तर्भावादित्यर्थः । तटः तटी तट मिति । “तटं त्रिषु” इत्यमरः । परिमाणमात्रे इति । उदाहरणं वक्ष्यते इत्यर्थः । द्रोणो व्रीहिरिति ।। द्रोणः परिमाणविशेषः । “जालसूर्यमरीचिस्थं त्रसरेणुरिति स्मृतम् । तेऽष्टौ लिक्षा तु तास्तिस्रो राजसर्षप उच्यते । गौरस्तु ते त्रयष्षट् ते यवो मध्द्यस्तु ते त्रयः। कृष्णलः पञ्च ते माषः ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् । पलद्वयन्तु प्रसृतं द्विगुण कुडबं मतम् ॥ चतुर्भिः कुडबैः प्रस्थः प्रस्थाश्चत्वार आढकः । आढकैस्तैश्चतुर्भिस्तु द्रोण इत्यभिधीयते ॥ कुम्भो द्रोणद्वयं शूर्पः खारी द्रोणास्तु षोडश ।” इति स्मरणात् । व्रीहिरिति ॥ जातावेकवचनम् । “जात्याख्यायामेकस्मिन् बहुवचनमन्यतरस्याम् इति वचनात् । व्रीहिराशिरिति यावत् । नह्येकस्याः व्रीहेिव्यक्त्तेः द्रोणपरिमाणं सम्भवति । ननु द्रोणाख्यपरिमाणविशेषस्य त्रीहिव्यक्त्तेश्च कथमभेदान्वयः । धर्मधर्मिणोर्भेदादित्यत आह । द्रोणरूपमिति । तथाचाभेदान्वयस्य बाधादेव द्रोणपरिमाणस्य व्रीहिव्यक्त्तेश्च परिच्छेद्यपरि च्छेदकभावेनान्वयाभ्युपगमान्नोक्तदोष इति भावः । ननु द्रोणशब्दस्य परिमाणविशेषवाचिनो नियतपुल्लेिंङ्गत्वे प्रातिपदिकार्थमात्रे इत्येव सिद्धम् । यदि तु “ अस्त्रियामाढकद्रोणौ' इति द्विलिङ्गता, तर्हि लिङ्गमात्राद्याधिक्ये इत्येव सिद्धम्, तत् किं परिमाणग्रहणेनेति चेत्तत्राह । प्रत्ययार्थे परिमाणे इति । न हि द्रोणत्वेन रूपेण परिमाणविशेषवाचिद्रोणशब्दात् स्वार्थे प्रथमा विभक्तिरिष्यते, येन प्रातिपदिकार्थमात्रे इत्यनेन गतार्थता स्यात् । किन्तु द्रोणत्वेन परि

माणवाचिनो द्रोणशब्दात् परिमाणत्वसामान्यरूपेण द्रोणपरिमाणे विवक्षिते प्रथमा विभक्तिर्विधी

विभक्तिप्रकरणम्]
३९९
बालमनोरमा ।

प्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहौ विशेषणमिति विवेकः । वचनं संख्या । एक: । द्वौ । बहवः । इहोक्तार्थत्वाद्विभक्तेरप्राप्तौ वचनम् ।

५३३ । सम्बोधने च । (२-३-४७)

इह प्रथमा स्यात् । हे राम ।

इति प्रथमा विभक्तिः


यते । ततश्च प्रत्ययार्थे परिमाणसामान्ये द्रोणशब्दार्थात्मकप्रकृत्यर्थः परिमाणविशेषः सामान्य विशेषात्मकाभेदसंसर्गेणान्वेति । परिमाणसामान्यात्मकप्रत्ययार्थस्तु परिच्छेद्यपरिच्छेदकभावेन व्रीहावन्वेति । तथाच द्रोणाख्यपरिमाणविशेषात्मकं यत् परिमाणं तत्परिच्छिन्नो व्रीहिरिति बोधः फलति । अन्यथा द्रोणाख्यपरिमाणविशेषपरिच्छिन्नो व्रीहिरित्येव बोधस्स्यात् । परिमाणत्व सामान्यं न प्रतीयेत । तदर्थमिह परिमाणग्रहणमित्यर्थः । वचनं सङ्खयेति ॥ पूर्वाचार्येैस्तथा संज्ञाकरणादिति भावः । तथाच सङ्ख्यामात्रे प्रथमेति लभ्यते । नच लिङ्ग मात्राद्याधिक्ये परिमाणमात्राधिक्ये इतिवत् सङ्खयामात्राधिक्ये इति कुतो न व्याख्यातमिति वाच्यम् । केवललिङ्गपरिमाणयोः क्वाप्युपस्थित्यभावेन तथा व्याख्यानेऽपि एकद्विबहुशब्देष्वेक त्वद्वित्वबहुत्वानां केवलानान्नियतोपस्थितिसत्त्वेन सङ्खयामात्रे इत्येव व्याख्यातुमुचितत्वात् । अत एव भाष्ये वचनग्रहणस्य एकः द्वौ बहवः इत्युदाहृतम् । ननु एकः द्वौ बहवः इत्यत्र एकत्व द्वित्वबहुत्वानां नियमेनोपस्थित्या 'प्रातिपदिकार्थे' इत्येव सिद्धे वचनग्रहणं व्यर्थमित्यत आह । इहेति । प्रकृतिभिरेवैकत्वादीनामुक्तत्वात् “उक्तार्थानामप्रयोगः' इति न्यायेन प्रथमा विभक्तेरप्राप्तौ तदर्थं वचनग्रहणामित्यर्थः । तथाच विभक्तिरिहानुवादशब्दसाधुत्वार्थ प्रयोज्या । न केवला प्रकृतिः प्रयोक्तव्या नापि प्रत्ययः' इति अनभिहितसूत्रभाष्यसिद्धन्यायादिति भावः । इदमेवाभिप्रेत्योक्त्तं भाष्ये । “उक्त्तेष्वप्येकत्वादिषु प्रथमा' इति । मात्रग्रहणात् कारका द्याधिक्ये प्रथमा न भवति । अत्र “ अर्थे प्रथमा, इत्येव सूत्रयितुमुचितम्” इति प्रौढमनोरमादौ प्रपञ्चितम् । सम्बोधने च ॥ इहेति ॥ सम्बोधने अधिके गम्येऽपि प्रथमा स्यादित्यर्थः । सम्बोधनमभिमुखीकृत्य ज्ञापनम् । हे रामेति ॥ मां पाहीति शेषः । इह रामं प्रात मद्रक्षणं ज्ञाप्यम् । नच “हे राजन् सार्वभौमो भव' इत्यत्र सार्वभौमशब्दादपि प्रथमा = स्यादिति वाच्यम् । सम्यक् बोधनमेव हि सम्बोधनम् । समित्युपसर्गबलात् श्रोतरि विशिष्य राजत्वा दिना ज्ञाते सत्येव तं प्रति कश्चिदर्थो ज्ञापयितुं शक्यः, नान्यथा । ततश्च सम्बोधनविभक्तिरिय मनुवाद्यविषयैवेति लभ्यते । न तु विधेयविषया । तथाच सार्वभौमत्वस्य विधेयस्य इदानी मसिद्धत्वेन अनुवाद्यत्वाभावान्न सार्वभौमशब्दात् सम्बोधनविभक्तिरिति मञ्जूषायां विस्तरः ॥

इति प्रथमा विभक्तिः ।


४००
कारके द्वितीया
सिद्धान्तकौमुदीसहिता

अथ द्वितीया विभक्तिः

५३४ । कारके । (१-४-२६)

इत्यधिकृत्य ।

५३५ । कर्तुरीप्सिततमं कर्म । (१-४-४९ )

कर्तुः क्रियया आप्तुमिष्टतमं कारकं कर्मसंज्ञ स्यात् । “कर्तुः' किम् । माषेष्वश्वं बध्नाति । कर्मण ईप्सिता माषाः, न तु कर्तुः । तमब्ग्रहणं किम् । पयसा ओदनं भुङ्क्ते । “कर्म' इत्यनुवृत्तौ पुनः कर्मग्रहणमाधारनिवृत्त्यर्थम् । अन्यथा गेहं प्रविशतीत्यत्रैव स्यात् ।


अथ द्वितीया विभक्तिः-कारके ॥ इत्यधिकृत्येति । संज्ञाः वक्ष्यन्ते इति शेषः । क्रियाजनकं कारकम्। करोति क्रियान्निर्वर्तयतीति भाष्ये व्युत्पत्तिदर्शनात् । ब्राह्मणस्य पुत्रं पश्यती त्यत्र ब्राह्मणस्यान्यथासिद्धत्वान्न कारकत्वम्। कर्तुरीप्सित ॥ कारके इत्यनुवर्तते । प्रथमया वि परिणम्यते । आप्तुमिष्यमाणमीप्सितम् । आप्लृ व्याप्तौ, अस्मात् सन्नन्तात् 'मतिबुद्धिपूजार्थे भ्यश्च' इति वर्तमाने त्क्तः । मतिरिच्छा, बुद्धेः पृथग्ग्रहणात् । “क्तस्य च वर्तमाने' इति कर्तरि षष्ठी । अतिशयेनेप्सितमीप्सिततमम् । धातूपात्तव्यापाराश्रयः कर्ता । केनाप्तुमित्याकाङ्क्षायां कर्तृविशेषणीभूतव्यापारेणेत्यर्थालभ्यते । फलितमाह । कर्तुः क्रिययेत्यादिना ।। क्तप्रत्ययो पात्तं वर्तमानत्वन्तु न विवक्षितम् । तेन कटं कति, कृतवान्, इत्यादौ नाव्याप्तिः । आप्ति स्सम्बन्धः । एवञ्च कर्ता स्वनिष्ठव्यापारप्रयोज्यफलेन सम्बडुमिष्यमाणमित्यर्थः । यथा तण्डु लान् पचति इत्यत्र विक्लित्त्यनुकूलव्यापारः पचेरर्थः । तप्तोदकप्रस्वेदनकृतप्रशिथिलावयवकत्वा त्मकं मृदुविशदत्वं विक्लित्तिः, तदनुकूलव्यापारः अधिश्रयणोदकासेचनैधेोपकर्षणप्रज्वलनादिरूप इति कारके इत्यादिसूत्रभाष्ये स्पष्टम् । अत एव “फलव्यापारयोर्धातुः' इति सिद्धान्तः । तथाच तण्डुलानधिश्रयणादिव्यापारेण विक्लेदयतीत्यर्थः । अधिश्रयणादिरूपकर्तृव्यापारप्रयोज्यविक्लितरूप फलाश्रयत्वात् तण्डुलानां कर्मत्वम् । ननु कर्तृग्रहणं व्यर्थम्। नच व्यापारलाभाय तदिति वाच्यम्। केनाप्तुमित्याकाङ्क्षायां कारकाधिकारादेव तल्लाभादिति पृच्छति । कर्तुः किमिति । माषेष्व श्वं बध्नातीति ॥ माषेषु भक्षणाय प्रवृत्युन्मुखमुदरव्यधाभयात्तद्भक्षणान्निवर्तयितुमन्यत्र बध्ना तीत्यर्थः । अत्र माषाणां कर्मत्वनिवृत्त्यर्थे कर्तृग्रहणमिति भावः । ननु कर्तृग्रह्णणे कृते कथं नोक्त दोष इत्याह । कर्मणः ईप्सिताः माषाः, न तु कर्तुरिति । बन्धनकर्मीभूतस्याश्वस्यैवात्र माषाः ईप्सिताः, नतु बन्धनकर्तुः । अश्वरक्षणस्यैव तदपेक्षितत्वादित्यर्थः । तमब्ग्रहणं किमिति ॥ तमबन्तमीप्सिततममित्येतत् किमर्थं 'कर्तुरुद्देश्यं कर्म' इत्येवास्तु इति प्रश्नः । पयसा ओदनं भुङ्क्ते इति ॥ पयसा मिश्रमित्यर्थः । यद्यप्यत्र भोक्तुरोदन एव पयसा

मिश्रः उद्देश्यः, नतु केवलं पयः, नापि केवल ओदनः । नह्यसौ केवलपयःपानेन तुष्यति,

'विभक्तिप्रकरणम्]
४०१'
बालमनोरमा ।

५३६ । अनभिहिते । (२-६-१)

इत्यधिकृत्य ।

५३७ । कर्मणि द्वितीया । (२-३-२)

अनुक्त्ते कर्मणि द्वितीया स्यात् । हरिं भजति । अभिहिते तु कर्मणि प्रातिपदिकार्थमात्रे' इति प्रथमैव । अभिधानं च प्रायेण तिङ्कृत्तद्धितसमासैः । तिङ् , हरिः सेव्यते । कृत्, लक्ष्म्या सेवितः । तद्धित, शतेन क्रीतः शत्यः ।


नापि केवलौदनेन । तथापि यदा भुक्तवानेव पयोलिप्सया पुनरोदनभोजने प्रवर्तते तदेदं प्रत्युदाहरणम् । तत्र यद्यपि पय एव उद्देश्यं भुजिक्रियां प्रति, तथापि भुजिक्रियाकर्मीभूतमोदनं प्रति मिश्रणसाधनतया गुणत्वेनैव तदुद्देश्यं, नतु भोज्यत्वेन । अतस्तत्र पयसो गुणत्वेन ओदनस्य तत्संस्कार्यतया उद्देश्यत्वादोदनस्यैव ईप्सिततमत्वम्, नतु पयसोऽपि । तस्याप्योदन एव ईप्सिततमः, गुणेष्वस्य नानुरोध इति भावः । ननु तमब्ग्रहणं किमर्थम् । “कर्तुरीप्सितं कर्म' इत्येवास्त्विति वाच्यम् । “ अन्नेर्माणवकं वारयति ? इत्यत्र माणवकस्य “वारणार्थानामी प्सितः' इत्यपादानत्वनिवृत्त्यर्थत्वादिति प्रकृतसूत्रभाष्ये स्थितम् । तदेतद्वारणार्थानामिति सूत्र व्याख्यावसरे स्फुटीभविष्यति । प्राचीनैस्तु कैश्चित् तमब्ग्रहणं किम्, “पयसा ओदनं भुङ्क्ते इति ग्रन्थः केवलतमब्ग्रहणप्रयोजनपरतया व्याख्यातः । ते भाष्यविरुद्धत्वादुपेक्ष्याः । ननु अधिशीङ्स्थासां कर्म' इत्यतोऽनुवृत्तेरिह कर्मग्रहणं व्यर्थमित्यत आह । कर्मग्रहणमाधा रेति ॥ अधिशीडित्यत्र हि आधारः इत्यनुवर्तते । इहापि तदनुवृत्तिर्माभूदिति कर्मग्रहणमि त्यर्थः । ननु हरिं भजतीत्यादावसम्भवादेव तदनुवृत्तिर्न भविष्यतीत्यत आह । अन्यथा गेहं प्रविशतीत्यत्रैव स्यादिति ॥ हरिं भजतीत्यादौ न स्यादित्येवकारार्थः । अनभिहिते ॥ इत्यधिकृत्येति । द्वितीयादि वक्ष्यते इत्यर्थः । कर्मणि द्वितीया ॥ 'अनभिहिते' इत्यनु वृत्तं व्याचष्टे । अनुत्ते इति । हरिं भजतीति ॥ तुष्टयनुकूलपरिचरणात्मकव्यापारः भजे रर्थः, पूजादिव्यापारेण हरिं तोषयतीत्यर्थः । कर्तृनिष्ठपूजनादिव्यापारप्रयोज्यतुष्टिरूपफलाश्रयत्वा द्धरिः कर्म । हरिनिष्ठतुष्टयनुकूलः एकदेवदत्तनिष्ठो वर्तमानो व्यापार इति बोधः । “भावप्रधान माख्यातम्' इति निरुक्तकारयास्कवचनात् क्रियाप्रधानन्तिङन्तमिति तदर्थः । एवञ्च हरिनिष्ठ तुष्टयनुकूलव्यापाराश्रयो देवदत्त . इति प्रथमान्तविशेष्यकबोधस्तार्किकसम्मतो नात्र्तव्य इति मञ्जूषादौ प्रपश्चितम् । अभिहिते त्विति ॥ हरिस्सेव्यते इत्यादाविति शेषः । प्रथमै वेति ॥ तद्विधावनभिहिताधिकाराभावात् “ अभिहिते प्रथमा' इति वार्तिकाच्चेति भावः । अत्र भाष्ये कटं करोति भीष्ममुदारं दर्शनीयं शोभनमित्यत्र कटशब्दादुत्पाद्यमानया द्वितीयया कर्मणोऽभिहितत्वात् भीष्मादिभ्यो द्वितीया न प्राप्तोतीत्याशङ्कय “तिङ्कृत्तद्धितसमासैरभि धानम्’ इति परिगणितम् । तत्र प्रायेणेत्यध्द्याहृत्य आह । अभिधानञ्चेति ॥ समासैरित्यनन्तरं विवक्षितमिति शेषः । तिङिति ॥ आविभक्तिकनिर्देशोऽयं तिङभिधानप्रदर्शनाय । हरेिः

सेव्यते इति ॥ 'लः कर्मणि' इति कर्मणि लकारः । ‘भावकर्मणोः' इत्यात्मनेपदम् ।

४०२
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

समास, प्राप्तः आनन्दो यं स प्राप्तानन्दः । क्वचिन्निपातेनाभिधानम् । यथा । विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम्। सांप्रतमित्यस्य हि युज्यत इत्यर्थः ।


तिङन्तेन अभिहितत्वाद्धरेः कर्मणो न द्वितीयेति भावः । हरिं भजतीति वाक्यार्थः । कर्तृकर्म लकारयोरेकरूप एव वाक्यार्थबोध इति वैयाकरणसमयः । कृदिति ॥ तिङीतिवदयमप्यावि भक्तिकनिर्देशस्तदुदाहरणसूचनाय । लक्ष्म्या सेवितः इति ॥ हरिरिति शेषः । भूते कर्मणि त्क्तः, कर्तरि तृतीया । लक्ष्मीनिष्ठपरिचरणजनिततुष्टयाश्रयो हरिरिति बोधः । “सत्त्वप्रधानानि नामानि' इति यास्कस्मृतिमनुरुध्द्य प्रातिपदिकेषु प्रथमान्तोपात्तविशेष्यकबोधस्यैव सर्वसम्मत त्वात् । अत्र सेवितहरेः कर्मणः कृता अभिहितत्वान्न द्वितीया । तद्धितेति ॥ अयमप्यवि भक्तिकनिर्देशस्तदुदाहरणसूचनाय । शतेन क्रीतः शत्यः इति ॥ पटादिरिति शेषः । शताञ्च ठन्यतावशते' इति यत्प्रत्ययस्ताद्वित: । अत्र कर्मणस्तद्वितेनोक्तत्वान्न द्वितीया । समासेति । अयमप्यविभक्तिकनिर्देशस्तदुदाहरणसूचनाय । प्राप्तानन्दः इति ॥ देवदत्ता दिरिति शेष । गत्यर्थाकर्मक इत्यादिना प्राप्तेति कर्तरि 'क्तः । अन्यपदार्थस्य कर्मणः बहु गत्यर्थाकर्मक' इत्यादिना प्राप्तति कर्तरि व्रीहिसमासेनाभिहितत्वान्न द्वितीयेति भावः । आनन्दकर्तृकप्राप्तिकर्मीभूित इति बोधः । प्रायेणे त्यस्य फलन्दर्शयति । क्वचिदिति ॥ विषवृक्षोऽपीति ॥ असाम्प्रतमित्यत्रान्वेति । संवर्ध्द्ये त्यत्र छेत्तुमित्यत्र चान्वये द्वितीयापत्तेः । तत्र त्वर्थाद्विषवृक्षमिति गम्यते । न साम्प्रतमिति विग्रहे नञ्तत्पुरुषः । युज्यत इत्यर्थः इति ॥ युजिर्योगे कर्मणि लकारः । औचित्या न युज्यते । औचित्ययुक्तो न भवतीति यावत् । “युक्त द्वे साम्प्रतं स्थाने ” इत्यमरः । अत्र वृक्षस्य कर्मणो निपातेनाभिहितत्वान्न द्वितीयेति भावः । वस्तुतस्तु छेत्तुमिति तुमुन्नत्र दुर्लभः । कृष्णं द्रष्टुं यातीत्यत्रेव क्रियार्थक्रियोपपदत्वाभावेन “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इत्यस्या प्रवृत्तेः । “शकधृष' इत्यादिनापि तुमुन्न, शकादियोगाभावात् । किन्तु “इच्छार्थेषु' इत्यनुवृत्तौ समानकर्तृकेषु तुमुन्' इति तुमुन् । अक्रियार्थोपपदत्वेऽपि तस्य प्रवृत्तेः । यथा इच्छति भोक्तुमित्यादि । एवञ्च तुमुनस्साधुत्वाय इष्यते इत्यध्याहार्यम् । विषवृक्षोऽपि संवर्ध्य छेत्तुम् इष्यते इति यत् तदूसाम्प्रतम् अयुक्तमित्यर्थः । “एवञ्चालापि तिङाभिहितत्वादेव द्वितीया निवारणात् कृत्तद्धितसमासैरभिधानम् इति परिगणनवार्तिके प्रायेणेत्यध्द्याहारो विफलः” इति शब्देन्दुशेखरे स्थितम् । पक्वमोदनं भुङ्क्ते इत्यत्र तु पविभुजिक्रियानिरूपिते द्वे कर्मत्वशक्ती । तत्र गुणभूतपचिनिरूपितकर्मत्वशक्तेः क्तप्रत्ययाभिहितत्वेऽपि प्रधानभूतभुजिक्रियानिरूपितामन भिहितां कर्मत्वशक्तिमादाय द्वितीया निर्बाधेति भाध्ये स्पष्टम् । ननु यथा बहुपटुरित्यादौ तद्धितेन बहुच्प्रत्ययेन उक्तत्वात् कल्पबादयो नभवन्ति, तथा क्रियते कटः इत्यादावपि तिङादिभिरुक्तत्वातू द्वितीयादयो न भविष्यन्ति । ‘उक्तार्थानामप्रयोगः’ इति न्यायात् । किञ्च कटं करोतीत्यादौ सावकाशा द्वितीया कृतः कटः इत्यादौ न भवत्येव । अनवकाशया प्रथमया बाधात् । न च वृक्षः प्लक्षः इत्यादिः प्रथमायाः अवकाश इति वाच्यम् । तत्र गम्यामस्तिक्रियां प्रति कर्तृत्वे तृतीया

प्रसङ्गात् । अतु वा तत्र प्रथमाया अवकाशः । 'तथाप्युभयास्सावकाशत्वं् परत्वात् प्रथमैव

विभक्तिप्रकरणम्]
४०३
बालमनोरमा ।

५३८ । तथायुक्त चानीप्सितम् । (१-४-५०)

ईप्सिततमवत्क्रियया युक्तमनीप्सितमपि कारकं कर्मसंज्ञ स्यात् । ग्रामं गच्छंस्तृणं स्पृशति । ओदनं भुञ्जानो विषं भुङ्क्ते ।

५३९ । अकथितं च । (१-४-५१)

अपादानादिविशेषेरविवक्षितं कारकं कर्मसंज्ञे स्यात् ।


स्यात् । एवञ्चानभिहिताधिकारो व्यर्थ इति चेन्मैवम् । “कर्मणि द्वितीया' इत्यादीनां * चकयो र्द्विवचनैकवचने' 'बहुषु बहुवचनम्' इत्यनयोश्च एकवाक्यतया कर्मणि यदेकत्वं द्वित्वं बहुत्वं वा तत्र एकद्विबहुवचनानीति लभ्यते । तत्र “अनभिहिते' इत्यारम्भे अनभिहिते कर्मणि यदेकत्वं तत्र द्वितीयेत्येवमर्थस्यात् । “ अनभिहिते' इत्यभावे तु कर्मणि यदेकत्वन्तत्र द्वितीयैक वचनामित्येव पर्यवस्येत् । तथा सति कृतः कट इत्यादौ क्तेन कर्ममात्रोक्तावपि तदेकत्वस्यानुक्त तया द्वितीयैकवचनन्दुर्वारं स्यात् । नच प्रथमाया निरवकाशत्वं शङ्कयम् । नीलमिदन्नतु रक्त मित्यादौ विशेषणान्तरनिवृत्तितात्पर्यके अस्तिक्रियायाः अनावश्यकत्वेन तत्र प्रथमायास्सावका शत्वात् । नापि तत्र परत्वात् प्रथमैव भविष्यतीति वाच्यम् । कर्तव्यः कट इत्यादौ ततोऽपि परत्वेन कृद्योगलक्षणषष्ठीप्रसङ्गात् । एवञ्च सङ्गया विभक्तयर्थ इति पक्षे “ अनभिहिते' इत्या रब्धव्यम् । यदि तु पञ्चकं प्रातिपदिकार्थः इत्यनाश्रित्य कारकं विभक्तयर्थ इत्याश्रीयते तदा कारकस्य त्क्तप्रत्ययादिनोक्तत्वान्न द्वितीयादिविभक्तिप्रसक्तिः । एकत्वादिसङ्खयाबोधश्च प्राति पदिकार्थमात्रे प्रवृत्तया प्रथमयैव सम्भवति । अतः * अनभिहिते’ इति नारब्धव्यमिति भाष्य कैयटकौस्तुभादिषु स्पष्टम् । अतिविस्तरस्तु मञ्जूषायामनुसन्धेयः तथायुक्तञ्चानीप्सितम्॥ तथाशब्दस्य सादृश्यवाचकस्य प्रतियोगिसापेक्षत्वादाह । ईप्सिततमवदिति ॥ पूर्वसूत्रे सन्निहितत्वादीप्सिततममेव सादृश्यप्रतियोगीति भावः । क्रिययेति ॥ क्रियाजन्यफलयुक्त मित्यर्थः । पूर्वसूत्रे ईप्सिततमस्य कर्मत्वमुक्तम् । द्वेष्योपेक्ष्यसङ्गहार्थमिदं वचनम् । तत्र उपेक्ष्य मुदाहरति । ग्रामं गच्छंस्तृणं स्पृशतीति ॥ संयेोगानुकूलव्यापारः स्पृशेरर्थः । अत्र स्पृश्यमानस्य तृणस्य ईप्सिततमत्वाभावेऽपि गङ्गां स्पृशतीत्यादौ स्पृश्यमानस्येप्सिततमस्य गङ्गादेरिव क्रियाजन्यसंयोगात्मकफलाश्रयत्वात्कर्मत्वमिति भावः । द्वेष्यमुदाहरति । विषं भुङ्क्त इति । यदा कश्चिद्वलवता वैरिणा निगृह्यमाणो विषं भुङ्क्ते तदेदमुदाहरणम् । भुजेर्हिं मुखे प्रक्षिप्तस्य गळविवरप्रवेशानुकूलः हनुचलनादिव्यापारोऽर्थः । विषस्य द्वेष्यतया ईप्सिततम त्वाभावेऽपि ओदनं भुङ्क्ते इत्यादौ मुज्यमानस्य ईप्सिततमस्य ओदनादेरिव क्रियाजन्यगळ विवरप्रवेशात्मकफलाश्रयत्वात् कर्मत्वमिति भावः । नच “धातूपस्थाप्यफलशालि कर्म' इत्ये वास्तु, किमीप्सितानीप्सितयोः पृथक् ग्रहणेनेति वाच्यम् । अग्नेर्माणवकं वारयतीत्यत्र हि “वार णार्थानामीप्सितः’ इति माणवकस्यापादानत्वं प्राप्तं तन्निवृत्त्यर्थं 'कर्तुरीप्सिततमम्’ इति वक्तव्य मेव । एवञ्च द्वेष्योदासीनसङ्गहार्थ 'तथायुक्तश्च' इति सूत्रमावश्यकमित्यास्तान्तावत् । अकथि

तञ्च ॥ अकथितशब्दं व्याचष्टे । अपादानादिविशेषैरिति ॥ अपादानं सम्प्रदानम् अधि

४०४
कारके द्वितीया
सिद्धान्तकौमुदीसहिता

दुह्याच्पच्दण्ड्रूधिप्रच्छिचिबूशासुजिमथ्मुषाम् । कर्मयुक्स्याद्कथितं तथा स्यान्नीह्रकृष्वहाम् । 'दुहादीनां द्वादशानां तथा नीप्रभृतीनां चतुर्णा कर्मणा यद्युज्यते तदेवाकथितं कर्म' इति परिगणनं कर्तव्यमित्यर्थः । गां दोग्धि पयः । बलिं याचते


करणं कर्म करणं कर्ता हेतुः इति कारकसप्तकम् । तदेतद्यदा अपादानत्वादिविशेषात्मना न विव क्षितं किन्तु सम्बन्धसामान्यात्मनैव तदा तत्कर्मसंज्ञकमित्यर्थः । ननु 'नटस्य श्रृणोति गाधाम् इत्यत्र गाधाकर्मकं नटसम्बन्धि श्रवणमित्यर्थकेन नटस्यापि कर्मत्वं स्यात् । तस्य क्रियान्वयि त्वेन कारकत्वात् । वस्तुतः अपादानस्य सम्बन्धत्वेन विवक्षितत्वाच्चेत्याशङ्कय परिगणयति । दुह्याजिति ॥ वार्तिकार्थसङ्ग्रहश्लोकोऽयम् । अतो व्याचष्टे । दुहादीनामिति ॥ दुह प्रपूरणे, टु याचृ याच्ञ्जायाम्, डु पचष् पाके, दण्ड दण्डनिपातने । चुरादिः निग्रह इत्यर्थः । इह ग्रहणार्थकः । रुधिर् आवरणे, प्रच्छ इप्सिायाम् । श्लोके प्रच्छीत्यत्रेकार उच्चारणार्थः। इका निर्देशे तु “ग्रहिज्या' इति सम्प्रसारणप्रसङ्गात् । चिञ् चयने, बूञ् व्यक्तायां वाचि, शासु अनुशिष्टौ, जि अभिभवे, मन्थ विलोडने, मुष स्तेये, इति द्वादशानामित्यर्थः। चतुर्णामिति ॥ णीञ् प्रापणे, ह्यञ् हरणे, कृष विलेखने, दह प्रापणे, इतेि चतुर्णामित्यर्थः । कर्मणा यद्युज्यते इति ॥ कर्मयुगित्यस्य व्याख्यानमिदम् । करणे उपपदे कर्मणि वाच्ये 'सत्सूद्विष' इत्यादिना क्विबिति भावः । यद्यपि “दुहियाचिरुधिप्रच्छिभिक्षिचिञामुपयोगनिमित्ततमपूर्वविधौ । बुवि शासिगुणेन च यत् स च ते तदकीर्तितमाचरितं कविना ” इति प्रकृतसूत्रस्थश्लोकवार्तिके पचिमथिमुष्यादयो न पठिताः । तथापि चकारेण तेऽपि सङ्गाह्या इति कैयटः । गां दोधि पयः इति ॥ क्षरणानुकूलव्यापारः क्षारणपर्यायो दुहेरर्थः । क्षारणात्मकव्यापारप्रयोज्यक्षरणा त्मकफलाश्रयात्पयः कर्म । गौस्तु क्षरणे अपादानम् । तदपादानत्वमुपेक्ष्य सम्बन्धत्वात्मना गोर्विवक्षायां कर्मत्वमनेन भवति । ततश्च शेषषष्ठीनिरासे द्वितीया भवति । तादिदमुक्त प्रौढ मनोरमायाम् । गोसम्बन्धि पयःकर्मकन्दोहनमर्थ इति । तथाच न माषाणामश्रीयादित्यत्रेव शेषत्वविवक्षायां प्राप्तां षष्ठीं बाधितुमिदं सूत्रम् । गोरपादानत्वविवक्षायान्तु पञ्चम्येव, गोः पयो दोग्धीति । गोसकाशात् पयः क्षारयतीत्यर्थः । यदि तु गौः पयोविशेषणं तदा षष्ठयेव । गोसम्बन्धि यत्पयः तत् क्षारयतीत्यर्थः । एवमग्रेऽप्यूह्यामिति प्राचीनमतानुसारी पन्थाः । वस्तु तस्तु अपादानत्वादिविशेषरूपेणाविवक्षितं किन्तु कर्मत्वेनैव विवक्षितम् अकथितम् । तादृश मपादानादि कर्मसंज्ञकं स्यादित्यर्थः । कारकत्वव्याप्यसंज्ञानां स्वबोध्ये कर्मत्वादिशक्तिमत्त्वबोध कत्वात् बोधोऽपि तथैव । एवञ्च गान्दोग्धि पयः इत्यत्र गोकर्मकं पयःकर्मकञ्च दोहनमित्येव बोधः । अवधेस्सकाशाद्रवद्रव्यविभागो हि क्षरणम् । तच्च गोपनिष्ठव्यापारप्रयोज्यम् । एवञ्च कर्तृव्यापारप्रयोज्यक्षरणात्मकविभागविशेषाश्रयत्वात् गोः पयसश्च पूर्वसूत्राभ्यां कर्मत्वमस्त्येव । अतः उभयकर्मकबोध एव युक्तः, नतु सम्बन्धत्वेन गोर्बोधः । अत एव प्रकृतसूत्रभाष्ये


१ इदं च १०९०. ११०० वार्तिकादिसिद्धम्

विभक्तिप्रकरणम्]
४०५
बालमनोरमा ।

वसुधाम् । अविनीतं विनयं याचते । तण्डुलानोदनं पचति । गर्गाञ्छतं दण्डयतेि । ब्रजमवरुणद्धि गाम् । माणवकं पन्थानं पृच्छति । वृक्षमपचिनोति


अकथितम्' इत्यनेनैव सिद्धत्वात् पूर्वसूत्रद्वयस्य वैयर्थ्यमाशङ्कय ईप्सितमात्रस्याप्यनेन कर्म संज्ञायां * वारणार्थानाम्' इत्यस्यानवकाशतया अग्नेर्र्माणवकं वारयतीत्यत्र माणवकस्यापादान संज्ञायां प्राप्तायां “कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । ततश्च द्वेष्यापेक्ष्यसङ्गह्वाय ' तथा युक्तञ्चानीप्सितम्' इत्यारब्धव्यमिति समाहितम् । एतेन कर्मसंज्ञा सर्वा सिद्धा भवति । अक थितेन तत्रेप्सितस्य किं स्यात् प्रयोजनं कर्मसंज्ञायाः । यत्त्वकथितं पुरस्तादीप्सितयुक्तञ्च तस्य सिध्द्यर्थम् । ईप्सितमेव तु यत्स्यात्तस्य भविष्यत्यकथितेनेति श्लोकद्वयेनेति शब्देन्दु शेखरे स्थितम् । एतेन कर्मेत्यादिभाष्यार्थस्तु कैयटे भाष्यप्रदीपोद्दयोते च स्पष्ट इत्यास्ता न्तावत् । बलिं याचते वसुधामिति ॥ हरिरिति शेषः । बलिर्नामासुरविशेषः । मह्य न्देहीति प्रार्थना याचेरर्थः । दानानुकूलो मह्यन्देहीति शब्दप्रयोगरूपव्यापार इति यावत् । बलिकर्तृकं वसुधाकर्मकं दानं प्रार्थयते इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नव्याः । प्रार्थनारूपव्यापारजन्यदाने जनकतया आश्रयत्वात् । बलेिसम्बन्धि यद्वसुधाकर्मकं दानं तत् प्रार्थयत इत्यर्थ इति तु प्राचीनाः । अविनीतं विनयं याचते इति ॥ अभ्युपगमप्रार्थना याचेरर्थः । यदा कश्चिद्वलवान् अविनीतः दुर्बलं कञ्चिद्वाधते तदा दुर्बलमधिकृत्येदं वाक्यं प्रवृत्तम् । अविनीतकर्तृकं विनयकर्मकमभ्युपगमं प्रार्थयत इत्यर्थः । कर्तुः कर्मत्वविवक्षायां द्वितीयेति नवीनाः। अविनीतसम्बन्धिकमिति तु प्राचीनाः । तण्डुलानोदनं पचतीति ॥ विक्लित्यनुकूलव्यापार पचेरर्थः । तप्तोदकप्रस्वेदनजनितप्रशिथिलावयवकत्वात्मकं मृदुविशदत्वं विक्लितिः । तया ओदना ख्यद्रव्यान्तरं प्रकृतिभूतेषु तण्डुलेषु समवेतं निष्पद्यते इति स्थितिः। तत्र शिथिलावयवसंयोगविशेषा त्मिका विक्लित्त्तिस्समवायसम्बन्धेन तण्डुलेषु वर्तते । ओदने तु जन्यजनकभावेन वर्तते । तण्डुलै प्रकृतिभूतैः ओदनं करोतीत्यर्थः । तण्डुलसमवायिकारणिकान्तत्समवेतौदनजनिकां विक्लित्तिं निर्वर्तयतीत्यर्थः । तत्र व्यापारफलं विक्लित्ति प्रति जन्यतया आश्रयत्वात् ओदनः प्रधानं कर्म । तादृशौदनजनिकां विक्लित्तिं प्रति समवायित्वेनाधारत्वात् तण्डुलानां गुणकर्मत्वमिति तद्विवक्षायां द्वितीया । तण्डुलसम्बन्धिनीमोदनजनिकां विक्लित्तं निर्वर्तयतीति तु प्राचीनाः । गर्गान् शतं दण्डयतीति ॥ दण्डधातुः ग्रहणानुकूलव्यापारार्थकः । ताडनादिना गर्गेभ्यस्सुवर्णशतं गृह्णाती त्यर्थः । ताडनादिव्यापारप्रयोज्यग्रहणविषयत्वात् शतं प्रधानकर्म । गर्गाणान्तु तद्ग्रहणावधि कत्वात् गुणकर्मत्वम् । ग्रहणं हि परकीयद्रव्यस्य परस्वत्वनिवृत्तिपूर्वकं स्वीकरणम् । तत्र स्वत्वविश्लेषे गर्गाणामवधित्वात् अपादानत्वम् । ग्रहणघटकतादृशविश्लेषप्रतियोगिभूतस्वत्वा श्रयत्वात् कर्मत्वश्च । तत्रापादानत्यमनादृत्य कर्मत्वविवक्षायां द्वितीया गर्गसम्बन्धिकमिति तु प्राञ्चः । व्रजमवरुणद्धि गामिति ॥ निर्गमप्रतिबन्धपूर्वकयत्किञ्चिदधिकरणकचिरस्थि त्यनुकूलबन्धनद्वारपिधानादिव्यापारो रुधेरर्थः । गान्निर्गमप्रतिबन्धपूर्वकं व्रजे विरस्थितिकां करोतीत्यर्थः । अत्र चिरास्थितिं प्रति व्रजस्याधिकरणत्वमुपेक्ष्य गोद्वारा तत्स्थित्याश्रयतया कर्म त्वविवक्षायां द्वितीया । व्रजसम्बन्धिनं गोकर्मकं विरस्थित्यनुकूलव्यापारं करोतीत्यर्थ इति

४०६
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

फलानि । माणवकं धर्मं ब्रूते-शास्ति वा । शतं जयति देवदत्तम् । सुधां क्षीरनिधिं मथ्नाति । देवदत्तं शतं मुष्णाति । ग्राममजां नयति-हरति-कर्षति-


प्राचीनाः । माणवकं पन्थानं पृच्छतीति ॥ जिज्ञासितव्यार्थज्ञानानुकूलः केन पथा गन्त व्यमित्यभिलापादिरूपव्यापारः प्रच्छेरर्थः । तत्र विषयतया ज्ञानरूपफलाश्रयत्वात् पन्थाः प्रधानकर्म । तद्ज्ञानं प्रति जनकतया आश्रयत्वात् माणवको गुणकर्म । माणवकेन पन्थानं ज्ञातुमिच्छतीत्यर्थः । अत्र माणवके करणत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया । पथिविषयकं माणवकसम्बन्धिज्ञानमिच्छतीत्यर्थ इति प्राञ्चः । वृक्षमपचिनोति फलानीति ॥ वृक्षात् प्रच्याव्य फलान्यादत्त इत्यर्थः । प्रच्याव्यादानानुकूलव्यापारो लोष्टप्रहारादिरूपः अपपूर्वकचिञ्धा तोरंर्थः । तत्र प्रच्याव्यादानविषयत्वात् फलानि प्रधानकर्म । प्रच्यवावधित्वादृृक्षः अपादानम् । तस्यापादानत्वमुपेक्ष्य कर्मत्वविवक्षायां द्वितीया । वृक्षस्य फलप्रच्यवाश्रयत्वेन कर्मत्वात् प्रच्यवस्य विभागस्य द्विनिष्ठत्वात् वृक्षसम्बन्धि यत् प्रच्युतफलादानं तत् करोतीत्यर्थः इति प्राचीनाः । माणवकं धर्मं ब्रूते शास्ति वेति ॥ बोधनानुकूलव्यापारः चोदनालक्षणोऽर्थो धर्मः इत्यादिशब्दप्रयोगात्मको ब्रूञोऽर्थः। माणवकाय धर्मं बोधयतीत्यर्थः। व्यापारप्रयाज्य बोधविषयत्वाद्धर्मः प्रधानकर्म । बोधविषयेण कर्मणाऽभिप्रेयमाणत्वान्माणवकस्सम्प्रदानम् । तस्य सम्प्रदानत्वमुपेक्ष्य बोधधर्मद्वारा बाधाश्रयत्वात् कर्मत्वविवक्षायां द्वितिया । धर्मविषयकं माणवकसंबन्धिनं बोधञ्जनयतीत्यर्थ इति तु प्राञ्चः । शासेस्तु धर्म कुर्वेित्यादिविधिघटित शब्दप्रयोगरूपो बोधनानुकूलः अर्थः । इतरत् प्राग्वत् । शतञ्जयति देवदत्तमिति ॥ जि अभिभवे । ग्रहणानुकूलताडनादिव्यापारो जयतेरर्थः । गर्गान् शतं दण्डयतीतिवद्याख्येयम् । सुधां क्षीरनिधिं मथ्नातीति ॥ मन्थ विलोडने । द्रवद्रव्यगतसारोद्भावनानुकूलः मन्थान दण्डभ्रमजनितसंक्षोभात्मकास्फालनपर्यायो व्यापारो मन्थरर्थः । क्षीरोदधेस्सकाशात् सुधा म्मन्थानदण्डभ्रमणेनोऽद्भावयतीत्यर्थः । व्यापारप्रयोज्योऽद्भवाश्रयत्वात् सुधा प्रधानकर्म । क्षीरो दधिस्तु उद्भवं प्रत्यपादानम् । तस्यापादानत्वमुपेक्ष्य सुधाद्वारा उद्भवाश्रयत्वात् कर्मत्वविव क्षायां द्वितीया । सुधाश्रयं क्षीरोदधिसम्बन्धिनम् उद्भवं करोतीत्यर्थ इति तु प्राचीनाः । देवदत्तं शतं मुष्णातीति ॥ अपश्यति देवदत्ते सुवर्णशतं तस्मादपनीयाद तदीयं त्ते इत्यर्थः । परस्वामिकद्रव्यस्य स्वामिनस्सकाशादपनीयादानानुकूलः स्वाम्यज्ञातो नि शासञ्चारभित्तिच्छिद्रकरणादिरूपव्यापारो मुषेरर्थः । व्यापारप्रयोज्यापनयनपूर्वकादानाश्रयत्वा च्छतं प्रधानकर्म । अपनयनावधित्वाद्देवदत्तोऽपादानम् । अपादानत्वमनादृत्यापनीयादेय द्रव्यस्वामितया देवदत्तस्यापनीयादानाश्रयत्वात् कर्मत्वविवक्षायां द्वितीया । शतकर्मकं देवदत्त सम्बन्धि अपनीयादानं करोतीत्यर्थ इति तु प्राञ्चः । ग्राममजां नयतीति ॥ ग्रामे अजां प्रापयतीत्यर्थः । णीञ् प्रापणे । देशान्तरसंयोगानुकूलश्चलनगमनपर्यायो व्यापारः प्राप्तिः । नतु देशान्तरसंयोगमात्रम् । ग्रामं प्रति चलनदशायामेव प्राप्तोति गच्छतीति प्रयोगदर्शनात् चलनेन संयोगे जाते तदनुवृत्तिदशायान्तद्दर्शनात् । अजा ग्रामं गता प्राप्त्येव दर्शनात् तादृशप्राप्त्यनु

कूलो दण्डोद्यमनमार्गान्तरगतिप्रतिबन्धपूर्वकयोग्यमार्गसंयोजनादिरूपव्यापारो नीधातोरर्थः ।

विभक्तिप्रकरणम्]
४०७
बालमनोरमा ।

वहति वा । अर्थनिबन्धनेयं संज्ञा । बलिं भिक्षते माणवकं धर्मं वसुधाम् । भाषते-अभिधत्ते-वक्तीत्यादि । “कारकम्' किम् । -माणवकस्य पितरं पन्थानं पृच्छति । * अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्याऽध्वा च कर्मसंज्ञक इति वाच्यम्’ (वा ११०३-११०४) । कुरून् स्वपिति । मासमास्ते। गोदोहमास्ते । क्रोशमास्ते


एतादृशव्यापारप्रयोज्यग्रामसंयोगतदनुकूलगमनोभयाश्रयत्वात् अजा प्रधानकर्म । तादृशाजाधा रत्वात् ग्रामोऽधिकरणम् । अधिकरणत्वमनादृत्य ग्रामस्यापि तथाविधसंयोगाश्रयत्वात् कर्मत्व विवक्षायां द्वितीया । अजाकर्मकं ग्रामसम्बन्धि नयनामित्यर्थः इति तु प्राचीनाः । एवमेव ग्रामं अजां हरति कर्षति वहतीत्यपि व्याख्येयम् । तत्र देशान्तरसंयोगानुकूलम् अजाचलनं वाहकद्वारकं तादृशचलनानुकूलव्यापारस्कन्धग्रहणादिरूपो हरतेरर्थः । रज्जुबन्धनादिना बलाच्चा लनं कृषेरर्थः । शकटाद्यारोपणादिरूपदेशान्तरसंयोगानुकूलप्राप्त्यनुकूलो वहेरर्थ इति विशेषः । अर्थनिबन्धनेयं संज्ञेति ॥ कैयटादिभिस्तथा व्याख्यातत्वादिति भावः । तथाच एतदर्थकधात्वन्तरसंयोगेऽपि द्विकर्मकत्वं लभ्यते । वस्तुतस्तु भाष्ये याचिरुधीत्याद्युदाहृत श्लोकद्वयपरिगणिताः दुहियाचिरुधिप्रच्छिभिक्षिचिञ्चूञ्जशासयः इत्यष्टावेव धातवो द्विकर्मकाः । न तु पचिदण्डिजिप्रभृतयस्तद्वहिर्भूता अपि । अर्थनिबन्धनेयं संज्ञेत्यपि न युक्तम् । भाष्ये अदर्शनातू । भाष्ये याचिग्रहणेनैव सिद्धे भिक्षिग्रहणवैयर्थ्याच्च । नन्वेवं सति अहमपीद मचोद्यं चाद्ये इति 'तद्राजस्य बहुषु' इतिसूत्रस्थभाष्यविरोधः । तत्र हि चुदधातुः चौरा दिकः प्रच्छिपर्यायः, कर्मणि लट् , उत्तमपुरुषेकवचनम्, अपृष्टव्यमहं पृच्छये इत्यर्थः । अत्र चुदेर्द्विकर्मकत्वदर्शनात् अर्थनिबन्धनेयं संज्ञेति विज्ञायत इति चेन्न । चुदश्शङ्कार्थ कत्वे सति तावता चुदधातोरपि द्विकर्मकत्वलाभेऽपि तदन्येषां द्विकर्मकत्वे मानाभावात् । अत एव “कर्तुरीप्सितमम्’ इति सूत्रभाष्ये “द्यर्थः पचिस्तण्डुलानादनं पचतीति तण्डुलान्विक्ले दयन्नोदनं निर्वर्तयतीति गम्यते । तण्डुलानानोदनं पचतीति तण्डुलविकारमोदनं निर्वर्तयतीति गम्यते । ओदनं पचतीति ओदनार्थान् तण्डुलान् विक्लेदयतीति गम्यते इत्युदाहृतम् । कर्तुरीप्सिततममित्येव तण्डुलानामपि कर्मत्वमिति पचेरेतदुदाहरणत्वमनुपपन्नमेव । तस्माद्भाष्य परिगणितबहिर्भूतधातूनामन्तर्भावितण्यर्थकत्व एव द्विकर्मकत्वमिति शब्देन्दुशेखरे स्थितम् । ननु कुरुषु स्वपिति देवदत्तः, मासमास्ते, इत्यादौ कुर्वादेरनुद्देश्यत्वात् 'कर्तुरीप्सिततमम्' इति कर्मत्वं न सम्भवति । कर्तुरेव स्वापादिक्रियाश्रयत्वात् । “तथायुक्तम्' इत्यपि न कर्मत्वमित्यत आह । अकर्मकधातुभिरिति ॥ ग्रामसमूहात्मकः कुरुपञ्चालावन्त्यादिपरोऽत्र देशशब्दः नतु ग्रामादिरपि । तन्न ग्रामे स्वपितीत्यत्र न द्वितीया । अत्र च “ अधिशीङ्स्थासां कर्म' इति लिङ्गम् । अन्यथा अधिशेते अधितिष्ठति अध्द्यास्ते वा वैकुण्ठं हरिः इत्यत्राप्यनेनैव कर्मत्वसिद्धे स्तद्वैयर्थ्ये स्पष्टमेवेत्यभिप्रेत्योदाहरति । कुरून् स्वपितीति । देवदत्त इति शेषः । कुरुषु

निद्रां करोतीत्यर्थः । देवदत्तातु न द्वितीया । तिङा अभिहितत्वादिति भावः । कुर्वादिशब्दाः

४०८
कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५४० । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणिकर्ता स णौ । (१-४-५२ )

गत्याद्यथनां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ।

ं शत्रूनगमयत्स्वर्गं वेदार्थ स्वानवेदयत् ।

आशयच्चामृतं देवान्वेदमध्यापयाद्विधिम् ॥


जनपदविशेषेषु स्वभावान्नित्यबहुवचनान्ताः । मासमास्ते इति ॥ मासस्याधिकरणसंज्ञां बाधित्वा कर्मत्वम् । गोदोहमिति ॥ दोहनन्दोहः । भावे घञ् । भावो धात्वर्थः । गोदोहन कालोऽत्र विवक्षितः । नचेह कालत्वादेव सिद्धिश्शङ्कया । अहोरात्रसमूहस्य मासादेरेव तत्र ग्रहणात् । गन्तव्यत्वेनाध्वनो विशेषितत्वात् नियतपरिमाणः क्रोशादिरेव गृह्यत इत्यभिप्रेत्योदा हरति । क्रोशमास्ते इति ॥ गन्तव्यत्वविशेषणादध्वन्यास्ते इत्यत्र न भवति । अनत्यन्त संयोगार्थमिदं वार्तिकम् । अत्यन्तसंयोगे तु “कालाध्वनोरत्यन्तसंयोगे' इत्येव सिद्धमिति प्राची नानुसारी पन्थाः । वस्तुततु “ अकर्मकधातुभिर्योगे' इत्यादिवचनं भाष्ये न दृश्यते । किन्तु अकर्मकधातूनां कथं द्विकर्मकत्वमित्याशङ्कायां “कालभावाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम् । देशश्च' इत्युक्तम् । हिशब्दघटितत्वादिदं न विधायकम्, किन्तु अनुवादकमेव । तथाहि 'कुरून् स्वपिति' इत्यादौ स्वापादिक्रियया कुर्वादीन् व्याप्नोतीत्यर्थः । धातूनामनेकार्थतया कदाचित् तेषां स्वापादिकरणकव्यापनेऽपि वृत्तेः । ततश्च “कर्तुरीप्सिततमम्' इत्येव सिद्धम् । यदा तु स्वपादिधातूनां स्वापादावेव वृत्तिः, नतु व्याप्तिपर्यन्ते, तदा कुरुषु स्वपिति, मासे आस्ते इत्यधिकरणत्वमेव । एतच्च “अकथितश्च ' इत्यत्र 'कालाध्वनोरत्यन्तसंयोगे' इत्यत्र च भाष्ये स्पष्टम् । अत एव “समां समां विजायते' इति सूत्रे समायां समायां विजायते इति विग्रह कथनं भाष्ये सङ्गच्छते । अन्यथा द्वितीयाप्रसङ्गात् । अत एव च लकारार्थप्रक्रियायाम् “ अत्य न्तापह्नवे लिड़क्तव्यः' इत्यत्र 'कळिङ्गेष्वात्सीः' 'नाहं कळिङ्गान् जगाम' इति मूलकृदुदाहृते वाक्ये कळिङ्गेष्विति सप्तमी सङ्गच्छते। उक्त्तश्च हरिणा कालभावाष्वदेशानामन्तर्भूत क्रियान्तरैः । सवैरकर्मकैर्येोगे कर्मत्वमुपजायते' इति शब्देन्दुशेखरे प्रपञ्चितम् । गतिबुद्धि ॥ गतिश्च बुद्धिश्च प्रल्यवसानञ्च तानीति द्वन्द्वः । प्रत्यवसानं भक्षणम् । गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषान्ते शब्दकर्माणः, तेषामिति बहुव्रीहिः । अविद्यमानं कर्म येषान्ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्द कर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः । अणौ कर्ता अणिकर्ता यच्छब्दोऽद्याहार्यः । तदाह । गत्याद्यर्थानामित्यादिना ॥ णौ अनुत्पन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता सः ण्यन्तधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकस्यादित्यर्थः । क्रमेणोदाहरति । शत्रूनिति ॥ “शत्रूनगमयत् स्वर्गम्’ इति गत्यर्थकस्योदाहरणम् । शत्रवः युद्धे मृताः स्वर्ग

मगच्छन्, तान् यश्शस्रघातेनागमयत् स्वर्गे, स श्रीहरिर्मे गतिरित्यत्रान्वयः । अत्र गमेरण्य

विभक्तिप्रकरणम्]
४०९
बालमनोरमा ।

आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ।

गति-' इत्यादि किम् । पाचयत्योदनं देवदत्तेन । “ अण्यन्तानाम्' किम् । गमयति देवदत्तो यज्ञदत्तं, तमपरः प्रयुङ्गे, गमयति देवदत्तेन यज्ञदत्तं विष्णु मित्रः । “नीवह्योर्न' (वा ११०९) । नाययति, वाहयति वा भारं भृत्येन । 'नियन्तृकर्तृकस्य वहेरनिषेधः' (वा १११०) । वाहयति रथं वाहान्सूतः ।


न्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः । स्वर्गस्तु कर्म । प्यन्तावस्थायान्तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शत्रघातक्रियां प्रति घातयिता हरिः कर्ता, शत्रवस्तु कर्म । शस्रघात जन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात् । एवञ्च हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणञ्चार्थप्राधान्यमस्ति । शत्रूणान्तु अन्या धीनस्वर्गप्राप्तिकर्तृत्वं प्रयोजकाधीनत्वात् गुणभूतमेव । शेषित्वलक्षणमार्थप्राधान्यन्तु प्रयोज्य शत्रुगतकर्तृत्वस्यैव । प्रयोजकव्यापारस्य प्रयोज्यस्वर्गप्राप्तयर्थत्वादिति स्थितिः । तत्रान्यानधी नत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापार सत्त्वात् । तदनुरोधि शत्रुगतं कर्मत्वं “कर्तुरीप्सिततमम्' इत्येव सिद्धम् । अतो नियमार्थमिदं सूत्रम् । णिजर्थेनाप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवेति । तेन पाचयति देवदत्तेन इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वम्, किन्तु कर्तृत्वमेव । तदेतत् “हेतुमति च' इति सूत्रे भाष्य कैयटयोः स्पष्टम् । उक्तञ्च हरिणा । “गुणाक्रियायां स्वातन्त्रयात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ॥” इति । स्वधर्मेणेति तृतीययेत्यर्थः । एवञ्च स्वर्गकर्मकं शत्रुनिष्टं यद्भमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिमें गतिरिति वाक्यार्थः । एवमग्रेऽप्यूह्यम् । वेदार्थं स्वानवेदयदिति ॥ बुध्द्यर्थधातोरुदाहरणम् । स्वशब्दः आत्मीय परः, स्व स्वकीया: विधिप्रमुखाः वेदार्थमविदुः, तान् हरिः वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्यकर्तृणां कर्मत्वम् । आशयञ्चामृतन्देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्रन्, तान् हरिराशयदित्यर्थः । वेदमध्द्यापयद्विधिमिति ॥ शब्दकर्मणः उदाहरणमेतत् । विधिः ब्रह्मा वेदमधतिवान्, तं हरिः अध्द्यापयदित्यर्थः । अत्र प्रयोज्यकर्तु र्विधेः कर्मत्वम् । आसयत्सलिले पृथ्वीमिति अकर्मेकस्योदाहरणम् । सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः । अत्र पृथिव्याः प्रयोज्यकर्त्रयाः कर्मत्वम् । यः स मे श्रीहरि र्गतिरिति प्रतिवाक्यमन्वयः । नीवह्योनेंति ॥ णीञ् प्रापणे, वह प्रापणे, इत्यनयोः, ण्यन्तयोः प्रयोज्यकर्तुः “गतिबुद्धि' इत्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वेति ॥ भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थन्नयनं वहनश्च प्रति कर्तुः प्रयोजकव्यापारं प्रति कर्मत्वे निवृते णिच्प्रकृत्यर्थ प्रति कर्तृत्वस्यैव निरप वादत्वेनावस्थानात् तृतीया बोध्या । यद्यपि नीवह्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारा र्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात् प्राप्तिरिति भावः । नियन्तृकर्तृकस्य वहेरानिषेधः इति ॥ एवञ्च तत्र प्रयोज्यकर्तुरुक्तस्य ‘नीवह्योर्न' इति प्रतिषेधस्याभावे

सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति ॥ वाहाः अश्वाः वहन्ति

४१०
कारके द्वितीया
सिद्धान्तकौमुदीसहिता

'आदिखाद्योर्न' (वा ११०९) । आदयति, खादयति वा अन्न वटुना । “ भक्षे रहिंसार्थस्य न' (वा ११११) भक्ष्यत्यन्नं वटुना । “ अहिंसार्थस्य' किम् । भक्षयति बलीवर्दान्सस्यम् । “जल्पतिप्रभृतीनामुपसङ्खयानम्' (वा ११०७) । जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः । * दृशेश्च' (वा ११०८) । दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं, न तु तद्विशेषार्थानामित्यनेन ज्ञाप्यते । तेन : स्मरति' * जिघ्रति' इत्यादीनां न।


तान् सूतः प्रेरयतीत्यर्थः । “नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः” इत्यमरः । वहन्ति बलीवर्दीः यवान्, वाहयति बलीवर्दान् देवदत्तः” इति भाष्योदाहरणात्। नियन्ता पशुप्रेरक एव विवक्षितः । आदिखाद्योर्नेति ॥ अद् भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्य कर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थकत्वात् प्राप्तिः । आदयति खादयति वेति ॥ अत्ति खादति वा अत्रं वटुः, तं प्रेरयतीत्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोज्यकर्तुः कर्मत्वन्नेति वक्तव्यमित्यर्थः । ननु “गतिबुद्धि' इति सूत्रे अणौ कर्तुः णौ कर्मत्व मुक्तम् । भक्षधातुस्तु चुरादित्वात् नित्यं स्वार्थिकण्यन्तः । तस्याणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न । अत एव निषेधाल्लिङ्गात् “गतिबुद्धि' इति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवञ्च हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभिक्षि धातुवाच्यां क्रियां प्रति कर्तुः हेतुमण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः । भक्षयत्यन्त्रं वटुनेति ॥ चुरादिण्यन्तात् भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतु मण्ण्यन्तातिबादौ सति भक्षयतीति रूपम् । एवञ्च भक्षयत्यन्नं वटुः, खादतीत्यर्थः । तं प्रेर यतीति ण्यन्तस्यार्थः । भक्षयति बलीवर्दान् सस्यमिति ॥ क्षेत्रे प्ररूढमलूनं सस्यमिह विवक्षितम् । तस्य तदानीमन्तःप्रज्ञजीवत्वात् तद्भक्षणं हिंसैवेति भावः । जल्पतिप्रभृती नामिति । एतेषामणौ यः कर्ता सः णौ कर्म स्यादिति वक्तव्यमित्यर्थः । जल्पयति भाषयति वेति । धर्ममिति शेषः । पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयती त्यर्थः । गत्यर्थादिष्वनन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम् । अत एव शब्दकर्माकर्मकाणामित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा वेदमध्द्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः । भाष्ये तु के पुनर्जल्पतिप्रभृतयः, जल्पति विलपति आभाषते' इत्येवोक्तम् । परिगणनमित्येके, उदाहरण मात्रप्रदर्शनमित्यन्ये । दृशेश्चेति ॥ 'दृशिर् प्रेक्षणे' अस्याप्यणौ यः कर्ता सः णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति ॥ हरिं भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह । सूत्रे इति ॥ 'गति बुद्धि' इति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनां “विद ज्ञाने, ज्ञा अवबोधने' इत्यादीनामेव ग्रहणम्, नतु ज्ञानविशेषवाचिनामित्येतत् * दृशेश्च' इत्यनेन विज्ञायते । अन्यथा “दृशेश्च'

इत्यस्य वैयर्थ्यप्रसङ्गात् । तेनेति ॥ ज्ञापनेनेत्यर्थः । स्मरतिजिघ्रतीत्यादीनामिति ॥

विभक्तिप्रकरणम्]
४११
बालमनोरमा ।

स्मारयति घ्रापयति देवदत्तेन । * शब्दायतेर्न' (वा ११०५) । शब्दाययति देवदत्तेन । धात्वर्थसङगृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न सम्भवति तेऽत्राकर्मकाः। न त्वविवक्षितकर्माणोऽपि । तेन * मासमा सयति देवदत्तम्' इत्यादौ कर्मत्वं भवति । “देवदत्तेन पाचयति' इत्यादौ तु न ।

५४१ । हृक्रोरन्यतरस्याम् । (२-४-५३)

हृक्रोरणौ यः कर्ता स णौ वा कर्मसंज्ञः स्यात् । हारयति कारयति वा भृत्यं-भृत्येन वा कटम् । * अभिवादिदृशोरात्मनेपदे वेति वाच्यम्' (वा १११४).। अभिवाद्यते दर्शयते देवं भक्तं-भत्तेन वा ।


आदिना प्रेक्षत्यादीनां सङ्गहः।स्मारयति ।। स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः । शब्दायतेनेति शब्दं करोतीत्यर्थे “शब्दवैर' इत्यादिना क्यङि, “ अकृत्सार्वधातुकयोः' इति दीर्घे सनाद्यन्ताः' इति धातुत्वे श्तिपा निर्देशो ऽयम् । शब्दायेति क्यङन्तधातोः अणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्तेनेति । शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः। देवदत्तस्य कर्मत्वाभावात् प्रयोज्यकर्तृत्वमादाय तृतीयैव । अत्र शब्दकर्मकत्वात् प्राप्तिरिति भ्रमं निरस्यति । धात्वर्थेति शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः। एवञ्च शब्दात्मकं कर्म धात्वर्थे अन्तर्भूतम् । अतश्शब्दायेति क्यङन्तधातुरकर्मकः। धात्वर्थबहिर्भूतकर्मकत्वमेव सकर्म कत्वम्’ इति “सुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्ति रित्यर्थः । एवञ्च 'शब्दाययति सैनिकै रिपून्’ इति कर्म प्रयुञ्जानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वन्न स्यात् आसधातोर्गत्यादिष्वनन्तर्भावात् । नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम् । “ अकर्मकधातुभि र्योगे' इति मासस्य कर्मतया आसेसरकर्मकत्वासम्भवात् । किञ्च ओदनादिकर्मण अविवक्षायां देवदत्तः पचति, पाचयति देवदत्तेन यज्ञदत्तः, इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वन्न स्यात् तदानीं पचेवरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह । येषामिति ॥ इदश्च प्रकृतसूत्रे भाध्यकैयटयोः स्पष्टम् । हृक्रो ॥ हा च का च हृकरौ तयोरिति विग्रहः । हारयति कारयति वेति । हरति करोति वा कटं भृत्य प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुभृत्यस्य कर्मत्व विकल्पः। ह्यकोर्गत्यर्थादिष्वनन्तर्भावादप्राप्ते विभाषेयम् । ह्रक्रोरर्थान्तरे तु प्राप्तविभाषा अभ्यवहारयति सैन्धवान् सैन्धवैर्वा, विकारयति सैन्धवान् सैन्धवैर्वा.। अत्र अभ्यवहरतेर्भक्षणा र्थत्वात् विकारयतेरकर्मकत्वाच प्राप्तिः । अभिवादीति ॥ हेतुमण्ण्यन्तस्याभिपूर्वकवदघातोर् दृशिप्रकृतिकण्यन्तस्य चात्मनेपदिनोऽणौ कर्ता णौ कर्म वेत्यर्थः । अभिवादयते इति ॥ अभिबदति नमस्करोति देवं भक्तः, तं गुरुः प्रेरयतीत्यर्थः । कर्तृगामिनि फले 'णिचश्च' इत्या त्मनेपदम् । अत्र भक्तस्य प्रयोज्यकर्तुः कर्मत्वविकल्पः । अप्राप्तविभाषेयम् । परस्मैपदे तु अभि

वादयति देवं भक्त्तेनेत्येव । पश्यति देवं भक्तः, तं गुरुः प्रेरयति । दर्शयते देवं भक्तं भक्त्तेन वा ।

४१२
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५४२ । अधिशीङ्स्थासां कर्म । (१-४-४६)

अधिपूर्वाणामेषामाधारः कर्म स्यात् । अधिशेते-अधितिष्ठति-अध्यास्ते वा वैकुण्ठं हरेिः ।

५४३ । अभिनिविशश्च । (१-४-४७)

अभिनीत्येतत्सङ्घातपूर्वस्य विशतेराधारः कर्म स्यात् । अभिनिविशते सन्मार्गम् । 'परिक्रयणे सम्प्रदानम्--' (सू ५८०) इति सूत्रादिह मण्डू कप्लुत्या अन्यतरस्यांग्रहणमनुवत्य व्यवस्थितविभाषाश्रयणात्कचिन्न। पापेऽभिनिवेशः।

५४४ । उपान्वध्याङ्वसः । (१-४-४८)

उपादिपूर्वम्य वसतेराधारः कर्म स्यात् । उपवसति-अनुवसति- -अधिवसति-आवसति वा वैकुण्ठं हरेि । 'अभुक्त्यर्थस्य न' (वा १०८७) । वने उपवसति ।


