सिद्धान्तलेशसङ्ग्रहः /प्रथमः परिच्छेदः
।।श्रीः।।
।।सिद्धान्तलेशसङ्ग्रहाख्योऽयं ग्रन्थः।।
अधिगतभिदा पूर्वाचार्यानुपेत्य सहस्त्रधा
सरिदिव महीभेदान् सम्प्राप्त शौरिपदोद्गता।
जयति भगवत्पादश्रीमन्मुखाम्बुजनिर्गता
जननहरणी सूक्तिर्ब्रह्माह्वयैकपरायणा।।1।।
प्राचीनैर्व्यवहारसिद्धविषयेष्वात्मैक्यसिद्धौ परं
सन्नह्यद्भिरनादरात्सरणयो नानाविधा दर्शिताः।
तन्मूलानिह सङ्ग्रहेण कतिचित्सिद्धान्तभेदान्धिय-
श्शुद्धयै स्कलयामि तातचरणव्याख्यावचःख्यापितान्।।2।।
तेषूपपादनापेक्षान् पक्षान् प्रायो यथामति।
युक्त्योपपादयन्नेव लिखाम्यनतिविस्तरम्।।3।।
(1)तत्र तावत् "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः" इति अधीतसाङ्गस्वाध्यायस्य वेदान्तैरापातप्रतिपन्ने ब्रह्मात्मनि समुदितजिज्ञासस्य तज्ज्ञानाय वेदान्तश्रवणे विधिः प्रतीयमानः किंविध इति चिन्त्यते। तिस्त्रः खलु विधेर्विधाः-अपूर्वविधिः, नियमविधिः, परिसङ्ख्याविधिश्चेति। तत्र कालत्रयेऽपि कथमप्यप्राप्तस्य प्राप्तिफलको विधिराद्यः। यथा "व्रीहीन्प्रोक्षति" इति। नात्र व्रीहीणां प्रोक्षणस्य संस्कारकर्मणो विनानियोगं मानान्तरेण कथमपि प्राप्तिसस्ति।
पक्षप्राप्तस्याप्राप्तांशपरिपूरणफलको विधिर्द्वितीयः। यथा "व्रीहीनवहन्ति" इति। अत्र विध्यभावेऽपि पुरोडाशप्रकृतिद्रव्याणां व्रीहीणां तण्डुलनिष्पत्त्याक्षेपादेवावहननप्राप्तिर्भविष्यतीति न तत्प्राप्त्यर्थोऽयं विधिः, किन्त्वाक्षेपादवहननप्राप्तौ तद्वदेव लोकावगतकारणत्वाविशेषात् नखविदलनादिरपि पक्षे प्राप्नुयादिति अवहननाप्राप्तांशस्य सम्भवात् सदंशपरिपूरणफलकः।
द्वयोः शेषिणोरेकस्य शेषस्य वा एकस्मिञ्छेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तै शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिस्तृतीयः। यथा अग्निचयने-"इमामगृभ्णन्नशनामृतस्येत्यश्वाभिधानीमादत्तं" इति, यथा वा चातुर्मास्यान्तर्गतेष्टिविशेषे गृहमेधीये गृहमेधीये "आज्यभागौ यजति" इति। अग्निचयने अश्वरशनाग्रहणं गर्दभरशनाग्रहणं चेति द्वयमनुष्ठेयम्। तत्राश्वरशनाग्रहणे "इमामगृभ्णन्" इति मन्त्रो लिङ्गादेव रशनाग्रहणप्रकाशनसामर्थ्यरूपान्नित्यं प्राप्नोतीति न तत्प्राप्त्यर्थः, तदप्राप्तांशपरिपूरणार्थो वा विधिः, किं तु लिङ्गाविशेषात् गर्दभरशनाग्रहणेऽपि मन्त्रः प्राप्नुयादिति तन्निवृत्त्यर्थः। तथा गृहमेधीयस्य दर्शपूर्णमासप्रकृतिकत्वादतिदेशादेवाज्यभागौ नित्यं प्राप्नुत इति न तत्र विधिः तत्प्राप्त्यर्थः, तन्नियमार्थो वा किन्त्वतिदेशात् प्रयाजादिकमपि प्राप्नुयादिति तन्निवृत्त्यर्थः। गृहमेधीयाधिकरण[10-7-9]पूर्वपक्षरीत्येदमुदाहरणं यत्र क्कचिदुदाहर्तव्यमित्युदाहृतम्।
न च नियमविधावपि पक्षप्राप्तावहननस्याप्राप्तांशपरिपूरणे कृते तदवरुद्धत्वात् पाक्षिकसाधनान्तरस्य नखविदलनादेर्निवृत्तिरपि लभ्यत इतीतरनिवृत्तिफलकत्वाविशेषान्नियमपरिसङ्ख्ययोः फलतो विवेको न युक्त इति शङ्क्यम्। विधितोऽवहनननियमं विना आक्षोपलभ्यस्य नखविदलनादेर्निवर्तयितुमशक्यतया अप्राप्तांशपरिपूरणरूपस्य नियमस्य प्राथम्यात् विधेयावहननगतत्वेन प्रत्यासन्नत्वाच्च तस्यैव नियमविधिफलत्वोपगमात्। तदनुनिष्पादिन्या अविधेयगतत्वेन विप्रकृष्टाया इतरनिवृत्तेः सान्निकृष्टफलसम्भवे फलत्वानौचित्यात्।
एवं विविक्तासु तिसृषु विधासु किंविधः श्रवणविधिराश्रीयते।
अत्र प्रकटार्थकारादयः केचिदाहुः-अपूर्वविधिरयम्। अप्राप्तत्वात्। न हि `वेदान्तश्रवणं ब्रह्मसाक्षात्कारहेतुः'इत्यत्र अन्वयव्यतिरेकप्रमाणमस्ति। लोके कृतश्रवणस्यापि बहुशस्तदनुत्पत्तेः, अकृतश्रहवणस्यापि गर्भगतस्य वामदेवस्य तदुत्पत्तेरुभयतो व्यभिचारात्। न वा `श्रवणमात्रं शोतव्यार्थसाक्षात्कारहेतुः' इति शास्त्रान्तरश्रवणे गृहीतः सामान्यनियमोऽस्ति। येनात्र विशिष्य हेतुत्वग्राहकाभावेऽपि सामान्यमुखेनैव हेतुत्वं प्राप्यत इत्याशङ्क्येत। गान्धर्वादिशास्त्रश्रवणस्य ष़ड्जादिसाक्षात्कारहेतुत्वाभ्युपगमेऽपि कर्मकाण्डादिश्रवणात् तदर्थधऱ्मादिसाक्षात्कारादर्शनेन व्यभिचारात्। तस्मादपूर्वविधिरेवायम्।
भाष्येऽपि "सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत्" (3-4-47) इत्यधिकरणे "विद्यासहकारिणो मौनस्य बाल्यपाण्डित्यवाद्विधिरेवाश्रयितव्यः अपूर्वत्वाद्" इति-पाण्डित्यशब्दशब्दिते श्रवणे अपूर्वविधिरेवाङ्गीक्रियते इति।
अन्येतु-वेदान्तश्रवणस्य नित्यापरोक्षब्रह्मसाक्षात्कारहेतुत्वं न अप्राप्तम्। अपरोक्षवस्तुविषयकप्रमाणत्वावच्छेदेन साक्षात्कारहेतुत्वस्य प्राप्तेः शाब्दापरोक्षवादे व्यवस्थापनात्। तदर्थमेव हि तत्प्र्स्तावः। न च तावता ब्रह्मप्रमाणत्वेनापातदर्शनसाधारणब्रह्मसाक्षात्कारहेतुत्वप्राप्तावपि अविद्यानिवृत्त्यर्थमिष्यमाणसत्तानिश्चयरूपतत्साक्षात्कारहेतुत्वं श्रवणस्य न प्राप्तमिति वाच्यम्। विचारमात्रस्य विचार्यनिर्णयहेतुत्वस्य, ब्रह्मप्रमाणस्य तत्साक्षात्कारहेतुत्वस्य च प्राप्तौ विचारितवेदान्तशब्दज्ञानरूपस्य श्रवणस्य तद्धेतुत्वपार्पतेः। न चोक्त उभयतो व्यभिचारः, सहकारिवैकल्येनान्वयव्यभिचारस्यादोषत्वात्। जातिस्मरस्य जन्मान्तरश्रवणात् फलसम्भवेन व्यतिरेकव्यभिचाराभावात्। अन्यथा वियभिचारेणैव हेतुत्वबाधे श्रुत्याऽपि तत्साधनताज्ञानासम्भवात्। घटसाक्षात्कारे चक्षुरतिरेकेण त्वगिन्द्रियमिव ब्रह्मसाक्षरात्कारे श्रवणातिरेकेण उपायान्तरमस्तीतिशङ्काया व्यतिरेकव्यभिचारस्याप्यदोषत्वातू। कतथा च प्राप्तत्वान्नपूर्वविधिः।
अत एव "आवृत्तिरसतृदुपदेशात्"(4-1-1) इत्यधिकरणभाष्ये "दर्शनपर्यवसानानि हे श्रवणादीन्यावर्त्यमानानि दृष्टार्थानि भवन्ति। यथाऽवघातादीनि तण्डुलनिष्पत्तिपर्यवसानानि" इति श्रवणस्य ब्रह्मदर्शनार्थस्य दृष्टार्थतया दार्शपूर्णमासिकावघातन्यायप्राप्तावावृत्तयुपदेशः। अपूर्वविधित्वे तु स न सङ्गच्छते सर्वौषधावघातवत्। अग्निचयने-"सर्वौषधस्य पूरयित्वाऽवहन्ति अथैतदुपदधाति" इत्युपधेयोलूखलसंस्कारार्थत्वेन विहितस्यावघातस्य दृष्टार्थत्वाभावान्नावृत्तिरिति हि तन्त्रलक्षणे (11-1-6) स्थितम्। अतो नियमविधिरेवायम्। तदभावे हि यथा वस्तु किञ्चिच्चक्षुषा वीक्षमाणस्तत्र स्वागृहीते सूक्ष्मे विशेषान्तरे केनचित् कथिते तदवगमाय तस्यैव चक्षुषः पुनरपि सप्रणिधानं व्यापारे प्रवर्तते, एवं मनसा `अहम्' इतिगृह्यमाणे जीवे वेदान्तैरध्ययनगृहीतैरुपदिष्टं निर्विशेषब्रह्मटचैतन्यरूपत्वमाकर्ण्य तदवगप्राय तत्र सावधानं मनस एव प्रणिधाने कदाचित् पुरुषः प्रवर्तेतेति वेदान्तश्रवणे प्रवृत्तिः पाक्षिकी स्यात्। "अप्राप्य मनसा सह" इति श्रुतिः "मनसैवानुद्रष्टव्यम्" "दृश्यते त्वग्त्यया बुद्ध्या" इत्यपि श्रवणेनानवहितमनोविषयेति शङ्कासम्भवात्।
अथवा "जुष्टं यदा पश्यत्यन्यमीशमस्य सहिमानमिति वीतशोकः" इत्यादिश्रवणात् भिन्नात्मज्ञानान्मुक्तिरिति भ्रमसम्भवेन मुक्तिसाधनज्ञानाय भिन्नात्मविचाररूपे शास्त्रन्तरश्रवणेऽपि पक्षे प्रवृत्तिस्स्यादित्यद्वैतात्मपरेवदान्तश्रवणनियमाविधिरयमस्तु। इहात्मशब्दस्य "इदं सर्वं यदयमात्मा" इत्यादि-प्रकरणपर्यालोचनया अद्वितीयात्मपरत्वात्। न हि वस्तुसत्साधनान्तरप्राप्तावेव नियमविधिरिति कुलधर्मः। येन वेदान्तश्रवणनियमार्थवत्त्वाय नियमादृष्टजन्यस्वप्रतिबन्धककल्मषनिवृत्तिद्वारा सत्तानिश्चयरूपब्रहमसाक्षात्कारस्य वेदान्तश्रहवणैकसाध्यत्वस्याभ्युपगन्तव्यत्वेन तत्र वस्तुतः साधनान्तराभावान्न नियमविधिर्युज्यत इति आशङ्कयेत। किं तु यत्र साधनान्तरतया (1)साम्भाव्यमानस्य{(1)सम्भावनस्येति पाठः2 पुo।} पक्षे प्राप्त्या, विधित्सितसा(2)धनस्य {(2)साधनान्तरस्येति पाठः 2पुo} पाक्षिक्यप्राप्तिर्निवारयितुं न शक्यते, तत्र नियमविधिः। तावतैवाप्राप्तांशपरिपूरणस्य तत्फलस्य सिद्धेः।
अथवा गुरुमुखाधीनाध्ययनादिव निपुणस्य स्वप्रयत्नमात्रसाध्यादपि वेदान्,तविचारात् सम्भवति सत्तानिश्चयरूपं ब्रह्मपरोक्षज्ञानम्, किन्तु गुरुमुखाधीनवेदान्तवाक्यश्रवणनियमादृष्टमविद्यानिवृत्तिं प्रति कल्मषनिरासेनोपयुज्यत इति तदभावेन प्रतिबद्धमविद्यामनिवर्तयत् (1)परोक्षज्ञानकल्पमवतिष्ठते{(1)परोक्षकल्पमित्येवं पाठः2 पुo}। न च ज्ञानोदये अज्ञानानिवृत्त्यनुपपत्तिः। प्रतिबन्धकाभावस्य सर्वत्रापेक्षितत्वेन सत्यपि प्रत्यक्षविशेषदर्शने उपाधिना प्रतिबन्धत् (2)प्रतिबिम्बभ्रमानिवृत्तिवत्{(2)प्रतिबिम्बरूपेति पाठः2पुo} तदनिवृत्त्युपपत्तेः। एवं च लिखितपाठादिनाऽपि स्वाध्यायग्रहणप्रसक्तौ गुरुमुखाधीनाध्ययननियमविधिवत् स्वप्रयत्नमात्रपूर्वकस्यापि वेदान्तविचारस्य सत्तानिश्चयरूपब्रह्मसाक्षात्कारार्थत्वेन पक्षे प्राप्तौ गुरुमुखाधीनश्रवणनियमविधिरयमस्तु।
न च "तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्" इति गुरुपसदनविधिनैव गुरुरहितविचारव्यावृत्तिसिद्धेर्विफलो नियमविधिरिति शङ्क्यम्। गुरुपसदनस्य श्रवणाङ्गतयां श्रवणविध्यभावे तद्विधिरेव नास्तीति तेन तस्य वैफल्याप्रसक्ते। अन्यथा अध्ययनाङ्गभूतोपगमनविधिनैव लिखितपाठादिव्यावृत्तिरित्यध्ययननियमोऽपि विफलस्स्यात्।
अथवा अद्वैतात्मपरभाषाप्रबन्धश्रवणस्य पक्षे प्राप्त्या वेदान्तश्रवणे नियमविधिरस्तु। न च "न म्लेच्छितत्रै" इत्यादिनिषेधादेव तदप्राप्तिः। शास्त्रव्युत्पत्तिमान्द्यात् वेदान्श्रवणमशक्यमिति पुरुषार्थनिषेधमुल्लङ्ध्यापि भाषाप्रबन्धेञाद्वैतं जिज्ञासमानस्य तत्र प्रवृत्तिसम्भवेन नियमविधेरर्थवत्त्वोपपत्तेः। (1)अभ्युपगम्यते{(1)कर्त्रधिकरणे व्युत्पादितमर्थवत्त्वमभ्युपगम्यते इत्वन्षयः।।} हि (2)कर्त्रधिकरणे {(2)इदं हि अनुतवदनस्य क्रतुधर्मत्वप्रतिपादकाधिकरणत्वेन प्रसिद्धम्। अस्मिंश्च "नानृतं वदेद्" इति निषेधस्य तत्समानाकारेण स्मार्तेन वचनेन, "सत्यं वद" इत्यादिनोपनयनकालिकोपदेशेन वा सिद्धौ दर्शपूर्णमासप्रकरणे पूनरारभ्यमाणमिदं नियमार्थमिति पूर्वपक्षे उक्तिस्मार्तनिषेधस्य पुरुषार्थत्वेन पुरुषप्रत्यवायमात्र्बोधकत्वेऽपि, उपदेशस्य च अविहिताप्रतिषिद्धन्यायेन अनृतवदने गुणदोषाभावबोधकत्वेऽपि क्रतुवैगुण्याबोधकत्वेन तदर्थं क्रत्वार्थोऽयमपूर्वविधिरिति सिद्धान्तितम्। प्रपञ्चितमेताद्धिस्तरेण तन्त्रवार्तिके, सुबोधिन्यां जैमिनिसूत्रवृत्तौ (अo6 पाo 4 अधिo4) चेति तत एवावधार्यम्। उत्तरमीमांसाप्रसिद्धं कर्त्रधिकरणं भिन्नमस्मात्।} व्युत्पादितं-पुरुषार्थे अनृतवदननिषेधे सत्यपि दर्शपूर्णमासमध्ये कुतश्चिद्धेतोरङ्गीकृतनिषेधोल्लङ्घनस्याविकलां क्रतुसिद्धिं कामयमानस्यानृतवदने प्रवृत्तिस्स्यादिति पुनः क्रत्वर्थतया दर्शपूर्णमासप्रकरणे "नानृनं वदेत्" इति निषेध इति क्रत्वर्थतया निषेधस्यार्थवत्त्वम्। यद्वा यथा `मन्त्रैरेव मन्तार्थस्मृतिः साध्या' (पूर्वमीo अo 2 पाo 1 अधिo 6) इति नियमः। तन्मूलकल्पसूत्रात्मीयग्रहणकवाक्यादीनामपि पक्षे प्राप्तेः तथा वेदान्तमूलेतिहासपुराणपौरुषेयप्रबन्धानामपि पक्षे प्राप्तिसम्भवान्नियमोऽयमस्तु। सर्वथा नियमविधिरेवायम्।
`सहकार्यन्तरविधिः'(3.4 .14.47) इत्यधिकरणभाष्ये(1)अपूर्वविधित्वोक्तिस्तु{(1)अपूर्वत्वोक्तिरिति पाठः 2 पुo।} नियमविधित्वेऽपि पाक्षिकाप्राप्तिसिद्भावात् तदभिप्रायेति तत्रैव "पक्षेण" इति पाक्षिकाप्राप्तिकथनपरसूत्रपदयोजनेन स्पष्टीकृतमिति विवरणानुसारिणः।
कृतश्रवणस्य प्रथमं शब्दन्निर्विचिकित्सं परोक्षज्ञानमेवोत्पद्यते। शब्दस्य परोक्षज्ञानजननस्वाभाव्येन क्लृप्तसामर्थ्यानतिलङ्घनात्। पश्चात्तु कृतमनननिदिध्यासनस्य सहकारिविशेषसम्पन्नात् तत एवापरोक्षज्ञानं जायते। तत्तांशगोचरज्ञानजननासमर्थस्यापीन्द्रियस्य तत्समर्थसंस्कारसाहित्यात् प्रत्यभिज्ञानजनकत्ववत् स्वतोऽपरोक्षज्ञाननासमर्थस्यापि शब्दस्य विधुरपरिभावितकामिनीसाक्षात्कारस्थले तत्समर्थत्वेन क्लृप्तभावनाप्रचयसाहित्यादपरोक्षज्ञानजनकत्वं युक्तम्। ततश्च शब्दस्य स्वतः स्वविषये परोक्षज्ञानजनकत्वस्य भावनाप्रचयसहकृतज्ञानकरणत्वावच्छेदेन विधुरान्तःकरणवदपरोक्षज्ञानजनकत्वस्य च प्राप्तत्वात् पूर्ववन्नियमविधिरिति तदेकदेशिनः।।
वेदान्तश्रवमेन न ब्रह्मसाक्षात्कारः, किन्तु मनसैव। "मनसैवानुद्रष्टव्यम्" इति श्रुतेः। "शास्त्राचार्योपदेशशमदमादिसंस्कृतं मन आत्मदर्शने करणम्" इति गीताभाष्यवचनाच्च। श्रवणं तु निर्विचिकित्सपोक्षज्ञानार्थमिति तादर्थ्येनैव नियमविधिरिति केचित्।
अपरोक्षज्ञानार्थत्वेनैव श्रवणे नियमविधिः। "द्वष्टव्यः" इति फलकीर्तिनात्। तादर्थ्यं च तस्य करणभूतमनःसहकारितयैव, न साक्षात्। शब्दादपरोक्षज्ञानानङ्गीकरणात्।
