सिद्धान्तागमस्तवः (जिनप्रभसूरिविरचितः)

सिद्धान्तागमस्तवः
जिनप्रभसूरिः
१९२६

श्रीजिनप्रभसरिविरचितः सिद्धान्तागमस्तवः। सावचूरिः । ध्यायन्ति श्रीविशेषाय गतावेशा लयेन यम् । स्तुतिद्वारा जयश्रीदः श्रीवीरगुरुगो रवः ॥ पुरा श्रीजिनप्रभसूरिभिः प्रतिदिनं नवस्तवनिर्माणपुरःसरं गिरवद्याहारग्रहणाभिप्रह- वद्भिः प्रत्यक्षपद्मावतीदेवीवचसामभ्युदयिनं श्रीतपागच्छं विभाव्य भगवतां श्रीसोमति- लकसूरीणां लशैक्षशिष्यादिपठनविलोकनाद्यर्थ यमकलेपचित्रच्छन्दोविशेषादिनवन. वमनीसुभगाः सप्तशतीमिताः स्खवा उपदीकृता निजनामारिताः । तेप्वयं सर्वसिद्धान्त- स्तवो बहूपयोगिलाद्विप्रियते- नत्वा गुरुभ्यः श्रुतदेवतायै सुधर्मणे च भुतभक्तिनुन्नः । निरुद्धनानावृजिनागमानां जिनागमानां स्तवनं तनोमि ॥१॥ गुरुभ्यः श्रुतदेवतायै सरस्वसै सुधर्मणे च पञ्चमगणधराय नला । त्रिपु नतिक्रिया । 'अमिप्रेयलाचतुर्थी' इति सूत्रेण संप्रदानाचतुर्थी । श्रुतभक्तिरितोऽहं निरुद्धा रुखा नाना अविरतिकषायादिभिर्बहुविधानां वृजिनानां पापानामागमाः प्रसरणानि यस्तेषां जिनागमानां श्रीवीरसिद्धान्तानां स्तवनं तनोमि करोमि ॥ सामायिकादिकषडध्ययनस्वरूप- मावश्यकं शिवरमावदनात्मदर्शम् । नियुक्तिमाण्यवरचूर्णिविचित्रवृत्ति- स्पृष्टीकृतार्थनिवहं हृदये वहामि ॥ २॥ अवश्यकरणादावश्यकम् । सामायिकादिकानि सामायिक-चतुर्विशतिस्तव-वन्दनकति- ऋमण-कायोत्सर्ग-प्रत्याख्यानरूपाणि यानि षडध्ययनानि तत्स्वरूपम् । भिवरमाया (मोक्षलक्ष्न्याः) वदनात्मदर्श दर्पणतुल्यम् । पुनः किंविशिष्टम् । नियुक्तिः श्रीभद्रयाहु- कृता एकत्रिंशच्छतप्रमाणा । भाष्यं सूत्रार्थप्रपश्यनम् । बरावचूर्णिरष्टादशसहनप्रमाणा पूर्वर्षिविहिता । विचित्रवृतिरनुगतार्थकथनं द्वाविंशतिसहस्रप्रमाणम् । एताभिः स्पष्टी- कृतोऽयनिवहो यस्य तथाविधं हृदये वहामि स्मरामि ॥ युक्तिमुक्ताखातिनीरं प्रमेयोनिमहोदधिम् । विशेषावश्यकं तौमि महाभाष्यापराह्यम् ॥ ३ ॥ १. स्तोत्रस्यास्सैकमेवाष्टपत्रात्मकं सटी पुस्तकं संवेगिसाधुवरश्रीशान्तिविजयमुनीनां सकाशादधिगतम्. तब नातिशुद्ध शतवर्षप्राचीनसिवानुमीयते तदाधारीतन्मुद्रणं विहितमस्ति. ८७ सिद्धान्तागमस्तवः। युक्तय एव मुक्ता मौक्तिकानि तासां निष्पादकलात्स्वातिनीरम् । प्रमेयाः पदार्थात एवोर्मयः कल्लोलास्तेषां महोदधिम् । महाभाध्यमित्यपर आयो यस्य तद्विशेषावश्यक स्तौमि ।। दशवकालिक मेरुमिव रोचिष्णुचूलिकम् । प्रीतिक्षेत्रं सुमनसां सत्कल्याणमयं स्तुमः ॥ ४॥ विकालेनापराहरूपेण निर्वृत्तानि वैकालिकानि दशाभ्ययनानि यत्र तत् शय्यंभव- सूरिकृतं दशवकालिक मेरुमिव रोचिष्णू चूलिके इह खचूलिपारूपे यत्र । पक्षे चवारिंशद्योजनमाना । सुमनसामुत्तमानां पक्षे देवानां प्रीतिस्थानम् । सकल्याणमयं श्रेयोमयं पक्षे सुवर्णमयं स्तुमः ॥ उद्धामुपोद्धातविकल्पकालभेदप्रभेदप्रतिभेदरूपाम् । मिताभिधानाममिताभिधेयां नौम्योपनियुक्तिममोधयुक्तिम् ॥ ५ ॥ उद्धा प्रशस्यां मितामिधानां स्तोकशब्दाममिताभिधेयां बहोममोघयुक्तिं सफलयुक्ति- मोपनियुक्तिं नौमि तौमि । किंविशिष्टाम् । उपोद्धातः शास्त्रस्यादित्तस्य विकल्पा द्वाराणि 'उद्देसे निइसे निगमे' इत्यादीनि षड्विंशतिः। तत्र विकल्परूपास्तस्य भेदा एका- दश नामस्थापनाद्रव्यादयः ‘दव्ने अअहाउ अउवक्कमे' इत्यादिगायोकास्तेषु षष्ठभेदस्यो- पक्रमकालस्य प्रमेदौ सामाचार्युपकमकालः यथायुष्कोपकमकालश्च । तयोः प्रथमस्य त्रयः प्रतिमेदाः ओघसामाचारी इच्छाकारादिदशविधसामाचारी पदविभागसामाचारी च त्रिषु ओघःसामान्य संक्षेपाभिधानरूपा सामाचारी तद्रूपा ओधनियुक्तिः श्रीभद्रया- हुखामिना नवमपूर्वोत्तृतीयादाचाराभिधवस्तुनो विंशतितमप्राभूतानियूँढा सांप्रतिक- साधूनां हितायास्मिन्काले स्थिरीकृता श्रीआवश्यकनियुक्षौ गणधरवादस्याने संप्रति च मुखपाठाय पृथग्अन्यरूपा विहितारिख ताम् । पिण्डविषिप्रतिपत्तावखण्डपाण्डित्यदानदुर्ललिताम् । ललितपदश्रुतिमिष्टामभिष्टुमः पिण्डनियुक्तिम् ॥ ६ ॥ पिण्डस्याहारस्य विधिर्दोषरहितत्वेन विशुद्धस्तज्ज्ञाने संपूर्णकौशलवितरणसमां ललि- सानां सुकोमलानां पदानां श्रुतिः श्रवणं तया मिष्टां (मृष्टां) मधुरां पिण्डनियुक्ति क्यमभिटुमः॥ प्रवचननाटकनान्दी प्रपञ्चितज्ञानपञ्चकसतत्त्वा । अस्माकममन्दतमं कन्दतमं कन्दलयतु नन्दिरानन्दम् ॥ ७ ॥ प्रवचनं जिनमतमेव नाटकं तत्र नान्दी द्वादशतूर्यनिर्घोषः तम्सूलवानाटकस्य । . अपश्चितं प्रकटीकृतं ज्ञानपश्चकप भतिश्रुतावधिमनःपर्ययकेवलज्ञानरूपस सतत्त्वं खरूपं यया सा नन्दिरस्माकममन्दतमं बहुतरमानन्दं कन्दलयतु पयतु ॥ ८८ काव्यमाला। अनुयोगद्वाराणि द्वाराणीवापुनर्भवपुरस्य । जीयासुः श्रुतसौधाधिरोहसोपानरूपाणि ॥ ८ ॥ श्रुतमेव सौधं गृहं तदोहे सोपानरूपाणि अपुनर्भवपुरस्य मोक्षनरस्य द्वाराणीवा- नुयोगद्वाराणि जीयासुः ॥ अनवमनवमरससुधाहदिनी पत्रिंशदुत्तराध्ययिनीम् । अञ्चामि पञ्चचत्वारिंशतमृषिभाषितानि तथा ॥ ९॥ अनवमो रम्यो यो नवमो रसः शान्ताख्यः स एव सुधामृतं तस्य हदिनी नदी षत्रिंशद्यान्युत्तराणि प्रधानान्यध्ययनानि [यस्यां ] तामहमञ्चयामि पूजयामि । तथा पञ्चचत्वारिंशतं श्रीनेमिपार्थश्रीवीरतीर्थवर्तिभिनीरदादिभिः प्रणीतानध्ययनविशेषान् ॥ उच्चैस्तरोदश्चितपञ्चचूडमाचारमाचारविचारचारु । महापरिज्ञास्थनभोगविद्यमाद्यं प्रपद्ये गमनं गजेन्द्रम् ॥ १०॥ आचारविचारचारू योगानुष्ठानपूर्व यथा स्यादेवम् आचारप्रतिपादकलादाचार नामाथ- मङ्गमहं प्रपद्ये श्रये । किविशिष्टम् । उच्चस्तराः शब्दार्थाभ्यामतिशायिन्य उदचिताः प्रकटीकृताः पञ्च चूडा येन तत् । उक्तशेषानुवादिनोऽधिकारविशेषाधूडासंज्ञाः । पुनः किंविविष्टम् । महापरिज्ञानामाध्यायनं तत्रस्था आकाशगमिनीविद्या तस्य । तत एवोद्धय श्रीवास्वामिना प्रभावना कृता । त्रिषष्टिसंयुक्तशतत्रयीमितप्रवाददाद्रिविभेदहादिनीम् । द्वयश्रुतस्कन्धमयं शिवश्रिये कृतस्पृहः सूत्रकुदङ्गमाद्रिये ॥ ११ ॥ श्रुतस्कन्धद्वयरूपं सूत्रकृद शिवश्रिये कृतस्पृहोऽहमाद्रिये आनयामि । किविशिष्टम् । त्रिषष्ठ्यधिकशतत्रयीमिता । ये प्रवादिनः क्रियावादिप्रभृतयस्तेषां दर्याद्रिविभेदे हादिनी वनसमम् ॥ स्थानाङ्गायदशस्थानस्थापिताखिलवस्तुने । नमामि कामितफलप्रदानसुरशाखिने ॥ १२ ॥ कामितफलप्रदानसुरशाखिने तिष्ठन्ति प्रतिपाद्यजीवादयः पदार्था [येषु] इति स्थाना- म्यधिकारविशेषाः तथाहि-'तनुइन्दा ....म्म बन्धन्ति' इत्यादयः । एवमेसेषु दशस्थानेषु स्थापितान्यखिलवस्तूनि यत्र तस्मै स्थानाशायाहं नमामि । "विवक्षातः कारकाणि भवन्ति' इति न्यायात्स्थानाशायेवि संप्रदानम् ॥ तत्चत्संख्याविशिष्टार्थप्ररूपणपरायणम् । संस्तुमः समवायाङ्गं समवायैः स्तुतं सताम् ॥ १३ ॥ वास्ता एकादिदशान्ताः संख्यास्ताभिर्विशिष्टा येऽस्तेिषां प्ररूपणं कथनं तत्र परायण तात्परं सतां समवायः समूहैः समवायाझं वयं स्तुमः ।। सिद्धान्तागमस्तवः। या पत्रिंशत्सहसान्प्रतिविधिसजुषां विनती प्रश्नवाचा चत्वारिंशच्छतेषु प्रथयति परितः श्रेणिमुद्देशकानाम् । रङ्गद्भङ्गोत्तरङ्गानयगमगहना दुर्विगाहा विवाह- प्रज्ञप्ती पञ्चमाझं जयति भगवती सा विचित्रार्थकोषः ॥ १४ ॥ या प्रतिविधिरुत्तरं तेन सहितानां प्रश्नवाचा षट्त्रिंशत्सहस्रान्बिभ्रती दधती या चखारिंशच्छवेष्वधिकारविशेषेधूद्देशकानां श्रेणि परितः सर्वतः प्रथयति सा विवाहप्रज्ञप्ती नाम्नी पञ्चमाझं रमन्तो ये भङ्गा रचनाविशेषास्वैरुत्तरका उत्कल्लोला तया युक्तयो गमाः सदशपाठातैर्गहना प्रन्थिला अकुशलैर्दुर्विगाहा विचित्रार्थकोषो जयति । भगवतीति पूज्याभिधानम् ॥ कथानकानां यत्रार्धचततः कोटयः स्थिताः । सोत्क्षिप्तादिज्ञातहृद्या ज्ञातधर्मकथाः श्रये ॥ १५ ।। यत्रार्धचतस्रः कथानकानां कोटयः स्थिता सा ज्ञातधर्मकथा नाम षष्ठमनमुत्क्षिप्ता- दिभि तैदृष्टान्तैर्हद्या श्रियेऽस्तु (श्रये ॥ आनन्दादिश्रमणोपासकदशकेतिवृत्तसुभगार्थाः । विशदामुपासकदशा भावदृशं मम दिशन्तु सदा ॥ १६ ॥ आनन्दादयः श्रमणोपासकास्तेषां दशकं तस्येतिवृत्तानि चरितानि तैः सुभगार्था उपासकदशा नाम सप्तमाझं विशदा भावदृशं मम सदा दिशन्तु । महदृषिमहासतीनां गौतमपद्मावतीपुरोगाणाम् । अधिकृतशिवान्तसुकृताः सरतोचैरन्तकृदशाः कृतिनः ।। १७ ॥ गौतमपद्मावतीप्रमुखाणां महर्षीणां महासतीनामधिकृतानि प्रकटितानि सिवान्तानि सुकृतानि यासु ता अन्तकृद्दशा हे कृतिनः, उन्यूयं स्मरत ।। गुणैर्यदध्ययनकलापकीर्तिता अनुत्तरा प्रशमिषु जालिमुख्यकाः । अनुत्तरश्रियमभजन्ननुत्तरोपपातिकोपपददशाः श्रयामि ताः ॥ १८॥ यदध्ययनकलापे कीर्तिताः कथिताः प्रशमिषु ऋषिषु गुणैश्चारित्रादिभिरनुत्तराः प्रधानाः । जालिमुख्यका जालिनाम ऋषिः स एव मुख्यो येषां ते जालमुख्यकाः । खार्थे कप्रत्ययः । अनुत्तराणि विजयादीनि पञ्चविमानानि तेषां नियमभजन । अनु- रोपपातिक्रमित्युपपदं पूर्वपदं यासी ता अनुत्तरोपपातिकदशा अहं श्रयामि ।। अङ्गुष्ठाद्यवतरदिष्टदेवतानां विद्यानां भवनमुदाचवैभवानाम् । निर्णीताश्रयविधिसंवरखरूपा प्रश्नव्याकरणदशा दिशन्तु शं नः॥१९॥ काव्यमाला। अङ्गुनादिषु आदिशब्दाद्दीपजलादिष्ववतारोऽवतरणं तेन दिष्टाः कथिता देवता यासां तासामुदात्तवैभवानामुत्कृष्टमहिन्नां विधानां भवनं स्थानम् । आश्रयविधिः कर्म पुइलानां संवरतनिरोधः । निर्णीतं तयोः स्वरूप यासु ताः प्रश्नव्याकरणदशा दशमा नोऽस्माकं शं सुखं दिशतु ॥ 'ज्ञातैर्मुगापुत्रसुबाहुवादिभिः शासद्विपाकं सुखदुःखकर्मणाम् । द्विः पतिसंख्याध्ययनोपशोभितं श्रीमद्विपाकश्रुतमस्तु नः श्रिये ॥२०॥ मृगापुत्रसुबाहुवादिभिदृष्टान्तैः सुखदुःसकर्मणां विपाकं परिणाम शासच्छिक्षयत् । ज्ञापयदित्यर्थः । केषाम् । भव्यजीवानामिति गम्यम् । विंशत्यध्ययनालंकृतं श्रीमद्विपाक- श्रुतमेकादशमॉ नः श्रियेऽस्तु । सुबाहुवादिभिरित्यत्र 'इवांदेः' इत्यनेन सूत्रेण परतो वलम् । एतान्यप्येकादशान्यनानि श्रीसुधर्मखामिना रचितानि । अन्येषां गणभृतां पूर्वनिर्धतत्वेन सर्वगणधरपिशष्याणामेतद्वाचनामहणात् । अत एवादी श्रीसुधर्मा नमस्कृतः॥ प्रणिधाय यत्प्रवृत्ता शास्त्रान्तरवर्णनातिदेशततिः । नमतोपपातिकं तत्प्रकटयदुपपादवैचित्रीम् ॥ २१ ॥ याणिधाय स्मृखा शास्त्रान्तरेषु पदार्थवर्णनातिदेशनाततिः श्रेणिः प्रवृत्ता। अति. देशोऽन्यत्र विस्तरेण प्ररूपितस्य वस्तुनः संक्षेपेण कथनम् । तदुपपातिकमायाराजोपार्ज देवनारकाणामुपपाद उत्पादस्तस्य वैचित्री प्रकटयत् हे विद्वांसः, यूयं नमत । आचारा- अस्य शासपरिज्ञाध्ययनाख्ये द्वे शतके । सूत्रमिदं "एवमेगे सिनोनायं भवई' इत्यादि । अत्र सूने यदीपपातिकलमात्मनो निर्दिष्टं तदत्र प्रपञ्चयत इत्यर्थः । अस्योपसमीप इत्युपाङ्गम् ॥ सूर्याभवैभवविमावनष्टतीर्थ- प्रश्नादनन्तरमिनानननिर्गतेन । केशिप्रदेशिचरितेन विराजि राज- प्रश्नीयमिद्धमुपपत्रिशतैर्महामि ॥ २२ ॥ सूर्याभदेवस्य वैभवभूद्धिस्तस्य विभावनेनेक्षणेन हुई बत्तीर्थ प्रथमगणधरश्चतुर्विधः संथो व तस्य प्रश्नापृच्छाया अनन्तरमिनस श्रीधीरस्थाननं मुखं ततो निर्गतेन ! केली. गणमृत् प्रदेशी च राजा तयोश्चरितेन विराजि शोमि । उपपत्तिशतैर्युतिशतैरिद्धं दीप्त राजप्रश्नीय सूत्रकृदुपामहं महामि । प्रदेशी केशिना प्रतियोघितो देवलमाप्य श्रीवीर वन्दित समवस्तौ गतः तन्त्रात्यद्भुतं तस तेजो वीक्ष्य श्रीसंभेन प्रश्नः कृतः सर्वेभ्यो देवेभ्यः किमित्ययमुत्कृष्ट इति ॥ सिद्धान्तागमस्तवः। जीवाजीवनिरूपिद्वेषाप्रतिपत्तिनवककमनीयम् । जीवाभिगमाध्ययनं ध्यायेमासुगमगमगहनम् ॥ २३ ॥ जीवाजीवनिरूपिण्यौ या द्वेधा द्विप्रकाराः प्रतिपत्तयोऽधिकारावासां नवकेन रम्यम् । असुगमा विषमा ये गमास्तैर्गहनं जीवाभिगमाध्ययनं स्थानाझोपाध्यायेम । जीवाना- मुपलक्षणादजीवानामप्यभिगमो ज्ञानं यत्र तत् ॥ षत्रिंशता पदैर्जीवाजीवभावविभावनीम् । प्रज्ञापनां पनायामि श्यामार्यस्यामलं यशः ॥ २४ ॥ षट्त्रिंशता पदैरधिकारर्जीवाजीवभावप्ररूपिकां प्रज्ञापनां समवायाजोपाझं पनायामि तौमि । श्यामार्यस्य कालिकाचार्यस्यामलं यशः। तत्र तदधिकारात् ॥ विवृताधद्वीपस्थितिजिनजनिमहचक्रिदिग्विजयविधये । भगवति जम्बूद्वीपप्रज्ञते तुभ्यमस्तु नमः ॥ २५ ॥ हे भगवति, जम्बूद्वीपप्रज्ञप्ते, पञ्चमाजोपाङ्ग......... .."विवृता प्रकटिता आयद्वीपस्य स्थितिर्जिनजन्ममहश्चक्रिणो दिग्विजयविधिश्च यया सा । तुभ्यं नमोऽस्तु ॥ प्रणमामि चन्द्रसूर्यप्रज्ञप्ती यमलजातके नव्ये । गुम्फवपुषैव नवरं नातिभिदार्थात्मनापि ययोः ॥ २६ ॥ चन्द्रसूर्यप्रज्ञप्ती चन्द्रसूर्यविचारप्रतिपादके यमलजातके सहजावे नवरं केवलं गुम्फवपुषेव गुम्फेनैव नव्ये भिन्नग्रन्थरूपे अहं प्रणमामि । ययोरर्थात्मनापि नातिभिदा भेदः । अपिशब्दाच्छन्दतोऽपि । कालादिकुमाराणां महाहवारम्भसंभृतैर्दुरितैः । दर्शितनरकातिथ्या निरयावलिका विजेधीरन् ।। २७ ।। कालादिदशकुमाराणां चेटककोपिकवैरे महाहवारम्भसंभृतैर्महायुद्धारम्भोपार्जितः पापैर्दर्शितं नरकातिथ्यं नरकभवप्राप्तिाभिस्ता निरयावलिका विजेषीरन्विजयन्ताम् । तत्र कालादिकुमाराणां वर्णनात् ॥ पद्मादयः कल्पवतंसभूयमुपेयिवांसः सुकृतैः शमीशाः । यत्रोदिताः श्रेणिकराजवंश्या उपास्महे कल्पवयंसिकास्ताः ॥ २८ ॥ श्रेणिकराजवंश्याः पद्मादयः शमीशा ऋषयः सुकृतैः कल्पवतंसभूयं देवलमुपेयिवांसः प्राप्ता यत्रोदिताः कथितास्ताः कल्पवतंसिका वयमुपामहे ।..........॥ चन्द्रसूर्यबहुपुत्रिकादिभियंत्र संयमविराधनाफलम् । भुज्यमानमगृणाद्गणाधिपः पुष्पिकाः शमभिपुष्पयन्तु नः ॥ २९ ॥ काव्यमाला। यत्र संयमविराधनायाः फलं चन्द्रसूर्यौ राजानौ पूर्वभवे गृहीतदीक्षी बहुपुत्रिकानपत्या पूर्वभवे प्रजिता....."अगृणाजगाद ताः पुष्पिकाः शं सुखमभिपुष्पयन्तूत्फुल्यन्तु । यत्र अन्थेऽझिनो ग्रहवासत्यागेन संयमभावपुष्पिता वर्णिताः (1) ॥ श्रीहीप्रभूतिदेवीनां चरित्रं यत्र सूनितम् । ताः सन्तु मे प्रसादानुकूलिकाः पुष्पचूलिकाः ॥ ३० ॥ श्रीहीप्रभृतिदेवीनां चरित्रं परिधारादिखरूपं यत्र सूत्रितं कथितं ताः पुष्पचूलिका मे मम प्रसादानुकूलिकाः प्रसादतत्पराः सन्तु । वृष्णीनां निषधादीनां द्वादशानां यशःसजः । पुष्णन्तु भक्तिनिष्ठानां दशां वृष्णिदशाः शुभाम् ॥ ३१ ।। निषादीनां राज्ञां वृष्णीनामन्धक... वृश्णिदशा भक्तिपरायणानां शुभां दशां पुष्णन्तु ॥ नन्यनुयोगद्वारयोः पूर्व कथनादायद्वयेन त्रयोदशप्रकीर्णकानि स्तौति--- वन्दे मरणसमाधि प्रत्याख्याने महातुरोपपदे । संस्तारचन्द्रवेध्यकभक्तपरिज्ञाचतुःशरणम् ॥ ३२ ॥ वीरस्तवदेवेन्द्रस्तवगच्छाचारमपि च गणिविद्याम् । द्वीपाब्धिप्रज्ञप्तिं तण्डुलवैतालिकं च नुमः ॥ ३३ ॥ अहं वन्दे मरणसमाधिम् । प्रत्याख्याने महा इति आतुर इत्युपपदे ययोस्ते । महा- प्रत्याख्यानमातुरप्रत्याख्यानं च । संस्वार चन्द्रवेध्यक-भकपरिक्षा चतुःवरणमिति समा- हारः । बीरस्तव-देवेन्द्रस्त्वं गच्छाचारं गणिविद्या द्वीपाब्धिप्राप्ति तण्डलवैतालिक व वयं नुमः । सर्वेषां नामार्थाः पाक्षिकसूत्रावचूर्णौ सन्ति । शिवाध्वदीपायोद्धातानुद्धातारोपणात्मने । चित्रोत्सर्गापवादाय निशीथाय नमो नमः ॥ ३ ॥ मोक्षमार्गदीपाय उद्धातो गुरुप्रायश्चित्तविशेषः । अनुद्धातच तद्विपरीतः । लघुरित्यर्थः । तयोरारोपणमुचितस्थाने प्रयोजनं तदात्मा खमं यस्य स तसै उद्धातासुद्धातारो- पणात्मने ॥ चित्रा विविधा उत्सर्गापवादा यत्र । उत्स! मुख्यमार्गः । अपवादः करणे प्रतिषिद्धसेवा : निशीथमधेरावतद्रहोभूतं यदध्ययनं तमिशीर्थ तस्मै निशीथा- वारापनमचूडायै नमो नमः॥ नियुक्तिभाष्यप्रमुखैर्निबन्धैः सहस्रशाखीकृतवाच्यजातम् । दशाश्रुतस्कन्धमनाचगन्धं परैः सकल्पव्यवहारमीडे ।। ३५ ।। नियुशिभाष्यप्रमुखैर्निबन्धैः सहनशाखीकृतं विस्तारिखं वाध्यमातं यत्र तं प्रशाभ्यसिद्धान्तागमस्तवः। यमानां श्रुतस्कन्धं दशाश्रुतस्कन्धं परैः परमतिभिरनात्तगन्धम् । कल्पः साध्वाचार- खत्प्रतिपादको प्रन्थोऽपि कल्पः । व्यवहारः प्रतीतार्थस्तत्प्रतिपादको अन्योऽपि व्यक- हारः । ताभ्यां सह वर्तते यः स कल्पव्यवहारस्तमीडे स्तुवे ॥ षट्सप्तपङ्क्तिविंशतिषड्गुणसप्तप्रकारकल्पानाम् । विस्तारयिता कल्पितफलदः स्तात्पञ्चकल्पो नः ॥ ३६॥ षट् सप्त पतिर्दश विंशतिः षड्डणसह विचलारिंशत् एतत्प्रकारा ये कल्पास्तेषां विस्तारयिता पञ्चकल्पो नोऽस्माकं कल्पितफलदो वाञ्छितफलप्रदः स्यात् ॥ लेभे यळ्यवहारेणाधुनान्त्येनापि मुख्यता । तं जीतकल्पमाकल्पकल्पं तीर्थश्रियः श्रये ॥ ३७॥ अन्त्येनापि ययवहारेण यदाचारेणाधुना मुख्यता लेभे । एतदाधारेणैव प्रायश्चित्त- विधिप्रवृत्तेः । तं जीतकल्पं तीर्थश्रियः शासनरमाया आकल्पकल्पं वेषतुल्यं श्रये । व्यवहाराः पश्च । आगमः श्रुतमाज्ञा धारणा जीतं चेति सन्ति । । एवं जीतव्यवहारोऽन्त्यः॥ अञ्चामि पञ्चतनवप्रमाणमाचाम्लसाध्यं कुमतैरवाध्यम् । महानिशीथं महिमौषधीनां निशीथिनीशं शिववीथिभूतम् ॥ ३८ ॥ पश्चननवतिः पश्चचत्वारिंशत् तत्प्रमाणैराचाम्लैः (१) साध्यम् । कुमतैरषाध्यम् । महिमान ओषध्यस्तासां निशीथिनीशं चन्द्रम् । वृद्धिप्रापकलात् । मोक्षमार्गभूतं महानिशीथमञ्चामि पूजयामि ।। नियुक्तिभाष्यवार्तिकसंग्रहणीचूर्णिटिप्पनकटीका । सर्वेषामप्येषां चेतसि निवसन्तु नः सततम् ॥ ३९ ॥ नियुक्तिः सूत्रोक्तार्थभेदप्ररूपिका । भाष्य सूत्रोक्तार्थप्रपञ्चकम् । वार्तिकमुस्कानुक्त- दुरुक्तार्थानां चिन्ताकारि । संग्रहणी सूत्रार्थस्य संग्राहिका । चूर्णिरवचूर्णिः । टिप्पनक विषमपदव्याख्या । टीका निरन्तरव्याख्या । एता एषां सर्वेषामपि पूर्वोक्तग्रन्थानां नचेतसि सततं निवसन्तु । परिकर्मसूत्रपूर्वानुयोगगतपूर्वचूलिकामेदम् । ध्यायामि दृष्टिचादं कालिकमुत्कालिकं श्रुतं चान्यत् ॥१०॥ परिकम सप्तमेदम् । सूत्राणि द्वादशभेदानि । पूर्वानुयोगो द्विधा प्रथमानुयोगः कालानुयोगः । प्रथमे जिनचक्रिदशारचरितानि । कालानुयोगेऽर्थतो जिनैः शन्दतो गण- घरच पूर्व रचित्तलात पूर्वाणि चतुर्दशापि पूर्वगतम् । चूलिका उतशेषशाया (१) एते. पत्र मेदा यस्य तम् । दृष्टयो दर्शनानि तासां वदनं दृष्टिवादस्त ध्यायामि । च पुनरकाव्यमाला। न्यत्कालिकमगाढायोगसाध्यमुत्कालिकमनामाढायोगसाध्यं ध्यायामि । श्रुतं हि द्विधा- अजप्रविष्टमननप्रविष्टं च । .. यस्या भवन्त्यवितथा अद्याप्येकोनषोडशादेशाः । सा भगवती प्रसीदतु ममाङ्गविद्यानवद्यविधिसाध्या ॥४१॥ यस्या अद्याप्येकोनषोडश पञ्चदशादेशाः स्वमादिष्वतीतानागतवर्तमानकथनान्यवितथाः सत्या भवन्ति सा अङ्गविद्या भगवती अनवद्यविधिसाध्या मम प्रसीदतु ॥ वन्दे विशेषणवतीं संमतिनयचक्रवालतत्त्वार्थान् । ज्योतिष्करण्डसिद्धनाभृतवसुदेवहिण्डींश्च ॥ ४२ ॥ विशेषणवती संपत् । एतान्प्रन्थानहं वन्दे ॥ कर्मप्रकृतिप्रमुखाण्यपराण्यपि पूर्वसूरिचरितानि । समयसुधाम्बुधिपृषतान्परिचिनुमः प्रकरणानि चिरम् ॥ १३ ॥ कर्मखरूपप्रतिपादको ग्रन्थः कर्मप्रकृतिः । तत्प्रमुखाण्यपराण्यप्यनुक्तानि पूर्वसूरि- चरितानि प्रकरणानि चिर परिचिनुमः सुपरिचितानि कुर्मः । सिद्धान्तोदधिबिन्दु- प्रामाणि ॥ व्याकरणच्छन्दोलंकृतिनाटककाव्यतर्कगणितानि । सम्यग्दृष्टिपरिग्रहपूतं जयति श्रुतज्ञानम् ॥ ४४ ॥ व्याकरणादिकं मिथ्याग्भिः कृतमपि सम्यग्दृष्टयो देवास्तैः परिग्रहः स्वीकृतिस्तया पूतं श्रुतज्ञानं जयति ॥ सर्वश्रुताभ्यन्तरगां कृतैनस्तिरस्कृति पञ्चनमस्कृति च । तीर्थप्रवृत्तेः प्रथमं निमित्तमाचार्यमत्रं च नमस्कारोमि ।। ४५ ।। कृतपापतिरस्कारा सर्वसिद्धान्तमध्यगां पञ्चनमस्कृति पश्चनमस्कार शासनप्र: प्रथमं निमित्तमाचार्यमन्नं च नमस्करोमि ॥ इति भगवतः सिद्धान्तस्य प्रसिद्धफलप्रथा गुणगणकयां कण्ठे कुर्याजिनामवस्य यः। वितरतितरां तसै तोषाद्वरं श्रुतदेवता स्पृहयति च सा मुक्तिश्रीस्तत्समागमनोत्सवम् ॥ ४६॥ इत्यमुना प्रकारेण भगवतः सिद्धान्तस्य जिनप्रभवस्य जिनप्रणीतस्य यः पुरुषो गुण "माहात्म्यादयस्तेषां गणः समूहस्तस्य कयां अल्पनमेतत्तवरूपों कण्ठे कुर्यात्पठति । कथंभूताम् । प्रसिद्धा सर्वविद्भिर्खता फलानो 'कुत्रचिनगरे बहुपअपरिआत्मनिन्दाष्टकम् । वृतं महापुण्डरीकं देवताधिष्ठितं सरस्यास्त तच्च केनापि ग्रहीतुं न शक्यते । राज्ञोक्तं य एतदानयति तद्धर्ममहं प्रतिपय इति । यदा परतीर्थिकरुपक्रमेणाप्यादातुं न शक्तं मंत्रिणा जैनर्षिराकारितः । तेन च सचित्तजलास्पर्शिना (2) त्रिः प्रदक्षिणीकृत्य पालिस्थे- नैव 'उप्पाहि पुण्डरीया' इत्यादि पुण्डरीकाध्ययन पेठे । ततस्तत्पुण्डरीकमुत्पत्य राशो के पपात । तदतु सपरिकरो राजा जैनोऽजनि । इत्यादीनां प्रथा विस्तारो यस्यास्तां प्रसिद्धफलप्रथाम् । तस्मै श्रुतदेवता वर वितरति दत्ते । सा मुक्तिश्रीस्तत्समागमनोत्सवं स्पृहयति । अन्न पूर्वार्धे जिनप्रभवस्येति सिद्धान्तविशेषणेन कविरौद्धत्यपरिहाराय गुप्तं जिनप्रमेति खनामाभिहितवान् ॥ आदिगुप्ताभिधानस्य गुरोः पादप्रसादतः । पदविच्छेदरूपेयं विवृतिलिखिता मिता ॥ इति श्रीजिनप्रभविरचितः सावचूरिः सिद्धान्तागमतवः ।