‘गतिबुद्धि’ इत्यत्र बुद्धिग्रहणेन ज्ञानसामान्यवाचिन एव ग्रह्णामित्युक्तम् । तथापि “दृशेश्च' इति नित्यं प्राप्ते विकल्पः । अधिशीङ्स्थासां कर्म ॥ शीङ्, स्था, आस्, एषां द्वन्द्वः । आधि पूर्वाश्शीङ्स्थासः इति विग्रहे शाकपार्थिवादित्वात् उत्तरपदलोपः । तदाह । अधिपूर्वाणा मिति ॥ अधिकरणसंज्ञापवादोऽयम् । अधिशेते इति ॥ अधिशेते वैकुण्ठं हरिः, अधिति ष्ठति वैकुण्ठं हरिः, अध्यास्ते वैकुण्ठं हरिरित्यन्वयः । अधिस्तु सप्तम्यर्थस्याधारस्य द्योतकः । वैकुण्ठे शेते तिष्ठत्यास्ते वेत्यर्थः । अभिनिविशश्च ॥ आधारे इति कर्मेति चानुवर्तते । अभि नीति सङ्घातग्रहणम् । तदाह । अभिनीत्येतत्सङ्घातपूर्वस्येति ॥ अभिनिविशते स न्मार्गमिति ॥ आग्रहवानित्यर्थः । अप्रतिहतप्रवृत्तिमानिति यावत् । नन्वेवं सति पापेऽभि निवेशः इत्यत्रापि कर्मत्वात् द्वितीया स्यादित्यत आह । परिक्रयणे इति ॥ “परिक्रयणे' इति सूत्रादन्यतरस्याङ्ग्रहणमनुवर्त्य विभाषाश्रयणात् क्वचिन्नेत्यन्वयः । तहिं अभिनिविशते सन्मार्ग मित्यत्रापि विकल्पस्यादित्यत आह । व्यवस्थितेति । ननु 'परिक्रयणे सम्प्रदानमन्यतर स्याम्, अधारोऽधिकरणम्, अधिशीङ्स्थासां कर्म, अभिनिविशश्च' इति सूत्रक्रमः । तत्र अभिनिविशश्च' इत्यत्र कथमन्यतरस्याङ्गहणानुवृत्ति । “आधारोऽधिकरणम्’ “ अधिशीङ्कस्था सां कर्म' इत्यत्र च तदनुवृत्तेरभावादित्यत आह । मण्डूकप्लुत्येति ॥ तुल्यमिति शेषः । मण्डूकाः यथा मध्ध्ये पदानि सन्ततमप्रक्षिपन्त एव उत्प्लुत्य गच्छन्ति तद्वदनुवर्त्येत्यर्थः । एष्वर्थेष्वभिनिविष्टानाम्’ इति समर्थसूत्रे भाष्यप्रयोगोऽत्र मानम् । उपान्वञ्चद्याङ्कसः ॥ उप अनु अधि आङ् इत्येतेषां द्वन्द्वः । उपान्वध्याङ्पूर्वो वस् इति विग्रहे शाकपार्थिवादित्वात्

समासस्तदाह । उपादिपूर्वस्येति । उपवसतीत्यादि । वैकुण्ठे वसतीत्यर्थः । उपसर्गाः

विभक्तिप्रकरणम्]
४१३
बालमनोरमा ।

"उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु ।

द्वितीयाम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ॥"

वा(१४४४)

उभयतः कृष्णं गोपाः। सवेतः कृष्णम् । धिक् कृष्णाभक्तम् । उपर्युपरेि लोक हरि: । अध्याधि लोकम् । अधोऽधो लोकम् । अभित:परितःसमयानि कषाहाप्रतियोगेऽपि' (वा १४४२-१४४३) । अभितः कृष्णम् । परित कृष्णम् । ग्रामं समया । निकषा लङ्काम् । हा कृष्णाभक्तम् । तस्य शोच्यता इत्यर्थः । 'बुभुक्षितं न प्रतिभाति किञ्चित् '।


आधारत्वद्योतकाः । अत्र 'वसेरइयर्थस्य प्रतिषेधः’ इति वार्तिकम् । तत्रार्थशब्दो निवृत्तिवचनः। “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृतिषु' इत्यमरः। भोजनस्यार्थः निवृत्तिर्यस्मात् प्रतीयते सः अश्यर्थः, भोजननिवृत्तिवाचकस्य अशेराधारस् कर्मत्वप्रधिषेध इति यावत् । तदेतदर्थतस्स ङ्गृह्णाति । अभुक्तव्यर्थस्य नेति ॥ अथोपपदविभक्तयः । उभसर्वतसोः इति ॥ वार्तिकम् उभयशब्दसर्वशब्दप्रकृतिकतसन्तयोः प्रयोग सति द्वितीया कार्येत्यर्थः। धिगिति ॥ धिक्श ब्दस्य प्रयोगे सति द्वितीया कार्या प्रकृतिवदनुकरणम्' इत्यव्ययत्वात्सुपो लुक् । उपर्यादि ष्वित्यनेन “उपर्यध्यधसस्सामीप्ये' इति सूत्रोपात्तान्यव्ययानि गृह्यन्ते । द्विरुक्तस्य परमाम्रेडितम्। तदन्तेषु द्विर्वचनेष्विति यावत् । तथाच कृतद्विर्वचनेषु उपर्यादिषु त्रिषु प्रयुज्यमानेषु द्विती येत्यर्थः । ततः इति ॥ उक्तप्रदेशेभ्योऽन्यत्रापि द्वितीया दृश्यते इत्यर्थः। उभयतः कृष्णं गोपाः इति ॥ कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः । आद्यादित्वात् तसि उभयोऽन्यत्र' इत्ययच्। षष्ठयर्थे द्वितीया । सर्वतः कृष्णमिति ।। कृष्णस्य सर्वेषु पार्श्वेषु गोपा इत्यर्थः। धिक् कृष्णाभक्तमिति । धिक् निन्दायाम् । कृष्णाभक्तस्य निन्देत्यर्थः । केचित्तु कृष्णाभक्तो निन्द्य इत्यर्थ प्रथमार्थे द्वितीयेत्याहुः । धिङ्मूर्खत्यत्र तु निषिद्धाचरणमित्यध्याहार्यम् उपर्युपरीति उपर्यध्यधसस्सामीप्ये' इति द्विर्वचनम् । लोकस्य समीपे उपरि हरि रस्तीत्यर्थः। अध्यधीति लोकस्य समीपदेशे हरिस्तीत्यर्थः । अधोऽधः इति ॥ लोकस्य समीपे अधो हरिस्तीत्यर्थः । अभितःपरितः इति ॥ 'ततोऽन्यत्रापि दृश्यते इत्यस्य प्रपञ्चोऽयम् । योगेऽपीत्यनन्तरं द्वितीयेति शेषः । अभितः कृष्णमिति॥ इति शेषः । कृष्णस्य पार्श्वद्वयेऽपीत्यर्थः । परितः कृष्णमिति।। कृष्णस्य सर्वेषु पार्श्वेषु गोपा इत्यर्थः । 'पर्यभिभ्याञ्च' इति तसिल् । ग्रामं समया, निकषेति ॥ 'समयी निकषा इति च आकारान्ते अव्यये । ग्राममित्यस्य प्रत्येकमन्वयः । ग्रामस्य समीपे इत्यर्थः। निकषा न्तिके, समयान्तिकमध्द्ययोः इति चामरः। “विलङ्घय लङ्कां निकषा हनिष्यति” इति माघः । हा कृष्णाभक्तमिति ॥ हा इत्याकारान्तमव्यय खेदे। हा विषादशुगार्तिषु इत्यमरः। तदा आह। तस्य शोच्यतेत्यर्थ इति।। कृष्णाभक्तश्शोच्य इत्यर्थ इत्यन्ये। प्रतियोगमुदाहरति । बुभुक्षितमिति । क्षुधार्तस्य किञ्चिदपि न स्फुरतीत्यर्थः । ‘भा दीप्तौ

इह तु उपसर्गबलात् स्फुरणे वर्तते । ततो लक्षणादाववृत्तेः प्रतेर्न कर्मप्रवचनीयत्वम् । एवञ्च

४१४
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५४५ । अन्तरान्तरेणयुक्ते । (२-३-४)

आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् ।

५४६ । कर्मप्रवचनीयाः । (१-४-८३)

इत्याधकृत्य ।

५४७ । अनुर्लक्षणे । (१-४-८४)

लक्षणे द्योत्येऽनुरुक्तसंज्ञः स्यात् । गत्युपसर्गसंज्ञापवादः ।

५४८ । कर्मप्रवचनीययुक्ते द्वितीया । (२-३-८)

एतेन योगे द्वितीया स्यात्। पर्जन्यो जपमनुप्रावर्षत् । हेतुभूतजपोपलक्षितं


कर्मप्रवचनीययुक्त्ते द्वितीया’ इत्यनेन गतार्थत्वन्न भवति । अन्तरान्तरेणयुक्ते । “अन्तरा इत्याकारान्तमव्ययं, नतु टाबन्तम् । अन्तरेणेत्यप्यव्ययमेव, नतु तृतीयान्तम्” इति भाष्ये स्थितम् । अन्तरा त्वां मां हरिरिति ॥ तव च मम च मध्ये हरिरित्यर्थः । “अन्तरा मध्ध्ये' इत्यमरः । अन्तरेण हरिमिति । हरेर्वर्जने सुखन्नास्तीत्यर्थः । “पृथग्विनान्तरेणतें हिरुङ् नाना च वर्जने ” इत्यमरः । किमनयोरन्तरेण गतेनेत्यत्र तु अन्तरशब्दो विशेषवाची । अनयो र्विशेषेण ज्ञातेनेत्यर्थः । अत्र अन्तरेणेत्यस्य तृतीयान्तत्वादव्ययत्वाभावान्न तद्योगे द्वितीया । नन्वेवं सति “हलोऽनन्तरास्संयोगः’ इत्यत्र 'द्वयोश्चैवान्तरा कश्चित्' इति भाष्यप्रयोगः कथमिति शङ्कयम्। मध्द्यत्वनिमित्तमवधित्वं हि ययोर्निणीतं तत्र द्वितीया । ययोस्तु न तन्निर्णयस्तत्र सम्बन्धसामान्ये षष्ठयेव भवति । युक्तग्रहणादिति कैयटः । कर्मप्रवचनीयाः ॥ इत्यधि कृत्येति ॥ 'प्राग्रीश्वरान्निपाताः' इति पर्यन्तमिति बोध्यम् । अनुर्लक्षणे ॥ लक्षणे द्योत्ये इति ॥ लक्ष्यलक्षणभावसम्बन्धे द्योत्ये इत्यर्थः । उक्तसंज्ञः इति ॥ कर्मप्रवचनीयसंज्ञ इत्यर्थः । लक्ष्यते ज्ञायतेऽनेनेति लक्षणम्, तच्च हेतुभूतं विवक्षितम्, नतु वृक्ष प्रति विद्योतते विद्युः दितिवत् चिह्नमात्रम्, तथा सति “लक्षणेत्थम्' इत्येव सिद्धेरिति वक्ष्यते । गत्युपसर्गसंज्ञाः पवादः इति । अनेन क्रियायोग एव कर्मप्रवचनीयसंज्ञेति सूचितम् । 'कर्मप्रवचनीयाः’ महासंज्ञाकरणसामर्थ्यात् अन्वर्थत्वम् । कर्मति क्रियोच्यते, तां प्रोक्तवन्तः कर्मप्रवचनीया भूते कर्तरि बाहुळकादनीयर्प्रत्यययः । ततश्च क्रियामेव न द्योतयन्ति किन्तु क्रियानिरूपितसम्ब न्धविशेषं द्योतयन्ति । एवञ्च अनुप्रत्यादिषु क्रियानिरूपितसम्बन्धस्य द्योत्यत्वेन अन्वयात् तत्र गत्युपसर्गसंज्ञयोः प्राप्तिर्वोध्या । कर्मप्रवचनीय ॥ युक्त इति भावे क्तः । तदाह । एतेन योगे इति ॥ पर्जन्यो जपमन्विति ॥ कदा पर्जन्योऽवर्षदिति प्रश्रे उत्तरमिदम् । अत्र वृष्टिकाल उपदेश्यः, सच दुर्ज्ञानत्वात् शाखाग्रं प्रति द्विकलश्चन्द्र इतिवत् प्रज्ञानं किञ्चिदव लम्ब्यैव ज्ञाप्यः । जपोऽत्र प्रज्ञानम्, तत्र जपकाले पर्जन्यः प्रावर्षदिति सम्भवति । हेतुभूत

जपो ह्यत्र लक्षणम्, हेतुत्वञ्च पूर्वकालवृत्तित्वघटितम् । एवञ्च वर्षहेतुभूतवरुणजपोत्तरकाले

विभक्तिप्रकरणम्]
४१५
बालमनोरमा ।

वर्षणमित्यर्थः । परापि हेतौ तृतीया अनेन बाध्यते । “लक्षणेत्थम्भूत –’ (सू ५५२) इत्यादिना सिद्धे पुनः संज्ञाविधानसामर्थ्यात् ।

५४९ । तृतीयार्थे । (१-४-८५)

अस्मिन्द्योत्येऽनुरुक्तसंज्ञः स्यात् ।नदीमन्ववसिता सेना । नद्या सह सम्बद्धेत्यर्थः । “षिञ् बन्धने क्तः ।

५५० । हीने । (१-४-८६)

हीने द्योत्येऽनुः प्राग्वत् । अनु हरिं सुराः । हरेर्हीना इत्यर्थः ।


पर्जन्यः प्रावर्षदित्युत्तरं पर्यवस्यति । तत्र लक्षणत्वं हेतुत्वञ्चेति द्वयं तृतीयार्थः, तदु भयमनुना द्योत्यते । लक्षणत्वञ्च ज्ञानजनकज्ञानविषयत्वम्, जपज्ञानेन तदुत्तरकालविशिष्टा वृष्टिर्ज्ञाप्यते । ततश्च जपात्मकहेतुज्ञानजन्यज्ञानविषयो वर्षणमिति बोधः । तदाह । हेतु भूतेति । अनभिहिताधिकारान्न पर्जन्यात् द्वितीया । तस्य तिङा अभिहितत्वात् । ननु हेतुत्वांशस्य कथमिह लाभः, “ अनुर्लक्षणे' इत्यत्र तदनुपादानात् । एवञ्च हेतुत्वाविवक्षायां वृक्षमनु विद्योतते विद्युदित्यत्र * अनुर्लक्षणे' इति सावकाशम् । “हेतौ' इति तृतीया तु धनेन कुलमित्यादौ सावकाशा । पर्जन्यो जपमनु प्रावर्षदित्यत्र तु तदुभयमपि प्रसक्तम् । तत्र परत्वात् हेतुतृतीयैव स्यादित्यत आह । परापीति । “ अनुर्लक्षणे' इति कर्म प्रवचनीयत्वप्रयुक्तद्वितीयाविधिनेत्यर्थः । पुनस्संज्ञेति ॥ वृक्षमनु विद्योतते विद्युत् इत्यत्र हेि “अनुर्लक्षणे ’ इत्यस्य न प्रयोजनम् । “लक्षणेत्थम्' इत्येव सिद्धेः । ततश्च “ अनुर्लक्षणे इत्यारम्भसामर्थ्यात् हेतुभूते लक्षणे अनोः कर्मप्रवचनीयत्वलब्धया द्वितीयया हेतौ तृतीया बाध्द्यत इति विज्ञायते इत्यर्थः । ततश्च हेतुत्वमपि शाब्दबोधे विषय इति फलति । तृतीयार्थे ॥ अनुरित्यनुवर्तते । कर्मप्रवचनीयाः इत्यधिकृतम् । अस्मिन् द्योत्ये इति ॥ सहयुक्तेऽप्रधाने' इति तृतीया । साहित्ये द्योत्ये इत्यर्थः । अत्र 'तृतीयार्थे' इत्यनेन कर्तृ करणे न गृह्यते । रामेण शरेणानुहतो वालीत्यत्र “उपपदविभक्तेः कारकविभक्तिर्बलीयसी इति न्यायेन तृतीयाया एव प्रवृत्त्या अस्यास्संज्ञायाः फलाभावात्, नापि “येनाङ्गविकारः' इति तृतीयार्थोऽत्र विवक्षितः, “ अनन्तरस्य’ इति न्यायेन “कर्मप्रवचनीययुक्ते द्वितीया' इत्यस्य सहयुतेऽप्रधाने' इत्यस्यैव बाधकत्वात् । तदाह । नद्या सह सम्बद्धेति ।। साहित्यं द्वितीयार्थः, अनुस्तद्दयोतक इति भावः । ननु अवसितशब्दस्य अवपूर्वात् * षो अन्तकर्मणि इति धातोरुत्पन्नत्वात्कथमुक्तार्थलाभ इत्यत आह । षिञ् बन्धनेन क्तः इति । उपसर्गबलेन सम्बन्धवृत्तेरस्मात् त्क्तप्रत्यय इत्यर्थः । अत्र यदवश्यं पुनःपुनर्लक्ष्यस्य ज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा यं कमण्डलुना भवान् अद्राक्षीत्, स छात्र इति । सकृदेव हि दृष्टः, तस्य कमण्डलुर्लक्षणमिति “ अनुर्लक्षणे ' इत्यत्र भाष्ये स्पष्टम् । तेन

व्याप्यत्वात्मकलिङ्गमेवात्र लक्षणमिति न भ्रमितव्यम् । हीने ॥ हीने द्योत्ये इति ॥

४१६
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

५५१ । उपोऽधिके च । (१-४-८७)

अधिके हीने च द्योत्ये उपेत्यव्यवं प्राक्संज्ञं स्यात् । अधिके, सप्तमी वक्ष्यते । हीने, उप हरिं सुरा ।

५५२। लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः । (१-४-९०)

एष्वर्थेषु विषयभूतेषु प्रत्याद्य उक्तसंज्ञाः स्युः । लक्षणे, वृक्षं प्रति परि-अनु वा विद्योतते विद्युत् । इत्थम्भूताख्याने , भक्तो विष्णु प्रति-परि अनु वा । भागे, लक्ष्मीर्हरिं प्रति-परि-अनु वा । हरेर्भाग इत्यर्थः ।


निकर्षे द्योत्ये इत्यर्थः । हीन इति भावे त्क्तः । “ ओ हाक् त्यागे' इति धातोरोदित्त्वात् ओदितश्च' इति निष्ठानत्वम् । अनुः प्राग्वदिति । कर्मप्रवचनीयसंज्ञ इत्यर्थः । अनु हरिं सुराः इति । अत्र निकृष्टभावोऽनुद्योत्यो द्वितीयार्थः । तदाह । हरेर्हीना इत्यर्थः इति । हरेरिति षष्ठी प्रतियोगितायाम्, हरिप्रतियोगिकनिकर्षवन्त इत्यर्थः । उपोऽधिके च । चकारात् हीने इति समुच्चीयते । तदाह । अधिके हीने चेति । आधिक्ये निकर्षे चेत्यर्थः । प्राक्संज्ञमिति । प्रागुक्तकर्मप्रवचनीयसंज्ञकामित्यर्थः । अधिके संज्ञाविधातं न द्वितीयार्थमित्याह । आधिके सप्तमी वक्ष्यते इति । “यस्मादधिकम्' इत्यनेन कर्म प्रवचनीयसंज्ञाकार्यं सप्तमी वक्ष्यत इत्यर्थः । हीने इति ॥ उदाहरणं वक्ष्यते इति शेषः । उपहरिं सुराः इति । हरेहींना इत्यर्थः । लक्षणेत्थंभूत ॥ लक्षणं ज्ञापकम्, अयं प्रकारः इत्थं, तं प्राप्तः इत्थंभूतः, तस्याख्यानमुपपादकमित्थंभूताख्यानम्, भागः स्वीकार्योऽशः तत्स्वामी विवक्षितः, व्याप्तुं कात्स्येन सम्बङ्गुमिच्छा वीप्सा, लक्षणञ्च इत्थंभूताख्यानञ्च भागश्च वीप्सा चेति द्वन्द्वाद्विषयसप्तमी । तदाह । एष्विति ॥ एष्वर्थेषु द्योत्येष्विति तु नाश्रितम् । व्याप्तुमिच्छायास्तद्योत्यार्थत्वाभावादिति भावः । लक्षणे इति । उदाहरणं वक्ष्यते इति शेषः । वृक्षं प्रतीति ॥ लक्ष्यलक्षणभावसम्बन्धो द्वितीयार्थः । स च प्रत्यादिद्योत्यः । वृक्षेण लक्ष्यमाणा विद्युत् विद्योतते इत्यर्थः । उत्पन्नविनष्टा विद्युत् तदुत्पादितो वृक्षप्रकाशोऽपि उत्पन्नविनष्ट एव । तथाच वृक्षप्रकाशोत्तरं विद्युतोऽसत्त्वेन प्रत्यक्षाभावादनुमेया सा । ततश्च प्रकाशितेन वृक्षेण विद्युद्ज्ञानात् वृक्षो लक्षणम् । इत्थम्भूता ख्याने इति । उदाहरणं वक्ष्यत इति शेषः । भक्तो विष्णुं प्रतीति । भज सेवायाम् । भक्तिरस्त्यस्येति भक्तः, मत्वर्थीयोऽर्श आद्यच् , विषयतासम्बन्धः प्रत्यादिद्योत्यो द्वितीयार्थ तस्य भक्तावेकदेशेऽन्वयः, विष्णुविषयकभक्तिमानित्यर्थः । अत्र भक्तः भक्तिरूपं प्रकाराविशेषं प्राप्तत्वात् इत्थम्भूतः, तस्य विष्णुविषयकतया उपपाद्यत्वाद्विषयतासम्बन्धस्तदुपपादकः प्रति द्योत्य इति ज्ञेयम् । भागे इति । उदाहरणं वक्ष्यत इति शेषः । लक्ष्मीर्हरिं प्रतीति ॥

स्वामित्वं द्वितीयार्थः प्रत्यादिद्योत्यः । तदाह । हरेर्भाग इत्यर्थः इति । हरेः स्वभूतेति

विभक्तिप्रकरणम्]
४१७
बालमनोरमा ।

वीप्सायाम्, वृक्षं वृक्षं प्रति-परि-अनु वा, सिञ्चति । अत्रोपसर्गत्वाभावान्न षत्वम् । “एषु' किम् । परिषिञ्चति ।

५५३ । अभिरभागे । (१-४-९१)

भागवर्जे लक्षणादावभिरुक्तसंज्ञः स्यात् । हरिमभि वर्तते । भक्तो हरि मभि । देवं देवमभि सिञ्चति । ‘अभागे' किम् । यद्दत्र ममाभिष्यात्तद्दीयताम् ।

५५४ । अधिपरी अनर्थकौ । (१-४-९३)


यावत् । वीप्सायामिति । उदाहरणं वक्ष्यत इति शेषः । वृक्षे वृक्षं प्रतीति । ‘नित्य वीप्सयोः' इति द्विर्वचनम् । अत्र सन्वाच्या इच्छास्वरूपा सती व्याप्तिरेव तु विवक्षिता, सा च कार्त्स्न्येन सम्बन्धात्मिका । तथाच प्रकृत्यर्थगतकार्त्स्न्यमेव व्याप्तिः, सा यद्यपि द्विर्वचनद्योत्या तथापि प्रतिपर्यनुयोगे तद्दयोत्यत्वमपि । तथाच कृत्त्स्नं वृक्षं सिञ्चतीत्यर्थः । व्यक्तिकात्स्रर्यमिह विवक्षितम्, नत्ववयवकात्स्रर्यमिति “नित्यवीप्सयोः' इत्यत्र भाष्ये स्पष्टम् । ननु सेचने वृक्षस्यं कर्मत्वादेव द्वितीयासिद्धेः किमिह कर्मप्रवचनीयसंज्ञयेत्यत आह । अत्रेति गत्युपसर्गसंज्ञा पवादः कर्मप्रवचनीयसंज्ञेत्युक्तम्, अतोऽत्र प्रतेः कर्मप्रवचनीयसंज्ञया उपसर्गसंज्ञाया बाधात् उपसर्गात् सुनोति' इति षत्वन्न भवति । कर्मप्रवचनीयत्वाभावे तु प्रतेरुपसर्गत्वात्ततः परस्य सिञ्चतेस्सस्य षत्वं स्यादित्यर्थः । भाष्ये तु “किमर्थमिदमुच्यते, कर्मत्वादेव द्वितीया सिध्द्यति उपसर्गसंज्ञानिवृत्तिस्तु न प्रयोजनम् । क्रियायोगाभावेन तदप्रसक्त्तेरित्याक्षिप्य द्वितीयार्थमेवैतत् कर्मप्रवचनीयसंज्ञाविधानम्’ इत्युक्तम् । “वृक्षस्य सेचने कर्मत्वेऽपि तदविवक्षायां सम्बन्धविवक्षायां षष्ठीं बाधितुमिदं कर्मप्रवचनीयत्वविधानम् । किञ्च वृक्षस्य सेचने कर्मत्वेऽपि प्रथमतः प्रति द्योत्यसम्बन्धे अन्वयेन अन्तरङ्गत्वात्तन्निमित्तषष्ठीबाधनार्थमिदम् । वृक्षं वृक्षं प्रति पक्षिण आसते इत्यादौ अकर्मकधातुयोगे अधिकरणादिसंज्ञानिरासार्थञ्चेदमिति भाष्याशयः” इति शब्दे न्दुशेखरेमञ्जूषायाश्च स्पष्टम् । एषु किमिति ॥ ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु’ इति किमर्थ मित्यर्थः । परिषिञ्चतीति ॥ अग्निमित्यादि शेषः । अत्र लक्षणाद्यभावात् कर्मप्रवचनीयत्वाभावे ‘उपसर्गात्सुनोति’ इति षत्वमिति भावः । अभिरभागे ॥ लक्षणादाविति ॥ आदिना इत्थंभूता ख्यानवीप्सयोस्सङ्गहः। लक्षणे उदाहरति । हरिमभिवर्तत इति । जयः क्वेति प्रश्रे इदमुत्तरम् । लक्ष्यभावः अभिद्योत्यो द्वितीयार्थः । हरिलक्ष्यो जय इत्यर्थः । भक्तो हरिमभीति ॥ इत्थम्भूता ख्याने उदाहरणमिदम् । विषयतासम्बन्धः अभिद्योत्यो द्वितीयार्थः। हरिविषयकभक्तिमानित्यर्थः । वीप्सायामुदाहरति । देवं देवमभि सिञ्चतीति ॥ कार्त्स्न्यसम्बन्धात्मिका व्याप्ति र्द्वितीयार्थः, अभिद्योत्यश्च । कृत्स्नं देवमभि सिञ्चतीत्यर्थः । षत्वाभावादि पूर्ववत् । यदत्रेति ॥ बहूनां द्रव्यं तण्डुलादि यत्र संसृष्टं तत्रेदं वाक्यम् । स्वस्वामिभावः षष्ठयर्थः । अभिस्तद्दयो तकः । अत्र संसृष्टद्रव्ये यत् वस्तु मम स्वभूतं स्यात्, तत् मह्यं दीयतामित्यर्थः । स्यादित्य स्तेर्लिङि रूपम् । अत्र मम भाग इत्यर्थतः पर्यवसानादभाग इति कर्मप्रवचनीयत्वपर्युदासाभावे

उपसर्गत्वस्य निर्वाधत्वात् 'उपसर्गप्रादुर्भ्यामस्तिर्यच्परः' इति षत्वम् । अधिपरी अनर्थकौ ॥

४१८
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

उक्तसंज्ञौ स्तः । कुतोऽध्यागच्छति । कुतः पर्यागच्छति । गतिसंज्ञा बाधात् *गतिर्गतौ' (सू ३९७७) इति निघातो न ।

५५५ । सुः पूजायाम् । (१-४-९४)

सु सिक्तम्, सु स्तुतम् । अनुपसर्गत्वान्न षः । “ पूजायाम्' किम् । सुषित्तं किं स्यात् तवात्र । क्षेपोऽयम् ।

५५६ । अतिरातिक्रमणे च । (१-४-९५)

अतिक्रमणे पूजायां च अतिः कर्मप्रवचनीयसंज्ञः स्यात् । अति देवान्कृष्णः।

५५७ । अपिः पदार्थसम्भावनान्ववसर्गगर्हासमुच्चयेषु । (१-४-९६)

एषु द्योत्येष्वपिरुक्तसंज्ञः स्यात् । सर्पिषोऽपि स्यात् । अनुपसर्गत्वान्न ष:।


उक्तसंज्ञौ स्त इति ॥ कर्मप्रवचनीयसंज्ञकावित्यर्थः । कुतोऽच्द्यागच्छति, कुतः पर्या गच्छतीति ॥ अत्र कुत इत्यपादानपञ्चम्यास्तसिल । कस्मात् प्रदेशादागच्छतीत्यर्थः । नन्वत्र आधिपर्योरनर्थकतया सम्बन्धस्य तद्दयोत्यत्वाभावेन द्योत्यसम्बन्धप्रतियोगित्वरूपकर्म प्रवचनीययुक्तत्वस्याभावान्न द्वितीयाप्रसक्तिरित्यत आह । गतिसंज्ञाबाधादिति । अत्र

  • गतिर्गतौ' इत्यत्र पदादित्यधिकारात् पदात्परत्वसम्पत्तये कुत इत्युपात्तमिति भावः । अत्र

प्रभवति पराभवति अनुभवतीत्यादौ प्रादेरिवार्थान्तरद्योतकत्वाभावेऽपि धात्वर्थद्योतकत्वमस्येव। अर्थान्तरद्योतकत्वाभावेन अनर्थकत्वव्यवहारः । उक्तञ्च भाष्ये–“अर्थान्तरवाचिनौ धातुनो क्तक्रियार्मेवाहतुः” इति । एवञ्च क्रियायोगाभावात् गतित्वस्यापि न प्रसक्तिरिति शङ्का निरस्ता। सुः पूजायाम् ॥ कर्मप्रवचनीय इति शेषः । सु सिक्तं, सु स्तुतमिति । अत्र सोः कर्म प्रवचनीयत्वे प्रयोजनमाह । अनुपसर्गत्वान्न षः इति ॥ 'उपसर्गात् सुनोति' इत्यनेनेति शेषः । पूजायां किमिति । सुना पूजायाः नित्यं प्रतीतेः प्रश्रः । सुषिक्तं किं स्यात् तवात्रेति ॥ त्वया सम्यक् सिक्त किन्तु अत्रास्मिन् सुसेके कृते सति सेक्तुस्तव किं, न किञ्चि दपीत्यर्थः । क्षेपोडयमिति ।। निन्दात्र गम्यत इत्यर्थः । सेकक्रियाकर्तुः पूज्यत्वे गम्य

एवात्र कर्मप्रवचनीयत्वम् । तदभावात् “उपसर्गात् सुनोति ’ इति षत्वामिति भावः । अतिरतिक्रमणे च ॥ चकारात् पूजायामिति समुच्चीयत इत्याह । पूजायाञ्चेति ॥ अतिक्रमणमुचितादाधिक्यम् । अति देवान् कृष्णः इति ॥ प्रपञ्चसंरक्षणविषये देवेभ्यो ऽधिकः कृष्ण इत्यर्थः । देवानां पूज्य इति वा । आद्येऽर्थे 'कुगतिप्रादयः’ इति समासो न ।

  • स्वती पूजायाम्' इति नियमात् । द्वितीये त्वनभिधानान्नेत्याहुः । अपिः पदार्थ ॥ पदार्थश्च

सम्भावनञ्च अन्ववसर्गश्च गह च समुचयश्चेति द्वन्द्वः । एषु द्योतकतया विद्यमानः अपिः

कर्मप्रवचनीय इत्यर्थः । तदाह । एष्विति ॥ अप्रयुज्यमानस्य पदान्तरस्यार्थः पदार्थः

विभक्तिप्रकरणम्]
४१९
बालमनोरमा ।

सम्भावनायां लिङ् । तस्या एव विषयभूते भवने कर्तृदौलभ्यप्रयुक्तं दौर्लभ्यं द्योतयन्नपिशब्दः स्यादित्यनेन सम्बध्यते । “ सर्पिषः' इति षष्ठी त्वपिशब्दबलेन गम्यमानस्य बिन्दोरवयवावयविभावसम्बन्धे । इयमेव ह्यपि शब्दस्य पदार्थद्योतकता नाम । द्वितीया तु नेह प्रवर्तते । सर्पिषो बिन्दुना योगो न त्वपिनेत्युक्तत्वात् । अपि स्तुयाद्विष्णुम्, सम्भावनं शक्त्युत्कर्षमा


तद्दयोतकमपिमुदाहरति । सर्पिषोऽपि स्यादिति ॥ यत्रातिदौर्लभ्यादत्यल्पमाज्यं भुञ्जानेभ्यो दीयते तदुपहासार्थमिदं वाक्यम्। अत्रापेः कर्मप्रवचनीयत्वे प्रयोजनमाह। अनुपसर्गत्वान्न षः इति ॥“उपसर्गप्रादुर्भ्याम्’ इत्यनेनेति शेषः। अपिद्योत्यं पदार्थ विशदयितुमाह। सम्भावनायां लिङिति ॥ ‘उपसंवादाशङ्कयोश्च' इति सूत्रे 'उपसंवादाशङ्कयोर्लिङ्’ इति पठितवचनेनेति शेषः । तत्र आशङ्का उत्कटान्यतरकोटका शङ्का । सम्भावनैवेति भावः । सा च प्रकृत्यर्थगता भवति, प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधकत्वव्युत्पत्तेः । असधातोश्च भवनमर्थः । अस भुवि' इत्युक्तेः । भवनश्च सत्ता । ‘भू सत्तायाम्’ इत्युक्तेः । ततश्च सम्भावनाविषयीभूतभवनार्थकादसधातोः कर्तरि लिङिः श्र्नसोरल्लोपे यासुडागमादौ स्यादिति रूपम् । तेन च सम्भावनाविषयभवनाश्रयः कर्ता अवगतः, सच कर्ता क इत्याकाङ्क्षायां प्रकरणात् औचित्यात् सर्पिष इत्यवयवषष्ठीबलाञ्च बिन्दु रिति गम्यते, तमेवापिशब्दो द्योतयति, सच्च बिन्दुरपिशब्दध्योत्यः कर्ता प्रकृत्यर्थे सम्भावना विषये भवने स्वस्य बिन्दोदौर्लभ्यात् तदेव दौर्लभ्यं पुरस्कृत्यान्वेति । सम्भावनाविषयत्वबोधे दौर्लभ्यस्यापि सम्भावनाविषयतया अनुभवसिद्धत्वात्, तदिदं दौर्लभ्यमपिशब्दो द्योतयति । एवञ्च बिन्दोः कर्तृविशेषरूपेण स्वद्योत्योक्तदौर्लभ्यसम्बन्धेन स्यादित्यत्रान्वयः।तदाह । तस्या एवेति ॥ सम्भावनाया एवेत्यर्थः । कर्तुर्बिन्दोदौर्लभ्यात् भवनक्रियायां यत् दौर्लभ्यं तद्दयोतयन् अपिशब्दः स्यादित्यनेन सम्बध्यत इत्यर्थः । ननु सपेिरेव कर्तृत्वेनान्वेतु इत्यत आह । सर्पिषः इति ॥ सम्बन्ध इत्यनन्तरं वर्तत इति शेषः । एवञ्च सर्पिरवयवबिन्दुदौर्ल भ्यप्रयुक्तदौर्लभ्यवती बिन्दुकर्तृका सम्भावनाविषयीभूता सत्तेति बोधः । इयमेवेति ॥ विन्दु दौर्लभ्यप्रयुक्तदौर्लभ्यद्योतकतैवेत्यर्थः । ननु कर्मप्रवचनीयेनापिना अन्वयसत्त्वात् सर्पिषो द्वितीया स्यादित्यत आह । द्वितीया तु नेति । कुत इत्यत आह । सर्पिष इति ॥ सर्पिषः बिन्दु नैव योगः, न त्वपिनेत्येवं सर्पिष इति षष्ठी त्वित्यादिसन्दर्भेण उक्तत्वादित्यर्थः । कर्मप्रवचनीय द्योत्यसम्बन्धप्रतियोगित्वमेव कर्मप्रवचनीययुक्तत्वम्, प्रकृते च अपिद्योत्यस्य सर्पिषः उक्तसम्ब न्धस्य बिन्दुरेव प्रतियोगी नतु सर्पिरिति भावः। तदेवं पदार्थद्योतकमपिमुदाहृत्य सम्भावना

द्योतकमपिमुदाहरति । अपि स्तुयाद्विष्णुमिति ॥ “सम्भावनेऽलमिति चेत् सिद्धाप्रयोगे इति लिङ् । सम्भावनपदं व्याचष्टे । सम्भावनमित्यादिना ॥ अवाङमनसगोचरं विष्णु मपि स्तुयात् । स्तोतुं शक्त इत्यर्थः । अत्युक्तिरियम् । अवाङमनसगोचरस्य विष्णोः केनापि

स्तोतुमशक्यत्वात् । तत्र कर्मप्रवचनीयत्वेन उपसर्गत्वबाधात् “उपसर्गात् सुनोति' इति षत्वन्न।

४२०
[कारके द्वितीया
सिद्धान्तकौमुदीसहिता

विष्कर्तुमत्युक्तिः । अपि स्तुहि, अन्ववसर्गः कामचारानुज्ञा । धिग्देवदत्तम् अपि स्तुयादृषळम्, गर्हा । आपे सिञ्च. अपि स्तुहि, समुचये ।

५५८ । कालाध्वनोरत्यन्तसंयोगे । (२-३-५)

इह द्वितीया स्यात् । मासं कल्याणी । मासमधीते । मासं गुडधानाः। क्रोशं कुटिला नदी । कोशमधीते । क्रोशं गिरिः । “ अत्यन्तसंयोगे' किम्। मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ।

इति द्वितीया विभक्तिः ।


अन्ववसर्गद्योतकमपिमुदाहरति । अपि स्तुहीति ॥ तुहि वा न वा यथेष्टं कुर्वित्यर्थः । अन्व वसर्गपदं व्याचष्टे । अन्ववसर्गः कामचारानुज्ञेति ॥ 'प्रैषातिसर्ग ' इति लोट् । गर्हाद्यो तकमपिमुदाहरति । अपि स्तुयाद्वषळमिति ॥ “गर्हायां लडपिजात्वोः' इति लटं वाधित्वा परत्वादन्तरङ्गत्वाच्च सम्भावनायां लिङ् । अत्र दृषळस्य निन्द्यत्वात् तत्स्तुतेर्निन्द्यत्वं गम्यमान मपिशब्दो द्योतयति । धिग्देवदत्तमिति तदनुवादः । समुच्चयद्योतकमपिमुदाहरति । अपि सिञ्च, अपि स्तुहीति । अपिद्वयेन मिळितेन समुचयद्योतनात् प्रत्येकं कर्मप्रवचनीयत्वा दुभयत्रापि षत्वाभावः। सिञ्च, स्तुहि चेत्यर्थः । कालाध्वनोः ॥ इहेति ॥ कालाध्वनोरत्यन्तसंयोगे इत्यर्थः । निरन्तरसंयोगः अत्यन्तसंयोगः । अन्तः विच्छेदः तमतिक्रान्तः अत्यन्तः स चासौ संयो गश्चेति विग्रहः । गुणक्रियाद्रव्यैरित्यौचित्यात् गम्यते । गुणक्रियाद्रव्यैः कालाध्वनोरविच्छिन्नसंयोगे गम्ये द्वितीया स्यादित्यर्थः । सा च कालाध्वभ्यामेव भवति, श्रुतत्वात् । तत्र गुणात्यन्तसंयोगे उदाहरति । मासं कल्याणीति ॥ भवतीति शेषः । त्रिंशद्दिनात्मको मासः । तस्मिन्नविच्छि न्नमङ्गळवानित्यर्थः । क्रियात्यन्तसंयोगे उदाहरति । मासमधीते इति ॥ त्रिंशद्दिनात्मके प्रतिदिनमुचितकाले निरन्तरमधीत इत्यर्थः । द्रव्यात्यन्तसंयोगे उदाहरति । मासं गुडधानाः इति ॥ मासे प्रतिदिनं निरन्तरं गुडधानास्सन्तीत्यर्थः । कालात्यन्तसंयोगमुदाहृत्य अध्वात्यन्त संयोगे उदाहरति । क्रोशं कुटिला नदीत्यादि ॥ मासस्य द्विरिति ॥ मासे त्रिंशद्दि नात्मके द्वयोर्दिनयोः प्रतिदिनमेकवारभित्येवं द्विरधीत इत्यर्थः । ‘द्वित्रिचतुभ्र्यस्सुच्’ इति द्वि शब्दात् कृत्योऽर्थे सुच् । 'कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ’ इति षष्ठी । शेषषष्ठीति केचित् । शिवरात्रौ जागृयात्' इत्यत्र तु अधिकरणत्वस्य विवक्षितत्वात् सप्तमीत्याहुः । उपपदविभक्तीनां शेषत्वविवक्षायामेव प्रवृत्तरिति तदाशयः ॥

इति द्वितीया विभक्तिः ।

विभक्तिप्रकरणम्]
४२१
बालमनोरमा ।

अथ तृतीया विभक्तिः ।

५५९ । स्वतन्त्रः कर्ता । (१-४-५४)

क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् ।

५६० । साधकतमं करणम् । (१-४-४२)

क्रियासिद्धौ प्रकृष्टोपकारकं कारकं करणसंज्ञं स्यात् । तमब्ग्रहणं किम् । गङ्गायां घोषः ।

५६१ । कर्तृकरणयोस्तृतीया । (२-३-१८)

अनभिहिते कर्तरि करणे च तृतीया स्यात् । रामेण बाणेन हतो वाली । *प्रकृत्यादिभ्य उपसंख्यानम्’ (वा १४६६) । प्रकृत्या चारुः ।


अथ तृतीया विभक्तिः-स्वतन्त्रः कर्ता ॥ कारकाधिकारात् क्रियाजनने स्वातन्त्रय मिह विवक्षितमित्याह । क्रियायामिति ॥ स्वातन्त्रयमिह प्राधान्यमिति भाष्ये स्पष्टम् । ननु स्थाली पचतीत्यादौ कथं स्थाल्यादीनां कर्तृत्वं, स्वातन्त्रयाभावादित्यत आह । विवक्षि तोऽर्थ इति ॥ “विवक्षातः कारकाणि भवन्ति' इति भाष्यादिति भावः । स्वातन्त्रयञ्च धात्व र्थव्यापाराश्रयत्वम् । फलानुकूलव्यापारा धात्वर्थः । तत्र पचवतात्यत्र विक्लित्तिरूपफलाश्रये तण्डुले ऽतिव्याप्तिवारणाय व्यापारेति । उक्तञ्च हरिणा–“धातुनोक्तक्रिये नित्यं कारके कर्तृतेष्यते” इति । धातूपातव्यापारवतीत्यर्थः । साधकतमं करणम् ॥ क्रियासिद्धाविति ॥ क्रियोः त्पत्तावित्यर्थः । कारकाधिकारलभ्यामिदम् । प्रकृष्टोपकारकमिति ॥ कर्त्रा क्रियायां जनयित व्यायां यत् सहायभूतं तदुपकारकमित्युच्यते । साधकतममित्यस्य व्याख्यानमेतत् । साधकशब्दात् ‘अतिशायने तमप्’ इति तमप्। अतिशयितं साधकं साधकतममिति भावः। यव्यापारानन्तरं क्रियानि ष्पत्तिः तत् प्रकृष्टम्। कर्तृव्यापाराधीनयव्यापाराव्यवहिता क्रियानिष्पत्तिः तत्तस्यां करणमिति यावत् । तमब्ग्रहणं किमिति ॥ साधकमित्येवोच्यताम् । कारकाधिकारादेव सिद्धे पुनस्साधकग्रहणादेव प्रकृष्टं साधकमिति विज्ञायत इति प्रश्नः । गङ्गायां घोषः इति । अयमाशयः । कारकप्रकरणे गौणमुख्यन्यायः एतत्सूत्रादन्यत्र न प्रवर्तते इति ज्ञापनार्थ तमब्प्रहणम् । अन्यथा “ आधारो ऽधिकरणम्' इत्यत्र अन्वर्थमहासंज्ञाबलादेवाधारलाभे पुनस्तद्वहणसामर्थ्यात् सर्वावयवव्याप्त्या य आधारस्सोऽधिकरणमित्यर्थस्यात् । एवञ्च तिलेषु तैलं, दध्रि सर्पिरित्यादावेव स्यात् । गङ्गायां घोषः, कूपे गर्गकुलमित्यादौ न स्यात् । अतस्तमब्ग्रहणमिति भाष्ये स्पष्टम् । अत्र यद्वक्तव्यं तत् “ आधारोऽधिकरणम्' * सप्तम्यधिकरणे व ' इत्यत्र वक्ष्यते । कर्तृकरणयो स्तृतीया ॥ “अनभिहिते’ इत्यधिकारादाह । अनभिहित इति ॥ रामेणेति ॥ राम

कर्तृकबाणकरणकहिंसाक्रियाविषयो वालीत्यर्थः । प्रकृत्यादिभ्य उपसङ्खयानमिति ॥

४२२
[कारके तृतीया
सिद्धान्तकौमुदीसहिता

प्रायेण याज्ञिकः । गोत्रेण गार्ग्यः। समेनैति । विषमेणैति । द्विद्रोणेन धान्यं क्रीणाति । सुखेन दुःखेन वा यातीत्यादि ।

५६२ । दिवः कर्म च । (१-४-४३)

दिवः साधकतमं कारकं कर्मसंज्ञं स्याच्चात्करणसंज्ञम् । अक्षैरक्षान्वा दीव्यति।

५६३ । अपवर्गे तृतीया । (२-३-६)

अपवर्ग: फलप्राप्तिः, तस्यां द्योत्यायां कालाध्वनोरत्यन्तसंयोगे तृतीया स्यात् । अह्वा क्रोशेन वा अनुवाकोऽधीतः । अपवर्गे किम् । मासमधीतो नायातः ।


तृतीयाया इति शेषः । उपपदविभक्तिरियम् । यथायोगं सर्वविभक्तयपवादः । प्रकृत्या चारुरिति ॥ सम्बन्धस्तृतीयार्थः । प्रकृतिः स्वभावः, तत्सम्बन्धिचारुत्ववानित्यर्थः । यदा तु स्वभावेनैवायमभिरूपः न त्वलङ्कारादिनेति करणान्तरव्युदासाय प्रकृतेः करणत्वं विवक्ष्यते तदा 'कर्तृकरणयोः' इत्येव सिद्धमिति भाष्यम् । प्रायेण याशिवक इति । प्रायशब्दो बहुळ वाची । बहुळाचारसम्बन्धियाज्ञिक्रत्ववानित्यर्थः । सम्बन्धश्च ज्ञाप्यज्ञापकभावः । बहुळेन आचा रेण हेतुना ज्ञाप्ययाज्ञिकत्ववानित्यर्थे तु “इत्थम्भूतलक्षणे' इत्येव सिद्धम् । बहुळेन आचारेण सम्पन्नयाज्ञिकत्ववानित्यर्थे तु करणत्वादेव सिद्धमिति भाष्यम् । गोत्रेण गाग्यै इति ॥ गोत्रमस्य गाग्र्यं इत्यर्थः । अत्र प्रथमा प्राप्ता । “गोत्रेण हेतुना ज्ञाप्यगार्ग्यंत्ववानित्यर्थे तु इत्थम्भूतलक्षणे' इत्येव सिद्धम्” इति भाष्यम् । समेनैति, विषमेणैतीति । क्रियाविशे षणमेतत् । समं विषमञ्च गमनं करोतीत्यर्थः । कर्मणि द्वितीया प्राप्ता । “समेन विषमेण वा पथा एतीत्यर्थे तु करणत्वादेव सिद्धम्” इति भाष्यम् । द्विद्रोणेन धान्यं क्रीणातीति ॥ द्वयोर्द्रोणयोस्समाहारः द्विद्रोणम् । पात्रादित्वान्न स्त्रीत्वम् । द्विद्रोणसम्बन्धि धान्यमित्यर्थः । षष्ठी प्राप्ता । “यदा तु द्विद्रोणपरिमितधान्यमूल्यं हिरण्यं द्विद्रोणं, तेन क्रीणातीत्यर्थे तु करणत्वादेव सिद्धम्” इति भाष्यम् । सुखेनेति । सुखजनकं यानं करोतीत्यर्थः । क्रियाविशेषणम् । द्वितीया प्राप्ता । इत्यादीति । नान्ना सुतीक्ष्णः नामसम्बन्धिसुतीक्ष्णत्ववानित्यर्थः । नामज्ञाप्य सुतीक्ष्णत्ववानित्यर्थे तु ‘इत्थम्भूतलक्षणे' इत्येव सिद्धम्। धान्येन धनवानित्यत्र तु अभेदस्तृतीयार्थः । धान्याभिन्नधनवानित्यर्थः। वह्नित्वेन वहिं जानामीत्यत्र तु प्रकारत्वं तृतीयार्थः । वह्नित्वप्रकारकवह्नि ज्ञानवानस्मीत्यर्थः । इत्याद्यूह्यम् । दिवः कर्म च । साधकतममित्यनुवर्तते । तदाह । दिवस्साधकतममिति । दिवुधात्वर्थे प्रति साधकतममित्यर्थः । चादिति । चकारात् करणसंज्ञकमित्यपि लभ्यत इत्यर्थः । अपवर्गे तुतीया ॥ अपवर्गस्समाप्ति कर्मापवर्गे लौकिका अग्नयः' इत्यादौ दर्शनात् । इह तु फलप्राप्तिर्विवक्षिता। फलप्राप्तिपर्यन्तत्वात् प्रायेण क्रियायाः । तदाह । अपवर्गः फलप्राप्तिरिति ॥ कालाध्वनोः इति ॥ अनेन 'काला

ध्वनोः' इति द्वितीयाया अयमपवाद इति सूचितम् । अह्नेति ॥ अह्नि क्रोशे वा निरन्तरम्

विभक्तिप्रकरणम्]
४२३
बालमनोरमा ।

५६४ । सहयुक्त्तेऽप्रधाने । (२-३-१९)

सहार्थेन युक्तेऽप्रधाने तृतीया स्यात् । पुत्रेण सहागतः पिता । एवं साकंसार्धसमंयोगेऽपि । विनापि तद्योगं तृतीया । 'वृद्धो यूना --' (सू ९३१) इत्यादिनिर्देशात् ।

५६५ ॥ येनाङ्गविकारः । (२-३-२०)

येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया स्यात् । अक्ष्णा काणः । अक्षिसम्बन्धिकाणत्वविशिष्ट इत्यर्थः । अङ्गविकारः किम् । अक्षि काणमस्य ।

५६६ । इत्थम्भूतलक्षणे । (२-३-२१)

कञ्चित्प्रकारं प्राप्तस्य लक्षणे तृतीया स्यात् । जटाभिस्तापसः । जटा ज्ञाप्यस्तापसत्वविशिष्ट इत्यर्थः ।


अनुवाकोऽद्ययनेन गृहीत इत्यर्थः । नायात इति ॥ न गृहीत इत्यर्थः । सहयुक्त ॥ 'पृथ ग्विनानानाभिः’ इतिवत् सहेनेत्येव सिद्धे युक्तग्रहणं सहार्थकशब्दानां साकमित्यादीनामपि ग्रहणा र्थमित्याह । सहार्थेनेति ॥ पुत्रेणेति॥ पितुरत्रागमनक्रियासम्बन्धश्शाब्दः । पुत्रस्य तु तत्सा हित्यगम्य आर्थिक इति तस्याप्राधान्यम्।‘‘यद्यप्यागमनक्रियाकर्तृत्वादेव पुत्रात् तृतीया सिद्धा । तथापि पुत्रेण सह स्थूल इत्याद्येवास्य मुख्योदाहरणम् ” इति भाष्ये स्पष्टम् । अर्थग्रहणस्य प्रयो जनमाह । एवं साकमिति । ननु “पुत्रेणागतः पिता' इत्यत्र सहादिशब्दाभावात् कथं तृतीयेत्यत आह । विनापीति ॥ 'वृद्धो यूना तल्लक्षणंश्चेत्' इति सूत्रे सहादिशब्दाभावेऽपि तदर्थावगमेऽपि तृतीयानिर्देशदर्शनादित्यर्थः । येनाङ्गविकारः । अङ्गान्यस्य सन्तीत्यङ्गं शरीरम् । अर्श आद्यच् । तस्य विकार इति विग्रहः । येनेत्यनेन प्रकृत्यर्थभूतमङ्गं परामृश्यते । नह्यविकृतन अङ्गेन आङ्गिनो विकारस्सम्भवति। तदाह । येनाङ्गेनेत्यादिना ॥ अक्ष्णा काणः इति ॥ काणशब्दः काणत्ववति वर्तते । सम्बन्धस्तृतीयार्थः । स च काणत्वेऽन्वेति । तदाह । अक्षिसम्बन्धीति ॥ सम्बन्धश्च विकारप्रयुक्तत्वरूपः । अक्षिविकारप्रयुक्तकाणत्ववानिति यावत् । यद्यपि एकमक्षि विकलं काणमित्युच्यते । तथाप्यवयविधर्मस्य शरीरे तदवछिन्नात्मनि व्यवहारो निरूढः । द्वैौ विप्रावितिवत् अक्ष्णेति पदस्य प्रयोगस्समर्थ्यः । इत्थम्भूतलक्षणे ॥ अयं प्रकारः इत्थं, तं भूतः प्राप्तः इत्थम्भूतः, “भू प्राप्तौ इति चौरादिकात् “आधृषाद्वा' इति णिजभावे “गत्यर्थाकर्मक' इत्यादिना कर्तरि क्तः । लक्षणं ज्ञापकं प्रकारविशेषं प्राप्तस्य ज्ञापके सम्बन्धे द्योत्ये इत्यर्थः । तदाह । कञ्चित्प्रकारमिति ॥ जटाभिस्तापस इति ॥ तपः अस्यास्तीति तापसः । ‘तपस्सहस्राभ्यां विनीनी' “अण्च' इति मत्वथयि अण्प्रत्ययः तापसत्व

वति वर्तते । लक्ष्यलक्षणभावस्तृतीयार्थः । तदाह । जटाज्ञाप्येति ॥ नच ज्ञापने करणत्वा

४२४
[कारके तृतीया
सिद्धान्तकौमुदीसहिता

५६७ । संज्ञोऽन्यतरस्यां कर्मणि । (२-३-२२)

सम्पूर्वस्य जानातेः कर्मणि तृतीया वा स्यात् । पित्रा पितरं वा सञ्जानीते ।

५६८ । हेतौ । (२-३-२३)

हेत्वर्थे तृतीया स्यात् । द्रव्यादिसाधारणं निर्व्यापारसाधारणं च हेतुत्वम् । करणत्वं तु क्रियामात्रविषयं व्यापारनियतं च । दण्डेन घटः । पुण्येन दृष्टो हरिः । फलमपीह हेतुः । अध्ययनेन वसति । 'गम्यमानापि


देव तृतीया सिद्धेति वाच्यम् । करणत्वाविवक्षायां लक्ष्यलक्षणभावस्य सम्बन्धत्वेन विवक्षायां तृतीयार्थत्वात् । संज्ञोऽन्यतरस्यां कर्मणि ॥ सम्पूर्वस्य ज्ञाधातोरनुकरणात् षष्ठयेकवचनं संज्ञ इति । तदाह । सम्पूर्वस्य जानातेरिति । द्वितीयापवादोऽयं तृतीयाविकल्पः । सञ्जानीते इति ॥ सम्यक् जानीते इत्यर्थः । सम्प्रतिभ्यामनाध्द्याने' इत्यात्मनेपदम् । हेतौ ॥ हेत्वर्थे इति ॥ हेतुरिह कारणपर्यायो लौकिक एव विवक्षितः, नतु 'तत्प्रयोजको हेतुश्च' इति कृत्रिमः। तस्य चकारेण कर्तृसंज्ञाया अपि सत्त्वेन कर्तृतृतीययैव सिद्धेः । ननु हेतोरपि करणत्वा देव तृतीयासिद्धेत्याशङ्कय हेतुत्वकरणत्वयोर्भदमाह । द्रव्यादिसाधारणमिति ॥ आदिना गुणक्रियासङ्गहः। द्रव्यं गुणं क्रियाश्च प्रति यज्जनकं तत्र सर्वत्र विद्यमानमित्यर्थः । निर्व्यापार साधारणञ्चेति । द्वारीभूतव्यापारवति तद्रहिते च विद्यमानच्चेत्यर्थः । एवञ्च द्रव्यगुण क्रियात्मककार्यत्रयनिरूपितं निर्व्यपारसव्यापारवृत्ति च यत् तद्धेतुत्वमिति फलति । करण त्वन्त्विति ॥ क्रियाजनकमात्रवृत्ति व्यापारवृत्ति च यत् तदेव करणत्वमित्यर्थः । एवञ्च हेतुत्वकरणत्वयोः भेदादन्यतरेण अन्यतरस्य नान्यथासिद्धिरिति भावः । तत्र द्रव्यं प्रति हेतुमुदाहरति । दण्डेन घटः इति । दण्डहेतुको घट इत्यर्थः । दण्डे व्यापारसत्त्वेऽपि क्रियाजनकत्वाभावान्न करणत्वमिति भावः । क्रियां प्रति हेतुमुदाहरति । पुण्येन दृष्टो हरिरिति ॥ यागादिना स्वर्गादिफले जननीये यदवान्तरव्यापारभूतमपूर्व तत् पुण्यमित्युच्यते। तस्य हरिदर्शनजनकत्वेऽपि निर्व्यापारत्वान्न करणत्वमिति भावः । गुणं प्रति हेतुत्वे तु पुण्येन ब्रह्मवर्चसमित्याद्युदाहार्यम् । ननु अध्द्ययनेन वसतीत्यत्र कथं तृतीया । अध्ध्ययनस्य गुरुकुल वासं प्रात हेतुत्वाभावात् । प्रत्युत अध्द्ययनस्य वाससाध्द्यत्वादित्यत आह । फलमपीह हेतुरिति । अध्द्ययनं यद्यपि वासफलं, तथापि वासं प्रति हेतुरपि भवति । इष्टसाधनताज्ञा नस्य प्रवृत्तिहेतुतया अध्द्ययनस्य फलस्य स्वज्ञानद्वारा वासजनकत्वात् । यदा त्वध्द्ययने फले एतादृशं हेतुमविवक्षित्वा अध्द्ययनार्थमेव वासो विवक्ष्यते, तदा चतुर्थ्येव भवति, अध्द्ययनाय वसतीति । एतच्च प्रकृतसूत्रे कैयटे स्पष्टम् । ननु अलं श्रमेण इत्यत्र कार्यस्य कस्यचिदप्यश्रव णात् करणत्वहेतुत्वयोरसम्भवात् कथं तृतीयेत्यत आह । गम्यमानापीति । न केवलं

श्रूयमाणैव क्रिया विभक्तौ प्रयोजिका, किन्तु गम्यमानापीत्यर्थः । करणतृतीयैवेयमित्यभिप्रेत्याह ।

विभक्तिप्रकरणम्]
४२५
बालमनोरमा ।

क्रिया कारकविभक्तौ प्रयोजिका ' । अलं श्रमेण । श्रमेण साध्यं नास्तीत्यर्थः । इह साधनक्रियां प्रति श्रमः करणम् । शतेन शतेन वत्सान् पाययति पयः । शतेन परिच्छिद्येत्यर्थ । * अशिष्टव्यवहारे दाणः प्रयोगे - चतुर्थ्यर्थे तृतीया (वा ५०४०) । दास्या संयच्छते कामुकः। धर्म्ये तु भार्यायै संयच्छति ।

इति तृतीया विभक्तिः ।


अलं श्रमेणेति ॥ ऊषरक्षेत्रं परिष्कुर्वाणं प्रति इदं वाक्यं प्रवृत्तम्। अत्र अलमिति नञर्थे निषेधे वर्तते । “ अलं भूषणपर्याप्तिशक्तिवारणवाचकम्' इत्यमरः । साध्यमित्यध्द्याहारलभ्यम् । तदाह । श्रमेण सार्ध्द्यं नास्तीत्यर्थ इति ॥ सद्यः खेदाधायकत्वात् साधने व्यापृतिरेव श्रम इत्युपचर्यते । नन्वेवमपि साधनीयस्य व्रीह्यादिफलस्य क्रियारूपत्वाभावात् कथं श्रमस्य तत्र करणत्वमित्यत आह । इहेति ॥ साध्द्यमित्यत्र प्रकृतिभूतो यो धात्वर्थः साधनक्रिया उत्पत्त्यात्मिका तां प्रतीत्यर्थः । एतेन श्रमस्य साधनक्रियायांश्चाभेद इति निरस्तम् । श्रमशब्देन व्रीह्याद्युत्पत्त्यनुकूलकर्षणादिव्यापारस्य साधनक्रियां प्रतीत्यनेन व्रीह्याद्युत्पत्तेश्च विवक्षितत्वात् । “गम्यमानापि क्रिया विभक्तौ प्रयोजिका' इत्यत्र उदाहरणान्तरमाह । शतेनेति । वीप्सायां द्विर्वचनम् । एकैकेन शतेन सङ्खया वत्सान् पायतीति प्रतीयमानार्थः । तत्र वत्सनिष्ठ शतसङ्खयायाः पायने करणत्वाभावात् परिच्छिद्येति गम्यते । एकैकशतसङ्खयया वत्सान् परिच्छिद्य तदधिकवत्सेभ्यो व्यावत्य पाययतीत्यर्थः । तथाच शतसङ्खयाया. परिच्छेदं प्रति करणत्वमिति भावः । अशिष्ठेति ॥ इदश्च “दाणश्च सा चेञ्चतुर्थ्यर्थे' इत्यनेन ज्ञाप्यत इति पदव्यवस्थायां वक्ष्यते । वैदिकमार्गानुयायिनशिष्टाः, वेदमार्गादपेताः अशिष्टाः, तेषां व्यवहारः आचारः, तस्मिन् विषये दाण्धातोः प्रयोगे सति चतुर्थ्यर्थे सम्प्रदाने तृतीया वाच्येत्यर्थः । दास्या संयच्छते कामुक इति ॥ दास्यै कामुकः प्रयच्छतीत्यर्थः । कामुक इत्यनेन रत्यर्थमिति गम्यते । दास्यां रतिः धर्मशास्त्रनिषिद्धत्वात् अशिष्टव्यवहार इति भावः । अशिष्टपदप्रयोजनमाह । धर्म्ये त्विंति ॥ धर्मादनपेत इत्यर्थः । न. तृतीयेति शेषः । “धर्मपथ्यर्थन्यायादनपेते' इति यादिति रत्नकारः । धर्मे त्विति पाठस्तु सुगम एव ॥

इति तृतीया विभक्तिः ।




१ इदं च 'दाणश्च सा चेचतुर्थ्यर्थे' (१-३-५४) इति सूत्रज्ञापितम् । तत्र अशिष्टव्यवहारे'इत्यंशो भाष्यकृतो वाचनिकः ।

४२६
[कारके चतुर्था
सिद्धान्तकौमुदीसहिता

अथ चतुर्थी विभक्तिः ।

५६९ । कर्मणा यमभिप्रैति स सम्प्रदानम् । (१-४-३२)

दानस्य कर्मणा यमभिप्रैति स सम्प्रदानसंज्ञः स्यात् ।

५७० । चतुर्थी सम्प्रदाने । (२-३-१३)

विप्राय गां ददाति । अनभिहित इत्येव । दीयतेऽस्मै दानीयो विप्रः । 'क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्' (वा १०८५) । पत्ये शेते । 'कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्मसंज्ञा' (वा १०८६) । पशुना रुद्रं यजते । पशु रुद्राय ददातीत्यर्थः ।

५७१रुच्यर्थानां प्रीयमाणः । (१-४-३३)

रुच्यर्थानां धातूनां प्रयोगे प्रीयमाणोऽर्थः सम्प्रदानं स्यात् । हरये


अथ चतुर्थी विभक्तिः-कर्मणा यमभि ॥ कर्मसंज्ञकेन गवादिद्रव्येण यमभिप्रैति शेषित्वेनाध्द्यवस्यति स सम्प्रदानमित्यर्थः । शेषित्वं भोक्तृत्वम् । सम्प्रदीयते यस्मै तत् सम्प्र दानमित्यन्वर्थसंज्ञैषा । ततश्च कस्याः क्रियायाः कर्मणेत्याकांक्षायां दानस्येति गम्यते । तदाह । दानस्येत्यादिना । देयद्रव्योद्देश्यं सम्प्रदानामिति फलितम् । दानस्येति किम् । पयो नयति देवदत्तस्य । अत्र देवदत्तस्य पयोनयनोद्देश्यत्वेऽपि न सम्प्रदानत्वम् । पयसा दानकर्मत्वा भावात् । चतुर्थी सम्प्रदाने। विप्रायेति ॥ विप्रमुद्दिश्य गां ददातीत्यर्थः । अनभिहिते इत्येवेति ॥ अनुवर्तत एवेत्यर्थः । दानीयो विप्र इति ॥ दानोद्देश्य इत्यर्थः । “कृत्यल्युटो बहुळम्' इति बहुळग्रहणात् सम्प्रदाने अनीयर् । तेन कृता सम्प्रदानस्य विप्रस्याभिहितत्वान्न चतुर्थीति भावः । ननु दानक्रियाकर्मोद्देश्यस्यैव सम्प्रदानत्वे पत्ये शेते इत्यत्र अकर्मकशयन क्रियोद्देश्यस्य पत्युः कथं सम्प्रदानत्वमित्याशङ्कायां “क्रियाग्रहणमपि कर्तव्यम्’ इति वार्तिकं प्रवृत्तम् । तदेतदर्थतस्सङ्गृह्लाति । क्रियया यमिति ॥ क्रियोद्देश्यमपि सम्प्रदानमिति यावत् । पत्ये शेते इति ॥ पतिमुद्दिश्य शेते इत्यर्थः । नन्वेवमपि ओदनं पचतीत्यादावपि सम्प्रदानत्व प्रसङ्गः । न च कर्मसंज्ञाविधिवैयर्थ्य शङ्कयम् । अत एव तत्र कर्वत्वसम्प्रदानत्वयोर्विकल्पोप पत्तेरिति चेन्न । पत्ये शेते इत्यकर्मकस्थले सावकाशायाः सम्प्रदानसंज्ञायाः सकर्मकस्थले कर्म संज्ञया बाधात् । तथाच अकर्मकक्रियोद्देश्यमपि सम्प्रदानमिति फलतीति भावः । कर्मणः करण संज्ञा सम्प्रदानस्य च कर्मसंज्ञा इति । वार्तिकम् । एकस्मिन् वाक्ये कर्मणस्सम्प्रदानस्य च समवाये सतीति शेषः । यजधातुविषयमेवेदमित्यभिप्रेत्य उदाहरति । पशुना रुद्रं यजते इति ॥ अत्र यजधातुर्दानार्थक इत्यभिप्रेत्य आह । पशुं रुद्राय ददातीत्यर्थ इति ॥