न च तस्य तेन रूपेण तादर्थ्यं न प्राप्तमित्यपूर्वविधित्वप्रसङ्गः। श्रावणेषु षड्जादिषु समारोपितपरस्पराविवेकनिवृत्त्यर्थ गान्धर्वशास्त्रश्रवणसहकृतश्रोत्रेण परस्परासङ्कीर्णतद्याथार्थ्यापरोक्ष्यदर्शनेन प्रकाशमाने वरतुन्यारोपिताविवेकनिवृत्त्यर्थशास्त्रसद्भावे तच्छ्रवणं तत्साक्षात्कारजनकेन्द्रियसहकारिभावेनोपयुज्यते इत्यस्य क्लृप्तत्वादित्यपरे।।
वेदान्तवाक्यानामद्वितीये ब्रह्मणि तात्पर्यनिर्णयानुकूलन्यायविचारात्मकचेतोवृत्तिविशेषरूपस्य श्रवणस्य न ब्रह्मणि परोक्षमपरोक्षं वा ज्ञानं फलम्। तस्य शब्दादिप्रमाणफलत्वात्। न चोक्तरूपविचारावधारिततात्पर्यविशिष्टशाब्दज्ञानमेव श्रवणमस्तु तस्य ब्रह्मज्ञानं फलं युज्यत इति वाच्यम्। ज्ञाने विध्यनुपपत्तेः। श्रवणविधेर्विचारकर्तव्यताविधायकजिज्ञासासूत्रमूलत्वोपगमाच्च। श्रवणविधेर्विचारिकर्तव्यताविधायकजिज्ञासासूत्रमूलत्वोपगमाच्च ऊहापोहात्मकमानसक्रियारूपविचारस्यैव श्रवणत्वौचित्यात्। न च विचारस्यैव तात्पर्यनिर्णयद्वारा, तज्जन्यतात्पर्यभ्रमादिपुरुषापराधरूपप्रतिबन्धकविगमद्वारा वा ब्रहमज्ञानं फलमस्त्विति वाच्यम्। तात्पर्यज्ञानस्य शाब्दज्ञाने कारणत्वानुपगमात्,(?)कार्ये क्वचिदपि प्रातिबन्धकाभावस्य कारणत्वानुपगमाच्च तयोर्द्वारत्वानुपपत्तेः। ब्रह्मज्ञानस्य विचाररूपातिरिक्तकारणजन्यत्वे तत्प्रामाण्यस्य परतस्त्वापत्तेश्च। तस्मात्तात्पर्यनिर्णयद्वारा पुरुषापराधनिरासार्थत्वेनैव विचाररूपे श्रवणे नियमविधिः। "द्रष्टव्यः" इति तु दर्शनार्हत्वेन(1)
{(1) तथाचोक्तं सङ्क्षेपशारीरके-
अर्हे कृत्यतृचश्च पाणिनिवचः स्पष्टं विधत्ते यतः
तस्माद्दर्शनयोग्यतां वदति नस्तव्यो न तत्त्वान्तरमिति {2 अo 51 श्लोo} स्तुतिमात्रम्, न श्रवणफलसङ्कीर्तनमिति सङ्क्षेपशारीरकानुसारिणः।।
ब्रह्मज्ञानार्थं वेदान्तश्रवणे प्रवृत्तस्य चिकित्साज्ञानार्थं चरकसुश्रुतादिश्रवणे प्रवृत्तस्येव मध्ये व्यापारान्तरेऽपि प्रवृत्तिः प्रसज्यत इति तन्निवृत्तिफलकः "श्रोतव्यः" इति परिसङ्ख्याविधिः।
"ब्रह्मसंस्थोऽमृतत्वमेति" (छाo 2।23।1) इति छान्देग्यें अनन्यव्यापारत्वस्य मुक्त्युपायत्वावधारणात्सम्पूर्वस्य तिष्ठतेः सामाप्तिवाचितया ब्रह्मसंस्थाशब्दशब्दिताया ब्रह्मणि समाप्तेरनन्यव्यापाररूपत्वात्। "तमेवैकं जानथ अन्या वाचो विमुञ्चथ" इत्याथर्वणे कण्ठत एव व्यापारान्तरप्रतिषेधाच्च। "आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया" इत्यादिस्मृतेश्च। न च-ब्रह्मज्ञानानुपयोगिनो व्यापारान्तरस्य एकस्मिन्ि साध्ये श्रवणेन सह समुच्चित्य प्राप्त्यभावान्न तन्निवृत्त्यर्थः परिसङ्ख्याविधिर्युज्यते इति वाच्यम्। "सहकार्यन्तरविधिः"(उo मीo अo 6 पाo 4 अधिo 14 सूo 47) इत्यादिसूत्रे `यस्मात् पक्षे भेददर्शनप्राबल्यान्न प्राप्नोति, तस्मान्नियमविधिः' इति तद्भाष्ये च कृतश्रवणस्य शाब्दज्ञानमात्रात् कृतकृत्यातां मन्वानस्याविद्यानिवर्तकसाक्षात्कारोपयोगिनि निधिध्यासने प्रवृत्तिर्न स्यादिनि अतत्साधनपक्षप्राप्तिमात्रेण निदिध्यासने नियमविधेरभ्युपगततया तन्न्यायेनासाधनस्य समुच्चित्य(1){(1)समुच्चित्या प्राप्ताविति पाठः।} प्राप्तावपि तन्निवृत्तिफलकस्य परिसङ्ख्याविधेः सम्भवादिति।
नियमः परिसङ्ख्या वा विध्यर्थोऽत्र भवेद्यतः।।
अनात्मादर्शनेनैव परात्मानमुपास्महे ।।1।।
इति वार्तिकवचनानुसारिणः केचिदाहुः।।
"आत्मा श्रोतव्यः" इति मननादिवत् आत्मविपयकत्वेन निबध्यमानं श्रवणमागमाचार्योपदेशजन्यमात्म(2) {(2)आत्मविषयं ज्ञानमिति पाठः} ज्ञानमेव, न तु तात्पर्यविचाररूपमिति न तत्र कोऽपि विधिः।
अत एव समन्वयसूत्रे (उo मीo अo 1 पाo 1 सूo 4) आत्मज्ञानविधिनिराकरणानन्तरं भाष्यम्- `किमर्थानि तर्हि "आत्मा वा अरे द्रष्टव्यः श्रोतव्यः" इत्यादीनि वचनानि विधिच्छायानि? स्वाभाविकप्रवृत्तिविषयविमुखीकरणार्थानीनि व्रूमः' इत्यादि।
यदि च वेदान्ततात्पर्यविचाररूपं(1){(1)तात्पर्यविचारः इति पाठः।} श्रवणं तदा तस्य तात्पर्यनिर्णयद्वारा वेदान्ततात्पर्यभ्रमसंशयरूपप्रतिबन्धकनिरास एव फलं, न प्रतिबन्धकान्तरनिरासो ब्रह्मावगमो वा। तत्फलकत्वं च तस्य लोकत एव प्राप्तम्। साधनान्तरं च किञ्चिद्विकल्प्य समुच्चित्य वा न प्राप्तमिति न तत्र विधित्रयस्याप्यवकाशः।
विचारविध्यभावेऽपि विज्ञानार्थतया विधीयमानं गुरूपसदनं दृष्टद्वारसम्भवे अदृष्टकल्पनायोगात् गुरुभुखाधीनवेदान्तविचारद्वारैव विज्ञानार्थं(1){(1)विज्ञानार्थे इति पाठः।} पर्यवस्यतीति। अत एव स्वप्रयत्नसाध्यविचारव्यावृत्तिः। अध्ययनविध्यभावे तूपगमनं विधीयमानमक्षारावाप्त्यर्थत्वेनाविधीयमानत्वान्न तदर्थं गुरुमुखोच्चारणानूच्चारणमध्ययनं द्वारीकरोतीति लिखितपाठादिव्यावृत्त्यसिद्धेः सफलोऽध्ययननियमविधिः।
न च तात्पर्यादिभ्रमनिरासाय विदान्तविचारार्थिनः कदाचित् द्वैतशास्त्रेऽपि प्रवृत्तिः स्यात्। तत्रापि तदभिमतयोजनया वेदान्तविचारसत्त्वात् इत्यद्वैतात्मपरवेदान्तविचारनियमविधिरर्थवानिति वाच्यम्। स्वयमेव तात्पर्यभ्रमहेतोस्तस्य तन्निरासकत्वाभावेन साधनान्तरप्राप्त्यभावात्। तन्निरासकत्वभ्रमेण तत्रापि कस्याचित्प्रवृत्तिः स्यादित्येतावता "श्रोतव्यः" इति नियमविधेरभ्युपगम इत्यपि न। ईश्वरानुग्रहफला(1)द्वैतश्रद्धारहितस्य{(1)अनुग्रहलब्धाद्धैतेति पाठः} श्रोतव्यवाक्येऽपि परभिमतयोजनया सद्वितीयात्मविचारविधिपरत्वभ्रमसम्भवेन भ्रमप्रयुक्ताया अन्यत्र प्रवृत्तेर्विधिशतेनाप्यपरिहार्यत्वात्।
न च व्यापारान्तरनिवृत्त्यर्था परिसङ्ख्येति वाच्यम्(2){(2)युक्तामिति पाठः} असन्न्यासिनो व्यापारान्तरनिवृत्तेरशक्यात्वात्। सन्न्यासिनस्तन्निवृत्तेः ब्रह्मसंस्थया सह सन्न्यासविधायकेन "ब्रह्मसंस्थोऽमृतत्वमेति" इति श्रुत्यन्तरेण सिद्धतया सन्न्यासविधायकश्रुत्यन्तरमपेक्ष्य श्रोतव्यवाक्येन तस्य व्यापारान्तरनिवृत्त्युपदेशस्य व्यर्थत्वात्।
न च विचारविध्यसम्भवेऽपि वि(1)चारविषयवेदान्तनियमविधिः {(1)विचारविषये वेदान्ते इति पाठः।} सम्भवति, भाषाप्रबन्धादिव्यावर्त्यसत्त्वादिति सङ्क्यम्। सन्निधानादेव वेदान्तनियमस्य लब्धत्वेन विधिविषयत्वायोगात्, "स्वाध्यायोऽध्येतव्यः" इत्यर्थावबोधार्थनियमविधिबलादेवाध्ययनगृहीतवेदोत्पादितं वेदार्थज्ञानं फलपर्यवसायि, न कारणान्तरोत्पादितमित्यस्यार्थस्य लब्धत्वेन वेदार्थे ब्रह्मणि मोक्षाय ज्ञातव्ये भाषाप्रबन्धादीनामप्राप्तेश्च। न च `सहकार्यन्तरविधिः' इत्यधिकरणे बाल्यपाण्डित्यमौनशब्दितेषु श्रवणमनननिदिध्यासनेषु विधिरभ्युपगत इति वाच्यम्। विचारे विचार्य्यतात्पर्यनिर्णहेतुत्वस्य वस्तुसिध्द्यनुकूलयुक्त्यनुसन्धानरूपे मनने तत्प्रत्ययाभ्यासरूपे निदिध्यासने च वस्त्ववगमवैशद्यहेतुत्वस्य च लोकसिद्धत्वेन तेषु विध्यनपेक्षणात् विधिच्छायार्थवादस्येव प्रशंसाद्वारा प्रवृत्त्यति शयकरत्वमात्रेण तत्र विधिव्यवहारात्। एवं च श्रवणविध्यभावात् कर्मकाण्डविचारवत् ब्रह्मकाण्डविचारोऽप्यध्ययनविधिमूल इत्याचार्यवाचस्पतिपक्षानुसारिणः।।1।।
(2) विचार्यस्य च ब्रह्मणः जगज्जन्मस्थितिलयकारणत्वं लक्षणमुक्तं "यतो वा इमानि भूतानि जायन्ते" इत्यादिश्रुत्या। जगज्जन्मस्थितिलयेषु एकैककारणत्वमप्यनन्यगामित्वाल्लक्षणं भवितुमर्हतीति चेत् सत्यम्। लक्षणत्रयमेवेदं परस्परनिरपेक्षम्। अत एव `अत्ता चराचरग्रहणात्' इत्याद्यधिकरणेषु (1.2.1.9) सर्वसंहर्तृत्वादिकं ब्रह्मलिङ्गतयोपन्यस्तमिति कौमुदीकारः।
अन्ये तु-जन्मकारणत्वस्य स्थितिकारणत्वस्य च निमित्तकारणसाधारण्यात् उपादानत्वप्रत्यायनाय प्रपञ्चस्य ब्रह्मणि लयो दर्शितः। अस्तु ब्रह्म जगदुपादानं, तज्जन्मनि घटजन्मनि कुलालवत्, तत्स्थितौ राज्यस्थेमनि राजवच्च उपादानादन्यदेव निमित्तं भविष्यतीति शङ्काव्यवच्छेदाय तस्यैव जगज्जननजीवननियामकत्वमुक्तम्। तथाचैकमेवेदं लक्षणम् अभिन्निनिमित्तोपादानतयाऽद्वितीयं ब्रह्मोपलक्षयतीत्याहुः।।2।।
(3) ब्रह्मणश्च उपादानत्वम् अद्वितीयकूटस्थचैतन्यरूपस्य न परमाणूनामिवारम्भकत्वरूपं, न वा प्रकृतेरिव परिणामित्वरूपं, किं त्वविद्यया वियदादिप्रपञ्चरूपेण विवर्तमानत्वलक्षणम्।
व्स्तुनस्तत्समसत्ताकोऽन्यथाभावः परिणामः, तदसमसत्ताको विवर्त इति वा; कारणसलक्षणोऽन्यथाभावः परिणामः, तद्विलक्षणो विवर्त इति वा; कारणाभिन्नं कार्यं परिणामः, तदभेदं विनैव तव्द्यतिरेकेण दुर्वचं कार्यं विवर्तः इति वा विवर्तपरिणामयोर्विवेक।।3।।
(4) अथ शुद्धं ब्रह्म उपादानमिष्यते, ईश्वररूपं, जीवरूपं वा। अत्र सङ्क्षेपशारीरकानुसारिणः केचिदाहुः-शुद्धमेवोपादानम्। जन्मादिसूत्रतद्भाष्ययोरुपादानत्वस्य ज्ञेयब्रह्मलक्षणत्वोक्तेः।
तथा च "आत्मन आकाशस्सम्भतः" इत्यादिकारणवाक्येषु शबलवाचिनामात्मादिशब्दानां शुद्धे लक्षणैवेति।।
विवरणानुसारिणस्तु-"यस्सर्वज्ञस्सर्ववित् यस्य ज्ञानमयं तपः। तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते" इति श्रुतेः सर्वज्ञत्वादिविशिष्टं मायाशबलमीश्वररूपमेव ब्रह्म उपादानम्।
अत एव भाष्ये `अन्तस्तद्धर्मोपदेशात् (उoमीoअo 1 पाo 1 सूo2o)' `सर्वत्र प्रसिद्धोपदेशात्'(उoमीoअo 1 पाo 2 सूद 1) इत्याद्यधिकरणेषु "सैव ऋक् तत्साम तदुक्थं तद्यजुस्तद् ब्रह्म सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः" इत्यादिश्रुत्युक्तं सर्वोपादानत्वप्रयुक्तं सर्वात्मकत्वं जीवव्यावृत्तमीश्वरलिङ्गमित्युपवर्णितम्।
जीवेश्वरानुस्यूतचैतन्यमात्रस्य सर्वोपादानत्वे तु न तज्जीवव्यावृत्तमीश्वरालिङ्गं स्यात्। सङ्क्षेपशरीरके शबलोपादानत्वनिराकरणमपि मायाविशिष्टोपादानत्वनिराकरणाभिप्रायम्, न तु निष्कृष्टेश्वररूपचैतन्योपादानत्वनिराकरणपरम्। तत्रैव प्रथमाध्यायान्ते जगदुपादानत्वस्य तत्पदार्थवृत्तित्वोक्तेः। एवं च ईश्वरगतमपि कारणत्वं तदनुगतमखण्डचैतन्यं शास्वाचन्द्रमसमिव तटस्थतयोपलक्षयितुं शक्नोतीति तस्य ज्ञेयब्रह्मलक्षणत्वोक्तिरिति मन्यन्ते।।
वियदादिप्रपञ्च ईश्वराश्रितमायापरिणाम इति तत्रेश्वर उपादानम्। अन्तःकरणादिकं तु ईश्वराश्रितमायापरिणाममहाभूतोपसृष्टजीवाविद्याकृतभूतसूक्ष्मकार्यमिति तत्रोभयोरुपादानत्वम्। अत एव "एवमेवास्य परिद्रष्टुरिमाष्षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्ति" इति श्रुतौ कलाशब्दवाच्यानां प्राणमनः प्रभृतीनां विदुषो विदेहकैवल्यसमये विद्यानिवर्त्याविद्याकार्याशाभिप्रायेण विद्यायोच्छेदो दर्शितः।
"गताः कलाः पञ्चदश प्रतिष्ठाः" इति श्रुत्यन्तरे तदनिवर्त्यमायाकार्यमहाभूतपरिणामरूपोषष्टम्भकांशाभिप्रायेण तेषां स्वस्वप्रकृतिषु लयो दर्शित इति मायाऽविद्याभेदवादिनः।।
यथा वियदादिप्रपञ्च ईश्वराश्रितमायापरिणाम इति तत्र आश्वर उपादानम्, तथाऽन्तःकरणादि जीवाश्रिताविद्यामात्रपरिणाम इति तत्र जीव एव उपादानम्।
न चान्तःकरणादौ मायाकार्यमहाभूतानामप्यननुप्रवेशे उदाहृतश्रुतिद्वयव्यवस्थाऽनुपपत्तिः। कलानां विद्ययोच्छेदश्रुतिस्तत्त्वविद्दृष्टिविषया। "गताः कलाः" इति श्रुतिस्तु तत्त्वविदि म्रियमाणे समीपवार्तिनः पुरुषाः नश्यद्घटवत्तदीयशरीरादीनामपि भूम्यादिषु लयं मन्यन्ते इति तटस्थपुरुषप्रतीतिविषयेति व्यवस्थायाः कलालयाधिकरणभाष्ये स्पष्टत्वात्, इति मायाऽविद्याभेदवादिष्वेकदेशिनः।।
तदभेदवादिष्वपि केचित्-यद्यपि वियदादिप्रपञ्चस्य ईश्वर उपादानम्, तथाऽप्यन्तःकरणादीनां जीवतादात्म्यप्रतीतेः जीव एवोपादानम्।
अत एवाध्यासभाष्ये अन्तःकरणादीनां जीवे एवाध्यासो दर्शितः। विवरणे च प्रतिकर्मव्यवस्थायां ब्रह्मचैतन्यस्योपादानतया घटादिसङ्गित्वम्, जीवचैतन्यस्य तदसङ्गित्वेऽप्यन्तःकरणादिसङ्गित्वं च वर्णितमित्याहुः।।
"एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च।
स्वं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी"।।
इत्यादिश्रुतेः कृत्स्त्रव्यावहारिकप्रपञ्चस्य ब्रह्मैव उपादानम्। जीवस्तु प्रातिभासिकस्य स्वप्नप्रपञ्चस्य च। `कृत्स्त्रप्रसक्तिर्निरक्यवत्वशब्दकोपो वा' (उo मीo अ 2पाo 1 अधिo 7 सूo 26) इत्यधिकरणे ब्रह्मणो जगदुपादानत्वे तस्य कार्त्स्न्येन जगदाकारेण परिणामे विकरातिरेकेण ब्रह्माभावो वा, एकादेशेन परिणामे निरवयवत्वश्रुतिविरोधो वा प्रसज्यते इति पूर्वपक्षे `आत्मनि चैवं विचित्राश्च हि'(उo मीo अ 2 पा 1 सूo 28) इति सत्रेण विवर्तवादाभिप्रायेण स्वप्नदृशि जीवात्मनि स्वरूपानुपमर्दनेनानेकाकारस्वाप्नप्रपञ्चसृष्टिवत् ब्रह्मणि वियदादिसृष्टिरुपपद्यते इति सिद्धान्तितत्वादित्यन्ये।।