इदं वार्तिकं छान्दसमेवेति कैयटः । रुच्यर्थानाम् ॥ रुच्यर्थानां धातूनामिति ॥

विभक्तिप्रकरणम्]
४२७
बालमनोरमा ।

रोचते. भक्तिः । अन्यकर्तृकोऽभिलाषो रुचिः । हरिनिष्ठप्रीतेर्भक्तिः कत्री । ' प्रीयमाणः' किम् । देवदत्ताय रोचते मोदकः पथि ।

५७२ । श्लाघह्नुङ्स्थाशपां ज्ञीप्स्यमानः । (१-४-३४)

एषां प्रयोगे बोधयितुमिष्टः सम्प्रदानं स्यात् । गोपी स्मरात्कृष्णाय श्लाघते हुते तिष्ठते शपते वा । 'ज्ञीप्स्यमानः' किम् । देवदत्ताय श्लाघते पथि ।

५७३ । धारेरुत्तमर्णः । (१-४-३५)


रुच दीप्तावभिप्रीतौ च' दीप्तिरिह न रुच्यर्थः । प्रीयमाण इति विरोधात् । तथाच प्रीतिजनना र्थानामित्यर्थः । प्रीयमाण इति ॥ समवायेन प्रीत्याश्रय इत्यर्थः । हरये रोचते भक्ति रिति ॥ भक्तिः स्वविषयां प्रीतिं हरौ जनयतीत्यर्थः । भक्तिगतव्यापारप्रयोज्यप्रीत्याश्रयत्वाद्धरेः कर्मत्वं प्राप्तम्, तदपवादोऽयम् । नन्वेवं सति हरिर्भक्तिमभिलषतीत्यत्रापि भक्त्तेः प्रीतिविषय त्वात् सम्प्रदानत्वं स्यादित्यत आह । अन्यकर्तृकोऽभिलाषो रुचिरिति ॥ समवायेन प्रीत्याश्रयापेक्षया यदन्यत् तत्कर्तृकाभिलाषः रुचधात्वर्थः । प्रीत्याश्रयकर्तृकः किञ्चिद्विषयक इच्छाविशेषोऽभिलाषः । तथाच अभिलषतेः रुच्यर्थकत्वाभावान्न तद्योगे सम्प्रदानत्वम् । प्रकृते च प्रीत्याश्रयो हरिः, तदपेक्षया यत् अन्यत् भक्तिः, तत्कर्तृकैव प्रीतिरिति रुच्यर्थयोगः । नन्विह भत्तेस्सम्प्रदानत्वं कुतो न स्यात् । विषयतासम्बन्धेन भक्त्तेरपि प्रीत्याश्रयत्वादित्यत आह । हरिनिष्टप्रीतेर्भक्तिः कर्त्रीति॥ हरेव समवायसम्बन्धेन प्रीत्याश्रयतया प्रीयमाणत्वात् भक्त्तेः कत्रयां उत्क्तरीत्या प्रीयमाणत्वाभावाच्च न सम्प्रदानत्वमिति भावः । भक्तिर्हरिं प्रीणाति प्रीणयतीत्यादौ तु न भक्तेस्सम्प्रदानत्वप्रसक्तिः । तिङा अभिहितत्वात् समवायेन प्रीत्याश्रयत्वाभावाच्च । नापि हरेः । प्रीयमाण इति कर्मणि शानच्प्रयोगबलेन प्रीधातुयोगे रुच्यर्थानामित्यस्याप्रसक्त्तेर्विज्ञानात् । अन्यथा प्रधातुकर्मणः सम्प्रदानत्वे कर्मणि शानचो दौर्लभ्यात् । मोदकः पथीति ॥ अत्र पथः प्रीयमाणत्वाभावान्न सम्प्रदानत्वमिति भावः । श्लाघह्नुड् ॥ 'श्लाघृ कत्थने, ह्नुङ् अपनयने, ष्ठा गतिनिवृत्तौ, शप उपालम्भे' एषां द्वन्द्वः । शपामित्यनन्तरं प्रयोगे इत्यध्द्याहार्यम् । श्लाघादीनां स्तुत्यादिना बोधनमर्थः। ज्ञीप्स्यमान इति लिङ्गात् ज्ञापनवाचिनो ज्ञपेस्सन्नन्तात् कर्मणि शानच् । तदाह । एषां प्रयोगे इत्यादि ना ॥ गोपी स्मरादिति ॥ मन्मथपीडावशात् गोपी आत्मस्तुत्या विरहवेदनां कृष्णं बोधयतीत्यर्थः । कृष्णस्यैव स्तुत्यत्वे तु द्वितीयैवेत्याहुः । ह्नुते इति ॥ सपत्न्यपनयनेन स्वाशयं कृष्णं बोधयतीत्यर्थः । तिष्ठते इति ॥ गन्तव्यमित्युत्तेऽपि स्थित्या स्वाशयं कृष्णं बोधय तीत्यर्थः । 'प्रकाशनस्थेयाख्ययोश्च' इत्यात्मनेपदम् । शपते इति ॥ उपालम्भेन स्वाशयं कृष्णं बोधयतीत्यर्थः । धारेरुत्तमर्णः ॥ धारेरित्यनन्तरं प्रयोगे इत्यध्द्याहार्यम् । 'धृङ् अवस्थाने इत्यस्य हेतुमण्यन्तस्य धारेरिति निर्देशः । तदाह । धारयतेरित्यादिना ॥ अन्यस्वामिकं

द्रव्यं नियतकाले पुनरर्पणबुध्द्या गृहीतम् ऋणमित्युच्यते । तत्र ऋणस्यग्रहीता अधमर्णः, ऋण

४२८
[कारके चतुर्थी
सिद्धान्तकौमुदीसहिता

धारयतेः प्रयोगे उत्तमर्ण उक्तसंज्ञः स्यात् । भक्ताय धारयति मोक्षं हरिः । “उत्तमर्णः' किम् । देवदत्ताय शतं धारयति ग्रामे ।

५७४ । स्पृहेरीप्सितः । (१-४-३६)

स्पृहयतेः प्रयोगे इष्टः सम्प्रदानं स्यात् । पुष्पेभ्यः स्पृहयति । *ईप्सितः किम् । पुष्पेभ्यो वने स्पृहयति । ईप्सितमात्रे इयं संज्ञा । प्रकर्षविवक्षायां तु परत्वात्कर्मसंज्ञा । पुष्पाणि स्पृहयति ।

५७५ । क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः । (१-४-३७)

क्रुधाद्यर्थानां प्रयोगे यं प्रति कोपः स उक्तसंज्ञः स्यात् । हरये क्रुध्यति, द्रुह्यति, ईर्ष्यति, असूयति वा । * यं प्रति कोपः' किम् । भार्यामीर्ष्यति ।


स्यार्पयिता धनस्वामी उत्तमर्णः । प्रतिमासमशीतिभागादिवृद्या उत्तमम् अधिकतां प्राप्तम् ऋणं यस्येति विग्रहः । भक्तायेति ॥ भक्तसम्बन्धी यो मोक्षः अपरिमितनित्यसुखविशेषः तं धार यतीत्यर्थः । धरते मोक्षः, अवतिष्ठते इत्यर्थः । तं प्रेरयति धारयति, अवस्थापयतीति यावत् । पूजयन् हि भक्तः तुळसीदळादिद्रव्यं प्रयच्छति, तच्च गृह्णन् तुष्टो हरिः तत्प्रदत्तद्रव्यं मोक्षदानेन निष्क्रीणाति । तदाहुः पौराणिकाः–“तोयं वा पत्रं वा यद्वा किञ्चित् समर्पितं भक्तया । तदृणं मत्वा देवो निश्श्रेयसमेव निष्क्रियम्मनुते ॥” इत्यादि । तथाचात्र भक्तस्य ऋणदातृत्वेन उत्तमर्णत्वात् सम्प्रदानत्वं सम्बन्धषष्ठयपवादः । स्पृहेरीप्सितः ॥ “स्पृह ईप्सायाम् चुरादावदन्तः । ततः स्वार्थे णिचि अल्लोपस्य स्थानिवत्वात् लघूपधगुणाभावे स्पृहिशब्दात् षष्ठये कवचनम् । प्रयोग इत्यध्द्याहार्यम् । तदाह । स्पृहयतेरित्यादिना ॥ ननु पुष्पेभ्यः स्पृहयती त्येव स्यात्, नतु पुष्पाणि स्पृहयतीत्यपि । उभयं त्विष्यते । तत्राह । ईप्सितमात्र इति ॥ यदा त्वीप्सितत्वस्यापि न विवक्षा, किन्तु विषयतामात्रविवक्षा, तदा पुष्पाणां स्पृहयतीति साधु । “कुमार्य इव कान्तस्य त्रस्यन्ति स्पृहयन्ति च' इत्यादिदर्शनात् । वाक्यपदीये तु स्पृहयति योगे कर्मसंज्ञायाश्शेषष्ठयाश्चायमपवाद इति स्थितम् । हेलाराजोऽप्येवम् । तन्मते पुष्पाणि स्पृहयति पुष्पाणां स्पृहयतीत्याद्यसाध्वेवेत्यन्यत्र विस्तरः । क्रुधद्रह ॥ क्रुधाद्यर्थानामिति ।। ‘क्रुध क्रोधे, द्रुह द्रोहे' श्यन्विकरणौ। ‘ईर्ष्य ईष्र्यायां' शब्विकरणः।‘असूञ् उपतापे' कण्ड्रादिः । एषामर्था एवार्था येषामिति विग्रहः । हरये कुध्द्यतीति ॥ रावणादिरिति शेषः । हरिविषयकं कोपं करोतीत्यर्थः । घातच्छासमनियतश्चित्तवृत्तिविशेषः कोपः । अकर्मकत्वात् षष्ठी प्राप्ता । द्रुह्यतीति ॥ कोपात् हरिविषयकमपकारं करोतीत्यर्थः । अकर्मकत्वात् षष्ठी प्राप्ता । अपकारो दुःखजनिका क्रिया । धात्वर्थोपसङ्ग्रहादकर्मकः । ईर्ष्यतीति ॥ ईष्र्या असहनम् । हरिं कोपान्न सहत इत्यर्थः । कर्मणि द्वितीया प्राप्ता । असूयति वेति ॥ असूया गुणेषु

दोषारोपः । यथाविहितकर्माचारे दम्भादिकृतकत्वारोपणम् । इह कोपात् हरिं दुर्गुणं मन्यत

विभक्तिप्रकरणम्]
४२९
बालमनोरमा ।

मैनामन्यो द्राक्षीदिति । क्रोधोऽमर्षः । द्रोहोऽपकारः । ईर्ष्या अक्षमा । असूया गुणेषु दोषाविष्करणम् । द्रोहादयोऽपि कोपप्रभवा एव गृह्यन्ते । अतो विशेषणं सामान्येन * यं प्रति कोपः' इति ।

५७६ । क्रुधद्रुहोरुपसृष्टयोः कर्म । (१-४-३८)

सोपसर्गयोरनयोर्योगे यं प्रति कोपस्तत्कारकं कर्मसंज्ञं स्यात् । क्रूर मभिक्रुध्यति-अभिद्रुह्यति ।

५७७ । राधीक्ष्योर्यस्य विप्रश्नः । (१-४-३९)

एतयोः कारकं सम्प्रदानं स्यात् । यदीयो विविधः प्रश्नः क्रियते । कृष्णाय राध्यति-ईक्षते वा । पृष्टो गर्ग: शुभाशुभं पर्यालोचयतीत्यर्थः ।

५७८ । प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता । (१-४-४० )

आभ्यां परस्य श्रृणोतेर्योगे पूर्वस्य प्रवर्तनारूपस्य व्यापारस्य कर्ता सम्प्र


इत्यर्थः । मैनामिति ॥ एनां भार्यामन्यो न पश्येत् इत्येतदर्थं भार्यागुणेषु दोषारोपणं करोतीत्यर्थः । नात्र भार्यां प्रति कोपः, किन्तु परेण दृश्यमानां तां न सहत इत्येव विवक्षित मिति । एवञ्च क्रोधद्रोहेर्ष्यासूयानां कोपमूलकत्व एवेदमिति भाष्ये स्थितम् । तथाच कुप्यति कस्मै विदित्याद्यसाध्वेव । कोपस्य कोपमूलकत्वाभावात् क्रुधार्थकत्वाभावाच्च । प्ररूढकोप एव हि क्रोधः, “नह्यकुपितः क्रुध्ध्यति' इति भाष्यात् । क्रुधद्रुहोः ॥ उपसृष्टयोरित्येतत् व्याचष्टे । सोपसर्गयोरिति ॥ पूर्वसूत्रापवादोऽयम् । हरेः क्रोधद्रोहोद्देश्यत्वाभावात् “क्रियया यमभि प्रैति' इति सम्प्रदानत्वस्य न प्रसक्तिः । नापि तादर्थ्यचतुर्थ्याः । क्रुधद्रुहोरकर्मकत्वात् न हरेः कर्मत्वम् । अतः शेषषष्ठयां प्राप्तायां वाचनिकं कर्मत्वम् । राधीक्ष्योः ॥ यदीय इति ॥ यद्विषयक इत्यर्थः । विप्रश्र इत्येतद्याचष्टे । विविधः प्रश्न इति ॥ कृष्णाय राद्धति ईक्षते वा, पृष्टो गर्ग इति ॥ गर्गो नाम ज्योतिश्शास्त्रवित् ऋषिविशेषः, सः कृष्णाय राध्यति ईक्षते वेत्यन्वयः । “राध संसिद्धौ, ईक्ष दर्शने' । इह तु प्रश्रविषयशुभाशुभपर्यालो चनमर्थः । यस्य विप्रश्न इति लिङ्गात् । तदाह । शुभाशुभं पर्यालोचयतीत्यर्थः इति॥ अत्र शुभाशुभस्य च प्रश्रविषयस्य धात्वर्थोपसङ्ग्रहादकर्मकावेतौ । अत एव राध्यतीति श्यन्नुपपद्यते । अन्यथा “राधोऽकर्मात्' इति नियमात् श्यन् न स्यात् । एवञ्च किं कृष्णस्य शुभमशुभं वेति पृष्टो गर्गः कृष्णविषयकं शुभाशुभं पर्यालोचयतीत्यर्थः । कृष्णस्य सम्प्रदानत्वं षष्ठयपवादः । प्रत्याङ्भ्याम् ॥ प्रत्याङ्भ्यामिति दिग्योगे पञ्चमी । परस्येत्यद्याहार्यम् । श्रुव इत्यस्य विशेषणम् । 'श्रु श्रवणे' । इह तु प्रेरणापूर्वकाभ्युपगमे वर्तते । पूर्वशब्दः प्रेरणा

त्मकव्यापारं परामृशति । तदाह । आाभ्यामित्यादिना ॥ पूर्वस्येत्यस्य व्याख्यानम् ।

४३०
[कारके चतुर्थी
सिद्धान्तकौमुदीसहिता

दानं स्यात् । विप्राय गां प्रतिश्रृणोति-आश्रृणोति वा । विप्रेण मह्य देहीति प्रवर्तितस्तत्प्रतिजानीते इत्यर्थः ।

५७९ । अनुप्रतिगृणश्च । (१-४-४१)

आभ्यां गृणातेः कारकं पूर्वव्यापारस्य कर्तृभूतमुक्तसंज्ञं स्यात् । होत्रे ऽनुगृणाति-प्रतिगृणाति वा । होता प्रथमं शंसति, तमध्वर्युः प्रोत्साहयतीत्यर्थः।

५८० । परिक्रयणे सम्प्रदानमन्यतरस्याम् । (१-४-४४)

नियतकालं भृत्या स्वीकरणं परिक्रयणम्, तस्मिन्साधकतमं कारकं सम्प्रदानसंज्ञं वा स्यात् । शतेन-शताय वा परिक्रीत । “ तादर्थ्ये चतुर्थी वाच्या' (वा १४५८) । मुक्तये हरिं भजति । 'क्लृपि सम्पद्यमाने च'


प्रवर्तनारूपस्येति ॥ प्रेरणारूपस्येत्यर्थः । प्रत्याङ्भ्यामित्यनेन समुदिताभ्यां परस्येति नार्थो विवक्षितः । किन्तु प्रत्येकमेव तयोर्निमित्तत्वम्, अन्यथा “ अभिनिविशश्च' इतिवत् *प्रत्याड़ श्रुवः' इत्येव बूयादित्यभिप्रेत्य उदाहरति । विप्राय गां प्रतिश्रृणोति आश्रृणोति वेति ॥ अत्र प्रतिपूर्वकः आङ्पूर्वकश्च श्रुधातुः प्रेरणापूर्वकाभ्युपगमे वर्तते, ततश्च प्रवर्तित प्रतिजानीते इति लभ्यते । केन प्रवर्तित इत्याकाङ्क्षायां विप्रः कर्तृत्वेनान्वेति । तत्र विप्रस्य प्रेरणाकर्तृत्वात् सम्प्रदानत्वं कर्तृतृतीयापवाद इत्यभिप्रेत्य आह । विप्रेणेति ॥ मह्य गवादि द्रव्यं देहीति विप्रेण पृष्टस्सन् देवदत्तः तुभ्यं ददामीत्यभ्युपगच्छतीति योजना । अनुप्रति गृणश्च ॥ पूर्वस्य कर्तेत्यनुवर्तते । 'गृ शब्दे' इत्यस्य श्रान्तस्य अनुकरणशब्दात् गृण इति षष्ठी । अत्र गृधातुः शंसितृकर्मके शंसनविषयकप्रोत्साहने वर्तते । तत्र पूर्वव्यापारस्य शंस नस्य कर्ता सम्प्रदानमित्यर्थः । तदाह । आभ्यामिति । पूर्वसूत्रे प्रत्याङ्भ्यामिति द्विवचन निर्देशबलात् प्रत्येकमेव धातुसम्बन्धावधारणात् तत्साहचर्यात् इहापि प्रत्येकमेव धातुसम्बन्ध इत्यभिप्रेत्य उदाहरति । होत्रे अनुगृणाति प्रतिगृणाति वेति । होता प्रथममिति । शंसितारं होतारं उत्तरोत्तरशंसनविषये प्रोत्साहयतीति यावत् । “ ओऽथ मोदै व ” इति प्रति गरमन्त्रः । ओ इति सम्बोधने, मोदै इति लोडुत्तमपुरुषैकवचनम् । व इत्येवकारार्थे, हे होतः अथ त्वदीयशंसनानन्तरं तुष्याम्येवेति तदर्थः । प्रोत्साहने होतुः कर्मत्वं प्राप्तम्, पूर्वव्यापारं शंसनं प्रति कर्तृत्वाद्धोतुस्सम्प्रदानत्वम् । परिक्रयणे । नियतकालमिति । तुभ्यमे तावद्वेतनं दीयते, तत् गृह्मन् एतावन्तं कालं त्वं मम कर्मकरो भव इत्येवं परिमितकालं भृत्या स्वीकरणं परिकयणमित्यर्थः । साधकतममित्यनुवर्तते । तदाह । तस्मिन् साधकतम मिति । सम्प्रदानत्वाभावे करणसंज्ञा । शतेनेति । सुवर्णादियत्किञ्चिद्रव्यशतेनेत्यर्थः । तादर्थ्ये चतुर्थी वाच्येति । “चतुर्थी सम्प्रदाने' इति सूत्रभाष्ये पठितमेतत् । तस्मै इदं तदर्थम् । अर्थेन नित्यसमासः । तदर्थस्य भावः तादर्थ्यम् । ब्राह्मणादित्वात् घ्यञ् ।

तेन च उपकार्योपकारकभावसम्बन्धो विवक्षितः । तत्र उपकार्यादेव चतुर्थी । भाष्ये यूपाय

विभक्तिप्रकरणम्]
४३१
बालमनोरमा ।


(वा १४५९) । भक्तिर्ज्ञानाय कल्पते-सम्पद्यते-जायते इत्यादि । “उत्पातेन ज्ञापिते च' (वा १४६०) । वाताय कपिला विद्युत् । 'हितयोगे च' (वा १४६१) । ब्राह्मणाय हितम् ।

५८१ । क्रियार्थोपपदस्य कर्मणि स्थानिनः । (२-३-१४)

क्रियार्था क्रिया उपपदं यस्य तस्य स्थानिनोऽप्रयुज्यमानस्य तुमुनः कर्मणि चतुर्थी स्यात् । फलेभ्यो याति । फलान्याहर्तु यातीत्यर्थः । नमस्कुर्मो नृसिंहाय । नृसिंहमनुकूलयितुमित्यर्थः । एवं ‘स्वयम्भुवे नमस्कृत्य' इत्यादावपि ।


दारु, कुण्डलाय हिरण्यम्, इत्युदाहृतत्वादित्यभिप्रेत्योदाहरति । मुक्तये इति ॥ मुक्तयर्थ मित्यर्थः । उपकार्यत्वञ्च बहुविधं जन्यत्वादि । यथा मुक्तये हरिं भजतीति मुक्तिर्जन्येति गम्यते, प्राप्यत्वं वा । ब्राह्मणाय दधीति ब्राह्मणस्योपकार्यत्वं गम्यते । इत्यादि । नचैवमपि अनेनैव सिद्धे 'चतुर्थी सम्प्रदाने' इति सूत्रे सम्प्रदानसंज्ञाविधानञ्च व्यर्थमिति वाच्यम् । हरये रोचते भक्तिः' इत्यादौ “रुच्यर्थानां प्रीयमाणः' इत्याद्यर्थे तदावश्यकत्वात्, इति भाष्ये स्पष्टम् । क्लृपि सम्पद्यमाने चेति । क्लृपीति सप्तमी, सम्पत्तिः विकारात्मना उत्पत्तिः परिणाम इति यावत् । क्लृपिधातौ प्रयुज्यमाने सति सम्पद्यमानेऽर्थे वर्तमानात् चतुर्थी वाच्येत्यर्थः । भक्तिरिति । ज्ञानात्मना परिणमते इत्यर्थः । क्लृपीत्यर्थग्रहणमित्यभिप्रत्यो दाहरति । सम्पद्यते, जायते इत्यादीति ॥ आदिना परिणमते इत्यादिसङ्गहः । परिणामत्वप्रकारकबोधार्थमिदं वचनम् । अन्यथा तादर्थ्यचतुर्थ्यैव सिद्धमित्याहुः । उत्पातेन ज्ञापिते चेति । अशुभसूचकः आकस्मिकः भूताविकारः उत्पातः, तेन सूचितेऽर्थे विद्यमानात् चतुर्थी वाच्येत्यर्थः। वातायेति महावातस्य सूचिकेत्यर्थः। हितयोगे चेति ॥ चतुर्थी वाच्येति शेषः । ब्राह्मणाय हितमिति । ब्राह्मणस्य सुखकृदित्यर्थः । याजना दिरिति शेषः । क्रियार्थ । क्रिया अर्थः प्रयोजनं यस्यास्सा क्रियार्था । क्रियेति विशेष्यमध्द्या हार्यम्, क्रियाफलकक्रियावाचकमिति यावत् । क्रियार्था क्रिया उपपदं यस्येति विग्रहः । तुमुनो विशेषणमेतत् । उपोच्चारितं पदम् उपपदम् । स्थानिन इत्यपि तद्विशेषणम् । स्थानं प्रसक्तिः रस्यास्तीति स्थानी, तस्येति विग्रहः । अप्रयुज्यमानस्येति यावत् । तादृशस्य तुमुन्नन्तस्य कर्मणि चतुर्थीति फलितम् । “तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति तुमुन्विधिमहिम्ना क्रियाफलकमुपपदं क्रियावाच्येव लभ्यते । तदाह । क्रियार्था क्रियेति । स्थानि इत्यस्य व्याख्यानम् । अप्रयुज्यमानस्येति ॥ फलेभ्यो यातीत्यत्र कस्य तुमुन्नन्तस्य प्रसक्तिरित्यत आह । फलान्याहर्तुमिति ॥ इह फलाहरणक्रियार्था यानक्रिया, तद्वाचके उपपदे आहर्तुमित्यध्धाहारलभ्यतुमुन्नन्तार्थाहरणक्रियां प्रति फलानां कर्मत्वात् सम्प्रदानत्वम् । द्वितीया पवादः । नच तादर्थ्यचतुर्थ्या गतार्थता शङ्कया । नहि यानक्रिया फलार्था, किन्तु फलकर्मका हरणक्रियार्थैव, अतो न फलेभ्यस्तादर्थ्यचतुर्थीप्रसक्तिः । एवञ्च फलकर्मकाहरणक्रियार्था यान

क्रियेति बोधः । उदाहरणान्तरमाह । नमस्कुर्म इति ॥ तुमुन्नन्तार्थाध्याहारन्दर्शयति ।

४३२
[कारके चतुर्थी
सिद्धान्तकौमुदीसहिता

५८२ । तुमर्थाच्च भाववचनात । (२-३-१५)

'भाववचनाश्च' (सू ३१८०) इति सूत्रेण यो विहितस्तदन्ताचतुर्थी स्यात् । यागाय याति । यष्टुं यातीत्यर्थः ।

५८३ । नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च । (२-३-१६)

एभिर्योगे चतुर्थी स्यात् । हरये नमः । ' उपपदविभक्तेः कारकविभक्ति


नृसिंहमनुकूलयितुमिति ॥ नचात्र 'नमःस्वस्ति' इत्येव चतुर्थी सिद्धेति वाच्यम् । उपपदविभक्त्तेः' कारकविभक्तिर्बलीयसी' इति द्वितीयापत्तेः। एतत्सूचनार्थमेवेदमुदाहरणा न्तरं दर्शितम् । तुमर्थाच्च ॥ 'तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति सूत्रम् । क्रियार्थायां क्रियायामुपपदभूतायां भविष्यति काले तुमुन्ण्वुलौ स्तः । भोक्तुं व्रजति, भोजको व्रजति भविष्यद्भुजिक्रियार्थो व्रजतिरत्रोपपदम्, अस्य तुमुनः अर्थ इवार्थो यस्य तस्मादिति विग्रहः । भावः, क्रिया उच्यते अनेनेति वचनः, भावस्य वचनः भाचवचनः, तस्मादिति विग्रहः। क्रियावाचिन इति यावत् । प्रत्ययादिति शेषः । तत्र 'अव्ययकृतो भावे' इति तुमुनो भाव एव विहितत्वेन तुमर्थकस्य प्रत्ययस्य भाववचनत्वे सिद्धे पुनर्भाववचनग्रहणं सूत्रविशेष परिग्रहणार्थमित्याह । भाववचनाश्चेति । भावे इत्यधिकृत्य ये घञादिप्रत्यया विहिताः ते क्रियार्थक्रियायामुपपदभूतायां भविष्यति स्युरिति तदर्थः । यागाय यातीत्याद्युदाहरणम् । एवञ्च क्रियार्थत्वलाभार्थे तुमर्थादिति विशेषणम् । अत्र तादर्थ्यस्य तुमुनेव, घञा द्योतितत्वात् उक्तार्थनामप्रयोगः' इति न्यायेन तादर्थ्यचतुर्थ्या अप्राप्तौ प्रथमायाः प्राप्ताविदं वचनम् । तुमर्थादिति किम् । पाकः त्यागः इत्यादौ “घञो भावे' इत्यधिकारस्थत्वेऽपि न चतुर्थी । क्रियार्थक्रियोपपदत्वाभावेन तुमर्थकत्वाभावात् । भाववचनादिति किम् । पाचको व्रजति । पक्तुं व्रजतीत्यर्थः । 'तुमुन्ण्वुलौ' इति ण्वुल् । तस्य तुमर्थकत्वेऽपि “भावे' इत्यधिकारे विध्द्य भावान्न चतुर्थी । तादर्थ्यस्य ण्वुलैवोक्तत्वान्न तादर्थ्यचतुर्थी, किन्तु प्रथमैव । नमःस्वस्ति । युज्यत इति योगः, कर्मणि घञ् । नमस् इत्यादिभिर्युक्तादित्यर्थः । फलितमाह । एभिर्योगे इति । न च तादर्थ्यचतुर्थ्या गतार्थत्वं शङ्कयम् । तादर्थ्यस्य शेषत्वविवक्षायां षष्ठीनिवारणार्थ त्वात् । तादर्थ्य हि उपकार्योपकारकभावः, तस्य यदा सम्बन्धत्वेन भानन्तदा षष्ठी । यथा गुरोरिदं गुर्वर्थम्’ इति भाष्ये स्पष्टम् । एवञ्च नमःस्वस्त्यादियोगे तादर्थ्यस्य शेषत्वविवक्षा यामपि चतुर्थ्येवेत्येतदर्थमिदं सूत्रम् । ननु नमस्करोति देवानित्यत्रापि चतुर्थी स्यादित्यत आह । उपपदविभक्तेरिति । पदान्तरयोगनिमित्तिका विभक्तिः उपपदविभक्तिः, तदपेक्षया कारक विभक्तिर्बलीयसीत्यर्थः । “ अन्तरान्तरेण' इति सूत्रे भाष्ये पठितमिदं वचनम्, तच्च न्यायसिद्धम् । क्रियाकारकयोर्हि सम्बन्धः अन्तरङ्गः । उपपदार्थेन तु यत्किश्चित्क्रियाकारकभावमूलकः सम्बन्ध इति तन्निमित्ता विभक्तिर्बहिरङ्गेति कैयटः । अन्ये तु उपपदविभक्तया सम्बन्धसामान्यमवगम्यते,

विशेषावगमस्तु प्रकरणादिपर्यालोचनया लभ्यः । कारकविभक्तया तु कर्मत्वादिसम्बन्धविशेषः

विभक्तिप्रकरणम्]
४३३
बालमनोरमा ।

र्बलीयसी' (प १०३) । नमस्करोति देवान् । प्रजाभ्यः स्वस्ति । अग्नये स्वाहा । पितृभ्यः स्वधा । अलमिति पर्याप्त्यर्थग्रहणम् । तेन दैत्येभ्यो हरिरलं प्रभुः-समर्थः-शक्त इत्यादि । प्रभ्वादियोगे षष्ठन्यपि साधुः । 'तस्मै प्रभवति --' (सू १७६५) ' स एषां ग्रामणी:' (सू १८७८) इति निर्देशात् । तेन * प्रभु र्बुभूषुर्भुवनत्रयस्य' इति सिद्धम् । वषडिन्द्राय । चकारः पुनर्विधानार्थः । तेनाशीर्विवक्षायां परामपि *चतुर्थी चाशिषि—' (सू ६३१) इति षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात्

५८४ । मन्यकर्मण्यनाद्रे विभाषाऽप्राणिषु । (२-३-१७)

प्राणिवर्जे मन्यतेः कर्मणि चतुर्थी वा स्यात्तिरस्कारे । न त्वां तृणं मन्ये तृणाय वा । श्यना निर्देशात्तानादिकयोगे न । न त्वां तृणं मन्वे ।


झटित्येवावगम्यत इति सा बलीयसीत्याहुः । नमस्करोति देवानिति ॥ करशिरस्संयोगादिना तोषयतीत्यर्थः । करशिरस्संयोगादिमात्रार्थत्वे अकर्मकत्वापातात् । प्रजाभ्यः स्वस्तीति ॥ प्रजासम्बन्धि कुशलमित्यर्थः । अग्नये स्वाहेति ॥ अग्नयुद्देश्यकं द्रव्यदानमित्यर्थः । पितृ भ्यः स्वधेति । पित्रुद्देश्यकं द्रव्यदानमित्यर्थः । “स्वं रूपं शब्दस्य’ इति अलंशब्दस्यैव ग्रहणे कुमारीणामलङ्कारः इत्यत्रातिव्याप्तिः । किञ्च दैत्येभ्यो हरिरलमित्यत्रैव स्यात्, दैत्येभ्यो हरिः प्रभुरित्यादौ न स्यादित्यत आह । अलमितीति ॥ वार्तिकमेतत् । अलमित्यनेन पर्या प्तयर्थकशब्दानां ग्रहणमित्यर्थः । तेनेति ॥ पर्याप्तयर्थग्रहणेनेत्यर्थः । इत्यादीति । आदिना कुमारीणामलङ्कार इत्यत्रातिव्याप्तिनिराससङ्गहः । ननु 'प्रभुर्बुभूषुर्भुवनत्रयस्य' इत्यादौ कथं षष्ठीत्यत आह । प्रभ्वादियोगे षष्ठयपि साधुरिति । कुत इत्यत आह । स एषां ग्रामणीरिति निर्देशादिति ॥ नन्वेवं सति दैत्येभ्यः प्रभुरिति चतुर्थी न स्यात् । अलं शब्दस्तु पर्याप्तीतरार्थक एव भविष्यतीत्यत आह । तस्मै प्रभवतीति ॥ वषडिन्द्रायेति ॥ इन्द्रोद्देश्यकं हविर्दानमित्यर्थः । ननु स्वस्ति गोभ्यो भूयात् इत्याशीर्वाक्ये चतुर्थेवेष्यते । तत्र ‘चतुर्थीचाशिष्यायुष्य ' इत्यादिना परत्वात् पक्षे षष्ठीप्रसङ्ग इत्यत आह । चकारः पुनर्विधा नार्थः इति ॥ तेनेति ॥ पुनर्विधानसामर्थ्येनेत्यर्थः । मन्यकर्मणि ॥ अप्राणिष्विति च्छेदः । मन ज्ञाने' दिवादिः श्यन्विकरणः, “मनु अवबोधने' तनादिरुविकरणः । तत्र मन्येति श्यना निर्देशातू दैवादिकस्य ग्रहणमित्याह । मन्यतेरिति ॥ कर्मणीति । अतो द्वितीयां बाधित्वा पक्षे चतुर्थीति सूचितम् । तिरस्कारे इति । अनादर इत्यस्य व्याख्यानमेतत् । “अनादरः परिभवः परीभावस्तिरस्क्रिया' इत्यमरः । न त्वां तृणमिति ॥ हे देवदत्त त्वां तृणत्वेनापि न मन्ये इत्यर्थः । नञुपादानादयमर्थो लभ्यते । तृणादप्यधमत्वप्रतीतेतिरस्कारातिशयः फलितः । तृणं त्वां मन्ये तृणाय वेत्युक्तौ तु तृणसाम्यमेव प्रतीयेत । न तु ततोऽप्यपकृष्टत्वम् ।

एतदेवाभिप्रेत्य भाष्येऽपि नञुपात्तः । न च मन्यकर्मत्वाविशेषात् त्वामिति युष्मच्छब्दादपि चतुर्थी

४३४
[कारके चतुर्थी
सिद्धान्तकौमुदीसहिता

'अप्राणिष्वित्यपनीय नौकाकान्नशुकसृगालवर्जेष्विति वाच्यम्’ (वा १४६४) । तेन ' न त्वां नावं मन्ये' इत्यत्राऽप्राणित्वेऽपि चतुर्थी न । ' न त्वां शुने मन्ये इत्यत्र प्राणित्वेऽपि भवत्येव ।

५८५ । गत्यर्थकर्मणि द्वितीयाचतुथ्य चेष्टायामनध्वनि । (२-३-१२)

अध्वभिन्ने गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्राम ग्रामाय वा गच्छति । ' चेष्टायाम्' किम्। मनसा हरिं व्रजति । ' अनध्वनि ' इति किम् । पन्थानं गच्छति । गन्त्राऽधिष्ठितेऽध्वन्येवायं निषेधः । यदा तूत्पथात्पन्था एवाक्रमितुमिष्यते तदा चतुर्थी भवत्येव । उत्पथेन पथे गच्छति ॥

इति चतुर्थी विभक्तिः ।

शङ्कया । अनादरद्योतके कर्मणि इत्यर्थस्य विवक्षितत्वात् । तृणमेव ह्यत्रानादरद्योतकम्, न तु युष्मदर्थः । श्यनेति । तानादिकमनुधातुकर्मणि द्वितीयैव, नतु पक्षे चतुर्थीति भावः । न त्वां तृणं मन्वे इति । मनुधातोरुविकरणस्य लडुत्तमपुरुषेकवचनम् । ननु ‘न त्वान्नाव मन्नं मन्ये' इत्यत्रापि चतुर्थीविकल्पः स्यादित्यतिव्याप्तिः । न त्वां शुने मन्ये इत्यादौ तु प्राणि त्वात् चतुर्थीविकल्पो न स्यादित्यव्याप्तिः । कर्मणः प्राणित्वादित्यत आह । अप्राणिष्वित्य पनीयेति ॥ न त्वान्नावमन्ये इति । जीर्णान्नावं प्रति वाक्यमेतत् । न त्वामन्नम्मन्ये इत्यप्युदाहार्यम् । कुत्सितमन्नं प्रति वाक्यमेतत् । उभयत्राप्यप्राणित्वेऽपि न चतुर्थीविकल्पः किन्तु द्वितीयैवेति भावः । न त्वां शुने मन्ये इति ॥ हे देवदत्त त्वां श्वत्वेनापि न मन्ये इत्यर्थः । न त्वां काकम्मन्ये, न त्वां शुकम्मन्ये, न त्वां सृगालम्मन्ये, इत्यप्युदाहार्यम् । एषु प्राणित्वेऽपि न चतुर्थीविकल्प इतेि भावः । गत्यर्थ ॥ शारीरपरिस्पन्दश्चेष्टा । मनसेति ॥ अत्र शारीरचेष्टायाः अभावान्न द्वितीयाचतुर्थ्यै, किन्तु द्वितीयैवेति भावः । “ आस्थितप्रतिषेधो ऽयं वक्तव्यः' इति वार्तिकमर्थतस्संगृह्णाति । गन्त्राऽऽधिष्ठिते इति ॥ गन्त्राक्रान्ते अध्व न्येव अनध्वनीत्ययन्निषेध इत्यर्थः । यथा पन्थानं गच्छतीति । पन्थानं प्राप्नोतीत्यर्थः । अत्र पथः प्राप्तयाश्रयत्वेन गन्त्राधिष्ठितत्वान्निषेधः । अस्य वार्तिकस्य प्रयेोजनमाह । यदा त्विति ॥ उत्पथादिति । अमार्गादित्यर्थः । ल्यब्लोपे पञ्चमी । उज्जयिनीं प्राप्तुं प्रस्थितः मोहात्तन्मा र्गात् प्रच्युतः मार्गान्तरं प्रविष्टः, तं परित्यज्य पुनरुज्जयिनीमार्गः आक्रमितुमिष्यते, तदा अनध्वनीति निषेधाभावाच्चतुर्थ्यपि भवत्येवेत्यर्थः । तादृशं लक्ष्यन्दर्शयति । उत्पथेन पथे गच्छतीति ॥ उत्पथनत्यनन्तरं गन्तुमशक्त इति शेषः । उत्पथेन उज्जयिनीं प्राप्तुमशक्त उत्पथं परित्यज्य उज्जयिनीमार्ग प्रवेष्टुं तदीयम्मार्गमनुसरतीत्यर्थः । अत्र उज्जयिनीमार्गस्य गन्त्राधिष्ठितत्वाभावात् अनध्वनीति निषेधो न भवति, अतश्चतुर्थी भवति, पक्षे द्वितीया चेति भावः ॥

इति चतुर्थी विभक्ति ।


विभक्तिप्रकरणम्]
४३५
बालमनोरमा ।

अथ पञ्चमी विभक्तिः

५८६ । ध्रुवमपायेऽपादानम् । (१-४-२४)

अपायो विश्लेषः, तस्मिन्साध्ये ध्रुवमवधिभूतं कारकमपादानं स्यात् ।

५८७ अपादाने पञ्चमी । (२-३-२८)

ग्रामादायाति । धावतोऽश्वात्पतति । ' कारकम्' किम् । वृक्षस्य पर्ण पतति । 'जुगुप्साविरामप्रमादार्थानामुपसङ्ख-यानम्’ (वा १०७९) । पापा ज्जुगुप्सते, विरमति । धर्मात्प्रमाद्यति ।

५८८ । भीत्रार्थानां भयहेतुः । (१-४-२५)

भयार्थानां त्राणार्थानां च प्रयोगे भयहेतुरपादानं स्यात् । चोराद्विभेति । चोरात्तायते । “ भयहेतुः' किम् । अरण्ये बिभेति, त्रायते वा ।

५८९ । पराजेरसोढः । (१-४-२६)

{{Rule}] अथ पञ्चमी विभक्तिः-ध्रुवमपाये ॥ अपायपदं व्याचष्टे । अपायो विश्लेष इति ॥ वियोग इत्यर्थः । ध्रुवपदं व्याचष्टे । अवधिभूतमिति । द्वयोस्संयुक्तयोरन्यतरस्य चलनाद्विश्लेष इति स्थितिः । तत्र तादृशचवलनानाश्रयभूतं ध्रुवम् । तच्चेहार्थादवधिभूतं विवक्षित मिति भावः । अपादाने पञ्चमी ॥ स्पष्टत्वान्न व्याख्यातम् । ग्रामादायातीति ॥ आ गच्छतीत्यर्थः । कस्मादित्याकाङ्क्षाविषयत्वात् ग्रामोऽवधिरिति अपादानत्वात् पञ्चमी । माधुराः पाटलीपुत्रेभ्यः आढ्यतराः' इत्यादौ बुद्धिकल्पितविश्लेषावधित्वमादाय अपादानत्वमिति भाष्ये स्पष्टम् । ननु विश्लेषानुकूलचलनानाश्रयभूतं यत् तदेव ध्रुवमिति व्याख्यायताम् । किमवधित्व विवक्षयेत्यत आह । धावतोऽश्वात् पततीति ॥ अश्वस्य चलनाश्रयत्वेऽपि पतनक्रियां प्रति कस्मादित्याकाङ्क्षाविषयत्वलक्षणमवधित्वं न विरुद्धमिति भावः । जुगुप्सेति ॥ जुगुत्सा द्यर्थकधातुभिर्योगे जुगुप्सादिविषयस्यापादानत्वमित्यर्थः । पापाज्जुगुप्सते इति ॥ पापविषये कुत्सितत्वबुध्द्या न रमते इत्यर्थः । विरमतीति ॥ पापादित्यनुषज्यते । पापविषये न प्रवर्तत इत्यर्थः । धर्मात् प्रमाद्यतीति ॥ धर्मविषये मुह्यतीत्यर्थः । वास्तवसंयोगविश्लेषयोरभावात् वचनमिदम् । यदा तु जुगुप्सते इत्यादेर्निवर्तत इत्यर्थः आश्रीयते, तदा बुद्धिकृतविश्लेषाव धित्वमादाय अपादानत्वादेव सिद्धमिति वार्तिकमिदं भाष्ये प्रत्याख्यातम् । भीत्रा ॥ चोरा द्विभेतीति ॥ चोरेण हेतुनेत्यर्थः । हेतुतृतीया प्राप्ता । चोरात्त्रायते इति ॥ चेोरेण हेतुना आत्मानं तत्कृतवधबन्धनादिनिवृत्त्यै रक्षतीत्यर्थः । यदा तु चोरात् बिभेति भीत्या निवर्तते चोरात्त्रायते आत्मानं त्रातुं निवर्तयतीत्यर्थः आश्रीयते, तदा बुद्धिकल्पितविश्लेषावधित्वमादाया

पादानत्वं सिद्धमिति इदं सूत्रं भाष्ये प्रत्याख्यातम् । पराजेरसोढः ॥ सहधातोः क्तप्रत्यये

४३६
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

पराजेः प्रयोगेऽसह्योऽर्थोऽपादानं स्यात् । अध्ययनात्पराजयते । ग्लायतीत्यर्थः । 'असोढः' किम् । शत्रून्पराजयते । अभिभवतीत्यर्थः ।

५९० । वारणार्थानामीप्सितः । (१-४-२७)

प्रवृत्तिविघातो वारणम्, वारणार्थानां धातूनां प्रयोगे ईप्सितोऽर्थो ऽपादानं स्यात् । यवेभ्यो गां वारयति । * इंप्सित ' किम् । यवेभ्यो गां वारयति क्षेत्रे ।


सहिवहोरोदवर्णस्य’ इत्योत्त्वे यत्वढत्वष्टुत्वढलोपेषु कृतेषु सोढ इति रूपम् । तत्र क्तार्थो भूतकालो न विवक्षितः । तदाह । असह्योऽर्थ इति ॥ सोढुमशक्य इत्यर्थः । हेतुतृतीया पवादोऽयम् । ग्लायतीत्यर्थ इति । असहनादिति शेषः । यदा तु असहनान्निवर्तत इत्यर्थ आश्रीयते, तदा ध्रुवमित्यपादानत्वादेव सिद्धमिति भाष्यम् । अभिभवतीति ॥ तिरस्करोतीत्यर्थः । अत्र शत्रूणामभिभवनीयतया असह्यत्वाभावान्नापादानता । वारणार्था नामीप्सितः ॥ प्रवृत्तिविमुखीकरणं वारणम् । यवेभ्य इति ॥ यवेषु प्रवर्तितुकामां गां प्रवृत्तिविमुखीकरोतीत्यर्थः । संयोगपूर्वकविश्लेषाभावात् “ध्रुवमपाये' इत्यप्राप्ताविदं वचनम् । तत्र यवानां स्वकीयतया संरक्षणीयत्वेन ईप्सितत्वादपादानत्वं, नतु गोः, तस्याः परकीयत्वे नानीप्सितत्वात् वारणीयतया ईप्सितत्वव्याघाताच्च । तथाच “तथायुक्तञ्च' इति गोः कर्मत्वात् द्वितीया । यदा तु यवाः परकीयाः गौस्तु स्वकीया तदा वारणमसम्भावितमेव । वस्तुतस्तु यवानां परकीयत्वेऽपि तद्विनाशादधर्मस्स्यात् । यवस्वामी गामपहृत्य बध्नीयात् । गोस्वामि नञ्च यवस्वामी दण्डयेत् । अतो यवानां रक्षितुमिष्टत्वात् ईप्सितत्वादपादानत्वमस्त्येव । गोस्तु स्वकीयत्वेऽपि बाधकनिवृत्त्यै वारयितुमिष्टतमत्वात् कर्मत्वम् । नच गोरीप्सिततमत्वेऽपि ईप्सितत्वस्यापि सत्त्वादपादानत्वं किन्न स्यादिति वाच्यम् । ईप्सिततमत्वे 'वारणार्थानाम् ' इत्यपादानत्वम् बाधित्वा * कर्तुरीप्सिततमम्’ इति कर्मत्वस्यैव परत्वात् प्राप्तेः । नच 'वारणा र्थानामीप्सितः' इत्यपादानत्वस्य 'कर्तुरीप्सिततमम्’ इति कर्मत्वापवादत्वं शङ्कयम् । ‘कर्तु रीप्सिततमम्’ इति कर्मत्वं हि ईप्सिततममात्रविषयम् । वारणार्थानामित्यपादानत्वन्तु ईप्सित विषयम्, तस्य प्रकृते ईप्सितेषु यवेषु परकीयेषु सावकाशत्वात् न “कर्तुरीप्सिततमम्’ इति कर्मत्वापवादत्वम् । अतः परत्वात् गोः स्वकीयायाः परकीययवापेक्षया ईप्सिततमत्वात् कर्म त्वमेव । नच अग्नेर्माणवकं वारयतीत्यत्र अग्नेरीप्सितत्वाभावात् कथमपादानत्वमिति वाच्यम् । इष्टत्वभ्रमादग्नौ विषये स्पर्शनफलकप्रवृत्त्यभिमुखं माणवकं प्रवृत्तिविमुखीकरोतीति हि तदर्थः । तत्राग्निस्पर्शे माणवकस्य दाहप्रसङ्गात् तद्विषयप्रवृत्तिविमुखीकरणात्मकवारणक्रियया आप्तुमिष्ट तमत्वेन वारयितुमीप्सिततमत्वात् माणवकस्य कर्मत्वम्। अग्नेतु वारणक्रियेप्सिततममाणवकीय स्पर्शक्रियया आप्तुमिष्टतमत्वेऽपि वारयितुरीप्सितत्वात् अपादानत्वम्। एतेन कर्तुर्व्यापारजन्य

फलाश्रयः कर्मेत्येवास्तु, ‘कर्तुरीप्सिततमं कर्म, तथायुक्तञ्चानीप्सितम्’ इति किमीप्सिततमानीप्सि

विभक्तिप्रकरणम्]
४३७
बालमनोरमा ।


५९१ । अन्तधौं येनादर्शनमिच्छति (१-४-२८)

व्यवधाने सति यत्कर्तृकस्यात्मनो दर्शनस्याभावमिच्छति तदपादानं स्यात् । मातुर्निलीयते कृष्ण अन्तधौं ' किम्, चौरान्न दिदृक्षते । “ इच्छति' ग्रहणं किम् । अदर्शनेच्छायां सत्यां सत्यपि दर्शने यथा स्यात् । देवदत्ताद्य ज्ञदत्तो निलीयते ।

५९२ ।। आख्यातोपयोगे । (१-४-२९)

नियमपूर्वकविद्यास्वीकारे वक्ता प्राक्संज्ञः स्यात् । उपाध्यायादधीते उपयोगे' किम् । नटस्य गाथां श्रृणोति ।


तयोः पृथग्ग्रहणेन । एतावतैव हरिं भजति, ग्रामं गच्छन् तृणं स्पृशति, विषं भुङ्गे, इत्यादिसर्वलक्ष्य सङ्गहादिति निरस्तम्। कर्तृव्यापारजन्यफलाश्रयः कर्म इत्युक्तौ हि ‘वारणार्थानाम्’ इति सूत्रमस्याप वादः स्यात्, विशेषविहितत्वात् । तथाच माणवकस्य कर्मत्वन्न स्यात् । नचाग्नौ ‘वारणार्थानाम् इति सावकाशमिति वाच्यम् । वारयतेर्हत्र स्पर्शफलकप्रवृत्तिविघटनमर्थः । तच्चान्यतो नयनादि रूप: तादृशव्यापारप्रयोज्यफलं माणवककर्तृकस्पर्शफलकप्रवृत्तिविरहः। तत्र स्पर्शोशोडग्निनिष्ठः माणवकनिष्ठश्च संयोगरूपस्य स्पर्शस्य द्विनिष्ठत्वात् । प्रवृत्तिविरहश्च विषयतया अन्निनिष्ठः समवायेन माणवकनिष्ठश्च तथाच कर्तृव्यापारप्रयोज्यफलाश्रयत्वलक्षणकर्मत्वस्य परत्वादुभय त्रापि प्राप्तौ * वारणार्थानाम्' इत्यपादानत्वं निरवकाशत्वादपवादस्यादिति माणवकादपि पञ्चमी स्यात्, तद्वाधनार्थ 'कर्तुरीप्सिततमं कर्म' इत्यारब्धव्यम् । एवञ्च ईप्सितमात्रे अग्नौ सावकाशस्यापादानत्वस्य परत्वादीप्सिततमे माणवके बाधस्सिध्द्यति । कर्तुरीप्सिततममित्यारब्धे च द्वेष्योदासीनसङ्गहार्थ 'तथायुक्तम्' इत्यप्यारब्धव्यमित्यास्तान्तावत् । भाष्ये तु बुद्धिकल्पित संयोगविश्लेषकृतमपादानत्वमाश्रित्य प्रत्याख्यातमिदं सूत्रम् । अन्तर्धौ ॥ अन्तर्धावित्येतत् व्याचष्टे । व्यवधानेन सतीति।। व्यवधानेनेति यावत् । यत्कर्तृकस्येति ॥ येनेति कर्तृतृतीयेति भावः । आत्मनो दर्शनस्येति आत्मन इति दर्शनशब्दयोगे कर्मणि षष्ठी आत्मन इत्यध्द्याहारलभ्यम् । अत एव येनेति कर्तरि तृतीया सङ्गच्छते । अन्यथा कृद्योग षष्ठीप्रसङ्गात् । आत्मन इत्यध्द्याहारे तु उभयप्राप्तौ कर्मण्येवेति नियमान्न कृद्योगषष्ठी । आत्म शब्देन इच्छतिकर्ता विवक्षितः । व्यवधानेन स्वविषये यत्कर्तृकदर्शनस्य अभावमिच्छतीति यावत् । मातुर्निलीयते कृष्ण इति ॥ 'लीङ् श्लेषणे' श्यन्विकरणः । इह तूपसर्गवशात् व्यवधानेन परकर्तृकस्वविषयकदर्शनविरहानुकूलव्यापारे वर्तते । ततश्च कृष्णः मातृकर्तृक स्वविषयकदर्शनविरहाय कुड्यादिना प्रच्छन्नो भवतीत्यर्थः। अत्र व्यवधानमाश्रित्य मातृकर्तृक स्वविषयकदर्शनविरहस्य कृष्णेनेष्यमाणतया मातुरपादानत्वात् पञ्चमी । कर्तृतृतीयापवादोऽयं षठ्यपवादो वा । भाष्ये तु बुद्धिकृतमपादानत्वमाश्रित्य इदमपि प्रत्याख्यातम् । आाख्यातो

पयोगे ॥ आख्याता उपयोगे इति छेदः आख्यातेति तृजन्तात् प्रथमैकवचनम् । उपयोग

४३८
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

५९३ । जनिकर्तुः प्रकृतिः । (१-४-३०)

जायमानस्य हेतुरपादानं स्यात् । ब्रह्मणः प्रजाः प्रजायन्ते ।

५९४ । भुवः प्रभवः । (१-४-३१)

भवनं भूः । भूकर्तुः प्रभवस्तथा । हिमवतो गङ्गा प्रभवति । तत्र प्रकाशते इत्यर्थः । 'ल्यब्लोपे कर्मण्यधिकरणे च' (वा १४७४-१४७५) । प्रासादात्प्रेक्षते, आसनात्प्रेक्षते । प्रासादमारुह्य, आसने उपविश्य, प्रेक्षते


पदं व्याचष्टे । नियमपूर्वकेति ॥ भाष्ये तथोक्त्तेरिति भावः । आख्यातेति तृजन्तं व्याचष्टे । वक्त्तेति ॥ अध्द्यापयितेत्यर्थः । उपाध्यायादधीते इति । नियमविशेषपूर्वकं उपाध्याय स्योच्चारणम् अनूचारयतीत्यर्थः । षष्ठयपवादोऽयम् । भाष्ये तु उपाछायान्निर्गतं वेदं गृह्णाती त्यर्थमाश्रित्य प्रत्याख्यातम् । जनिकर्तुः प्रकृतिः ॥ जनिर्जननमुत्पातिः । “जनी प्रादुर्भावे' दैवादिकोऽकर्मकः । 'इणजादिभ्यः' इति भावे इण् । 'जनीवध्योश्च' इति निषेधान्नोपधावृद्धिः । जनेः कर्तति विग्रहः । शेषषष्ठ्या समासः । “तृजकाभ्यां कर्तरि' इति निषेधस्तु कारकषष्ठया एवेति वक्ष्यते । जायमानस्येति ॥ जनधातोः कर्तरि लटश्शानच्, श्यन्, “ज्ञाजनोर्जा आने मुक्' उत्पत्त्याश्रयस्येत्यर्थः । प्रकृतिशब्दं व्याचष्टे । हेतुरिति ॥ ब्रह्मणः इति ॥ हिरण्यगर्भादित्यर्थः । घटादिषु कुलालादिवत् तस्य प्रजोत्पत्तौ निमित्तकारणत्वमिति भावः । वृत्तिकृन्मतमेतदयुक्तम् । संयोगविश्लेषसत्त्वेन 'ध्रुवमपाये' इत्येव सिद्धत्वात् । अतोऽत्र मूले हेतुशब्दः उपादानकारणपर एव । अत एव भाष्यकैयटयोः “गोमयादृश्चिका जायन्ते गोलोमाविलोमभ्यो दूर्वा जायन्ते” इत्युदाहृत्य परिणामेषु प्रकृतिद्रव्यावयवानुस्यूतिसत्त्वेऽपि बुद्धिकृतविश्लेेषसत्त्वात् ‘ध्रुवमपाये' इत्येव सिद्धमिति प्रत्याख्यानं सङ्गच्छते । एवञ्च 'ब्रह्मणः प्रजा प्रजायन्ते’ इत्यत्र ब्रह्मशब्देन मायोपहितमीश्वरचैतन्यमेव विवक्षितम् । तद्धि सर्वकार्यो पादानमिति वेदान्तसिद्धान्तः । भुवः प्रभवः ॥ पूर्वसूत्रे समासनिर्दिष्टमपि कर्तृग्रहणमेक देशे स्वरितत्वप्रतिज्ञाबलादिहानुवर्तते । तदाह । भूकर्तुरिति ॥ भवनं भूः सम्पदादि त्वात् क्लिप् । भुवः कर्ता भूकर्ता तस्येत्यर्थः । प्रभवः इति ॥ प्रभवति प्रथमं प्रकाशते ऽस्मिन्निति प्रभवः । प्रथमप्रकाशस्थानामित्यर्थः । प्रभवतीत्यस्य उत्पद्यते इत्यर्थे तु अस्सङ्गतिः । गङ्गायास्तत्रानुत्पत्तेः । तदाह । प्रकाशते इत्यर्थः इति । प्रथमं प्रकाशते इति यावत् । अत एव हिमवति प्रकाशते इत्यत्रं न भवति । एतेन जनिकर्तुरित्यनेन ‘ध्रुवमपाये' इत्यनेन च गतार्थत्वं निरस्तम् । भाष्ये तु अपक्रामतीत्यर्थमाश्रित्य ‘ध्रुवमपाये' इत्यनेनैव सिद्धमिति स्थितम् । अथोपपदविभक्तयः । ल्यब्लोपे इति ॥ ल्यबन्तस्य लोपे अदर्शने अप्रयोगे सति गम्यमानतदर्थे प्रति कर्मणि अधिकरणे च पञ्चमी वाच्येत्यर्थः । जिह्रेतीति ॥ लज्जते

इत्यर्थः । नन्वत्र ल्यबन्तस्य प्रयेोगाभावात् कथं तदर्थ प्रति कर्माद्यवगतिरित्यत आह ।

विभक्तिप्रकरणम्]
४३९
बालमनोरमा ।

इत्यर्थः । श्वशुराज्जिह्रेति । श्वशुरं वीक्ष्येत्यर्थः । 'गम्यमानापि क्रिया कारकविभक्तीनां निमित्तम्' (वा ५०४१) । कस्मात्त्वम्, नद्याः ।यत्तश्चाध्व कालनिमानं तत्र पञ्चमी' (वा १४७७) । 'तद्युक्तादध्वनः प्रथमासप्त्यौ (वा १४७९) कालात्सप्तमा च वक्तव्या' (वा १४७८) । वनाद्वामो योजनं-योजने वा । कार्तिक्याः आग्रहायणी मासे ।

५९५ ॥ अन्यारादितरतेंदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते

एतैर्योगे पञ्चमी स्यात् । 'अन्य-इत्यर्थग्रहणम् । इतर ग्रहणं प्रपञ्चार्थम् । अन्यो भिन्न इतरो वा कृष्णात् । आराद्वनात् । ऋते कृष्णात् ।


गम्यमानापीति ।। प्रकरणादिनेत्यर्थः । गम्यमानापीत्यस्य प्रयोजनान्तरमाह । कस्मा त्त्वमिति ।। आगतोडसीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः । नद्या इत्युत्तरम् । आगतोऽस्मीति गम्यमानक्रियापेक्षमपादानत्वमिति भावः। यतश्चेति यत इति तृतीयार्थे तसिः । येनावधिना अध्वनः कालस्य वा निमानं परिच्छेदः इयत्ता गम्यते, ततः पञ्चमी वाच्येत्येकं वाक्यम् । तत्र पञ्चमीति पाठेऽप्ययमेवार्थः। तद्युक्तादिति ।। तेन पञ्चम्यन्तेन युक्तादन्वितात् अध्ववाचिनः प्रथमासप्तम्यौ वाच्ये इति द्वितीयं वाक्यम् ।कालात्सप्तमी च वक्तव्या' इति वाक्यान्तरम्।तद्युक्तादित्यनुषज्यते । तेन पञ्चम्यन्तेन अन्वितात् कालवाचि नस्सप्तमी वक्तव्येत्यर्थः । वनादिति।। अत्र योजनात्मकमध्वपरिमाणं वनेन पूर्वावधिना परिच्छिद्यते । कस्मादारभ्य योजनमित्याकाङ्क्षोत्थानात् । योजने योजनमिति प्रथमासप्तम्योरपि स्वोत्तराव्यवहितदेशवृत्तित्वमर्थः।वनात्मकपूर्वावधिकयोजनोत्तरदेशे ग्राम इत्यर्थः। अवधि त्वसत्त्वेऽपि विश्लेषाप्रतीतेर्ध्रुवमित्यपादानत्वाभावाद्वचनम् । कार्तिक्याः इति ॥ कार्तिक्याः मासे आग्रहायणीत्यन्वयः। अत्र मासात्मकं कालपरिमाणं कार्तिक्या पूर्वावधिना परि च्छिद्यते । कस्मादारभ्य मास इत्याकाङ्क्षोत्थानात् । मास इति सप्तम्यातु स्वोत्तराव्यवहित कालवृत्तित्वमर्थः। कार्तिकपौर्णमास्यात्मकपूर्वावधिकमासोत्तरकाले मार्गशीर्षपौर्णमासीत्यर्थः। अन्यारात् ॥ युक्त इति भावे क्त इत्याह । एभिर्योगे इति ॥ अन्य, आरात्, इतर, ऋते, दिक्शब्द, अञ्चूत्तरपद, आच्, आहि, एतैरष्टभिर्योगे सतीत्यर्थः। भिन्नादिशब्दयोगे पञ्चमीं साधयितुमाह । अन्य इत्यर्थग्रहणमिति ॥ व्याख्यानादिति भावः। अन्यार्थकाब्दयोगे पञ्चमीति फलितम् । तर्हीतरग्रहणं व्यर्थमन्यार्थकत्वादेव सिद्धेरित्यत आह । इतरग्रहणं प्रपञ्चार्थमिति ॥ “पचि विस्तार' अन्यशब्दस्य अन्यार्थकशब्दग्रहणोपलक्षणार्थत्वकथनस्य प्रयोजनकथनार्थमिति यावत् । अन्यो भिन्न इतरो वेति ॥ भेदवान् विलक्षण इत्याद्युप लक्षणमिदम् । कृष्णप्रतियोगिकभेदवानित्यर्थः। षष्ठयपवादोऽयम् । अन्यादिशब्दानामवधिनि यमसत्त्वेऽपि संयोगविश्लेषाभावादपादानत्वस्य न प्रसक्तिः । एवमग्रेऽपि आराद्वनादिति ॥


१. भाष्ये तु 'प्रश्राख्यानयोश्च' (वा १४७८) इति वार्तिकमेतदर्थे वर्तते

४४०
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

पूर्वो ग्रामात् । दिशि दृष्टः शब्दो दिक्शब्दः । तेन सम्प्रति देशकालवृत्तिना योगे ऽपि भवति । चैत्रात्पूर्वः फाल्गुनः । अवयववावियोगे तु न । ' परमाम्रेडि

तम्’ (सू ८३) इति निर्देशात् । पूर्व कायस्य । अञ्चूत्तरपदस्य तु दिक्शब्द

त्वेऽपि *षष्ठयतसर्थ–’ (सू ६०९) इति षष्ठीं बाधितुं पृथग्ग्रहणम् । प्राक्-प्रत्यग्वा ग्रामात् ।आच् , दक्षिणा ग्रामात् । आहि, दक्षिणाहि

ग्रामात् । “ अपादाने पञ्चमी' (सू ५८७) इति सूत्रे * कार्तिक्याः प्रभृति

इति भाष्यप्रयोगात्प्रभृत्यर्थयोगे पञ्चमी । भवात्प्रभृति-आरभ्य वा सेव्यो


वनस्य दूरं समीपं वेत्यर्थः । “ आरादूरसमीपयोः' इत्यमरः । ऋते कृष्णादिति ॥ ऋते इत्यकारान्तमव्ययम् । “ऋते वर्जने' इत्यमरः । कृष्णस्य वर्जने सुखन्नास्तीत्यर्थः । “क्व कर्म प्रध्वंसः फलति पुरुषाराधनमृते ' इति शिवरहस्यान्तर्गतस्तुतिगतः प्रयोगस्त्वार्षः। “ततोऽन्यत्रापि दृश्यते’ इति वा द्वितीया । 'ऋते द्वितीया च' इति चान्द्रं सूत्रम् । अथ दिक्छब्दयोगे उदा हरति । पूर्वो ग्रामादिति ॥ ग्रामावधिकपूर्वदिग्वर्ती ग्राम इत्यर्थः । ननु चैत्रात् पूर्वः फाल्गुन इत्यत्र पूर्वशब्दस्य कालवाचकतया दिग्वाचकत्वाभावात् कथन्तद्योगे पञ्चमीत्यत आह । दिशि दृष्ट इति ॥ रूढ्या दिग्विशेषवाचकाः पूर्वादय एव गृह्यन्ते । नत्वैन्द्रीककुबादयः । सम्प्रतीति ॥ कदाचिद्दिग्वाचकानामिदानीं कालवाचकानामपि योगे पञ्चमी भवतीत्यर्थः । नन्वेवं सति पूर्वं कायस्येत्यत्रापि स्यादित्यत आह। अवयववाचीति ॥ तस्य परमिति ॥ तस्येति हि प्रकृतं द्विरुक्तं परामृशति । द्विरुक्तस्य परावयवं परभूतमाम्रेडितामिति तदर्थः । पूर्वे कायस्येति ॥ शरीरस्य पूर्वावयव इत्यर्थः । अञ्चुधातुः उत्तरपदं यस्य सः अञ्चूत्तरपदः प्रागादिदिक्छब्दः । नतु सध्रयङ् इत्यादिशब्दोऽपि । दिक्शब्दसाहचर्यात् । तेन सध्रयङ् देव दत्तेनेत्यत्र न पञ्चमी । ननु दिक्शब्दत्वादेव सिद्धे अञ्चूत्तरपदग्रहणं व्यर्थमित्यत आह । अ ञ्चूत्तरपदस्येति ॥ षष्ठयतसर्थेत्यनन्तरं परत्वात् प्राप्तमिति शेषः । प्राक् प्रत्यग्वा ग्रामा दितेि ॥ ग्रामावधिक इत्यर्थः। आजिति ॥ आच्प्रत्ययान्तयोगे उदाहरणं वक्ष्यत इति सूचनमिदम्। दक्षिणा ग्रामादिति ॥ ग्रामावधिकायां दक्षिणस्यां दिशीत्यर्थः । आहीति ॥ आहिप्रत्य यान्तयोगे उदाहरणसूचनमिदम् । दक्षिणाहि ग्रामादिति ॥ ग्रामावधिकायां दक्षिणस्यां दिशि दूर इत्यर्थः । “आहि च दूरे' इत्याहिप्रत्ययः । आजाहिप्रत्ययान्तयोर्दिक्शब्दत्वेऽपि षष्ठयतस्थै’ इति षष्ठीं बाधितुं पृथक् ग्रहणम् । नन्वेवमपि 'भवात्प्रभृत्यारभ्य वा सेव्यो हरिः इत्यादौ कथं पञ्चमी । अन्यादिशब्दयोगाभावादित्यत आह । अपादाने इति ॥ प्रभृति योगे इति ॥ प्रभृत्यर्थकशब्दयोगे इत्यर्थः । तथा हि । 'अपादाने पञ्चमी' इति सूत्रे भाष्ये यतश्चाध्वकालनिमानम्’ इति वार्तिकं पठित्वा कार्तिक्याः आग्रहायणी मासे इत्युदाहृत्य “इदं न वक्तव्यम्' इति तद्वार्तिकप्रत्याख्यानमुपक्षिप्य “इदमत्र प्रयोक्तव्यं सन्न प्रयुज्यते, कार्तिक्याः प्रभृत्याग्रहायणी मासे” इत्युक्तम् । प्रभृतिशब्दाभावेऽपि तदर्थसत्तया पञ्चमी सिद्धेत्यर्थः । एवं