जीव एव स्वप्नद्रष्टृवत् स्वस्मिन्नीश्वरत्वादिसर्वकल्पकत्वेन सर्वकापरणम् इत्यपि केचित् ।।4।।
(5) अथ "मायां तु प्रकृतिं विद्यात्" इति श्रुतेः, मायाजाड्यस्य घटादिष्वनुगमाच्च माया जगदुपादानं प्रतीयते, कथं ब्रह्मोपादानम्?।
अत्राहुः पदार्थतत्त्वनिर्णयकाराः- ब्रह्म माया चेत्युभयमुपादानमित्युभयश्रुत्युपपत्तिः, सत्ताजाड्यरूपोभयधर्मानुगत्युपपत्तिश्च। तत्र ब्रह्म विवर्तमानतयोपादानम्, अविद्या परिणमानतया।
न च विवर्ताधिष्ठाने पारिभाषिकमुपादानत्वम्। स्वात्मनि कार्यजनिहेतुत्वस्योपादानलक्षणस्य तत्राप्यविशेषादिति।।
केचित् उक्तामेव प्रक्रियामाश्रित्य विवर्तपरिणामोपादानद्वयसाधारणमन्यल्लक्षमाहुः-स्वाभिन्नकार्यजनकत्वमुपादानत्वम्। अस्ति च प्रपञ्चस्य सद्रूपेण ब्रह्मणा विवर्तमानेन जडेनाज्ञानेन परिणामिना चाभेदः। `सन् घटः, जडो घटः' इति सामानाधिकरण्यानुभवात्।
न च `तदनन्यत्वमारम्भणशब्दादिभ्यः'(उ.मी.अo2 पा 1 अधि. 6 सू.14) इति सूत्रे `अनन्यत्व व्यतिरेकेणाभावः। न खल्वनन्यत्वमित्यभेदं ब्रूमः, किन्तु? भेदं व्यासेधामः' इति भाष्यभामतीनिब्रन्धनाभ्यां प्रपञ्चस्य ब्रह्माभेदनिषेधादभेदाभ्युपगमे उपसिद्धान्त इति वाच्यम्। तयोर्ब्रह्मरूपधर्मिसमानसत्ताकाभेदनिषेधे तात्पर्येण शुक्तिरजतयोरिव प्रातीतिकाभेदाभ्युपगमेऽपि विरोधाभावादिति।।
सङ्क्षेपशारीरककृतस्तु- ब्रह्मैवोपादानम्।कूटस्थस्य स्वतः कारणत्वानुपपत्तेः माया द्वारकारणम्। अकारणमपि द्वारं कार्येऽनुगच्छति। मृद इव तद्गतश्लक्ष्णत्वादेरपि अनुगमनदर्शनादित्याहुः।।
वाचस्पतिमिश्रास्तु- जीवाश्रितमायाविषयीकृतं ब्रहम स्वत एव जाड्याश्रयप्रपञ्चाकारेण विवर्तमानतयोपादानमिति माया सहकारिमात्रम्, न कार्यानुगतं द्वारकारणमित्याहुः।।
सिद्धान्तमुक्तावलीकृतस्तु-मायाशक्तिरेवोपादानं न ब्रह्म "तदेतद् ब्रह्मापूर्वमनपरमबाह्यम्" "न तस्य कार्यं करणं च विद्यते" इत्यादिश्रुतेः जगदुपादानमायाधिष्ठानत्वेन उपचारादुपादानम्, तादृशमेवोपादानत्वं लक्षणे विवक्षितमित्याहुः ।। 5 ।।
(6) अथ क ईश्वरः को वा जीवः?। अत्रोक्तं प्रकटार्थविवरणे-अनादिरनिर्वाच्या भूतप्रकृतिश्चिन्मात्रसम्बन्धिनी माया। तस्यां चित्प्रतिबिम्ब ईश्वरः, तस्या एव परिच्छिन्नानन्तप्रदेशेष्वावरणविक्षेपशक्तिमत्सु अविद्याभिधानेषु चित्प्रतिबिम्बो जीव इति।।
तत्त्वविवेके तु-त्रिगुणात्मिकाया मूलप्रकृतेः "जीवेशावाभासेन करोति माया चाविद्या च स्वयमेव भवति" इति श्रुतिसिद्धौ द्वौ रूपभेदौ। रजस्तमोऽनभिभूतशुद्धसत्त्वप्रधाना माया, तदभिभूतमलिनसत्त्वा अविद्येति मायाऽविद्याभेदं परिकल्प्य, मायाप्रतिबिम्ब ईश्वरः, अविद्याप्रतिबिम्बो जीव इत्युक्तम्।।
एकैव मूलप्रकृतिर्विक्षेपप्राधान्येन मायाशब्दितेश्वरोपाधिः, आवरणप्राधान्येनाविद्या ऽज्ञानशब्दिता जीवोपाधिः। अत एव तस्या जीवेश्वरसाधारणचिन्मात्रसम्बन्धित्वेऽपि जीवस्यैव `अज्ञोऽस्मि'इत्यज्ञानसम्बन्धानुभवः नेश्वरस्येति जीवेश्वरविभागः क्वचिदुपपादितः।।
सङ्क्षेपशारीरके तु- कार्योपाधिरयं जीवः कारणोपाधिरीश्वरः।।
इति श्रुतिमनुसृत्याविद्यायां चित्प्रतिबिम्ब ईश्वरः, अन्तः-करणे चित्प्रतिबिम्बो जीवः। न चान्तःकरणरूपेण द्रव्येण घटेनाकाशस्येव चैतन्यस्यावच्छेदसम्भवात् तदवच्छिन्नमेव चैतन्यं जीवोऽस्त्विति वाच्यम्। इह परत्र च जीवभावेनावच्छेद्यचैतन्यप्रदेशस्य भेदेन कृतहानाकृताभ्यागमप्रसङ्गात्। प्रतिबिम्बस्तूपाधेर्गतागतयोरवच्छेद्यवन्न भिद्यते इति प्रतिबिम्बपक्षे नायं दोष इत्युक्तम्।
एवमुक्तेष्वेतेषु जीवेश्वरयोः प्रतिबिम्बविशेषत्वपक्षेषु यत् बिम्बस्थानीयं ब्रह्म तत् मुक्तप्राप्यं शुद्धचैतन्यम्।।
चित्रदीपे-`जीव ईशो विशुद्धा चित्' इति त्रैविध्यप्रक्रिया विहाय यथा घटावच्छिन्नाकाशो घटाकाशः, तदाश्रिते जलं प्रतिबिम्बितस्साभ्रनक्षत्रो जलाकाशः, अनवच्छिन्नो महाकाशः, महाकाशमध्यवर्तिनि मेघमण्डले वृष्टिलक्षणकार्यानुमेयेषु जलरूपतदवयवेषु तुषाराकारेषु प्रतिबिम्बितो मेघाकाशः इति वस्तुत एकस्याप्याकाशस्य चातुर्विध्यम्, तथा स्थूलसूक्ष्मदेहद्वयस्याधिष्ठानतया वर्तमानं तदवच्छिन्नं चैतन्यं कूटवन्निर्विकारत्वेन स्थितं कूटस्थम्, तत्र कल्पितेऽन्तः करणे प्रतिबिम्बितं चैतन्यं संसारयोगी जीवः, अनवच्छिन्नं चैतन्यं ब्रह्म, तदाश्रिते मायातमसि स्थितासु सर्वप्राणिनां धीवासनासु प्रतिबिम्बितं चैतन्यमीश्वरः इति चैतन्यस्य चातुर्विध्यं परिकल्प्यान्तःकरणधीवासनोपरक्ताज्ञानोपाधिभेदेन जीवेश्वरविभागो दर्शितः।
अयं चापरस्तदभिहितो विशेषः-चतुर्विधेषु चैतन्येषु जीवः `अहम्' इति प्रकाशमानः कूटस्थे अविद्यातिरोहितासङ्गानन्दरूपविशेषाशेशुक्तौ रुप्यवदध्यस्तः। अत एवेदन्त्व-रजतत्वयोरिवाधिष्ठानसामान्यांशाध्यस्तविशेषांशरूपयोस्वयन्त्वाहन्त्वयोः सह प्रकाशः `स्वयमहं करोमि' इत्यादौ। अहन्त्वं (1)त्वध्यस्तविशेषांशरूपम्{(1)हिशब्दघटितः पाठः। सच युक्तष्टीकानुरोधात्।}। पुरुषान्तरस्य पुरुषान्तरे `अहम्' इतिव्यवहाराभावेन व्यावृत्तत्वात्। स्वयन्त्वं चान्यत्वप्रतियोग्यधिष्ठानसामान्याशरूपम्। `स्वयं देवदत्तो गच्छति' इति पुरुषान्तरेऽपि व्यवहारेणानुवृत्तत्वात्। एवं परस्पराध्यासादेव कूटस्थजीवयोरविवेको लौकिकानाम्। विवेकस्तु तयोर्बृहदारण्यके-"प्रज्ञानघन एवैतेभ्ये भूतेभ्यः समुत्थाय तान्येवानु विनश्यति" इति जीवाभिप्रायेणोपाधिविनाशानुविनाशप्रतिपादनेन, "अविनाशी वा अरेऽयमात्मा" इति कूटस्थाभिप्रायेणाविनाशप्रतिपादनेन च स्पष्टः। अहमर्थस्य जीवस्य विनाशित्वे कथमविनाशिब्रह्माभेदः। नेदमभेदे सामानाधिकरण्यं, किं तु बाधायाम्। यथा `यः स्थाणुरेष पुमान्' इति पुरुषत्वबोधेन स्थाणुत्वबुद्धिर्निवर्त्यते। एवम् `अहं ब्रह्मास्मि' इति कूटस्थब्रह्मस्वरूपत्वबोधेनाध्यस्ताहमर्थरूपत्वं निवर्त्यते।
योऽयं स्थाणुः पुमानेष पुन्धिया स्थाणुधीरिव।।
ब्रह्मास्मीतिधियाऽरशेषा ह्यहम्बुद्धिर्निवर्तते ।। 1 ।।
इति नैष्कर्म्यसिद्धिवचनात्। यदि च विवरणाद्युक्तरीत्या इदमभेदे सामानाधिकरण्यम्, तदा जीववाचिनोऽहंशब्दस्य लक्षणया कूटस्थपरत्वमस्तु। तस्यानध्यस्तस्य(1){(1)तस्याबाध्यस्येति पाठः सच युक्तः।} ब्रह्माभेदे योग्यत्वात्।
यस्तु मेघाकाशतुल्यो धीवासनाप्रतिबिम्ब ईश्वर उक्तः, सोऽयं "सुषुप्तस्थान एकीभूतः प्रज्ञानघन एवानन्दमयो ह्यानन्दभुक्" इति माण्डूक्यश्रुतिसिद्धः सौषुप्तानन्दमयः। तत्रैव तदनन्तरम् "एष सर्वेश्वर एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्य प्रभवाप्ययौ हि भूतानाम्" इति श्रुतेः। सर्ववस्तुविषयसकलप्राणिधीवासनोपाधिकस्य तस्य सर्वज्ञत्वस्य तत एव सर्वकर्तृत्वादेरप्युपपत्तेश्च। न चास्मद्बुद्धिवासनोपाहितस्य, कस्यचित् सार्वज्ञ्यं नानुभूयते इति वाच्यम्। वासनानां परोक्षत्वेन तदुपहितस्यापि परोक्षत्वादिति।।
ब्रह्मानन्दे तु सुषुप्तिसंयोगात् माण्डूक्योक्त आनन्दमयो जीव इत्युक्तम्। यदाहि जाग्रदादिषु भोगप्रदस्य कर्मणः क्षये निद्रारूपेण विलीनमन्तःकरणं पुर्भोगप्रदकर्मवशात् प्रबोधे घनीभवति, तदा तदुपाधिको जीवः विज्ञानमय इत्युच्यते। स एव पूर्वं सुषुप्तिसमये विलीनावस्थोपाधिकः सन्नानन्दमय इत्युच्यते। स एव माण्डूक्ये "सुषुप्तस्थानः" इत्यादिना दर्शित इति। एवं सति तस्य सर्वेश्वरत्वादिवचनं कथं सङ्गच्छताम्?।
इत्थम्। सन्त्यधिदैवतमध्यात्मं च परमात्मनः सविशेषाणि त्रीणित्रीणि रूपाणि। तत्राधिदैवतं त्रीणि शुद्धचैतन्यं चेति चत्वारि रूपाणि चित्रपटदृष्टान्तेन चित्रदीपे समर्थितानि। यथा स्वतश्शुभ्रः पटो धौतः, अन्नलिप्तो घट्टितः, मष्यादिविकारयुक्तो लाञ्छितः, वर्णपूरितो रञ्जितः, इत्यवस्थाचतुष्टयमेकस्यैव चित्रपटस्य, तथा परमात्मा मायतत्कार्योपाधिरहितः शुद्धः, मायोपहित आश्वरः, अपञ्चीकृतभूतकार्यसमष्टिसूक्ष्मशरीरोपहितो हिरण्यगर्भः, पञ्चीकृतभूतकार्यसमष्टिस्थूलशरीरोपहितो विराट् पुरुष इत्यवस्था(1){(1)भेदचतुष्टयमिति पाठः।} चतुष्टयमेकस्यैव परमात्मनः। अस्मिंश्च चित्रपटस्थानीये परमात्मनि चित्रस्थानीयः स्थावरजङ्गमात्मको निखिलः प्रपञ्चः। यथा चित्रगतमनुष्याणां चित्राधारवस्त्रसदृशा वस्त्राभासा लिख्यन्ते, तथा परमात्माध्यस्तदोहिनामधिष्ठानचैतन्यसदृशाश्चिदाभासाः कल्प्यन्ते ते च जीवनामानः संसरन्तीति। अध्यात्मं तु विश्वतैजसप्राज्ञभेदेन त्रीणि रूपाणि। तत्र सूषुप्तौ विलीने अन्तः-करणे अज्ञानमात्रसाक्षी प्राज्ञः, योऽयमिहानन्दमय उक्तः। स्वप्ने व्यष्टिसूक्ष्मशरीराभिमानी तैजसः। जागरे व्यष्टिस्थूलशरीराभिमानी विश्वः। तत्र माण्डूक्यश्रुतिरहमनुभवे प्रकाशमानस्यात्मनो विश्वतैजसप्राज्ञतुर्यावस्थाभेदरूपं पादचतुष्टयं "सोऽयमात्मा चतुष्पात्" इत्युपक्षिप्य पूर्वपूर्वपादप्रविलापने-न निष्प्रपञ्चब्रह्मात्मकतुर्यपादप्रतिपत्तिसौकर्य्याय स्थूलसूक्ष्मसूक्ष्मतरोपाधिसाम्यात् विराडादीन् विश्वादिष्वन्तर्भाव्य "जागरितस्थानो बाहिः प्रज्ञः" इत्यादिना विश्वादिपादान्न्यरूपयत्। अतः प्राज्ञशब्दिते आनन्दमये अव्याकृतस्येश्वरस्यान्तर्भावं विवक्षित्वा तस्य सर्वेश्वरत्वादितद्धर्मवचनमिति। इत्थमेव भगवत्पादैर्गौडपादीयविवरणे व्याख्यातम्।
दृग्दृश्यविवेके तु चित्रदीपव्युत्पादितं कटस्थं जीवकोटावन्तर्भाव्य चित्त्रैविध्यप्रक्रियैवालम्बितेति विशेषः।
तत्र ह्युक्तं जलाशयतरङ्गबुदन्यायेनोपर्युपरि कल्पनाज्जीवः त्रिविधः-पारमार्थिको, व्यावहारिकः, प्रातिभासिकश्चेति। तत्रावच्छिन्नः पारमार्थिको जीवः। तस्मिन्नवच्छेदकस्य कल्पितत्वेऽपि अवच्छेद्यस्य तस्याकल्पितत्वेन ब्रह्मणोऽभिन्नत्वात्। तमावृत्य स्थितायां मायायां कल्पितेऽन्तःकरणे चिदाभासोऽन्तः-करणतादात्म्यापत्त्या `अहम्' इत्यभिमन्यमानो व्यावहारिकः, तस्य मायिकत्वेऽपि यावद्व्यवहारमनुवृत्तेः। स्वप्ने तमप्यावृत्य स्थितया मायावस्थाभेदरूपया निद्रया कल्पिते स्वाप्नदेहादावहमभिमानी प्रातिभासिकः। स्वप्नप्रपञ्चेन सह तद्द्रष्टुर्जीवस्यापि प्रबोधे निवृत्तेरिति। एवमेते प्रतिबिम्बेश्वरवादिनां पक्षभेदा दर्शिताः।।
विवरणानुसारिणस्त्वाहुः-
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते।।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ।। 1 ।।
इति स्मृत्यैकस्यैवाज्ञानस्य जीवेश्वरविभागोपाधित्वप्रतिपादनात् बिम्बप्रतिबिम्बभावेन जीवेश्वरयोर्विभागः, नोभयोरपि प्रतिबिम्बभावेन। उपाधिद्वयमन्तरेणोभयोः प्रतिबिम्बत्वायोगात्। तत्रापि प्रतिबिम्बो जीवः। बिम्बस्थानीय ईश्वरः। तथा सत्येव लौकिकबिम्बप्रतिबिम्बदृष्टान्तेन स्वातन्त्र्यमीश्वरस्य, तत्पारतन्त्रयं जीवस्य च युज्यते।
प्रतिबिम्बगताः पश्यन्नृजुवक्रादिविक्रियाः।।
पुमान् क्रीडेद्याथा ब्रह्म तथा जीवस्थविक्रियाः ।। 1 ।।
इति कल्पतरूक्तरीत्या `लोकवत्तु लीलाकैवल्यम्' (2.1.33) इति सूत्रमपि सङ्गच्छते। अज्ञानप्रतिबिम्बितस्य जीवस्यान्तःकरणरूपोऽज्ञानपरिणामभेदो विशेषाभिव्यक्तिस्थानं सर्वतः प्रसृतस्य सवितृप्रकाशस्य दर्षण इव। अतस्तस्य तदुपाधिकत्वव्यवहारोऽपि। नैतवताऽज्ञानोपाधिपरित्यागः। अन्तःकरणोपाधिपरिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहाधिष्ठानत्वानुपपत्तेः।
न च योगप्रभावाद्योगिनोऽरन्तः करणं कायव्यूहाभिव्यक्तियोग्यं वैपुल्यं प्राप्नोतीति तदवच्छिन्नस्य कायव्यूहाधिष्ठानत्वं युज्यते इति वाच्यम्। `प्रदीपवदावेशस्तथाहि दर्शयति'(उ.मी.अ.4पा.4सू.15) इति शास्त्रोपान्त्याधिकरणभाष्यादिषु कायव्यूहे प्रतिदेहमन्तः करणस्य चक्षुरदिवत् भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात्। प्रतिबिम्बे बिम्बात् भेदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वान्न प्रतिबिम्बरूपजीवस्य मुक्त्यन्वयासम्भव इति न तदतिरेकेण मुक्त्यन्वयायावच्छिन्नरूपजीवान्तरं वा प्रतिबिम्बजीवातिरिक्तं जीवेश्वरविलक्षणं कूटस्थशब्दितं चैतन्यान्तरं वा कल्पनीयम्। "अविनाशी वा अरेऽयमात्मा" इति श्रवणं जीवस्य तदुपाधिनिवृत्तौ प्रतिबिम्बभावाषगमेऽपि स्वरूपं न विनश्यतीत्येतत्परम्, न तदतिरिक्तकूटस्थनामकचैतन्यान्तरपरम्। जीवोपाधिना अन्तःकरणादिनाऽवच्छिन्नं चैतन्यं विम्बभूत ईश्वर एव। "यो विज्ञाने तिष्ठन्" इत्यादिश्रुत्या ईश्वरस्यैव जीवसन्निधानेन तदन्तर्यामिभावेन विकारान्तरावस्थानश्रवणादिति।।
अन्ये तु-रूपानुपहितप्रतिबिम्बो न युक्तः सुतरां निरूपे। गगनप्रतिबिम्बोदाहरणमप्ययुक्तम्। गगनाभोगव्यापिनि सवतृकिरणमण्डले सलिले प्रतिबिम्बते गगनप्रतिबिम्बत्वव्यवहारस्य भ्रममात्रमूलकत्वात्।
ध्वनौ वर्णप्रतिबिम्बत्ववपादोऽप्ययुक्तः। व्यञ्जकतया सन्निधानमात्रेण धवनिधर्माणामुदात्तादिस्वराणां वर्णेष्वारोपोपपत्तेः ध्वनेर्वर्णप्रतिबिम्बग्राहित्व(1){(1)प्रतिबिम्बोपाधित्वेति पाठः।} कल्पनाया निष्प्रमाणकत्वात्।
प्रतिध्वनिरपि न पूर्वशब्दप्रतिबिम्बः। पञ्चीकरणप्रक्रियया पटहपयोनिधिप्रभृतिशब्दानां क्षितिसलिलादिशब्दस्वेन प्रतिध्वनेरेवाकाशशब्दत्वेन तस्यान्यशब्दप्रतिबिम्बत्वायोगात्। वर्णरुपप्रतिशब्दोऽपि न पूर्ववर्णप्रतिबिम्बः। वर्णाभिव्यञ्जकध्वनिनिमित्तकप्रतिध्वनेर्मूलध्वनिवदेव वर्णा भिव्यञ्जकत्वेनोपपत्तेः।
तस्मात् घटाकाशवदन्तः करणावच्छिन्नंचैतन्यं जीवः। तदनवच्छिन्नम् ईश्वरः।
नचैवमण्डान्तर्वर्तिनश्चैतन्यस्य तत्तदन्तःकतरणोपाधिभिः सर्वात्मना जीवभावेनावच्छेदात् तदवच्छेदरहितचैतन्यरूपस्येश्वरस्याण्डात् बहिरेव सत्त्वं स्यादिति "यो विज्ञाने तिष्ठन्" इत्यादावन्तर्यामिभावेन विकारान्तरावस्थानश्रवणं विरुध्येत। प्रतिबिम्बपक्षे तु जलगतस्वाभाविकाकाशे सत्येव प्रतिबिम्बाकाशदर्शनात् एकत्र द्विगुणीकृत्य वृत्तिरुपपद्यते इति याच्यम्। यतः प्रतिबिम्बपक्षेऽप्युपाधावनन्तर्गतस्यैव चैतन्यस्य तत्र प्रतिबिम्बो वाच्यः, न तु जलचन्द्रन्यायेन कृत्स्नप्रतिबिम्बः। तदन्तरग्तभागस्य तत्र प्रतिबिम्बासम्भवात्। न हि मेघावच्छिन्नस्याकाशस्यालोकस्य वा जले प्रतिबिम्बवत् जलान्तर्गतस्यापि तत्र प्रतिबिम्बो दृश्यते। न वा मुखादीनां बहिःस्थितिसमये इव जलान्तर्निमज्जनेऽपि प्रतिबिम्बोऽस्ति। अतो जलप्रतिबिम्बं प्रति मेघाकाशादेरिवान्तःकरणाद्युपाधिप्रतिबिम्बं प्रति तदनन्तर्गतस्यैव बिम्बत्वं स्यादिति बिम्बभूतस्य विकारान्तरवस्थानायोगात् ईश्वरे अन्तर्यामिब्राह्मणाज्ञ(1)स्याभावस्तुल्यः।{(1)सामञ्जस्येति पाठः।}
एतेनावच्छिन्नस्य जीवत्वे कर्तृभाक्तृसमययोस्तत्र तत्रान्तः-करणावच्छेद्यचैतन्यप्रदेशस्य भिन्नत्वात् कृतहानाकृताभ्यागमप्रसङ्ग इति निरस्तम्।
प्रतिबिम्बपक्षेऽपि स्वानन्तर्गतस्य स्वसन्निहितस्य चैतन्यप्रदेशस्यान्तःकरणे प्रतिबिम्बस्य वक्तव्यतया तत्र तत्रान्तःकरणस्य गमने बिम्बभेदात् तत्प्परतिबिम्बस्यापि भेदावश्यम्भावेन दोषतौल्यात्। न च `अन्तःकरणप्रतिबिम्बो जीवः' इति पक्षे दोषतौल्येऽपि `अविद्याप्रतिबिम्बो जीवः'। तस्य च तत्र तत्र गत्वरमन्तःकरणं जलाशयव्यापिनो महामेघमण्जलप्रतिबिम्बस्य तदुपरि विसृत्वरस्फीतालोक इवं तत्र तत्र विशेषाभिव्यक्तिहेतुरिति पक्षे नायं दोषः। अन्तःकरणवदविद्याया गत्यभावेन प्रतिबिम्बभेदानाप्त्तेरिति वाच्यम्। तथैवावच्छेदपक्षेऽपि `अविद्यावच्छिन्ने जीवः' इत्यभ्युपगमसम्भवात्। तत्राप्येकस्य जीवस्य क्कचित् प्रदेशे कर्तृत्वं प्रदेशान्तरे भोक्तृत्वमित्येवं कृतहानादिदोषापनुत्तये वस्तुतो जीवैक्यस्य(1)शरणीकरणीयत्वेन तन्न्यायादन्तःकरणोपाधिपक्षेऽपि {(1)आदरणीयत्वेनेति पाठः।} वस्तुतश्चैतन्यैक्यस्य तदवच्छेदकोपाध्येक्यस्य च तन्त्रत्वाभ्युपगमेन तद्दोषनिराकरणसम्भवाच्च। न चावच्छेदपक्षे "यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन्। उपाधिना क्रियते भेदरूपो देवः क्षेत्रेष्वेवम जोऽयमात्मा" "अत एव चोपमा सूर्यकादिवत्"(उo मीo अo 6 पाo2 सूo 18) इति श्रुतिसूत्राभ्यां विरोधः। `अम्बुवदग्रहणात्तु न तथात्वम्' (उoमीo अo 6 पाo 2 oसूo 19) इत्युदाहृतसूत्रानन्तरसूत्रेण यथा सूर्यस्य रूपवतः प्रतिबिम्बोदययोग्यं ततो विप्रकृष्टदेशं रूपवज्जलं गृह्यते, नैवं सर्वगतस्यात्मनः प्रतिबिम्बोदययोग्यं किञ्चिदस्ति ततो विप्रकृष्टमिति प्रतिबिम्बासम्भवमुक्त्वा `वृद्धिह्रासाक्त्वमन्तर्भावादुभयसामञ्जस्यादेवम्' (उo मीo अo 6 पाo 2 सूo 2o) इति तदनन्तरसूत्रेण यथा जलप्रतिबिम्बितः सूर्यो जलवृद्धौ वर्धते इव, जलह्रासे ह्रसतीव, जलचलने चलतीवेति तस्याध्यासिकं जलानुरोधिवृद्धिह्रासादिभाक्त्वम्, तथा आत्मनोऽन्तः-करणादिनाऽवच्छेदेन उपाध्यन्तर्भावदाध्यासिकं तदनुरोधिवृद्धिह्रासादिभाक्त्वमित्येवं दृष्टान्तदार्ष्टान्तिकयोस्सामञ्जस्यादविरोध इति स्वयं सूत्रकृतैवावच्छेदपक्षे तयोस्तात्पर्यकथनात्।
घटसंवृत्तमाकाशं नीयमाने यथा घटे।
घटो नीयेत नाकाशं तद्वज्जीवो नभोपमः।।
`अंशो नानाव्यपदेशात्'(उoमीo अo 2 पाo 3 सूo 43) इति श्रुतिसूत्राभ्यामवच्छेदपक्षस्यैव परिग्रहाच्च। तस्मात् सर्वगतस्य चैतन्यस्यान्तःकरणादिनाऽवच्छेदोऽवश्यम्भावीति आवश्यकत्वात्`अवच्छिन्नो(1) {(1)च्छेद इति पाठः।} जीवः' इति पक्षं रोचयन्ते।।
अपरे तु न प्रतिबिम्बः, नाप्यवच्छिन्नो(1) {(1)वच्छेद इति पाठः} जीवः। किं तु कौन्तोयस्यैव राधेयत्ववदविकृतस्य ब्रह्मण एव अविद्याया जीवभावः। व्याधकुलसंवर्धितराजकुमारदृष्टान्तेन `ब्रह्मैव स्वाविद्याया संसरति, स्वविद्यया मुच्यते' इति बृहदारण्यकभाष्ये प्रतिपादनात्।
राजसूनोः स्मृतिप्राप्तौ व्याधभावो निवर्तते।।
तथैवमात्मनोऽज्ञस्य तत्त्वमस्यदिवाक्यतः।।
इति वार्तिकोक्तेश्च।
एवं च स्वाविद्यया जीवभावमापन्नस्यैव ब्रह्मणः सर्वप्रपञ्चकल्पकत्वात् ईश्वरोऽपि सह सर्वज्ञत्वादिधर्मैः स्वप्नोपलब्धदेवतावज्जीवकल्पित इत्याचक्षते ।। 6।।
(7) अथायं जीव एकः, उतानेकः? अनुपदोक्तपशङ्कापङ्कप्रक्षलनं स्वप्नदृष्टान्तसलिलधारयैव कर्तव्यमिति।
अन्ये त्वस्मिन्नेकशरीरैकजीववादे मनःप्रत्ययमलभमानाः `अधिकं तु भेदनिर्देशात्'(2 .1.22) `लोकवत्तु लीला कैवल्यम्' (2.1.33) इत्यादिसूत्रैर्जीवाधिक ईश्वर एव जगतः स्त्रष्टा, न जीवः। तस्याप्तकामत्वेन प्रयोजनाभावेऽपि केवलं लीलयैव जगतः सृष्टिरित्यादि प्रतिपादयद्भिर्विरोधं च मन्यमाना हिरण्यगर्भ एको ब्रह्मप्रतिबिम्बो मुख्यो जीवः। अन्ये तु तत्प्रतिबिम्बभूताश्चित्रपटलिखितमनुष्यदेहार्पितपटाभासकल्पाः जीवाभासाः संसारादिभाज इति सविशेषानेकशरीरैकजीववादमातिष्ठन्ते।।
अपरे तु हिरण्यगर्भस्य प्रतिकल्पं भेदेन कस्य हिरण्यगर्भस्य मुख्यं जीवत्वमित्यत्र नियामकं नास्तीति मन्यमाना एक एव जीवोऽविशेषेण सर्वं शरीरमधितिष्ठति।
न चैवं शरीरावयवभेद इव शरीरभेदेऽपि परस्परसुखाद्यनुसन्धानप्रसङ्गः। जन्मान्तरीयसुखाद्यनुसन्धानादर्शनेन शरीरभेदस्य तदननुसन्धानप्रयोजनकत्वक्लृप्तेः।
योगिनस्तु कायव्यूहसुखाद्यनुसन्धानं व्यवहितार्थग्रहणवद्योगप्रभावनिबन्धनमिति न तदुदाहरणमिति अविशेषानेकशरीरैकजीववादं रोचयन्ते।।
इतरे त्वत्रापि बद्धमुक्तव्यवस्थाऽभावस्य तुल्यत्वेन "तद्यो यो देवानां प्रत्यबुध्यत स एव तदभवत्" इत्यादिश्रुतेः `प्रतिषेधादिति चेत्, नशरीरात्' (4.2.12) इत्याधिकरणे बद्धमुक्तत्व(1){(1)शुकमुक्तत्वेति पाठः} प्रतिपादकभाष्यस्य च नाञ्जस्यमित्यपरिनुष्यन्तोऽन्तःकरणादीनां जीवोपाधित्वाभ्युपगमेनानेकजीववादमाश्रित्य बद्धमुक्तव्यवस्थां प्रतिपद्यन्ते।।
तेषुकेचिदेवमाहुः-यद्यपि शुद्धब्रह्माश्रयविषयमेकमेवाज्ञानम्, तन्नाश एव च मोक्षः, तथापि जीवन्मुक्तावज्ञानलेशानुवृत्त्यभ्युपगमेनाज्ञानस्य सांशत्वात् तदेव क्कचिदुपाधौ ब्रह्मवगमोत्पत्तौ अंशेन निवर्तते, उपाध्यन्तरेषु यथापूर्वमंशान्तरैरनुवर्तते इति।
अन्ये तु यथा न्यायैकदेशिमते भूतले घटात्यन्ताभावस्य वृत्तौ घटसंयोगाभावो नियामक इति अनेकेषु प्रदेशेषु तद्वत्सु संसृज्य वर्तमानो घटात्यन्ताभावः क्कचित्प्रदेशे घटसंयोगोत्पत्त्या तदभावनिवृत्तौ न संसृज्यते। एवमज्ञानस्य चैतन्ये वृत्तौ मनो नियामकमिति तदुपाधिना तत्प्रदेशेषु संसृज्य वर्तमानमज्ञानं क्कचिद् ब्रह्मदर्शनोत्पत्त्या "भिद्यते हृदयग्रन्थिः" इत्युक्तरीत्या मनसो निवृत्तौ न संसृज्यते। अन्यत्र यथापूर्वमवतिष्ठते। अज्ञानसंसर्गासंसर्गावेव च बन्धमोक्षावित्याहः।।
अपरे तु नाज्ञानं शुद्धचैतन्याश्रयम्, किं तु जीवाश्रयं ब्रह्मविषयम्। अतश्चान्तःकरणप्रतिबिम्बरूपेषु सर्वेषु जीवेषु व्यक्तिषु(1){(1)व्यक्तिमिवेति पाठः।} जातिवत् प्रत्येकपर्यवसायितया वर्तमानमुत्पन्नविद्यं कं चित्त्यजति(1) नष्टां व्यक्तिमिव जातिः। स एव मोक्षः। अन्यं यथापूर्वमाश्रयतीति व्यवस्थेत्याहुः।।
इतरे तु प्रतिजीवमविद्याभेदमभ्युपगम्यैव तदनुवृत्तिनिवृत्तिभ्यां, बद्धमुक्तव्यवस्थां समर्थयन्ते।
अस्मिन् पक्षे कस्याविद्यया प्रपञ्चः कृतोऽस्त्विति चेत्, विनिगमकाभावात् सर्वाविद्याकृतोऽनेकतन्त्वारब्धपटतुल्यः। एकस्य मुक्तौ तदविद्यानाशे एकतन्तुनाशे पटस्येव तत्साधारणप्रपञ्चस्य नाशः। तदैव विद्यमानतन्त्वन्तरैः पटान्तरस्येव इतराविद्यादिभिः सकलेतरसाधारणप्रपञ्चान्तरस्योत्पादनमित्येके।।
तत्तदज्ञानकृत(1){(1)जन्येति पाठः।} प्रतिभासिकरजतवत्, न्यायमते तत्तदपेक्षाबुद्धिजन्यद्वित्ववच्च तत्तदविद्याकृतो वियदादिप्रपञ्चः प्रतिपुरुषं भिन्नः। शुक्तिरजते त्वया यद् दृष्टं रजतं, तदेव मयाऽपीतिवदैक्यभ्रममात्रमित्यन्ये।।
जीवाश्रितादविद्यानिवहाद्भिन्ना मायैव ईश्वराश्रिता प्रपञ्चकारणम्(1){(1)कारणीति पाठः।}। जीवानामविद्यास्तु आवरणमात्रे प्रातिभासिकशुक्तिरजतादिविक्षेपेऽपि च उपयुज्यन्ते इत्यपरे।।7।।
(8) अवसितमुपादानत्वम्, तत्प्रसक्तानुप्रसक्तं च।
अथ कीदृशं कर्तृत्वम्।?
केचिदाहुः-"तदैक्षत सोऽकामयत तदात्मानं स्वयमकुरुत" इति श्रवणान्न्यायमत इव कार्यानुकूलज्ञानचिकीर्षाकृतिमत्त्वरूपमिति।।
अन्ये तु चिकीर्षातृतिकर्तृत्वनिर्वाहाय चिकीर्षाकृत्यन्तरापेक्षायामनवस्थाप्रसङ्गात् कार्यानुकूलज्ञानवत्त्वमेव ब्रहमणः कर्तृत्वम्। न च ज्ञानेऽप्येष प्रसङ्गः। तस्य ब्रह्मस्वरूपत्वेनाकार्यत्वात्। एवं च विवरणे जीवस्य सुखादिकर्तृत्वोक्तिः, वीक्षणमात्रसाध्यत्वात् वियदादि वीक्षितं, हिरण्यगर्भद्वारा वीक्षणाधिकयत्नसाध्यत्वात् भौतिकं स्मितमिति कल्पतरूक्तिश्च सङ्गच्छत इति वदन्ति।।
अपरे तु कार्यानुकूलस्त्रष्टचव्यालोचनरूपज्ञानवत्त्वं कर्तृत्वं, न कार्यानुकूलज्ञानवत्त्वमात्रम्। शुक्तिरजतस्वाप्नभ्रमादिषु अध्यासानुकूलाधिष्ठानज्ञानवत्त्वेन जीवस्य कर्तृत्वप्रसङ्गात्। न चेष्टापत्तिः। `अथ रथान् रथपोगान् पथः सृजते स हि कर्ता' इत्यादिश्रुत्यैव जीवस्य स्वप्नप्रपञ्चकर्तृत्वोक्तेरिति वाच्यम् भाष्यकारैः `लाङ्गलं गवादीनुद्वहतीतिवत् कर्तृत्वोपचारमात्रं रथादिप्रतिभाननिमित्तत्वेन' इति व्याख्यातत्वादित्याहुः।।8।।
अनेनैव निखिलप्रपञ्चरचनाकर्तृभावेनार्थसिद्धं सर्वज्ञित्वं ब्रह्मणः `शास्त्रयोनित्वात्' (उ.मी.अ.1पा.1 सू.3) इत्यधिकरणे वेदकर्तृत्वेनापि समर्थितम्।।
(9) अथ कथं ब्रह्मणः सर्वज्ञत्वं सङ्गच्छते। जीववदन्तःकरणाभावेन ज्ञातृत्वस्यैवायोगात्।
अत्र सर्ववस्तुविषयसकलप्राणिधीवासनोपरक्ताज्ञानोपाधिक ईश्वरः। अतस्तस्य सर्वविषयवासनासाक्षितया सर्वज्ञत्वमिति भारतीतीर्थादिपक्षः प्रागेव दर्शितः।।
प्रकटार्थकारास्त्वाहुः-यथा जीवस्य स्वोपाध्यन्तःकरणपरिणामाश्चैतन्यप्रतिबिम्बग्राहिण इति तद्योगात् ज्ञातृत्वम्, एवं ब्रह्मणः स्वोपाधिमायापरिणामाश्चित्प्रतिबिम्बग्राहिणस्सन्तीति तत्प्रतिबिम्बितैः स्फुरणैः कालत्रयवर्तिनोऽपि प्रपञ्चस्यापिरोक्षेणावकलनात् सर्वज्ञत्वमिति।।
तत्त्वशुद्धिकारास्तूक्तरीत्या ब्रह्मणो विद्यमाननिखिलप्रपञ्च सारात्कारसम्भवात् तज्जनितसंस्कारवत्तया च स्मरणोपपत्तेरतीतसकलवस्त्ववभाससिद्धिः। सृष्टेःपाङ्मायायास्सृज्यमाननिखिलपदार्थस्फुरणरूपेण जीवादृष्टानुरोधेन विवर्तमानत्वात् तत्साक्षितया तदुपाधिकस्य ब्रह्मणोऽपि तत्साधकत्वसिद्धेः अनागतवस्तुविषयविज्ञानोपपत्तिरिति सर्वज्ञत्वं समर्थयन्ते।।
कौमुदीकृतस्तु वदन्ति-स्वरूपज्ञानेनैव ब्रह्मणः स्वसंसृष्टसर्वावभासकत्वात् सर्वज्ञत्वम्। अतीतानागतयोरप्यविद्यायां चित्रभित्रौ विमृष्टानुन्मीलितचित्रवत् संस्कारात्मना सत्त्वेन तत्संसर्गस्याप्युपपत्तेः। न तु वृत्तिज्ञानैस्तस्य सर्वज्ञात्वम्। "तमेव भान्तमनु भाति सर्वम्" इति सावधारणश्रुतिविरोधात्सृष्टेः प्रागेकमेवाद्वितीयमित्यवधारणानुरोधेन महाभूतानामिप वृत्तिज्ञानानामपि प्रलयस्य वक्तव्यतया ब्रह्मणस्तदा सर्वज्ञत्वाभावापत्त्या प्राथमिकमायाविवर्तरूपे ईक्षणे तत्पूर्वके महाभूतादौ च स्रष्ट्टत्वाभावप्रसङ्गाच्च। एवं सति ब्रह्मणस्स्र्वविविषयज्ञानात्मकत्वमेव स्यात्, न तु सर्वज्ञातृत्वरूपं सर्वज्ञत्वमिति चेत्, सत्यम्। सर्वविषयज्ञानात्मकयेव ब्रह्म, न तु सर्वज्ञानकर्तृत्वरूपं ज्ञातृत्वमस्ति। अत एव`वाक्यान्वयात्'(उ.मी.अ.1 पा.4 सू.19) इत्याधिकरणे विज्ञातृत्वं जीवलिङ्गमित्युक्तं भाष्यकारैः। "यस्सर्वज्ञः" इत्यादिश्रुतिरपि तस्य ज्ञानरूपत्वाभिप्रायेणैव(1){(1)दृश्यत्वावच्छिन्नरूपेणैव योजनीयेतीति पाठः।} योजनीयेति।