वदता भाष्यकृता प्रभृत्यर्थकशब्दयोगे पञ्चमीति वचनं ज्ञाप्यते । अन्यथा प्रभृतिपदाभावे पञ्च

विभक्तिप्रकरणम्]
४४१
बालमनोरमा ।

हरिः । ' अपपरिबहिः–’ (सू ६६६) इति समासविधानात् ज्ञापकाद्वहिर्योगे पञ्चमी । ग्रामाद्वहिः ।

५९६ । अपपरी वर्जने । (१-४-८८)

एतौ वर्जने कर्मप्रवचनीयौ स्तः ।

५९७ । आङमर्यादावचने । (१-४-८९)

आङ् मर्यादायामुक्तसंज्ञः स्यात् । वचनग्रहणादभिविधावपि ।

५९८ । पञ्चम्यपाङ्परिभिः । (२-३-१०)

एतैः कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । अप हरेः, परिहरेः , संसारः । परिरत्र वर्जने । लक्षणादौ तु हरिं परेि । आमुक्त्तेः संसारः । आसकलाद्व्ह्म ।


म्यर्थे वार्तिकस्यावश्यकत्वात्तदसङ्गतिः स्पष्टेव । एवञ्च प्रभृतिशब्दपर्यायशब्दयोगेऽपि पञ्चमी भवति । अत एव च “कार्तिक्याः प्रभृति' इति भाष्यव्याख्यावसरे तत आरभ्येत्यर्थः इति कैयट आह । तत्र हि । तत इति पञ्चम्यास्तसिः । एतत् सर्वमभिप्रेत्योदाहरति । भवात् प्रभृति, आरभ्य वेति ॥ भवः उत्पातिः, आरभ्येत्यस्यावधिं परिगृह्येत्यर्थः । प्रभृतीत्यव्यय मप्येतदर्थकमेव । भवमवधिं परिगृह्य हरिस्सेव्य इत्यर्थः । उत्पत्तिक्षणात्मकपूर्वावधिकोत्तरकाले सर्वदा आमरणं हरिस्सेव्य इति यावत् । अत्रारभ्येति क्रियापेक्षया कर्मत्वविवक्षायां द्वितीयैव । उपपदविभक्तः कारकविभक्तिर्बलीयसी' इत्युक्तेः। । यथा 'सूर्योदयमारभ्य आस्तमयात् जपति इत्यादौ । शेषत्वविवक्षायान्तु षष्ठीं बाधित्वा भवशब्दात् पञ्चमी । प्रभृतिशब्दयोगे तु आरभ्ये त्यर्थे कदापि न द्वितीया । प्रभृतिशब्दार्थस्यावधिं परिगृह्यत्यस्यावध्यादिघटितत्वेन क्रियात्वा भावात् । अपपरीति ॥ बहिश्शब्दयोगे पञ्चमीं सिद्धवत्कृत्य 'अपपरिबहिरञ्चवः पञ्चम्या इति समासविधानात् बहिश्शब्दयोगे पञ्चमी विज्ञायते इत्यर्थः । इदश्च “अपपरि' इति सूत्रे भाष्ये स्पष्टम् । “करस्य करभो बहिः' इति त्वसाध्वेव । 'ज्ञापकसिद्धन्न सर्वेत्र' इति वा कथ चित्समाधेयम् । अपपरी वर्जने ॥ कर्मप्रवचनीयौ स्त इति ॥ कर्मप्रवचनीयाः इत्यधि कृतस्य द्विवचनेन विपरिणाम इति भावः । वर्जने किम् । परिषिञ्चति । सर्वतस्सिञ्चतीत्यर्थः । अत्रोपसर्गत्वात् “उपसर्गात्सुनोति ? इति षत्वम् । आङमर्यादाववचने । उक्तसंज्ञः इति ॥ कर्मप्रवचनीयसंज्ञक इत्यर्थः । ननु “ आडमर्यादायाम्' इत्येव सिद्धे वचनग्रहणं व्यर्थ मित्यत आह । वचनग्रहणादिति ॥ तेन विनेति मर्यादा, तेन सहेत्यभिविधिः । मर्यादाशब्दो यत्रोच्यते तन्मर्यादावचनम् “ आङमर्यादाभिविध्योः' इति सूत्रम् । तत्र य आङ्ः दृष्टः स कर्मप्रवचनीयसंज्ञकस्यादित्यर्थः । तथाच मर्यादाभिविध्योराड् कर्मप्रव

चनीय इति फलतीति भावः । पञ्चम्यपाङ्परिभिः ॥ एतैरिति ॥ अप आङ् परि

४४२
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

५९९ । प्रतिः प्रतिनिधिप्रतिदानयोः । (१-४-९२)

एतयोरर्थयोः प्रतिरुक्तसंज्ञः स्यात् ।

६०० । प्रतिनिधिप्रतिदाने च यस्मात् । (२-३-११)

अत्र कर्मप्रवचनीयैर्योगे पञ्चमी स्यात् । प्रद्युम्नः कृष्णात्प्रति । तिलेभ्यः प्रतियच्छति माषान् ।

६०१ । अकर्तर्येृणे पञ्चमी । (२-३-२४)

कर्तृवर्जितं यदृणं हेतुभूतं ततः पञ्चमी स्यात् । शताद्वद्धः । अकर्तरि किम् । शतेन बन्धितः ।


इत्येतैरित्यर्थः । कर्मप्रवचनीयैरिति ॥ कर्मप्रवचनीया इत्यतस्तदनुवृत्तेरिति भावः । अप हरेः, परिहरेः, संसारः इति । अपहरेस्संसारः परिहरेस्संसार इत्यन्वयः । हरिं वर्जयित्वा जनिमृतिचक्रात्मकं संसरणमित्यर्थः । ननु ‘वृक्षं प्रति विद्योतते, भक्तो हरिं प्रति’ इत्यादौ ‘लक्षणे त्थम्भूत' इति कर्मप्रवचनीयत्वात् 'कर्मप्रवचनीययुक्ते द्वितीया' इति द्वितीयां परत्वात् अपवा दत्वाच्च बाधित्वा 'पञ्चम्यपाङ्परिभिः' इति पञ्चमी स्यादित्यत आह । परिरत्रेति । “पञ्चम्यपाङ्यरपरिभिः' इत्यत्र वर्जनार्थकेनापेन साहचर्यात् परिरपि वर्जनार्थक एव गृह्यते इत्यर्थः । आ मुक्तेरिति ॥ मुक्तेः प्रागिति यावत् । आ सकलादिति ॥ ब्रह्म सकलमभिव्याप्य वर्तत इत्यर्थः । प्रतिः प्रतिनिधि ॥ सदृशः प्रतिनिधिः, दत्तस्य प्रतिनिर्यातनं प्रतिदानम् । उक्तसंज्ञः इति ॥ कर्मप्रवचनीयसंज्ञक इत्यर्थः । प्रतिनिधि ॥ अत्रेति ॥ सूत्रेोक्तविषये इत्यर्थः । सूत्रे यस्मादिति षष्ठ्यर्थे पञ्चमी अस्मादेव निर्देशात् । 'कृष्णस्य प्रतिनिधिः' इति तु 'ज्ञापकसिद्धन्न सर्वत्र' इति समाधेयम् । तथाच यत्सम्बन्धिनी प्रतिनिधिप्रतिदाने. तस्मात् कर्मप्रवचनीययुक्तात्पञ्चमीत्यर्थः फलति । प्रद्युम्नः कृष्णात्प्रतीति ॥ युद्धादौ प्रद्युम्नः कृष्ण निरूपितसादृश्यवानित्यर्थः । पञ्चम्यर्थस्सादृश्यम् । प्रतिस्तु तद्दयोतकः । तिलेभ्यः इति ॥ ऋणत्वेन गृहीतान् तिलान् स्वरूपेण मूल्याद्यात्मना वा प्रत्यर्पयतीत्यर्थः । कर्मणि पञ्चमी । अकर्तयृणे ॥ “हेतौ' इति सूत्रमनुवर्तते । अकर्तरि हेतुभूते ऋणे विद्यमानादित्यर्थः । फलितमाह । कर्तृवर्जितमिति ॥ कर्तृसंज्ञारहितमित्यर्थः । शताद्वद्धः इति ॥ नियमित काले प्रत्यर्पणाभावे सति सुवर्णादिशतेन ऋणेन हेतुना अधमर्णो बद्ध इत्यर्थः । हेतुतृतीयाप वादः । शतेन बन्धितः इति ॥ अधमर्णः उत्तमर्णेनेति शेषः । बन्धहँतुमण्यन्तात्कर्मणि त्क्तः । अधमर्णः उत्तमर्णेन बद्ध इत्यण्यन्तस्यार्थः । शतेन ऋणेन प्रयोजककर्त्रा उत्तमर्णेन प्रयोज्यकर्त्रा बन्धनं कारितः अधमर्ण इति ण्यन्तस्यार्थः । अत्र शतमृणं प्रयोजकत्वात् कर्तृ संज्ञं हेतुसंज्ञञ्च । “तत्प्रयोजको हेतुश्च' इत्यत्र चकारेण कर्तृसंज्ञाया अपि विधानात् । ततश्च

शतशब्दात् कर्तरि तृतीयां बाधित्वा अपवादत्वात् “पञ्चमी स्यात्' अतः अकर्तरीत्युक्तामिति

विभक्तिप्रकरणम्]
४४३
बालमनोरमा ।

६०२ । विभाषा गुणेऽस्त्रियाम् । (२-३-२५)

गुणे हेतावस्रीलिङ्गे पञ्वमी वा स्यात् । जाड्यात्-जाड्येन वा बद्धः । गुणे' किम् । धनेन कुलम् । ' अस्रियाम्' किम् । बुद्धया मुक्तः । 'वि- भाषा' इति योगविभागादगुणे स्त्रियां च क्वचित् । धूमादग्निमान् । नास्ति घटाऽनुपलव्धेः।

६०३ । पृथग्विनानानाभिस्तृतीयान्यतरस्याम् । (२-३-३२)

एभिर्योगे तृतीया स्यात्पञ्चमद्वितीये च । अन्यतरस्यांग्रहणं समुच्च यार्थम्, पञ्चमीद्वितीये चानुवर्तेते । पृथग्रामेण-रामात्-रामं वा । एवं विना, नाना ।


भावः । शतस्य हेतुत्वेऽपि कर्तृत्वान्न ततः पञ्चमीति भावः । विभाषा ॥ हेतावित्यनुवर्तते । तदाह । गुणे हेतावस्त्रीलिङ्गे इति ॥ विद्यमानादिति शेषः । जाड्यादिति ॥ जडस्य भावो जाड्यम् । 'गुणवचनब्राह्मणादिभ्यः कर्मणि च' इति ष्यञ् । ननु धूमादग्निमानित्यादौ कथं पञ्चमी । धूमादेरगुणत्वादित्यत आह । योगविभागादिति ॥ “विभाषा' इति योगो विभज्यते । हेतावित्यनुवर्तते, पञ्चमीति च । हेतौ पञ्चमी वा स्यादित्यर्थः । ततश्च धूमादग्नि मानित्यादि सिद्धम् । ततः गुणे स्त्रियामिति । तत्र विभाषेत्यनुवर्तते, पञ्चमीति च । गुणे हेतावस्रीलिङ्गे पञ्चमी वा स्यादित्युक्तोऽर्थः । ततश्च जाड्याद्वद्ध इत्यादि सिद्धम् । ननु विभाषे त्येव सिद्धे गुणे स्त्रियामिति व्यर्थमित्यत आह । अगुणे स्त्रियाञ्च क्वचिदिति ॥ योग विभागस्य इष्टसिध्द्यर्थत्वादिति भावः । अत्रागुणे उदाहरति । धूमादिति । अग्निमानि त्यनन्तरं ज्ञायत इति शेषः । धूमस्य अग्निहेतुत्वात् । अत्र धूमस्य अगुणत्वेऽपि हेतुत्वात् ततः पञ्चमीति भावः । स्त्रियामुदाहरति । नास्ति घटः इति ॥ घट इत्यनन्तरं ज्ञायत इति शेषः । अनुपलब्धेरिति ॥ उपलब्धिः ज्ञानम्, तस्या अभावः अनुपलब्धिः । नञ्तत्पुरुषः । न चार्थाभावेऽव्ययीभावश्शङ्कयः । अर्थाभावे तयोर्विकल्पस्य वक्ष्यमाणत्वात् । पृथग्विना ॥ पञ्चमीद्वितीये चेति ॥ तृतीयाभावपक्षे इति शेषः । “ अपादाने पञ्चमी, षष्ठयतसर्थप्रत्ययेन, एनपा द्वितीया, पृथग्विना' इति सूत्रक्रमः । तत्र षष्ठीत्यस्वरितत्वान्नानुवर्तते, पञ्चमी द्वितीयेति चानुवर्तते । तथाच तृतीयाभावपक्षे पञ्चमी द्वितीया चेति भावः । ननु तृतीयाभावपक्षे द्वितीयैव सन्निहितत्वात् स्यात्, नतु पञ्चम्यपि, षष्ठयतसर्थेनेत्यत्र तदनुवृत्तेरभावात् । अतोऽत्र पञ्चम्यास्समावेशोऽनुपपन्न इत्यत आह । अन्यतरस्यांग्रहणमिति ॥ तृतीया चेत्येतावतैव सन्निहितद्वितीयासमुच्चयसिद्धेरन्यतरस्याङ्गुरुयत्नकरणं व्यवहिताया अपि पञ्चम्यास्समुच्चयार्थम् । अव्ययानामनेकार्थकत्वादिति भावः । ननु पञ्चम्याः “षष्ठ्यतसर्थ ' इत्यत्रानुवृत्ताया इहानुवृत्ते रसम्भवात् कथमिह तदुपस्थितिरित्यत आह । पञ्चमीद्वितीये चानुवर्तेते इति ॥

मण्डूकप्लुत्येति शेषः । पृथग्रामेणेति ॥ रामप्रतियोगिकभेदवानित्यर्थः । एवं विना नानेति ॥

४४४
[कारके पञ्चमी
सिद्धान्तकौमुदीसहिता

६०४ । करणे च स्तोकाल्पकृच्छ्रकतिपयस्यासत्त्ववचनस्य । (२-३-३३)

एभ्योऽद्रव्यवचनेभ्यः करणे तृतीयापञ्चम्यौ स्तः । स्तोकेन स्तोकाद्वा मुक्तः । द्रव्ये तु स्तोकेन विषेण हृतः ।

६०५ । दूरान्तिकार्थेभ्यो द्वितीया च । (२-३-३५)

एभ्यो द्वितीया स्याचात्पञ्चमीतृतीये च । प्रातिपदिकार्थमात्रे विधिरयम् । ग्रामस्य दूरम्-दूरात्-दूरेण वा, अन्तिकम्-अन्तिकात्-अन्तिकेन वा ।

  • असत्त्ववचनस्य' इत्यनुवृत्तेर्नेह । दूरः पन्थाः ॥

इति पञ्चमी विभक्तिः ।




विना रामेण, रामात्, रामम् । नाना रामेण, रामात्, रामम्, वा । पृथग्विनानानास्रयोऽपि भेदार्थका इति केचित् । “पृथग्विनान्तरेणर्ते हिरुङ् नाना च वर्जने” इत्यमरः । रामस्य वर्जने सुखं नास्तीत्यर्थः । करणे च । एभ्य इति ॥ स्तोक अल्प कृच्छ्र कतिपय एभ्यश्चतुर्भ्यः इत्यर्थः । असत्त्वपदं व्याचष्टे । अद्रव्येति ॥ अन्यतरस्यामित्यनुवर्तते, पञ्चमीति च । ततश्च करणे पञ्चमी वेति लभ्यते । तदभावे तु तृतीया सिद्वैव । तदाह । तृतीयापञ्चम्याविति ॥ स्तोकेन स्तोकाद्वा मुक्तः इति । लघुना अनायासेन मुक्त इत्यर्थः । आयासो न द्रव्यमिति भावः । द्रव्ये त्विति ॥ द्रव्ये वृत्तौ स्तोकेन विषेण हत इति तृतीयैवेत्यर्थः । अल्पेनाल्पाद्वा मुक्तः, कृच्छ्रण कृच्छ्राद्वा मुक्तः । कष्टनेत्यर्थः । कतिपयेन कतिपयाद्वा मुक्तः । अकृत्स्त्रेन साधनेनेत्यर्थः । दूरान्तिक ॥ एभ्य इति ॥ दूरार्थकेभ्यः अन्तिकार्थकेभ्यश्चेत्यर्थः । चकारः व्यवहितयोरपि पञ्चमीतृतीययोस्समुच्चयार्थः, नतु दूरान्तिकार्थैष्षष्ठयन्यतरस्याम्' इति सन्नि हितषष्ठया अपि । व्याख्यानात् । तदाह । चात्पञ्चमीतृतीये चेति ॥ प्रातिपदिकार्थ मात्रे विधिरयमिति ॥ व्याख्यानादिति भावः । तथाच प्रथमापवाद इति फलितम् । दूरादावसथान्मूत्रन्दूरात्पादावनेजनम्’ इति भाष्यप्रयोगात् सप्तम्यर्थेऽधिकरणेऽप्ययं विधिः । ननु दूरः पञ्थाः इत्यत्र कथं न पञ्चमीत्यत आह । असत्त्ववचनस्येति ॥ दूरः पन्था इत्यत्र पन्थाः द्रव्यम् । तद्विशेषणं दूरशब्दस्सत्ववचन इति भावः ।

इति पञ्चमी विभक्तिः ।


विभक्तिप्रकरणम्]
४४५
बालमनोरमा ।

अथ षष्ठी विभक्तिः

६०६ । षष्ठी शेषे । (२-३-५०)

कारकप्रातिपदिकार्थव्यतिरिक्त: स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्टयेव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधो दकस्योपस्कुरुते । भजे शम्भोश्चरणयोः । फलानां तृप्तः ।


अथ षष्ठी विभक्तिः । षष्ठी शेषे ॥ उक्तादन्यश्शेषः । 'कर्मणि द्वितीया' इत्यादि सूत्रेषु द्वितीयादिविधिषु हेि कर्मकर्तृकरणसम्प्रदानापादानाधिकरणकारकाण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्यः अन्यः स्वस्वामिभावादिसम्बन्धः शेषपदार्थ इत्यर्थः । तत्रासति बाधके सम्बन्धो विशेषरूपेण सामान्यरूपेण च भासते । न हि 'निर्विशेषं सामान्यम्' इति न्यायात् । सति तु बाधके मातुः स्मरतीत्यादौ सम्बन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थितिः । राज्ञः पुरुष इत्यत्र स्वस्वामिभाव रूपविशेषात्मना सम्बन्धत्वरूपसामान्यात्मना च सम्बन्धष्षष्ठ्यर्थः । राजाश्रितस्वामित्वनिरूपित स्वत्वात्मकसम्बन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । सम्बन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया सम्बन्धविशे षणम् । सम्बन्धस्त्वाधेयतया राजानं प्रति विशेष्यम् । 'प्रधानप्रत्ययार्थवचनम्’ इति वचनेन प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यावगमात् । अत एव पुरुषशब्दादपि न षष्ठी । राजनिरूपित सम्बन्धाश्रयःपुरुष इति बोधे सम्बन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन भानानुपपत्तेः। यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्वरूपसम्बन्धाश्रयो राजेति बोधः, तदा पुरुषस्य राजेति पुरुष शब्दात् षष्ठी भवत्येवेत्यन्यत्र विस्तरः। सतां गतमित्यादौकर्तृतृतीयादिकमाशङ्कय आह्। कर्मादी नामपीति । कर्मत्वकर्तृत्वादीनामपि सम्बन्धत्वसामान्यात्मना विवक्षायां षष्ठयेव, नतु कारक विभक्तय इत्यर्थः । तथाच ‘क्तस्य च वर्तमाने' इति सूत्रे भाष्यम्। ‘कर्मत्वादीनामविवक्षा शेषः’ इति । सतां गतमिति । भावे त्क्तः । सत्सम्बन्धिगमनमित्यर्थः । कर्तृत्वविवक्षायान्तु सद्भिर्गत मिति तृतीया भवत्येव । कृद्योगंलक्षणा षष्ठी तु न भवति । “न लोक' इति निषेधात् सर्पिषो जानीते इति ॥ करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य सम्बन्धत्वविवक्षायान्तु षष्ठी । कर्त्राश्रिता सर्पिस्सम्बन्धिनी प्रवृत्तिरिति बोधः । मातुः स्मर तीति ॥ कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायान्तु देवदत्तकर्तृक मातृसम्बन्धि स्मरणमित्यर्थः । एधोदकस्योपस्कुरुते इति ॥ एधशब्दः अकारान्त पुल्लिंङ्गः 'कारके' इति सूत्रे “एधाः पक्ष्यन्ते” इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वातू षष्ठी । 'जातिरप्राणिनाम्' इत्येकवद्भावः । कर्मत्वविवक्षायां एधोदकं शोषणगन्धद्रव्या

धानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायान्तु एधोदकसम्बन्धि परिष्करणामिति

४४६
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

६०७ । षष्ठी हेतुप्रयोगे । (२-३-२६)

हेतुशब्दप्रयोगे हेतौ द्योत्ये षष्टी स्यात् । अन्नस्य हेतोर्वसति ।

६०८ । सर्वनाम्नस्तृतीया च । (२-३-१७)

सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात्षष्ठी च । घकेन हेतुना वसति । कस्य हेतोः । “निमिन्तपर्यायप्रयोगे सर्वासां प्राय दर्शनम्’ (वा १४७३) । किं निमित्तं वसति, केन निमित्तेन, कस्मै निमित्ताय, इत्यादि । एवं * किं कारणम्' * को हेतुः' * किं प्रयोजनम्' इत्यादि । प्रायग्रहणाद्सर्वनाम्रः प्रथमाद्वितीये न स्तः' । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्ताय, इत्यादि ।

६०९ । षष्ठ-यतसर्थप्रत्ययेन । (२-३-३०)


बोधः । एधश्शब्दस्सकारान्तोऽप्यस्ति नपुंसकलिङ्गः । “काष्ठन्दार्विन्धनन्त्वेध इध्ममेधस्समित् स्त्रियाम्' इति कोशात् । “यथैधांसि समिद्धेोऽग्निः' इत्यादिदर्शनाच्च । तथा सति एधः दकस्येति छेदः । उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति । भुवनममृतं जीवनं स्यात् दकञ्च ' इति हलायुधकोशात् । तथाच एधः कर्तृ उदकं परि ष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायान्तु षष्ठी । निम्बकरञ्जादिकाष्ठविशेषप्रज्वलितानिग्नि तप्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसम्बन्धि भजनमित्यर्थः । फलानां तृप्तः इति ॥ अत्रापि करणत्वस्य शेषत्वविवक्षायां षष्ठी । फलसम्बन्धिनी तृप्तिरिति बोधः । षष्ठी हेतु प्रयोगे ॥ हेतावित्यनुवर्तते । तदाह । हेतौ द्योत्ये इति ॥ हेतुत्वे द्योत्ये इत्यर्थः । हेतुवाचकात् षष्ठीति फलितम् । “हेतौ' इति तृतीयां बाधित्वा षष्ठी । हेतुप्रयोगे किम् । अन्नेन वसति । हेतौ द्योत्ये इति किम् । अन्नस्य हेतोस्तुभ्यं नमः । अत्र युष्मच्छब्दान्न भवति । सर्वनाम्नस्तृतीया च । सर्वनाम्नः इति षष्ठी । तदाह । सर्वनाम्नो हेतुशब्दस्य चेति ॥ कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात् सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहरति । केन हेतुनेति ॥ सर्वनाम्न इति यदि पञ्चमी स्यात्, तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् । निमित्तपर्यायेति । निमित्तपर्यायाणां प्रयोगे तेभ्यस्तत्समानाधिकरणेभ्यश्च संवर्वासां विभक्तीनां प्रायेण प्रयोगो भवतीत्यर्थः । किन्निमित्तं वसतीति ॥ प्रथमान्तं द्वितीयान्तञ्च ज्ञेयम् । इत्यादीति ॥ कस्मात् निमित्तात्, कस्य निमित्तस्य, कस्मिन्निमित्ते । पर्यायग्रहणस्य प्रयोजन माह । एवं किं कारणमित्यादि । प्रायग्रहणस्य प्रयोजनमाह । प्रायग्रहणादिति ॥ एवञ्च षष्ठी हेतुप्रयोगे ' 'सर्वनाम्नस्तृतीया च' इति सूत्रद्वयं न कर्तव्यमेवेति भावः ।

षष्ठयतसर्थ ॥ एतद्योगे इति ॥ “दिक्शब्देभ्यस्सप्तमीपञ्चमीप्रथमाभ्यो दिग्देश

विभक्तिप्रकरणम्]
४४७
बालमनोरमा ।

एतद्योगे षष्ठी स्यात् । ‘-दिक्छब्द-' (सू ५९५) इति पञ्चम्या अपवादः । ग्रामस्य दक्षिणतः, पुरः, पुरस्तात्, उपरेि, उपरिष्टात् ।

६१० । एनपा द्वितीया । (२-३-३१)

एनबन्तेन योगे द्वितीया स्यात् । 'एनपा' इति योगविभागात्षष्ठ्यपि । दक्षिणेन ग्रामं-ग्रामस्य वा ।

६११। दूरान्तिकार्थैः षष्ठयन्यतरस्याम् । (२-३-३४)

एतैर्योगे षष्ठी स्यात्पञ्चमी च । दूरं, निकटं, ग्रामस्य-ग्रामाद्वा ।

६१२ । ज्ञोऽविदर्थस्य करणे । (२-३-५१)


कालेष्वस्तातिः' इत्यारभ्य “ आहि च दूरे ' “उत्तराच्च' इत्यन्तैस्सूत्रैर्दिग्देशकालवृत्तिभ्य श्शब्देभ्यः स्वार्थे प्रत्यया विहिताः । तत्र ‘दक्षिणोत्तराभ्यामतसुच्' इति विहितः यः अतसु च्प्रत्ययः तस्यार्थः दिग्देशकालरूपः स एवार्थो यस्य सः अतसर्थप्रत्ययः तद्योगे इत्यर्थः । यद्यप्यतसर्थप्रत्ययेषु अस्तातिरेव प्रथमः । तथापि लाघवादतसर्थेत्युक्तम्, न त्वस्तात्यर्थेति । संयुक्ताक्षरघटितत्वेन गौरवात् । दिक्शब्देतीति ॥ 'अन्यारात्' इति सूत्रे दिक्शब्देत्यनेन या पञ्चमी विहिता तदपवाद इत्यर्थः । दक्षिणतः इति ॥ सप्तमीपञ्चमीप्रथमान्तात् स्वार्थे दिग्देशकालवृत्तेः दक्षिणशब्दात् अतसुच् । दक्षिणस्यां, दक्षिणस्याः, दक्षिणा, वा दिगित्यर्थः । एवं देशे काले च । पुरः इति ॥ पूर्वाशब्दादस्तात्यर्थे 'पूर्वाधरावराणामसिपुरधवचैषाम् इत्यसिप्रत्ययः प्रकृतेः पुरादेशश्च । पूर्वस्यां, पूर्वस्याः, पूर्वा, वेत्यर्थः । पुरस्तादिति ॥ पूर्व शब्दादस्तातिप्रत्यये सति “ अस्ताति च' इति प्रकृतेः पुरादेशः । पुरश्शब्दसमानार्थकमिदम् । उपरीति ॥ “उपर्युपरिष्टात्’ इति सूत्रेण ऊर्ध्वशब्दात् रिल्प्रत्ययः रिष्टातिल्प्रत्ययश्च । प्रकृते रुपादेशश्च निपातितः । ऊर्ध्वायान्दिशि, ऊर्ध्वाया दिशः, ऊर्ध्वा दिगिति वा, अर्थः । एवं देशे कालेऽपि । एनपा द्वितीया ॥ “षष्ठयतसर्थ ' इति षष्ठयाः नित्यं बाधे प्राप्ते आह । योग विभागादिति ॥ एनपेति योगो विभज्यते । 'षष्ठयतसर्थ' इति पूर्वसूत्रात् षष्ठीत्यनुवर्तते । एनबन्तेन योगे षष्ठी स्यादित्यर्थः । द्वितीयेति योगान्तरम् । एनपेत्यनुवर्तते । एनबन्तेन योगे द्वितीया स्यादित्युक्तोऽर्थः । दक्षिणेनेति ॥ 'एनबन्यतरस्यामदूरेऽपञ्चम्याः' इत्येनप् । एवमुत्तरेणेति ॥ उत्तरेण ग्रामं, ग्रामस्य, वेत्युदाहरणमित्यर्थः । पूर्वेण ग्रामं प्रामस्य वेत्याद्यपि बोध्यम् । दिक्शब्देभ्य एनव्विधः । भाष्ये तु 'षष्ठयतसर्थ' इति सूत्रात् प्राक् एनपा द्वितीया' इत्यस्य पाठ इति “पृथग्विना’ इति सूत्रे उक्तम् । अतोऽत्र सत्यपि योग विभागे षष्ठीग्रहणानुवृत्तरसम्भवादेनपा योगे षष्ठयसाधुरेवेति युक्तम् । दूरान्तिकार्थैः ॥ एतैरिति ॥ दुरार्थकैरन्तिकार्थकैश्च शब्दैर्योगे इत्यर्थः । पञ्चमी चेति ॥ षष्ठयभावे “अपादाने पञ्चमी' इत्यतः अनुवृत्ता पञ्चमीति भावः । “एनपा द्वितीया' इति, पृथग्विनानानाभिस्तृतीया'

इति, द्वितीयातृतीये सन्निहिते अपि न समुचीयेते । व्याख्यानात् । ज्ञोऽविदर्थस्य ॥ ज्ञः

४४८
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

जानातेरज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् । सर्पिषो ज्ञानम् ।

६१३ । अधीगर्थद्येशां कर्मणि । (२-३-५२)

एषां कर्मणि शेषे षष्ठी स्यात् । मातुः स्मरणम् । सर्पिषो दयनम्, ईशनं वा ।

६१४ । कृञः प्रतियत्ने । (२-३-५३)

प्रतियत्नो गुणाधानम् । कृञः कर्मणि शेषे षष्ठी स्याद्गुणाधाने । एधोदकस्योपस्करणम् ।

६१५ । रुजार्थानां भाववचनानामज्वरेः । (२-३-५४)

भावकर्तृकाणां ज्वरिवर्जितानां रुजार्थानां कर्मणि शेषे षष्ठी स्यात् ।


अविदर्थस्येति च्छेदः । ज्ञ इति ज्ञाधातोरनुकरणात् षष्ठ्येकवचनम् । वित् ज्ञानं अर्थः यस्य विदर्थः, स नभवतीति अविदर्थः । ज्ञानार्थकभिन्नस्येति यावत् । तदाह । जानातेरज्ञानार्थ स्येति ॥ शेषत्वेनेति ॥ सम्बन्धत्वेनेत्यर्थः । शेष इत्यनुवृत्तरिति भावः । सर्पिषो ज्ञान मिति । वस्तुतः करणीभूतं यत्सर्पिः तत्सम्बन्धिनी प्रवृत्तिरित्यर्थः । अविदर्थस्येति लिङ्गादेव ज्ञा अवबोधने' इति धातोः प्रवृत्तौ वृत्तिः । “षष्ठी शेषे' इति सिद्धेऽपि 'प्रतिपदविधाना षष्ठी न समस्यते’ इत्येतदर्थवचनम् । अधीगर्थ । एषामिति ॥ ‘इक् स्मरणे' नित्यमधिपूर्वः, तस्यार्थ इवार्थो यस्य सः अधीगर्थः, स्मरणार्थक इति यावत् । शेष इति ॥ “षष्ठी शेषे' इत्यतस्तदनुवृत्ते रिति भावः । मातुः स्मरणामात । वस्तुतः कर्मीभूतमातृसम्बन्धि स्मरणमित्यर्थः । सर्पिषो दयनमिति । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धि दयनमित्यर्थः । 'दय दानगतिरक्षण हिंसादानेषु, दीनान् द्यते इत्यत्र दुःखाद्वियोजयितुमिच्छतीत्यर्थः । परदुःखापहरणेच्छा दया । ईशनं वेति ॥ सर्पिषः इत्यनुषज्यते । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धियथेष्टविनियोग इत्यर्थः । इदमपि समासनिषेधार्थमेव । लोकानीष्ट इत्यत्र तु यथास्वेच्छमाज्ञापयतीत्यर्थः । कृञः प्रति ॥ कर्मणीति, शेष इति, चानुवर्तते । प्रतियत्नो गुणाधानम् । तदाह । कृञ- कर्मणीति ॥ एधोदकस्योपस्करणमिति । एधश्शब्दस्सकारान्तो नपुंसकलिङ्गः । दकशब्द उदक वाची । एधश्च दकञ्चेति द्वन्द्वः । यद्वा एधशब्दः अकारान्तः पुल्लिंङ्गः । एधश्च उदकचेति द्वन्द्वः इत्यनुपदमेवोक्तम् । वस्तुतः कमींभूतैधेोदकसम्बन्धि परिष्करणमित्यर्थः । रुजार्थनाम् ॥ रुजा पीडा रोगः इत्यर्थो येषामिति विग्रहः । भाववचनानामित्येतद्याचष्टे । भावकर्तृका णामिति ॥ वक्तीति वचनः, कर्तरि ल्युट् । प्रकृत्यर्थो न विवक्षितः । भावः धात्वर्थः वचन: कर्ता येषामिति विग्रहः । भावकर्तृकाणामिति फलितमिति भाष्ये स्पष्टम् । शेष इति कर्मणीति चानुवर्तते । तदाह । कर्मणि शेष इति । इदमपि समासाभावार्थमेव । चौरस्य

रोगस्य रुजेति ॥ अत्र रुजेति व्याधिकृतसन्तापादिपीडोच्यते । रोगश्चौरं सन्तापादिना

विभक्तिप्रकरणम्]
४४९
बालमनोरमा ।

चौरस्य रोगस्य रुजा । “ अज्वरिसन्ताप्योरिति वाच्यम्' (वा १५०७) । रोगस्य चौरज्वरः, चौरसन्तापो वा । रोगकर्तृकं चौरसम्बन्धि ज्वरादिकमित्यर्थः ।

६१६ । आशिषि नाथः । (२-३-५५)

आशीरर्थस्य नाथतेः शेषे कर्मणि षष्ठी स्यात् । सर्पिषो नाथनम् । 'आशिषि ' इति किम् । माणवकनाथनम्' । तत्सम्बन्धिनी याच्येत्यर्थः ।

६१७ । जासिनिप्रहणनाटक्राथपिषां हिंसायाम् । (२-३-५६)

हिंसार्थानामेषां शेषे कर्मणि षष्टी स्यात् । चौरस्योज्जासनम् । निप्रेौ संहतौ विपर्यस्तौ व्यस्तौ वा । चौरस्य निप्रह्णनम्--प्रणिहननम्--


पीडयतीति पर्यवसन्नोऽर्थः । रोगकर्तृका वस्तुतः कर्मीभूतचेौरगतसन्तापादिपीडेत्यत्र भाव घञन्तेन रोगशब्देन शारीरक्षयादिविकारविशेषो विवक्षितः । सच रुजाया कर्ता । तत्कर्म णश्चौरस्य शेषत्वविवक्षायां षष्ठी । रोगस्य चौररुजेति समासो न भवतीति योजना । अज्वरि सन्ताप्योरिति ॥ रुजार्थानां भाववचनानां ज्वरिसन्तापिवर्जितानाम् इति सूत्रं वक्तव्यमित्यर्थः । रोगस्य चौरज्वरः इति ॥ अत्र चौरज्वरशब्दे शेषष्ठया समासो भवत्येव । शेषषष्ठयाः पुनर्विध्यभावात् । एवं रोगस्य चौरसन्ताप इत्यत्रापि बोध्यम् । अंत्राज्वरिसन्ताप्योरित्यनुक्तौ तु रुजार्थानां भाववचनानां कर्मणि शेषे चौरशब्दात् षष्ठी स्यादित्यतिव्यातिं दर्शयितुमाह । रोगकर्तृकमिति । । रोगकर्तृकः वस्तुतः कर्मीभूतचौरसम्बन्धी ज्वरः सन्तापो वेति यावत् । एवञ्च ज्वरिसन्ताप्योः रुजार्थकत्वात् रोगात्मकभावकर्तृकत्वाच्च तत्कर्मणश्चौरस्य शेषत्वविवक्षायां नानेन षष्ठी, किन्तु कृद्योगे षष्ठी, षष्ठी शेषे इत्येव षष्ठी वा । अत: चौरज्वरः चौरसन्ताप इति समासो भवत्येवेति भावः । आशिषि नाथः ॥ “शेषे कर्मणि' इति चानुवर्तते । तदाह । आशीरर्थस्येति । इदमपि समासाभावार्थमेव । सर्पिषो नाथनमिति । इदम्मे भूयादितीच्छा आशासनम् । तदेवाशीः नाथतेतरर्थः । वस्तुतः कर्मीभूतसर्पिस्सम्बन्धि आशासनमित्यर्थः। जासिनिप्र॥ कर्मणि शेषे इत्यनुवर्तते। तदाह । हिंसार्थाना मित्यादिना । इदमपि समासाभावार्थमेव । चौरस्योजासनमिति ॥ “जसु ताडने जसु हिंसायाम्' इंति चुरादौ । वस्तुतः कर्मीभूतचौरसम्बन्धिनी हिंसेत्यर्थः । 'जडु मोक्षणे इति दैवादिकस्य तु न ग्रहणम् । हिंसार्थत्वाभावात् जासीति निर्देशाच । निप्राविति । निप्र हणेति निप्रपूर्वस्य हनधातोः निर्देशः । तत्र निप्र इत्येतौ समस्तौ गृह्येते, प्रनीत्येवं व्युत्क्रमेण च गृह्येते । प्रेति नीति च पृथगपि गृह्यते, व्याख्यानादित्यर्थः । समस्तावुदाहरति । चौरस्य निप्रहणनमिति । वस्तुतः कर्मीभूतचौरसम्बन्धि हननमित्यर्थः । 'हन्तरत्पूर्वस्य’ इति णत्वम्। विपर्यस्तावुदाहरति। प्रणिहननमिति ॥ नेर्गद’ इति णत्वम्। हन्तेर्नकारस्य तु न

णत्वम् । 'अट्कुप्वाड्' इति नियमात् । नेर्नकारस्य तदनन्तर्भावात् । व्यस्तावुदाहरति ।

४५०
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

निहननम्-प्रहणनं वा । नट अवस्कन्दने' चुरादिः । चौरस्योन्नाटनम् । चौरस्य क्राथनम् । वृषळस्य पेषणम् । हिंसायाम्' किम् । धानापेषणम् ।

६१८ । व्यवहृपणोः समर्थयोः । (२-३-५७)

शेषे कर्मणि षष्ठी स्यात् । यूते क्रयविक्रयव्यवहारे चानयोस्तुल्यार्थता । शतस्य व्यवहरणं, पणनं वा । “समर्थयोः' किम् । शलाकाव्यवहारः । गणनेत्यर्थः । ब्राह्मणपणनं, स्तुतिरित्यर्थः ।

६१९ । दिवस्तदर्थस्य । (२-३-५८)

द्यूतार्थस्य क्रयविक्रयरूपव्यवहारार्थस्य च दिवः कर्मणि षष्ठी स्यात् । शतस्य दीव्यति । 'तदर्थस्य ' किम् । ब्राह्मणं दीव्यति स्तौतीत्यर्थः ।


निहननं प्रहणनं वेति । निमित्ताभावानिहननमित्यत्र 'हन्तेरत्पूर्वस्य' इति णत्वं न । चुरादिरिति ।। ‘नट नृत्तौ' इति तु न गृह्यते । नाटेति दीर्घोच्चारणादिति भावः । चौरस्यो न्नाटनामिति । उपसर्गवशान्नाटेर्हिंसायां वृत्तिरिति भावः । चौरस्य क्राथनमिति । क्रथ हिंसायाम्' इति घटादौ । “घटादयो मित:’ इति तस्य मित्त्वेऽपि “मितां ह्रस्वः’ इति न । भवति । इह दीर्घनिपातनात् । वृषळस्य पेषणमिति ॥ हिंसत्यर्थः । व्यवहृपणोः ॥ शेषपूरणेन सूत्रं व्याचष्टे । शेषे कर्मणि षष्ठी स्थादिति ॥ समौ तुल्यौ अर्थौं ययोरिति विग्रहः । शकन्ध्वादिन्वात् पररूपम् । एकार्थकस्य व्यवपूर्वकहृञ्धातोः पणधातोश्च कर्मणि शेषत्वेन विवक्षिते षष्ठी स्यादित्यर्थः । इदमपि समासनिवृत्त्यर्थमेव । ननु ‘पण व्यवहारे स्तुतौ च' इति पणधातुः स्तुतावपि वर्तते, नतु व्यवहार एव, तत्कथमनयोरेकार्थकत्वमित्यत आह । द्यूतेइति॥ द्यूते अक्षैः क्रीडने क्रयविक्रयविषयकमूल्यसंवादे चानयोः व्यवहृपणोः एकार्थ कत्वमित्यर्थः । तथाच एतादृशव्यवहारार्थकयोरिति फलतीति भावः । शतस्य व्यवहरणं पणनं वेति । द्यूतव्यवहारेण क्रयविक्रयव्यवहारेण वा गृहातीत्यर्थः । केवलव्यवहारार्थकत्वे अकर्मकत्वापातात् । तथाच वस्तुतः कर्मीभूतशतसम्बन्धि अक्षक्रीडनेन ग्रहणं, क्रयविक्रयविषय कमूल्यविसंवादेन ग्रहणं वेत्यर्थः। समर्थयोः किमिति । व्यवहारार्थकयोरिति किमर्थमित्यर्थः शलाकाव्यवहार इति । प्रत्युदाहरणे व्यवहरतेर्न व्यवहारार्थकत्वमित्याह । गणनेत्यर्थः इति । वस्तुतः कर्मीभूितशलाकासम्बन्धिगणनेति फलितम् । अत्र षष्ठयाः पुनर्विध्यभावा दस्त्येव समास इति भावः । ब्राह्मणपणनमिति । पणतेः प्रत्युदाहरणम् । अत्र पणिर्न व्यवहारार्थ इत्याह । स्तुतिरित्यर्थः इति । वस्तुतः कर्मीभूतब्राह्मणसम्बन्धिनी स्तुति रित्यर्थः । अत्रापि अस्त्येव समास इति भावः । दिवस्तदर्थस्य । पूर्वसूत्रे निर्दिष्टव्यवह पणौ तच्छब्देन परामृश्यते । तयाः व्यवहृपणोः अर्थ एवार्थो यस्येति विग्रहः । तदाह । द्यूतार्थस्येति । द्यूतमक्षक्रीडनेन ग्रहणं अर्थो यस्य दिव इति विग्रहः । क्रयेति । क्रय

विक्रयविषयकमूल्यविसंवादोऽर्थः यस्य दिव इति बहुव्रीहिः । कर्मणि षष्ठीति । इह शेष

विभक्तिप्रकरणम्]
४५१
बालमनोरमा ।

६२० । विभाषोपसर्गे । (२-३-५९)

पूर्वयोगापवादः । शतस्य शतं वा प्रतिदीव्यति ।

६२१ । प्रेष्यब्रुवोर्हविषो देवतासम्प्रदाने । (२-३-६१)

देवतासम्प्रदानकेऽर्थे वर्तमानयोः प्रेष्यब्रुवोः कर्मणो हविषो वाचका च्छब्दात्षष्ठी स्यात् । अग्नये छागस्य हविषो वपाया मेदसः प्रेष्य

६२२ । कृत्वोऽर्थप्रयोगे कालेऽधिकरणे । २-३-६४)


इति नानुवर्तते, व्याख्यानादिति भावः । तथाच कर्मणश्शेषत्वविवक्षाभावात् ' षष्टी शेषे ' इत्यप्राप्तौ इदं वचनम्, नतु कृदन्तयोगे समासनिवृत्त्यर्थम्, तत् ध्वनयन्नुदाहरति । (स्य दीव्यतीति । शतमक्षत्रकीडन क्रयविक्रयविषयकमूल्यविसंवादेन वा गृह्णातीत्यर्थः । अत्र शेष इत्यनुवृतेः कर्मत्वप्रकार एव बोधः । अत एव 'द्वितीया ब्राह्मणे' इत्युत्तरसूत्रे **ग्रामस्य तदहस्सभायां दीव्येयुः' इत्यत्र नित्यषष्ठीप्राप्तौ द्वितीयार्थमित्युक्त भाष्यकेैयटयेास्सङ्गच्छते इत्यन्यत्र विस्तरः । विभाषोपसर्गे । उपसर्गे सति व्यवहृपणार्थस्य दिवः कर्मणि षष्ठी वा स्या दित्यर्थः । प्रेष्यब्रुवोः ॥ देवतासम्प्रदानके इति । देवता सम्प्रदानं यस्य तस्मिन्नित्यर्थः। प्रेष्यब्रुवोरिति । ‘इष गतौ' दिवादिश्यन्नन्तः, उपसर्गवशात् प्रेरणे वर्तते । प्रष्यश्च ब्रूश्च तयोरिति विग्रहः । कर्मण इति ॥ ' अधीगर्थ’ इत्यतः कर्मणीत्यनुवृत्तं षष्ठया विपरिणम्यते इति भावः । हविषः इति ॥ हविश्शब्दः न स्वरूपपरः, किन्तु हविर्विशेषवाचकशब्दपर व्याख्यानात् । तथाच देवतासम्प्रदानक्रियावाचिनोः प्रेष्यब्रुवोः कर्मीभूतः । हविर्विशेषः तद्वाचकाच्छब्दात् षष्ठीति फलितम् । अत्रापि शेष इति नानुवर्तते, व्याख्यानात् । तथाच द्वितीयापवादोऽयम् । अग्नये छागस्येति ॥ मैत्रावरुणं प्रति अध्वर्युकर्तृकोऽयं सम्प्रैषः । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्यं मेदोरून तत् प्रेष्य । होतायक्षदग्निं छागस्य वपाया मेदसो जुषतां हविहाँतर्यज' इति प्रैषण प्रकाशत्यर्थः । अत्र यद्यपि ‘अग्नये छागस्य वपाया मेदसः प्रेष्य' इत्येव कल्पसूत्रषु दृश्यते, नतु हविष इत्यपि । तथापि तथाविधः प्रैषो भाष्योदाहरणात् क्वचिच्छाखायां ज्ञेयः । मेदश्शब्देन वस्त्रखण्डतुल्या मांसविशेष उच्यते । अनुबूहि वेति । अग्नये छागस्य हविषो वपाया मेदसोऽनुबृहीत्युदाहरणम् । हे मैत्रावरुण, अग्न्युद्देशेन प्रदास्यमानं छागसम्बन्धि यद्धविः वपाख्यं मेदोरूप तत्पुरोऽनुवाक्यया प्रकाशयेत्यर्थः । प्रेष्यब्रुवोः किम्, अग्नये छागस्य हविर्वपां मेदो जुहुधि । हविषः किम् । अग्नये गोमयानि प्रेष्य । देवतासम्प्रदान किम् । माणवक्राय पुरोडाश प्रेष्य । 'हविषः प्रस्थि तत्वविशेषणे प्रतिषेधो वक्तव्यः’ इन्द्राग्निभ्यां छागस्य हविर्वपां मेदः प्रस्थितं प्रेष्य । प्रस्थित

मिति अव्यक्तमित्यर्थः । कृत्वोऽर्थ ॥ कृत्वोऽर्थानामिति । कृत्वसुः प्रत्ययस्यार्थ एवार्थः

४५२
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

कृत्वोऽर्थानां प्रयोगे कालवाचिन्यधिकरणे शेषे षष्ठी स्यात् । पञ्चकृत्वोऽह्नो भोजनम् । द्विरहो भोजनम् । 'शेषे' किम् । द्विरहन्यध्ययनम् ।

६२३ । कर्तृकर्मणोः कृति । (२-३-६५)

कृद्योगे कर्तरि कर्मणि च षष्टी स्यात् । कृष्णस्य कृतिः । जगतः कर्ता कृष्ण: । 'गुणकर्मणि वेष्यते' (वा ५०४२) । नेता अश्वस्य स्रुघ्नस्य-स्रुघ्नं वा । 'कृति' किम् । तद्धिते मा भूत् । कृतपूर्वी कटम् ।


येषां ते कृत्वोऽर्थाः, तेषां प्रयोग इत्यर्थः । शेषे षष्ठीति । 'दिवस्तदर्थस्य' इत्यादिपूर्वसूत्रे विच्छिन्नमपि शेषग्रहणं मण्डूकप्लुत्या इहानुवर्तते, व्याख्यानात् । पञ्चकृत्वोऽह्नो भोजन मिति । पञ्चवारं वस्तुतः अधिकरणीभूतं यदहः तत्सम्वन्धि भोजनमित्यर्थः । “सङ्खयायाः क्रियाभ्यावृतिगणने कृत्वसुच्’ इह षष्ठयाशेषे पुनर्विधानान्न समासः । द्विरहन्यध्ययन मिति । 'द्वित्रिचतुर्भ्यस्सुच्' इति कृत्वोऽर्थे सुच् । अत्राधिकरणस्य विवक्षितत्वात्सप्तम्येव नतु षष्ठी । कर्तृकर्मणोः कृति ॥ कृत्प्रत्यये प्रयुज्यमाने सतीत्यर्थः । फलितमाह । कृद्योग इति । तत्र कर्तर्युदाहरति । कृष्णस्य कृतिरिति । भावे स्त्रियां क्तिन् । कृष्णकर्तृका सृष्टिरित्यर्थः । कर्मण्युदाहरति । जगत इति । जगत्कर्मकसृष्टयनुकूलव्यापारवानित्यर्थः । गुणकर्मणीति । कृदन्तद्विकर्मकधातुयोगे अप्रधानकर्मणि षष्ठीविकल्प इष्यत इत्यर्थः । प्रधानकर्मणि तु नित्यैव षष्ठी। “ अकथितञ्च' इत्यत्र भाष्ये स्थितमेतत् । नेता अश्वस्येति ॥ अकथितश्च' इत्यत्र ‘ग्राममजान्नयति' इत्युदाहरणे अजा प्रधानं कर्म, ग्रामस्तु गुणकर्मेति प्रपञ्चितं प्राक् । तद्रीत्या अत्र अश्वः प्रधानकर्म, स्रुयवघ्नस्तु गुणकर्मेति ज्ञेयम् । स्यादेतत् । कृतीति व्यर्थम् । नच तिड्व्यावृत्त्यर्थ तदिति वाच्यम् । ओदनं पचतीत्यादौ “न लोक' इति लादेशयोगे षष्ठी निषेधादेव षष्ठयभावसिद्धेः । शतेन क्रीतः शत्योऽश्वः, इत्यादौ तु तद्धितयत्प्रत्ययाभिहितत्वादेव अश्वादेः षष्ठी न भविष्यति । नच देवदत्तं हिरुगित्यादौ हिरुगाद्यवयवबोध्यवर्जनादिक्रियां प्रति कर्मत्वादनेन षष्ठी शङ्कया । “न लोकाव्यय' इति तन्निषेधात् । शेषत्वविवक्षायान्तु षष्ठयत्र इष्यत एव । एवञ्च परिशेषात् कृद्योग एवेयं षष्ठी पर्यवस्यतीति किं कृद्रहणेनेति पृच्छति । कृति किमिति । उत्तरमाह । तद्धिते इति । तद्धितयोगे षष्ठीनिवृत्त्यर्थमिति यावत् । कृतपूर्वी कटमिति । कटः पूर्व कृतः अनेनेति लौकिकविग्रहः । तत्र पूर्वमिति क्रिया विशेषणम् । 'सुप्सुपा' इति समासः । अनेनेत्यनुवृत्तौ कृतपूर्वशब्दात् “पूर्वादिनिः' 'सपूर्वाच इति इनिप्रत्ययस्तद्धितः । तत्र करोतिक्रियापेक्षया कटस्य कर्मत्वादनेन षष्ठीप्राप्तौ तद्धितयो-


१. अत्र च “अथेह कथं भवितव्यम्-नेता अश्वस्य स्त्रुघ्नम्-इति, आहोस्वित्-नेता अश्वस्य सुघ्नस्य-इति । “उभयथा गोणिकापुत्रः' इति 'अकथित-' (१-४-५१) सूत्रभाष्यमूलिक प्रधाने नियता षष्ठी गुणकर्मणि वेष्यते' इति शिष्टोक्तिरेव मानम् ।

विभक्तिप्रकरणम्]
४५३
बालमनोरमा ।

गान्न भवति । ननु कृत: कटः पूर्वमनेनेति विग्रहे कृतशब्दस्य पूर्वशब्देन समासो न सम्भवति । कृतशब्दस्य कटशव्दापेक्षत्वेन सामर्थ्यविरहात् । अत एव तद्धितः इनिप्रत्ययोऽपि दुर्लभः ।किञ्च कृत इति त्क्तप्रत्ययेन कटस्य कर्मणोऽभिहितत्वेन ततष्षष्ठयाः प्राप्तिरेव नास्तीति किं तन्निवृत्त्यर्थेन कृद्रहणेन । क्तप्रत्ययेन कृता अभिहितत्वादेव कटात् द्वितीया दुर्लभेति चेत् ,कृत अम् पूर्वं अम् इत्यलौफिकविग्रहवाक्ये कटस्यासन्निहिततया कर्मत्वेनान्वयासम्भवेन कृञ् धातोस्तदानीमकर्मकतया कर्मणि क्तप्रत्ययस्यासम्भवे सति “नपुंसके भावे क्तः' इति भावे क्तप्रत्यये कृते सति कृतशब्दस्य कटशब्दसापेक्षत्वाभावात् समासतद्धितौ निर्बाधौ । ततश्च कृतपूर्वीति तद्धितान्तस्य पूर्वं कृतवानित्यर्थः पर्यवस्यति । किं कृतवानिति कर्मजिज्ञासायां कटमित्यन्वति । गुणभूतयापि क्रियया कारकसम्बन्धस्य कटं कृतवानित्यादौ दर्शनात् । तञ्च कर्मत्वं न त्क्तप्रत्ययेनाभिहितम्, तस्य भावे विधानात् । नापीनिप्रत्ययेन । तस्य कर्तरि विधानात् । तथाच असति कृद्भहणे षष्ठी स्यात् । तन्निवृत्त्यर्थं कृद्रहणमिति भाष्ये स्पष्टम् । नच निष्ठायोगे निषेधादेवात्र षष्ठी न भविष्यतीति वाच्यम् । ‘नपुंसके क्ते भावे षष्ठया उपसङ्खयानम्' इति “क्तस्य च वर्तमान' इति सूत्रस्थवार्तिकेन निष्ठायोगे षष्ठीनिषेधस्यात्राप्रसक्तः। तथाच षष्ठयभावे उक्तरीत्या अनभिहितत्वात् द्वितीया सुलभैव । नच कृतेऽपि कृद्भहणे षष्ठी दुर्वारा । कृतेति क्तप्रत्ययात्मककृद्योगस्य सत्वादिति वाच्यम् । कृद्वहणसामर्थ्येन भाष्योदा हरणेन च वृत्त्यन्तर्भावानापन्नकृद्योगस्य विवक्षितत्वात् । प्रकृते च कृतेत्यस्य तद्धितवृत्त्यन्त र्भूतत्वान्न तद्योगष्षष्ठीनिमित्तम् । नचैव सति ओदनस्य पाचकतमः, ओदनस्य पाचकग्रहणम् इत्यादौ षष्ठी न स्यात्।वृत्यनन्तर्भूतकृद्योगाभावात् । तथाच ओदनं पाचकतमः ओदनं पाचकग्रहणम्, इति द्वितीयैव स्यादिति वाच्यम् । इष्टापत्तेः । अत एव मतुब धिकारे * प्रज्ञाश्रद्धार्चाभ्यो णः ? इत्यत्र 'प्राज्ञो व्याकरणम्’ इति उदाहरिष्यते मूलकृता । नचैवं घटः क्रियते इत्यत्रापि कर्मणो विवक्षाभावमाश्रित्य भावलकारे सति अनन्तरं घटस्य कर्मत्वेनान्वयसम्भवात् अनभिहितत्वात् द्वितीया दुर्वारेति वाच्यम् । वैषम्यात् । कृत पूर्वीत्यत्र हि अलौकिकविग्रहदशायां कटशब्दस्यासन्निधानात् कर्मणो विवक्षा न सम्भवतीति भावे क्तप्रत्यय इति युक्तमाश्रयितुम् । क्रियत इत्यत्र तु न सम्भवत्येवाविवक्षा । क्रत्तद्धित समासैकशेषसनाद्यन्तधातुरूपवृत्तिपञ्चकानन्तभूतत्वेन वृत्तिशून्यतया विग्रहाभावात्। तथा च वृत्तिविषय एवायं व्युत्पत्तिप्रकार इति प्राचीनमतानुसारी पन्थाः । शब्देन्दुशेखरे तु ओदनं पाचकतमः इत्यादौ द्वितीया असाधुरेव, षष्ठवेव साधुरिति प्रपञ्चितम् । विस्तरभयात्रेह तल्लि ख्यते । ननु भट्टिकाव्ये “ददैर्दुःखस्य मादृग्भ्यो धायैरामोदमुत्तमम् । लिंपैरिव तनोर्वातै श्वेतयस्यात् ज्वलो न कः ॥” इति श्लोकोऽस्ति । श्रीरामस्य विरहार्तस्य वाक्यमेतत् । अत्र दुःखस्येति तनोरिति च कर्मणि षष्ठी । मादृग्भ्यो दुःखं ददैर्ददद्भिः पुष्पादीनाम् आमोदं परिमळं धायैः पोषकैः तनोः तनुं शरीरं लिंपैः लिंपद्रिः कः चेतयः प्राणी ज्वलः ज्वलान्निव न स्यादि त्यर्थः । अत्रामोदस्योत्तमस्येति कर्मणि षष्ठया भाव्यम् । धायशब्दस्य पेोषणार्थकधाञ्धातोः

ददातिदधात्योः' इति णप्रत्ययात्मककृदन्तत्वादिति चेन्न । उत्तममामोदं पुष्पादीनां गृहीत्वा

४५४
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

६२४ । उभयप्राप्तौ कर्मणि । (२-३-६६

उभयोः प्राप्तिर्यस्मिन्कृति तत्र कर्मण्येव षष्ठी स्यात् । आश्चर्यो गवां दोहोऽगोपेन । “ स्त्रीप्रत्ययोरकाकारयोर्नायं नियमः' (वा १५१३) । भेदिका बिभित्सा वा रुद्रस्य जगतः । * शेषे विभाषा' (वा १५१३) । स्त्रीप्रत्यये इत्येके । विचित्रा जगत: कृतिर्हरे:-हरिणा वा । “ केचिदविशेषेण विभाषा मिच्छन्ति ' । शब्दानामनुशासनमाचार्येण—आचार्यस्य वा ।

६२५ । क्तस्य च वर्तमाने । (२-३-६७)

वर्तमानाथस्य रक्तस्य योग षष्ठं स्यात् । ' नलोक (सू ६२७) इति निषेधस्यापवादः । राज्ञां मतो बुद्धः पूजितो वा ।


दुःखस्य पोषकैरित्येवं गृहीत्वेत्यध्ध्याहृत्य तद्योगे द्वितीयाया उपपत्तेः । उभयप्राप्तौ कर्मणि ।। पूर्वसूत्रात् कृतीत्यनुवर्तते । उभयप्राप्ताविति बहुव्रीहिः । अन्यपदार्थः कृत् । तदाह । उभयोः प्राप्तिर्यस्मिन् कृतीति । एकस्मिन् कृति उभयोः कर्तृकर्मणोः षष्ठीप्रसक्तौ कर्मण्येव षष्टी स्यात्, नतु कर्तरीति यावत् । आश्चर्य इति । अगोपकर्तृकः गोकर्मक: यो दोहः स अद्भुत इत्यर्थः । उभयोः प्राप्ताविति षष्ठीसमासाश्रयणे तु ओदनस्य पाको ब्राह्मणानाञ्च प्रादु र्भाव इत्यत्रापि कर्मण्येव षष्ठी स्यान्न तु कर्तरि । बहुव्रीह्याश्रयणे तु एकस्यैव कृतो निमित्तत्व लाभात् भिन्नक्रियानिरूपितकर्तृकर्मणोः षष्ठीप्राप्तौ नायं नियम इति फलति । स्त्रीप्रत्यययो रिति ॥ वार्तिकमेतत् । “स्त्रियां क्तिन्’ इत्यधिकारविहितयोः अकाकारप्रत्यययोः कृतोः प्रयोगे कर्मण्येवेत्युक्तनियमो नास्तीत्यर्थः । कर्तर्यपि षष्ठी भवतीति फलितम् । भेदिकेति ॥ धात्वर्थनि र्देशे ण्वुल् । अकादेशः, टाप्, 'प्रत्ययस्थात्' इतीत्वम् । बिभित्सेति । भिदेस्सन्नन्तात् अ प्रत्ययात्' इत्यकारप्रत्ययः, टाप्। रुद्रकर्तृकं जगत्कर्मकं भेदनं, भेदनेच्छा वेत्यर्थः । शेषे विभाषेति । इदमपि वार्तिकम् । अकाकारप्रत्ययव्यतिरिक्तप्रत्यययोगे ‘उभयप्राप्तौ' इति नियमो विकल्प्यत इत्यर्थः । स्त्रीप्रत्यये इत्येके इति । उक्तो विकल्पः स्त्रीप्रत्यययोगे सत्येव भवतीति केचिन्मन्यन्ते इत्यर्थः । विचित्रेति । हरिकर्तृका जगत्कर्मिका कृति रित्यर्थः । केचिदविशेषेणेति । अकाकारभिन्नस्त्रीप्रत्यये अस्त्रीप्रत्यये च कृति प्रयुज्यमाने उत्क्तविकल्प इत्यर्थः । शब्दानामिति ॥ आचार्यकर्तृकं शब्दकर्मकमनुशासनमित्यर्थः । अनुशासनमसाधुभ्यो विवेचनम् । त्क्तस्य च वर्तमाने । ननु 'कर्तृकर्मणोः कृति ? इत्येव सिद्धे किमर्थमिदमित्यत आह । न लोकेति । राज्ञां मतो बुद्धः पूजितो वेति । मनुधातोः बुधधातोः पूजधातोश्च ‘मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने क्तप्रत्ययः । तत्र मतिरिच्छा । बुद्धेः पृथक् ग्रहणात् । राजकर्तृकवर्तमानेच्छाविषयः राजकर्तृकवर्तमानज्ञान विषयः राजकर्तृकवर्तमानपूजाश्रय इति क्रमेणार्थः । 'पूजितो यस्सुरासुरैः, ज्ञातो घटः

विभक्तिप्रकरणम्]
४५५
बालमनोरमा ।

६२६ । अधिकरणवाचिनश्च । (२-३-६८)

क्तस्य योगे षष्ठी स्यात् । इदमेषाभासितं शयितं गतं भुक्तं वा।

६२७ । न लोकाव्ययनिष्ठाखलर्थतृनाम् । (२-३-६९)

एषां प्रयोगे षष्ठं न स्यात् । लादेशः।कुर्वन्-कुर्वाणो वा सृष्टिं हरि: । उः । हरिं दिदृक्षुः-अलङ्करिष्णुर्वा । उकः । दैत्यान्धातुको हरिः । कमेरनिषेधः । (वा १५१९) । लक्ष्म्याः कामुको हरिः । अव्ययम्। जग-


इत्यत्र तु भूते क्तप्रत्ययेो बोध्यः । नच “मतिबुद्धि' इत्यनेन भूतक्तस्य बाधश्शङ्कयः । 'तेन' इत्यधिकारे उपज्ञात इति लिङ्गात् तदवाधज्ञापनादित्याहु । अधिकरणवाचिनश्च ॥ शेषपूरणेन सूत्रं व्याचष्टे । त्क्तस्य योगे षष्ठीति । शयितामिति ॥ शेतेऽस्मि न्निति शयितम् । “शीङ् स्वप्रे ' 'त्क्ताऽधिकरणे च ध्रौव्य' इति त्क्तप्रत्यय । तत्र एषा मिति कर्तरि षष्ठी । “न लोक' इति निषेधापवादः । भुजेस्तु प्रत्यवसानार्थकत्वात् अधिकरणे क्तप्रत्ययः । इदमेषां भुक्तमोदनस्य, इत्यत्र तु कर्तृकर्मणेोर्द्धयोरपि षष्ठी । “उभयप्राप्तौ' इति नियमस्तु न प्रवर्तते । मध्येऽपवादन्यायेन “कर्तृकर्मणोः कृति’ इति षष्ठया एव तन्नियमाभ्यु पगमात् । न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन्, एषा मित्यर्थः । उ, उक, इत्यत्र सवर्णदीर्घ सति ऊकेति भवति । ततः ल, ऊकेत्यत्र आद्रुणे लोकेति भवति । लादेश इति ॥ अविभक्तिकनिर्देशोऽयं लादेशेोदाहरणसूचनार्थः । ल इति लडादीनां सामान्येन ग्रहणम् । तेषाञ्च साक्षात्प्रयोगाभावात् तदादेशग्रहणमिति भावः । कुर्वन् कुर्वाणो वेति ॥ लटश्शतृशानचौ । इह कर्मणि षष्ठीनिषेधात् द्वितीया । उ इत्यु दाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति ॥ दृशेस्सन्नन्तात् “सनाशंसभिक्ष उ:’ इति उप्रत्ययः कृत् । व्यपदेशिवत्वेन उकारान्तोऽयं कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । अलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते । 'अलं कृञ्' इत्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति ॥ इदमपि तदुदाहरणसूचनार्थम् । दैत्यान् घातुको हरिरिति ॥ ‘आ क्वेस्तच्छीलतद्धर्म तत्साधुकारिषु' इत्यधिकारे “लषपतपदस्थाभूवृषहनकमगमशृभ्य उकञ्’ इति तच्छीलादिषु हनधातोः कर्तरि उकञ्प्रत्ययः, उपधावृद्धिः । “हो हन्तेः' इति हस्य घत्वम् । “हनस्तो ऽचिण्णलोः' इति नकारस्य तकारः । घातनशीलः घातनधर्मा घातनसाधुकारी वेत्यर्थः । कमेरिति । वार्तिकमिदम् । उकान्तकमेर्योगे षष्ठया निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति ॥ ‘लषपत’ इत्यादिना उकञ् । अव्ययमिति । उदाहरणसूचनमिदम् । जग त्सृष्टेति ॥ हरिरास्ते इति शेषः । “समानकर्तृकयोः' इति क्ताप्रत्ययः । “ त्का तोसुन्कसुनौ इति अव्ययत्वम् । सुखं कर्तुमिति ॥ भक्तस्य हरिः प्रभवतीति शेषः । 'तुमुन्वुलौ