यद्यपि ब्रह्म स्वरूपचैतन्येनैव स्पसंसृष्टसर्वावभासकं, तथापि तस्य स्वरूपेणाकार्यत्वेऽपि दृश्यावच्छिन्नरूपेण तु ब्रह्मकार्यत्वात्। "यस्सर्वज्ञः" इति ज्ञानजननकर्तृत्वश्रुतेरपि न कश्चिद्विरोध इति आचार्यवाचस्पतिमिश्राः।।9।।
(10)नन्वीश्वरवज्जीवोऽपि वृत्तिमनपेक्ष्य स्वरूपचैतन्येनैव किमिति विषयान्नावभासयति?-
अत्रोक्तं विवरणे-ब्रह्मचैतन्यं सर्वोपादानतया सर्वतादात्म्यापन्नं सत् स्वसंसृष्टं सर्वमवभासयति, न जीवचैतन्यम्। तस्याविद्योपाधिकरया सर्वगतत्वेऽप्यनुपादानत्वेनासङ्गित्वात्। यथा सर्वगतं गोत्वसामान्यं स्वभावादश्वादिव्यक्तिसङ्गित्वाभावेऽपि सास्नावद्व्यक्तौ संसृज्यते, एवं विषयासङ्ग्यपि जीवः स्वभावादन्तःकरणे संसृज्यते। तथाच यदाऽन्तःकरणस्य परिणामो वृत्तिरूपो नयनादिद्वारेण निर्गत्य विषयपर्यन्तं चक्षुरश्मिवत् झटिति दीर्घप्रभाकारेण परिणम्य विषयं व्याप्नोति, तदा तमुपारुह्य तं विषयं गोचरयति। केवलाग्न्यदाह्यस्यापि तृणदेरयःपिण्डसमारूढाग्निदाह्यत्ववत् केवलजीवचैतन्याप्रकाश्यस्यापि घटादेरन्तःकरणवृत्त्युपारूढस्य तत्प्रकाश्यत्वं युक्तम्।
यद्वाऽन्तःकरणोपाधिकत्वेन जीवः परिच्छिन्नः। अतः संसर्गाभावान्न घटादिकमवभासयति। वृत्तिद्वारा तत्संसृष्टविषयावच्छिन्नब्रह्मचतैन्याभेदाभिव्यक्तौ तु तं विषयं प्रकाशयति।
अथवा जीवः सर्वगतोऽप्यविद्यावृतत्वात् स्वयमप्यप्रकाशमानतया विषयाननवभासयन्विषयविशेषे वृत्त्युपरागादावावरणतिरोधानेन तत्रैवाभिव्यक्तस्तमेव विषयं प्रकाशयति। एवं च चिदुपरागार्थत्वेन, विषयचैतन्याभेदाभिव्यक्त्यर्थत्वेन, आवरणाभिभवार्थत्वेन वा वृत्तिनिर्गममपेक्ष्य तत्संसृष्टवलिषयमात्रावभासकत्वात् जीवस्य किञ्चिज्ज्ञत्वमप्युपपद्यते इति।।10।।
(11)अत्र प्रथमपक्षे सर्वगतस्य जीवस्य वृत्त्यधीनः को विषयोपरागः? वृत्त्याऽपि हि
पूर्वसिद्धयोर्निष्क्रिययोर्विषयजीवचैतन्ययोस्तादात्म्यस्य संयोगस्य वा न सम्भवत्याधानम्।
अन्ये तु-विषयविषयिभावमात्रनियामिका वृत्तिश्चेदनिर्गताया अप्यैन्द्रियकवृत्तेस्तन्नियामकत्वं नातिप्रसङ्गावहमिति तन्निर्गमाभ्युपगमवैयर्थ्यापत्तेः स नाभिसंहितः। किं तु विषयसन्निहितजीवचैतन्यतादात्म्यापन्नाया वृत्तेर्विषयसंयोगे तस्यापि तद्द्वारकः परम्परासम्बन्धो लभ्यते इति स एव चिदुपरागोऽभिसंहित इत्याहुः।।
अपरेतु-साक्षादपरोक्षचैतन्यसंसर्गिण एव सुखादेरापरोक्ष्यदर्शनात् अपरोक्षविषये साक्षात्संसर्ग एष्टव्यः। तस्माद् वृत्तेर्विषयसंयोगे वृत्तिरूपावच्छेदकलाभात् तदवच्छेदेन तदुपादानस्य जीवस्यापि संयोगजसंयोगः सम्भवति। कारणाकारणसंयोगात् कार्याकार्यसंयोगवत् कार्याकार्यसंयोगात् कारणाकारणसंयोगस्यापि युक्तितौल्येनाभ्युपगन्तुं युक्तत्वादित्याहुः।।
एकदेशिनस्तु-अन्तःकरणोपहितस्य विषयावभासकचैतन्यस्य विषयतादात्म्यापन्नब्रह्मचैतन्याभेदाभिव्यक्तिद्वारा विषयतादात्म्यसम्पादनमेव चिदुपरागोऽभिसंहितः। सर्वगततया सर्वविषयसन्निहितस्यापि जीवस्य तेन रूपेण विषयावभासकत्वे तस्य साधारणतया पुरुषविशेषापरोक्ष्यव्यवस्थित्ययोगेन तस्यान्तःकरणोपहितत्वारूपेणैव विषयावभासकत्वात्। एवं च विषयापरोक्ष्ये आध्यासिकसम्बन्धो नियामक इति सिद्धान्तोऽपि सङ्गच्छते। न चैवं द्वितीयपक्षसाङ्कर्यम्। जीवस्य सर्वगतत्वे प्रथमः पक्षः, परिच्छिन्नत्वे द्वितीय इत्येव तयोर्भेदादित्याहुः।।11।।
(12) अथ द्वितीयपक्षे केयमभेदाभिव्यक्तिऋः?।
केचिदाहुः-कुल्याद्वारा तडागकेदारसलिलयोरिव विषयान्तःकरणावच्छिन्नचैतन्ययोर्वृत्तिद्वारा एकीभावोऽभेदाभिव्यक्तिः। एवं च यद्यपि विषयावच्छिन्नं ब्रह्मचैतन्यमेव विषयप्रकाशकम्, तथापि तस्य वृत्तिद्वारा एकीभावेन जीवत्वं सम्पन्नमिति जीवस्य विषयप्रकाशोपपत्तिरिति।।
अन्ये त्वाहुः-विम्बस्थानीयस्य विषयावच्छिन्नस्य ब्रह्मणः प्रतिबिम्बभूतेन जीवेन एकीभावो नाभेदाभिव्यक्तिः। व्यावर्तकोपाधौ दर्पण इव जाग्रति तयोरेकीभावायोगात्।
वृत्तिकृताभेदाभिव्यक्त्या विषयावच्छिन्नस्य ब्रह्मणो जीवत्वप्राप्तौ ब्रह्मणस्तदा तद्विषयसंसर्गाभावेन तद्द्रष्टृत्वासम्भवे सति तस्य सर्वज्ञत्वाभावापत्तेश्च। किं तु विषयावच्छिन्नं ब्रह्मचैतन्यं विषयसंसृष्टाया वृत्तेरग्रभागे विषयप्रकाशकं प्रतिबिम्बं समर्पयतीति तस्य प्रतिबिम्बस्य जीवेनैकीभावः। एवं चान्तःकरणतद्वृत्तिविषयावच्छिन्नचैतन्यानां प्रमातृप्रमाणप्रमेयभावेन असङ्करोऽप्युपपद्यते। न च वृत्त्युपहितचैतन्यस्य विषयप्रमात्वे तस्य विषयाधिष्ठानचैतन्यस्येव विषयेणाध्यासिकसम्बन्धाभावात् विषयापरोक्ष्ये आध्यासिकसम्बन्धस्तन्त्रं न स्यादिति वाच्यम्। विषयाधिष्ठानचैतन्यस्यैव विषयेणावच्छिन्नस्य वृत्तौ प्रतिबिम्बिततया तदभेदेन तत्सम्बन्धसत्त्वादिति।
अपरे त्वाहुः-बिम्बभूतविषयाधिष्ठानचैतन्यमेव साक्षादाध्यासिकसम्बन्मधलाभात् विषयप्रकाशकमिति तस्यैव बिम्बतद्वविशिष्टरूपेण भेदसद्भावेऽपि तदुपलक्षितचैतन्यात्मना एकीभावोऽभेदाभिव्यक्तिः। न चैवं सति जीवब्रह्मसाङ्कर्यम्, न वा ब्रह्मणः सर्वज्ञत्वविरोधः। बिम्बात्मना तस्य यथापूर्वमवस्थानादिति।।12।।
(13)अथ तृतीयपक्षे को नामावरणाभिबवः? अज्ञाननाशश्चेत्, घटज्ञानेनैवाज्ञानमूलः प्रपञ्चो निवर्तेतेति चेत्।
अत्र केचिदाहुः-चैतन्यमात्रावारकस्याज्ञानस्य विषयावच्छिन्नप्रदेशे स्पद्योतादिप्रकाशेन महान्धकारस्येव ज्ञानेनैकदेशेन नाशो वा, कटवत् संवेष्टनं वा भीतभटवदपसरणं वाऽभिभव इति।।
अन्ये तु-अज्ञानस्यैकदेशेन नाशे उपादानाभावात् पुनस्तत्र कन्दलनायोगेन सकृदगते समयान्तरेऽप्यावरणाभावप्रसङ्गात्, निष्क्रियस्यापसरणसंवेष्टनयोरसम्भवाच्च न यथोक्तरूपोऽभिभवः सम्भवति। अतः चैतन्यमात्रावारकस्याप्यज्ञानस्य तत्तदाकारवृत्तिसंसृष्टावस्थविषयावच्छिन्नचैतन्यानावारकत्वस्वाभाव्यमेवाभिभवः। न च विषयावगुण्ठनपटवद्विषयचैतन्यमाश्रित्य स्थितस्याज्ञानस्य कथं तदनावारकत्वं युज्यते इति शङ्क्यम्। `अहमज्ञः' इति प्रतीत्याऽहमनुभवे प्रकाशमानचैतन्यमाश्रयत एव तस्य तदनावारकत्वाप्रतिपत्तेरित्याहुः।।
अपरे तु-`घटं न जानामि'इति घटज्ञानविरोधित्वेन, घटज्ञाने सति घटाज्ञानं निवृत्तमिति तन्निवर्त्यत्वेन चानुभूयमानं न मूलाज्ञानम्। शुद्धचैतन्यविषयस्य तज्ज्ञान(1){(1)तद्भानोति पाठः।} निवर्त्यस्य च तस्य तथात्वायोगात्। किन्तु घटावच्छिन्नचैतन्यविषयं मूलाज्ञानस्यावस्थाभेदरूपमज्ञानान्तरमिति तन्नाश एवाभिभवः। न चैवमेकेन ज्ञानेन तन्नाशे तत्समानविषयाणां ज्ञानान्तराणामावरणाभिभावकत्वानापत्तिः। यावन्ति ज्ञानानि, तावन्ति अज्ञानानी(2)त्यभ्युपगमादित्याहुः{(2)तन्निर्वत्यान्यक्षानानीति पाठः।}।।
इमानि चावस्थारूपाणि अज्ञानानि मूलाज्ञानवदज्ञानत्वादनादीनीति केचित्।।
व्यावहारिकौ जगज्जीवावावृत्य स्वाप्नौ जगज्जीवौ विक्षिपन्ती निद्रा तावदापरणविक्षेपशक्तियोगात् अज्ञानावस्थाभेदरूपा। तथा सुषुप्त्यवस्थाऽप्यन्तःकरणादौ विलीने `सुखमहमस्वाप्संन किञिचिदवेदिषम्' इति परामर्शदर्शनात् मूलाज्ञानवत् सुषुप्तिकाले अनुभूयमानाज्ञानावस्थाभेदरूपैव। तयोश्च जाग्रद्भोगप्रदकर्मोपरमे सत्येवोद्भवात् सादित्वम्, तद्वद् अन्यदप्यज्ञानमवस्थारूपं सादीत्यन्ये।।
नन्वनादित्वपक्षे घटे प्रथममुत्पन्नेनैव ज्ञानेन सर्वतदज्ञाननाशो भवेत्। विनिगमनाविरहात् तदवच्छिन्नचैतन्यावरकसर्वाज्ञाननाशे विषयप्रकाशायोगाच्च। अतः पाश्चात्त्यज्ञानानामावरणानभिभावकत्वं तदवस्थमेवेति चेत्,
अत्र केचिदाहुः-यथा ज्ञानप्रागभावानामनेकेषां सत्त्वेऽप्येकज्ञानोदये एक एव प्रागभावो निवर्तते। संशयादिजननशक्ततया तदावरणरूपेषु प्रागभावान्तरेषु सत्स्वपि विषयावभासः। तथैकज्ञानोदये एकमेवाज्ञानं निवर्तते, अज्ञानान्तरेषु सत्स्वपि विषयावभास इति।।
अन्ये तु-आवृतस्यापरोक्ष्यं विरूद्धम्। एकज्ञानोदये च प्रागभावान्तरस्त्त्वेऽपि यावद्विशेषदर्शनाभावकूटरूपमावरणं विशेषदर्शनान्नास्तीति मन्यमाना वदन्ति-यदा यदज्ञानभावृणोति, तदा तेन ज्ञानेन तस्यैव नाशः। सर्वं च सर्वदा नावृणोति, घैयर्थ्यात्। किं त्वावरकाज्ञाने वृत्त्या नाशिते तद्वृत्त्युपरमे अज्ञानान्तरमावृणोति।
न चैवं ब्रह्मावगमोत्पत्तिकालेऽमावरकत्वेन स्थितानामज्ञानानां ततोऽप्यनिवृत्तिप्रसङ्गः। तेषां साक्षात्तद्विरोधित्वाभावेऽपि तन्निवर्त्यमूलाज्ञानपरतन्त्रतया अज्ञानसम्बन्धादिवत् तन्निवृत्त्युपपत्तेः। एतदर्थमेव तेषां तदवस्थाभेदरूपतया तत्पारतन्त्र्यमिष्यत इति।।
अपरे तु-अज्ञानस्य सविषयत्वस्वभावत्वात् उत्सर्गतः सर्वं सर्वदाऽऽवृणोत्येव। न च विषयोत्पत्तेः प्रागावरणीयाभावे नावरकत्वं न युज्यत इति वाच्यम्। तदाऽपि सूक्ष्मरूपेण तत्सत्त्वादिति मन्यमानाः कल्पयन्ति-यथा बहुजनसमाकुले प्रदेशे कस्यचित् शिरसि पतन्नशनिरितरानप्यपसारयति।
यथा वा सन्निपातहरमौषधमेकं दोषं निवर्तयद्दोषान्तरमपि दूरीकरोति। एवमेकमज्ञानं नाशयत् ज्ञानमज्ञानान्तराण्यपि तिरस्करोति। तिरस्कारश्च यावद् ज्ञानस्थितिः(1){(1)यावज्ज्ञानस्थिति तदावरणेति पाठः।} तावद् आवरणशक्तिप्रतिबन्ध इति।।
नन्वेवं सति धारावाहिकस्थले द्वितीयादिवृत्तीनामावरणानभिभावकत्वे वैफल्यं स्यात्, प्रथमज्ञानेनैव निवर्तनतिरस्काराभ्यामावरणमात्रस्याभिभवादिति।।
अत्राहुः-वृत्तितिरस्कृतमप्यज्ञानं तदुपरमे पुनरावृणोति प्रदीपतिरस्कृतं तम इव प्रदीपोपरमे। वृत्त्युपरमसमये वृत्त्यन्तरोदये तु तिरस्कृतमज्ञानं तथैवावतिष्ठते प्रदीपोपरमसमये प्रदीपान्तरोदये तम इव। तथा च`यस्मिन् सति अग्रिमक्षणे यस्य सत्त्वं, यद्व्यतिरेके चासत्त्वं, तत् तज्जन्यम्' इति प्रागभावपरिपालनसाधारणलक्षणानुरोधेनानावरणस्य द्वितीयादिवृत्तिकार्यत्वस्यापि लाभान्न तद्वैफल्यमिति।।
न्यायचन्द्रिकाकृतस्त्वाहुः-केनचिज्ज्ञानेन कस्यचिदज्ञानस्य नाश एव। न त्वावरकाणामप्यज्ञानान्तराणां तिरस्कारः। तथा च धारावाहिकद्वितीयादिवृत्तूनामप्येकैकाज्ञाननाशकत्वेन साफल्यम्।
न चैवं ज्ञानोदयेऽप्यावरणसम्भवाद्विषयानवभासप्रसङ्गः। अवस्थारूपाण्यज्ञानानि हि तत्तत्कालोपलक्षित(2){(2)कालकलोपलक्षितेति पाठः।} स्वरूपावरकाणि, ज्ञानानि च यावत्स्वकालोपलक्षितविषयावरकाज्ञाननाशकानि। तथा च कुञ्चिज्ज्ञानोदयो तत्कालीनविषयावरकाज्ञानस्य नाशात् विद्यमानानामज्ञानान्तराणामन्यकालीनविषयावारकत्वाच्च न तत्कालीनविषयावभासे काचिदनुपपत्तिः। कारीरीफले वृष्टावासन्नसमयस्येवाज्ञानविषये घटादौ तत्कालस्योपलक्षणतया विषयकोटावननुप्रवेशेन सूक्ष्मतत्कालभेदाविषयैर्धारावाहिकाद्वितीयादिज्ञानैरज्ञानानां निवृत्तावपि न काचिदनुपपत्तिरिति।।
केचित्तु प्रथमज्ञाननिवर्त्यमेवाज्ञानं स्वरूपावारकम्। द्वितीयादिज्ञाननिवर्त्यानि तु देशकालादिविशेषणान्तरविशिष्टविषयाणि। अत एव सत्तानिश्चयरूपे अज्ञाननिवर्तके चैत्रदर्शने सकृज्जाते `चैत्रं न जानामि' इति स्वरूपावरणं नानुभूयते, किं तु `इदानीं सकुत्रेति न जानामि' इत्यादिरूपेण विशिष्टावरणमेव। विस्मरणशालिनः क्वचित् सकृत दृष्टेऽपि `न जानामि'इति स्वरूपावरणं दृश्यते चेत्, तत्र तथाऽस्तु। अन्यत्र सकृद्दृष्टे विशिष्टविषयाण्येवाज्ञानानि ज्ञानानि च।
न चैवं सति धारावाहिकद्वितीयादिज्ञानानामज्ञाननिवर्तकत्वं न स्यात्, स्थूलकालविशिष्टाज्ञानस्य प्रथमज्ञानेनैव निवृत्तेः पूर्वापरज्ञानव्यावृत्तसूक्ष्मकालविशिष्टाज्ञानस्य तदविषयैर्द्वितीयादिज्ञानैर्निवृत्त्ययोगादिति वाच्यम्। धारावहनस्थले प्रथमोत्पन्नाया एव वृत्तेस्तावत्कालावस्थायित्वसम्भवेन वृत्तिभेदानभ्युपगमात्। तदभ्युपगमेऽपि बहुकालावस्थायिपञ्चषवृत्तिरूपत्वसम्भवेन परस्परव्यावृत्तस्थूलकालादिविशेषणभेदविषयत्वोपपत्तेः। प्रतिक्षणोद्यदनेकवृत्तिसन्तानरूपत्वाभ्युपगमेऽपि द्वितीयादिवृत्तीनामधिगतार्थमात्रविषयतया प्रामाण्याभावेनावरणानिवर्तकत्वेऽप्यहानेश्च। न हि विषयाबाधमात्रं प्रामाण्यम्। प्रागवगतानवगतयोः पर्वततद्वृत्तिपावकयोरनुमितिविषययोरबाधस्याविशेषेण उभयत्राप्यनुमितेः प्रामाण्यप्रसङ्गात्। न चेष्टापत्तिः। `वह्नावनुमितिः प्रमाणम्' इतिवत् `पर्वतेऽप्यनुमितिः प्रमाणम्' इति व्यवहारादर्शनात्।
विवरणे साक्षिसिद्धस्याज्ञानस्याभावव्यावृत्ति प्रत्यायनार्थानुमानादिविषयत्वेऽपि प्रमाणावेद्यत्वोक्तेश्च। तस्मात् द्वितीयादिवृत्तीनां प्रामाण्याभावात् उपासनादिवृत्तीनामिवाज्ञानानिवर्तकत्वेऽपि न हानिः। प्रमाण्वृत्तीनामेव तन्निवर्तकत्वाभ्युपगमात्।।
ननु नायमपि नियमः, परोक्षवृत्तेरनिर्गमेनाज्ञानानिवर्तकत्वादिति चेत्।
अत्र केचिदाहुः-द्विविधं विषयावरकमज्ञानम्। एकं विषयाश्रितं रज्ज्वादिविक्षेपोपादानभूतं कार्यकल्प्यम्। अन्यत पुरुषाश्रितम् `इदमहं न जनामि' इत्यनुभूयमानम्(1){(1) `विषयमहं न जानामि' इत्यानुभाविकमिति पाठः।}। पुरुषाश्रितस्य विषयसंभिन्नविक्षेपोपादानत्वासम्भवेन, विषयाश्रितस्य `इदमहं न जानामि' इति साक्षिरूपप्रकाशसंसर्गायोगेन द्विविधस्याप्यावश्यकत्वात्। एवं च परोक्षस्थले वृत्तेर्निर्गमनाभावाद् दूरस्थवृक्षे आप्तवाक्यात् परिमाणविशेषावगमेऽपि तद्विपरीतपरिमाणविक्षेपदर्शनाच्च विषयगताज्ञानानिवृत्तवपि पुरुषगताज्ञाननिवृत्तिरस्त्येव। `शास्त्रार्थं न जानामि' इत्यनुभूताज्ञानस्य तदुपदेशानन्तरं निवृत्त्यनुभवात्। अत एव `अनुमेयादौ सुषुप्तिव्यावृत्तिः' इति विवरणस्य तद्विषयाज्ञाननिवृत्तिरर्थ इत्युक्तं तत्त्वदीपने इति।
अन्ये तु-नयनपटलवत् पुरुषाश्रितमेवाज्ञानं विषयावरणम्। न तदतिरेकेण विषयगताज्ञाने प्रमाणमस्ति। न च पुरुषाश्रितस्य विषयगतविक्षेपपरिणामित्वं न सम्भवति। तत्संभवे वा दूरस्थवृक्षपरिमाणे परोक्षज्ञानादज्ञाननिवृत्तौ विपरीतपरिमाणविक्षेपो न सम्भवतीति वाच्यम्। वाच्स्पतिमते सर्वस्य प्रपञ्चस्य जीवाश्रिताज्ञानविषयीकृतब्रह्मविवर्तत्वेन तद्वच्छुक्तिरजतादेः पुरुषाश्रिताज्ञानविषयीकृतब्रह्मविवर्तत्वोपपत्तेः। परोक्षवृत्त्या एकावस्थानिवृत्तावपि अवस्थान्तरेण विपरीतपरिमाणविक्षेपोपपत्तेश्चेत्याहुः।
अपरे तु-शुक्तिरजतादिपरिणामोपपत्त्याञ्जस्याद्विषयावगुण्ठनपटवद्विषयगतमेवाज्ञानं तदावरणम्। न च तथा सति अज्ञानस्य स्क्ष्यसंसर्गेण(1) {(1)अन्तःकरणोपहितसाक्ष्येति पाठः।} ततः प्रकाशानुपपत्तिः, परोक्षवृत्तिनिवर्त्यत्वासम्भवश्चि दोष इति वाच्यम्। अवस्थारूपाज्ञानस्य साक्ष्यसंसर्गेऽपि तत्संसृष्टमूलाज्ञानस्यैव `शुक्तिमहं न जानामि' इति प्रकाशोपपत्तेः। शुक्त्यादेरपि मूलाज्ञानविवयचैतन्याभिन्नतया यद्विषयत्वानुभवाविरोधात्।
विवरणादिषु मीलाज्ञानसाधनप्रसङ्गे एव `इदमहं न जानामि' इति प्रत्यक्षप्रमाणोपदर्शनाच्च `अहमज्ञः' इति सामान्यतोऽज्ञानानुभव एव मीलाज्ञानविषयः। `शुक्तिमहं न जानामि' इत्यादिविषयविशेषालिङ्गिताज्ञानानुभरवस्त्ववस्थाऽज्ञानविषय इति विशेषाभ्युपगमेऽप्यवस्थाऽवस्थावतोरभेदेन मूलाज्ञानस्य साक्षिसंसर्गाद्वा साक्षिविषयचैतन्ययोः वास्तवैक्याद्वा विषयगतस्याप्यवस्थाऽज्ञानस्य साक्षिविषयत्वोपपत्तेः। परोक्षज्ञानस्याज्ञानानिवर्तकत्वेऽपि ततस्तन्निवृत्त्यनुभवस्य सत्तानिश्चयरूपपरोक्षवृत्तिप्रतिबन्धकप्परयुक्ताननुभवनिबन्धनभ्रान्तित्वोपपत्तेः अपरोक्षज्ञानस्यैवाज्ञानानिवर्तकत्वनियमाभ्युपगमादित्याहुः।।
ननु नायमपि नियमः। अविद्याऽहङ्कारसुखदुःखादितद्धर्मप्रत्यक्षस्याज्ञाननिवर्तकत्वानभ्युपगमादिति चेत्, न। अविद्यादिप्रत्यक्षस्य साक्षिरूपत्वेन वृत्तिरूपापरोक्षज्ञानस्यावरणनिवर्तकत्वनियमानपायात्।।13।।
अत्रोक्तं कूटस्थदीपे-देहद्वयाधिष्ठानभूतं कूटस्थचैतन्यं स्वावच्छेदकस्य देहद्वयस्य साक्षादीक्षणान्निर्विकारत्वाच्च साक्षीत्युच्यते। लोकेऽपि ह्यौदासीन्यबोधाभ्यामेव साक्षित्वं प्रसिद्धम्। यद्यपि जीवस्य वृत्त्यः सन्ति देहद्वयभासिकाः, तथाऽपि सर्वतः प्रसृतेन स्वावच्छिन्नेन कूटस्थचैतन्येन ईषत् सदा भास्यमेव देहद्वयं जीवचैतन्यस्वरूपप्रतिबिम्बगर्भादन्तःकरणाद्विच्छिद्य विच्छिद्योद्गच्छद्भिर्वृत्तिज्ञानेर्भास्यते। अन्तरालकाले तु सह वृत्त्यभावैः कूटस्थचैतन्येनैव भास्यते। अत एवाहंकारादीनां सर्वदा प्रकाशसंसर्गात्संशयाद्यगोचरत्वम्। अन्यज्ञानधाराकालीनाहंकारस्य `एतावन्तं कालमिदमहं पश्यन्नेवासम्' इत्यनुसन्धानं च। न च कूटस्थप्रकाशिते कथं जीवस्य व्यवहारस्मृत्यादिकमिति सङ्क्यम्। अन्योऽन्याध्यासेन जीवैकत्वापत्त्या कूटस्थस्य जीवान्तरङ्गत्वात्। न च जीवचैतन्यमेव साक्षी भवतु, किं कूटस्थेनेति वाच्यम्। लौकिकवैदिकव्यवहारकर्तुस्तस्योदासीनद्रष्ट्टत्वासम्भवेन "साक्षी चेता केवलो निर्गुणश्च" इति श्रुत्युक्तसाक्षित्वायोगात्। "तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति" इति कर्मफलभोक्तुर्जीवादुदासीनप्रकाशारूपस्य साक्षिणः पृथगाम्नानाच्चेति।।
नाटकदीपेऽपि नृत्यशालास्थदीपदृष्टान्तेन साक्षी जीवाद्विविच्य दर्शितः तथाहि-
नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम्।।
दीपयेदाविशेषेण तदभावेऽपि दीप्यते।।11।।
तथा चिदाभासविशिष्टाहंकाररूपं जीवं विषयभोगसाकल्यवैकल्याभिमानप्रयुक्तहर्षविषादवत्त्वात् नृत्याभिमानिप्रभुतुल्यम्, तत्परिसरवर्तित्वेऽपि तद्राहित्यात् सभ्यपुरुषतुल्यान् विषयान्, नानाविधविकारवर्त्तित्वान्नर्तकीतुल्यां धियं च दीपयन् सुषुप्त्यादावहंकाराद्यभावेऽपि दीप्यमानः चिदाभासविशिष्टाहंकाररूपजीवभ्रमाधिष्ठानकूटस्थचैतन्यात्मा साक्षीति। एवं जीवाद्विवेचितोऽयं साक्षी न ब्रह्मकोटिरपि, किं तु, अस्पृष्टजीवेश्वरविभागं चैतन्यमित्युक्तं कूटस्थदीपे।।
तत्त्वप्रदीपिकायामपि मायाशबलिते सगुणे परमेश्वरे "केवलो निर्गुणः" इति विशेषणानुपपत्तेः सर्वप्रत्यग्भूतं विशुद्धं ब्रह्म जीवाभेदेन साक्षीति प्रतिपद्यते इत्युदितम्(1){(1)विदितमिति पाठः।}।।
कौमुद्यां तु-
एको देवः सर्वभूतेषु गूढः सर्वव्यापी सर्वभूतान्तरात्मा।।
कर्माध्यक्षः सर्वभूताधिवासः साक्षरी चेता केवलो निर्गुणश्च।। इति देवत्वादिश्रुतेः परमेश्वरस्यैव रूपभेदः कश्चिज्जीवप्रवृत्तिनिवृत्त्योरनुमन्ता स्वयमुदासीनः साक्षी नाम। स च कारणत्वादिधर्मानास्पदत्वाद् अपरोक्षो जीवगतमज्ञानाद्यवभासयंश्च जीवस्यान्तरङ्गः। सुषुप्त्यादौ च कार्यकारणोपरमे जीवगताज्ञानमात्रस्य व्यञ्जकः प्राज्ञशब्दितः।
"तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो न बाह्यं किंचन वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना सम्परिष्वक्तो न बाह्यं किंचन वेद नान्तरम्" "प्राज्ञेनात्मनाऽन्वारूढ उत्सर्जन्याति" इति श्रुतिवाक्याभ्यां सुषुप्त्युत्क्रान्त्यवस्थयोर्जीवभेदेन प्रतिपादितः परमेश्वर इति सुषुप्त्युत्क्रान्त्यधिकरण-(उo मीo अo 1 पाo 3 अधिo 14 सूo 42)निर्णयोऽपि साक्षिपर इत्युपवर्णितम्।।
तत्त्वशुद्धावपि यथा `इदं रजतम्' इति भ्रमस्थले वस्तुतः शुक्तिकोट्यन्तर्गतोऽपीदमंशः प्रतिभासतो रजतकोटिः, तथा ब्रह्मकोटिरेव साक्षी प्रतिभासतो जीवकोटिरिति जीवस्य सुखादिव्यवहारे तस्योपयोग इत्युक्त्वाऽयमेव पक्षःसमर्थितः।।
केचित्तु-अविद्योपाधिको जीव एव साक्षाद् द्वष्ट्टत्वात्साक्षी। लोकेऽपि ह्यकर्तृत्वे सति द्रष्ट्टत्वं साक्षित्वं प्रसिद्धम्। तच्चासङ्गोदासीनप्रकाशरूपे जीवे एव साक्षात् सम्भवति जीवस्यान्तःकरणतादात्म्यापत्त्या कर्तृत्वद्यारोपभाक्त्वेऽपि स्वयमुदासनित्वात्। "एको देवः" इति मन्त्रस्तु ब्रह्मणो जीवभावाभिप्रायेण साक्षित्व प्रतिपादकः। "द्वा सुपर्णा" इति मन्त्रः गुहाधिकरणन्यायेन (उo मीo अo 1पाo 2 अधिo 3 सूo11) जीवेश्वरोभयपरः, गुहाधिकरणभाष्योदाहृतपैङ्गिरहस्यब्रह्माणव्याख्यातेन प्रकारेण जीवान्तःकरणोभयपरो वेति न कश्चिद्विरोध इत्याहुः।।
अन्ये तु-सत्यं जीव एव साक्षी, न तु सर्वगतेनाविद्योपहितेन रूपेण। पुरुषान्तरान्तःकरणादीनामपि पुरुषान्तरं प्रतिस्वान्तःकरण भासकसाक्षिसंसर्गाविशेषेण प्रत्यक्षत्वापत्तेः। न चान्तःकरणभेदेन प्रमातृभेदात्तदनापत्तिः। साक्षिभास्येऽन्तःकरणादौ सर्वत्र साक्ष्यभेदे सति प्रमातृभेदस्याप्रयोजकत्वात्। तस्मादन्तःकरणोपधानेन जीवः साक्षी। तथा च प्रतिपुरुषं साक्षिभेदात् पुरुषान्तरान्तःकरणादेः पुरुषान्तरसाक्ष्यसंसर्गाद्वा तदयोग्यत्वाद्वा अप्रकाश उपपद्यते। सुषुप्तवपि सूक्ष्मरूपेणान्तःकरणसद्भावात् तदुपहितः साक्षी तदाऽप्यस्त्येव। न चान्तःकरणोपहितस्य प्रमातृत्वेन न तस्य साक्षित्वं, सुषुप्तौ प्रमात्रभावेऽपि साक्षिसत्त्वेन तयोर्भेदश्चावश्यं वक्तव्य इति वाच्यम्।
विशेषणोपाध्योर्भेदस्य सिद्धान्तसम्मतत्वेनान्तःकरणविशिष्टः प्रमाता, तदुपहितः साक्षीति भेदोपपत्तेरित्याहुः।।14।।
(15) ननूक्तरूपस्य साक्षिणः चैतन्यमात्रावरकेणाज्ञानेनावरणमवर्जनीयमिति कथमावृतेनाविद्याहङ्गारादिभानमिति चेत्।
वस्तुतोऽविद्याऽन्तःकरणतद्धर्मावभासकं साक्षिचैतन्यं विहायैवाज्ञानं चातन्यमावृणोतीत्यनुभवानुसारेण कल्पनान्न कश्चिद्दोषः। अत एव सर्वदा तेषामनावृतप्रकाशसंसर्गात् अज्ञानविपरीतज्ञानसंशयागोचरत्वम्।
साक्षिचैतन्यस्यानावृतत्वे तत्स्वरूपभूतस्यानन्दस्यापि प्रकाशापत्तिरिति चेत्, न। इष्टापत्तेः। आनन्दरूपप्रकाशप्रयुक्तस्यात्गनि निरुपाधिकप्रेम्णो दर्शनात्। `भासत एव परमप्रेमास्पदत्वलक्षणं सुखम्' इति विवरणाच्च।।15।।
(16)स्यादेतत्-इदानीमप्यानन्दप्रकाशे मुक्तिसंसारयोरविशेषप्रसङ्गः।
ननु कल्पितभेदस्य साक्ष्यानन्दस्य प्रकाशेऽपि अनवच्छिन्नस्य ब्रह्मानन्दस्यावृतस्य संसारदशायामप्रकाशेन विशेषोऽस्तीति चेत्, न। आनन्देऽनवच्छेदांशस्यापुरुषार्थत्वादानन्दापरोक्षमात्रस्य चेदानीमपि सत्त्वात्। नन्ववच्छिन्नस्साक्षर्यानन्दस्सातिशयः। सुषुप्तिसाधारणादनतिस्पष्टात् ततो वैषायिकानन्देष्वतिशयानुमवात्। अनवच्छिन्नो ब्रह्मानन्दस्तु निरतिशयः।
आनन्दवल्ल्यां मानुषानन्दाद्युत्तरोत्तरशतगुणोत्कर्षोपवर्णनस्य ब्रह्मानन्दे समापनादिति चेत्, न। सिद्धान्ते साक्ष्यानन्दविषयानन्दिब्रह्मानन्दानां वस्तुत एकत्वेनोत्कर्षापकर्षासभ्भवात्। मानुषानन्दादीनामुत्तरोत्तरमुत्कर्षं श्रुतिर्वदतीति चेत्?। को वा ब्रूते श्रुतिर्न वदतीति! किं तु अद्वैतवादे तदुपपादनमशक्यमित्युच्यते।
नन्वेकस्यैव सौरालोकस्य करतलस्फटिकदर्पणाद्यभिव्यञ्जकविशेषोपधानेनाभिव्यक्तितारतम्यदर्शनात् एकत्वेऽप्यानन्द0स्याभिव्यञ्जकसुखवृत्तिभेदोपधानेनाभिव्यक्तितारतम्यरूपमुत्कर्षापकर्षवत्त्वं युक्तमिति चेत्, न। दृष्टान्तासम्प्रतिपत्तेः। सर्वतः प्रसृमरस्य सौरालोकस्य गगने विना करतलादिसम्बन्धमस्पष्टं प्रकाशमानस्य निम्नतले प्रसृमरस्य जलस्येव करतलसम्बन्धेन गतिप्रतिहतौ बहुलीभावादधिकप्रकाशः, भास्वरदर्पणादिसम्बुन्धेन गतिप्रतिहतौ बहुलीभावात्तदीयदीप्तिसंवलनाच्च ततोऽप्यधिकप्रकाश इति तत्राभिव्यञ्जकोपाधिकाभिव्यक्तितारतम्यानभ्युपगमात्। दृष्टान्तसम्प्रतिपत्तौ च गगनप्रसृतसौरालोकवत् अनवच्छिन्नानन्दस्यास्पष्टता, करतलाद्यवच्छिन्नसौरालोकवत् सुखवृत्त्यवच्छिन्नानन्दस्याधिकाभिव्यक्तिरिति मुक्तितः संसारस्यैवाभ्यर्हितत्वापत्तेश्च। एतेन `संसारदशायां प्रकाशमानोऽप्यानन्दो मिथ्याज्ञानतत्संस्कारविक्षिप्ततया तीव्रवायुविक्षिप्तप्रदीपप्रभावदस्पष्टं प्रकाशते, मुक्तौ तदभावात् यथावदवभासते' इत्यपि निरस्तम्। निर्विशेषस्वरूपानन्दे प्रकाशमाने तत्र विक्षेपदोषादप्रकाशमानस्य मुक्त्यन्वयिनोऽतिशयस्यासम्भवात्। तस्मात् साक्ष्यानन्दस्यानावृतत्वकल्पनमयुक्तम्।
अत्राहुरद्वैतविद्याचार्याः-यथाऽत्युत्कृष्टस्यैकस्यैव धवलरूपस्य मालिन्यतारतम्ययुक्तष्वनेकेषु दर्पणेषु प्रतिबिम्बे सत्युपाधिमालिन्यतारतम्यात्तत्र तत्र प्रतिबिम्बे धावल्यापकर्षस्तारतम्येनाध्यस्यते, एवं वस्तुतो निरतिशयस्यैकस्यैव स्वरूपानन्दस्यान्तःकरणप्रतिबिम्बिततया साक्ष्यानन्दभावे प्राक्तनसुकृतसंपत्त्यधीनविषयविशेषसंपर्कप्रयुक्तसत्त्वोत्कर्षापकर्षरूपशुद्धितारतम्ययुक्तसुखरूपान्तःकरणवृत्तिप्रतिबिम्बिततया विषयानन्दभावे च तमोगुणरूपोपाधिमालिन्यतारतम्यदोषादपकर्षस्तारतम्येनाध्यस्यते इति संसारदशायां प्रकाशमानेऽप्यानन्दे आध्यस्तापकर्षतारतम्येन सातिशयत्त्रादतृप्तिः। विद्योदयो निखिलापकर्षाध्यासनिवृत्तेरारोपितसाविशयत्वापायात् कृतकृत्यतेति विशेषोपपत्तेः निरुपाधिकप्रेमगोचरतया प्रकाशमानस्साक्ष्यानन्दोऽनावृत एवेति।।
अन्ये तु-प्रकाशमानोऽप्यानन्दो `मयि नास्ति,न प्रकाशते' इत्यावरणानुभवात् आवृत एव। एकस्मिन्नपि साक्षिण्यविद्याकल्पितरूपभेदसम्भवेन चैतन्यरूपेणानावरणस्यानन्दरूपेणावरणस्य चाविरोधात्। स्वरूपप्रकाशस्यावरणनिवर्तकतया प्रकाशमाने आवरणस्याविरोधाच्च। `त्वदुक्तमर्थं न जानामि' इति प्रकाशमाने एवावरणदर्शनाच्च। न च तत्रानावृतसामान्याकारावच्छेदेन विशेषावरणमेवानुभूयते इति वाच्यम्। अन्यावारणस्यान्यावच्छेदेन भानेऽतिप्रशङ्गात्। न च सामान्यविशेषभावो नियामक इति नातिप्रसङ्ग इति वाच्यम्। व्याप्यव्यापकभावातिरिक्तसामान्यविशेषभावाभावेन `वाह्निं न जानामि' इति धूमावरकाज्ञानानुभवप्रसङ्गात्। तस्माद्यदवच्छिन्नमज्ञानं प्रकाशते, तदेवावृतमिति प्रकाशमानेऽप्यज्ञानं युज्यते। अज्ञानं च यथा साक्ष्यंशं विहाय चैतन्यमावृणोति, एवमानन्दमपि तत्तत्सुखरूपवृत्तिकवलीकृतं विहायैवावृणोति। स एव वैषयिकानन्दस्यावरणाभिभवः। स चावरणाभिभवः प्रत्यूषसमये बाह्यावरणाभिभववत् कारणविशेषप्रयुक्तवृत्तिविशेषवशात्तरतमभावेन भवति। अतः स्वरूपानन्दविषयानन्दयोः विषयानन्दानां च परस्परभेदसिद्धिरिति वदन्ति। सर्वथाऽपि साक्षिचैतन्यस्यानावृतत्वेनावरणाभिभवार्थं वृत्तिमनपेक्ष्यैव तेनाहंकारादिप्रकाशनमिति तुल्यमेव।।16।।