क्रियायां क्रियार्थायाम्' इति तुमुन् । “कृन्मेजन्तः' इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्यते

४५६
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता

त्सृष्टा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान्हतवान्विष्णुः । खलर्था: । ईषत्करः प्रपञ्चो हरिणा । ' तृन्' इति प्रत्याहार । ' शतृशानचौ' इति तृशव्दादारभ्य तृनां नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् । द्विषः शतुर्वा' (वा १५२२) । मुरस्य-मुरं वा द्विषन् । ' सर्वोऽयं कारकषष्ठयाः प्रतिषेधः' । शेषे षष्टी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ।


इति केचित् । वस्तुतस्तु अविशेषात् अकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरणसूचनमिदम् । “क्तक्तवत् निष्ठा' । विष्णुना हता इति । अत्र भूते इति कर्मणि क्तः । कर्तरि षष्ठीनिषेधात्तृतीया । दैत्यान् हतवानिति ॥ भूते कर्तरि क्तवतुः । कर्मणि षष्ठीनिषेधात् द्वितीया । खलर्था इति । उदाहरणसूचनमिदम् । ईषत्कर इति ॥ 'ईषदुस्सुषु कृच्छ्राकृच्छ्रार्थेषु खल्’ इति कर्मणि खल् । अर्थग्रहणात् 'आतो युच्’ इति खलर्थको युजपि गृह्यते । ईषत्पानस्सोमो भवता । ननु तृन्नित्यनेन यदि तृनेव गृह्यत, तर्हि सोमं पवमान इत्यादौ निषेधो न स्यादित्यत आह । तृन्निति प्रत्याहारः इति । कुत आरभ्य किमन्तानामित्यत आह । शातृशानचाविति तृशाब्दादारभ्य तृनो नकारादिति ॥ लटश्शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशव्दः, तत आरभ्य “तृन् इति सूत्रस्थनकारपर्यन्तानामित्यर्थः । “लटशतृशानचवावप्रथमासमानाधिकरणे, सम्बोधने च तौ सत्, पूङ्यजोश्शानन्, ताच्छील्यवयोवचनशक्तिषु चानश्, इङ्धायोश्शत्रकृच्छ्राणि, द्विषो ऽमित्रे, सुञो यज्ञसंयोगे, अर्हः प्रशंसायाम्, आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु, तृन्’ इति सूत्रक्रमः । अत्र शानन्नादितृन्नन्तानां ग्रहणम्, नतु “लटश्शतृ' इति तृशब्दस्यापि शत्रादेशैक देशस्य । तस्य क्वापि पृथक् प्रयोगानर्हत्वात् । नापि शानचः । लादेशत्वादेव सिद्धेः इति स्थितिः । शानन्निति ॥ उदाहरणसूचनमिदम् । सोमं पवमान इति ॥ 'पूड्यजोश्शानन्” । आत्मानं मण्डयमान इति । “मडि भूषायाम्' 'ताच्छील्यवयोवचन' इति चानश् । शतृ इति ॥ उदाहरणसूचनमिदम् । वेदमधीयन्निति इङ्धार्थोः' इति शतृप्रत्यय तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति ॥ तृन्निति सूत्रेण तच्छीलादिषु तृन्प्रत्ययः । शानन्नादितृन्नन्तानां लादेशत्वाभावात् प्रत्याहाराश्रयणमिति बोध्यम् । द्विष श्शतुर्वेति ॥ शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति ॥ ‘द्विषोऽमित्रे' इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषधे प्राप्त विकल्पोऽयम् । सर्वोऽयमिति । “ अनन्तरस्य’ इति न्यायादिति भावः । शेषे पष्टी त्विति ॥ शाब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः । ब्राह्मणस्य कुर्वन्निति ॥ हविरिति शेषः । लटशत्रादशः । मुखतो ब्राह्मणसम्बन्धिसृष्टयनुकूलव्यापारवानित्यर्थः । कर्मत्वविवक्षायान्तु द्वितीयैव । नरकस्य जिष्णुरिति ॥ 'ग्लाजिस्थश्च ग्स्नुः' इति

तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसम्बन्धिजयवानित्यर्थः । कर्मत्वविवक्षायान्तु द्वितीयैव ।

विभक्तिप्रकरणम्]
४५७
बालमनोरमा ।

६२८ । अकेनोर्भविष्यदाधमर्ण्ययोः । (२-३-७०)

भविष्यत्यकस्य भविष्यदाधमर्ण्यार्थेनश्च योगे षष्ठी न स्यात् । सत पालकोऽवतरति । व्रजं गामी । शतं दायी

६२९ । कृत्यानां कर्तरि वा । (२-३-७१)

षष्टी वा स्यात् । मया—मम वा सेव्यो हरिः । 'कर्तरि ' इति किम् गेयो माणवकः साम्राम् (सू २८९४) इति कर्तरि यद्वि धानादनभिहितं कर्म। अत्र योगो विभज्यते। कृत्यानाम्’ 'उभयप्राप्तौ


अकेनोर्भविष्य ॥ नेत्यनुवर्तते अकश्च इन् च तयोरिति विग्रहः। भविष्यञ्च आधमर्ण्यञ्च तयोरिति द्वन्द्व यथासङ्खयं नेष्यते, भाप्यात् । भविष्यति आधमण्यें च वर्तमानयोः योगे षष्ठी नेति फलितम् । तत्र आधमण्यांशः अकेन नान्वेति ।आवश्यकाधमर्ण्येयोणैिनि इत्युक्त्तेः । अतः भविष्यदंश एवाके अन्वेति । इनेस्तु भविष्वदाधमर्ण्ययोरुभयोरप्यन्वयः। सम्भवात् । तदाह । भविष्यत्यकस्येति ॥ भविष्यदाधमर्ण्यर्थेनश्चेति ॥ भविष्यदर्थ कस्य आधमर्ण्यार्थकस्य चेन इत्यर्थः । सतः पालकः इति । सज्जनान् पालयिष्यन् हरिः प्रादुर्भवतीत्यर्थः। तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्' इति भविष्यति ण्वुल् । तत्र “भविष्यति गम्यादयः' इत्यतः भविष्यतीत्यनुवृत्तेः । ओदनस्य पाचकः इत्यत्र तु न षष्ठीनिषेधः । ‘ण्वुल्तृचौ इत्यस्य भविष्यति विधानाभावात् । व्रजं गामीति॥ गमेरिनिः' इत्यौणादिक इनिः । स च भविष्यति विहितः। भविष्यति गम्यादयः' इत्युक्त्तेः । गोष्ठं गमिष्यन्नित्यर्थः । शतं दायी ति ॥ ऋणत्वेन गृहीतं शतमृणं प्रत्यर्पयतीत्यर्थः। आवश्यकाधमर्ण्येोर्णिनिः' इत्याधमर्ण्यें णिनिः । तस्य भविष्यति विधानाभावात् भविष्यदर्थकतया गतार्थत्वं न शङ्कयम् । कृत्यानाम् शेषपूरणेन सूत्रं व्याचष्टे। षष्ठी वा स्यादिति ॥ कृत्या इत्यधिकृत्य विहिताः कतिपयकृत्प्रत्यय विशेषाः, तद्योगे कर्तरि षष्ठी वा स्यादित्यर्थः । 'कर्तृकर्मणोः' इति नित्यं प्राप्त विकल्पोऽयम् मया मम वा सेव्यो हरिरिति ॥ ‘षेवृ सेवायाम्’ ‘ऋहलोर्ण्यत्’ इति कर्मणि ण्यत्प्रत्यय अस्मच्छब्दार्थस्य कर्तुः अनभिहितत्वात् षष्ठीतृतीये । गेय इति ॥ नन्विह साम्नः। कर्मत्वस्य अचो यत्' इति यत्प्रत्ययाभिहितत्वात् कथं षष्ठीप्रसक्तिरित्यत आह । भव्येति ॥ ननु नेतव्या व्रजं गावः कृष्णेन' इत्यत्र कृत्यसंज्ञकतव्यप्रत्ययय योगात् उभयप्राप्तौ' इति बाधित्वा कृष्णात् षष्ठीविकल्पस्यात्, व्रजात्तु ‘कर्तृकर्मणोः कृति' इति नित्यं षष्ठी स्यादित्यत आह अत्र योगो विभज्यते इति । विभागप्रकारं दर्शयति । कृत्यानामिति । अनुवर्तते इति तथाच कृत्ययोगे कर्तृकर्मणोरुभयोः प्रसक्ता षष्ठी नेत्यर्थः फलति । नेतव्या व्रजमिति गुणकर्मणि वेष्यते' इति व्रजद्विकल्पस्तु न भवति । नेता अश्वस्य स्नुघ्नस्य स्नुघ्रं वेति उभयप्राप्तिरहिते कृत्यव्यतिरिक्ते चरितार्थस्य 'दोग्धव्याः गाः पयः कृष्णेन' इत्यादौ गुणकर्मणः

58

४५८
[कारके षष्ठी
सिद्धान्तकौमुदीसहिता


इति ' न' इति चानुवर्तते । तेन नेतव्या व्रजं गावः कृष्णेन । तत: ' कर्तरि वा' उत्क्तोऽर्थ ।

६३० । तुल्यार्थरतुलोपमाभ्यां तृतीयान्यतरस्याम् । (२-३-७२)

तुल्यार्थैयोंगे तृतीया वा स्यात्पक्षे षष्टी । तुल्यः सट्शः समा वा कृष्णस्य कृष्णेन वा । अतुलोपमाभ्यां किम् । तुला उपमा वा कृष्णस्य नास्ति ।

६३१ । चपुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः । (२-३-७३)

एतद्थैर्योगे चतुर्थी वा स्यात्पक्षे षष्ठी । आशिषि, आयुष्यं चिरजीवि तं कृष्णाय-कृष्णस्य वा भूयात् । एवं मद्रं भद्रं कुशलं निरामयं सुखं शम् अर्थ: प्रयोजवं हितं पथ्यं वा भूयात् । 'आशिषि' किम् । देवदत्त स्यायुष्यमस्ति । व्याख्यानात्सर्वत्रार्थग्रहणम् । मद्रभद्रयाः पयायत्वादन्य तरो न पठनीयः ॥

इति षष्ठी विभक्तिः ।


उक्तत्वेन प्रधानकर्मणि चरितार्थेनानेन परत्वात् बाधात् । ततः कर्तरि वेति ॥ 'कृत्यानाम् इति सूत्रप्रणयनानन्तरं कर्तरि वेति पृथक् प्रणेतव्यमित्यर्थः । उक्तोऽर्थः इति ॥ ‘कृत्यानाम् इत्यनुवर्त्य कृत्ययोगे कर्तरि षष्ठी वा स्यादिति व्याख्येयमित्यर्थः । अनुभयप्राप्तिविषये मया मम वा सेव्यो हरिरित्यादाविदमवतिष्ठते । अथोपपदविभक्तयः । तुल्यार्थैः ॥ शेषष्ठयां नित्यं प्राप्तायां तृतीयाविकल्पोऽयम् । तुल्यैरिति बहुवचनादेव पर्यायग्रहणे सिद्धे अर्थग्रहणं पदान्तर निरपेक्षश्चेत्तुल्यार्थस्तेषां ग्रहणार्थम् । तेन गौरिव गवय इत्यादौ नेत्याहुः । अतुलोपमाभ्या मिति पर्युदासात् अनव्यययोग एवेदमित्यन्ये । चतुर्थी च ॥ एतदर्थैरिति ॥ आयुष्य मद्र, भद्र, कुशल, सुख, अर्थ,हित, एतदर्थकैरित्यर्थः । पक्षे षष्ठीति ॥ चकारेण तत्स मुचयावगमादिति भावः । आयुष्यपर्यायश्चिरञ्जीवितामिति । कुशलं निरामयमिति मद्रभद्रपर्यायौ । शमिति सुखपर्यायः। प्रयोजनमित्यर्थपर्यायः । पथ्यमिति हितपर्यायः । ‘हितयोगे च' इति नित्य चतुर्थी तु नाशिषि ज्ञेया। ननु “स्वं रूपम्’ इति परिभाषया आयुष्यादिशब्दानामेव ग्रहणमुचित मित्यत आह । व्याख्यानादिति ॥ ननु मद्रभद्रयोः पृथग्ग्रहणादेतदर्थैरिति व्याख्यान मयुक्तमित्यत आह । मद्रभद्रयोरिति ॥

इति षष्ठी विभक्तिः ।


विभक्तिप्रकरणम्]
४५९
बालमनोरमा ।

अथ सप्तमी विभक्तिः

६३२ । आधारोऽधिकरणम् । (१-४-४५)

कर्तृकर्मद्वारा तन्निष्टक्रियाया आधारः कारकमधिकरणसंज्ञः स्यान् ।

६३३ । सप्तम्यधिकरणे च । (२-३-३६)

अधिकरणे सप्तमी स्यात्, चकारादूरान्तिकार्थेभ्यः । औपश्लेषिको वैषयिकोऽभिव्यापकश्रेत्याधारस्त्रिधा । कटे आास्ते । स्थाल्यां पचति । मोक्षे इच्छास्तिं । सर्वस्मिन्नात्मास्ति । वनस्य दूरे अन्तिके वा । दूरान्ति कार्थेभ्यः-(सू ६०५) इति विभक्तित्रयेण सह चतस्रोऽत्र विभक्तयः


अथ सप्तमी विभक्तिः—आधारोऽधिकरणम् ॥ कारके इत्यधिकृतं प्रथमान्त तया विपरिणम्यते, तच्च आधारस्य विशेषणम्, आधारः कारकमधिकरणमिति लभ्यते । क्रियान्वयि कारकम् । एवञ्च कस्याधार इत्याकाङ्क्षायाम् उपस्थितत्वात् क्रियाया इति लभ्यते । क्रिया च कर्तृकर्मगता विवक्षिता । तदाधारत्वञ्च न साक्षात्, किन्तु कर्तृकर्मद्वारैव । व्याख्या नात् । तदाह । कर्तृकर्मद्वारेति ॥ तन्निष्ठेति कर्तृकर्मनिष्ठत्यर्थः । सप्तम्यधिकरणे च ॥ चकारादूरेति ॥ “दूरान्तिकार्थेभ्यो द्वितीया च' इति पूर्वसूत्रात् दूरान्तिकार्थेभ्य इत्यस्य चकारेणानुकर्षणादिति भावः । औपञ्श्लेषिक इति ॥ उपश्लेषस्संयोगादिसम्बन्धः । तत्प्रयोज्य आधारः प्रथम इत्यर्थः । वैषयिक इति ॥ विषयतासम्बन्धकृत आधारः द्वितीय इत्यर्थः । अभिव्यापक इति । सकलावयवव्याप्तिकृत आधारस्तृतीय इत्यर्थः । तत्र औपश्लेषिकं कर्तृद्वारकमाधारमुदाहरति । कटे आस्ते इति ॥ देवदत्त इति शेषः । तत्र साक्षाद्देवदत्ता त्मककर्तृगतामासनक्रियां प्रति कटस्य संयोगसम्बन्धं पुरस्कृत्य देवदत्तद्वारा तदाधारत्वादधिकरण त्वम् । अथ कर्मद्वारकमौपश्लेषिकमाधारमुदाहरति । स्थाल्यां पचतीति ॥ तण्डुलानिति शेषः । अत्र साक्षात्तण्डुलात्मककर्मगतां पाकक्रियां प्रति स्थाल्यास्संयोगसम्बन्धं पुरस्कृत्य तण्डुलद्वारा आधारत्वादधिकरणत्वम् । रूपे रूपत्वमस्ति, शरीरे चेष्टास्तीत्यादौ समवायेन औप श्लेषिकमाधारत्वमित्यादि ज्ञेयम् । अथ वैषयिकमाधारमुदाहरति । मोक्षे इच्छास्तीति अत्र कर्तृभूतेच्छागतां सत्ताक्रियां प्रति मोक्षस्य विषयतासम्बन्धपुरस्कारेण इच्छाधिरत्वादधि करणत्वम् । अथाभिव्यापकमाधारमुदाहरति । सर्वस्मिन्नात्मास्तीति । अत्र आत्मरूप कर्तृगतां सत्ताक्रियां प्रति कृत्स्नव्यातिं पुरस्कृत्य आत्मद्वारा सत्ताधारत्वात्सर्वस्याधिकरणत्वम् । अथ चकारानुकृष्टदूरान्तिकार्थेभ्यः उदाहरति । वनस्य दूरे अन्तिके वेति ॥ दूरमन्तिक मित्यर्थः । प्रातिपदिकार्थमात्रे विधिरयम् । विभक्तित्रयेणेति ॥ द्वितीयापञ्चमीतृतीयाभि रित्यर्थः। वस्तुतस्तु उप समीपे श्लेषः सम्बन्धः तत्कृतमौपश्लेषिकमिति व्युत्पत्त्या सामीपिकमेवा

धारत्वमौपश्लेषिकम् । “अत एव अधिकरणन्नाम त्रिप्रकारम् । व्यापकमौपश्लेषिकं वैषयिकमिति

४६०
[कारके सप्तमी
सिद्धान्तकौमुदीसहिता

फलिताः । ' क्तस्येन्विषयस्य कर्मण्युपसंख्यानम्’ (वा १४८५) । अधीती व्याकरणे । अधीतमनेनेति विग्रहे । इष्टादिभ्यश्च' (सू १८८८) इति कर्तरीनिः । 'साध्वसाधुप्रयोगे च' (वा १४८६) । साधुः कृष्णो मातरि असाधुर्मातुले । 'निमित्तात्कर्मयोगे' (वा १४९०) । निमित्तमिह फलम् । योगः संयोगसमवायात्मकः ।



शब्दस्य तु शब्देन कोऽन्योऽभिसम्बन्धो भवितुमर्हति अन्यदत उपश्लेषात् । “इको यणचि अच्युपश्लिष्टस्य' इति संहितायाम् इत्यत्रभाष्यं सङ्गच्छते। अच्युपश्लिष्टस्य अच्समीपोच्चारितस्येत्यर्थ इति कैयटः । अत एव मासेऽतिक्रान्ते दीयत इत्यत्र मास औपश्लेषिकमधिकरणमिति ‘तत्र च दयिते कार्ये भववत्' इत्यत्र भाष्यं सङ्गच्छते । अत एव च * तदस्मिन्नधिकम् इति दशान्ताङ्कः' इत्यत्र एकादश माषा अधिका अस्मिन् कार्षापणशते इत्यत्राधिकानां एकादशानां कथं शतमधिकरण मित्याक्षिप्य व्यापकवैषयिकाधिकरणासम्भवात् औपश्लेषिकमधिकरणं विज्ञायत इति भाष्ये सङ्ग च्छते । एवञ्च “कटे आस्ते' इत्यादौ औपश्लेषिकाधारोदाहरणम्मूलेोक्तमनुपपन्नमेव । उक्तभाष्य विरोधात् । एवञ्च “कटे आस्ते' इत्यादौ एकदेशव्याप्तया गौणमभिव्यापकाधारत्वम् । सर्वा वयवव्याप्तिकृताधिकरणत्वमेव मुख्यम्, वैषयिकमौपश्लेषिकञ्च गौणमित्यर्थस्य भाष्यसम्मतत्वात् । अत एव ‘स्वरितेनाधिकारः’ इति सूत्रे “साधकतमं करणम्' इति सूत्रे च भाष्ये “अधिकरण माचार्यः किं मन्यते ? यत्र कृत्स्रमाधारात्माव्याप्तो भवति, तर्हि इहैव सप्तमी स्यात्, “तिलेषु तैलं, दध्नि सर्पिः इति ‘गङ्गायां घोषः, कूपे गर्गकुलम्’ इत्यत्र तु न स्यात्। मुख्य एव कार्यसम्प्रत्यया दित्याशङ्कय स्वरितेनाधिकं कार्यं भवतीति वचनात् तमब्ग्रहणाञ्च न दोषः” इति समाहितम् । एवश्च ‘कटे आस्ते, गङ्गायां घोषः' इत्यादौ गौणमप्यधिकरणं सप्तम्यर्थ एव । यदि तु 'गङ्गायां घोषः' इत्यादी सामीपिकं अधिकरणत्वन्न विवक्ष्यते तदा लक्षणेति बोध्द्यम् । विस्तरस्तु शब्देन्दुशेखरे द्रष्टव्यः । क्तस्येन्विषयस्येति । न च “कृतपूर्वी कटम्' इत्यत्रापि सप्तमी शङ्कया । इन्प्रत्ययान्तः यः क्तप्रत्ययान्तः तस्य कर्मणांत्यर्थाभ्युपगमात् कर्तरीनिरिति । भावक्तान्तात् अधीतशब्दात् कर्तरीनिप्रत्यये कृते अधीतीत्यस्याधीतवा नित्यर्थः पर्यवस्यति । किम् अधीतवानिति कर्मविशेषजिज्ञासायां व्याकरणम् अध्द्ययने कर्मत्वे नान्वेति । तच्च व्याकरणकर्मत्वन्न केनाप्यभिहितमिति कृतपूर्वी कटम्, इतिवत् द्वितीयायां प्राप्ता यामनेन सप्तमीति भावः । साध्वसाधुप्रयोगे चेति ॥ सप्तमी वक्तव्येति शेषः । साधु

रिति ॥ हितकारीत्यर्थः । असाधुरिति । अहितकारीत्यर्थ । उभयत्र शेषषष्ठयपवादः । साधुनिपुणाभ्यामर्चायाम्' इत्येव सिद्धे इह साधुग्रहणमनर्चार्थम् । यथा साधुर्भूत्यो राजनि । इह तत्त्वकथने तात्पर्यम् । साधुनिपुणाभ्यामित्यत्र साधुग्रहणस्य प्रयोजनं वक्ष्यते । निमि त्तादिति ॥ कर्मयोगे हेतुवाचकाच्छब्दात् सप्तमी वाच्येत्यर्थः । ननु * जाडयेन बद्धः' इत्यत्रापि सप्तमी स्यादित्यत आह । निमित्तमिह फलमिति ॥ फलमेवेत्यर्थः । इष्टसाधनताज्ञानस्य

प्रवर्तकतया फलस्यापि हेतुत्वं बोध्यम् । जन्यजनकत्वादिसम्बन्धं व्यावर्तयितुमाह । योगः

विभक्तिप्रकरणम्]
४६१
बालमनोरमा ।

'चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् ।

केशेषु चमरीं हन्ति सीम्नि पुष्कलको हतः ।।' [इति भाष्यम् ।]

हेतौ तृतीयात्र प्राप्ता । सीमा अण्डकोशः। पुष्कलको गन्धमृगः । “योगविशेषे किम् । वेतनेन धान्यं लुनाति ।

६३४ । यस्य च भावेन भावलक्षणम् । (२-३-३७)

यस्य क्रियया क्रियान्तरं लक्ष्यते ततः सप्तमी स्यात् । गोषु टुह्यमा नासु गतः । “ अर्हणां कर्तृत्वेऽनहणामकर्तृत्वे तद्वैपरीत्ये च' (वा १४८७ १४८८) । सत्सु तरत्सु असन्त आसते । असत्सु तिष्ठत्सु सन्तस्तरान्ति । सत्सु तिष्ठत्सु असन्तस्तरन्ति । असत्सु तरत्सु सन्तस्तिष्ठन्ति ।


संयोगस्तमवायात्मक इति ॥ अयुतसिद्धयोस्सम्बन्धस्समवायः । अन्ययोस्तु संयोगः । चर्मणीति ॥ चर्मार्थ व्याघ्र हन्तीत्यर्थः । अत्र द्वीपिना कर्मणा चर्मणः समवाय एव । अवयवावयविनोरयुतासिद्धत्वात् । दन्तयोरिति । दन्तार्थमित्यर्थः । अत्र कुञ्जरेण कर्मणा दन्तयोस्समवाय एव । केशेष्विति ॥ केशार्थमित्यर्थः । चमरी मृगविशेषः । सीम्नीति ॥ सीमार्थमित्यर्थः । हेतुतृतीया प्रातेति ॥ तादर्थ्यचतुर्थ्यपीति बोध्द्यम् । सीमा अण्डवकोशः इति ॥ “सामा घट्टस्थितिक्षेत्रेष्वण्डकोशेषु च स्त्रियाम्” इति मेदिनी । पुष्कलको गन्धमृगः इति ॥ “अथ पुष्कलको गन्धमृगे क्षेपणकीलयोः” इति मेदिनी । अत्रापि पुष्कलकेन कर्मणा सीम्नस्समवाय एव । हरदत्तस्तु सीमा ग्रामादिमर्यादा । तस्या ज्ञानार्थ पुष्कलकश्शङ्कर्हतः निखात इति व्याचष्ट । अत्र पुष्कलकेन कर्मणा सीम्नस्संयोगो बोध्यः । वेतनेनेति । अत्र वेतनं भृतिद्रव्यम्, तदर्थमित्यर्थः । अत्र वेतनस्य लूयमानस्य धान्यस्य च तादर्थ्यमेव सम्बन्धः, नतु संयोगः, नापि समवायः, इति भावः । यस्य च ॥ भावशब्दौ क्रियापर्यायावित्यभिप्रेत्य व्याचष्टे । यस्य क्रिययेति ॥ क्रिया च कर्त्राश्रया कर्माश्रया च । तत्र कर्माश्रयमुदाहरति । गोष्विति ॥ देवदत्तः कदा गत इति प्रश्रे उत्तरमिदम् । अत्र लक्षकत्वसम्बन्धे सप्तमी । शेषषष्ठयपवादः । वर्तमानदोहनविशिष्टाभिर्गोभिज्ञप्यगमनवानि त्यर्थः । अत्र दोहनक्रियायाः साक्षाल्लक्षकता । गवान्तु तदाश्रयतया । ततश्च गोदोहनदशायां गत इत्युत्तरं पर्यवस्यति । दुग्धासु गत इत्यत्र तु अतीतदोहनविशिष्टाभिः गोभिर्ज्ञाप्यमानगमनवा नित्यर्थः । गोदोहोत्तरकाले गत इति फलितम्। कर्तृगतक्रियायास्तु ब्राह्मणेष्वधीयानेषु गत इत्युदा हार्यम् । अत्र यदवश्यं .पुनः पुनर्लक्ष्यज्ञापकं तदेव न लक्षणम् । किन्तु सकृत् ज्ञापकमपि । यथा । यं कमण्डलुपाणिं भवानद्राक्षीत् स च्छात्र इति । यद्यपि सकृदसा कमण्डलुपाणिर्दष्टः । तथापि तस्य कमण्डलुर्लक्षणं भवल्येवेति प्रकृतसूत्रे भाष्ये स्पष्टम् । 'उदिते आदित्ये जुहोति इत्यत्र तु सामीपिकमाधकरणत्वं सप्तम्यर्थः उदितादित्यसमीपकाल इत्यर्थः । आदित्योदयो

त्तरसमीपकाल इति पर्यवसन्नोऽर्थः । “उपरागे स्रायात्' इत्यत्र तु उपरागपदेन उपरागाश्रय

४६२
[कारके सप्तमी
सिद्धान्तकौमुदीसहिता

६३५ । षष्ठी चानादरे । (२-३-३८)

अनादराधिके भावलक्षणे षष्ठीसप्तम्यौ स्तः । रुदात रुदता वा प्राब्राजीत् । रुदन्तं पुत्रादिकमनादृत्य संन्यस्तवानित्यर्थः ।

६३६ । स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च । (२-३-३९)

एतैः सप्तभिर्योगे षष्ठीसप्तम्यौ स्तः । षष्टयामेव प्राप्तायां पाक्षिक सप्तम्यर्थं वचनम् । गवां-गोषु वा स्वामी । गवां-गोषु वा प्रसूतः । गा एवानुभवितुं जात इत्यर्थः ।

६३७ । आयुक्तकुशलाभ्यां चासेवायाम् । (२-३-४०)

आभ्यांयोगे षष्ठीसप्तम्यौ स्तस्तात्पर्येऽर्थे। आयुक्तो व्यापारितः । आयुक्तः कुशलो वा हरिपूजने-हरिपूजनस्य वा । “ आसेवायाम्' किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः ।


कालो लक्ष्यत इत्यधिकरणसप्तम्यवत्यन्यत्र विस्तरः। षष्ठी चानादरे ॥ चात्सप्तमीत्यनुकृष्यते । अनादरे इति विषयसप्तमी । 'यस्य च' इति पूर्वसूत्रमनुवर्तते । अनादरे गम्यमाने सति यस्य क्रियया क्रियान्तरं लक्ष्यते ततः षष्ठी सप्तमी चेत्यर्थः । फलितमाह । अनादराधिके इति ॥ अनादरो अधिको यस्मादिति विग्रहः । रुदति रुदत इति ॥ कदा सन्नयस्तवानिति प्रश्रे उत्तरमिदम् । अत्र लक्षकत्वं षष्ठीसप्तम्योरर्थः । अनादरविशिष्टं प्रव्रजनं धात्वर्थः । षष्ठी सप्तम्यौ तात्पर्यग्राहिके । अनादरश्च लक्षकक्रियाश्रयपुत्रादिविवयः । वर्तमानरोदनक्रियाविशिष्ट पुत्रादिज्ञाप्यं प्रव्रजनमित्यर्थः । फलितमाह । रुदन्तं पुत्रादिकमिति ॥ स्वामीश्वर ॥ षष्ठी सप्तम्याविति । चकारेण तदुभयानुकर्षणादिति भावः । ननु शेषषष्ठयैव सिद्धे किमर्थमिह षष्ठीविधानामित्यत आह । षष्ठयामेवेति ॥ गवां गोषु वेति ॥ गोसम्बन्धीत्यर्थः । गवां गोषु वा ईश्वरः । गवां गोषु वा अधिपतिः । गवां गोषु वा दायादः । पुत्रादिभिर्ग्रहीतुं योग्यः पित्राद्यार्जितधनांशो दायः । तमादत्ते इति दायादः। 'आतश्चोपसर्गे' इति उपसर्ग अङ्विधौ ग्रहणे सत्यपि अत एव निपातनात् कः । गोसम्बन्धिदायाद इत्यर्थः । गवाञ्च दाये अन्वयः । नित्यसाकाङ्क्षत्वादृत्तिः । गवात्मकस्यांशस्य आदातेति फलितोऽर्थः । “यस्मादाधिकम्' इति सूत्रभाष्ये तु दायादशब्दः स्वामिपर्याय इति स्थितम् । गवां गोषु वा प्रसूत इति ॥ गोसम्बन्धीत्यर्थः । सम्बन्धश्च भोक्तृत्वरूपः । तदाह । गा एवेति ॥ एवशब्दात् महिषादि व्यावृत्तिः। आयुक्त ॥ आसेवापदं व्याचष्टे । तात्पर्ये इति ॥ औत्सुक्ये इत्यर्थः । 'तत्परे प्रसि तासक्ताविष्टार्थोद्युक्त उत्सुकः' इत्यमरः । आयुक्तपदं व्याचष्टे। व्यापारित इति ॥प्रवर्तित इत्यर्थः। आयुक्तः कुशलो वेति ॥ हरिपूजनविषये आयुक्तः प्रवर्तित इत्यर्थः। अत्र वैषयिकाधिकरणत्व

विवक्षायां सप्तम्यामेव प्राप्तायां सम्बन्धमात्रविवक्षायां तु षष्ठयामेव प्राप्तायां वचनम्। आयुक्तो

विभक्तिप्रकरणम्]
४६३
बालमनोरमा ।

६३८ । यतश्च निर्धारणम् । (२-३-४१)

जातिगुणक्रियासंज्ञाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणं यत स्ततः षष्ठीसप्तम्यौ स्तः । नृणां-नृषु वा ब्राह्मणः श्रेष्ठः । गावा-गोषु वा कृष्णा बहुक्षीरा। गच्छतां-गच्छत्सु वा धावञ्छीघ्रः । छात्राणां-छात्रेषु वा मैत्रः पटुः।

६३९ । पञ्चमी विभक्ते । (२-३-४२)

विभागो विभक्त निर्धार्यमाणस्य यत्र भेद एव तत्र पश्चमी स्यात् । माधुराः पाटलिपुत्रकेभ्य आढ्यतराः ।

६४० । साधुनिपुणाभ्यामचर्चायां सप्तम्यप्रतेः । (२-३-४३)


गौरिति । आडीषदर्थे । ‘युजिर्योगे' । तदाह । ईषद्युक्त इत्यर्थ इति । यतश्च निर्धा रणम् ॥ जातिगुणेति । यत इति तत इति च पञ्चम्यर्थे तसिः । यस्मात्समुदायात् एक देशस्य जातिगुणक्रियासंज्ञाभिः पृथक्करणं स्वेतरव्यावृत्तधर्मविशेषवत्त्वबोधनं निर्धारणशब्दवाच्यं गम्यते तस्मात् षष्ठीसप्तम्यावित्यर्थः । अत्र स्वशब्देन एकदेश उच्यते । तत्र जात्या पृथक्करण मुदाहरति । नृणां नृषु वेति ॥ नृशब्दो मनुष्यसमुदाये वर्तते । उदभूतावयवभेदविवक्षायां बहुवचनम् । द्विज इति तु जात्यभिप्रायमेकवचनम् । षष्ठीसप्तम्योः अवयवावयविभावस्सम्बन्धो ऽर्थः उदाहृतनिर्धारणविषयत्वरूपश्च । ततश्च मनुष्यसमुदायैकदेशभूतो द्विजः स्वेतरव्यावृत्तश्रेष्ठय रूपधर्मक इत्यर्थः । गुणेन पृथकरणमुदाहरति । गवां गोषु वेति । गोसमुदायैकदेशभूता कृष्णा गौः स्वेतरव्यावृत्तबहुक्षीरत्वरूपधर्मिकेत्यर्थ । क्रियया पृथकरणमुदाहरति । गच्छतां गच्छत्सु वेति ॥ गच्छत्समुदायैकदेशभूतो धावन् स्वेतरव्यावृत्तशैघ्रयधर्मक इत्यर्थः । संज्ञया पृथकरणमुदाहरति । छात्राणामिति ॥ छात्रसमुदायेकदेशभूतो मैत्रनामा स्वेतर व्यावृत्तपटुत्वधर्मक इत्यर्थः । पञ्चमी विभक्त्ते ॥ विभागो विभक्तमिति ॥ भावे क्तप्रत्ययाश्रयणादिति भावः । “यतश्च निर्धारणम्' इत्यनुवर्तते । निर्धारणावधिभूतानां मनुष्या दीनां निर्धार्यमाणानां द्विजातीनाञ्च सामान्यात्मना अभेदो विशेषात्मना भेदश्च स्थितः । एवञ्च निर्धारणे सर्वत्र कथञ्चिद्भेदस्य सत्त्वात् विभक्त इत्यनेन भेद एवेत्यर्थो विवक्षितः । ततश्च यत्र निर्धारणावधेर्निर्धार्यमाणस्य च भेद एव, नतु केनाप्युपात्तरूपेण अभेदः, तत्रैवास्य प्रवृत्तिरित्य भिप्रेत्य आह । निर्धार्यमाणस्येति । निर्धारणावधेरिति शेषः । 'यतश्च निर्धारणम् । इत्यनुवृत्तेः । अत्रावधिव्यावृत्तधर्मवत्वबोधनमेव, नतु समुदायादेकदेशस्येत्यंशो विवक्षितः । असम्भवादित्यभिप्रेत्योदाहरति । माधुरा इति ॥ अवधित्वं पञ्चम्यर्थः । मधुरादेशीया पाटलीपुत्रकदेशीयापेक्षया अतिशयनाढ्या इत्यर्थः । अत्र मधुरादेशीयत्वपाटलीपुत्रकदेशी यत्वयोः गोत्वाश्चत्ववद्विरोधात् कथञ्चिदपि तदूपेण नाभेद इति निर्धारणावधेः पञ्चमीति भावः ।

साधुनिपुणाभ्याम् ॥ शेषषष्ठयपवादः । मातरि साधुरिति ॥ हितकारीत्यर्थः ।

४६४
[कारके सप्तमी
सिद्धान्तकौमुदीसहिता

आभ्यां योगे सप्तमी स्यादर्चायाम्, नतु प्रतेः प्रयोगे । मातरि साधुर्निपुणो वा । ' अर्चायाम्' किम् । निपुणो राज्ञो भृत्यः । इह तत्त्वकथने तात्पर्यम् । ' अप्रत्यादिभिरिति वक्तव्यम्’ (वा १४९३) । साधुर्निपुणो वा मातरं प्रति परि अनु वा ।

६४१ । प्रसितोत्सुकाभ्यां तृतीया च । (२-३-४४)

आभ्यां योगे तृतीया स्याच्चात्सप्तमी । प्रसित उत्सुको हरिणा-हरौ वा ।

६४२ । नक्षत्रे च लुपि । (२-३-४५)

नक्षत्रे प्रकृत्यर्थे यो लुप्संज्ञया लुप्यमानस्य प्रत्ययस्यार्थस्तत्र वर्तमाना तृतीयासप्तम्यौ स्तोऽधिकरणे । 'मूलेनावाहयेद्देवीं श्रवणेन विसर्जयेत् मूले श्रवणे इति वा । “लुपि' किम् । पुष्ये शनिः ।

६४३ । सप्तमीपञ्चम्यौ कारकमध्ये । (२-३-७)

शक्तिद्वयमध्ये यौ कालाध्वानौ ताभ्यामेते स्तः । अद्य भुक्त्वायं व्द्यहे व्द्यहाद्वा भोक्ता । कर्तृशक्त्योर्मध्येऽयं कालः । इहस्थोऽयं क्रोशे-क्रोशाद्वा


निपुणो वेति ॥ मातरि कुशल इत्यर्थः । शुश्रूषायामिति शेषः । निपुणो राज्ञ इति । साधुशब्दप्रयोगे तु अर्चो विनापि सप्तमी भवत्येव । 'साध्वसाधुप्रयोगे च' इत्युक्त्तेः । इह साधुग्रहणन्तु अर्चायां प्रत्यादियोगे सप्तमीनिवृत्त्यर्थम्। अप्रत्यादिभिरिति ॥ प्रति, परि, अनु, एतैर्योगे सति साधुनिपुणाभ्यां योगेऽपि न सप्तमीति भावः । प्रसितोत्सुकाभ्याम् ॥ ‘तत्परे प्रसितासक्ताविष्टार्थोयुक्त उत्सुकः' इत्यमरः । वैषयिकाधिकरणत्वे सप्तम्यामेव प्राप्तायामिदं वचनम् । नक्षत्रे च लुपि ॥ नक्षत्र इत्यनन्तरं प्रकृत्यर्थे सतीति शेषः । लुप्शब्देन लुप्संज्ञया लुप्तप्रत्ययार्थो विवक्षितः । तदाह । नक्षत्रे प्रकृत्यर्थे इति ॥ अधिकरण इति ॥ * सप्त म्यधिकरणे च' इत्यतः मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । मूलेनेति । मूलनक्षत्रयुक्ते काले इत्यर्थः । 'नक्षत्रेण युक्तः कालः' इत्यण् । 'लुबविशेषे' इति तस्य लुप् । अधिकरणे किम् । मूलं प्रतीक्षते । नक्षत्र इति किम् । पञ्चालेषु तिष्ठति । इह 'जनपदे' इति लुप् । सप्तमी पञ्चम्यौ ॥ कारकशब्दः कर्तृत्वादिशक्तिपरः, न तु कर्त्रादिपरः, व्याख्यानात् । मध्यस्याव विद्वयसापेक्षत्वात् कारकयोर्मध्यामिति विग्रहः । तदाह । शक्तिद्वयमध्ये इति । “कालाध्वनो स्त्यन्तसंयोगे' इत्यनुवृत्य पञ्चम्यन्ततया विपरिणम्यते इत्याह । यौ कालाध्वानाविति ॥ अद्य भुक्त्वेति ॥ सामीपिकाधिकरणत्वे सप्तम्यामेव प्राप्तायां वचनम् । अद्य भुक्का द्यहे अतीते तत्समीपे तृतीयेऽह्नि भोक्तेत्यर्थः । भविष्यति लुट्। कर्तृशक्त्योरिति । अद्यतन

भुजिक्रियानिरूपितकर्तृत्वस्य व्द्यहोत्तरदिनगतभुजिक्रियानिरूपितकर्तृत्वस्य चेत्यर्थः । कारकशब्दस्य

विभक्तिप्रकरणम्]
४६५
बालमनोरमा ।

लक्ष्यं विध्येत् । कर्तृकर्मशक्त्योर्मध्येऽयं देश: । अधिकशब्देन योगे सप्तमी पञ्चम्याविष्येते । “तदस्मिन्नधिकम्--' (सू १८४६) इति “यस्मादधिकम् (सू ६४५) इति च सूत्रनिर्देशात् । लोके-लोकाद्वा अधिको हरिः ।

६४४ । अधिरीश्वरे । (१-४-९७

स्वस्वामिसम्वन्धे अधिः कर्मप्रवचनीयसंज्ञः स्यात् ।

६४५ । यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी । (२-३-९)

अत्र कर्मप्रवचनीययुक्त सप्तमी स्यात् । उप परार्धे हरेर्गुणाः । परार्धा दधिका इत्यर्थः । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमी । आधि भुवि रामः । अधि रामे भूः । * सप्तमी शौण्डैः' (सू ७१७) इति समासपक्षे तु रामा धीना । “ अषडक्ष-' (सू २०७९) इत्यादिना खः ।


कर्त्रादिपरत्वे त्विह न स्यात् । क्ताप्रत्ययस्य कर्त्रैकत्वे विधानात् । कर्तृशक्तिस्तु भुजिक्रिया भेदात् भिद्यत एव । कारकद्वयमध्येऽप्युदाहरति । इहस्थोऽयमिति ॥ इहापि देशतस्सामी पिकमधिकरणत्वं पञ्चमीसप्तम्योरर्थः । इह तिष्ठन्नयं इष्वासः इषुणा क्रोशोत्तरसमीपदेशे लक्ष्यं विध्येदित्यर्थः । कर्तृकर्मशक्त्योरिति ॥ कर्तृत्वकर्मत्वरूपशक्तयोर्मध्ध्ये इत्यर्थः । कारकशब्दस्य कर्त्रादिपरत्वे त्विहैव स्यात् । अद्य भुक्तायमित्यत्र न स्यादिति सूचयितुमिदमप्यु दाहृतम् । ननु लोके लोकाद्वा अधिको हरिरित्यत्र अवधित्वसम्बन्धे शेषषष्ठयेवोचितेत्याशङ्कय आह। अधिकशब्देनेथि ॥लोके लोकाद्वेति ।।अवधित्वसम्बन्धस्सप्तमीपञ्चम्योरर्थः। लोकापेक्षया श्रेष्ठ इत्यर्थः । अधेः कर्मप्रवचनीयकार्य वक्ष्यन् कर्मप्रवचनीयमाह । अधिरीश्वरे ॥ इँश्वरशब्देन ईश्वरत्वं स्वस्वामिभावसम्बन्धात्मकं विवक्षितम् ।'कर्मप्रवचनीयाः’ इत्यधिकृतम् एकवचनान्ततया विपरिणम्यते । तदाह । स्वस्वामीति । यस्मादधिकम् ॥ कर्मप्रवचनी ययुक्ते इत्यनुवर्तते । तदाह । अत्र कर्मप्रवचनीयेति ॥ शेषषष्ठयपवादः । उपपरार्धे इति ॥ अवधित्वं सप्तम्यर्र्थः । तदाह । परार्धादधिका इत्यर्थः इति । यस्मादधिकं सङ्खयान्तरं न विद्यते तत्परार्धम् । तदपेक्षयेत्यर्थः । “उपोऽधिके च' इति उपेत्यस्य कर्म प्रवचनीयत्वस्येदं फलम् । यस्येश्वरवचनामित्यस्य यत्सम्बन्धी ईश्वर उच्यते ततस्सप्तमीत्येकी ऽर्थः । इह यच्छब्देन स्वमुच्यते । एवञ्च स्ववाचकात्सप्तमीति लभ्यते । ईश्वरशब्दो भाव प्रधानः । यस्येश्वरत्वमुच्यते ततस्सप्तमी इत्यन्योऽर्थः । यन्निष्ठमीश्वरत्वमुच्यते ततस्सप्तमीति यावत् । एवञ्च स्वामिवाचकात्सप्तमीति लभ्यते । तदाह । ऐश्वर्ये तु स्वस्वामिभ्यां पर्यायेण सप्तमीति ॥ अधिभुवि राम इति ॥ अधिरीश्वरपर्यायः । सम्बन्धस्सप्तम्यर्थ भुवः स्वामी राम इत्यर्थः । अत्र स्ववाचकात्सप्तमी । अधिरामे भूरिति । अत्र अधिः स्वशब्दपर्यायः । सम्बन्धस्सप्तम्यर्थः । रामस्य स्वभूता भूरित्यर्थः । अत्र स्वामिवाचकात्सप्तमी ।

सम्मासपक्षे त्विति ॥ शौण्डादिगणे अधिशब्दस्य पठितत्वेन तेनाधिशब्देन रामे इति

४६६
सिद्धान्तकौमुदीसहिता


६४६ । विभाषा कृञि । (१-४-९८)

अधिः करोतौ प्राक्संज्ञो वा स्यादीश्वरेऽर्थे । यदत्र मामधिकरिष्यति । विनियोक्ष्यते इत्यर्थः । इह विनियोक्तुरीश्वरत्वं गम्यते । अगतित्वात् *तिडिः चोदात्तवति' (सू ३९७८) इति निघातो न ॥

इति सप्तमी विभक्तिः ।

इति कारकादिविभक्तिप्रकरणम् ।


सप्तम्यन्तस्य समासे सति 'सुपो धातु' इति सुब्लुकि रामाधिशब्दात् 'अषडक्षाशितङ्कलङ्कर्माल म्पुरुषाध्युत्तरपदात् खः' इति खप्रत्यये 'आयनेयीनीयिय:’ इति तस्य ईंनादेशे रामाधीना भूरिति सिद्धति । रामस्वामिकेत्यर्थः । विभक्तयर्थे अव्ययीभावे त्वधिरामं भूः । रामाधिकर णिका भूरित्यर्थः । खप्रत्ययस्तु न । अध्युत्तरपदत्वाभावात् । विभाषा कृञि।। * अधिरीश्वरे ’ इत्यनुवर्तते । कर्मप्रवचनीया इत्यधिकृतम् । तदाह । अधिः करोताविति । कृञ्धातौ परे अधिः कर्मप्रवचनीयो वा स्यादीश्वरत्वे इति यावत् । यदत्र मामधिकरिष्यतीति ॥ अस्मिन्विषये मामधिकरिष्यतीति यत्तद्युक्तमित्यर्थः । अत्र कर्मप्रवचनीययोगे मामिति द्वितीया । अधिकरिष्यतीत्येतत् व्याचष्टे । विनियोक्ष्यत इत्यर्थः इति ॥ तर्हि कर्मत्वादेव द्वितीया सिद्धेः किं कर्मप्रवचनीयत्वनेत्यत आह । अगतित्वादिनि ॥ तिङि चेति ॥ उदात्तवति तिडिः परे गतिर्निहन्यत इति तदर्थः । अत्र करिष्यतीति तिङन्तमुदात्तवान् । “तिङ्ङतिङः' इति निघातस्य “निपातैर्यत्' इत्यादिना निषेधात् । ततश्च अधेरत्र गतित्वान्निघातः इह प्राप्तः । कर्मप्रवचनीयत्वे तु स न भवति । तेन गतित्वस्य बाधात् । अतः अधर्निघाताभावा र्थमिदं सूत्रमिति सिद्धम् ॥

इति श्रीमद्वासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमाख्यायां विभक्तयर्थनिरूपणं समाप्तत्


श्रीरस्तु ।

॥ अथाव्ययीभावसमासप्रकरणम् ॥


६४७ । समर्थः पदविधिः । (२-१-१)

पदसम्बन्धी यो विधिः स समर्थाश्रितो बोध्यः ।


तदेवं विभक्तयर्थ निरूप्य तदाश्रितसमासान्निरूपयिष्यन् तदुपोद्धातत्वेनाह-समर्थः पदविधिः । विधीयते इति विधिः कार्यम् । पदस्य विधिः पदविधिरिति शेषषष्ठया समासः । तदाह । पदसम्बन्धी यो विधिरिति ॥ समर्थाश्रित इति ॥ सूत्रे समर्थशब्दस्स मर्थाश्रिते लाक्षणिक इति भावः । सामर्थ्य द्विविधम् । 'व्यपेक्षालक्षणम्, एकार्थीभावलक्षणञ्च । तत्र स्वार्थपर्यवसायिनां पदानामाकाङ्क्षादिवशाद्यः परस्परान्वयः तत् व्यपेक्षाभिधं सामर्थ्यम् । विशिष्टा अपेक्षा व्यपेक्षेति व्युत्पत्तेः । सम्बन्धार्थस्समर्थ इति व्युत्पत्तेश्च । इदञ्च राज्ञः पुरुष इत्यादिवाक्य एव भवति । तत्र च एकैकस्य शब्दस्य यो यस्सन्निहितो योग्यश्च तेन तेनान्वयो भवति । यथा राज्ञः पुरुषोऽश्वश्चेति, राज्ञा देवदत्तस्य च पुरुष इति, ऋद्धस्य राज्ञः पुरुषः, इति च । एकार्थीभावलक्षणसामर्थ्यन्तु प्रक्रियादशायां प्रत्येकमर्थवत्वेन पृथक् गृहीतानां पदानां समुदायशक्तया विशिष्टैकार्थप्रतिपादकतारूपम् । सङ्गतार्थस्समर्थः, संसृष्टार्थस्समर्थ इति व्युत्पत्तेः । सङ्गतिस्संसर्गश्च एकीभाव एव । यथा सङ्गतं घृतं तैलेनेति, एकीभूतमिति गम्यते । यथा वा संसृष्टोडग्निरिति, एकीभूत इति गम्यत इति भाष्याच्च । इदञ्च सामर्थ्य राजपुरुष इत्यादिवृत्तावेव । अत एव ऋद्धस्य राजपुरुष इत्येवं राज्ञि पुरुषविशेषणे ऋद्धत्वविशेषणन्नान्वेति । विशिष्टस्य एकपदार्थतया राज्ञः पदार्थैकदेशत्वात् । देवदत्तस्य गुरुकुलमित्यत्र तु उपसर्जनस्य नित्यसापेक्षत्वात् समासः । यदा गुरुवद्देवदत्तोऽपि विशेष्ये प्रधाने कुल एवान्वेति, तत्र गुरुणा कुलस्य उत्पाद्यत्वसम्बन्धेनान्वयः । देवदत्तेन तु कुलस्य तदीयगुरूत्पाद्यतयाऽन्वयो गुरुगर्भः । उक्तञ्च हरिणा–“ सम्बन्धिशब्दस्सापेक्षो नित्यं सर्वस्समस्यते । वाक्यवत् सा व्यपेक्षा हि वृत्तावपि न ह्रीयते ॥” इति । “समुदायेन सम्बन्धो येषां गुरुकुलादिना । *संसृष्टावयवास्ते तु युज्यन्ते तद्वता सह ॥” इति च । एतेन * अयश्शूल' इति सूत्रे भाष्ये 'शिवस्य भक्तः’ इत्यर्थे शिवभागवतः इत्यादि व्याख्यातम् । एकार्थीभावश्चायम् अलौकिकविग्रहवाक्ये कल्प्यते । यथा लादेशभूतशतृशानचोः अप्रथमासामानाधिकरण्यं लकारेऽपि कल्प्यते तद्वत् । अत एव “लस्य अप्रथमासमानाधिकरणेनार्थेनायोगादादेशेऽनुपपत्तिः, तस्य क्वापि प्रयोगाभावादित्याक्षिप्य


“संस्पृश्यावयवांस्ते तु युज्यन्ते तद्वता सह” इति पाठान्तरम् ।

४६८
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६४८ । प्राक्कडारात्समासः । (२-१-३)

'कडाराः कर्मधारये' (सू ७५१) इत्यतः प्राक्समास इत्यधिक्रियते ।

६४९ । सह सुपा । (२-१-४)

'सह' इति योगो विभज्यते । सुबन्तं समर्थेन सह समस्यते । योग विभागस्येष्टसिद्ध्यर्थत्वात्कतिपयतिङन्तोत्तरपदोऽयं समासः । स च छन्दस्येव ।


आदेशे सामानाधिकरण्यन्दृष्ट्वा अनुमानात् गन्तव्यं प्रकृतेरपि तद्भवति' इति “लटश्शतृशानचौ इति सूत्रभाष्ये समाहितम् । “सिद्धानां शब्दानामन्वाख्यानात् पचन्तन्देवदत्तं पश्येत्यादिप्रयोगदर्शनात् स्थानिनोऽपि लस्य प्रक्रियार्थे कल्पितस्य अप्रथमासामानाधिकरण्यमनुमीयते’ इति कैयट: । अत्र प्रक्रियार्थं कल्पितस्येत्युक्त्या अन्यस्यापि प्रक्रियार्थं कल्पितस्य बोधकत्वकल्पना सूचिता । अलौकिकविग्रहवाक्ये श्रूयमाणानाञ्च शब्दानां क्लृप्तशक्तित्यागे मानाभावात् । प्रत्येकशक्तिसहकृतया समुदायशक्त्या विशिष्टोपस्थितिः । ततश्च अयमेकार्थीभावः अजहत्स्वार्था वृत्तिरिष्यते । वृत्तिविषये पदानां प्रत्येकमनर्थकत्वमाश्रित्य जहत्स्वार्था वृत्तिस्तु नाश्रयितुं युक्ता । महाबाहुः सुपन्थाः इत्यादौ आत्वाद्यनापत्तेः । वृत्तौ महदादिशब्दानामनर्थकत्वात् । अर्थवद्ग्रहण सम्भवे अनर्थकस्य “आन्महतः' इत्यादौ ग्रहणायोगात् । तदुक्तम् । “जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी” इति । अवयवार्थविरुद्धो यत्र समुदायार्थस्तत्रैव सेति तदर्थः । यथा अश्व कर्णपाण्डवादौ । विस्तरस्तु शब्देन्दुशेखरे मञ्जूषायाञ्चानुसन्धेयः । समर्थः किम् । पश्य कृष्णं श्रितो राममित्रम् । अत्र कृष्णश्रितयोः परस्परान्वयाभावाद्विशिष्टैकार्थोपस्थित्यजनकत्वान्न सामर्थ्यम् । प्राक्कडारात् ॥ “ आकडारात्' इत्येव प्रागिति सिद्धे प्राग्ग्रहणमेकसंज्ञाधिकारेऽपि अव्ययीभावादिसंज्ञासमुच्चयार्थमिति भाष्ये स्पष्टम् । सम्पूर्वकस्य अस्यतेरेकीकरणात्मकस्संश्लेषोऽर्थः । समस्यते अनेकं पदमिति समासः । “अकर्तरि च कारके संज्ञायाम्' इति कर्मणि घञ् । अत एव मूले समस्यते इति वक्ष्यते । तथाच अन्वर्थेयं संज्ञा । सह सुपा ॥ 'सुबा मन्त्रिते' इत्यतः सुबित्यनुवर्तते । सुबन्तं सुबन्तेन सहोच्चारितं समाससज्ञं भवतीति फलति । एवं सति पर्यभूषयदित्यादौ सुबन्तस्य तिडन्तेन समासो न स्यात् । तत्राह । सहेति योगो विभज्यते इति । समाससंज्ञाया अन्वर्थत्वादेकस्याप्रसङ्गात् सुपेत्येतावतैव सहेति सिद्धे तद्ग्रहणं योगविभागार्थमिति भावः । सहेत्यत्र 'सुबामन्त्रिते' इत्यतस्सुबित्यनुवर्तते । प्रत्ययग्रहणपरिभाषया तदन्तग्रहणम् । 'समर्थः पदविधिः' इत्यतः समर्थग्रहणमनुवृत्तं तृतीयया विपरिणम्यते । तदाह । सुबन्तमित्यादिना । समस्यत इति ॥-एकीक्रियते प्रयोक्तृभिरित्यर्थः । समाससंज्ञां लभते इति यावत् । केचित्तु सुबन्तं कर्तृ समर्थेन समस्यते एकीभवतीत्यर्थः । कर्तरि लट् । 'उपसर्गादस्यत्यूह्योः' इत्यात्मनेपदम् । समासशब्दोऽपि कर्तरि बाहुळ काद्धजन्त एव, कर्मणि घञन्तो वा । तथा सति समस्यत इति कर्तरि तिङन्तं फलितार्थ कथनपरामित्याहुः । ननु घटो भवतीत्यत्र समासे घटभवतीत्यपि लोके प्रयोगस्यादित्यत आह ।

योगविभागस्येति ॥ कतिपयेति ॥ कतिपयानि तिङन्ताति उत्तरपदानि यस्येति

समासप्रकरणम्
४६९
बालमनोरमा ।

पर्यभूषयत् । अनुव्यचलत् । ' सुपा' । सुप्सुपा सह समस्यते । समासत्वात्प्रातिपदिकत्वम् ।

६५० । सुपो धातुप्रातिपदिकयोः । (२-४-७१)

एतयोरवयवस्य सुपो लुक्स्यात् । “ भूतपूर्वे चरट्' (सू १९९९) इति निर्देशाद्भूतशब्दस्य पूर्वनिपातः । पूर्वं भूतो भूतपूर्वः । *इवेन समासो विभ क्त्यलोपश्च' (वा १२३६, १३४१) । जीमूतस्येव ।


विग्रहः । पर्यभूषयदिति ॥ समासान्तोदात्तत्वे शेषनिघात इति 'कुगति' इति सूत्रे कैयटः । देवो देवान् क्रतुना पर्यभूषयदित्यत्र तु स्वरव्यत्ययो बोध्द्यः । आनुव्यचल दिति ॥ अचलदित्यनेन वेः पूर्वं समासे सति तेन अनोस्समासः । नत्वनुव्योर्युगप त्समासः । सुवित्येकत्वस्य विवक्षितत्वात् । अत एव महिष्या अजायाश्च क्षीरमित्यत्र क्षीरशब्देन सुबन्तयोर्न समास इति कैयटः । सुपा ॥ “सुबामन्त्रिते' इत्यतस्सुबित्यनुवर्तते । समासे इत्यधिकृतम् । तदाह । सुप्सुपेति । सुबन्तं सुवन्तेनत्यर्थः । ततश्च पूर्व भूत इति विग्रहे समाससंज्ञा स्थिता । समासत्वात् प्रातिपदिकसंज्ञेति ॥ “कृतद्धितसमासाश्च इत्यनेनेति शेषः । सुपो धातु ॥ धातुप्रातिपदिकयोरित्यवयवषष्ठीत्याह । एतयोरवयव स्येति ॥ लुक् स्यादिति ॥ 'ण्यक्षत्रियार्षेजितो यूनि लुक्' इत्यतस्तदनुवृत्तेरिति भावः । न च सुपः इत्यनेन सप्तमीबहुवचनस्यैव ग्रहणं किन्न स्यादिति वाच्यम् । “पञ्चम्याः स्तोकादि भ्य:’ इत्यलुग्विधानात् । सुष्प्रत्याहारस्यैवात्र ग्रहणमिति ज्ञापनात् । नचेवमपि पूर्वे भूत इति लौकिकविग्रहवाक्ये परिनिष्ठितसन्धिकार्ययोस्सुवन्तयोस्समासे सति पूर्वमित्यत्र अमि पूर्व रूपस्य एकादेशस्य परादित्वमाश्रित्य अमो लुकि समासदशायां वकारादकारो न श्रूयेत । पूर्वान्तत्वे तु परिशिष्टस्य मन्कारस्य सुप्त्वाभावात् कथं लुगिति वाच्यम् । 'सुपो धातु’ इति लुग्विषये “अन्तरङ्गानपि विधीन् बहिरङ्गो लुक् बाधते, इत्याश्रित्य सन्धिकार्यप्रवृत्तेः प्रागेवालैौ किकविग्रहवाक्ये समासप्रवृत्तिरिति “प्रत्ययोत्तरपदयोश्च' इति सूत्रभाष्ये स्थितम् । “कृत्तद्धित समासाश्च' इत्यत्र प्रौढमनोरमायामपि परिष्कृतमिदम् । ‘भस्त्रैषा’ इति सूत्रव्याख्यावसरे प्रपञ्चित ञ्चास्माभिः। एवञ्च पूर्व अम् भूत स् इत्यलौकिकविग्रहदशायामेव अमो लुक्प्रवृत्तेनोक्तदोषः। तथाच सुपो लुकि भूतपूर्वेति स्थितम् । ननु “सुबन्तं सुवन्तेन समस्यते' इति समासशात्रे सुबन्तं प्रथमानिर्दिष्टम् । सुबन्तत्वञ्च द्वयोरप्यविशिष्टम् । ततश्च प्रथमानिर्दिष्टं समास् उपसर्ज नम्, इति वक्ष्यमाणोपसर्जनत्वस्य द्वयोरप्यविशिष्टत्वात् 'उपसर्जनं पूर्वम्' इत्यन्यतरस्य पूर्वनिपाते विनिगमनाविरह इत्यत आह । भूतपूर्वे चरडिति ॥ पूर्व भूत इति ॥ लौकिकविग्रहोऽयम् । पूर्वमिति क्रियाविशेषणम् । भूतपूर्व इति ॥ समासत्वेन प्रातिपदि कत्वात् समुदायात् पुनर्यथायथं सुबुत्पत्तिरिति भावः । इवेनेति ॥ इवेत्यव्ययेन सुबन्तस्य समासः । 'सुपो धातु' इति लुगभावः । पूर्वपदस्य प्रकृतिसिद्धस्वरश्च भवति, नतु समासस्वर

इति वक्तव्यमित्यर्थः । 'सह सुपा' इति सिद्धे समासविधानमिवशब्दस्य पूर्वनिपातनिवृत्त्यर्थम् ।

४७०
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६५१ । अव्ययीभावः । (२-१-५)

अधिकारोऽयम् ।

६५२ । अव्ययं विभक्तिसमीपसमृद्धिव्यृद्धयर्थाभावात्यया-

सम्प्रतिशब्दप्रादुर्भावपश्चाद्यथानुपूर्व्ययौगपद्यसादृश्य-

सम्पतिसाकल्यान्तवचनेषु । (२-१-६)

'अव्ययम्' इति योगो विभज्यते । अव्ययं समर्थेन सह समस्यते । सोडव्ययीभावः ।

६५३ । प्रथमानिर्दिष्टं समास उपसर्जनम् । (१-२-४३)

समासशास्त्रे प्रथमानिर्दिष्टमुपसर्जनसंज्ञं स्यात् ।


अन्यथा अत्र इवशब्दस्यापि सुवन्तत्वाविशेषात् समासशास्त्रे प्रथमानिर्दिष्टत्वेनोपसर्जनत्वात् पूर्व निपातस्स्यात् । जीमूतस्येवेति । अत्र जीमूतशब्दस्य पूर्वपदस्य फिट्स्वरेणान्तोदात्तत्वमेव , नतु समासस्येत्यन्तोदात्तत्वम् । अत्र यथार्थत्वप्रयुक्तोऽव्ययीभावस्तु न । “तत्र तस्येव' इति निर्देशात् । क्वाचित्कश्चायं समासः । अत एव बहुचा एव पदपाठे अवगृह्णन्ति । याजुषास्तु भिन्ने एव पदे पठन्ति । “उद्वाहुरिव वामनः' इत्यादिव्यस्तप्रयोगाश्च सङ्गच्छन्ते । 'हरीतकी भुङ्क्ष्व राजन् मातेव हितकारिणीम्' इत्यत्र तु मातरमिवेति भवितव्यम् । “तिङ्समाना धिकरणे प्रथमा' * अभिहिते प्रथमा' इति वार्तिकस्वारस्येन प्रथमायाः कारकविभक्तित्वोक्ति परभाष्येण च क्रियायोग एव प्रथमायाः प्रवृत्त्या मातेति प्रथमायाः मातृसदृशीमित्यर्थे असाधु त्वादित्यास्तान्तावत् । अव्ययीभावः ॥ अधिकारोऽयमिति ॥ एकसंज्ञाधिकारेऽपि अनया सज्ञया समाससंज्ञा न बाध्यते इति *प्राकडारात्' इत्यत्रोक्तम् । अव्ययं विभक्ति ॥ विभक्तयर्थाद्यभावेऽप्यपदिशमित्यादि साधयितुमाह । अव्ययमिति ॥ योगो विभज्यत इति । अत्र “समर्थः पदविधिः' इत्यतस्समर्थग्रहणमनुवृत्तं तृतीयान्ततया विपरिणम्यते । समास इति अव्ययीभाव इति चाधिकृतम् । तदाह । अव्ययं समर्थेनेति ॥ सोऽव्ययी भाव इति ॥ स समासः अव्ययीभावसंज्ञस्यादित्यर्थः । तथाच दिशयोर्मध्द्यमित्यस्वपदविग्रहे मध्द्यार्थकस्य अपेत्यव्ययस्य दिशयोरित्यनेन समाससंज्ञा । तस्य समासस्याव्ययीभावसंज्ञा च सिद्धा । तथाच समासत्वात् प्रातिपदिकत्वे “सुपो धातु’ इति सुब्लुकि सति दिशा अप इति स्थितम् । अत्र उपसर्जनकार्ये वक्ष्यन्नुपसर्जनसज्ञामाह । प्रथमानिर्दिष्टम् ॥ ननु समासे प्रथमानिर्दिष्टमुपसर्जनम् इति व्याख्याने असम्भवः । समासे सति, “सुपो धातु' इति प्रथमायाः लुप्तत्वात् । समासे चिकीर्षिते प्रथमानिर्दिष्टम् इति व्याख्याने तु ‘कृष्णं श्रितः कृष्णश्रितः' इत्यत्र विग्रहे कृष्णशब्दस्य द्वितीयानिर्दिष्टत्वादुपसर्जनत्वन्न स्यात् । श्रितशब्दस्य प्रथमानिर्दिष्टत्वादुप