(17)नन्वेवं कथमहङ्कारादीनामनुसन्धानम्। ज्ञानसूक्ष्मावस्थारूपस्य संस्कारस्य ज्ञाने सत्ययोगेन नित्येन साक्षिणा तदाधानासम्भवात्।।
अत्रे केचिदाहुः-स्वसंसृष्टेन साक्षिणा सदा भास्यमानोऽहंकारस्तत्तद्घटादिविषयवृत्त्याकारपरिणतस्वावच्छिन्नेनापि साक्षिणा भास्यते इति तस्यानित्यत्वात् सम्भवति संस्काराधानं घटादौ विषये इव। न हि स्वाकारवृत्त्यवच्छिन्नसाक्षिणैव स्वगोचरसंस्काराधानमिति नियमोऽस्ति। तथा सति वृत्तिगोचरसंस्कारासम्भवेन वृत्तेरस्मरणप्रसङ्गात्। अनवस्थाऽऽपत्त्या वृत्तिगोचरवृत्त्यन्तरस्यानुव्यवसायनिरसनेन निरस्तत्वात्। किं तु वद्वृत्त्यवच्छिन्नचैतन्येन यत् प्रकाशते, तद्वृत्त्या तद्गोचरसंस्काराधानमित्येव नियमः। एवं च ज्ञानसुखादयोऽप्यन्तः-करणवृत्तयः तप्तायःपिण्डाद् व्युच्चरन्तो विस्फुलिङ्गा इव स्वावच्छिन्नेन वह्निनेव स्वस्वावच्छिन्नेनानित्येन साक्षिणा भास्यन्ते इति युक्तं तेष्वपि संस्काराधानम्। यस्तु-
घटैकाकारधीस्था चिद् घटमेवावभासयेत्।।
घटस्य ज्ञातता ब्रह्मचैतन्येनावभासते।।4।।
इति कूटस्थदीपोक्तो विषयविशषणस्य ज्ञानस्य विषयावच्छिन्नब्रह्मचैतन्यावभास्यत्वपक्षः, पश्च तत्त्वप्रदीपिकोक्तो ज्ञानेच्छादीनामनवच्छिन्नशुद्धचैतन्यरूपनित्यसाक्षिभास्यत्वपक्षः, तयेरपि चैतन्यस्य स्वसंसृष्टापरोक्षरूपत्वाद् वृत्तिसंसर्गोऽवश्यं वाच्य इति तत्संसृष्टानित्यरूपसद्भावान्न तेषु संस्काराधाने काचिदनुपपत्तिरिति।।
अन्ये तु सुषुप्तावप्यविद्याद्यनुसन्धानसिद्धये कल्पितामविद्यावृत्तिमहमाकारामङ्कीकृत्याहमर्थे संस्कारमुपपादयन्ति।
न चास्मिन् पक्षे `एतावन्तं कालमिदमहं पश्यन्नेवासम्' इति अन्यज्ञानधाराकालीनाहमर्थानुसन्धानानुपपत्तिः। अवच्छेदकभेदेन सुखदुःखयौगपद्यवद् वृत्तिद्वययौगपद्यस्याप्यविरोधेनान्यज्ञानधाराकालेऽपि अहमाकाराविद्यावृत्तिसन्तानसम्भवादिति।।
अपरे तु-अहमाकारा वृत्तिरन्तःकरणवृत्तिरेव। किन्तु उपासनादिवृत्तिवन्न ज्ञानम्, क्लृप्ततत्कारणाजन्यत्वात्। न हि तत्र चक्षुरादिप्रत्यक्षलक्षणं सम्भवति, न वा लिङागदिकम्। लिङ्गादिप्रतिसन्धानशून्यस्याप्यहंकारानुसन्धानदर्शनात्। नापि मनः करणम्। तस्योपादानभूतस्य क्वचिदवपि करणत्वाक्लृप्तेः। तर्हि अहमर्थप्रत्यभिज्ञाऽपि ज्ञानं न स्यादिति चेत्, न। तस्या हमंशे ज्ञानत्वाभावेऽपि तत्तांशे स्मृतिकरणत्वेन क्लृप्तसंस्कारजन्यतया ज्ञानत्वात्। अशंभेदेन ज्ञाने परोक्षत्वापरोक्षत्ववत् प्रमात्वाप्रमात्ववच्च ज्ञानत्वा ज्ञानत्वयोरपि अविरोधादित्याहुः।।
इतरे तु-अहमाक्राराऽपि वृत्तिर्ज्ञानमेव। `मामहं जानामि' इत्यनुभवात्। नच करणासम्भवः। अनुभवानुसारेण मनस एवान्तरिन्द्रियस्य करणत्वस्यापि कल्पनादित्याहुः।।17।।
(18)एवं सति बाह्यविषया(1){(1)बाह्यगोचरेति पाठः।}परोक्षवृत्तीनामेवावरणाभिभावकत्वनियमः पर्यवसन्नः।
ननु नायमपि नियमः, शुक्तिरजनस्थले इदमाकारवृत्तेरज्ञानानभिभावकत्वात्। अन्यथोपादानाभावेन रजतोत्पत्त्ययोगादिति चेत,
अत्राहुः-इदमाकारवृत्त्या इदमंशाज्ञाननिवृत्तावपि शुक्तित्वादिविशेषाशाज्ञाननिवृत्तेः तदेव रजतोपादानम्, शुक्तित्वाद्यज्ञाने रजताध्यासस्य तद्भाने(2){(2)तज्ज्ञान इति पाठः।} तदभावस्यानुभूयमानत्वात्। अध्यासभाष्यटीकाविवरणे अनुभूयमानान्वयव्यतिरेकस्यैवाज्ञानस्य रजताद्यध्यासोपादानत्वोक्तेः।
अत एव शुक्त्यंशोऽधिष्ठानम्, इदमंश आधारः। सविलासाज्ञानविषयोऽधिष्ठानम्, अतद्रूपोऽपि तद्रूपेणारोप्यबुद्धौ स्फुरन्नाधार इति संक्षेपशारीरकेऽपि विवेचनादिति।।
अपरे तु-`इदं रजतम्' इति इदमंशसम्भिन्नेत्वेन प्रतीयमानस्य रजतस्य इदमंशाज्ञानमेवोपादानम्। तस्य चेदमाकारवृत्त्या आवरणशक्तिमात्रनिवृत्तावपि विक्षेपशक्त्या मह तदनुवृत्तेः नोपादानत्वासम्भवः। जलप्रतिबिम्बितवृक्षाधोऽग्रत्वाध्यासे जीवन्मुक्त्यनुवृत्ते(1){(1)जीवन्मुक्त्याऽनुवृत्तप्रपञ्चेति पाठः।} प्रपञ्चाध्यासे च सर्वात्मना अधिष्ठानसाक्षात्कारानन्तरभाविन्यामावरणनिवृत्तावपि विक्षेपशक्तिकहिताज्ञानमात्रस्योपादानत्वसम्प्रतिपत्तेरित्याहुः।।
कवितार्किकचक्रवर्तिनृसिंहभट्टोपाध्यायास्तु-`इदं रजतम्' इति भ्रमरूपवृत्तिव्यतिरेकेण रजतोत्पत्तेः प्रागिदमाकारा वृत्तिरेव नास्तीति तस्या अज्ञाननिवर्तकत्वसदसकद्भावविचारं निरालम्बनं मन्यन्ते।
तथाहि-न तावत् भ्रमरूपवृत्तिव्यतिरेकेण इदमाकारा वृत्तिरनुभवसिद्धा। नाप्यधिष्ठानसामान्यज्ञानमध्यासकारणमिति कार्यक्ल्प्या। तस्यास्तत्कारणत्वे मानाभावात्। न चाधिष्ठानसम्प्रयोगाभावे रजताद्यनुत्पात्तिस्तत्र मानम्। ततो दुष्टेन्द्रियसम्प्रयोगस्यैवाध्यासकारणत्वप्रप्तेः। न च सम्प्रयोगो न सर्वत्र भ्रमव्यापी, अधिष्ठानस्फुरणं तु स्वतःप्रकाशमाने प्रत्यगात्मनि महङ्काराध्यासमपि व्याप्नोतीति वाच्यम्। तस्यापि घटाद्यध्यासाव्यापित्वात्। घटादिप्रत्यक्षात् प्राक् तदधिष्ठानभूतनीरूपब्रह्मात्रगोचरचाक्षुषवृत्तेरसम्भवात्। स्वरूपप्रकाशस्यावृतत्वात्। आवृतानावृतसाधारण्येनाधिष्ठानप्रकाशमात्रस्याध्यासाकारणत्वे शुक्तीदमंशसम्प्रयोगात् प्रागपि तदवच्छिन्नचैतन्यरूपप्रकाशस्यावृतस्य सद्भावेन तदाऽप्यध्यासापत्तेः। न चाध्याससामान्ये अधिष्ठानप्रकाशसामान्यं हेतुः, प्रातिभासिकाध्यासेऽभिव्यक्ताधिष्ठानप्रकाश इति नातिप्रसङ्गः,सामान्ये सामान्यस्य विशेषे विशेषस्य हेतुत्वौचित्यादिति वाच्यम्। एवमपि प्रातिभासिकशङ्खपीतिमकूपजलनैल्याद्यध्यासाव्यापनात्। रूपानुपहित चाक्षुषप्रत्ययायोगेन तदानीं शङ्खादिगतशौक्ल्योपलम्भाभावेन चाध्यासात्प्राक् शङ्खादिनीरूपाधिष्ठानगोचरवृत्त्यसम्भवात्।
न च प्रातिभासिकेष्वपि रजताद्यध्यासमात्रे निरुक्तो विशेषहेतुरास्तामिति वाच्यम्। तथा सति सम्प्रयोगात् प्राक् पीतशङ्खाद्यध्यासाप्रसङ्गाय तदध्यासे दुष्टेन्द्रियसम्प्रयोगः कारणमित्यवश्यं वक्तव्यतया तस्यैव सामान्यतः प्रातिभासिकाध्यासमात्रे लाघवात् कारणत्वसिद्धौ, तत एव रजताध्यासकादाचित्कत्वस्यापि निर्वाहादधिष्ठानप्रकाशस्य सामान्यतो विशेषतो वाऽध्यासकारणत्वस्यासिद्धेः।
ननु सादृश्यनिरपेक्षे अध्यासान्तरे अकारणत्वेऽपि तत्सापेक्षे रजताद्यध्यासे रजतादिसादृश्यभूतरूपविशेषादिविशेष्टधर्मिज्ञानरूपमधिष्टानसामान्यज्ञानं कारणमवश्यं वाच्यम्। दुष्टेन्द्रियसम्प्रयोगमात्रस्य कारणत्वे शुक्तिवदिङ्गालेऽपि तद्जताध्यासप्रसङ्गात्।
न च सादृश्यमपि विषयदोषत्वेन कालणमिति वाच्यम्। विसदृशेऽपि सादृश्यभ्रमे सत्यध्याससद्भावात् जलधिसलिलपूरे दूरे नीलशिलातलत्वारोप(1){(1)नीलशिलारोपेति पाठः।} दर्शनात्। न च `तद्धेतोरेव' इति न्यायात् सादृश्यज्ञानसामग्न्येवाध्यासकारणमस्त्विति युक्तम्। ज्ञानसामग्प्या आर्थकारणत्वस्य क्वचिदप्यदृष्टेः। ततस्सादृश्यज्ञानत्वस्यैव लघुत्वाच्च।
न च स्वतश्शुभ्रेऽपि शुभ्रकलधौतभृङ्गारगतेऽपि स्वच्छे जले एव नैल्याध्यासः, न मुक्ताफले इति व्यवस्थावत् वस्तुस्वभावादेव शुक्तौ रजताध्यासः नेङ्गालादाविति व्यवस्था, न तु सादृश्यज्ञानापेक्षणादिति वाच्यम्। स्वतः पटखण्डे पुण्डरीकमुकुलत्वानध्यासेऽपि तत्रैव कर्तनादिघटिततदाकारे तदध्यासदर्शनेन तदध्यासस्य वस्तुस्वभावमनुनुरुध्य सादृश्यज्ञानभावाभावानुरोधित्वनिश्चयात्। अन्यथाऽन्यदाऽपि तत्र तदध्यासप्रसङ्गात्।
उच्यते-सादृश्यज्ञानस्याध्यासकारणत्ववादेऽपि विशेषदर्शनप्रतिबध्येषु रजताद्यध्यासेष्वेव तस्य कारणत्वं वाच्यम्। न तु तदप्रतिबध्येषु पीतशङ्खाद्यध्यासेषु, असम्भवात्। विशेषदर्शनप्रतिबध्येषु च प्रतिबन्धकज्ञानसामग्त्याः प्रतिबन्धकत्वनियमेन विशेषदर्शनसामग्त्यप्यवश्यं प्रतिबन्धिका वाच्येति तत एव सर्वव्यवस्थोपपत्तेः किं सादृश्यज्ञानस्य कारणत्वकल्पनया।
तथाहि-इङ्गालादौ चक्षुःसम्प्रत्युक्ते तदीयनैल्यादिरूपविशेषदर्शनसामग्रीसत्त्वान्न रजताध्यासः। शुक्त्यादावपि नीलभागदिव्यापिचक्षुःसम्प्रयोगे तत्सत्त्वान्न तदध्यासः। सदृशभागमात्रसम्प्रयोगे तदभावादध्यासः। तदाऽपि शुक्तित्वरूपविशेषदर्शनसामग्रीसत्त्वादनध्यासप्रसङ्ग इति चेत्, नि। अध्याससमये शुक्तित्वदर्शनाभावेन तत्पूर्वं तत्सामग्त्यभावस्य त्वयाऽपि वाच्यत्वात्।
मम सादृश्यज्ञानरूपाध्यासकारणदोषेण प्रतिबन्धात् तदा शुक्तित्वदर्शनसामग्त्यभावाभ्युपगमः। तव तथाऽरभ्युपगमे तु घट्टकुटीप्रभातवृत्तान्त(1){(1)यथा घट्टकुटीस्थेभ्यः करग्राहिभ्यो भीत्या रात्रौ पलायितानां चणिजां दूरे गत्वाऽपि यथा भ्रान्तिवशात् घट्टकुट्यामेव प्रभातोदय इति लोके प्रसिद्धम्, तथा प्रकृतेऽपि सादृश्यज्ञानस्य कारणत्वमनितच्छतोऽपि तवापतितम्।} इति चेद्, न। सकमीपोपसर्पणानन्तरं रजतसादृश्यरूपे चाकचिक्ये दृश्यमाने एव शुक्तित्वोपलम्भेन तस्य तत्सामग्रीप्रतिबन्धकत्वासिद्धौ दूरत्वादिदोषेण प्रतिबन्धाद्वा व्यञ्जकनीलपृष्ठत्वादिग्राहकासमवधानाद्वा तत्सामग्त्यभावस्य वक्तव्यत्वात्।
एवं जलधिजले नियतनीलरूपाध्यासप्रयोजकदोषेण दूरे नीरत्वव्यञ्जकतरङ्गादिग्राहकासमवधानेन च शौक्ल्यजलराशित्वादिविशेषदर्शनसामग्त्यभावाच्छिला(1){(1)नीलशिलेति पाठः।}तलत्वाद्यध्यासः। विस्तृते पटे परिणाहरूपविशेषदर्शनसामग्रीसत्त्वाद् न पुण्डरीकमुकुलत्वाध्यासः। कर्तनादिघटिततदाकारे तदभावात्तदध्यास इति।
नन्वेवं करस्पृष्टे लोहशकले तदीयनीलरूपविशेषदर्शनसामग्त्यभावात् रजताध्यासः किं न भवेत् सादृश्यज्ञानानपेक्षणादिति चेद्। भवत्येव। किं तु ताम्रादिव्यावर्तकविशेषदर्शनसामग्त्यभावात् तदध्यासेनापरि भाव्यमिति क्वचिदनेकाध्यासे संशयगोचरो भवति। क्वचित्तु रजतप्राये कोशगृहादौ रजताध्यास एव भवति। क्वचित् सत्यपि सादृश्यज्ञाने शुक्तिकादौ कदाचित् करणदोषाद्यभावेनाध्यासानुदयवदध्यासानुदयेऽपि न हानिः।
तस्मान्न कार्यकल्प्या इदमाकारवृत्तिः। नाप्यप्रतिबद्धेदमर्थसम्प्रयोगकारणकल्प्या। ततो भवन्त्या एवेदंवृत्तेर्दुष्टेन्द्रियसम्प्रयोगक्षुभिताविद्यापरिणामभृतस्वसमानकालरजतविषयत्वस्यास्माभिरुच्यमानत्वात्। तत्र च ज्ञानसमानकालोत्पत्तिके प्रतिभासमात्रविपरिवर्तिनि रजते तत्प्राचीनसम्प्रयोगाभावेऽपि तत्तादात्म्याश्रयेदमर्थसम्प्रयोगादेव तस्यापि चक्षुर्ग्राह्यत्वोपपत्तेः। `चक्षुषा रजतं पश्यामि' इति प्रातिभासिकरजतस्य स्वसम्प्रयोगाभावेऽपि चाक्षुषत्वानुवात्।
न च चस्वसम्प्रयोगाभावादेव बाधकान्न तच्चाक्षुषम्नापि दुष्टेन्द्रियसम्प्रयोगजन्यम् इदंवृत्तिसमकालम्, ज्ञानकारणस्येन्द्रियसम्प्रयोगस्यार्थकारणत्वाक्लृप्तेः। किंत्विदंवृत्त्यनन्तरभावि तज्जन्यं तदभिव्यक्ते साक्षिण्यध्यासात् तद्भास्यम्। चाक्षुषत्वानुभवस्तु स्वभासकचैतन्यभिव्यञ्जकेदंवृत्तिजनकत्वेन परम्परया चक्षुरपेक्षामात्रेणेति वाच्यम्। तथासति पीतशङ्खभ्रमे चक्षुरनपेक्षाप्रसङ्गात्। न हि तत्र शङ्खग्रहणे चक्षुरपेक्षा। रूपं विना केवलशङ्खस्य चक्षुर्ग्राह्यत्वायोगात्। नापि पीतिमग्रहणे, आरोप्ये (1)ऐन्द्रियकत्वानभ्युपगमात्{(1)आरोप्यस्येति पाठः।}।
नचपीतिमा स्वरूपतो नाध्यस्यते, किं तु नयनगतपित्तपीतिम्नोऽनुभूयमानस्य शह्खसंसर्गमात्रमध्यस्यत इति पीतिमाऽनुभवार्थमेव चक्षुरपेक्षेति वाच्यम्। तथा सति शङ्खतत्संसर्गयोरप्रत्यक्षत्वप्रसङ्गात्। नचनप्रदेशगतपित्तपीतिमाऽऽकारवृत्त्यभिव्यक्तसाक्ष्यसंसर्गेण तयोस्तध्भास्यत्वाभावात्। पीतिमसंसृष्टशङ्खगोचरैकवृत्त्यनभ्युपगमाच्च।
नच नयनप्रदेशस्थितस्य पित्तपीतिम्नो दोषाच्छङ्खे संसर्गाध्यासो नोपेयते, किं तु नयनरश्मिभिः सह निर्गतस्य विषयव्यापिनस्तस्य तत्र संसर्गाध्यासः। कुसुम्भारुणित(1){(1)कुसुम्भारुणिम्न इति पाठः।] इव कौसुम्भ इति सम्भवति तदाकारवृत्त्यभिव्यक्तसाक्षिसंसर्ग इति वाच्यम्। तथासति सुवर्णलिप्त इव पित्तोपहतनयनेन वीक्ष्यमाणे शङ्खे तदितरेषामपि पीतिमधीप्रसङ्गात्।
न च स पीतिमा समीपे गृहीत एव दूरे ग्रहीतुं शक्यः। विहायसि उपर्युत्पतन्विहङ्गम इव इतरेषां च समीपे न ग्रहणमिति वाच्यम्। इतरेषामपि तच्चक्षुर्निकटन्यस्तचक्षुषां पीतिमसामीप्यसत्त्वेन तद्ग्रहणस्य दुर्वारत्वात्। एवमप्यतिधवलसिकतामयतलप्रवहदच्छनदीजले नैल्याध्यासे गगननैल्याध्यासे च रक्तवस्त्रेषु निशि चन्द्रिकायां नैल्याध्यासे चानुभूयमानारोपस्य वक्तुमशक्यत्वेन तत्र नैल्यसंसृष्टाधिष्ठानगोचरचाक्षुषवृत्त्यनभ्युपगमे चक्षुरनुपयोगस्य दुष्परिहरत्वाच्च।
`अनास्वादिततिक्तरसस्य बालस्य मधुरे तिक्तताऽवभासो जन्मान्तरानुभवजन्यसंस्कारहेतुकः' इति प्रतिपादयता पञ्चपादिकाग्रहन्थेन स्वरूपतोऽध्यस्यमानस्यैव तिक्तरसस्यैन्द्रियकत्वस्फुटीकरणाच्च। अन्यथा तत्र रसनाव्यापारपेक्षाऽनुपपत्तेः।
तस्मादुदाहृतनैल्याध्यासस्थलेष्वधिष्ठानसम्प्रयोगादेव तद्गोचरचाक्षुषवृत्तिसमकालोदयोऽध्यासः तस्या वृत्तेर्विषय इति तस्य चाक्षुषत्वमभ्युपगन्तव्यम्। रूपं विना केलाधिष्ठानगोचरवृत्त्यभावे च विषयचैतन्याभिव्यक्त्यभावेन जलतदध्यस्य नैल्यादीना तद्भास्यत्वायोगात्। तिक्तरसाध्यासस्थले त्वधिष्ठानाध्यासयोरेकेन्द्रियग्राह्यत्वाभावात् त्वगिन्द्रियजन्याधिष्ठानगोचरवृत्त्या तदवच्छिन्नचैतन्याभिव्यक्तौ पित्तोपहतरसनसम्प्रयोगादेव तत्र तिक्तरसाध्यासः तन्मात्रविषयरासनवृत्तिश्च समकालमुदेतीति तिक्तरसस्य रासनत्वमप्यभ्युपगन्तव्यम्। त्वगिन्द्रियजन्याधिष्ठानगोचरवृत्त्यभिव्यक्तचैतन्यभास्येतिक्तरसे परम्परयाऽपि रसनोपयोगाभावेन तत्र कथमपि प्रकारान्तरेण रासनत्वानुभवसमर्थनासम्भवात्। तथैव रजतस्यापि चाक्षरुषत्वोपपत्तेः `पश्यामि' इत्यनुभवो न बाधनीयः। न चासम्प्रयुक्तस्य रजतस्य चाक्षुषत्वे `प्रत्यक्षमात्रे विषयेन्द्रियसन्निकर्षः कारणम्,' `रजतप्रत्यक्षे रजतसंयोगः कारणम्' इति गृहीतानेककार्यकारणभावनियमभङ्गः स्यादिति वाच्यम्। सन्निकर्षत्वस्य संयोगाद्यनुगतस्यैकस्याभावेन आद्यनियमासिद्धेः। द्वितीयनियमस्य नैयायिकरीत्या तमसीव संयोगायोग्ये क्कचिदद्रव्येऽपि द्रव्यत्वाध्याससम्भवाद् व्यवहारदृष्ट्या यद् द्रव्यत्वाधिकरणं तद्विपयत्वेन प्रातिभासिकरजते द्रव्यत्वस्याधिष्ठानगतस्यैवेदंत्ववदध्यासात् प्रतीत्यभ्युपगमेन च द्वितीयनियमाविरोधात्। द्वितीयनियमरूपसामान्यकार्यकारणभावातिरेकेण विशिष्यापि कार्यकारणभावकल्पनाया गौरवपराहतत्वेन तृतीयनियमासिद्धेः। `यत्सामान्ये यत्सामान्यं हेतुः, तद्विशेषे तद्विशेषो हेतुः' इति न्यायस्यापि यत्र बीजाङ्कुरादौ सामान्यकार्यकारणभावाभ्युपगमे(1){(1)भावमात्राभ्युपगमे इति पाठः।} बीजान्तरादङ्कुरान्तरोत्पत्त्यादिप्रसङ्गः, तद्विषयत्वेन ततोऽजागलस्तनायमानविशेषकार्यकारणभावासिद्धेः।
न चात्रापि `द्रव्यप्रत्यक्षे द्रव्यसंयोगः कारणम्' इति सामान्यनियममात्रोपगमे अन्यसंयोगादन्यद्रव्यप्रत्यक्षापत्तिरिति अतिप्रसङ्गोऽस्तीति वाच्यम्। `तत्तद्द्रव्यप्रत्यक्षे तत्तदद्रव्यसंयोगः कारणम्' इति नियमाभ्युपगमात्। अन्यथा तृतीयनियमेऽपेयतिप्रसङ्गस्य दुर्वारत्वात्। तस्मान्नास्ति क्लृप्तचनियमभङ्गप्रसङ्गः।
किं चात्र क्लृप्तनियमभङ्गेऽपि न दोषः `इदं रजतं पश्यामि, नीलं जलं पश्यामि' इत्यादेरनन्यथासिद्धस्यानु भवस्य प्रथमगृहीतानामपि `प्रत्यक्षमात्रे विषयसन्निकर्षः कारणम्' इत्यादिनियमानां व्यावहारिकविषये सङ्कोचकल्पनमन्तरेणोपपादनासम्भवात्।
न चैवंसति `प्रमायां सन्निकर्षः कारणं, न ब्रमः' इत्यपि सङ्कोचकल्पनासम्भवाद् असन्निकृष्टस्यैव देशान्तरस्थस्य रजतस्य इहारोपापत्तिरिति अन्यथाख्यातिवादप्रसारिका। अभिव्यक्तचैतन्यावगुण्ठनशून्यस्य देशान्तरस्थस्य रजरस्यापरोक्ष्यनुपपत्तेः। ख्यातिबाधानुपपत्त्यादिभिर्भ्रमविषयस्यानिर्वचनीयत्वसिद्धेश्च।
न चाधिष्ठानसम्प्रयोगमात्रत् प्रातिभासिकस्यैन्द्रियकत्वोपगमे शुक्तिरजताध्याससमये तत्रैव कालान्तरे अध्यसनीयस्य रङ्गस्यापि चाक्षुषत्वं कृतो न स्यादिति वाच्यम्। रजताध्याससमये रङ्गरजतसाधारणचाकचक्यदर्शनाविशेषेऽपि यतो रागादिरूपपुरुषदोषाभावादितस्तत्र तदा न रङ्गाध्यासः, तत एव मया तद्विषयवृत्त्यनुदयस्याभ्युपगमात्। तस्मादिदमंशसंभिन्नरजतगोचरैकैव वृत्तिरिन्द्रियजन्या। न ततः प्रागिदमाकारा वृत्तिरिति नात्रैवेयमज्ञाननिवर्तकत्वसदसद्भावचिन्ता कार्येति।
अन्ये तु- `अधिष्ठानज्ञानमध्यासकारणम्' इति इदमाकारां वृत्तिमुपेत्य तदभिव्यक्तेनैव साक्षिणा तदध्यस्तस्य रजतस्यावभाससन्भवात् तद्भासकसाक्ष्यभिव्यञ्जिकया तयैवेदंवृत्त्या रजतविषयसंस्काराधानोपपत्तेश्च रजताकारवृत्तिर्व्यर्थेति मन्यन्ते।।
ज्ञानद्वयपक्षे `इदम्' इत्येका वृत्तिरध्यासकारणभूता। `इदं रजतम्' इति द्वितीया वृत्तिरध्यस्तरजतविषया, न त्विदमंशं विनाऽध्यस्तमात्रगोचरा सा। `इदं रजतं जानामि' इति तस्या इदमर्थतादात्म्यापन्नरजतविषयत्वानुभवादिति केचित्।
अन्ये तु-यथा इदमंशावच्छिन्नचैतन्यस्थाऽविद्या रजताकारेण विवर्तते एवमिदमंशविषयवृत्तिज्ञानावच्छिन्नचैतन्यस्थाऽविद्या रजतज्ञानभासाकारेण विवर्तते, न त्विदमंशवृत्तिवदनध्यस्तं रजतज्ञानमस्ति। तथा च रजतस्य अधिष्ठानगतेदंत्वसंसर्गभानवत्त्जज्ञानस्याप्यधिष्ठानगतेदंत्वविषयत्वसंसर्गभानोपपत्तेः न तस्यापीदंविषयत्वमभ्युपगन्तव्यम्।
न च रजतत्ववदध्यस्तस्य रजतेदंत्वसंसर्गस्य रजतज्ञानगोचरत्वात् तत्प्रतियोगिन इदंत्वस्यापि तद्विषयत्वं वक्तव्यमिति वाच्यम्। स्वतादात्म्याश्रयस्य इदंत्वविषयत्वादेव तस्य तत्संसर्गविषयत्वे अतिप्रसङ्गाभावात्। न चाधिष्ठानाध्यासयोरेकस्मिन् ज्ञिाने प्रकाशनियमस्य सम्भावनाभाष्यविवरणे प्रतिपादनाद् एकवृत्तिविषयत्वं वक्तव्यमिति वाच्यम्। वृत्तिभेदेऽपीदमाकारवृत्त्यभिव्यक्ते एकस्मिन् साक्षिणि तयोः प्रकाशोपगमादित्याहुः।।18।।
(19)ननु सर्वपदार्थानां साक्षिप्रसादादेव प्रकाशोपपत्तेः किं वृत्त्या, घटादिविषयकसंस्काराधानाद्युपपत्तये तदपेक्षणेऽपि तन्निर्गमाभ्युपगमो व्यर्थः। परोक्षस्थल इवानिर्गतवृत्त्यवच्छिन्नसाक्षिणैव घटादेरपि प्रकाशोपपत्तेः।
न च तथा सति परोक्षापरोक्षवैलक्षण्यानुपपत्तिः। शाब्दानुमित्योरिव करणविशेषप्रयुक्तवृत्तिवैजात्यादेव तदुपपत्तेः।।
अत्र केचिदाहुः-प्रत्यक्षस्थले विषयाधिष्ठानतया तदवच्छिन्नमेव चैतन्यं विषयप्रकाशः। साक्षात्तादात्म्यरूपसम्बन्धसम्भवे स्वरूपसम्बन्धस्य वाऽन्यस्य वा कल्पनाऽयोगादिति तदभिव्यकत्यर्थं युक्तो वृत्तिनिर्गमाभ्युपगमः।
परोक्षस्थले व्यवहिते वह्न्यादौ वृत्तिसंसर्गायोगादिन्द्रियवदन्वयव्यतिरेकशालिनो वृत्तिनिर्गमद्वारस्यानुपलम्भाच्चानिर्गतवृत्त्यवच्छिन्नचैतन्यमेव स्वरूपसम्बन्धेन विषयगोचरमगत्याऽर्थादभ्युपगम्यते इति।।
इतरे तु-शब्दानुमानावगतेभ्यः प्रत्यक्षावगते स्पष्टता तावदनुभूयते। न हि रसालपरिमलादिविशेषे शतवारमाप्तोपदिष्टेऽपि प्रत्यक्षावगत इव स्पष्टताऽस्ति। तदनन्तरमपि `कथं तद्?'इति जिज्ञासाऽनुवृत्तेः।
न च शब्दान्माधुर्यमात्रावगमेऽपि रसालमाधुर्यादिवृत्त्यवान्तरजातिविशेषवाचिशपब्दाभावात्, तत्सत्त्वेऽपि श्रोत्रात्तस्यागृहीतसङ्गतिकत्वात् शब्दादसाधारणजातिविशेषावच्छिन्नमाधुर्यावगमो नास्तीति जिज्ञासाऽनुवृत्तिर्युक्तेति शङ्क्यम्। `रसाले सर्वातिशायी मार्धुयाविशेषोऽस्ति'इत्यस्माच्छब्दात्तद्गतावान्तरजातिविशेषस्याप्यवगमात्। न ह्ययं विशेषशब्दस्तद्गतविशेषं विहायान्यगतं विशेषं तत्र बोधयति। अप्रामाण्यापत्तेः। न च तद्गतमेव विशेषं विशेषत्वेन सामान्येन रूपेण बोधयति, न विशिष्येति जिज्ञासेति वाच्यम्। प्रत्यक्षेणापि मधुररसविशेषणस्य जीतिविशेषस्य स्वरूपत एव विषयीकरणेन जीतिविशेषगतविशेषान्तराविषयीकरणाद् जिज्ञासाऽनुवृत्तिप्रसङ्गात्।
तस्मात् प्रत्यक्षग्राह्येऽभिव्यक्तापरोक्ष्यैकरसचैतन्यावगुण्ठनात्स्पष्टता जिज्ञासानिवर्तनक्षमा, शब्दादिगम्ये तु तदभावादस्पष्टतेति व्यवस्थाऽभ्युपगन्तव्या। अत एव साक्षिवेद्यस्य सुखादेः स्पष्टता। शाब्दवृत्तिवेद्यस्यापि ब्रह्मणो मननादेः प्रागज्ञानानिवृत्तावस्पष्टता, तदनन्तरं तन्निवृत्तौ स्पष्टतेति वृत्तिनिर्गममुपपादयन्ति।।
नन्वेतावताऽपि विषयावरकाज्ञाननिवृत्त्यर्थं वृत्तिनिर्गम इत्युक्तम्। तदयुक्तम्। विषयावच्छिन्नचैतन्यगतस्य तदावरकाज्ञानस्यानिर्गतवृत्त्या निवृत्त्यभ्युपगमेऽप्यनतिप्रसङ्गात्। नच तथा सति देवदत्तीयघटज्ञानेन यज्ञदत्तीयघटाज्ञानस्यापि निवृत्तिप्रसङ्गः, समानविषयकत्वस्य सत्त्वात्।अहमर्थविषयचैतन्यनिष्ठयेर्ज्ञानाज्ञानयोर्भिन्नाश्रयत्वेन तयोर्विरोधे समानाश्रयत्वस्यातन्त्रत्वादिति वाच्यम्। समानाश्रयविषयत्वं ज्ञानाज्ञानयोर्विरोधप्रयोजकमङ्गीकृत्य वृत्तिनिर्गमनाभ्युपगमेऽपि देवदत्तीयघटवृत्तेः यज्ञदत्तीयघटाज्ञानस्य च घटावच्छिन्नचैतन्यैकाश्रयत्वप्राप्त्यातिप्रसङ्गतादवस्थ्येन `यदज्ञानं यं पुरुषं प्रतिपद्विषयावरकं, तत् तदीयतद्विषयभाननिवर्त्यम्' इति पृथगेव विरोधप्रयोजकस्य वक्तव्यतया समानाश्रयत्वस्यानपेक्षणात्।।
अत्राहुः-वृत्तिनिर्गमनानभ्युपगमे ज्ञानाज्ञानयोर्विरोधप्रयोजकमेव दुर्निरूपम्। `यदज्ञानं यं पुरुषं प्रति'इत्याद्युक्तमिति चेत्,न। परोक्षज्ञानेनापि विषयगताज्ञाननिवृत्तिप्रसङ्गात्। अपरोक्षत्वमपि निवर्तकज्ञानविशेषणमिति चेत्,। किं तदपरोक्षत्वम्?। न तावज्जातिः। `दण्ड्ययमासीत्' इति संस्कारोपनीतदण्डविशिष्टपुरुषविषयकस्य चाक्षुषज्ञानस्य दण्डांशेऽपि तत्सत्त्वे तत्रापि विषयगताज्ञाननिवृत्त्यापातात्। `दण्डं साक्षात्करोमि' इति तदंशेऽप्यापरोक्ष्यानुभवापत्तेश्च। अननुभवेऽपि संस्कारं सन्निकर्षं परिकल्प्य इन्द्रियसन्निकर्षजन्यतया तत्र काल्पनिकापरोक्ष्याभ्युपगमे अनुमित्यादावपि लिङ्गज्ञानादिकं सन्निकर्षं परिकल्प्य तदङ्गीकारापत्तेः। दण्डांशे आपरोक्ष्यासत्त्वे तु तस्य जातित्वायोगाद्। जातेर्व्याप्यवृत्तित्वनि यमात्। तदनियमेऽप्यवच्छेदकोपाधिभेदानिरूपणेन तस्याव्याप्यवृत्तिजातित्वायोगाच्च।
नाप्युपाधिः तदनिर्वचनात्। इन्द्रियजन्यत्वमिति चेत्, न। साक्षिप्रत्यक्षाव्यापनात्। अनुमितिशाब्दज्ञानोपनीतगुरुत्वादिविशिष्टघटप्रत्यक्षे विशेषणांशातिव्यापनाच्च। करणान्तराभावेन तदंशे परोक्षेऽप्युपनयसहकारिसामर्थ्यादिन्द्रियस्येव जनकत्वात्, अनुगतजन्यतावच्छेदकाग्रहेणानेकेष्विन्द्रियजन्यत्वस्य दुर्ग्रहत्वाच्च। तद्ग्रहे च तस्यैव प्रथमप्रतीतस्यापरोक्षरूपत्वोपपत्तौ प्रत्यक्षानुभवायोग्यस्य इन्द्रियजन्यत्वस्य तद्योग्यापरोक्षरूपत्वकल्पनायोगात्।
एतेन `इन्द्रियसन्निकर्षजन्यत्वमापरोक्ष्यम्। उपनयसहकृतेन्द्रियजन्यपरोक्षांशे च न सन्निकर्षजन्यत्वम्। अनुमितावप्युपनीतभानस्त्त्वेन प्रमाणान्तरसाधारणस्योपनयस्यासन्निकर्षत्वात्' इत्यपि शङ्का निरस्ता। संयोगादिसन्निकर्षाणामननुगमेनाननुगमाच्च।
यत्तवाभिमतमापरोक्ष्यं, तदेव ममाप्यस्त्विति चेत्, न। तस्य शाब्दापरोक्षनिरूपणप्रस्तावे प्रतिपादनीयस्य तत्रैव दर्शनीयया रात्या अज्ञाननिवृत्तिप्रयोज्यत्वेन तन्निवृत्तिप्रयोजकविशेषणभावायोगात्। तस्मात् `तरति शोकमात्मविद्' इति श्रुतस्य ब्रह्मज्ञानस्य मूलाज्ञानाश्रयभूतसर्वोपादानब्रह्मसंसर्गनियतस्य मूलाज्ञाननिवरह्तकत्वात्। `ऐन्द्रियकवृत्तयस्तत्तदिन्द्रियसन्निकर्षसाममर्थ्यात्त तद्विषयावच्छिन्नचैतन्यसंसृष्टा एव उत्पद्यन्ते' इति नियममुपेत्याज्ञानाश्रयचैतन्यसंसर्गनियतत्वं निवर्तकज्ञानविशेषणं वाच्यम्। तथाच `यद् अज्ञानं यं पुरुषं प्रतियद्विषयावरकं, तत् ,तदीयतद्विषयतदज्ञानाश्रयचैतन्यसंसर्गानियतात्मलाभज्ञाननिवर्त्यम्' इति ज्ञानाज्ञानयोर्विरोधप्रयोजकं निरूपितं भवति।
न चैवंसति नाडीहृदयस्वरूपगोचरशब्दज्ञानस्याप्यज्ञाननिवर्तकत्वप्रसङ्गः। तस्य कदाचिदर्थसम्पन्ननाडीहृदयान्यतरवस्तुसंसर्गसम्भवेऽपि विषयसंसर्गं विनाऽपि शाब्दज्ञानसम्भवेन तत्संसर्गनियतात्मलाभत्वाभावात्ष। तस्माज्ज्ञानाज्ञानविरोधनिर्वाहाय वृत्तिनिर्गमो वक्तव्य इति।।
अन्येतु-विषयगताज्ञानस्य लाघवात् समानाधिकरणाज्ञाननिवर्त्यत्वसिद्धौ वृत्तिनिर्गमः फलतीत्याहुः।।
अपरेतु-बाह्यप्रकाशस्य बाह्यतमोनिवर्तकत्वं सामानाधिकरण्ये सत्येव दृष्टमिति दृष्टान्तानुरोधाद् वृत्तिनिर्गमः सिध्यतीत्याहुः।।
केचित्तु-आवरणाभिभवार्थं वृत्तिनिर्गमानपेक्षायामपि चिदुपरागार्थं, प्रमातृचैतन्यस्य विषयप्रकाशकब्रह्मचैतन्यभेदाभिव्यक्त्यर्थं वा तदपेक्षेत्याहुः।।
अथ किंप्रमाणकोऽयं जीवब्रह्मणोरभेदः, यो वृत्त्याऽभिव्यज्यते?
`वेदान्तप्रमाणकः' इति घण्टाघोषः। सर्वेऽपि वेदान्ताः उपक्रमोपसंहारैकरूप्यादितात्पर्यलिङ्गैर्विमृश्यमानाः प्रत्यगभिन्ने ब्रह्मण्यद्वितीये समन्वयन्ति। यथा चायमर्थः, तथा शास्त्रे एव समन्वयाध्याये प्रपञ्चितः। विस्तरभयान्नेह प्रदर्श्यते इति।।19।।
इति सिद्धान्तलेशसारसङ्ग्रहे प्रथमः परिच्छेदः समाप्तः।