सर्जनत्वं स्यात् । अतो व्याचष्टे । समासशास्त्रे इति । समासपदं समासविधायकशास्त्र

समासप्रकरणम्]
४७१
बालमनोरमा ।

६५४ । उपसर्जनं पूर्वम् । (२-२-३०)

समासे उपसर्जनं प्राक्प्रयोज्यम् ।

६५५ । एकविभक्ति चापूर्वनिपाते । (१-२-४४)

विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात्, न तु तस्य पूर्वनिपातः।

६५६ । गोस्त्रियोरुपसर्जनस्य । (१-२-४८)

उपसर्जनं यो गोशब्दः स्त्रीप्रत्ययान्तं च तदन्तस्य प्रातिपदिकस्य ह्रस्वः स्यात् । “ अव्ययीभावश्च' (सू ४५१) इत्यव्ययत्वम् ।


परमिति भावः । एवञ्च ‘द्वितीया श्रित' इति समासविधायकशास्त्रे द्वितीयान्तस्यैव कृष्णशब्दस्य द्वितीयेति प्रथमानिर्दिष्टत्वादुपसर्जनत्वम् । एवञ्च “अव्ययम्’ इति समासविधावपेत्यस्य प्रथमा निर्दिष्टत्वादुपसर्जनत्वं स्थितम् । उपसर्जनं पूर्वम् ॥ प्राकडारात् समासः इत्यधिकृतम् । समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते । तदाह । समासे उपसर्जनं प्राक् प्रयोज्यमिति ॥ पूर्वमित्यस्य पूर्वे प्रयोज्यमित्यर्थ इति भावः । एवश्व प्रकृते अपेल्यस्य पूर्वे प्रयोगनियमः सिद्धः । अपदिशा इति स्थितम् । अत्र दिशाशब्दस्यापि उपसर्जनत्वमाह । एकविभक्ति ॥ ‘प्रथमानिर्दिष्टं समास उपसर्जनम्’ इत्यतस्समास इति उपसर्जनमिति चानुवर्तते। समास इत्यनेन विग्रहवाक्यं लक्ष्यते । एकैव विभक्तिर्यस्य तदेकविभक्ति । नियतविभक्तिकमिति यावत् । एवञ्च विग्रहे यन्नियतविभक्तिकं तत्पूर्वनिपातभिन्नकायें कर्तव्ये उपसर्जनं स्यादित्यर्थः । फलितमाह । विग्रहे यन्नियतेति ॥ निष्काशाम्बिशब्द उदाहरणम् । तत्र कौशाम्ब्याः निष्क्रान्तः निष्क्रान्तं निष्क्रान्तेन निष्क्रान्ताय निष्कान्तात् निष्क्रान्तस्य निष्क्रान्ते इति विग्रहेषु निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे निष्कौशाम्बिः निष्कौशाम्बिं निष्कौशाम्बिना इत्यादि इति स्थितिः । अत्र कौशाम्बीशब्द एव विग्रहे नियतविभक्तिक इति तस्योपसर्जनत्व मनेन भवति । समासशात्रे कौशाम्बीशब्दस्य पञ्चमीनिर्दिष्टत्वमेव, न तु प्रथमानिर्दिष्टत्वमिति “प्रथमानिर्दिष्टम्' इत्यप्राप्तौ वचनम् । तत्र कौशाम्बीशब्दस्य अनेन उपसर्जनत्वेऽपि न पूर्व निपातः । तत्तद्विभक्तयन्तैरेव समास इत्यत्र इदमेव सूत्रं प्रमाणम् । 'तुल्याथैः’ इति सूत्रे भाष्ये स्पष्टमिदम् । प्रथमान्तपदेनैव समास इति ‘अनेकम्’ इति सूत्रे भाष्ये स्थितम् । प्रकृते च दिशयो र्मध्यः मध्यं मध्येनेत्यादिविग्रहवाक्येषु दिशाशब्दस्य नियतविभक्तिकत्वात् सरासविधौ प्रथमानिर्दिष्टत्वाभावेऽपि अनेनोपसर्जनत्वं भवति । पूर्वनिपातस्तु न भवतीति स्थितम् । गो स्त्रियोः ॥ “हस्वो नपुंसके प्रातिपदिकस्य' इत्यतः ह्रस्व इति प्रातिपदिकस्येति चानुवर्तते । उपसर्जनस्येति गोस्त्रियोर्विशेषणम् । प्रत्येकाभिप्रायमेकवचनम् । स्त्रीशब्देन स्त्रीप्रत्ययो-गृह्यते । प्रत्यग्रहणपरिभाषया तदन्तविधिः । उपसर्जनभूतस्य गोशब्दस्य स्त्रीप्रत्ययान्तस्य चेति लभ्यते । तदुभयं प्रातिपदिकस्य विशेषणम् । तदन्तविधिः। तदाह । उपसर्जनामित्या

दिना ॥ अत्र च शास्त्रीयमेव उपसर्जनं गृह्यते, नत्वप्रधानमात्रम् । कुमारीमिच्छन् कुमारी

४७२
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६५७ । नाव्ययीभावादतोऽम्त्वपञ्चम्याः । (२-४-८३)

अदन्तादव्ययीभावात्सुपो न लुक्, तस्य तु पञ्चमीं विना अमादेशश्च स्यात् । दिशयोर्मध्येऽपदिशम् । ' क्लीबाव्ययं त्वपदिशं दिशोर्मध्ये विदिक् स्त्रियाम्' इत्यमरः ।

६५८ । तृतीयासप्तम्योर्बहुळम् । (२-४-८४)

अदन्तादव्ययीभावात्तृतीयासप्तम्योर्बहुळमम्भावः स्यात् । अपदिशम्-- अपदिशेन । अपदिशम्-अपदिशे । बहुळग्रहणात् “सुमद्रम्’ * उन्मत्तगङ्गम् इत्यादौ सप्तम्याः नित्यमम्भाव । ' विभक्ति-' इत्यादेरयमर्थः । विभक्त्यर्था-


वाचरन्वा ब्राह्मणः कुमारीलयत्रातिप्रसङ्गात् । अव्ययीभावश्चेत्यव्ययत्वमिति । तथाच अव्ययीभावसमासादुत्पन्नानां सुपां 'अव्ययादाप्सुपः' इति लुक् स्यादिति शङ्कायामाह । ना व्ययीभावात् ॥ अम् तु अपञ्चम्या इति छेदः । नाव्ययीभावादतः, इत्येकं वाक्यम् ।

  • ण्यक्षत्रियार्ष' इत्यतो लुगित्यनुवर्तते । “अव्ययादाप्सुपः' इत्यतस्सुप इति च । अता

अव्ययीभावो विशेष्यते । तदन्तविधिः । तदाह । अदन्तादव्ययीभावात् सुपो न लुगिति ॥ अम् तु अपञ्चम्याः, इति वाक्यान्तरम् । पञ्चमीभिन्नस्य तु सुपः अमादेशस्स्यात् । पञ्चम्यास्तु अम् न भवतीति लभ्यते । तदाह । तस्य पञ्चमीं विना अमादेश इति ॥ अत्रापञ्चम्या इति प्रतिषेधोऽयम् अनन्तरत्वादम एव भवति, न तु लुङ्निषेधस्यापि । एवञ्चादन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपो न लुक्, किंत्वमादेशः। पञ्चम्यास्तु लुक् अमादेशश्च न भवतीति स्थितिः। सूत्रे एतत्सूचनार्थमेव तुशब्दः । ‘अव्ययीभावादतोऽम्त्वपञ्चम्याः’ इत्येवोत्तौ तु अदन्तादव्ययीभावात् परस्य पञ्चमीभिन्नस्य सुपः लुकोऽपवादः अमादेशस्यादित्येव लभ्येत । एवं सति पञ्चम्या अमोऽभावे “अव्ययादाप्सुपः' इति लुक् स्यात् । अतो लुङ् निषिध्यत इत्यास्तान्तावत् । अपदिशमिति ॥ पञ्चमीभिन्नविभक्तीनामुदाहरणम् । पञ्चम्यास्तु अपदिशादित्युदाहार्यम् । यद्यपि नपुंसकह्रस्वत्वेनाप्येतत् सिध्द्यति । “अव्ययीभावश्च' इति नपुसकत्वस्य वक्ष्यमाणत्वात् । तथापि चित्रगुः अतिखट्टः इत्याद्यर्थमावश्यकामिति “गोस्त्रियो इति सूत्रं इहापि न्याय्यत्वादुपन्यस्तम् । तदेवमव्ययमिति भाष्यादृष्टेनापि योगविभागेन अप दिशमिति रूपसाधनं वृद्धसम्मतमित्याह । क्लीबाव्ययमिति ॥ तृतीया ॥ “नाव्ययी भावात्’ इत्यस्मात् अत इत्यनुवर्तते । तदाह । अदन्तादिति ॥ अमादेशाभावे तु “नाव्ययी भावात्' इत्यलुक् । ननु वेति सिद्धे किं बहुळग्रहणेनेत्यत आह । बहुळग्रहणादिति ॥ तदेवमव्ययमिति योगं विभज्य व्याख्याय तदुत्तरखण्डं व्याख्यातुमुपक्रमते । विभक्तीत्यादे रयमर्थ इति ॥ विभक्तीत्यनेन विभक्त्यर्थो विवक्षितः । उच्यन्त इति वचनाः । कर्मणि ल्युट् । विभक्ति, समीप, समृद्धि, व्यृद्धि, अर्थीभाव, अत्य, असम्प्रति, शब्दप्रादुर्भाव,

पश्चात्, यथा, आनुपूर्व्य, यौगपद्य, सादृश्य, सम्पत्ति, साकल्य, अन्त, एतेषां षोडशानां द्वन्द्वः।

समासप्रकरणम्]
४७३
बालमनोरमा ।

दिषु वर्तमानमव्ययं सुबन्तेन सह समस्यते, सोऽव्ययीभावः । “ विभक्तौ तावत्' । हरौ इत्यधिहरि । सप्तम्यर्थस्यैवात्र द्योतकोऽधिः । हरि ङिः अधि इत्यलौकिकं विग्रहवाक्यम् । अत्र निपातेनाभिहितेऽप्यधिकरणे वचनसामर्थ्यात्सप्तमी।

६५९ । अव्ययीभावश्च । (२-४-१८)

अयं नपुंसकं स्यात् । 'ह्रस्वो नपुंसके प्रातिपदिकस्य' (सू ३१८) । गोपायतीति गाः पातीति वा गोपाः, तस्मिन्नित्यधिगोपम् । समीपे, कृष्णस्य


ते च ते वचनाश्च इति विग्रहः । विभक्तयर्थादिषु वाच्येष्वित्यर्थः । अव्ययमित्यनुवर्तते । अव्ययीभावस्समास इति चाधिकृतम् । तदाह । विभक्त्यर्थादिष्विति ॥ विभक्तौ तावदिति ॥ विभक्तयर्थे प्रथममुदाहियत इत्यर्थः । हरौ इत्यधिहरीति ॥ हरौ इति लौकिकविग्रहः । तेन यावदवगम्यते तावदेवाधिहरीति समासेनाप्युच्यते इत्यर्थः । अधिशब्दस्य हरावित्यनेन अव्ययीभावसमासे सुब्लुकि समासविधावव्यमिति प्रथमानिर्दिष्टत्वात् अधेः पूर्व निपाते समासादुत्पन्नस्य सुपः 'अव्ययादाप्सुपः’ इति लुगिति भावः । ननु लौकिकविग्रहे समस्य मानः अधिशब्दः कुतो नोपात्त इत्यत आह । सप्तम्यर्थस्यैवात्र द्योतकोऽधिरिति । तथाचाधिद्योत्यार्थस्य अधिकरणत्वस्य सप्तम्यैव उक्तत्वात् अधिशब्दो न पृथगुपात्तः । नित्य समासतया वक्ष्यमाणत्वेन स्वपदविग्रहानौचित्यादिति भावः । ननु हरौ इति परिनिष्ठितसन्धि कार्यस्य समासे सति औ इत्यस्य सुपो लुकि समासे रेफादिकारः कुतः न श्रूयेतेत्यत आह । हरि ङि इति ॥ सन्धिकार्यात् प्रागलौकिकविग्रहवाक्य एव समासप्रवृत्तेः । 'प्रत्ययोत्तरप दयोश्च ' इति भाष्यसम्मतत्वादिति भावः । यथा चैतत् तथा भूतपूर्वः इत्यत्रानुपदमेवोक्तम् । नन्वधिना निपातेनाधिकरणत्वस्योक्तत्वात् कथं हराविति सप्तमीत्यत आह । अत्र निपाते नेति ॥ वचनेति ॥ सुपेत्यनुवर्त्य सुबन्तेनात्र समासविधिसामर्थ्यात् सप्तमी स्यादेवेति भावः । वस्तुतस्तु अनभिहितसूत्रभाष्ये तिङ्कृत्तद्धितसमासैरित्येव परिगणनं दृष्टम् । अतो निपातेनाधिना अभिहितेऽप्यधिकरणत्वे सप्तमी निर्वाधा । “विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुम साम्प्रतम्” इत्यत्र तु प्रत्येतव्यमित्यध्द्याहार्यम् । कृताभिधानात् विषवृक्षात् द्वितीया न भवति । नच कृत्तद्धितसमासैरिति परिगणनं भाष्ये प्रत्याख्यातमिति वाच्यम् । ‘कटं करोति, मीष्ममुदारं दर्शनीयम्’ इत्यत्र परिगणनफलस्यान्यथासिद्धेरेव तत्रोक्तत्वादित्यास्तां तावत्। अव्ययीभावश्च॥ अयं नपुंसकं स्यादिति ॥ 'स नपुंसकम्' इत्यतः तदनुवृत्तेरिति भावः । नपुंसकत्वस्य फलमाह । ह्रस्वो नपुंसके इति । गोपायतीति ॥ रक्षतीत्यर्थः । 'गुपू रक्षणे' विच् । “आयादय आर्धधातुके वा' इत्यायप्रत्यय । “लोपो व्योः' इति यलोपः । “वेरपृक्तस्य’ इति वकारलोपः । गोपाशब्दः आकारान्तः । गाः पातीति ॥ पातेर्विवि उपपदसमासे गोपाशब्द

इति भावः । अधिगोपमिति ॥ विभक्तयर्थेऽव्ययीभावसमासे सुब्लुकि नपुंसकत्वे ह्रस्वत्वे सति

४७४
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

समीपमुपकृष्णम् । समया ग्रामम्, निकषा लङ्काम्, आराद्वनादित्यत्र तु ना व्ययीभावः 'अभितः परितः-' (वा १४४२) ' अन्यारात्--' (सू ५९५) इति द्वितीयापञ्चम्योर्विधानसामर्थ्यात् । मद्राणां समृद्धिः सम्मद्रम् । यवनानां व्यद्धिर्दूर्यवनम् । विगता ऋद्धिर्व्यूंद्धिः । मक्षिकाणामभावो निर्मक्षिकम् ।


नाव्ययीभावात्’ इत्यमि पूर्वरूपमिति भावः । “गोस्त्रियोः' इति तु नात्र प्रसज्यते । स्त्रीप्रत्यया न्तत्वाभावात् । समीपे इति । समीपार्थकाव्ययस्य समासे उदाहरणं वक्ष्यत इत्यर्थः । कृष्णस्य समीपमिति ॥ लौकिकविग्रहवाक्यमेतत् । अत्र समस्यमानस्य उपशब्दस्य स्थाने समीपमिति प्रयुक्तम् । कृष्णस्य उप इति तु न विग्रहः । नित्यसमासत्वेनास्वपदविग्रहौ चित्यात् । ननु ‘समया ग्रामं, निकषा लङ्काम्, आराद्वनात्' इत्यत्रापि समयाद्यव्ययानां समीपा र्थकत्वात् अव्ययीभावस्यात् । ततश्च ‘ग्रामं समया, ग्रामं निकषा, वनादारात्’ इति च प्रयोगो न स्यात् । अव्ययीभावसमासे अव्ययस्य पूर्वनिपातनियमादित्यत आह । समयेति ॥ विधा नसामर्थ्यादिति ॥ ‘समया ग्रामं, निकषा लङ्काम्, आराद्वनात्' इत्यत्र शेषषष्ठयां सत्यामपि अव्ययीभावसमासे सति प्रातिपदिकावयवत्वात् उपपदविभक्त्योः द्वितीयापञ्चम्योः षष्ठया वा लुकि समासात् प्रातिपदिकार्थादिविवक्षायां सर्वासु विभक्तिषु जातासु यथायथं अम्भावे तद्विकल्पे च ‘समयाग्रामें, निकषा लङ्काम्, आराद्वनं, समया ग्रामेण, निकषालङ्केन, आराद्वनेन, समयाग्रामे निकषालङ्के, आराद्वने' इति स्यादेव । ततश्च द्वितीयापञ्चम्योर्विधिः व्यर्थस्यात् । षष्ठयैव गतार्थः त्वात् । नच समासात् पुनरुपपदविभक्ती द्वितीयापञ्चम्यौ शङ्कय । सकृत्प्रवृत्तयोः पुनः प्रवृत्त्य योगात् । वस्तुतस्तु मध्द्यार्थकसमयाशब्दयोगे द्वितीयाविधानस्य दूरार्थकाराच्छब्दयोगे पञ्चमी विधानस्य चरितार्थत्वात् इदमयुक्तम्। नचैवं सति ‘समया ग्रामम्’ इत्यादौ अव्ययीभावश्शङ्कयः। अब्भक्ष इत्यादौ इव विभक्तयर्थसमीपादिमात्राव्ययस्यैव ग्रहणात् । समयानिकषाराच्छ ब्दानाञ्चाधिकरणशक्तिप्रधानतया समीपमात्रवृत्तित्वाभावात् । ग्रामस्य समीपे इति हि । तेषामर्थः । उपशब्दस्तु तन्मात्रवाची । उपकृष्णं भक्ता इत्यत्र कृष्णसामीप्यवन्त इति बोधात्। मद्राणां समृद्धिरिति ॥ समित्यव्ययपर्यायः समृद्धिशब्दो विग्रहवाक्ये ज्ञेयः । एतत्सूत्र विहितसमासस्य नित्यतया अस्वपदविग्रहः । एवमग्रेऽपि ज्ञेयम् । सम्मद्रमिति ॥ सर्वत्र सुब्लुगादि पूर्ववत् ज्ञेयम् । समृद्धा मद्राः सम्मद्रा इत्यादौ तु नाव्ययीभावः । वचनग्रहण सामर्थ्येनाव्ययार्थप्राधान्य एव तत्प्रवृत्तेरिति भाष्ये स्पष्टम् । यवनानां व्यृद्धिः दुर्यवन मिति ॥ दुर्शब्दार्थको व्यृद्धिशब्दो विग्रहे ज्ञेयः । विगतेति ॥ अभावप्रतियोगिनीत्यर्थः । ऋद्धेरभावो व्यृद्धिरिति यावत् । नचार्थाभावेऽयमिति भ्रमितव्यम् । समस्यमानपदार्थभाव स्यैव विवक्षितत्वात् । इह च यवनाभावस्याप्रतीतेः । प्रतीतेः । तत् यवनीयवृध्द्यभावस्येव प्रतीतेः। तत् ध्वनयन् अर्थाभावे उदाहरति । मक्षिकाणामभावो निर्मक्षिकमिति ॥ विग्रहे निर्शब्द

समानार्थकमभावपदमिति भावः । घटः पटो नेत्यत्र तु नाव्ययीभावः । अर्थग्रहणसामर्थ्येेना

समासप्रकरणम्]
४७५
बालमनोरमा ।

हिमस्यात्ययोऽतिहिमम् । अत्ययो ध्वंसः । निद्रा सम्प्रति न युज्यते इत्यति निद्रम् । हरिशब्दस्य प्रकाशः इतिहरि । विष्णोः पश्चादनुविष्णु । पश्चाच्छब्दस्य तु नायं समासः। “ततः पश्चात्स्रंस्यते' ध्वंस्यते इति (१-१-५७ सूत्रे) भाष्यप्र योगात् । योग्यतावीप्सापदार्थानतिवृत्तिसादृश्यानि यथार्थाः। । अनुरूपम्, रूपस्य योग्यमित्यर्थः । अर्थमर्थं प्रति प्रत्यर्थम् । प्रतिशब्दस्य वीप्सायां कर्मप्रवचनीयसंज्ञा विधानसामर्थ्यत्तद्योगे द्वितीयागर्भं वाक्यमपि । शक्तिमनतिक्रम्य यथाशक्ति ।


त्यन्ताभावस्यैव विवक्षितत्वात् । हिमस्यात्ययोऽतिहिममिति ॥ अतीत्यव्ययपर्यायः । अत्ययशब्दो विग्रहे ज्ञेयः । अर्थाभावेत्यनेन पौनरुक्तयन्निरस्यति । अत्ययो ध्वंसः इति ॥ अर्थाभावशब्देनात्यन्ताभाव एव विवक्षितः । तेन पटस्य प्रागभावः निष्पटमिति न भवतीति भावः । सूत्रे असम्प्रतीत्यस्य सम्प्रति न युज्यते इत्यर्थः । “एतर्हि सम्प्रतीदानीम्” इत्यमरः । युजिक्रियान्तभोवेण एकार्थीभावान्नञ्समासः । तदाह । निद्रासम्प्रति न युज्यते इति अतिनिद्रमिति ॥ अतीत्यव्ययस्यासम्प्रत्यर्थकस्य स्थाने सम्प्रति न युज्यते इति विग्रहवाक्यं ज्ञेयम् । सूत्रे शब्दप्रादुर्भाव इत्यनेन शब्दस्य प्रकाशनं विवक्षितम् । तदाह । हारशब्दस्य प्रकाशः इतिहरि इति ॥ इतीत्यव्ययं शब्दप्रकाशे वर्तते । तस्य हरिशब्देन स्वरूपपरेण षष्ठयन्तेन समास इति भावः । विष्णोः पश्चादनुविष्णु इति ॥ अनु इत्यव्ययं पश्चादर्थे वर्तते इत्यर्थः । भाष्येति ॥ “अचः परस्मिन्’ इति सूत्रभाष्ये इत्यर्थः । “ततः पश्चात् इत्यत्राव्ययीभावे तु पश्चाच्छब्दस्य पूर्वनिपातस्स्यादिति भावः । एतद्राष्यप्रयोगादेव एतत्सूत्रे तत्तदर्थबोधकपदघटकतया गृहीताव्ययेन तत्तदर्थकेनायं समासो नेति विज्ञायते । अत एव यथाऽसादृश्ये' इति सूत्रे सादृश्यसम्पत्तीति प्राप्नोतीत्येव । उक्तं भाष्ये । यथाशब्देन तु भवत्येव समासः । उत्तरसूत्रारम्भात् । सूत्रे यथाशब्देन तदर्थो लक्ष्यते । यथार्थे विद्यमानमव्ययं समस्यते इति लभ्यते इत्यभिप्रेत्य आह । योग्यतेति ॥ अनुरूपमिति ॥ अत्रानु इत्यव्ययं योग्यतायाम्, अतो यथार्थे वर्तते इति भावः । अर्थमर्थं प्रतीति ॥ लौकि कविग्रहवाक्यम् । अत्र वीप्सायां द्विर्वचनम् । 'लक्षणेत्थम्भूताख्यान' इति वीप्सायां द्योत्यायां प्रतेः कर्मप्रवचनीयत्वात् तद्योगे द्वितीया । समासे तु द्विर्वचनं न । समासेन वीप्सायाः द्योतित त्वात् इति ‘हयवरट्' इति सूत्रे कैयटः । प्रत्तिन्ना तस्योक्तत्वादिति तु तत्त्वम् । नन्वर्थमर्थं प्रतीति लौकिकविग्रहप्रदर्शनं न सम्भवति । नित्यसमासत्वादित्यत आह । प्रतिशब्दस्येति । साम र्थ्यदिति ॥ अव्ययीभावसमासस्य नित्यत्वे तु शेषष्ठयामपि अव्ययीभावे सुब्लुकि समासात् सर्वविभक्तीनामभावे तद्विकल्पे च प्रत्यर्थे प्रत्यर्थेनेत्यादिसिद्धे द्वितीयाफलकं प्रतेः कर्मप्रवचनीय त्वविधानमनर्थकं स्यादिति भावः । वस्तुतस्तु प्रतिस्थानमित्यादौ 'उपसर्गात्सुनोति' इति षत्वाभावसम्पादनेन कर्मप्रवचनीयत्वं चरितार्थमेव । “ अर्थमर्थं प्रति प्रत्यर्थम्’ इति “स्वं रूपम् इति सूत्रे भाष्ये ण्योगदर्शनात् इह वैकल्पिकसमास इति तत्त्वम् । शक्तिमनतिक्रम्य

यथाशक्तीति ॥ “परावरयोगे च' इति क्ताप्रत्ययः । परावरत्वञ्च बौद्धम् । अत्र यथेत्यव्ययं

४७६
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

हरेः सादृश्यं सहरि । वक्ष्यमाणेन सहस्य सः । ज्येष्ठस्यानुपूर्व्येणेत्यनुज्येष्ठम् । चक्रेण युगपदिति विग्रहे

६६० । अव्ययीभावे चाकाले । (६-३-८१)

सहस्य सः स्याद्व्ययीभावे न तु काले । सचक्रम् । काले तु सहपूर्वा हम् । सदृशः सख्या ससखि । यथार्थत्वेनैव सिद्धे पुनः सादृश्यग्रहणं गुण भूतेऽपि सादृश्ये यथा स्यादित्येवमर्थम् । क्षत्राणां सम्पत्तिः सक्षत्रम् । ऋद्धे राधिक्यं समृद्धिः । अनुरूप आत्मभावः सम्पत्तिरिति भेदः । तृणमप्यपरि त्यज्य सतृणमत्ति । साकल्येनेत्यर्थः । न त्वत्र तृणभक्षणे तात्पर्यम् । अन्ते, अग्निग्रन्थपर्यन्तमधीते, साग्नि ।


पदार्थानतिक्रमे वर्तते इत्यर्थः , हरेस्सादृश्यं सहरीति । अत्र सहेत्यव्ययं सादृश्ये वर्तत इति भावः । वक्ष्यमाणेनेति ॥ * अव्ययीभावे चाकाले' इत्यनेन इत्यर्थः । ज्येष्ठस्या नुपूर्व्येणेत्यनुज्येष्टमिति ॥ कार्यं कृतमिति शेषः । तत्तद्विभक्तया विग्रह इति पक्षाभिप्राये णेदम् । पूर्वस्य क्रमेण इत्यनुपूर्वम्, ततस्स्वार्थे ष्यञ् । एतत्सूत्रगृहीताव्ययेन समासो नेत्यनु पदमेवोक्तम् । सूत्रगृहीतानुनाप्यनुज्येष्ठमिति समासः । अनुपूर्वेति निर्देशात् । सूत्रे युगपच्छ ब्दात् स्वार्थे ष्यञ्, यौगपद्यशब्दः । तत् ध्वनयन्नाह । चक्रेण युगपदिति ॥ युगपत्पर्या यस्य सहशब्दस्य चक्रेण इत्यनेन समासे कृते सतीत्यर्थः । युगपच्छब्देन तु न समासः । सूत्रे गृहीतत्वादिति भावः । अव्ययीभावे सहस्य सस्स्यादिति ॥ 'सहस्य सस्संज्ञा याम्' इत्यतः तदनुवृत्तेरिति भावः । न तु काले इति ॥ कालवाचके परे सहस्य सो नेत्यर्थः । चक्रेण युगपत्प्रयुक्तमित्यर्थः । सहपूर्वाह्नमिति । समीपादौ अव्ययीभावः । सूत्रे सादृश्येति स्वार्थे ष्यञ् । तद्ध्ववनयन्नाह । सदृशस्सख्या ससखीति ॥ सहेत्यव्ययं सदृशार्थकमिति भावः । गुणभूतेऽपीति । वचनग्रहणसामर्थ्येनाव्यार्थप्राधान्य एव समास प्रवृत्तेः । गुणीभूतसादृश्ये अप्राप्त्या तद्रहणमिति भावः । क्षत्राणां सम्पत्तिः सक्षत्रमिति । क्षत्रियाणामनुरूपं कर्मेत्यर्थः । सहेत्यव्ययमत्र सम्पत्तौ वर्तते इति भावः । सम्पत्तिसमृद्धि शब्दयोः पौनरुक्तयं परिहरति । ऋद्वेरिति ॥ धनधान्यादेरित्यर्थः । अनुरूप इति ॥ अनुरूपं योग्यः आत्मभावः स्वभावः, स्वोचितं कर्मेति यावत् । तृणमप्यपरित्यज्य सतृण मत्तीति ॥ “परावरयोगे च' इति क्वा । परावरत्वं बौद्धमेव । सहशब्दोऽत्रापरिवर्जने वर्तते । नतु तृणसहभावेऽपीति भावः । नन्वेवं सति साकल्ये कथमिदमुदाहरणं स्यादित्यत आह । साकल्येनेत्यर्थ इति ॥ पात्रे परिविष्टं सकलं भक्षयतीति यावत् । नत्वत्रेति ॥ तृणभक्षणस्याप्रसत्तेरिति भावः । अन्ते इति । उदाहरणं वक्ष्यत इति शेषः । सूत्रे अन्तशब्देन अन्तावयवसाहित्यं विवक्षितमित्यभिप्रेत्योदाहरति । अग्निग्रन्थपर्यन्तमधीते

साग्नीति ॥ अग्निशब्देन अग्निचयनप्रतिपादको ग्रन्थो विवक्षितः । तेनान्तावयवेन सहित

समासप्रकरणम्]
४७७
बालमनोरमा ।

६६१ । यथाऽसादृश्ये । (२-१-७)

असादृश्ये एव यथाशव्दः समस्यते । तेनेह न । यथा हरिस्तथा हरः । हरेरुपमानत्वं यथाशब्दो द्योतयति । तेन * सादृश्य ' इति वा 'यथार्थ' इति वा प्राप्तं निषिध्यते ।

६६२ । यावदवधारणे । (२-१-८)

यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामाः यावच्छलोकम् ।

६६३ । सुप्प्रतिना मात्रार्थे । (२-१-९)

शाकस्य लेशः शाकप्रति। “मात्रार्थे' किम् । वृक्षं प्रति विद्योतते विद्युत् ।


ड्ग्रन्थमिति विग्रहः । अग्निग्रन्थपर्यन्तमिति फलितम् । ग्रन्थमिति अन्यपदार्थाध्याहारः । अधीत इति तु न समासप्रविष्टम् । अन्तावयवेन अग्निग्रन्थेन सहितं वेदकल्पसूत्रादिभागमधीते इत्यर्थः । अत्र कृत्स्नस्याध्येतव्यत्वात् अग्निग्रन्थपर्यन्ताध्ययने तत्कार्त्स्न्यावगमात् साकल्यात्पृथ गुक्तिः । यथाऽसादृश्ये ॥ असादृश्ये इति छेदः । व्याख्यानात् । असादृश्ये योग्यता वीप्सापदार्थानतिवृत्तिरूपे वर्तमानं यथेत्यव्ययं समस्यते इत्यर्थस्य यथार्थत्वादेव सिद्धे निय मार्थमिदमित्याह । असादृश्ये एवेति । ननु 'प्रकारवचने थाल्’ इति विहितथाल्प्रत्य यान्तस्य कथं सादृश्ये वृत्तिरित्यत आह । हरेरिति ॥ सामान्यस्य भेदको यो विशेषः स प्रकारः, तस्मिन् प्रकारे थालिति ‘प्रकारवचने थाल्’ इत्यस्यार्थः । ततश्च यद्विशेषधर्मवान् हरिः तद्विशेषधर्मवान् हर इति बोधे सति यत्तच्छब्दाभ्यां तयोः प्रकारयोः अभेदावगमात् उपमानत्वप्रतीतिरिति भावः । तेनेर्ति । प्राप्तमित्यत्रान्वयः । सादृश्यार्थकत्वेनेत्यर्थः । सादृश्य इति वेति । ‘अव्ययं विभक्ति’ इति सूत्रगतेन सादृश्ये वर्तमानमव्ययं समस्यते इत्यंशेन वा यथार्थे विद्यमानमव्ययं समस्यते इत्येशेन वा प्राप्तमव्ययीभावसमासकार्यन्निषिध्यते इति भावः । भाष्ये तु प्रकारवचने यथाशब्दयोगे सादृश्यत्यनेनैव प्राप्तिरुक्ता, नतु यथार्थत्वेन प्राप्तिरुक्ता । यथाशब्दस्य सूत्रगृहीतत्वेन तद्योगे यथार्थेत्यप्रवृत्तेरिति तदाशय इति शब्देन्दुशेखरे विस्तरः । यावद्वधा रणे ॥ इयत्तापरिच्छेदे गम्ये यावदित्यव्ययं समस्यते । सोऽव्ययीभाव इत्यर्थः । यावन्त इति ॥ यत् परिमाणं येषामिति विग्रहे “यत्तदेतभ्यः परिमाणे वतुप्' इति वतुप्प्रत्ययः । यावदित्यव्ययमेव समस्यते, विग्रहस्तु तद्धितान्तेनैव । नित्यसमासत्वेन अखपदविग्रहौ चित्यात् । अवधारणे किम् । यावद्दत्तन्तावदुक्तम् । इयत् भुक्तमिति नावधारयतीत्यर्थः । सुष्प्रतिना मात्रार्थे ॥ सुबिति छेदः । मात्रा लेशः तस्मिन्नर्थे विद्यमानेन प्रतिना सुबन्तं समस्यत इत्यर्थः । सुबित्यनुवर्तमाने पुनस्सुळ्ग्रहणं सन्निहितस्याव्यमित्यस्याननुवृत्त्यर्थम् । तत्

ध्वनयन्नुदाहरति । शाकस्य लेशः शाकप्रतीति ॥ अत्र प्रतीत्यव्ययं मात्रार्थकम् ।

समासप्रकरणम्]
४७८
बालमनोरमा ।

६६४ । अक्षशलाकासंख्याः परिणा । (२-१-१०)

द्यूतव्यवहारे पराजये एवायं समासः । अक्षेण विपरीतं वृत्तमक्षपरि । शलाकापरि । एकपरि ।

६६५ । विभाषा । (२-१-११)

अधिकारोऽयम् । एतत्सामर्थ्यादेव प्राचीनानां नित्यसमासत्वम् । सुप्सुपा' इति तु न नित्यसमासः । ' अव्ययम्' इत्यादिसमासविधानाज्ज्ञापकात् ।


अतस्तेन शाकस्येति सुबन्तस्य समासः । समासविधौ सुबन्तस्य प्रथमानिर्दिष्टत्वेन उपसर्जन त्वात्पूर्वनिपातः, नतु प्रतेः । तस्य समासविधौ तृतीयानिर्दिष्टत्वात् । वृक्षं प्रतीति ॥ अत्र प्रतेः मात्रार्थकत्वाभावात् न तेन समासः । नच “लक्षणेत्थम्' इति कर्मप्रवचनीयत्वविधान सामर्थ्यादेवात्र समासो न भविष्यति । सति समासे द्वितीयायाष्षष्ठया वा लुकि समासात्तद्विभ क्तयुत्पत्तेरिति वाच्यम् । *वृक्षं प्रति सिञ्चति' इत्यादौ “उपसर्गात् सुनोति' इति षत्वनिवृत्त्या कर्मप्रवचनीयस्य चरितार्थत्वादित्यन्यत्र विस्तरः । अक्षशालाका ॥ समस्यते सोऽव्ययीभाव इति शेषः । द्यूतव्यवहारे इति वार्तिकमिदम् । द्यूतं तावत् अक्षैश्शलाकाभिर्वा भवति यदि अक्षाश्शलाका वा कृत्स्नाः उत्ताना अवाञ्चो वा पतन्ति, तदा पातयिता जयति । अन्यथा पराजयतीति स्थितिः । अक्षेणेति । कर्तरि तृतीया । विपरीतं वृत्तमित्यत्र वृतेः र्भावे क्तः । विपरीतमिति क्रियाविशेषणम् । जये यथा परिवर्तितव्यं न तथा परिवृत्तमित्यर्थः । शलाकापरीति ॥ शलाकया विपरीतं वृत्तमिति भावः । एकपरीति ॥ एकेन विपरीतं वृत्तमित्यर्थः । एवं द्विपरि त्रिपरि इत्यादि । विभाषा ॥ अधिकारोऽयमिति ॥ ततश्च उत्तरत्र समासविधिषु एतदनुवर्तते इति लभ्यते । ननु “प्राकडारात् समासः' इत्यत ऊर्ध्वे सह सुपा' इत्यतः प्रागेव कुतो विभाषाधिकारो न कृत इत्यत आह । एतत्सामर्थ्यादिति । मध्ये विभाषाधिकारपाठसामर्थ्यादेवेतः प्राचीनानां नित्यसमासत्वं गम्यत इत्यर्थः । यद्यपीतः प्राचीनानां विकल्पे प्रमाणाभावादेव नित्यत्वं सिद्धम् । तथापि तस्यैव लिङ्गे दृढीकरणमिति बोध्यम् । नन्वेवं सति 'सुप्सुपा' इत्यपि नित्यसमासस्स्यात् । ततश्च पूर्वं भूतः इति लौकिक विग्रहवाक्यमनुपपन्नं स्यात् । “सुप्सुपा' इति विषये विस्पष्टं पटुः विस्पष्टपटुरिति विग्रहप्रदर्श नपरम् “ आकडारात्' इति सूत्रस्थभाष्यमपि विरुध्द्येत इत्यत आह । सुप्सुपांते तु न नित्यसमासः इति ॥ कुत इत्यत आह । अव्ययमित्यादीति ॥ “ आकडारात्' इत्येव सिद्धे 'प्राकडारात्' इति प्राग्ग्रहणं समाससंज्ञायाः अव्ययीभावादिसंज्ञासमावेशार्थम् । अन्यथा एकसंज्ञाधिकारात् पर्यायस्स्यादिति “आकडारात्’ इति सूत्रे भाष्ये स्थितम् । तत्र “अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु “सुप्सुपा' इति समासमनूद्य नाव्ययीभावादिसज्ञा विधेयाः ।


१. अत्र १२४३ वार्तिकं मानम् ।

समासप्रकरणम्]
४७९
बालमनोरमा ।

६६६ । अपपरिबहिरञ्चवः पञ्चम्या । (२-१-१२)

अपविष्णु संसारः-अप विष्णोः । परिविष्णु-परि विष्णोः । बहि र्वनम्--बहिर्वनात् । प्राग्वनम्-प्राग्वनात् ।

६६७ । आङमर्यादाभिविध्योः । (२-१-१३)

एतयोराड् पञ्चम्यन्तेन वा समस्यते सोऽव्ययीभावः । आमुक्ति संसारः—आ मुक्त्तेः । आबालं हरिभक्तिः—आा बालेभ्यः ।


उपपदमतिङ्’ ‘कर्तृकरणे कृता बहुळम् ’ “ आख्यातमाख्यातेन क्रियासातत्ये' इत्यादी सुबन्तस्य सुबन्तेन समासस्य उद्देश्यस्याप्रसिद्धेः । अतस्तेषु समासविधानस्यावश्यकत्वात् अर्थाधि कारानुरोधात् सर्वत्र समास इत्यनुवृत्तं विधेयसमर्पकमित्यास्थेयम् । तत्र “सुप्सुपा' इत्येव सिद्धे “ अव्ययं विभक्ति' इत्याद्यव्ययीभावादिविधिषु समाससंज्ञाविधानं व्यर्थं स्यात् । ततः प्राचीनविधेः वैकल्पिकत्वं ज्ञापयति । न चाव्ययीभावादिविधिषु समासविध्यभावे अव्ययादीनां समासशास्त्रे प्रथमानिर्दिष्टत्वाभावेन उपसर्जनत्वाभावात् पूर्वनिपातनियमो न स्यात् । तदर्थमव्ययीभावादिविधिषु समासविधानञ्चरितार्थमिति वाच्यम् । प्रथमानिर्दिष्टम् इति सूत्रे समास इत्यस्य समासत्वव्याप्याव्ययीभावादिविधायके शास्त्रे इत्यर्थाभ्युपगमेन अव्ययादीनाम् उपसर्जनत्वसिद्धेः वक्तुं शक्यत्वात् । तस्मादव्ययीभावादिविधिषु समास विधानं “सुप्सुपा' इति समासस्य वैकल्पिकत्वं ज्ञापयतीति स्थितम् । “ आकडारात्’ इति सूत्रभाष्ये “सुप्सुपा' इति समासविषये विस्पष्टं पटुः विस्पष्टपटुः” इति विग्रहप्रदर्शनपरभाष्यच्चेह लिङ्गमित्यलं बहुना । एवञ्च 'इवेन समासः’ इत्यादि वैकल्पिकमिति सिद्धम् । यद्यपि नित्य समासाधिकारे ‘कुगति’ इत्यत्रापि इवेनेति वार्तिकं पठितम् । तथापि “सुप्सुपा' इत्यत्र पठितभेव तत्रापि स्मार्यत इति कैयटः । अपपरिबहिः ॥ समस्यन्ते सोऽव्ययीभाव इति शेषः । अपविष्ण्विति ॥ अत्र अप इत्यव्ययं वर्जने । विष्णु वर्जयित्वा संसरणमित्यर्थः । अप विष्णोरिति।। लौकिकविग्रहवाक्यम् । समासस्य वैकल्पिकत्वेनास्वपदविग्रहनियमाभावात् । अपपरी वर्जने' इति अपत्यव्ययस्य कर्मप्रवचनीयत्वात् तद्योगे ‘पञ्चम्यपाङ्परिभिः’ इति पञ्चमी । तदन्तेन अपेत्यस्याव्ययीभावसमासः, सुब्लुक् । अपेत्यव्ययस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । समासात् सुबुत्पत्तिः । ‘अव्ययादाप्सुपः' इति लुक् । एवं यथायथमग्रेऽपि ज्ञेयम् । परि विष्ण्विति । अत्रापि परिर्वर्जने । पञ्चम्यादि पूर्ववत् । बहिर्वनम्--बहिर्वनादिति ॥ अस्मादेव ज्ञापकात् बहिर्योगे पञ्चमी । इतरत् पूर्ववत् । अदन्तत्वादम्भावः । प्राग्वनम्-- प्राग्वनादिति ॥ अञ्चूत्तरपदयोगे पञ्चमी । आङार्यादाभिविध्योः । एतयोरिति ॥ मर्यादाभिविध्योः ।विृद्यमानादित्यर्थ मर्यादायामुदाहरति । आमुक्तीति ॥ मुक्तः प्रागि

त्यर्थः । अभिविधावुदाहरति । आबालमिति । बालानारभ्य इत्यर्थः । “आड्र्यादावचने

४८०
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता
६६८ । लक्षणेनाभिप्रती आभिमुख्ये । (२-१-१४)

आभिमुख्यद्योतकावभिप्रती चिह्नवाचिना सह प्राग्वत् । अभ्यग्नि शलभाः पतन्ति, अग्निमभि । प्रत्यग्नि अग्निं प्रति ।

६६९ । अनुर्येत्समया । (२-१-१५)

यं पदार्थं समया द्योत्यते तेन लक्षणभूतेनानुः समस्यते सोऽव्ययी भावः । अनुवनमशनिर्गतः । वनस्य समीपं गत इत्यर्थः ।

६७० । यस्य चायामः । (२-१-१६)

यस्य दैर्ध्यमनुना द्योत्यते तन्न लक्षणभूतेनानुः समस्यते । अनुगङ्गं वाराणसी । गङ्गाया अनु । गङ्गादैर्ध्यसदृशदैर्ध्योपलक्षितेत्यर्थः ।

६७१ । तिष्ठदुप्रभृतीनि च । (२-१-१७)


इत्युभयत्रापि कर्मप्रवचनीयत्वात् “पञ्चम्यपाड्परिभिः’ इति पञ्चमी । लक्षणेनाभि ॥ लक्षणे त्येतव्याचष्टे । चिह्नवाचिनेति । प्राग्वदिति । समस्यते सोऽव्ययीभाव इत्यर्थः । अभ्यग्नि शलभाः पतन्तीति ॥ शलभाः क्षुद्रजन्तुविशेषाः स्थूलमक्षिकाः । अग्रिम भीति । विग्रहोऽयम् । “ अभिरभागे' इति “लक्षणेत्थम्' इति चाभिप्रत्योः कर्मप्रवचनीयत्वं अग्निज्ञाप्यं, तदभिमुखञ्च शलभपतनमित्यर्थः । अनुर्यत्समया ॥ लक्षणेनेत्यनुवर्तते । यदिति समयायोगे “अभितः परितः' इति द्वितीयान्तम्, सामान्ये नपुंसकम् । तदाह । यं पदार्थमिति । अनुवनमिति । अत्र वनशब्दः वनसमीपदेशे लाक्षणिकः । वन समीपस्य लक्षणत्वं वस्तुसदेव निमित्तम् । तदाह । वनस्य समीपं गत इत्यर्थः इति ॥ वस्तुतो लक्षणीभूतस्य वनस्य समीपं गत इति यावत् । “अव्ययं विभक्ति' इत्यादिना सिद्धे विभाषार्थमिदं सूत्रम् । ततश्च वनस्यानु इति लौकिकविग्रहवाक्यमुदाहार्यम् । नात्र कर्म प्रवचनीयसंज्ञा शङ्कया । वस्तुतस्सैवात्र लक्षणत्वनिमित्तत्वाश्रयणात् । लक्षणत्वस्य ज्ञातस्य निमिः त्तत्वे तु वनमनु इत्येव वाक्यमुदाहार्यम् । यस्य चायामः ॥ लक्षणेनेत्यनुवर्तते । अनुरित्य नुवृत्य आकृत्य आयाम इत्यत्र तृतीयया विपरिणम्यते । तत्र एकं लक्षणेनेत्यत्र सम्बध्द्यते । द्वितीयन्तु अनुनेत्येतत् “यस्य वायामः' इत्यनन्तरं सम्बध्द्यते । द्योत्यत इति शेषः । आयामो दैघ्र्यम् । तदाह । यस्य दैर्ध्यमिति । यद्वैर्ध्यसदृशं दैर्ध्यमित्यर्थः । समस्यते इति ॥ सोऽव्ययीभावः इत्यपि बोध्यम् । अनुगङ्गमिति समासः । लौकिकविग्रहं दर्शयति । गङ्गायाः अ न्विति ॥ इहापि लक्षणत्वं वस्तुसदेव निमित्तम्, नत्वनुद्योत्यम् । अतो न कर्मप्रवचनीयत्वम् । द्योत्यत्वेनान्वये तु गङ्गामन्विति युक्तम् । अनुगङ्गमित्यत्र गङ्गाशब्देन गङ्गादैर्ध्यसदृशं दैर्ध्य

लक्ष्यते । तदेवानुद्योत्यम् । तदाह । गङ्गादैर्घ्येति ॥ तिष्ठदुप्रभृतीनि च ॥ एतानीति ॥

समासप्रकरणम्]
४८१
बालमनोरमा ।


एतानि निपात्यन्ते । तिष्ठन्ति गावो यस्मिन्काले स तिष्ठद्रु दोहनकाल आयतीगवम् । इह शत्रादेशः पुंवद्भावविरहः समासान्तश्च निपात्यते । खले यवम् इत्यादि ।

६७२ । पारे मध्ये षष्ठया वा । (२-१-१८)

पारमध्यशब्दौ षष्ठयन्तेन सह वा समस्येते । एदन्तत्वं चानयोर्निपात्यते । पक्षे षष्टीतत्पुरुष । पारेगङ्गादानय-गङ्गापारात् । मध्येगङ्गात्-गङ्गामध्यात् । महाविभाषया वाक्यमपि । गङ्गायाः पारात् । गङ्गाया मध्यात् ।


शब्दरूपाणीत्यर्थः। तिष्ठन्ति गाव इति ।। फलितार्थकथनम् । तिष्ठन्त्यो गावो यस्मिन् काले स तिष्ठद्गुः इत्येव वक्तव्यम् । 'सुप्सुपा' इत्यनुवृत्तेः । दोहनकालः इति । तदा गवां शयनोपवेशनयोरभावादिति भावः। आयतीगवमिति।। आयत्यो गावो यस्मिन् काले इति विग्रहः। इहेति उदाहरणद्वये इत्यर्थः। शत्रादेशइति।। तिष्ठन्त्यो गाव इति आयत्यो गाव इति च प्रथमासमानाधिकरणत्वात् * लटश्शतृशानचौ' इत्यप्राप्तौ तन्निपातन मिति भाव पुवद्भावेति । तिष्ठन्तीशब्दस्येव आयतीशब्दस्यापि स्त्रियाः पुंवत्' इति पुंवत्त्वस्य प्राप्तौ तदभावः निपात्यते इति भावः। समासान्तश्चेति॥ आयतीगोशब्दस्य टच् समासान्ता निपात्यते। तत्पुरुष एव गोशब्दस्य टज्विधेरिति भावः। समासान्तश्चेति चकारात् अव्ययीभावश्च निपात्यते इति ज्ञेयम्। तथाच तिष्ठद्रोशब्दस्य नपुंसक ह्रस्वत्वम् । अव्ययत्वात् सुपो लुक् । आयतीगवशब्दात्तु “नाव्ययीभावात्' इत्यम्भाव इत्यादि फलति । इत्यादीति । खलेयवं खलेबुसम् इति सप्तम्या अलुक् इत्यादि ग्राह्यम् । पारे मध्ये षष्ठया वा ॥ पारे मध्ध्ये इति न सप्तम्यन्तयोर्ग्रहणम् । किन्तु पारमध्यशब्दयोरेव इत्याह । पार मध्यशब्दाविति ॥ समस्येते इति । अव्ययीभावसंज्ञेों चेवत्यपि बोध्द्यम्। ननु पारमध्द्यशब्द योरकारान्तयोः ग्रहणे कथं एकारनिर्देश इत्यत आह । एदन्तत्वञ्चेति ॥ ननु विभाषा इत्यधि कारादेव सिद्धे वाग्रहणं किमर्थमित्यत आह । पक्षे षष्ठीतत्पुरुष इति । वाग्रहणाभावे मव्ययीभावसमासः विशेषविहितत्वात् षष्ठीसमासं बाधेत । तदबाधार्थे वाग्रहणामिति भाव पारेगङ्गादानयेति गङ्गायाः पारात् इति विग्रहे अव्ययीभावसमासे साति सुब्लुकि पारशब्दस्य पूर्वनिपाते निपातनादेत्वे नपुंसकह्रस्वत्वे पारेगङ्गशब्दात् समासात्पुनः पञ्चम्युत्पत्तिः। अव्ययादाप्' इति न लुक् । अदन्ततया ‘नाव्ययीभावात्' इति निषेधात् । अपञ्चम्याः इति पर्यु दासादम्भावश्च नेति भावः । गङ्गापारादिति । षष्ठीसमासपक्षे ज्ञेयम् । मध्येगङ्गादिति पारेगङ्गादितिवदूपम् । गङ्गामध्यादिति । षष्ठीसमासे ज्ञेयम् । पारे मध्ये इति सप्तम्यन्ते षष्ठया समस्यते इति व्याख्यानतु गङ्गायाः पारे मध्ये इति विग्रहे समासे सति 'तत्पुरुषे कृति बहुळम्’ इति बहुळग्रहणात् सप्तम्योरलुकि नपुंसकह्रस्वत्वे समासात् पुनरुत्पन्नायाः सप्तम्याः अम्भावे “पारेमध्यं, पारेगङ्गम्’ इति सिद्धेः एकारनिर्देशो व्यर्थः स्यात् । अतः यत्र सप्तम्यर्थो न सम्भवति तदर्थमेकारनिपातनमिति भाष्ये स्पष्टम् । एतत्सूचनायैव पञ्चम्यन्तोदाहरणामिति

बोध्यम् । ननु यदि वाग्रहणमिह पक्ष षष्ठीसमासप्राप्त्यर्थमेव स्यात् । तर्हि गङ्गायाः पारात्

४८२
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

६७३ । सङ्खया वंश्येन । (२-१-१९)

वंशो द्विधा, विद्यया जन्मना च। तत्र भवो वंश्यः। तद्वाचिना सह सङ्ख-या वा समस्यते । द्वेौ मुनी वंश्यौ द्विमुनि व्याकरणस्य । त्रिमुनि । विद्यातद्वतामभेदविवक्षायां, त्रिमुनि व्याकरणम्। एकविंशतिभारद्वाजम् ।

६७४ । नदीभिश्च । (२-१-२० )

नदीभिः सङ्ख-या प्राग्वत् । * समाहारे चायमिष्यते' (वा १२४६) । सप्तगङ्गम् । द्वियमुनम् ।


मध्यादिति वाक्यं न स्यादित्यत आह । महाविभाषयेति ॥ विभाषत्यधिकृता महाविभाषा सर्वेषु समासविधिषु प्रायेण तस्यानुवृत्तेः महत्त्वं बोध्यम् । ननु अव्ययीभावसमासस्य षष्ठी समासापवादत्वेऽपि तस्य महाविभाषया वैकल्पिकत्वात् तदभावपक्षे उत्सर्गतः षष्ठीतत्पुरुषः प्रवर्तत एव । तस्यापि षष्ठीसमासस्य विभाषाधिकारस्थत्वेन वैकल्पिकत्वात् तदभावपक्षे वाक्यमपि सिध्द्यत्येव । तस्मादिह सूत्रे वाग्रहणं व्यर्थमेवेति चेदुच्यते । “यत्र उत्सर्गापवादौ महाविभाषया विकल्पितौ तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तते' इति ज्ञापनार्थमिह वाग्रहणम् । तेन पूर्व कायस्येत्यत्र एकदेशिसमासेन मुक्ते षष्ठीसमासो न भवति । दक्षस्यापत्यं दाक्षिरित्यत्र अत इञा मुक्त्ते ‘तस्यापत्यम्’ इत्यण् न भवति । किन्तु वाक्यमेवेति भाष्ये स्पष्टम् । सङ्खया वंश्येन । वंशो द्विधेति ॥ वंशस्सन्ततिः । “सन्ततिर्गोत्रजननकुलान्यभिजना न्वयौ । वशोऽन्ववायस्सन्तानः” इत्यमरः । विद्यया जन्मनेति । तत्र जन्मना वंशः पुत्रादिपरम्परेति प्रसिद्धमेव । विद्यया तु वंशः गुरुपरम्परा । “यस्माद्धर्मानाचिनोति स आचार्यः । तस्मै न द्रुह्येत् कदाचन । स हि विद्यातस्तं जनयति । तच्छ्रेष्ठं जन्म । शरीरमेव मातापितरौ जनयतः” इत्याद्यापस्तम्बस्मरणात् । तत्र भवो वंश्य इति ॥ दिगादित्वात् यत् । वा समस्यते इति ॥ सोऽव्ययीभावः इत्यपि बोध्यम्। द्वौ मुनी वंश्याविति ॥ विग्रहोऽयम् । मुनिशब्दो विद्यावंशवाचीति सूचनाय वंश्यावित्युक्तम् । द्विमुनि व्याकरणस्येति । द्वौ च तौ मुनी चेति विग्रहे 'विशेषणं विशेष्येण बहुळम्’ इति कर्मधारयं बाधित्वा अव्ययीभावः । अव्ययत्वात् सुब्लुक् । व्याकरणविद्यायाः प्रवर्तकौ द्वौ मुनी पाणिनिकात्यायनावित्यर्थ । त्रिमुनीति ॥ त्रयो मुनयः पाणिनिकात्यायनपतञ्जलय इति विग्रहः । नन्वेवं त्रिमुनि व्याक रणमिति सामानाधिकरण्यानुपपत्तिरित्यत आह । विद्यातद्वतामिति । यद्यपि बहुव्रीहि णाप्येतत् सिद्धम् । तथापि विभक्तयन्तरेषु रूपभेद इत्याहुः । अथ जन्मना वंश्यमुदाहरति । एकविंशतिभारद्वाजमिति । एकविंशतिभारद्वाजा इति कर्मधारयं बाधित्वा अव्ययी भावः । तत्र विग्रहवाक्ये भरद्वाजशब्दात् बिदादित्वादञ् । “यञ्ञोश्च' इति लुक् । समासे तु 'उपकादिभ्योऽन्यतरस्यामद्वन्द्वे' इति लुगभावः । “तृतीयासप्तम्योर्बहुळम्’ इति सूत्रे एकविंशतिभारद्वाजम्’ इति प्रयोगदर्शनेन उपकादिषु भारद्वाजशब्दस्य पाठानुमानात् ।

नदीभिश्च । प्राग्वदिति ॥ नदीभिस्सङ्खया समस्यते सोऽव्ययीभाव इत्यर्थः । समाहारे

समासप्रकरणम्]
४८३
बालमनोरमा ।


६७५ । अन्यपदार्थे च संज्ञायाम् । (२-१-२१)

अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम् । विभाषाधिकारेऽपि वाक्येन संज्ञानवगमादिह नित्यसमासः । उन्मत्तगङ्गं नाम देशः । लोहितगङ्गम् ।

६७६ । समासान्ताः । (५-४-६८)

इत्यधिकृत्य ।

६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः । (५-४-१०७)


चेति ॥ वार्तिकम् । चकार एवार्थे । भाष्ये चकारविहीनस्यैव पाठात् । सप्तगङ्गमिति ॥ सप्तानां गङ्गानां समाहार इति विग्रहे “तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमासं वाघित्वा अव्ययीभावसमासः । द्वियमुनमिति । द्वयोर्यमुनयोस्समाहार इति विग्रहः । “अत्र नदी शब्देन नदीशब्दविशेषस्य नदीवाचकानाञ्च ग्रहणम्” इति सङ्खयासंज्ञासूत्रे भाष्ये स्पष्टम् । तेन पञ्चनदं सप्तगोदावरमित्यादि सिध्द्यति । अन्यपदार्थे च ॥ सङ्खयेति निवृत्तम् । नदीभिरित्यनुवर्तते । तदाह । सुबन्तं नदीभिरिति ॥ समस्यत इति ॥ सोऽव्ययी भावः इत्यपि बोध्यम् । संज्ञानवगमादिति ॥ सम्यक् ज्ञायत इति संज्ञा । “ आतश्चोपसर्गे' इति कर्मण्यङ् । उन्मत्ता गङ्गा यस्मिन्निति वाक्येन देशविशेषस्यानवगमादिह नित्यसमास इत्यर्थः । ततश्च नास्ति लौकिकविग्रहः अस्वपदविग्रहो वेति फलति । वस्तुतस्तु विभाषाधि कारादयमपि समासो वैकल्पिक एव । अत एव * द्वितीयतृतीय’ इति सूत्रे अन्यतरस्या ङ्ग्रहणेन उत्सर्गापवादयोर्महाविभाषाविषयत्वात् अपवादाभावे उत्सर्गस्याप्रवृत्तिरिति ज्ञापितेऽर्थे उन्मत्तगङ्गमित्युदाहृतम् । “अव्ययीभावेन मुक्ते बहुव्रीहिर्न” इति चोक्तं भाष्ये । अस्य समासस्य नित्यत्वे तु तदसङ्गतिस्पष्टैव । कदाप्यव्ययीभावमुक्तयसम्भवात् । समासान्ताः ॥ इत्यधिकृत्येति ॥ आपादपरिसमाप्तेरिति भावः । “ अत्र समासपदम् अलौकिकविग्रह वाक्यपरमेव । अत एव बहुकुमारीख्यत्र हस्वो न' इति “गोस्त्रियोः' इति सूत्रे “अन्तः' इति सूत्रे च भाष्ये स्पष्टम् । एवञ्चालौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्त इति सिद्धान्तः । अन्तशब्दश्चरमावयववाची, अत एव उपशरदमित्यादौ “नाव्ययीभावात् इत्यम् । तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाभावादम् न स्यात् । तथाच टचस्त दनवयवत्वे * अव्ययानां भमात्रे टिलोपः' इति प्रसज्येत । टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययी भावसमासतया अव्ययत्वादुपश्शरद् इत्यस्याव्ययत्वाभावान्न टिलोपः । समासान्तप्रत्ययाश्चालौ किकविग्रहवाक्ये सुपः पुरस्तादेव भवन्ति । अत एव “प्रत्ययस्थात्' इति सूत्रभाष्ये “बहु चर्मिका' इत्युदाहृतं सङ्गच्छते । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । अव्ययीभावे ॥ 'राजा

हस्सखिभ्यष्टच्’ इत्यतः टजिति अनुवर्तते । तदाह । शरदादिभ्यः इति ॥ अव्ययीभावे

४८४
[अव्ययीभाव
सिद्धान्तकौमुदीसहिता

शरदादिभ्यष्टच्स्यात्समासान्तोऽव्ययीभावे । शरदः समीपमुपशरदम् । प्रतिविपाशम् । शरद् । विपाशु । अनस् । मनस् । उपानह् । दिव् । हिमवत् । अनडुह । दिशा । दृश् । विश् । चेतस् । चतुर्। त्यद् । तद् । यद् । कियत् । “जराया जरस् च' (ग १४७) । उपजरसम् । 'प्रतिपर समनुभ्योऽक्ष्णः ’ (ग १४८) । 'यस्येति च' (सू ३११) । प्रत्यक्षम् । अक्ष्णः परम्' इति विग्रहे समासान्तविधानसामर्थ्याद्व्ययीभावः । 'परोक्षे iलिट्' (सू २१७१) इति निपातनात्परस्यौकारादेशः । परोक्षम् । ' परोक्षा क्रिया' इत्यादि तु अर्शआद्यचि । समक्षम् । अन्वक्षम् ।


उत्तरपदं यत् शरदादिप्रकृतिकं सुबन्तं तदन्तात् टच् स्यात् । स च अलौकिकविग्रहवाक्यान्ता वयव इत्यर्थः । उपशरदमिति ॥ “ अव्ययं विभक्ति' इत्यादिना समीपार्थकस्य उपेत्यव्यय स्य शरद इति षष्ठयन्तेनाव्ययीभावः , टच् । टचस्समासावयवत्वेन तदन्तस्याव्ययीभावसमास त्वात् 'नाव्ययीभावात्' इत्यम् । उपशरद् इत्यस्य अव्ययीभावसमासत्वाभावात् “ अनव्ययत्वा दव्ययानां भमात्रे टिलोपः' इति न भवति । विपाट्शब्दो नदीविशेषे वर्तते । “विपाशा तु विपाट् स्त्रियाम्' इत्यमरः । “लक्षणेनाभिप्रती' इति अव्ययीभावसमासः । शरदादिगणं पठति । शरदित्यादिना । अत्र झयन्तानां “झयः' इति विकल्पे प्राप्ते नित्थार्थः पाठः ।

  • जराया जरश्च' इति शरदादिगणसूत्रम् । जराशब्दस्य जरसादेशश्चास्मिन् गणे वाच्यः इत्यर्थः ।

उपजरसमिति ॥ जरायास्समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्य जराया इति षष्ठयन्ते नाव्ययीभावसमासे कृते टच्, सुब्लुक्, उपेत्यस्य पूर्वनिपातः । टचो विभक्तित्वाभावात् तस्मिन् परेऽप्राप्ते जरसि अनेन जरस्। टजन्ताद्यथायथं सुपः अम्भाव इति भावः । ‘प्रतिपरसम्’ इत्यपि गणसूत्रम् । एतेभ्यः परस्याक्षिशब्दस्य इह गणे पाठ इत्यर्थः । “यस्येति च' इति टचस्त द्धितत्वात्तस्मिन् परे इकारस्य लोप इति भावः । प्रत्यक्षमिति ॥ अक्षिणी प्रतीति विग्रहः । अक्ष्णोरभिमुखमित्यर्थः । “लक्षणेत्थम्’ इति कर्मप्रवचनीयत्वात् द्वितीया । “लक्षणेनाभिप्रती इत्यव्ययीभावः । टच्, सुब्लुक् । “यस्येति च' इति इकारलोपः । प्रत्यक्षशब्दात् यथायथं सुबुत्पत्तिः । अम्भाव इति भावः । परमिति ॥ व्यवहितमित्यर्थः । अविषय इति यावत् । अक्ष्णः परमिति विग्रहे अव्ययीभाव इत्यन्वयः । ननु परशब्दस्यानव्ययत्वात् कथमिहाव्ययी भाव इत्यत आह । समासान्तविधानसामर्थ्यादिति ॥ प्रतिपरमिति परशब्दात् परस्याक्षिशब्दस्य टजर्थं शरदादिगणे पाठोऽवगतः । “ अव्ययीभावे शरत्प्रभृतिभ्यः' इत्यव्ययी भावे टज्विहित तत्सामर्थ्यादनव्ययस्यापि परशब्दस्याव्ययीभाव इत्यर्थः । परोक्षमिति अक्ष्णः परमिति विग्रहे परमित्यस्य अक्षि इत्यनेनाव्ययीभावसमासः। टच्सुब्लुक्।परश्बदस्य ओकारोऽन्तादेशः पररूपम् । परोक्षाद्यथायथं सुप् अम्भाव इति भावः । अर्श आद्यचीति ॥ परोक्षमस्यास्तीत्यर्थे परोक्षशब्दात् धर्मप्रधानात् “अर्शआदिभ्योऽच्' इति मत्वर्थीये अच्प्रत्यये

कृते “यस्येति च' इत्यकारलोपे टापि च कृते, परोक्षा क्रिया, इत्यादि ज्ञेयमित्यर्थः । अत्र गणसूत्रे

समासप्रकरणम्]
४८५
बालमनोरमा ।

६७८ । अनश्च । (५-४-१०८)

अन्नन्तादाव्ययीभावाट्टच्स्यात् ।

६७९ । नस्तद्धिते । (६-४-१४४)

नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ।

६८० । नपुंसकादन्यतरस्याम् ।(५-४-१०९)

अन्नन्तं यत्कृीबं तदन्तादव्ययीभावाट्टज्वा स्यात् । उपचर्मम्—उपचर्म ।

६८१ । नदीपौर्णमास्याग्रहायणीभ्यः । (५-४-११०)

वा टच्स्यात् । उपनदम्-उपनदि । उपपौर्णमासम्-उपपौर्णमासि उपाग्रहायणम्-उपाग्रहायणि ।


परग्रहणं प्रक्षिप्तमिति युक्तम्। परोक्षे लिट्' इति सूत्रस्थभाष्यकैयटयोरत्र समासान्तस्यापि निपातनेनेव साधितत्वात्। समसक्षमिति।। अक्ष्णोर्योग्यमित्यर्थः । यथार्थेऽव्ययीभावः। टच् इकारलोप इति भावः। अन्वक्षमिति।।अक्ष्णोः पश्चादित्यर्थः । पश्चादर्थे अव्ययी भावः। शेष समक्षवत् ।अनश्च ।। अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणम्यते। अन इति तद्विशेषणम् । तदन्तविधिः। तदाह। अन्नन्तादिति।।नस्तेद्धिते ।। न इति षष्ठ्यन्तम् ।तेन भस्यत्यधिकृतं विशेष्यते, तदन्तविधिः। टेरिति सूत्रमनुवर्तते अल्लोपो डनः इत्यस्माल्लोप इति च। तदाह ।नीन्तस्येति ।। उपराजमिति।। राज्ञस्समीप मित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावः। अनश्च इति टच् सुब्लुक् टिलोपः। उप राजशब्दादयथायथं सुप् अम्भावः। टजन्तस्यैवाव्ययीभावसमासत्वाट्टचि परे अव्ययानां भमात्रे टिलोपाप्रवृत्तेः “नस्तद्धिते ' इत्यारम्भ अध्यात्ममिति ॥ आत्मनीत्यर्थः । विभक्तयर्थे अव्ययीभावः।शेषं पूर्ववत् । नपुंसकादन्यतरस्याम्॥ अन इत्यनुवृत्तं नपुसकस्य विशेषणम् । तदन्तविधि अन्नन्तात् क्लीबादिति लब्धम् । तेनाव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । तदाह । अन्नन्तादिति ॥ उपचर्मम्-उपचर्मेति चर्मणस्समीपमित्यर्थः । सामीप्ये उपेत्यव्ययस्याव्ययीभावः। टचि टिलोपः अम्भावः टजभावे उपचर्मेति रूपम् । नदीपौर्णमासी ॥. शेषपूरणेन सूत्रं व्याचष्टे चा टजिति अन्यतरस्यामिति टजिति चानुवर्तत इति भाव नदी पौर्णमासी आग्रहायणी एतदन्ताद व्ययीभावसमासाट्टज्वा स्यादिति यावत् । अत्र नदीसंज्ञकस्य न ग्रहणम् । पौर्णमाख्याग्रहायणी ग्रहणालिङ्गात् । उपनदमिति नद्यास्समीपमित्यर्थः। सामीप्ये उपेत्यस्याव्ययीभावसमासः। टच्, “यस्येति च' इतीकारलोप उपनदशब्दात् सुप् अम्भाव इति भावः । उपनदीति टजभावे रूपम् । नपुंसकह्रस्वः। अव्ययादाप्सुपः’ इति लुक् । उपपौर्णमासमिति पौर्णमास्यास्समीपमित्यर्थः टचि उपनदमितिवदूपम् । टजभावे उपपौर्णमासीति रूपम् ।

"

४८६
सिद्धान्तकौमुदीसहिता


६८२ । झयः । (५-४-१११)

झयन्तादव्ययीभावाट्टज्वा स्यात् । उपसमिधम्-उपसमित् ।

६८३ । गिरेश्च सेनकस्य । (५-४-११२)

गिर्यन्ताद्व्ययीभावाट्टज्वा स्यात् । सेनकग्रहणं पूजार्थम् । उपगिरम् उपगिरि ।।

इत्यव्ययीऊर्ध्वंभावसमासप्रकरणम् ।




एवम् उपाग्रहायणम् उपाग्रहायणीति ज्ञेयम् । अग्रे हायनमस्याः आग्रहायणी मार्गशीर्षपौर्णमासी, अत मकररायनप्रवृत्त्या उदगयन्नप्रवृत्तेः । उदगयनादिरेव हि संवत्सरस्यादिः । “ अयने द्वे गतिरुदग्दक्षिणार्कस्य वत्सरः” इति सिद्धेः । झयः ॥ झया अव्ययीभावे इत्यनुवृत्तं पञ्चम्या विपरिणतं विशेष्यते । तदन्तविधिः । अन्यतरस्यामिति टजिति चानुवर्तते । तदाह । झयन्तादिति ॥ गिरेश्च सेनकस्य । सेनको नाम आचार्यः । पूजार्थमिति ॥ अन्यतरस्याङ्ग्रहणानुवृत्त्यैव विकल्पसिद्धरिति भावः । उपगिरमिति ॥ गिरेस्समीपमित्यर्थः । टचि “यस्यति च' इति इकारलोपः अम्भावः । इह सेनकग्रहणात् 'नदी पौर्णमासी' इत्यत्र

  • झयः' इत्यत्र चान्यतरस्याङ्ग्रहणन्नानुवर्तते इति केचित् ॥

श्रीमद्वासुदेवदीक्षिताविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां

बालमनोरमाख्यायाम् अव्ययीभावसमासप्रकरणम् ।

श्रीरस्तु ।

॥ अथ तत्पुरुषसमासप्रकरणम् ॥



६८४ । तत्पुरुषः । (२-१-२२)

अधिकारोऽयम् । प्राग्बहुव्रीहेः ।

६८५ । द्विगुश्च । (२-१-२३)

द्विगुरपि तत्पुरुषसंज्ञः स्यात् । इदं सूत्रं त्यक्तुं शक्यम् । “सङ्खयापूर्वो द्विगुश्च' इति पठित्वा चकारबलेन संज्ञाद्वयसमावेशस्य सुवचत्वात् । समा सान्तः प्रयोजनम् । पञ्चराजम् ।

६८६ । द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः । (२-१-२४)


अथ तत्पुरुषसमासनिरूपणम्--तत्पुरुषः ॥ प्रागिति ॥ “शेषेो बहुव्रीहि इत्यतः प्रागित्यर्थः । द्विगुश्च ॥ द्विगुरपीति ॥ “तद्धितार्थोत्तरपदसमाहारे च' इति वक्ष्यमाणसमासस्य “सङ्खयापूर्वो द्विगुः’ इति द्विगुसंज्ञा विधास्यते । स द्विगुसमासोऽपि तत्पुरुषः संज्ञकू इति यावत् । एतत्सूत्राभावे एकसंज्ञाधिकारात् द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेति भावः । इदमिति ॥ *द्विगुश्च' इत्येतदित्यर्थः । तर्हि द्विगुसंज्ञया तत्पुरुषसंज्ञा बाध्येतेत्यत आह । सङ्खयेति ॥ “सङ्खयापूर्वो द्विगुः' इति द्विगुसंज्ञाविधायकं सूत्रम् । तत्र चकारः पठनीयः । ततश्च सङ्खयापूर्वसमासः द्विगुसंज्ञकस्तत्पुरुषसज्ञकश्च स्यादिति लभ्यते । एवञ्च चकारेण लघुना तत्पुरुषसंज्ञासमुच्चयलाभात् 'द्विगुश्च' इति गुरुभूतं सूत्रन्न कर्तव्यमित्यर्थः । ननु मास्तु द्विगो स्तत्पुरुषत्वमित्यत आह । समासान्तः प्रयोजनमिति ॥ तदुदाहृत्य दर्शयति । पञ्च राजमिति ॥ पञ्चानां राज्ञां समाहार इति विग्रहे “तद्धितार्थ' इति द्विगुः । तस्य तत्पुरुष त्वात् 'राजाहस्सखिभ्यष्टच्' इति टच् । “स नपुंसकम्' इति नपुंसकत्वम् । “अकारान्तोत्तर पदो द्विगुस्त्रियाम्' इति तु न भवति । समासान्तस्य टवस्समुदायावयवत्वेन उत्तरपदावयव त्वाभावात् । नच “सङ्खयापूर्वो द्विगुश्च' इति पाठे द्विगुतत्पुरुषसंज्ञयोः पर्यायेण प्रवृत्तिः स्यात् । अतस्समुच्चयार्थ 'द्विगुश्च' इति पृथक्सूत्रमस्त्विति वाच्यम् । सङ्खयापूर्व इति द्विगुरिति च यागे विभज्य पूर्वेण सङ्खयापूर्वस्य तत्पुरुषसंज्ञाविधिः, द्विगुरित्यनेन द्विगुसंज्ञाविधिरित्याश्रयणे सति, चकारमन्तरेणापि पर्यायेण प्रवृत्तिासिध्द्या चकारस्य समुच्चयार्थत्वोपपत्तेः । द्वितीया श्रित ।

द्वितीयान्तमिति ॥ प्रत्यग्रहणपरिभाषालभ्यस्तदन्तविधिः । ननु सुपेत्यनुवृत्तं बहुवचनेन

४८८
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

द्वितीयान्तं श्रितादिप्रकृतिकैः सुबन्तैः सह वा समस्यते स तत्पुरुषः । कृष्णं श्रितः कृष्णश्रितः । दुःखमतीतो दुःखातीतः इत्यादि । “ गम्यादीनामुप सङ्ख-यानम्' (वा १२४७) । ग्रामं गमी ग्रामगमी । अन्न बुभुक्षुः अन्नबुभुक्षुः ।

६८७ । स्वयं क्तेन । (२-१-२५)

'द्वितीया-' (सू ६८६) इति न सम्बध्यते अयोग्यत्वात् । स्वयंकृतस्या पत्यं स्वायंकृति ।


विपरिणतं प्रत्यग्रहणपरिभाषया सुबन्तपरम् । प्रत्ययग्रहणपरिभाषया च प्रत्ययग्रहणे प्रकृति प्रत्ययसमुदायग्रहणं लभ्यते । तथाच सुबन्तैरित्यस्य, सुप्तत्प्रकृतिकसमुदायैरित्यर्थः पर्यवस्यति। श्रितादिशब्दास्तु त्क्तप्रत्ययान्ता एव, नतु सुबन्ताः । तेषां सुव्घटितसमुदायात्मकत्वाभावा दित्यत आह । श्रितादिप्रकृतिकैस्सुबन्तैरिति ॥ श्रितादिशब्दाः श्रितादिप्रकृतिकेषु लाक्षणिका इति भावः । “गतिकारकोपपदानां कृद्रिस्सह समासवचनं प्राक्सुबुत्पत्तेः' इत्यस्य तु नायं विषयः । “कर्तृकरणे कृता ' “साधनं कृता' इतिवत् कारकविशेषानुपादानात् ” इति प्रौढमनोरमायां स्थितम् । नव श्रितादीनां समर्थविशेषणत्वात्तदन्तविधौ श्रितादिशब्दप्रकृतिकै रित्यर्थलाभात् परमः कृष्णश्रित इत्यत्रापि समासः स्यादिति वाच्यम् । समासप्रत्ययविधौ तदन्तविधिप्रतिषेधात् । कृष्णं श्रितः इति । श्रयतेर्गतिविशेषार्थकत्वात् 'गत्यर्थाकर्मक इति कर्तरि क्तः । “न लोक' इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । समासविधौ द्वितीयेति प्रथमानिर्दिष्टत्वात् कृष्णशब्दस्य पूर्वनिपातः । दुःखातीत इति ॥ दुःखमतीत इति विग्रहः । 'इण् गतौ' । अतिपूर्वात् कर्तरि क्तः । इत्यादीति ॥ गते पतितो गर्त पतितः । “ पत्लृ गतौ' कर्तरि क्तः । तनिपतिदरिद्रातिभ्यस्सनो वेट्कत्वेन “यस्य विभाषा' इति इणिषेधप्राप्तावपि अत एव निपातनादिट् । ग्रामं गत: ग्रामगत: ग्राममत्यस्तः अतिक्रान्तः ग्रामात्यस्त: ग्रामं प्राप्तः ग्रामप्राप्तः । संशयमापन्नः संशयापन्नः । गम्यादीना मिति ॥ गम्यादिप्रकृतिकैस्सुबन्तैरपि द्वितीयान्तं समस्यते स तत्पुरुष इति यावत् । ग्रामं गमीति ॥ 'गमेरिनिः’ इति औणादिक इनिप्रत्ययः सच 'भविष्यति गम्यादयः’ इति वचनातू भविष्यति काले भवति । “ अकेनोः’ इति कृद्योगषष्ठीनिषेधात् कर्मणि द्वितीया । ग्रामं गमिष्य न्नित्यर्थः । अत्रं बुभुक्षुरिति ॥ भुजेस्सन् । “सनाशंसभिक्ष उः’ ‘न लोक' इति कृद्योग षष्ठीनिषेधात् कर्मणि द्वितीया । बुभुक्षुशब्दो गम्यादौ पठित इति भावः । स्वयं क्तेन ॥ क्तप्रत्ययान्तप्रकृतिकसुबन्तेन स्वयमित्यव्ययं समस्यते स तत्पुरुष इत्यर्थः। अयोग्यत्वा दिति ॥ स्वयमित्यव्ययस्य आत्मनेत्यर्थकस्य कर्तृशक्तिप्रधानतया तृतीयाया एवोचितत्वादिति तृतायाया भावः । स्वयमित्यव्ययस्य समासे असमासेऽपि को भेदः । असमासेऽपि “ अव्ययादाप्सुप इति लुकः प्रवृत्तेरित्यत आह । स्वयंकृतस्यापत्यं स्वायंकृतिरिति ॥ स्वयंकृतस्याप त्यमित्यर्थे “अत इञ्’ इति स्वयंकृतशब्दात् षष्ठयन्तादिञि तद्धितान्तप्रातिपदिकावयवत्वात्

सुब्लुकि 'यस्येति च' इत्यकारलोपे स्वायंकृतिशब्दः। समासाभावे तु कृतशब्दस्यैव

समासप्रकरणम्]
४८९
बालमनोरमा ।

६८८ । खट्टा क्षेपे । (२-१-२६)

खट्टाप्रकृतिकं द्वितीयान्तं त्क्तान्तप्रकृतिकेन सुबन्तेन समस्यते, निन्दा याम् । खट्रारूढो जाल्मः । नित्यसमासोऽयम्। न हेि वाक्येन निन्दाऽवगम्यते ।

६८९ । सामि । (२-१-२७)

सामिकृतम् ।

६९० । कालाः । (२-१-२८)

  • तेन' इत्येव । अनत्यन्तसंयोगार्थं वचनम् । मासप्रमितः प्रतिप

चन्द्रः । मासं परिच्छेत्तुमारव्धवानित्यर्थः।

६९१ । अत्यन्तसंयोगे च । (२-१-२९)

'कालाः’ इत्येव । अक्तान्तार्थं वचनम् । मुहूर्तं सुखम् मुहूर्तसुखम् ।


षष्ठयन्तत्वात्तत इत्रि ऋकारस्यादिवृद्धौ रपरत्वे स्वायंकार्तिः इत्येव स्यादिति भावः । वस्तुतस्तु असामर्थ्यदिह न तद्धितः । स्वयंकृतशब्दस्य समासस्वरः प्रयोजनम् । खट्टा क्षेपे ॥ क्त्तेने त्यनुवर्तते । प्रत्ययग्रहणात्तदन्तविधिः । क्षेपो निन्दा । द्वितीयेति सुपेति चानुवर्तते । तदु भयमपि प्रत्ययग्रहणपरिभाषया तदन्तपरं सत् प्रकृतिप्रत्ययसमुदायपरम् । खट्टाशब्दस्य आरूढशब्दस्य च सुब्घटितसमुदायात्मकत्वासम्भवात् । अतः खट्टाशब्दः क्तप्रत्ययान्तशब्दश्च तत्प्रकृतिके लाक्षणिक इत्याह । खट्टाप्रकृतिकमिति ॥ खटारूढो जाल्मः इति ॥ जाल्मोऽसमीक्ष्यकारी” इत्यमरः । खट्टा अम् आरूढ स् इत्यलौकिकविग्रहः । लौकिकविग्रहस्तु नास्तीत्याह । नित्यसमासोऽयमिति । तत् कुत इत्यत आह । न हि वाक्येन निन्दा ऽवगम्यत इति । वृत्त्यर्थबोधकं वाक्यं लौकिकविग्रहः । तत्र खट्टामारूढ इति वाक्यं हि ग्रहस्थाश्रमिणि निन्दां न गमयति । खट्वारूढ इति समासस्तु रूढ्या निन्दां गमयति । तथाच भाष्यम् । “अधीत्य स्नात्वा गुर्वनुज्ञातेन खट्टा आरोढव्या। यस्तावदन्यथा करोति, सः ‘खट्टारूढो ऽयं जाल्मः’ इत्युच्यते । अत्र जाल्म इत्यनेन उद्धृते अयं शब्दो रूढः । अवयवार्थे तु नाभिनिवेष्टव्यम्” इति सूचितम् । सामि ॥ सामीत्यव्ययमर्धे वर्तते । तत् त्क्तान्तप्रकृतिक सुबन्तेन समस्यत इत्यर्थः । सामिकृतमिति ॥ समासाभावे तु तद्धितवृत्तौ सामिकार्ति रिति स्यादिति भावः । कालाः ॥ क्तेनेत्येवेति ॥ क्तेनत्यनुवर्तत एवेत्यर्थः । कालवाचि प्रकृतिकद्वितीयान्ताः क्तप्रत्ययान्तप्रकृतिकसुबन्तेन वा समस्यन्त इत्यर्थः । ननु “अत्यन्तसंयोगे च' इत्युत्तरसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । अनत्यन्तेति । मासप्रमित इति ॥ मासं प्रमित इति विग्रहः । प्रपूर्वेकात् माधातोः “ आदिकर्मणि क्तः कर्तरि च' इति कर्तरि क्तः । तदाह । मासं परिच्छेत्तुमिति ॥ इह प्रतिपचन्द्रेण मासस्य नात्यन्तसंयोग इति

भावः । अत्यन्तसंयोगे च ॥ काला इत्येवेति ॥ तेन अत्यन्तसंयोगे कालवाचिनो

४९०
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

६९२ । तृतीया तत्कृतार्थेन गुणवचनेन । (२-१-३०)

'तत्कृत-' इति लुप्ततृतीयाकम् । तृतीयान्तं तृतीयान्तार्थकृतगुणवच नेनार्थशब्देन च सह प्राग्वत् । शङ्कुलया खण्डः शङ्कुलाखण्डः । धान्येनार्थो धान्यार्थः । “तत्कृत-' इति किम् । अक्ष्णा काणः ।


द्वितीयान्तास्सुपा वा समस्यन्त इति लभ्यत इत्यर्थः । ननु 'काला:’ इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । अक्तान्तार्थमिति । अत्र त्तेनेति निवृत्तमिति भावः । मुहूर्त सुखमिति ॥ अत्यन्तसंयोगे द्वितीया । मुहूर्तव्यापि सुखमित्यर्थः । तृतीया तत्कृत ॥ तत्कृतेत्यस्याव्यवहितमप्यर्थेनेति परित्यज्य गुणवचनेनेत्यत्रान्वयं वक्तुमाह । तत्कृतेति लुप्ततृतीयाकमिति । तत्र तृतीयेत्यनेन तृतीयान्तं विवक्षितम् । “तत्कृतेति लुप्ततृतीयाकं भिन्नं पदम् । तच्छब्देन तृतीयान्तपरामर्शिना तदर्थो लक्ष्यते । तत्कृतेनेत्यतञ्च गुणद्वारा गुणवचनेऽन्वेति । ततश्च तृतीयान्तं तृतीयान्तार्थकृतो यो गुण: तद्वाचिना समस्यते, अर्थ शब्देन च तृतीयान्तं समस्यत इति वाक्यद्वयं सम्पद्यते” इति भाष्ये स्थितम् । तदाह । तृतीयान्तमित्यादिना । गुणेत्यस्य तत्कृतत्वसापेक्षत्वेऽपि सौत्रः समासः । “इदं सूत्र कृतशब्दार्थद्वारक एव सामर्थ्ये प्रवर्तते । नतु साक्षात्परम्परान्वये' इति भाष्ये स्पष्टम् । नच घृतेन पाटवमित्यत्रातिप्रसङ्गश्शङ्कयः । गुणेनेति सिद्धे वचनग्रहणात् गुणोपसर्जनद्रव्यवाचिशब्दो गृह्यते, व्याख्यानात् । शंकुलया खण्डः शंकुलाखण्ड इति ॥ देवदत्त इति शेषः । शङ्कुलाखण्डो देवदत्तः, इत्येव भाष्ये उदाहृतम् । 'खडि भेदने' भावे घञ् । खण्डनं खण्डः । मत्वर्थीयः अर्श आद्यच् । शङ्कुलयेति करणे तृतीया । शङ्कुलाकृतखण्डनक्रियावानित्यर्थः । यत्तु आकडारात्’ इति सूत्रभाष्ये “समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसङ्कयासंज्ञाशब्दभिन्न मर्थवच्छब्दस्वरूपं गुणवचनसंझं भवति” इत्युक्तम् । तदेतत् प्रकृते न प्रवर्तते । गुणमुक्तवता गुण वचनेनेति भाष्ये यौगिकत्वावगमात् । अतोऽत्र गुणशब्देन धर्ममात्रं विवक्षितम् । एवञ्च खण्डशब्दस्य क्रियावचनत्वेऽपि न क्षतिः । तत्त्वबोधिन्यान्तु “वोतो गुणवचनात्' इत्यत्र “सत्त्वे निविशतेऽपैति ” इत्यादिलक्षणलक्षितो गुणोऽत्र गृह्यत इत्युक्तम् । तच्चाख्यावसरे क्रियाया गुणत्वं नास्तीत्यप्युक्तम् । इह तु खण्डशब्दस्य क्रियावाचिनोऽपि गुणवचनत्वमास्थितम् । तत्तु प्रकृतसूत्रस्थभाष्यविरुद्धत्वात् पूर्वोत्तरविरुद्धत्वाच्चोपेक्ष्यम् । अर्थशब्देन समासमुदाहरति । धान्येनेति ॥ अर्थशब्दो धनपरः । हेतौ तृतीया । धान्यहेतुकं धनमित्यर्थः । अत्र धनस्य धान्यहेतुकत्वेऽपि तत्करणकत्वाभावादप्राप्तौ पृथगुक्तिः । धान्येनेति प्रकृत्यादित्वात्तृतीया । धान्याभिन्न धनमित्यर्थ इति केचित् । ननु शङ्कुलया खण्डः इत्यत्र “कर्तृकरणे कृता बहुळम् इत्येव सिद्धे तत्कृतेति व्यर्थमिति पृच्छति । तत्कृत इति किमिति ॥ गुणवचनेन चेत् तत्कृतेनैवेति नियमार्थन्तत्कृतग्रहणमित्यभिप्रेत्य प्रत्युदाहरति । अक्ष्णा काणः इति ॥ नह्यक्ष्णा काणत्वं कृतं, किन्तु रोगादिनेति भावः । गुणवचनेनेति किम् । गोभिर्वपावान् ।

गोसम्बन्धिक्षीरादिभोजनेन देवदत्तस्य वपावत्त्वमस्तीति तत्कृतत्वम् । किन्तु न गुणवचनम् ।

समासप्रकरणम्]
४९१
बालमनोरमा ।

६९३ । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः । (२-१-३१)

तृतीयान्तमेतैः प्राग्वत् । मासपूर्वः । मातृसदृशः । पितृसमः । ऊनार्थे, माषोनं कार्षापणम् । माषविकलम् । वाक्कलहः । आचारनिपुणः । गुडमिश्रः । आचारश्लक्ष्णः । * मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्' । “ मिश्रे चानुपसर्ग मसन्धौ' (सू ३८८८) इत्यत्रानुपसर्गग्रहणात् । गुडसम्मिश्रा धानाः । “ अव रस्योपसङ्ख-यानम्' (वा १२५६) । मासेनावरो मासावरः ।

६९४ । कर्तृकरणे कृता बहुळम् । (२-१-३२)

कर्तरि करणे च तृतीया कृदन्तेन बहुलं प्राग्वत् । हरिणा त्रातो हरि त्रातः । नखैर्भिन्नो नखभिन्नः । 'कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्'


पूर्वसदृश ॥ एतैरिति ॥ पूर्व, सदृश, सम, ऊनार्थ, कलह, निपुण, मिश्र, श्लक्ष्ण, एतैरित्यर्थः । मासपूर्व इति ॥ मासेन पूर्व इति विग्रहः । मासात् प्रागुत्पन्न इत्यर्थः । यद्यप्यवधित्वसम्बन्धे * अन्यारादितरतें ’ इति । दिक्शब्दयोगे पञ्चमी प्राप्ता । दिशि दृष्टश्श ब्दो दिक्शब्द इत्यभ्युपगमात् । तथाप्यत एव ज्ञापकात् तृतीया । हेतौ तृतीयेत्यन्ये । मातृसदृश इति ॥ मात्रा सदृश इति विग्रहः । पितृसम इति । पित्रा सम इति विग्रहः । 'तुल्यार्थैरतुलोपमाभ्याम्' इति तृतीया । 'तुल्यार्थेः’ इति षष्ठयाष्षष्ठीसमासेनैव सिद्धत्वमित्याहुः । ऊनार्थेति ॥ उदाहरणसूचनमिदम् । माषोनमिति ॥ माषाख्यपरिमाण विशेषेण ऊनं परिमाणमित्यर्थः । अत एव ज्ञापकादवधित्वे तृतीया हेतौ वा । अर्थग्रहणञ्च ऊनेनैव सम्बध्द्यते, न तु पूर्वादिभिरपि । समसदृशयोः पृथगुपादानात् । अथग्रहणस्य प्रयो जनमाह । माषविकलमिति ॥ माषेण विकलमिति विग्रहः । हीनमित्यर्थः । पूर्ववत् तृतीया । वाक्कलह इति ॥ वाचा कलह इति विग्रहः । आचारनिपुण इति ॥ आचारेण निपुण इति विग्रहः। आचारहेतुकनैपुण्यवानित्यर्थः । गुडांमिश्र इति । गुडेन मिश्र इति विग्रहः । आचारश्लक्ष्ण इति ॥ आचारेण श्लक्ष्ण इति विग्रहः । आचारहेतुक कुशलत्ववानित्यर्थः । ननु गुडसम्मिश्रा इत्यत्र कथं समासः । सविशेषणत्वेऽपि समासप्रत्यय विधौ तदन्तविधिप्रतिषेधात् । तत्राह । मिश्रग्रहणे सोपसर्गस्यापि ग्रहणमिति ॥ कुत इत्यत आह । मिश्रञ्चेति ॥ असन्धौ मिश्रेत्युत्तरपदमुपसर्गहीनं तृतीयान्तात् परमन्तो दात्तामिति तदर्थ अत्रानुपसर्गग्रहणादितरत्र मिश्रग्रहणे सोपसर्गग्रहणं विज्ञायत इत्यर्थः। मासेनावर इति ॥ मासेन पूर्व इत्यर्थः । न्यून इत्यर्थे ऊनार्थकत्वादेव सिद्धम् । कर्तृ करणे ॥ कर्ता च करणञ्चेति समाहारद्वन्द्वात् सप्तमी । तृतीयेत्यनुवर्तते । प्रत्यग्रहणपरि भाषया तदन्तग्रहणम् । कृतत्यपि तथैव । तदाह । कर्तरि करणे चेति ॥ प्राग्वदिति ॥ समस्यते स तत्पुरुष इत्यर्थः । इह कृद्ग्रहणेन त्क्तप्रत्यय एव गृह्यते । बडुळग्रहणादिति भाष्यम् ।

अतः क्तान्तमेवोदाहरति । हरिणा त्रात इति ॥ पालित इत्यर्थः । ननु कृदन्तस्य

४९२
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

(प २९) । नखनिर्भिन्नः । * कर्तृकरणे' इति किम् । भिक्षाभिरुषितः हेतावेषा तृतीया । बहुळग्रहणं सर्वोपाधिव्यभिचारार्थम् । तेन * दात्रेण लून वान्’ इत्यादौ न । “कृता' किम् । काटैः पचतितराम् ।

६९५ । कृत्यैरधिकार्थवचने । (२-१-३३)

स्तुतिनिन्दाफलकमर्थवाद्वचनमधिकार्थवचनम् । तत्र कर्तरि करणे च तृतीया कृत्यैः सह प्राग्वत् । वातच्छेद्य तृणम् । काकपेया नदी ।

६९६ । अन्नेन व्यञ्जनम् । (२-१-३४)

संस्कारकद्रव्यवाचकं तृतीयान्तमन्नेन प्राग्वत् ।दध्ना ओदनो दध्यो दनः । इहान्तर्भूतोपसेकक्रियाद्वारा सामर्थ्यम् ।

६९७ । भक्ष्येण मिश्रीकरणम् । (२-१-३५)

गुडेन धानाः गुडधानाः । मिश्रणक्रियाद्वारा सामर्थ्यम् ।


समर्थविशेषणत्वेऽपि समासप्रत्ययविधौ तदन्तविधिप्रतिषेधान्नखनिर्भिन्न इत्यत्र न स्यादित्यत आह । कृङ्ग्रहणे इति ॥ परिभाषेयं “गतिरनन्तरः’ इति सूत्रे भाष्ये स्थिता । पचतितरा मिति ॥ अतिशयेन पचतीत्यर्थः । अतिशायने 'तिडश्च' इत्यनुवृत्तौ ‘द्विवचनविभज्य' इति तरप् । “किमेतिडव्ययघादामद्रव्यप्रकर्षे' इत्याम् । अत्र तद्धितान्तेन समासनिवृत्त्यर्थे कृद्रहण मिति भावः । कृत्येरधिकार्थवचने।। अर्थवादवचनमिति । असदुक्तिरित्यर्थः । वातच्छेद्यं तृणमिति ॥ वातेन च्छेद्यामिति विग्रहः। छेत्तुं योग्यमित्यर्थः । ‘ऋहलोर्ण्यत्’ इति कृत्यप्रत्ययः । कोमळत्वेन स्तुतिः । दुर्बलत्वेन निन्दा वा । काकपेयेति ॥ “अचो यत्' इति यत् 'ईद्यति' इति ईत्वं, गुणः । अत्र पूर्णाम्भस्त्वेन स्तुतिः। अल्पाम्भस्त्वेन निन्दा वा । अन्नेन व्यञ्जनम् ॥ व्यञ्जनशब्दं व्याचष्टे । संस्कारेतेि ॥ संस्क्रियते गुणविशेषवत्तया क्रियते अनेनेति संस्कारः, उपसेकादिसाधनं दध्यादि, तद्वाचकमित्यर्थः । अन्नेनेति ॥ अन्नम् ओदनः। तद्वाचकशब्देनेत्यर्थः । 'भिस्सा स्री भक्तमन्धोऽन्नम्’ इति कोशः । दध्ना ओदनो दध्यो दन इति ॥ नन्विह दध्नेति करणत्वस्य उपसिक्तपदापेक्षत्वात् असामर्थ्यात् कथमिह समास इत्यत आह । अन्तर्भूतेति ॥ उपसेकक्रियां विना दध्नः अन्नसंस्कारत्वानुपपत्त्या दध्ना इत्यस्य दधिकरणकोपसेके प्रवृत्तेर्नासामर्थ्यमिति भावः । तदुक्तं भाष्ये-–“युक्तार्थसम्प्रत्ययात् सामर्थ्यम् इति । भक्ष्येण मिश्रीकरणम् ॥ मिश्रीक्रियते खाद्यं द्रव्यमनेनेति मिश्रीकरणं, गुडादि । तद्वाचकं तृतीयान्तं भक्ष्यवाचकेन समस्यते इत्यर्थः । कठिनद्रव्यं खाद्यम् । पृथुकादि भक्ष्यं विवक्षितम् । गुडेन धाना गुडधाना इति ॥ “धाना भ्रष्टयवेऽस्त्रियाम्' इत्यमरः ।

गुडेन मिश्रा धाना इत्यर्थः । ननु गुडकरणत्वस्य मिश्रपदापेक्षत्वान्न सामर्थ्यमित्यत आह ।

समासप्रकरणम्]
४९३
बालमनोरमा ।


६९८ । चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः । (२-१-३६)

चतुर्थ्यन्तार्थाय यत्तद्वाचिनार्थादिभिश्च चतुर्थ्यन्तं वा प्राग्वत् । तदर्थेन प्रकृतिविकृतिभाव एव' । बलिरक्षितग्रहणाज्ज्ञापकात् । यूपाय दारु यूप दारु । नेह । रन्धनाय स्थाली । अश्वघासाद्यस्तु षष्ठीसमासाः । 'अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्' (वा १२७३-१२७४) । द्विजायायं द्विजार्थः सूपः । द्विजार्था यवागूः । द्विजार्थ पयः । भूतबलिः । गोहितम् । गोमुखम् । गोरक्षितम् ।


मिश्रेणेति । गुडेनेत्यस्य गुडकरणकमिश्रणे वृत्तेनसामर्थ्यमिति भावः । चतुर्थी ॥ प्रत्यय ग्रहणपरिभाषया चतुर्थीत्यनेन चतुर्थ्यन्तं गृह्यते । तदर्थ, अर्थ, बलि, हित, सुख, रक्षित एषां द्वन्द्वः । चतुर्थ्यन्तं एतैष्षड्भिस्समस्यते, स तत्पुरुषः इति फलितम् । तदर्थेत्यत्र तच्छब्देन चतुर्थ्यन्तार्थो विवक्षितः । तस्मै चतुर्थ्यन्तार्थाय इदन्तदर्थम् । “अर्थेन नित्यसमासः' इति वक्ष्यमाणस्समासः । चतुर्थ्यन्तवाच्यप्रयोजनकं यत् तत् तदर्थमिति पर्यवस्यति । तदाह । चतुर्थ्यन्तार्थायेत्यादिना । तदर्थेनेति ॥ तदर्थेन समास इति यदुक्तं तत्प्रकृतिविकृति भाव एव भवति, नत्वन्यत्रेत्यर्थः । कुत इत्यत आह । बलिरक्षितेति । याद तादर्थ्यमात्रे अयं समासः स्यात्, प्रकृतिविकृतिभाव एवेति नोच्येत, तर्हि बलिरक्षितग्रहणं व्यर्थ स्यात् । भूतभ्यो बलिः, गोभ्यो रक्षितं तृणमित्यत्रापि बलेर्भूतार्थतया रक्षिततृणस्य गवार्थतया च तदर्थेत्येव समाससिद्धेरिति भावः । यूपायेति ॥ अत्र चतुर्थ्यन्तवाच्ययूपार्थं दारु । अतो दारुशब्देन यूपायेत्यस्य समासः । यूपस्य दारुविकृतित्वाच्च । तक्षादिना अष्टाश्रीकृतवृक्षस्यैव यूपशब्दार्थत्वात् । अथ प्रकृतिविकृतिभावग्रहणस्य प्रयोजनमाह । नेहेति । रन्धना येति ॥ पाकायेत्यर्थ । " रध हिंसायाम्। इह पाको विवक्षितः । भावे ल्युट्, अनादशः ।

रधिजभोरचि' इति नुम् । । स्थाल्याश्चतुर्थ्यन्तवाच्यपाकार्थत्वेऽपि प्रकृतिविकृतिभाववि रहान्न समासः । ननु अश्वेभ्यो घासः अश्वघासः, धर्माय नियमः धर्मनियमः इत्यादौ कथं तदर्थेन समासः । प्रकृतिविकृतिभावविरहादित्यत आह । अश्वघासादयस्तु षष्ठीसमासः इति ॥ नचैवं रन्धनाय स्थालीत्यत्रापि षष्ठीसमासः स्यादेवेति प्रकृतिविकृतिभावनियमो व्यर्थ इति वाच्यम् । शाब्दबोधे सम्बन्धत्वतादर्थ्यत्वकृतवैलक्षण्येन उक्तनियमसाफल्यात् । एवञ्च रन्धनाय स्थालीति सम्बन्धत्वेन भाने षष्ठीसमास इष्ट एव । तादर्थ्यत्वेन भाने चतुर्थीसमास वारणाय तु प्रकृतिविकृतिभावनियमाश्रयणमित्यास्तान्तावत् । तदवन्तदर्थेयंशः प्रपश्चितः। अथेदानीमर्थशब्देन चतुर्थ्यन्तस्य समासे विशेषमाह । अर्थेनेति ॥ अर्थशब्देन चतुर्थ्यन्तस्य नित्यसमास इति वक्तव्यम् । अन्यथा विभाषाधिकाराद्विकल्पस्यात् । विशेष्यस्य प्रधानस्य यल्लिङ्गं तल्लिङ्गमित्यपि वक्तव्यम् । अन्यथा अर्थशब्दस्य नित्यं पुलिङ्गत्वात् “परवलिङ्गम्' इति

सर्वत्र पुलिङ्गतैव स्यादित्यर्थः । अर्थशब्दोऽत्र वस्तुपरः । “ अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु

४९४
[तत्पुरुष
सिद्धान्तकौमुदीसहिता


६९९ । पञ्चमी भयेन । (२-१-३७)

चोराद्भयं चोरभयम्। 'भयभीतभीतिभीभिरिति वाच्यम्' (वा १२७५) वृकभीत:।

७०० । अपेतापोढमुक्तपतितापत्रस्तैरल्पशः । (२-१-३८)

एतैः सहाल्पं पञ्चम्यन्त समख्यते स तत्पुरुषः । सुखापेतः । कल्पनापोढ : । चक्रमुक्तः । स्वर्गपतितः । तुरङ्गापत्रस्तः । * अल्पशः ? किम् । प्रासादात्पतितः ।

७०१ । स्तोकान्तिकदूरार्थकृच्छ्राणि तेन । (२-१-३९)


इत्यमरः । इह उपकारकं वस्तु विवक्षितमित्यभिप्रेत्योदाहरति । द्विजायायं द्विजार्थस्सूप इति ॥ तत्र द्विजायायमित्यस्वपदविग्रहः । तत्र अर्थशब्दस्थाने अयमिति शब्दः । नित्यसमासत्वेनास्वपदविग्रहौचित्यात् । द्विजायेति ॥ तादर्थ्यचतुर्थी । तदन्तस्य अर्थशब्देन समासः । विशेष्यसूपशब्दस्य पुलिङ्गत्वात् समासस्य पुलिङ्गता च । द्विजस्य उपकारकस्सूप इत्यर्थः । द्विजार्था यवागूरिति ॥ द्विजस्येयमिति विग्रहः । अर्थशब्दस्य नित्यपुलिङ्गत्वे ऽपि 'परवल्लिङ्गम्’ इति पुल्लिङ्गं बाधित्वा अनेन विशेष्यलिङ्गानुसारेण स्त्रीलिङ्गता । द्विजार्थं पयः इति । द्विजस्येदमिति विग्रहः । अत्र विशेष्यलिङ्गानुसारान्नपुंसकत्वम् । भाष्ये तु चतुर्थ्यैव तादर्थ्यस्योक्तत्वात् “उक्तार्थानामप्रयोगः' इति न्यायेन अर्थशब्देन विग्रहाप्रसत्तेर्नित्यसमा सत्वं न्यायसिद्धमेव । गुरोरिदं गुर्वर्थमित्यादाविव लिङ्गमपि लोकत एव सिद्धमिति वार्तिकमिदं प्रत्याख्यातम् । भूतबलिरिति । भूतेभ्यो बलिरिति विग्रह । तादर्थ्यचतुर्थ्यं न्तस्य बलिशब्देन समासः । गोहितमिति । गोभ्यो हितमिति विग्रहः । गवामनुकूलमि त्यर्थः । “हितयोगे च' इति शेषषष्ठयपवादश्चतुर्थी । तदन्तस्य हितशब्देन समासः । गोरक्षितमिति ॥ तृणादिकमिति शेषः । गोभ्यो रक्षितमिति विग्रहः । तादर्थ्यचतुर्थ्य न्तस्य रक्षितशब्देन समासः । इति चतुर्थीसमासः । पञ्चमी भयेन ॥ पञ्चम्यन्तं भयशब्देन सुबन्तेन समस्यत इत्यर्थः । चोराद्भयं चोरभयामिति ॥ “भीत्रार्थानां भयहेतुः' इति अपादानत्वात् पञ्चमी । भयभीतभीतिभीभिरिति ॥ सूत्रे भयशब्दस्यैव ग्रहणात् भीता देरप्राप्ते समासे वचनम् । वृकभीत इति ॥ ' वृकभीतः वृकभीरित्यप्युदाहार्यम् । अत्र भाष्ये “अपर आहृत्युक्ता भयनिर्गतजुगुप्सुभिरिति वक्तव्यम्” इत्युक्ता 'वृकभयं, ग्राम निर्गतः, अधर्मजुगुप्सुः' इत्युदाहृतम् । चोरत्रस्तः, भोगोपरतः, इत्यादौ 'सुप्सुपा' इति वा मयूरव्यैसकादित्वाद्वा समासः । अपेतापोढ ॥ अल्पशः इति स्वार्थे शस् । अत एव निपातनात् । तदाह । अल्पं पञ्चम्यन्तमिति ॥ “बह्वल्पार्थात्’ इति शस् तु न भवति । बह्वल्पार्थान्मङ्गळामङ्गळवचनम्' इति वक्ष्यमाणत्वात् ॥ स्तोकान्तिक ॥ स्तोक, अन्तिक

दूर, एतदर्थकानि, कृच्छ्र एतानि पञ्चम्यन्ताति क्तप्रत्ययान्तेन समस्यन्ते इत्यर्थः । अर्थग्रहणं

समासप्रकरणम्]
४९५
बालमनोरमा ।

स्तोकान्मुक्तः । अल्पान्मुक्तः । अन्तिकादागतः । अभ्याशादागतः । दूरादागतः । विप्रकृष्टादागतः । कृच्छ्रादागतः । * पञ्चम्याः स्तोकादिभ्यः' (सू ९५९) इत्यलुक् ।

७०२ । षष्ठी । (२-२-८)

राज्ञः पुरुषो राजपुरुषः ।

७०३ । याजकादिभिश्च । (२-२-९)

एभिः षष्ट-यन्तं समस्यते । * तृजकाभ्यां कर्तरि' (सू ७०९) इत्यस्य प्रतिप्रसवोऽयम् । ब्राह्मणयाजकः । देवपूजकः । “गुणात्तरेण तरलोपश्चेति वक्तव्यम्’ (वा ३८४१) । तरबन्तं यद्गुणवाचि तेन सह समासस्तरलोपश्च । न निर्धारणे' (सू ७०४) इति ' पूरणगुण-' (सू ७०५) इति च निषेधख्य प्रतिप्रसवोऽयम् । सर्वेषां श्वेततरः सर्वश्चेतः । सर्वेषां महत्तरः सर्वमहान् स्तोकान्तिकदूरेषु सम्बध्यते । अल्पान्मुक्तः इति ॥ स्तोकपर्यायस्योदाहरणम् । अभ्याशा दागतः इति ॥ अन्तिकपर्यायस्योदाहरणम् । विप्रकृष्टादागतः इति ॥ दूरशब्दपर्याय उदाहार्यः । 'करणे च स्तोक' इति पञ्चमी । दूरादागत इत्यत्र तु “दूरान्तिकार्थेभ्यः' इति पञ्चमी । अत्र 'सुपो धातु' इति लुकमाशङ्कय आह । पञ्चम्यास्तोकादिभ्य इत्यलु गिति ॥ इति पञ्चमीसमासः । षष्ठी ॥ षष्ठयन्तं सुबन्तन समस्यते, स तत्पुरुष इत्यर्थः । राजपुरुष इति ॥ राजन् अस् पुरुष स् इत्यलौकिकविग्रहवाक्ये समासे सति सुब्लुकि अन्तर्वर्तिनीं विभक्ति प्रत्ययलक्षणेनाश्रित्य नलोपः । नच लुका लुप्तत्वान्न प्रत्ययलक्षणमिति वाच्यम् । पदत्वस्य सुव्घटितसमुदायधर्मत्वेन तस्य अङ्गकार्यत्वाभावादिति भावः । याज कादिभिश्च ॥ ननु ‘षष्टी'इति पूर्वसूत्रेणैव सिद्धेकिमर्थमिदमित्यत आह । तृजकाभ्यामिति ॥ ब्राह्मणयाजकः इति ॥ ब्राह्मणस्य याजकः इति विग्रहः । यजतेर्ण्यन्तात् कर्तरि ल्युट् । अकादेशः । 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । देवपूजक इति ॥ देवानां पूजक इति विग्रहः । पूजकशब्दो याजकादिरिति भावः । भूभर्तेति तृजन्तस्योदाहार्यम् । भर्तृशब्दस्य याजकादित्वात् । गुणात्तरेणेति ॥ वार्तिकमिदम् । “सर्व गुण' इति सूत्रे भाष्ये स्थितम् । गुणवाचकात् विहितो यस्तरप् तदन्तेन षष्ठी वा समस्यते, तरपो लोपश्चेत्यर्थः । फलितमाह तरबन्तं यदिति ॥ ननु “षष्ठी' इति सूत्रेणैव सिद्धे किमर्थमिदमित्यत आह । ननिर्धाः रणे इति ॥ 'सर्व गुण' इति सूत्रे भाष्ये तु “पूरणगुण' इत्यस्यापवाद इत्येवोक्तम् । सर्व शब्दानुवृत्तेस्सर्वशब्द एवेदं वार्तिकमित्यभिप्रेत्योदाहरति । सर्वेषां श्वेततरस्सर्वश्वेतः इति ॥

बकानां गुण इति शेषः । द्रव्यान्तरवृत्तिश्वतरूपापेक्षया सर्वेषां बकानां श्वतगुणोऽयमधिक

४९६
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

'कृद्योगा च षष्ठी समख्यत इति वाच्यम्' (वा १३१७) । इध्मस्य प्रव्रश्चन इध्मप्रव्रश्चनः ।

७०४ । न निर्धारणे । (२-२-१०)

निर्धारणे या षष्ठी सा न समख्यते । नृणां द्विजः श्रेष्ठः । ' प्रतिपद् विधाना षष्ठी न समख्यत इति वाच्यम्' (वा १३२०) । सर्पिषो ज्ञानम् ।

७०५ । पूरणगुणसुहितार्थसद्व्ययतव्यसमानाधिकरणेन । (२-२-११)

पूरणाद्यर्थैः सदादिभिश्ध षष्टी न समस्यते । पूरणे, सतां षष्ठः। गुणे काकस्य कार्ष्ण्यम् । ब्राह्मणस्य शुक्लाः । यदा प्रकरणादिना दन्ता इति विशेष्यं


इत्यर्थः । 'द्विवचनविभज्य' इति विभक्तव्योपपदे तरप् । अत्र सर्वेषामिति षष्ठयन्तस्य श्वेत तरशब्देन समासे तरपो लोपे सर्वश्वेत इति रूपम् । सर्वमहानिति । ईश्वर इति शेषः । पूर्ववत्तरप् । सर्वेषां महत्तरः इति विग्रहः । इतरसम्बन्धिमहत्त्वापेक्षया ईश्वरस्य महत्त्वमधिक मित्यर्थः । कृद्योगेति ॥ कृता योगो यस्या इति विग्रहः । “कर्तृकर्मणोः कृति' इति विहिता इति भाष्यम् । इध्मप्रव्रश्चन इति ॥ कुठार इति शेषः । प्रवृश्चयतेऽनेनेति प्रव्रश्चनः । करणे ल्युट् । इध्मानां प्रव्रश्चन इति विग्रहः । कर्मणि षष्ठी । 'प्रतिपदविधाना' इति वक्ष्य माणनिषेधस्यापवादोऽयम् । न निर्धारणे । नृणां द्विजश्श्रेष्ठः इति । अत्र नृणामिति षष्ठयन्तस्य द्विजशब्देन समासो न भवति । पुरुषाणामुत्तमः पुरुषोत्तमः इत्यत्र तु शेषषष्ठयेव न तु निर्धारणषष्ठी । यतो निर्धारणम्, यञ्च निर्धार्यते, यश्च निर्धारणहेतुः, एतत्त्रितयसन्निधान एव तस्याः प्रवृत्तेरिति कैयटः । गुणेन निषेधस्त्वनित्य इति तरप्सूत्रे कैयटः । केचितु “उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः” इति गीतावाक्यात् कर्मधारय एव । उत्तमशब्दस्य विशेषणत्वे ऽपि राजदन्तादित्वात् परनिपातः । प्रतिपदविधानेति ॥ पदं पदं प्रतीति वीप्सायामव्ययी भावः । प्रतिपदं विधानं यस्यास्सा प्रतिपदविधाना * षष्ठी शेषे' इति शेषलक्षणां षष्ठीं वर्जयित्वा सर्वा षष्ठी प्रतिपदविधानेति भाष्यम् । सर्पिषो ज्ञानमिति ॥ अत्र 'ज्ञोऽविदर्थस्य करणे ' इति विहितषष्ठयास्समासो न भवति । “न निर्धारणे' इति प्रत्याख्येयमेवेति भाष्ये स्पष्टमि त्यलम् । पूरणगुण ॥ पूरणगुणसुहितानि अर्थी येषान्ते पूरणगुणसुहितार्थाः, ते च सच्च अव्ययञ्च तव्यश्च समानाधिकरणश्चेति समाहारद्वन्द्वात् तृतीया । तदाह । पूरणाद्यर्थैरिति ॥ पूरणे इति। उदाहरणं वक्ष्यत इति शषः। सतां षष्ठ इति ॥ षण्णां पूरणःइत्यर्थे ‘तस्यपूरणे डट्, षट्कातिकतिपयचतुरां थुक्” नच कुम्भपूरणमित्यत्रापि स निषेधस्यादिति वाच्यम् । सोऽचि लोपे चेत् पादपूरणम्' इति निर्देशेन पूरणार्थकप्रत्ययस्यैव ग्रहणात् । “उञ्छषष्ठाङ्कित

सैकतानि' इत्यत्र तु उञ्छात्मकष्षष्ठ इति व्याख्येयम् । गुण इति ॥ उदाहरणं वक्ष्यते

समासप्रकरणम्]
४९७
बालमनोरमा ।

ज्ञातं तदेदमुदाहरणम् । “ अनित्योऽयं गुणेन निषेधः' । “तदशिष्यं संज्ञा प्रमाणत्वात्' (सू १२९५) इत्यादिनिर्देशात् । तेन “ अर्थगौरवम्’ “बुद्धि मान्द्यम्’ इत्यादि सिद्धम् । सुहितार्थास्तृप्त्यर्थाः । फलानां सुहितः । तृतीया समासस्तु स्यादेव । स्वरे विशेषः । सत्, द्विजस्य कुर्वन्-कुर्वाणो वा । किङ्कर


इत्यर्थः । प्रधानत्वेन वा उपसर्जनत्वेन वा गुणवाची गुणशब्दः । व्याख्यानात् । तदाह । काकस्य कार्ष्ण्यम्, ब्राह्मणस्य शुक्ला इति ॥ कृष्णशब्दातू ‘गुणवचनब्राह्मणादिभ्यः’ इति भावे ष्यञ् । शुक्लशब्दात्तु “गुणवचनेभ्यो मतुपो लुक्' इति लुक् । ननु दन्ता इति शेषपूरणेन ब्राह्मणस्य दन्ताश्शुक्लाः। इत्यर्थे ब्राह्मणशब्दस्य दन्तशब्देनैवान्वयात् शुक्लशब्देनान्वयाभावा दसामर्थ्यात् कथमिह समासप्रवृत्तिरित्यत आह । यदा प्रकरणादिनेति ॥ प्रकरणादर्थद्वे त्यर्थः । दन्तास्संयुक्ताश्शुभावहाः, न तु विरळा इत्यादिदन्तवर्णने प्रकृते यदा ब्राह्मणस्य शुक्ला इत्युच्यते, तदा प्रकरणात् दन्ता इति विशेष्योपास्थितिः । यदा वा कृष्णवर्णेषु कृष्णवस्रभूषणेषु प्रकृतेषु ब्राह्मणस्य शुक्ला इत्युच्यते, तदा अर्थात् दन्ता इति विशेष्योपस्थितिः, तत्र सामर्थ्यं सत्त्वात् समासे प्राप्ते निषेधः इत्यर्थः । अत्र “आकडारात्' इति सूत्रोक्तगुणवचनसंज्ञकानां तृतीया तत्कृत' इति सूत्रे प्रपञ्चितानां गुणानां न ग्रहणम् । अत्र गुणवचनशब्दाभावात् । किन्तु वोतो गुणवचनात्' इत्यत्र सूत्रभाष्ये प्रपञ्चितानां “सत्वे निविशतेऽपैति' इत्यादिलक्षण लक्षितगुणानामेव ग्रहणमिति बोध्द्यम् । एतेन “आकडारात्' इति सूत्रभाष्ये तद्धितान्तस्य गुण वचनत्वपर्युदासात् कथं कार्ष्ण्यादिशब्दानां गुणवाचित्वमिति निरस्तम् । अथ अर्थगौरवमित्यादौ षष्ठीसमासं साधयितुमाह । अनित्योऽयमिति । संज्ञाप्रमाणत्वादिति ॥ सज्ञायाः प्रमाणत्वं संज्ञाप्रमाणत्वं तस्मादिति विग्रहः । अत्र प्रमाणत्वस्य गुणत्वात् तेन षष्ठीसमास निषेधात्समासनिर्देशोऽनुपपन्नस्यात् । अतो गुणेन समासानिषेधः अनित्य इति विज्ञायत इत्यर्थः । इत्यादीति ॥ आदिना गुणकार्त्स्यमित्यादिसङ्गहः । वस्तुतस्तु अनित्यो गुणेन निषेध इत्य मर्थो भाष्ये न दृश्यते । नच कृष्णैकत्वमित्यादौ समासानुपपत्तिरिति वाच्यम् । 'पङ्क्तिविंशति' इति सूत्रे विंशत्यादिशब्दा भाववचना भवन्तीत्युक्ता गुणवाचित्वमास्थाय गवां विंशतिर्गवां सहस्रमित्यर्थे गोविंशतिर्गोसहस्रामित्यादिप्रयोगात् । अर्थगौरवमित्यादौ तु अर्थगतं गौरवमिति मद्यमपदलोपिसमासो बोध्द्य इति शब्देन्दुशेखरे प्रपञ्चितम् । सुहितपदं व्याचष्टे । सुहिता र्थास्तृप्तयर्था इति ॥ फलानां सुहित इति ॥ करणत्वस्याविवक्षायां सम्बन्धविवक्षायां षष्ठी । अर्थग्रहणात् फलानां तृप्तिरित्यादावपि न समासः । नपुंसकत्वे सति फलसुहितामिति कथं समास इत्यत आह । तृतायास्समासस्तु स्यादेवेति ॥ करणत्वांविवक्षायां तृतीया । कर्तृकरणे कृता बहुळम्’ इति समास इति भावः । तहिं सुहितयोगे षष्ठीसमासनिषेधो व्यर्थ इत्यत आह । स्वरे विशेष इति ॥ तृतीयासमासे 'तृतीया कर्मणि' इति पूर्वपदप्रकृति स्वरः । षष्ठीसमासे तु समासस्येत्यन्तोदात्तत्वमिति फलभेद इति भावः । सदिति ॥ सद्योगे

षष्ठीसमासनिषेधः उदाह्रियत इत्यर्थः । “तौसत्' इति शतृशानचोस्सदिति संज्ञा वक्ष्यते । ननु

४९८
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

इत्यर्थः । अव्ययम्, ब्राह्मणस्य कृत्वा । पूर्वोत्तरसाहचर्यात्कृद्व्ययमेव गृह्यते । तेन 'तदुपरि' इत्यादि सिद्धमिति रक्षितः । तव्यः, ब्राह्मणस्य कर्तव्यम् । तव्यता तु भवत्येव । स्वकर्तव्यम् । स्वरे भेद । समानाधिकरणे । तक्षकस्य सर्पस्य । विशेषणसमासस्त्विह बहुळग्रहणान्न। गोधेनोः' इत्यादिषु 'पोटा-


द्विजस्य कुर्वन्निति न कर्मणि षष्ठी । 'नलोक' इति निषेधात् । नापि द्विजस्य घटं कुर्वन्निति घटाद्यपेक्षया शेषष्ठी । तर्हि सापेक्षत्वेनासामर्थ्यात् कुर्वन्नित्यनेन समासाप्रवृत्तेरित्यत आह । किङ्करः इत्यर्थ इति । द्विजं परिचरन्नित्यर्थ इति यावत् । कृञ्धातुरिह परिचरणे वर्तत इति फलितम् । अव्ययमिति । उदाहरणं वक्ष्यत इति शेषः । पूर्वोत्तरेति । सत्तव्याभ्यां कृभ्द्यामित्यर्थः । “ अनेकमन्यपदार्थे' इति सूत्रभाष्ये सर्वपश्चादिति प्रयोगश्चेह लिङ्गम् । तव्य इति ॥ उदाहरणं वक्ष्यत इत्यर्थः । ब्राह्मणस्य कर्तव्यमिति ॥ “अहं कृत्यतृचश्च तव्यत्तव्यानीयरः' इति कृत्यस्तव्यः । ‘कृत्यानां कर्तरि वा' इति षष्ठी । तव्यता तु भवत्येवेति ॥ षष्ठीसमास इति शेषः । तकारानुबन्धरहितस्यैव तव्यस्य सूत्रे ग्रहणात्तव्यतो न ग्रहणमिति भावः । स्वकर्तव्यमिति ॥ स्वस्य कर्तव्यमिति विग्रहः । “कृत्यानां कर्तरि वा' इति षष्ठी । अत्र तव्यता योगात् समासनिषेधो नेति भावः । ननु तव्यत्प्रत्ययमाश्रित्य ब्राह्मणकर्तव्यमिति समाससम्भवात् किं तव्ययोगे तन्निषेधेनेत्यत आह । स्वरे भेद इति ॥ तव्यति कृते कृदुत्तरपदप्रकृतिस्वरेण प्रकृतिस्वरः, तव्ये तु नेति फलभेद इति भावः । समानाधिकरण इति ॥ 'समानाधिकरणेन षष्ठयन्तं न समस्यते ? इत्यत्रोदाहरणं वक्ष्यत इत्यर्थः । तक्षकस्य सर्पस्येति ॥ अत्र समासे सति पुनस्समासात् षष्ठयुत्पत्तौ तक्षकसर्प स्यति न भवतीत्यर्थः । ननु षष्ठीसमासस्य निषेधेऽपि “विशेषणं विशेष्येण बहुळम्' इति कर्म धारयसमासो दुर्वारः । अतः किं षष्ठीसमासनिषेधेनेत्यत आह । विशेषणसमासस्त्विति ॥ ननु षष्ठीसमासनिषेधसामर्थ्यादेवात्र कर्मधारयो न भविष्यति । तत् किमगतिकगत्या बहुळ ग्रहणाश्रयणेन नच कर्मधारयस्वर एव यथा स्यात्, न तु षष्ठीसमासस्वर इत्येतदर्थष्षष्ठी समासनिषेध इति वाच्यम् । उभयथापि ‘समासस्य’ इत्यन्तोदात्तत्वस्याविशिष्टत्वादिति चेन्मैवम् । कर्मधारये हि सति गमनस्य श्रेयस इत्यादौ * श्रज्यावमकन् पापवत्सु भावे ? इति पूर्वपदप्रकृति स्वरः । षष्ठीसमासे त्वन्तोदात्तत्वं स्यात् । तन्मा भूदित्येतदर्थे षष्ठीसमासनिषेध आवश्यक इति समासनिषेधस्य चरितार्थत्वान्न तस्य विशेषणसमासनिवृत्तिसामर्थ्यमिति बहुळग्रहणमाश्रि तम् । नचैवमपि तक्षकसर्प इति प्रथमान्तविग्रहे कर्मधारये सति तक्षकसर्पस्येति दुर्निवार मिति वाच्यम् । निषेधसामर्थ्यादेव प्रथमान्तकर्मधारयमाश्रित्य तक्षकसर्पस्येत्येवञ्जातीयकप्रयो गाभावोन्नयनात् । अथ समानाधिकरणेन निषेधे उदाहरणान्तरमाह । गोर्धेनोरिति ॥ गोर्धेनोरित्यादिषु षष्ठीसमासः प्राप्तः, सोऽप्यनेन वार्यत इत्यन्वयः । आदिना यूनः खलतेरित्यादि सङ्गहः । ननु षष्ठीसमास एवात्र न प्रसज्यते 'पोटायुवति, युवा खलति' इत्यादिविशेषविहित

कर्मधारयेणात्र परस्यापि षष्ठीसमासस्य बाधितत्वादित्यत आह । पोटायुवतीत्यादीनां

समासप्रकरणम्]
४९९
बालमनोरमा ।


युवति-' (सू ७४४) इत्यादीनां विभक्त्यन्तरे चरितार्थानां परत्वाद्वाधकः षष्ठीसमासः प्राप्तः । सोऽप्यनेन वार्यते ।

७०६ । क्तेन च पूजायाम् । (२-२-१२)

'मतिबुद्धि-' (सू ३०८९) इति सूत्रेण विहितो यः क्तस्तदन्तेन षष्टी न समस्यते । * राज्ञां मता बुद्धः पूजितो वा । ' राजपूजित:’ इत्यादौ तु भूते क्तान्तेन सह तृतीयान्तस्य समासः ।

७०७ । अधिकरणवाचिना च । (२-२-१३)

क्तेन षष्टी न समस्यते । इदमेषामासितं गतं भुक्तं वा ।

७०८ । कर्मणि च । (२-२-१४)

'उभयप्राप्तौ कर्मणि' (सू ६२४) इति या षष्ठी सा न समस्यते ॥ आश्चर्यो गवां दोहोऽगोपेन ।


विभक्त्यन्तरे चरितार्थानां परत्वाद्वाधक इति ॥ पोटायुवति, युवा खलति इत्यादिविधयः गौर्धेनुः, युवाखलतिरित्यादिषु प्रथमाविभक्तयन्तेषु सावकाशाः । षष्ठीसमासस्य राज्ञः पुरुषः इत्यादावसमानाधिकरणे सावकाशः । गोर्धेनोः, यूनः खलतरित्यादिषु उभयं प्राप्तम् । तत्र पोटायुवति, युवा खलति, इत्यादिविधीन् बाधित्वा षष्ठीसमासः प्राप्तः । सोऽप्यनेन समा नाधिकरणेनेति निषेधेन वार्यत इत्यर्थः । नच निषेधसामर्थ्यादेव पोटायुवतीत्यादिसमासो बाध्यतामिति वाच्यम् । षष्ठीसमासे गोर्धेनेोरित्यादौ अन्यतरस्य पूर्वनिपातः । 'पोटायुवति इत्यादिसमासेतु गोयुवादिशब्दस्यैव फलभेदस्य स्पष्टत्पात् । समानाधिकरणेन निषेधश्चायं क्वाचित्क एव । अन्यस्य पदस्यार्थ इत्यर्थे अन्यपदार्थ इति निर्देशात् । तेन नीलोत्पलस्य गन्ध इत्यादिस्सिद्धः । तेन च पूजायाम् । अत्र पूजाग्रहणं “मतिबुद्धिपूजार्थेभ्यश्च' इति सूत्रोपलक्षणम् । तदाह । मतिबुद्धीति सूत्रेणेति । राज्ञां मतो बुद्धः पूजितो वेति । राज्ञा इष्यमाणः ज्ञायमानः पूज्यमान इति क्रमेणार्थः । “मतिबुद्धिपूजार्थेभ्यश्च' इति वर्तमाने त्क्तः । ‘क्तस्य च वर्तमाने' इति षष्ठी । नन्वेवं सति राजपूजितः राजमतः राजबुद्धः इति कथं समास इत्यत आह । राजपूजित इत्यादाविति । अधिकरणवाचिना च । शेषपूरणेन सूत्रं व्याचष्टे। क्तेनेति । इदमेषामासितं शयितं गतं भुक्तं वेति ।

‘क्तोऽधिकरणे च' इति अधिकरणे त्क्तः । अधिकरणवाचिनश्च' इति षष्ठी । कर्मणि च ॥ क्तेनेति निवृत्तम् । ‘कर्मणि या षष्ठी सा न समस्यते’ इत्यर्थे अपां स्रष्टत्यादावपि निषेधसिद्धेः 'तृजकाभ्यां कर्तरि” इति व्यर्थं स्यात् । किन्तु चकार इतिपर्यायः । कर्मणीति सप्तम्येकवचनमुच्चार्य या षष्ठी

विहिता तया न समस्यत इत्यर्थः । फलितमाह । उभयेत्यादिना । आश्चर्य इति ॥

५००
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७०९ । तृजकाभ्यां कर्तरि । (२-२-१५)

कर्त्रर्थतृजकाभ्यां षष्टया न समासः । अपां स्रष्टा । व्रजस्य भर्ता । ओदनस्य पाचकः । “कर्तरि' किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थ भर्तृशब्दस्य याजकादित्वात्समासः । भूभर्ता । कथं तर्हि *घटानां निर्मातु स्त्रिभुवनविधातुश्च कलहः’ इति । ' शेषषष्ठया समासः’ इति कैयट: ।

७१० । कर्तरि च । (२-२-१६)

कर्तरि षष्ठया अकेन न समासः । भवतः शायिका । नेह तृजनुवर्तते । तद्योगे कर्तुरभिहितत्वेन कर्तृषष्ठया अभावात् ।


यद्यप्यत्र “कर्तृकर्मणोः कृति’ इत्येव कर्मणि षष्ठी, न तु “उभयप्राप्तौ कर्मणि' इति सूत्रेण । तस्य सूत्रस्य कर्मण्येव षष्ठी, नतु कर्तरीति नियमपरत्वात् । तथापि नियमसूत्राणां विधिरूपेण निषेध रूपेण च द्वेधा प्रवृत्तेः स्वीकारान्न दोषः । शब्दानुशासनमित्यत्र तु वस्तुतः आचार्यस्य कर्तृत्वे ऽपि तस्यानुपादानादुभयप्राप्तावित्यस्याप्रवृत्तेर्नायन्निषेधः। कृत्वोऽर्थप्रयोगे' इत्यतः प्रयोगे इत्यनुवृत्त्या कर्तृकर्मणोरुभयोः प्रयोग एव तस्य प्रवृत्तेः । “शेषे विभाषा' विशेषण विभाषे त्याश्रित्य उभयप्राप्तावित्यभावपक्षे “कर्तृकर्मणोः कृति' इत्यव षष्ठयाः प्राप्तिर्नायन्निषेध इत्यलम् । तृजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणम्, श्रुतत्वात् । नतु षष्ठयाः । तदाह । कर्त्रर्थतृजकाभ्यामिति । अपां स्रष्टा, व्रजस्य भर्तेति । ‘ण्वुल्तृचौ' इति कर्तरि तृच् । “कर्तृकर्मणोः' इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल् । अकादेश इति विशेषः । इक्षुभक्षिकेति । “स्त्रियां क्तिन्’ इत्यधिकारे धात्वर्थनिर्देशे ण्वुल । कर्मणि षष्ठया समासः । 'कर्मणि च' इति निषेधस्तु न । कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु भुवो भर्ता भूभर्तेत्यत्रापि निषेधस्यात् । नच भर्तृशब्दस्य याजकादौ पाठात् भवत्येव षष्ठीसमासः । “याजकादिभिश्च' इत्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम् । एवन्तर्हि व्रजस्य भर्तेत्यत्रापि समासप्रसङ्गादित्यत आह । पत्यर्थेति । याजकादौ पत्यर्थक स्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात् । ततश्च व्रजस्य भर्तेत्यत्र “याजकादिभिश्च' इति समासो नेति भावः । कथं तर्हीति ॥ त्रयाणां भुवनानां समाहारस्त्रिभुवनं 'तद्धितार्थ' इति द्विगुः । अकारान्तोत्तरपदो द्विगुः स्त्रियाम्' इति तु न भवति । पात्राद्यन्तस्य नेत्युक्त्तेः । त्रिभुवनस्य विधातेति तृचा योगे कथं कर्मणि षष्ठयास्समास इत्याक्षेपः । परिहरति । शेषषष्ठयेति ॥ प्रत्यासत्या कारकषष्ठया एवायन्निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः । कर्तरि च ॥ कर्तरीत्येतत् षष्ठीत्यनुवृत्ते अन्वेति । तदाह । कर्तरि षष्ठया इति। अकेनेति ॥ * तृजकाभ्यां कर्तरि' इत्यतस्तदनुवृत्तेरिति भावः । भवतः शायिकेति ॥ “स्त्रियां क्तिन्’ इत्यधिकारे

धात्वर्थनिर्देशे ण्वुल् । अकादेशः, टाप् । “कर्तृकर्मणोः' इति कर्तरि षष्ठी । अत्र अकस्य कर्त्रर्थकत्वाभावातू “तृजकाभ्याम्' इति न प्राप्तिः । ननु पूर्वसूत्रे “तृजकाभ्याम्' इति समस्तपदो

समासप्रकरणम्]
५०१
बालमनोरमा ।

७११ । नित्यं क्रीडाजीविकयोः । (२-२-१७)

एतयोरर्थयोरकेन नित्यं षष्ठी समस्यते । उद्दालकपुष्पभञ्जिका । क्रीडाविशेषस्य संज्ञा । 'संज्ञायाम्' (सू ३२८६) इति भावे ण्वुलू । जीवि कायां दन्तलेखक: । तत्र क्रीडायां विकल्पे जीविकायां “ तृजकाभ्यां कर्तरि ' (सू ७०९) इति निषेधे प्राप्त वचनम् ।

७१२ । पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे । (२-२-१)

अवयविना सह पूर्वादयः समस्यन्ते । एकत्वसङ्खयाविशिष्टश्चेद्वयवी । षष्ठीसमासापवादः । पूर्व कायस्य पूर्वकायः । अपरकायः । ' एकदेशिना'


पात्तत्वात् कथमिहाकस्यैवानुवृत्तिः, न तु तृच इत्यत आह । नेहेति ॥ तद्योगे इति ॥ तृचः कर्तरि विहितत्वेन स्रष्टा कृष्ण इत्यादौ कर्तुः कृताभिहिततया तत्र कर्तरि षष्ठया एवा प्रसक्तया त्तसमासेनिषेधस्य शशश्रृङ्गेण कण्डूयनं न कर्तव्यमितिवदसम्भवपराहतत्वादित्यर्थः । तत्समासांनषेधस्य शशश्श्रृङ्गण कण्डूयनं न नित्यं क्रीडाजीविकयोः ॥ उद्दालकपुष्पभञ्जिकेति ॥ उद्दालकः श्लेष्मातकः तस्य पुष्पाणि तेषां भञ्जनमित्यस्वपदविग्रहः । संज्ञायामिति स्त्रियां क्तिन्’ इत्यधिकारे 'संज्ञायाम् इति भावे ण्वुल् इत्यर्थः । अत्र कर्मणि षष्ठयाः समासः । वस्तुतस्तु “स्त्रियां क्तिन्' इत्यधिकारे ‘धात्वर्थनिर्देशे ण्वुल्’ इति भाव ण्वुलियेव युक्तम् । ‘संज्ञायाम्’ इति तु अधिकरणार्थमिति कृदन्ते वक्ष्यते । तथासति उद्दालकपुष्पाणि भज्यन्ते यस्यां क्रीडायामिति विग्रहः । जीविकाया मिति । उदाहरणं वक्ष्यत इत्यर्थः । दन्तलेखक इति ॥ दन्तानां लेखनेन जीवतीत्यस्वपद विग्रहः । लिखेः कर्तरि ल्युट् । अनादेशः । जीविका समासगम्या । ननु * षष्ठी' इति सूत्रेणैव अत्र षष्ठीसमाससिद्धः किमर्थमिदमित्यत आह । तत्रेति । तत्र तस्मिन् उदाहरणद्वये क्रीडाबोधके उद्दालकपुष्पभञ्जिकेत्यत्र विभाषाधिकारात् षष्ठीसमासविकल्पे प्राप्ते जीविकाबोधके तु दन्तलेखक इत्यत्र “तृजकाभ्याम्' इति षष्ठीसमासनिषेधे प्राप्ते इदं सूत्रमारब्ध मित्यर्थः । पूर्वापर ॥“पूर्वपराधरोत्तरम्' इति समाहारद्वन्द्वात् प्रथमैकवचनम् । एकदेशशब्दः अवयवे रूढः । एकदेशः अस्यास्तीत्येकदेशी अवयवी, तेनेति लभ्यते । अधिकरणं द्रव्यम्। एकमधिकरणम्, एकाधिकरणम्, एकत्वविशिष्टद्रव्ये वर्तमानेन अवयविवाचकसुबन्तेन पूर्वापराध रोत्तरशब्दास्सुबन्तास्समस्यन्ते स तत्पुरुषः इत्यर्थः । फलितमाह । अवयविना सहे त्यादिना । ननु पूर्वश्चासौ कायश्चेत्येव कर्मधारयेणैव पूर्वकाय इत्यादि सिद्धम् । भक्त्या कायशब्दस्य कायावयववाचित्वेन सामानाधिकरण्योपपत्तेरित्यत आह । षष्ठीसमासापवाद इति ॥ पूर्व कायस्येति विग्रहे “षष्ठी' इति सूत्रेण समासे सति षष्ठयन्तस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातस्स्यात् । तन्निवृत्त्यर्थमिदं वचनमित्यर्थः । पूर्व कायस्य इति । अत्र पूर्व कायस्यति विग्रहवाक्यम् । अर्धमिति गम्यम् । विशेष्याभिप्रायान्नपुंसकत्वम् । ‘तस्य

परमाम्रेडितम्' इति निर्देशादवयववृत्तिदिक्शब्दयोगे पञ्चम्यभावात् षष्ठी । पूर्वकाय इति ॥

५०२
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

किम् । पूर्वं नाभेः कायस्य । ' एकाधिकरणे' किम् । पूर्वश्छात्राणाम् । “सर्वो ऽप्येकदेशोऽह्ना समस्यते । “सङ्ख-याविसाय-' (सू २३८) इति ज्ञापकात् । मध्याह्नः । सायाह्नः । केचित्तु ' सर्व एकदेशः कालेन समस्यते न त्वह्नैव । ज्ञापकस्य सामान्यापक्षत्वात् । तेन “मध्यरात्रः’, ‘ उपारता: पश्चिमरात्र गोचरात्' इत्यादि सिद्धमित्याहुः ।


पूर्वशब्दस्य समासविधौ प्रथमानिर्दिष्टत्वात् पूर्वनिपातः । 'परवलिङ्गम्' इति पुंस्त्वमिति भावः । 'यत्र उत्सर्गापवादौ महाविभाषया विकल्प्येते तत्रापवादेन मुक्ते पुनरुत्सर्गो न प्रवर्तत” इति पारे मध्ध्ये षष्ठया वा' इत्यत्रोक्तम् । ततश्च एकदेशिसमासाभावे षष्ठीसमासेो न भवति । अपरकाय इति । अपरं कायस्येति विग्रहः । अधरकायः । उत्तरकायः । एकदेशिना किमिति । एकद्रव्यवाचिना पूर्वादयस्समस्यन्ते इत्येवास्त्वित्यर्थः । पूर्वन्नाभेः कायस्ये ति । अत्र नाभेरिति पूर्वशब्देऽन्वेति । दिग्योगे पञ्चमी । नाभ्यपेक्षया यत् पूर्वमर्ध तत् कायावयवभूतमित्यर्थः । अत्र नाभिशब्दस्य नाभ्यपेक्षया पूर्वांशेऽन्वयः । अत्र पूर्वस्याशस्य नाभिरवधिरेव । नत्ववयविर्नि । अतो नाभिशब्देन पूर्वशब्दस्य समासो न भवतीत्यर्थः । पूर्वश्छा त्राणामिति । अत्र छात्रश्शब्दः छात्रसमुदायपरः । उद्भूतावयवसमुदायापेक्षं बहुवचनम् । अव यवावयविभावसम्बन्धे षष्ठी । छात्रसमुदायस्य पूर्वमर्धमित्यर्थः । अत्र छात्रसमुदायस्य एकत्वेऽपि उद्भदूतावयवकतया बहुत्वादेकत्वसंख्यावैशिष्टयाभावान्न समास इति भावः । ननु अह्नो मध्ध्ये मध्द्याह्न मित्यत्र कथमेकदेशिसमासः । मध्द्यशब्दस्य पूर्वादिष्वनन्तर्भावादित्यत आह । सर्वोऽप्येकदेश इति ॥ पूर्वादिभिन्नोऽपीत्यर्थः । ज्ञापकादिति ॥“तत्पुरुषस्य'इति ‘अहस्सर्वेकदेशसंख्यातपुण्याच' इति च प्रकृते ‘अह्नोऽह्न एतेभ्य:’ इत्येकदेशवाचकात् परस्य अह्नशब्दस्य अह्नादेशो विधीयते । ततश्चाह्नः साय इति विग्रहे अवयविवृतिना अहन्शब्देन षष्ठयन्तेन अवयववृतिसायशब्दस्य तत्पुरुषसमासे सति प्रथमानिर्दिष्टत्वात् सायशब्दस्य पूर्वनिपाते सति एकदेशवृतिसायशब्दात् परस्य अहन्शब्दस्य अह्नादेशे “ रात्राह्नाहाः पुंसि' इति पुंस्त्वे सायाह्न इति भवति । तस्मात् सप्तम्येक वचने परे “सङ्खयाविसाय' इति सायशब्दपूर्वकस्याहृशब्दस्य अहन्नादेशविकल्प उक्तः । सायाह्नि सायाहनि सायाह्ने, इत्युदाहरणम् । तत्र अह्नस्साय इति विग्रहे यदि सायशब्दस्य पूर्वाद्यप्रविष्ट्वादहन्शब्देन समासो न स्यात् । तदा ‘षष्ठी’ इति सूत्रेण अहन्शब्दस्य षष्ठयन्तस्य सायशब्देन समासे सति षष्ठयन्तस्यैव समासशास्त्रे प्रथमानिर्दिष्टत्वात् पूर्वनिपाते सति सायशब्दात् परस्याह्न शब्दस्य अहन्नादेशविधानन्निर्विषयं स्यात् । अतः 'सर्वोऽप्येकदेशोऽह्ना समस्यते' इति विज्ञायत इत्यर्थः । मध्याह्नः इति ॥ अहो मध्यमिति विग्रहे अयं समासः । “राजाहस्सखिभ्यष्टच् इति टच् । “अह्नोऽह्न एतेभ्यः' इत्यह्नादेशः । सायाह्नः इति । अह्नस्साय इति विग्रहः । मध्याह्नवत् । ननु 'सर्वोऽप्येकदेशः कालेन समस्यते' इत्ययुक्तम् । “सङ्खयाविसाय' इति सूत्रे अहृन्शब्दस्येवोपात्ततया तदितरकालवाचिना सर्वस्यैकदेशस्य समासज्ञापनानुपपत्तेरित्यत आह ।

ज्ञापकस्येति । अहन्शब्देन सह सायशब्दस्य तत्पुरुषसमासं सिद्धवत्कृत्य सायशब्दादह्नः

समासप्रकरणम्]
५०३
बालमनोरमा ।

७१३ । अर्धं नपुंसकम् । (२-२-२)

समांशवाच्यर्धशब्दो नित्यं क्लीबे, स प्राग्वत् । एकविभक्तावषष्ठयन्त वचनम् (वा ६७३) एकदेशिसमासविषयकोऽयमुपसर्जनसंज्ञानिषेधः । तेन 'पञ्चखट्टी' इत्यादि सिद्धयति । अर्ध पिप्पल्या अर्धपिप्पली । क्लीबे' किम् । ग्रामार्धः । द्रव्यैक्य एव । अर्ध पिप्पलीनाम् ।


शब्दानुपादानात् सर्वेणापि अवयववृत्तिकालवाचिना सर्वस्यैकदेशस्य समासो ज्ञाप्यते । ज्ञापकस्य सामान्यापेक्षत्वात् । अहन्शब्दे सायशब्दस्यैव पूर्वाद्यप्रविष्टत्वं ज्ञाप्यत इति भावः । मध्यरात्रः इति । रात्रेर्मध्य इत्यर्थः । पश्चिमरात्रेति । रात्रेः पश्चिममिति विग्रहः । ‘अहस्सर्वेक देश' इत्यच्समासान्तः । अर्धं नपुंसकम्। अर्धमिति नपुंसकलिङ्गनिर्देशादेव नपुंसकत्वे लब्धे पुनर्नपुंसकग्रहणं नित्यनपुंसकलिङ्गस्य ग्रहणार्थमित्यभिप्रेत्य आह । समांशवाच्यर्धशब्दो नित्यं कृीबे इति । वर्तते इति शेषः । “वा पुस्यर्धोऽर्धं समेंऽशके' इति कोशादिति भावः अंशसामान्यवाची अर्धशब्दः पुंसि वा नपुंसके वा भवति । समे त्वंशे अर्धशब्दो नपुंसक लिङ्ग एवेत्यर्थः । भाष्ये तु समप्रविभागे नपुंसकलिङ्गोऽर्धशब्दः । अंशसामान्यवाची तु पुलिङ्ग इत्युक्तम् । स प्राग्वादात । सः नित्यनपुंसकलिङ्गः अर्धशब्दः अवयविवाचिना समस्यत इत्यर्थः । अर्धशब्दस्य पूर्वाद्यनन्तर्भावात् पूर्वेण न प्राप्तिः । ननु अर्धं पिप्पल्याः अर्ध पिप्पलीत्युदाहरणं वक्ष्यति । तत्र अर्धं पिप्पल्याः अर्धपिप्पली, अर्धेन पिप्पल्याः अर्धः पिप्पल्या, अर्धाय पिप्पल्याः अर्धपिप्पल्यै, अर्धात् पिप्पल्याः अर्धपिप्पल्याः, अर्धस्य पिप्पल्याः अर्धपिप्पल्याः, अधैं पिप्पल्याः अर्धपिप्पल्याम्, इति विग्रहेषु पिप्पलीशब्दस्य नियतविभक्तिकतया 'एकविभक्तिचापूर्वनिपाते' इति उपसर्जनत्वात् “गोत्रियोः' इति हस्वस्यादित्यत आह । एकविभक्ताविति ॥ “एकविभक्ति चापूर्वनिपाते' इति सूत्रे अषष्ठयन्तम्’ इति वक्तव्यमित्यर्थः । ततश्च पिप्पलीशब्दस्य षष्ठ्यन्तत्वान्नोपसर्जनत्वमिति न ह्रस्व इत्यर्थः । नन्वेवं सति पञ्चानां खट्टानां समाहारः समाहारं समाहारेणेत्यादिविग्रहेषु खट्टाशब्दस्य नियतविभक्तिकत्वेऽपि षष्ठयन्तत्वात् अनुपसर्जनत्वात् 'गोस्त्रियोः' इति ह्रस्वा भावे अदन्तत्वाभावेन 'द्विगोः' इति डीबभावे पञ्चखट्वेति स्यात्, पञ्चखट्वीति न स्या दित्यत आह । एकदेशिसमासविषयकोऽयमिति ॥ 'अपथन्नपुसकम्' इति सूत्रभाष्ये पञ्चखट्वीत्युदाहरणमत्र लिङ्गमिति भावः । अर्धपिप्पलीति प्रथमानिर्दिष्टमित्यर्धशब्दस्योपसर्जन त्वात् पूर्वनिपातः । पिप्पलीशब्दस्य तु विग्रहे नियतविभक्तिकत्वेऽपि “एकविभक्तौ' इति निषेधा दुपसर्जनत्वाभावान्न ह्रस्व इति भावः । ग्रामार्ध इति । ग्रामस्यार्ध इति विग्रहः । ग्रामस्यांश इत्यर्थः । अर्धशब्दस्य समांशवाचित्वाभावेन नित्यनपुंसकत्वाभावान्नायं समासः । किन्तु ‘षष्ठी’इत्येव समास इति षष्ठयन्तस्य पूर्वनिपातः । द्रव्यैक्य एवेति । एकाधिकरण इत्यनुवर्तत एवेत्यर्थः। अर्धं पिप्पलीनामिति ॥अत्र द्रव्यैक्याभावान्न समासः। सति समासे

अर्धपिप्पलीत्येव स्यात् विशेष्यैक्यात् । इदं सूत्रं “परवाङ्ल्लिगम्’ इति सूत्रभाष्ये प्रत्याख्यातम् ।

५०४
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७१४ । । द्वितीयतृतीयचतुर्थतुर्याण्यन्यतरस्याम् । (२-२-३)

एतान्येकदेशिना सह प्राग्वद्वा । द्वितीयं भिक्षाया द्वितीयभिक्षा । ' एकदेशिना' किम् । द्वितीयें भिक्षाया भिक्षुकस्य । अन्यतरस्याङ्ग्रहणसाम र्थ्यात् । 'पूरणगुण-' (सू ७०५) इति निषेधं बाधित्वा पक्षे षष्ठीसमासः । भिक्षाद्वितीयम् ।

७१५ । प्राप्तापन्ने च द्वितीयया । (२-२-४)

पक्षे 'द्वितीया श्रित-' (सू ६८६) इति समासः । प्राप्तो जीविकां प्राप्तजीविकः-जीविकाप्राप्तः । आपन्नजीविकः-जीविकापन्नः । इह सूत्रे ' द्वितीयया अ' इति छित्त्वा अकारोऽपि विधीयते । तेन जीविकां प्राप्ता स्त्री प्राप्तजीविका । आपन्नजीविका ।


द्वितीयतृतीय ॥ द्वितीयं भिक्षाया इति विग्रहोऽयम् । भिक्षाया द्वितीयमर्धमित्यर्थः । द्वितीयभिक्षेति । द्वितीयशब्दस्य प्रथमानिर्दिष्टत्वात् पूर्वनिपातः ।‘परवल्लिङ्गम्’ इति स्त्रीत्वम् । द्वितीयं भिक्षाया भिक्षुकस्येति ॥ भिक्षायाः द्वितीयं भागं भिक्षुकस्येत्यन्वयः । भिक्षाया इत्यवयवषष्टी द्वितीयमित्यत्रान्वेति । द्वितीयमित्येतत्तु भिक्षुकस्येत्यत्र कर्मत्वेनान्वेति । “न लोक इति निषेधान्न षष्ठी । अत्र द्वितीयमित्यस्य भिक्षुकस्येत्यनेन समासो न भवति । द्वितीयं प्रति भिक्षुकस्य एकदेशित्वाभावादित्यर्थः । ननु विभाषाधिकारेण विकल्पे सिद्धे अन्यतरस्याङ्ग्रहणं व्यर्थमित्यत आह । अन्यतरस्यामिति । अन्यतरस्याङ्ग्रहणसामर्थ्यात् पक्षे षष्ठीसमास इत्यन्वयः । अन्यथा षष्ठयपवादभूतेनानेन समासेन मुक्ते उत्सर्गो न प्रवर्तते । महाविभाषाधिकारे

  • अपवादेन मुक्ते उत्सर्गो न प्रवर्तते” इति 'पारेमध्ये षष्ठया वा' इतिवाग्रहणेन ज्ञापितत्वादिति

भावः । ननु “पूरणगुण' इति निषेधात् कथमिह षष्ठीसमास इत्यत आह । पूरणगुणेति निषे धम्बाधित्वेति । अन्यथा अन्यतरस्याङ्ग्रहणवैयर्थ्यादिति भावः । इत्येकदेशिसमासनिरूपणम् । प्राप्तापन्ने च द्वितीयया ॥ प्राप्त, आपन्न एतौ शब्दैौ द्वितीयान्तेन समस्येते इत्यर्थः । चकारो द्वितीयासमाससमुच्चयार्थः । तदाह । पक्ष इति । वस्तुतस्तु ‘द्वितीया श्रित' इति सूत्रे

  • प्राप्तापन्नशब्दाभ्यां द्वितीयायास्समासविधानमपि निरवकाशमेव इति तत्समुच्चयस्य सिद्ध

त्वात् चकारो न तत्समुच्चयार्थः” इति भाष्ये स्थितम् । तत्र प्रकृतसूत्रेण समासे प्राप्तापन्नयो पूर्वनिपातः । 'द्वितीया श्रित' इति समासे तु द्वितीयान्तस्य पूर्वनिपातः । तदाह । प्राप्त जीविक इत्यादि । अथ जीविकां प्राप्ता स्त्री जीविकामापन्ना स्त्रीति विग्रहे प्रकृतसूत्रेण समासे सति पूर्वपरयोरकारमन्तादेशं साधयितुमाह । इह सूत्रे इति । अकारोऽपीति ॥

प्राप्तापन्ने द्वितीयया समस्येते । तयोरकारोऽन्तादेशश्चेत्यर्थलाभादिति भावः । तेनेति ॥

समासप्रकरणम्]
५०५
बालमनोरमा ।

७१६ । कालाः परिमाणिना । (२-२-५)

परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते । मासो जातस्य मासजातः । व्द्यहजातः । द्वयोः अरह्नोः समाहारो व्द्यहः । द्यहो जातस्य इति विग्रहे 'उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योप सङ्खयानम्' (वा १२८८) । द्वे अहनी जातस्य यस्य स व्यह्नजातः । 'अह्नो ऽह्नः-' (७९०) इति वक्ष्यमाणोऽह्नादेशः । पूर्वत्र तु *न सङ्ख-यादेः समाहारे (सू ७९३) इति निषेधः ।


प्राप्तापन्नयोराकारस्यान्तस्य स्थाने अकारविधानेनेत्यर्थः । कालाः परिमाणिना । परेि माणिपदं व्याचष्टे । परिच्छेद्यवाचिनेति ॥ “कालाः' इति बहुवचनात् कालविशेषवाचका- इत्यर्थः । मासो जातस्य मासजात इति । अत्र विग्रहे मासः प्रधानम् । समासे तु जातः प्रधानम् । मासजातो दृश्यतामित्यादौ जातस्यैव दर्शनकर्मत्वादिप्रतीतेः । विशेषणविशेष्य भावतु एकार्थीभावसम्बन्धसाध्द्यः। एतदेवाभिप्रेत्य मूले क्वचित् पुस्तके मासो जातस्य यस्य सः इति पठितम् । तत्र विग्रहे जातस्येति परिच्छेद्यपरिच्छेदकभावे षष्ठी। जातपरिच्छेदको मास इति विग्रह वाक्ये बोधः । मासपरिच्छेद्यो जात इति समासाद्वोधः । तत्र मासस्तावत् जननं साक्षात् परिच्छि नत्ति । जननाश्रयन्तु देवदत्तं जननद्वारा परिच्छिनत्ति । तथाच मासपरिच्छेद्यजननाश्रयो देवदत्त इति समासाद्वोधः फलति । षष्ठीसमासापवादोऽयम् । षष्ठीसमासे तु जातमास इति स्यात् । नच मासो जातस्य यस्य सः मासजात इति बहुव्रीहिणैव एतात्सिद्धमिति वाच्यम्। समानाधिकरणानामेव वहुव्रीहिविधानात् । “निष्ठा' इति जातशब्दस्य पूर्वनिपातापत्तेश्च । “जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति जातशब्दस्य परनिपातस्तु न । सुखादावस्य पाठकल्पनायां प्रमाणा भावादित्यलम् । ह्यहो जातस्येति ॥ 'तद्धितार्थ' इति समाहारे द्विगुः । “राजाह्रस्सखि भ्यः' इति टच् । “रात्राह्नाहाः पुंसि' इति पुंस्त्वम् । उत्तरपदेनेति ॥ 'तद्धितार्थ' इति सूत्रभाष्ये इदं वार्तिकं पठितम् । तेन हि सूत्रेण उत्तरपदे परे दिक्सङ्खयोस्सुबन्तेन द्विगुसमासो विहितः । उत्तरशब्दश्च समासस्य चरमावयवे रूढः । ततश्च द्वे अहनी जातस्य यस्येति विग्रहे त्रयाणां समासे सति जातशब्दे उत्तरपदे सम्पन्ने पूर्वयोस्सुबन्तयोर्द्विगुसमासप्रवृत्तिर्वक्तव्या । सच समासत्रयाणां “कालाः परिमाणिना' इति पूर्वसूत्रेण न सम्भवति । 'सुप्सुपा' इत्येकत्वस्य विव क्षितत्वात् । अतः उत्तरपदेन परिमाणिना परिच्छेद्यवाचिना परनिमित्तभूतेन हेतुना द्विगोस्सिद्धये बहूनां तत्पुरुषस्योपसंख्यानं वक्तव्यमित्यर्थः । उत्तरपदभूतपरनिमित्तकद्विगुसिद्धये त्रिपदतत्पुरुषो वाच्य इति यावत् । 'सुप्सुपा' इत्येकत्वं विवक्षितमित्यत्र इदमेव लिङ्गम् । द्वे अहनी इति ॥ द्वे अहनी जातस्येति विग्रहे त्रयाणां समासे सुब्लुकि व्द्यहन् जात इति जातशब्दे उत्तरपदे परे द्वि अहन् इत्यनयोः “तद्धितार्थ' इति द्विगुसमासे 'राजाहस्सखिभ्यः' इति टचि “अह्नोऽह्न

एतेभ्यः' इत्यह्नादेशे व्द्यह्नजात इति रूपमियर्थः । अत्र पूर्वयोर्द्विगुतत्पुरुषत्वाभावे टच्

५०६
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७१७ । सप्तमी शौण्डैः । (२-१-४०)

सप्तम्यन्तं शौण्डादिभिः प्राग्वद्वा । अक्षेषु शौण्डोऽक्षशौण्डः । अधि शब्दोऽत्र पठ्यते । '-अध्युत्तरपदात्--' (सू २०७९) इति स्वः । ईश्वराधीनः ।

७१८ । सिदृशुष्कपक्वबन्धैश्च । (२-१-४१)

एतैः सप्तम्यन्तं प्राग्वत् । सांकाश्यसिद्धः । आतपशुष्कः । स्थालीपक्वः । चक्रबन्धः।

७१९ । ध्वाङ्क्षेण क्षेपे । (२-१-४२)

ध्वाङ्क्षवाचिना सह सप्तम्यन्तं समस्यते निन्दायाम् । तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्षः । तीर्थकाक इत्यर्थः ।

७२० । कृत्यैर्ऋणे । (२-१-४३)

सप्तम्यन्तं कृत्यप्रत्ययान्तैः सह प्राग्वदावश्यके । मासेदेयम् ऋणम् । ऋणग्रहणं नियोगोपलक्षणार्थम् । पूर्वाह्णेगेयं साम ।


अह्लादेशश्च न स्यातामिति भावः । ननु द्वयोरहोस्समाहारो व्यह् इति कथं पूर्वमुक्तम् । तत्राप्यह्णादेशप्रसङ्गादित्यत आह । पूर्वत्र त्विति । निषेध इति । अह्णादेशनिषेध इत्यर्थः । इति षष्ठीसमासनिरूपणम् । सप्तमी शौण्डैः ॥ शौण्डादिभिरिति बहुवचननिर्दे शात् गणपाठाच्च शौण्डशब्दस्तदादिपरः । अक्षेषु शौण्ड इति ॥ शौण्डः क्रियाकुशलः । वैषयिकाधिकरणत्वे सप्तमी । अक्षविषयकक्रीडाकुशल इत्यर्थः । अत्रेति ॥ शैौण्डादावित्यर्थः । ईश्वराधीन इति ॥ प्रपञ्च इति शेषः । ईश्वरे अधि इति विग्रहः “ अधिरीश्वरे' इत्यधेः कर्मप्रवचनीयत्वम् । “यस्मादधिकम्' इति सप्तमी । तदन्तस्य अधिना समासः । सुब्लुक् अषडक्ष' इति अद्धयुत्तरपदत्वात् खः । ईनादेशः । ईश्वराधीन इति रूपम् । सिद्धशुष्क ॥ सप्तमीत्यनुवर्तते । तदाह । एतैस्सप्तम्यन्तं प्राग्वदिति ॥ साङ्काश्यसिद्ध इति ॥ सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम् । तत्र सिद्धः उत्पन्नो ज्ञातो वेत्यर्थः । आतपशुष्क इति ॥ आतपे शुष्क इति विग्रहः । स्थालीपक्व इति ॥ स्थाल्यां पक्वं इति विग्रहः । चक्र बन्ध इति ॥ चक्रे बन्ध इति विग्रहः । शौण्डादिगणे एतेषां पाठाभावात् पृथगुक्तिः । ध्वाङ्क्षेण क्षेपे ॥ ध्वाङ्क्षेत्यर्थग्रहणम् । व्याख्यानात् । तदाह '। ध्वाङ्क्षवाचिना सह सप्त म्यन्तं समस्यते इति ॥ क्षेपपदं व्याचष्टे । निन्दायामिति ॥ तीर्थे ध्वाङ्क्ष इव तीर्थध्वाङ्क्ष इति ॥ ध्वाङ्क्षः काकः स इव यो गुरुकुले चिरन्न तिष्ठति स इत्यर्थः । एवं हि निन्दा भवति । अर्थग्रहणस्य प्रयोजनमाह । तीर्थकाक इति ॥ कृत्यैर्ऋणे ॥ सप्तमी त्यनुवर्तते । कृत्यग्रहणेन प्रत्यग्रहणपरिभाषया कृल्यसंज्ञकप्रत्ययान्तग्रहणम् । “ऋणपदमावश्यकोप

लक्षणम्'इति भाष्यम्। तदाह । सप्तम्यन्तं कृत्यप्रत्ययान्तैः सहप्राग्वदावश्यक इति ॥

समासप्रकरणम्]
५०७
बालमनोरमा ।

७२१ । संज्ञायाम् । (२-१-४४)

सप्तम्यन्तं सुपा प्राग्वत्संज्ञायाम् । वाक्येन संज्ञानवगमान्नित्यसमासोऽयम् । अरण्येतिलकाः । वनेकशेरुकाः । 'हलदन्तात्सप्तम्याः –’ (सू ९६६) इत्यलुक् ।

७२२ । क्तेनाहोरात्रावयवाः । (२-१-४५)

अह्नो रात्रश्चावयवाः सप्तम्यन्ताः क्तान्तेन सह प्राग्वत् । पूवाह्नकृतम् अपररात्रकृतम् । ' अवयव' ग्रहणं किम् । अह्नि दृष्टम् ।

७२३ । तत्र । (२-१-४६)

तत्र' इत्येतत्सप्तम्यन्तं क्तान्तेन सह प्राग्वत् । तत्रभुक्तम् ।

७२४ । क्षेपे । (२-१-४७)

सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायाम् । “ अवतप्तेनकुलस्थितं ते एतत्' ।

७२५ । पात्रेसमितादयश्च । (२-१-४८)


मासे इति ॥ सामीप्याधिकरणत्व सप्तमी । मासाव्यवहितोत्तरकाले प्रत्यर्पणीयमृणमित्यर्थः । ऋणपदस्यावश्यकोपलक्षणतायाः प्रयोजनमाह । पूर्वाह्नेगेयं सामेति ॥ ‘तत्पुरुषे कृति’ इत्य लुक्। यत्प्रत्यय एव कृत्योऽत्र विवक्षित इति भाष्यम्। तेनेह न । पूर्वाह्ने दातव्या भिक्षेति । संज्ञा याम् ॥ सप्तमीत्यनुवर्तते । तदाह । सप्तम्यन्तं सुपा प्राग्वत् संज्ञायामिति ॥ अरण्ये तिलका इति वनेकशेरुका इति च संज्ञाशब्दौ । “हलदन्तात् सप्तम्याः' इत्यलुक् । क्तेनाहो रात्रावयवाः ॥ अहोरात्रयोः अवयवाः इति विग्रहः । सप्तमीत्यनुवर्तते। क्तेनेति तदन्तग्रहणम् । तदाह । अह्नो रात्रेश्चावयवा इति ॥ अहरवयवस्योदाहरति । पूर्वाह्नकृतमिति ॥ रात्रयवयवस्योदाहरति । अपररात्रकृतमिति ॥ तत्र ॥ तत्रेति शब्दस्वरूपप्रहणम् । सप्तमीति क्तेनेति चानुवर्तते । तदाह । तत्रेत्येतत् सप्तम्यन्तं क्तेन सह प्राग्वदिति ॥ तत्रभुक्तमिति ॥ समासस्वरः प्रयोजनम् । तत्रभुक्तस्येदं तात्रभुक्तम् इति च । क्षेपे । सप्तमीति क्तेनेति चानुवर्तते । तदाह । सप्तम्यन्तं क्तान्तेन प्राग्वन्निन्दायामिति । अवततेनकुलस्थितन्त एतदिति ॥ स्थितमिति भावे त्क्तः । नकुलेन स्थितम् । 'कर्तृः करणे कृता बहुळम्' इति समासः । “कृद्रहणे गतिकारकपूर्वेस्यापि ग्रहणम्’ इति परिभाषया नकुलस्थितशब्दोऽपि क्तान्तः । तेन सहावतप्ते इति सप्तम्यन्तस्य अनेन समासे कृते “तत्पुरुषे कृति' इत्यलुक् । हे देवदत्त, ते, तव, एतत्, अवस्थानम्, अवतप्ते नकुलस्थितमित्यन्वयः । यथा अवतप्तप्रदेशे नकुलाः न चिरन्तिष्ठन्ति तथा कार्यण्युपक्रम्य तान्यनिर्वर्य इतस्ततो धावन

मित्यर्थः । अव्यवस्थितोऽसीति निन्दा ज्ञेया । पात्रे समितादयश्च ॥ निपात्यन्त इति ॥

५०८
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

एते निपात्यन्ते क्षेपे । पात्रेसमिताः । भोजनसमय एव सङ्गता न तु कायें । गेहेशूरः । गेहेनर्दी । आकृतिगणोऽयम् । चकारोऽवधारणार्थः । तेनैषां समासान्तरे घटकतया प्रवेशो न । परमा: पात्रेसमिताः।

७२६ । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन । (२-१-४९)

' विशेषणं विशेष्येण–’ (सू ७३६) इति सिद्धे पूर्वनिपातनियमार्थं सूत्रम्। एकशब्दस्य *दिक्सङ्खये संज्ञायाम्' (सू ७२७) इति नियंमंबाधनार्थश्च । पूर्वं स्नातः पश्चादनुलिप्तः स्नातानुलिप्तः । एकनाथः । सर्वयाज्ञिकाः । जरत्रैयायिका: । पुराणमीमांसकाः । नवपाठकाः । केवलवैयाकरणाः ।


कृतसमासादिकार्या एत शब्दा निर्दिश्यन्त इत्यर्थः । पात्रेसमिता इति ॥ 'इण्, गतौ' सम्पूर्वात् “गत्यर्थाकर्मक’ इति कर्तरि क्तः । निपातनात् सप्तम्या अलुक् । भोजनपात्रे निहिते सति सङ्गता इत्यर्थः । फलितमाह । भोजनेति । गेहेशूर इति । गेहे एव प्रकटितयशा नतु युद्ध इत्यर्थः । गेहेनर्दीति ॥ 'नर्द शब्दे ’ “सुप्यजातौ' इति णिनिः । समासे सति निपातनादलुक् । गेह एव गर्जति, युद्धादौ तु न प्रवर्तत इत्यर्थः । चकारोऽवधारणार्थ इति ॥ ततश्च एते गणे पठितास्तथैव भवन्तीत्यर्थ । ततः किमित्यत आह । तेनेति । ततश्च परमाश्च ते पात्रेसमिताश्चेत्यादौ समासो न भवति । पूर्वकालैक ॥ सुबिल्यनुवृत्तं बहुवचनेन विपरिणम्यते । सुपेति चानुवर्तते । पूर्वः काला यस्य सः पूर्वकालः । पूर्व कालवृत्तिरित्यर्थः । ततश्च पूर्वकालेत्यनेन पूर्वकालार्थकशब्दस्य ग्रहणम् । एकादिशब्दास्तु षट् स्वरूपपरा एव । तथाच पूर्वकालादयस्सप्त सुबन्ताः समानाधिकरणेन सुबन्तेन समस्यन्ते स तत्पुरुष इत्यर्थः । समानम् एकम् अधिकरणं वाच्यं यस्येति विग्रहः । एकार्थवृत्तित्वंसामानाधि करण्यमिति फलितम् । पूर्वनिपातेति ॥ पश्चादनुलिप्तः पूर्व स्नातत्वेन, पूर्वे स्नातो वा पश्चाद् नुलिप्तत्वेन विशेष्टुं शक्यते । अतो विशेषणं विशेष्येण समासे सति अन्यतरस्य पूर्वनिपाते प्राप्ते पूर्वकालवृत्तिशब्दस्यैव पूर्वनिपातार्थमिदं वचनम् । एवमेकादीनामपीत्यर्थः । एकशब्दविषये प्रयोजनान्तरमप्याह । एकशब्दस्येति ॥ * दिक्सङ्खये संज्ञायां समस्येते' इति नियमस्य वक्ष्यमाणतया एकनाथ इत्यत्र विशेषणसमासस्य बाधे प्राप्ते तत्प्रतिप्रसवार्थमप्येकग्रहणमित्यर्थः । स्नातानुलिप्त इति । विग्रहवाक्यवदिह पूर्वपश्चाच्छब्दाभावेऽपि स्नानानुलेपनयोः पौर्वापर्य समासगम्यमेव । पूर्वकालः समस्यते इत्युक्तेन परकाले नेत्यर्थात्प्रतीतेः । एकनाथ इति ॥ एकश्चासौ नाथश्चति विग्रहः । यज्ञमधीयते विदन्ति वा याज्ञिकाः । 'क्रतूक्थादिसूत्रान्ताट्ठक् सर्वे च ते याज्ञिकाश्चेति विग्रहः । जरन्नैयायिका इति ॥ जरन्तश्च ते नैयायिकाश्चेति विग्रहः । न्यायमधीयते विदन्ति वा नैयायिकाः । पूर्ववत् ठक् । ‘न य्वाभ्याम्' इत्यैजागमो

वृद्धिनिषेधश्च । ‘जीर्यतेरतृन्' इति भूते अतृन् । जीर्णनैयायिका इत्यर्थः । पुराणमीमांसकाः

समासप्रकरणम्]
५०९
बालमनोरमा ।

७२७ । दिक्संख्ये संज्ञायाम् । (२-१-५०)

'समानाधिकरणेन' इत्यापादपरिसमाप्रधिकारः। संज्ञायामेव' इति निय मार्थ सूत्रम् । पूर्वेषुकामशमी । सप्तर्षयः । नेह, उत्तरा वृक्षाः । पञ्च ब्राह्मणाः ।

७२८ । तद्धितार्थोत्तरपदसमाहारे च । (२-१-५१)

तद्धितार्थे विषये उत्तरपदे च परतः समाहारे च वाच्ये दिक्संख्ये प्राग्वद्रा । पूवस्या शालायां भवः पौर्वशालः । समासे कृते हिक्पूर्वपदादसं-


इति ॥ मीमांसामधीयते मीमांसकाः। क्रमादिभ्यो वुन्' पुराणाश्च ते मीमांसकाश्चेति विग्रहः। नवपाठका इत नवाश्च ते पाठकाश्चेति विग्रहः । अत्र पुराणसाहचर्यान्नव शब्दो नूतनवाच्यव गृह्यते । नतु सङ्खयाविशेषवाची केवलवैयाकरणा इति।। व्याकरणमधीयते विदन्ति वा वैयाकरणाः इति। * तदधीते तद्वेद' इत्यण्। न य्वाभ्याम्। इति वृद्धिनिषेध ऐजागमश्च । केवलाश्च ते वैयाकरणाश्चेति विग्रहः । दिक्संख्ये संज्ञायाम् अधिकार इति।। पूर्वकालंक' इतिसूत्रस्थं समानाधिकरणेनेत्यतत् आपादसमाप्तेरनुवर्तते इत्यर्थः। ततश्च दिक्सख्ये समानाधिकरणेन सुबन्तेन समस्येते स तत्पुरुष इत्यर्थः। विशेषणं विशेष्येण' इत्येव सिद्धे किमर्थमिदं वचनमित्यत आह । संज्ञायामेवेति नचैवं सति पञ्च गावो यस्य सः पञ्चगुरिति बहुव्रीहिर्न स्यात् । पञ्चानां गवां समाहारः पञ्च गवमित्यत्र “तद्धितार्थ ' इति समासश्च न स्यादिति वाच्यम् । “विशेषणं विशेष्येण' इति यदि दिक्संख्ययोस्समासः स्यात् तर्हि संज्ञायामेवेति नियमशरीराभ्युपगमात्। पूर्वसूत्रं पूर्वमासः, पूर्वसमुद्रः " इत्यादौ तु संज्ञात्वाभावेऽपि कालदेशवाचकत्वात् समासो भवत्येव। ननु “त्रिलोकनाथः पितृसद्मगोचरः' इति कथं काळिदासप्रयोगः । त्रिलोकशब्दस्य असंज्ञाः त्वात्। त्रयाणां लोकानां समाहार इति विग्रहे “तद्धितार्थ' इति द्विगुसमास तु “द्विगोः इति ङीप्प्रसङ्गः। अकारान्तोत्तरपदो द्विगुस्त्रियामिष्टः इति स्त्रीलिङ्गत्वात् । पात्रादित्वात् न स्त्रीत्वमित्यभ्युपगमे । “यदि त्रिलोकी गणनापरा स्यात्' इत्यादिप्रयोगाः न युज्येरन् । इति चेत्सत्यम् । लोकशब्दोऽत्र लोकसमुदायपरः। त्रयवयवो लोकस्त्रिलोक इति मध्द्यमपदलोपी समासः। द्विगोर्लुगनपत्त्ये' इति सूत्रे भाष्ये स्पष्टम् । षोडशपदार्थानामित्यत्र तु षोडशत्व सङ्खयाकाः पदार्था इति मध्द्यमपदलोपी समास इत्यलम् । पूवेषुकामशमीति ॥ पूर्वशब्दस्य इषुकामशमीशब्देन देशविशेषस्य संज्ञेयम् । सप्तर्षय इति ॥ मरीच्यत्रिप्रभृतीनां सप्तानामृषीणां संज्ञेयम् । नेहेति ॥ असंज्ञात्वादिति भाव तद्धितार्थ ॥ एकापि सप्तमी विषयभेदात् भिद्यते तत्र तद्धितार्थेत्यंशे वैषयिकाधारत्वे वर्तते । उत्तरपदेत्यंशे सामी पिकमाधारत्वमादाय परसप्तमी पर्यवस्यति । समाहाररांशे तु वाच्यतया आधारत्वे सप्तमी पूर्वसूत्रात् दिक्सङ्खये इत्यनुवर्तते। तदाह । तद्धितार्थे विषये इति । तद्धितार्थे भविष्यत्तद्धितजन्यज्ञानविषये सतीत्यर्थः । तद्धिते भविष्यतीति यावत्। प्राग्वदिति।। समानाधिकरणेन समस्यते स तत्पुरुषः इत्यर्थः । तद्धितार्थे दिक्समासमुदाहरति ५०९ "

.

५१०
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

ज्ञायां ञः' (सू १३२८) इति ञः । 'सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः' (वा १३७६) । आपरशालः । पूर्वा शाला प्रिया यस्येति त्रिपदे बहुव्रीहौ चत प्रियाशब्दे उत्तरपदे पूर्वयोस्तत्पुरुषः । तन्न शालाशब्दे आकार उदात्तः । पूर्वशालाप्रियः । दिक्षु समाहारो नास्त्यनभिधानात् । संख्यायास्तद्धितार्थे । षण्णां मातृणामपत्यं षाण्मातुरः । पञ्च गावो धनं यस्येति त्रिपदे बहुव्रीहाव वान्तरतत्पुरुषस्य विकल्पे प्राप्ते “ द्वन्द्वतत्पुरुषयोरुत्तरपदे नित्यसमास वचनम्' (वा १२८७) ।

७२९ । गोरतद्धितलुकि । (५-४-९२)

पूर्वस्यामिति ॥ समासे कृते इति । पूर्वस्यां शालायां भव इति विग्रहे तद्धितार्थ' इति समासे कृते “दिक्पूर्वपदात्’ इति अप्रत्यये कृते “यस्येति च' इत्यकारलोपे आदिवृद्धिरिति भावः । सर्वनाम्न इति ॥ मात्रशब्दः कात्स्रयें । समासताद्वितादिवृत्तिगत सर्वनाम्नां पुंवत्त्वमिति तदर्थः । यदि तु तद्धिते परे दिक्सङ्खये समस्येते इत्युच्यते, तर्हि उत्पन्ने तद्धिते समासः । समासे कृते दिक्पूर्वपदत्वात्तद्धित इत्यन्योन्याश्रयप्रसङ्गः । तद्धितार्थे वाच्ये दिक्सङ्खये समस्येते इति तु न व्याख्यातम् । तद्धितार्थस्य तद्धितवाच्यतया समासार्थत्वा भावात् । अतस्तद्धिते भविष्यतीत्येव व्याख्यातुमुचितम् । आपरशाल इति । अपरस्यां शालायां भव इति विग्रहः । समासादि पौर्वशालवत् । उत्तरपदे परतो दिक्समासमुदाहरति । पूर्वा शाला प्रिया यस्येत्यादिना । ननु बहुव्रीहिसमासे कृते सुपां लुप्तत्वात् उत्तरपदे परतः पूर्वयोः किमनेन समासेनेत्यत आह । तेन शालाशब्दे आकार उदात्त इति ॥ अवान्तरतत्पुरुषे सति समासान्तोदात्तत्वेन लकारादाकार उदात्त इत्यर्थः । असति त्ववान्तर तत्पुरुषे पूर्वपदप्रकृतिखरेणाद्युदात्तत्वं स्यादिति भावः । ननु पूर्वेषां पुरुषाणां समाहार इत्यत्रापि समासस्यादित्यत आह । दिक्ष्विति ॥ दिक्षु समाहारो द्विगुविषयो न भवतीत्यर्थः । समाहारे दिक्पूर्वपदसमासो नास्तीति यावत् । सङ्खयायास्तद्धितार्थे इति ॥ समासः उदाह्रियत इत्यर्थः । तत्र तद्धितार्थे उदाहरति । षाण्मातुर इति ॥ 'मातुरुत्सङ्खयासम्भ द्रपूर्वायाः इत्यण्। प्रकृतेरुकारश्चादेशः आदिवृद्धिश्च अथ उत्तरपदे परत उदाहरति पञ्च गाव इति । अवान्तरतत्पुरुषस्येति ॥ उत्तरपदे परतो विहितस्यत्यर्थः । विकः ल्पे प्राप्ते इति ॥ महाविभाषाधिकारादिति शेषः । ततश्च पञ्चगोशब्दयोस्तत्पुरुषाभावपक्षे “गोरतद्धितलुकि' इति तत्पुरुषप्रयुक्तटजभावे पञ्चगोधन इत्यपि स्यादिति भावः । द्वन्द्व तत्पुरुषयोरिति ॥ उत्तरपदे परतः यौ द्वन्द्वतत्पुरुषौ तयोर्नित्यत्वं वक्तव्यमित्यर्थः । समास ग्रहणन्तु सम्पातायातम् । अनन्वयात्, उत्तरपदे परतस्समाससंज्ञाया अव्यभिचाराच्च । उत्तर पदशब्दस्य समासोत्तरखण्डे रूढत्वात् । गोरतद्धितलुकि ॥ 'तत्पुरुषस्याङ्गुलेः’ इत्यतस्त

त्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः । 'राजाहरसखिभ्यः’

समासप्रकरणम्]
५११
बालमनोरमा ।

गोऽन्तात्तत्पुरुषाट्टच्स्यात्समासान्तो न तद्धितलुकि । पञ्चगवधनः । पञ्चानां गवां समाहारः ।

७३० । संख्यापूर्वो द्विगुः । (२-१-५२)

'तद्धितार्थ-' (सू ७२८) इत्यत्रोक्तस्त्रिविधः संख्यापूर्वो द्विगुः स्यात् ।

७३१ ॥ द्विगुरेकवचनम् । (२-४-१)

द्विग्वर्थः समाहार एकवत्स्यात् । 'स नपुंसकम्' (सू ८२१) इति नपुंसकत्वम् । पञ्चगवम् ।


इत्यतष्टजित्यनुवर्तते। समासान्त इत्यधिकृतम्। तदाह। गोऽन्तादित्यादिना । अतद्धितलुकीति किम् । पञ्चभिगॉभि: क्रीतो पञ्चगुः । अत्र तद्धितस्य “अध्यर्ध' इति लुक् । पञ्चगवधन इति ॥ त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्र ' द्वन्द्वतत्पुरुषयोः' इति वार्तिके द्वन्द्वस्योदाहरणन्तु वाक् च त्वक् च प्रिया यस्य सः वाक्तचप्रिय इति बोध्यम् । इह त्रिपदबहुव्रीहौ कृते पूर्वयोर्नित्यद्वन्द्वः । तेन “द्वन्द्वाच्चुदष हान्तात् समाहारे' इति टजपि नित्य एव । नच वाक्तक्छब्दयोः परस्परसामानाधिकरण्याभा वात् कथमिह त्रिपदबहुव्रीहिरिति वाच्यम्। द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः। सप्तमी विशेषणे बहुव्रीहौ' इति ज्ञापकेन कण्ठेकाळ इत्यादाविव व्यधिकरणबहुव्रीहिसम्भवाच्च । वाक्तचप्रियः” इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् । अथ समाहारे उदाहर्तु विग्रहन्दर्श यति । पञ्चानां गवां समाहार इति । अत्र समासे सति “गोरतद्धितलुकि' इति टचि अवादेशे पञ्चगवशब्दस्य द्विगुकार्यं विधास्यन् द्विगुसंज्ञामाह । सङ्खयापूर्वो द्विगुः ॥ सङ्खया पूर्वेोऽवयवः यस्येति बहुव्रीहिः । “तद्धितार्थ' इति पूर्वेसूत्रविहितसमासः अन्यपदार्थ- प्रत्यासत्तेः । तदाह । तद्धितार्थेत्यत्रोक्तस्त्रिविध इति ॥ तद्धितार्थे विषये उत्तरपदे च परतस्समाहारे च वाच्ये इत्येवं त्रिप्रकारो यः सङ्खयापूर्वेस्समासः उक्तः स द्विगुरिति यावत् । तथाच पञ्चगवशब्दस्य समाहारे वाच्ये विहितसमासत्वात् द्विगुसंज्ञा स्थिता । तद्धितार्थे तु पञ्चसु सस्कृतः पुराडाशः कपालेषु पञ्चकपालः । “संस्कृतम् भक्षाः’ इत्यण् । “द्विगोर्लुगनपत्ये इति लुक् । उत्तरपदे यथा, पञ्चनावप्रियः । ‘नावो द्विगोः' इति समासान्तष्टच् । द्विगु रेकवचनम् ॥ अत्र ‘समाहारग्रहणं कर्तव्यम्’ इति वार्तिकात् समाहार इति लभ्यते । वक्तीति वचनम् । बाहुळकः कर्तरि ल्युट् । सामान्ये नपुंसकम् । समाहारे द्विगुः । एकार्थप्रतिपाद् कस्यादिति लभ्यते । तत्र यदि समाह्रियत इति कर्मणि घञि समाहारशब्दस्समाहृतप्रधानः । तदा समाहृतगतद्वित्वबहुत्वयोः एकत्वानुपपत्तेरतिदेशस्सम्पद्यते । तदाह । द्विग्वर्थस्समा हार एकवदिति । यदा समाहरणं समाहारः समूहः, तदा तस्यैकत्वादेव सिद्धमिति नेदं सूत्रमारम्भणीयमिति भाष्ये स्पष्टम् । केचित्तु समूहस्य वस्तुत एकत्वेऽपि उद्भूतावयवभेद

विवक्षया द्विबहुवचनव्यावृत्त्यर्थमिदम् । एवञ्चात्र उद्भूतावयवभेदविवक्षा न कर्तव्येति फलती

५१२
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७३२ । कुत्सितानि कुत्सनैः । (२-१-५३)

कुत्स्यमानानि कुत्सनैः सह प्राग्वत् । वैयाकरणखसूचिः । मीमांसकदुर्दुरूटः ।

७३३ । पापाणके कुत्सितैः । (२-१-५४)

पूर्वसूत्रापवादः । पापनापितः । अणककुलालः ।

७३४ । उपमानानि सामान्यवचनैः । (२-१-५५)

घन इव श्यामो घनश्यामः । इह ' पूर्वेपदं तत्सदृशे लाक्षणिकम्'इति सूचयितुं लौकिकविग्रहे इवशब्दः प्रयुज्यते । पूर्वनिपातनियमार्थ सूत्रम् ।


त्याहुः । स नपुंसकमिति ॥ समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यादिति तदर्थो मूले वक्ष्यते । इति द्विगुसमासः । कुत्सितानि कुत्सनैः ॥ वर्तमाने त्क्तः व्याख्यानात् । तदाह । कुत्स्यमानानीति ॥ कुत्सनैरिति करणे ल्युट् । प्राग्वदिति ॥ समानाधिकरणेन समस्य ते स तत्पुरुष इत्यर्थः । वैयाकरणखसूचिरिति ॥ वैयाकरणश्चासौ खसूचिश्चेति विग्रहः । यः प्रक्रियां पृष्टस्सन् प्रश्नं विस्मारयतुमाकाशन्दर्शयति पश्यति वा स एवमुच्यते । अत्र वैयाकरणः प्रक्रियाविस्मरणान्निन्द्यः । खसूचनं निन्दाहेतुः । मीमांसकदुर्दुरूट इति ॥ दुल उत्क्षेपे' चुरादिः । दुःपूर्वादौणादिकः कूटप्रत्ययः । 'बहुळमन्यत्रापि' इति णेर्लुक् । रलयोरभेदात् र: । यो मीमांसामधीत्यान्यथा जानानो दुराक्षेपं करोति स एवमुच्यते । विशे ष्यस्य पूर्वनिपातार्थ सूत्रम् । विशेषणसमासे तु विशेषणस्य पूर्वनिपातस्स्यातं । पापाणके कुत्सितैः ॥ पापशब्दः अणकशब्दश्च कुत्सितवाचकैस्समस्यते स तत्पुरुष इत्यर्थः । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदामेत्यत आह । पूर्वसूत्रेति ॥ पापमस्यास्तीति मत्वर्थीयो अर्शआद्यच् । पापशब्दः पापवति वर्तते । अणकशब्दः कुरूपिणि वर्तते । ‘कुरूपकुत्सिता वद्यखेटगर्ह्याणकास्समाः' इत्यमरः । ततश्च पापाणकशब्दौ निन्दाहेतुभूतपापकुरूपात्मकप्रवृत्ति निमित्तौ कुत्सनाभिधायिनौ । ततश्चानयोः पूर्वसूत्रेण समासे परनिपातस्स्यात् । अतः पूर्व निपातनियमार्थमिदं सूत्रमित्यर्थः । पापनापित इति ॥ पापश्चासौ नापितश्चति विग्रहः । अणककुलाल इति ॥ अणकश्चासौ कुलालश्चेति विग्रहः । उपमानानि सामान्य वचनैः । उपमीयन्ते सदृशतया परिच्छिद्यन्ते यैस्तान्युपमानानि सादृश्यनिरूपकाणीत्यर्थः । सामान्यः उपमानोपमेयसाधारणधर्मः तमुक्तवन्तः शब्दाः सामान्यवचनाः। बाहुळकः कर्तरि ल्युट्। पूर्व सामान्यमुक्रा तद्वति द्रव्ये ये पर्यवस्यन्ति ते सामान्यवचना इति यावत् । तथाच सादृश्यनिरूपकशब्दापरपर्याया उपमानशब्दा: उपमानोपमेयसाधारणधर्मविशिष्टवाचिभिस्समा नापिकरणैस्समस्यन्ते स तत्पुरुष इत्यर्थः । घन इव श्यामो घनश्यामः इति ॥ नन्विह घन इव श्याम इति विग्रहे घनशब्दस्य श्यामशब्दस्य चैकार्थवृत्तित्वलक्षणसामानाधिकरण्या

भावात् कथमिह समासः इवशब्दापेक्षत्वेनासामर्थ्याच्चेत्यत आह । इह पूर्वपदमिति ॥

समासप्रकरणम्]
५१३
बालमनोरमा ।

७३५ । उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । (२-१-५६)

उपमेयं व्याघ्रादिभिः सह प्राग्वत्साधारणधर्मस्याप्रयोगे सति । विशेष्य स्य पूर्वनिपातार्थं सूत्रम् । पुरुषव्याघ्रः । नृसोमः । व्याघ्रादिराकृतिगणः । 'सामान्याप्रयोगे ' किम् । पुरुपो व्याघ्र इव शूरः ।

७३६ । विशेषणं विशेष्येण बहुळम् । (२-१-५७)

भेदकं समानाधिकरणेन भेद्येन बहुळं प्राग्वत् । नीलमुत्पलं नीलो त्पलम् । बहुळग्रहणात् ' क्वचिन्नित्यम्' । कृष्णसर्पः । ' क्वचिन्न' । रामो जामदग्न्यः ।


एवञ्च घनशब्दो लक्षणया घनसदृशे श्यामे वर्तते, श्यामशब्दोऽपि घने वर्तते, इति सामाना धिकरण्यम् । अत एव मृगीव चपला मृगचपला इत्यत्र “पुंवत्कर्मधारय’ इति पुंवत्वं सिद्यति। घनशब्दस्य भूतपूर्वगत्योपमानपरत्वन्निर्वाह्यम्। तथाच घनसदृशश्यामः' इति बोधः। सादृश्यं तद्भिन्नत्वे सति तद्रतधर्मवत्वम् । एवञ्च सादृश्यप्रतियोग्यनुयोगिनोस्साधारणधर्मवत्वं लब्धम् । स चेह साधारणधर्मः उत्तरपदापस्थाप्य एव गृह्यते । सन्निहितत्वात् । तथाच घन गतश्यामत्वसदृशश्यामत्ववान्’ इति बोधपर्यवसानम् । ननु विशेषणसमासेन सिद्धे किमर्थमिदं सूत्रमित्यत आह । पूर्वनिपातेति ॥ अन्यथा उभयोरपि गुणवचनतया विशेषणविशेष्य भावे कामचारात् खञ्जकुब्जः कुब्जखञ्जः इतिवदनियमस्यादिति भावः । उपमितम् ॥ प्राग्वदिति ॥ समानाधिकरणैस्समस्यते स तत्पुरुष इत्यर्थः । अत्रोपमितस्य नित्यमुपमाना काङ्क्षत्वादुपमानभूतव्याघ्रादिभिरित्यर्थसिद्धम् । ननु विशेषणसमासेनैव सिद्धे किमर्थमिदं सूत्र मित्यत आह । विशेष्यस्येति । उपमानोपमेयसमभिव्याहारे उपमानस्यैव विशेषणत्वात्पूर्व निपाते प्राप्ते विशेषस्य पूर्वनिपातनार्थमिदमित्यर्थः । पुरुषव्याघ्रः इति ॥ पुरुषो व्याघ्र इवेति विग्रहः । अत्र सादृश्योपपादकश्शौर्यात्मकस्साधारणधर्मः। स इह नोपात्त इति भवति समासः । पुरुषो व्याघ्र इव शूर इति ॥ शौर्येण व्याघ्रसदृश इति यावत् । अत्र शौर्यस्योपमानोपमेयसाधारणधर्मस्य प्रयोगान्न समास इति भावः । “भाष्याब्धिः कातिगम्भीरः इति कैयटप्रयोगस्तु मयूरव्यंसकादित्वात्समाधेयः । भाष्यमेवाब्धिरिति रूपकं वा । नच पुरुषः शब्दस्य शूरशब्दसापेक्षत्वादसामर्थ्यदेवात्र समासस्य न प्रवृत्तिः । अतः 'सामान्याप्रयोगे? इति व्यर्थमिति वाच्यम्। समस्यमानेष्वप्रधानस्यैव हि सापेक्षत्वं सार्मथ्यविघातकं, नतु प्रधानस्य । तथाचात्र पुरुषस्य प्रधानतया तस्य शूरापेक्षत्वेऽपि अस्त्येव सामर्थ्यमिति समासप्रवृत्तेस्तन्नि वृत्त्यर्थ सामान्याप्रयोग इति वचनम् । इदमेव प्रधानस्य सापेक्षत्वेऽपि न सामर्थ्यविघातकत्व मिति ज्ञापयति तेन राजपुरुषसुन्दर इत्यादौ समासस्सिद्धो भवतीति भाष्ये स्पष्टम् विशेषणं विशेष्येण बहुळम् ॥ विशिष्यते अनेनेति विशेषणम्, इतरस्माद्यावर्तकम् ।

व्यावृत्यन्तु विशेष्यं भिन्नत्वेन ज्ञायमानम् । समानाधिकरणेनेत्यधिकृतम् । तदाह । भेद्दक

५१४
[तत्पुरुष
सिद्धान्तकौमुदीसहिता

७३७ । पूर्वापरप्रथमचरमजघन्यसमानमध्यमध्यमवीराश्च । (२-१-५८)

पूर्वनिपातनियमार्थमिदम् । पूर्ववैयाकरणः । अपराध्यापकः ।अपरस्यार्थे स्यार्धे पश्चभावो वक्तव्यः’ (वा ३२५३) । अपरश्वासावर्धश्च पश्चार्धः । कथम् 'एकवीरः' इति । 'पूर्वकालैक-' (सू ७२६) इति बाधित्वा परत्वादनेन समासे 'वीरैक:’ इति हि स्यात् । बहुळग्रहणाद्भविष्यति ।

७३८ । श्रेण्यादयः कृतादिभिः । (२-१-५९)

'श्रेण्यादिषु च्व्यर्थवचनं कर्तव्यम्' (वा १२९६) । अश्रेणयः श्रेणयः कृताः श्रेणीकृताः ।


मिति । प्राग्वदिति ॥ समस्यते स तत्पुरुष इत्यर्थः । नीलमुत्पलं नीलोत्पलमिति ॥ नीलपदन्तावदुत्पलमनीलादुत्पलाद्यावर्तयतीति विशेषणसमर्पकम् । तस्य उत्पलपदेन [वशष्य समर्पकेण समासः । प्रथमानिर्दिष्टत्वाद्विशेषणस्य पूर्वनिपात इति भावः। नच उत्पलपदम् अनु त्पलान्नीलं व्यावर्तयतीत्युत्पलपदस्यापि विशेषणत्वं स्यादिति वाच्यम् । जातिशब्दो गुणक्रिया शब्दसमभिव्याहारे विशेष्यसमर्पक एव, न तु विशेषणसमर्पकः। स्वभावात् । यथा “नीलोत्पलं पाचकब्राह्मणः' इति गुणशब्दयोस्समभिव्याहारे विशेषणविशेष्यभावस्य न नियमः । यथा खञ्जकुब्ज कुब्जखञ्जः' इति । क्रियाशब्दयोरप्यनियमः।यथा पाचक पाठकः पाठक पाचकः। इति, तथा गुणक्रियाशब्दयोरप्यानियमः । यथा खञ पाचकः पाचक खञ्जः' इति भाष्ये स्पष्टम्। तथा “कैलासाद्रिः, मन्दराद्रिः, अयोध्ध्यानगरी' इत्यादौ संज्ञाशब्दा अपि विशेषणसमर्पका एव स्वभावात् । सामान्यजातिविशेषजातिशब्दयोस्समभिव्याहारे तु विशेषजातिरेव विशेषणम्। शिंशपावृक्षः' इत्यादि ज्ञेयम् । ननु वाग्रहणेन सिद्धे बहुळग्रहणं किमथेमित्यत आह । बहुळ ग्रहणादिति ॥ पूर्वाॉपर ॥ पूर्वोदयस्समानाधिकरणेन समस्यन्ते इत्यर्थः । विशेषणसमासे नैव सिद्धे किमर्थमिदमित्यत आह । पूर्वनिपातेति ॥ अपराध्द्यापक इति।।बहुळ ग्रहणानुवृत्त्या पाचकादिक्रियाशब्दैः पूर्वादीनामेषान्न समास इति समर्थसूत्रे भाष्ये स्थितम्। ततश्च अपराध्द्यापकः' इत्युदाहरणमुपेक्ष्यम्। अपरमीमांसकः' इत्युदाहरणमुचितम्। अपरस्यार्धे इति । पश्चात्’ इति सूत्रभाष्ये इदं वार्तिकं स्थितम् । प्रथमवैयाकरणः, चरम वैयाकरणः मध्ध्यान्मः मध्यमवैयाकरणः वीरवैयाकरणः ।आक्षिपति कथमेकवीरः इति ॥ हि यतः अनेन प्रकृतसूत्रेण वीरशब्दस्यैकशब्देन समासे सति वीरशब्दस्य पूर्वनिपाते सति वीरैकः इति स्यात् । अतः “एकवीरः' इति कथमित्यन्वयः । ननु “पूर्वकालैक' इति सूत्रेणैकशब्दस्य वीरशब्देन समासे सति “एकवीरः' इति निर्बाधमित्यत आह । पूर्वकालै केति बाधित्वा परत्वादिति ॥ परिहरति । बाहुळकादिति । बहुळग्रहणानुवृत्तेरस्य सूत्रस्याप्रवृत्तौ पूर्वकालेत्येव समासो भवतीत्यर्थः। श्रेण्यादयः।। श्रेण्यादयः कृतादिभि स्समानाधिकरणैस्समस्यन्ते स तत्पुरुष इत्यर्थः । श्रेण्यादिष्विति ॥ श्रेण्यादिषु समासविधौ