सीताहरणम्
कैलासनाथः एम् ए
१९२९

(५७) सीताहरणम् । हैममृगदर्शनम् । हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत्- एतद्रामाश्रमपदं दृश्यते कदलीवृतम् । क्रियतां तत्सखे शीघ्रं यदर्थं वयमागताः ॥१॥ स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा । मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ॥२॥ स तु रूपं समास्थाय महदद्भुतदर्शनम् । मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ॥३॥ रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः । किंचिदत्युनतग्रीव इन्द्रनीलनिभोदरः॥४॥ मधूकनिभपार्श्वश्च कञ्जकिअल्कसंनिभः । वैदूर्यसंकाशखुरस्तनुजक्वः सुसंहतः ॥ ५॥ इन्द्रायुधसवर्णेन पुच्छेनोर्ध्व विराजितः। मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ॥ ६॥ क्षणेन राक्षसो जातो मृगः परमशोभनः । वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् ॥ ७ ॥ मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः । प्रलोभनार्थं वैदेह्याः नानाधातुविवित्रितम् ॥ ८॥ विचरन्गच्छते शष्पं शावलानि समन्ततः। रौप्यविन्दुशतैश्चित्रं भूत्वा च प्रियनन्दनः ॥ ६ ॥ विटपीनां किसलयान्भक्षयन्विचचार ह। कदलीगृहकं गत्वा कर्णिकारानितस्ततः ॥१०॥ तमाश्रमं मन्दगति.सीतासंदर्शनं ततः राजीवचित्रपृष्ठः स विरराज महामृगः ॥११॥ ( ५८ ) रामाश्रमपदाभ्याशे विचचार यथासुखम् । पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः॥ १२ ॥ गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते। विक्रीडंश्च पुनर्भूमौ पुनरेव निषीदति ॥ १३ ॥ आश्रमद्वारमागम्य मृगयूथानि गच्छति । मृगयूथैरनुगतः पुनरेव निवर्तते ॥ १४ ॥ सीतादर्शनमाकाक्षराक्षसो मृगतां गतः । परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ॥ १५॥ समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः । उपगम्य समाघ्राय विद्रवन्ति दिशो दश ॥ १६ ॥ राक्षसः सोऽपि तान्वन्यान्मृगान्मृगवधे रतः । प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ॥ १७ ॥ तस्मिन्नेव ततः काले वैदेही शुभलोचना । कुसुमापचये व्यग्रा पादपानत्यवर्तत ॥१८॥ कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा । कुसुमान्यपचिन्वन्ती चचार रुधिरानना ॥ १६ ॥ अनर्हा वनवासस्य सा तं रत्नमयं मृगम् । मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ॥ २० ॥ तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम् । विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ॥ २१ ॥ अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् । विस्मयं परमं सीता जगाम जनकात्मजा ॥ २२॥ प्रहृष्टा चानवद्याङ्गी मृग्रहाटकवर्णिनी। भर्तारमपि चक्रन्द लक्ष्मणं चैव सायुधम् ॥ २३ ॥ आहूयाहूय च पुनस्तं मृगं साधु वीक्षते । आगच्छागच्छ शीघ्रं वै पार्यपुत्र सहानुज ॥ २४ ॥ ( (५६ ) तावाहूतौ नरव्याघ्रो वैदेह्या रामलक्ष्मणौ । वीक्षमाणौ तु तं देशं तदा ददृशतुर्मंगम् ॥ २५ ॥ शङ्कमानस्तु तं दृष्ट्वा लक्ष्मणो वाक्यमब्रवीत् । तमेवैनमहं मन्ये मारीचं राक्षसं मृगम् ॥ २६ ॥ चरन्तो मृगयां दृष्टाः पापेनोपाधिना वने । अनेन निहता राम राजानः पापरूपिणा ॥ २७ ॥ अस्य मायाविदो माया मृगरूपमिदं कृतम् । भानुमत्पुरुषव्याघ्र गन्धर्वपुरसंनिभम् ॥ २८ ॥ मृगो ह्येवविधो रत्नविचित्रो नास्ति राघव । जगत्यां जगतीनाथ मायैषा हि न संशयः ॥ २६ ॥ एवं ब्रुवाणं काकुत्स्थं प्रतिवार्य शुचिस्मिता । उवाच सीता संहृष्टा छनना हृतचेतना ॥ ३०॥ आर्यपुत्राभिरामोऽसौ मृगो हरति मे मनः । आनयैनं महाबाहो क्रीडार्थं नो भविष्यति ॥ ३१॥ न चान्यः सदृशो राजन्दृष्टः पूर्व मृगो मया । तेजसा क्षमया दीप्त्या यथाऽयं मृगसत्तमः ॥ ३२॥ नानावर्णविचित्राङ्गो रत्नभूतो ममाग्रतः । द्योतयन्वनमव्यग्रं द्योतते शशिसंनिभः ॥ ३३ ॥ अहो रूपमहो लक्ष्मीः स्वरसंपञ्च शोभना । मृगोऽद्भुतो विचित्राङ्गो हृदयं हरतीव मे ॥ ३४ ॥ यदि ग्रहणमभ्येति जीवन्नेव मृगस्तव । आश्चर्यभूतं भवति विस्मयं जनयिष्यति ॥ ३५ ॥ समाप्तवनवासानां राज्यस्थानां च नः पुनः । अन्तःपुरे विभूषार्थो मृग एष भविष्यति ॥ ३६॥ भरतस्यार्यपुत्रस्य श्वश्रूणां च मम प्रभो । मृगरूपमिदं दिव्यं विस्मयं जनयिष्यति ॥ ३७॥ जीवन्न यदि तेऽभ्येति ग्रहणं मृगसत्तमः । अजिनं नरशार्दूल रुचिरं तु भविष्यति ॥ ३८ ॥ निहतस्यास्य सत्त्वस्य जाम्बूनदमयत्वचि । शष्पवृस्यां विनीतायामिच्छाम्यहमुपासितुम् ॥ ३६ ॥ कामवृत्तमिदं रौद्रं स्त्रीणामसदृशं मतम् । वपुषा त्वस्य सत्त्वस्य विस्मयो जनितो मम ॥ ४०॥ तेन काञ्चनरोम्णा तु मणिप्रवरङ्गिणा । तरुणादित्यवर्णेन नक्षत्रपथवर्चसा ॥ बभूव राघवस्यापि मनो विस्मयमागतम् ॥ ४१ ॥ लोभितस्तेन रूपेण सीतया च प्रचोदितः । उवाच राघवो हृष्टो भ्रातरं लक्ष्मणं वचः ॥ ४२ ॥ पश्य लक्ष्मण वैदेह्याः स्पृहामुल्लसितामिमाम् । रूपश्रेष्ठतया ह्येष मृगोऽद्य न भविष्यति ॥ ४३॥ न वने नन्दनोद्देशे न चैत्ररथसंश्रये । कुतः पृथिव्यां सौमित्रे योऽस्य कश्चित्समो मृगः ॥ ४४ ॥ प्रतिलोमानुलोमाश्च रुचिरा रोमराजयः । शोभन्ते मृगमाश्रित्य चित्राः कनकबिन्दुभिः ॥ ४५ ॥ पश्यास्य जृम्भमाणस्य दीप्तामग्निशिखोपमाम् । जिह्वां मुखान्निःसरन्ती मेघादिव शतहदाम् ॥ ४६ ॥ मसारगलर्केमुखः शङ्खमुक्तानिभोदरः । कस्य नामानिरूप्योऽसौ न मनो लोभयेन्मृगः ॥४७॥ कस्य रूपमिदं दृष्टुा जाम्बूनदमयप्रभम् । नानारत्नमयं दिव्यं न मनो विस्मयं व्रजेत् ॥ ४८ ॥ मांसहेतोरपि मृगान्विहारार्थ च धन्विनः ।' घ्नन्ति लक्ष्मण राजानो मृगयायां महावने ॥ ४६॥ एतस्य मृगरत्नस्य परार्ध्ये काञ्चनत्वचि। उपवेक्ष्यति वैदेही मया सह सुमध्यमा ॥ ५० ॥ न कादली न प्रियकी न प्रवेणी न चाविकी। भवेदेतस्य सदृशी स्पर्शऽनेनेति मे मतिः ।। ५१ ॥ एष चैव मृगः श्रीमान्यश्च दिव्यो नभश्चरः । उभावेतौ मृगौ दिव्यौ तारामृगमहीमृगौ ॥ ५२ ॥ यदि वायं तथा यन्मां भवेद्वदसि लक्ष्मण । मायैषा राक्षसस्येति कर्तव्योऽस्य वधो मया ॥ ५३ ॥ एतेन हि नृशंसेन मारीचेनाकृतात्मना । वने विचरता पूर्वं हिंसिता मुनिपुङ्गवाः ॥ ५४ ।। उत्थाय बहवो येन मृगयायां जनाधिपाः । निहताः परमेष्वासास्तस्माद्वध्यस्त्वयं मृगः ॥ ५५ ॥ इह त्वं भव सन्नद्धो यन्त्रितो रक्ष मैथिलीम् । अहमेनं वधिष्यामि ग्रहीष्याम्यथवा मृगम् ॥ ५६ ॥ यावद्गच्छामि सौमित्रे मृगमानयितुं द्रुतम् । पश्य लक्ष्मण वैदेह्या मृगत्वचि गतां स्पृहाम् ॥ ५७ ॥ त्वचा प्रधानया ह्येष मृगोऽद्य न भविष्यति । अप्रमत्तेन ते भाव्यमाश्रमस्थेन सीतया ॥ ५८॥ यावत्पृषतमेकन सायकेन निहन्म्यहम् । हत्वैतच्चर्म वादाय शीघ्रमेष्यामि लक्ष्मण ॥ ५६ ।। प्रदक्षिणेनातिबलेन पक्षिणा जटायुषा बुद्धिमता च लक्ष्मण । भवाप्रमत्तः प्रतिगृह्य मैथिली प्रतिक्षणं सर्वत एव शङ्कितः ॥६०॥ रामानुगमनम् । तथा तु तं समुद्दिश्य भ्रातरं रघुनन्दनः । दधारासिं महातेजाः जाम्बूनदमयत्सरुम् ॥१॥ ततस्त्रिविनतं चापमादायात्मविभूषणम् । आबध्य च कलापौ द्वौ जगामोदग्रविक्रमः ॥२॥ तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै । बभूवान्तर्हितस्त्रासात्पुनः संदर्शनेऽभवत् ॥ ३ ॥ शङ्कितं तु समुज्रान्तमुत्पतन्तमिवाम्बरम् । दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥ ४॥ छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् । मुहूर्तादेव ददृशे मुहुर्दूरात्प्रकाशते ॥ ५ ॥ दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् । स दूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥ ६ ॥ आसीत्क्रूद्धस्तु काकुत्स्थो विवशस्तेन मोहितः । अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले ॥७॥ स तमुन्मादयामास मृगरूपो निशाचरः । मृगैः परिवृतोऽथान्यैरदूरात्प्रत्यदृश्यत ॥ ८ ॥ ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत । तत्क्षणादेव संत्रासात्पुनरन्तर्हितोऽभवत् ॥ ६ ॥ पुनरेव ततो दूरावृक्षखण्डाद्विनिःसृतः । दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ॥ १०॥ भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः । सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनः ॥ ११ ॥ संधाय सदृढं चापे विकृष्य बलवदली। तमेव मृगमुद्दिश्य ज्वलन्तमिव पन्नगम् ॥ १२ ॥ ( ६३ ) मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् । स भृशं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥ १३ ॥ मारीचस्यैव हृदयं बिभेदाशनिसंनिभः ।। तालमात्रमथोत्प्लुत्य न्यपतत्स भृशातुरः ॥ १४ ॥ व्यनदद्भैरवं नादं धरण्यामल्पजीवितः । म्रियमाणस्तु मारीचो जहौ तां कृत्रिमा तनुम् ॥ १५ ॥ स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् । इह प्रस्थापयेत्सीता तां शून्ये रावणो हरेत् ॥१६॥ स प्राप्तकालमाज्ञाय चकार च ततः स्वनम् । सदृशं राघवस्येव हा सीते लक्ष्मणेति च ॥ १७ ॥ तेन मर्मणि निर्विद्धं शरेणानुपमेन हि । मृगरूपं तु तत्त्यक्त्वा राक्षसं रूपमास्थितः ॥ १८॥ चक्रे स सुमहाकायो मारीचो जीवितं त्यजन् । तं दृष्ट्वा पतितं भूमौ राक्षस भीमदर्शनम् ॥ १६ ॥ रामो रुधिरसिक्ताङ्गं वेष्टमानं महीतले । जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥२०॥ मारीवस्य तु मायैषा पूर्वोक्ता लक्ष्मणेन तु । तत्तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः॥ २१ ॥ हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम् । ममार राक्षसः; सोऽयं श्रुत्वा सीता कथं भवेत् ॥ २२ ॥ लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति। इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥२३॥ तत्र रामं भयं तीवमाविवेश विषादजम् । राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्वनम् ॥ २४॥ निहत्य पृषतं चान्यं मांसमादाय राघवः । त्वरमाणो जनस्थानं ससाराभिमुखं तदा ॥ २५ ॥ ( ६४ ) लक्ष्मणानुगमनम् आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने । उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥ १॥ नहि मे जीवितं स्थाने हृदयं वावतिष्ठते । क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥ २॥ आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि । तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥ ३ ॥ रक्षसां वशमापनं सिंहानामिव गोवृषम् । न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥ ४ ॥ तमुवाच ततस्तत्र तुभिता जनकात्मजा । सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥५॥ यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यस । इच्छसि त्वं विनश्यन्तं राम लक्ष्मण मत्कृते ॥ ६॥ लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम् । व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ॥ ७ ॥ तेन तिष्ठसि विश्रब्धं तमपश्यन्महाद्युतिम् । किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ॥८॥ कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः । एवं ब्रुवाणां वैदेही वाष्पशोकसमन्विताम् ॥ ६ ॥ अब्रवील्लक्ष्मणस्रस्तां सीतां मृगवधूमिव । पन्नगासुरगन्धर्वदेवदानवराक्षसैः ॥ १० ॥ अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः । देवि देवमनुष्येषु गन्धर्वेषु पतत्त्रिषु ॥ ११ ॥ राक्षसेपु पिशाचेषु किन्नरेपु मृगेषु च । दानवेषु च घोरेपु न स विद्येत शोभने ॥ १२॥ यो रामं प्रतियुध्येत समरे वासवोपमम् । अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ॥ १३ ॥ न त्वामस्मिन्वने हातुमुत्सहे राघवं विना । अनिवार्य बलं तस्य बलैर्वलवतामपि ॥ १४ ॥ त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि । हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव ॥ १५ ॥ आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् । न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः ॥१६॥ गन्धर्वनगरप्रख्या माया तस्य च रक्षसः । न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ॥ १७ ॥ रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे । कृतवैराश्च कल्याणि वयमेतैनिशाचरैः॥ १८ ॥ खरस्य निधने देवि जनस्थानवघं प्रति । राक्षसा विविधा वाचो व्याहरन्ति महावने ॥ १६॥ हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि । लक्ष्मणेनैवमुक्ता तु ऋद्धा संरकलोचना ॥ २० ॥ अब्रवीत्परुषं वाक्यं लक्ष्मणं सत्यवादिनम् । अनार्यकरुणारम्भ नृशंस कुलपांसन ॥ २१ ॥ अहं तव प्रियं मन्ये रामस्य व्यसनं महत् । रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥ २२ ॥ नैव चित्रं सपत्तेषु पापं लक्ष्मण यद्भवेत् । त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥ २३ ॥ सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि । मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥ २४ ॥ तन्न सिध्यति सौमित्रे तवापि भरतस्य वा । कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् ॥ २५॥ उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् । समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम् ॥ २६ ॥ रामं विना क्षणमपि नैव जीवामि भूतले । इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ॥ २७ ॥ अब्रवीलक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः । उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ॥ २८ ॥ स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते । विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ॥ २६ ॥ न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे । श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम् ॥ ३० ॥ उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः । न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया ॥ ३१ ॥ धिक्त्वामद्य विनश्यन्तीं यन्मामेवं विशङ्कसे । स्त्रीत्वाद्दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ॥ ३२ ॥ गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने । रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ॥ ३३ ॥ निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे । अपि त्वां सह रामेण पश्येयं पुनरागतः ॥ ३४ ॥ लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा । प्रत्युवाच ततो वाक्यं तीव्रवाष्पपरिप्लुता ॥ ३५ ॥ गोदावरीं प्रवक्ष्यामि हीना रामेण लक्ष्मण । आबन्धिष्ये ऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥ ३६॥ पिबामि वा विषं तीदणं प्रवेक्ष्यामि हुताशनम् । न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे ॥ ३७ ॥ इति लक्ष्मणमाश्रुत्य सीता शोकसमन्विता । पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥ ३८ ॥ ( ६७ ) तमार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालमेत्राम् । आश्वासयामासः न चैव भर्तुः स्तं भ्रातरं किंचिदुवाच सीता ॥ ३६॥ ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य च । अवेक्षमाणो बहुशः स मैथिली जगाम रामस्य समीपमात्मवान् ॥ ४०॥ रावण-प्रवेशः। तया परूषमुक्तस्तु कुपितो राघवानुजः । स विकाङ्क्षन्भृशं रामं प्रतस्थे न चिरादिव ॥१॥ तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेही परिव्राजकरूपधृक् ॥ २॥ श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥ ३ ॥ परिव्राजकरूपेण वैदेहीमन्ववर्तत । तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥४॥ रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः । तामपश्यत्ततो बालां राजपुत्री यशस्विनीम् ॥५॥ रोहिणीं शशिना हीनां ग्रहवभृशदारुणः । तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः ॥ ६ ॥ संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः। शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥ ७॥ स्तिमितं गन्तुमारेभे भयाद्गोदावरी नदी। रामस्य त्वन्तरं प्रेप्सुदर्शग्रीवस्तदन्तरे ॥८॥ उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥ ६ ॥ अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः । सहसा भव्यरूपेण तृणैः कूप इवावृतः॥ १०॥ अतिष्ठत्प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम्- शुभां रुचिरदन्तोष्ठी पूर्णचन्द्रनिभाननाम् । आसीनां पर्णशालायां वाष्पशोकाभिपीडिताम् ॥ ११ ॥ स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेहीं हएचेता निशाचरः ॥१२॥ दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् । अब्रवीत्प्रथितं वाक्यं रहिते राक्षसाधिपः ॥ १३॥ रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव व बिभ्रती ॥ १४ ॥ ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥ १५ ॥ समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव । विशाले विमले नेत्रे रकान्ते कृष्णतारके ॥ १६ ॥ विशालं जघनं पीनमूरु करिकरोपमा । एतावुपचितौ वृत्तौ संहती संप्रगल्भितौ ॥ १७ ॥ पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ । मणिप्रवेकाभरणी रुचिरौ तौ पयोधरौ ॥ १८ ॥ चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे रामे नदीकृलमिवाम्भसा ॥ १६ ॥ नैव देवी न गन्धर्वी न यक्षी न च किन्नरी । नैवंरूपा मया नारी दृष्टपूर्वा महीतले ॥ २० ॥ रूपमग्र्यं च लोकेषु सौकुमार्य वयश्च ते । इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे ॥ २१ ॥ सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि । राक्षसानामयं वासो घोराणां कामरूपिणाम् ॥ २२ ॥ प्रसादाग्राणि रम्याणि नगरोपवनानि च । संपन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया ॥ २३ ॥ वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने । भर्तारं च वरं मन्ये त्वद्युक्तमसितक्षणे ॥ २४॥ का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते । वसूनां वा वरारोहे देवता प्रतिभासि मे ॥ २५ ॥ नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः । राक्षसानामयं वासः कथं तु त्वमिहागता ॥ २६ ॥ इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः । ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे ॥ २७ ॥ मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् । कथमेका महारण्ये न विभेषि वरानने ॥ २८ ॥ कासि कस्य कुतश्च त्वं किनिमित्तं च दण्डकान् । एका चरसि कल्याणि घोरान् राक्षससेवितान् ॥ २६ ॥ इति प्रशस्ता वैदेही रावणेन महात्मना । द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् ॥ ३० ॥ सर्वैरतिथिसत्कारैः पूजयामास मैथिली । उपानीयासनं पूर्वे पायेनाभिनिमन्त्र्य च ॥ ३१ ॥ ( ७० ) सीतारावणयो संवादः। रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा । परिव्राजकरूपेण शशंसात्मानमात्मना ॥ १॥ ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् । इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥ २॥ दुहिता जनकस्याहं मैथिलस्य महात्मनः । सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया ॥ ३॥ समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया । आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् । रुरून्गोधान्वराहांश्च हत्वाऽऽदायामिषं बहु ॥ ४ ॥ स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः ॥ एकश्च दण्डकारण्ये किमर्थ चरसि द्विज ॥५॥ एवं ब्रूवत्यां सीतायां रामपल्यां महाबलः । प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥६॥ येन वित्रासिता लोकाः स देवासुरमानुषाः । अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥ ७॥ त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् । रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥ ८ ॥ वह्वीनामुत्तस्त्रीणामाहतानामितस्ततः। सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ ६ ॥ लङ्का नाम समुद्रस्य मध्ये मम महापुरी। सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ॥ १०॥ तत्र सीते मया सार्द्धं वनेषु विचरिष्यसि । न चास्य वनवासस्य स्पृहयिष्यसि भामिनी ॥११॥ पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः। सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥१२॥ रावणेनैवमुक्ता तु कुपिता जनकात्मजा। प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥ १३ ॥ महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् । महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥ १४ ॥ सर्वलक्षणसंपन्नं न्यग्रोधपरिमण्डलम् । सत्यसंधं महाभागमहं राममनुव्रता ॥ १५ ॥ महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् । नृसिंहं सिंहसंकाशंमहं राममनुव्रता ॥ १६ ॥ पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् । पृथुकीर्ति महाबाहुमहं राममनुव्रता ॥ १७ ॥ त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् । नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥ १८ ॥ पादपान्काञ्चनाननं बहून्पश्यसि मन्दभाक् । राघवस्य प्रियां भार्या यस्त्वमिच्छसि राक्षस ॥१६॥ क्षुधितस्य च सिंहस्य मृगशवोस्तरखिनः । आशीविषस्य वदनादंष्ट्रामादातुमिच्छसि ॥ २० ॥ मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि । कालकूटं विषं पीत्वा खस्तिमानगन्तुमिच्छसि ॥ २१ ॥ अति सूच्या प्रमृजसि जिह्वया लेढि च तुरम् । राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि ॥ २२ ॥ अवसज्ज्य शिलां कण्ठे समुद्र तर्तुमिच्छसि । सूर्यचन्द्रमसौ चोभी पाणिभ्यां हर्तुमिच्छसि । यो रामस्य प्रियां भार्या प्रधर्षयितुमिच्छसि ॥ २३ ॥ अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि । कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि ॥ २४ ॥ ( ७२ ) अयोमुखानां शूलानां मध्ये चरितुमिच्छसि । रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥ २५ ॥ यदन्तरं सिंहमृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः । सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च ॥ २६ ॥ यदन्तरं काञ्चनसीसलोहयो- र्यदन्तरं चन्दनवारिपङ्कयोः। यदन्तरं हस्तिविडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ २७ ॥ यदन्तरं वायसवैनतेययो- र्यदन्तरं मद्गुमयूरयोरपि । यदन्तरं हंसकगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥ २८ ॥ एवं ब्रुवत्यां सीतायां संरब्धः परुषं वचः । ललाटे भ्रूकुटिं कृत्वा रावणः प्रत्युवाच ह ॥ २६॥ भ्राता वैश्रवणस्याहं सापत्नो वरवर्णिनि । रावणो नाम भद्रं ते दशग्रीवः प्रतापवान् ॥ ३० ॥ यस्य देवाः सगन्धर्वाः पिशाचपतगोरगाः। विद्रवन्ति सदा भीता मृत्योरिव सदा प्रजाः ॥ ३१ ॥ येन वैश्रवणो भ्राता वैमात्राः कारणान्तरे । द्वंद्वमासादितः क्रोधाद्रणे विक्रम्य निर्जितः ॥ ३२ ॥ मद्भयार्तः परित्यज्य स्वमधिष्ठानमृद्धिमत् । कैलासं पर्वतश्रेष्ठमध्यास्ते नरवाहनः ॥ ३३ ॥ यस्य तत्पुष्पकं नाम विमानं कामगं शुभम् । वीर्यादावर्जितं भद्रे येन यामि विहायसम् ॥ ३४ ॥ ( ७३ ) मम संजातरोषस्य मुखं दृष्ट्वैव मैथिलि । विद्रवन्ति परित्रस्ताः सुराः शक्रपुरोगमाः ॥ ३५ ॥ यत्र तिष्ठाम्यहं तत्र मारुतो वाति शङ्कितः । तीव्रांशुः शिशिरांशुश्च भयात्संपद्यते दिवि ॥ ३६ ॥ निष्कम्पपत्रास्तरवो नद्यश्च स्तिमितोदकाः । भवन्ति यत्र तत्राहं तिष्ठामि च चरामि च ॥ ३७॥ मम पारे समुद्रस्य लङ्का नाम पुरी शुभा । संपूर्णा राक्षसैर्घोरैर्यथेन्द्रस्यामरावती ॥ ३८ ॥ प्राकारेण परिक्षिप्ता पाण्डुरेण विराजिता । हेमकक्ष्या पुरी रम्या वैदूर्यमयतोरणा ३६ ॥ हस्त्यश्वरथसंवाधा तूर्यनादविनादिता । सर्वकामफलैवृक्षः संकुलोद्यानभूषिता ॥ ४० ॥ तत्र त्वं वस हे सीते राजपुत्रि मया सह । स्मरिष्यसि नारीणां मानुषीणां मनस्विनि ॥ ४१ ॥ भुञ्जाना मानुषान्भोगान्दिव्यांश्च वरवर्णिनि । न स्मरिष्यसि रामस्य-मानुषस्य गतायुषः ॥ ४२ ॥ अगुल्या न समो रामो मम युद्धे स मानुषः । तव भाग्येन संप्राप्तं भजस्व वरवर्णिनि ॥४३॥ एवमुक्ता तु वैदेही क्रुद्धा संरक्तलोचना। अब्रवीत्परुषं वाक्यं रहिते राक्षसाधिपम् ॥.४४ ॥ कथं वैश्रवणं देवं सर्वदेवनमस्कृतम् । भ्रातरं व्यपदिश्य त्वमशुभं कर्तुमिच्छसि ॥ ४५ ॥ अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुबुद्धिरजितेन्द्रियः ॥ ४६॥ अपहत्य शचीं भार्या शक्यमिन्द्रस्य जीवितुम् । नहि रामस्य भार्या मामानीय स्वस्तिमान्भवेत् ॥४७॥ ( ७४ ) जीवेच्चिरं वज्रधारस्य पश्चा- च्छचीं प्रधृष्याप्रतिरूपरूपाम् । न मादृशीं राक्षस धर्षयित्वा पीतामृतस्यापि तवास्ति मोक्षः ॥४८॥ सीताहरणम् । सीताया वचनं श्रुत्वा दशग्रीवः प्रतापवान् । हस्ते हस्तं समाहन्य चकार सुमहद्वपुः ॥ १॥ स मैथिलीं पुनर्वाक्यं बभाषे वाक्यकोविदः । नोन्मत्तया श्रुतौ मन्ये मम वीर्यपराक्रमौ ॥ २ ॥ उद्वहेयं भुजाभ्यां तु मेदिनीमम्बरे स्थितः । आपिवेयं समुद्रं च मृत्यु हन्यां रणे स्थितः ॥ ३॥ अर्कं तुद्यां शरैस्तीक्ष्णैर्विभिन्द्यां हि महीतलम् । कामरूपेण उन्मत्ते पश्य मां कामरूपिणम् ॥ ४॥ एवमुक्तवतस्तस्य रावणस्य शिखिप्रभे । क्रद्धस्य हरिपर्यन्ते रक्ने नेत्रे बभूवतुः ॥ ५ ॥ सद्यः सौम्यं परित्यज्य तीक्ष्णरूपं स रावणः । स्व रूपं कालरूपाभं भेजे वैश्रवणानुजः ॥६॥ संरक्लनयनः श्रीमांस्तप्तकाञ्चनभूषणः । क्रोधेन महताविष्टो नीलजीमूतसंनिभः ॥ ७॥ दशास्यो विंशतिभुजो बभूव क्षणदाचरः । स परिव्राजकच्छद्म महाकायो विहाय तत् ॥ ८॥ प्रतिपेदे स्वकं रूपं रावणो राक्षसाधिपः । रक्ताम्बरधरस्तस्थौ स्त्रीरत्नं प्रेक्ष्य मैथिलीम् ॥ ६ ॥ स तामसितकेशान्तां भास्करस्य प्रभामिव । वसनाभरणोपेतां मैथिली रावणोऽब्रवीत् ॥ १०॥ ( ७५ ) त्रिषु लोकेषु विख्यातं यदि भर्तारमिच्छसि । मामाश्रय वरारोहे तवाहं सदृशः पतिः ॥११॥ मां भजस्व चिराय त्वमहं श्लाघ्यः पतिस्तव । नैव चाहं क्वचिद्भद्रे करिष्ये तव विप्रियम् ॥ १२ ॥ त्यज्यतां मानुषो भावो मयि भावः प्रणीयताम् । राज्याच्च्युतमसिद्धार्थं रामं परिमितायुषम् ॥ १३ ॥ कैर्गुणैरनुरक्तासि मूढे पण्डितमानिनि । यः स्त्रियो वचनाद्राज्यं विहाय ससुहृजनम् ॥ १४ ॥ अस्मिन्न्यालानुचरिते वने वसति दुर्मतिः । इत्युक्त्वा मैथिलीं वाक्यं प्रियाही प्रियवादिनीम् ॥ १५ ॥ अभिगम्य सुदुष्टात्मा राक्षसः काममोहितः। जग्राह रावणः सीतां वुधः खे रोहिणीमिव ॥ १६ ॥ वामेन सीतां पद्माक्षी मूर्घजेषु करेण सः । ऊर्वोस्तु दक्षिणेनैव परिजग्राह पाणिना ॥ १७ ॥ तं दृष्ट्वा गिरिशृङ्गाभं तीक्ष्णदंष्ट्र महाभुजम् । प्राद्रवन्मृत्युसंकाशं भयार्ता वनदेवताः ॥ १८ ॥ स च मायामयो दिव्यः खरयुक्तः खरस्वनः । प्रत्यदृश्यत हेमांगो रावणस्य महारथः ॥ १६ ॥ ततस्तां परुषैर्वाक्यैरभितयं महास्वनः । अङ्केनादाय वैदेहीं रथमारोहयत्तदा ॥ २० ॥ सा गृहीतातिचुक्रोश रावन यशस्विनी । रामेति सीता दुःखार्ता रामं दूरं गतं वने ॥ २१ ॥ तामकामां स कामार्तः पन्नगेन्द्रवधूमिव । विचेष्टमानामादाय उत्पपाताथ रावणः ॥ २२ ॥ ततः सा रतसेन्द्रेण ह्रियमाणा विहायसा । भृशं चुक्रोश मत्तेव भ्रान्तचित्ता यथातुरा ॥ २३ ॥ हा लक्ष्मण महाबाहो गुरुचित्तप्रसादक । ह्रियमाणां न जानीषे रक्षसा कामरूपिणा ॥ २४ ॥ जीवितं सुखमर्थ व धर्महेतोः परित्यजन् । ह्रियमाणामधर्मेण मां राघव न पश्यसि ॥ २५ ॥ ननु नामाविनीतानां विनेतासि परंतप । कथमेवंविधं पापं न त्वं शाधि हि रावणम् ॥ २६ ॥ ननु सद्योऽविनीतस्य दृश्यते कर्मणः फलम् । कालोऽप्यङ्गी भवत्यत्र शस्यानामिव पक्तये ॥ २७ ॥ त्वं कर्म कृतवानेतत्कालोपहतचतनः । जीवितान्तकरं घोरं रामाद्वयसनमाप्नुहि । २८॥ हन्तेदानीं सकामा तु कैकेयी बान्धवैः सह । ह्रियेयं धर्मकामस्य धर्मपत्नी यशस्विनः ॥ २६ ॥ आमन्त्रये जनस्थानं कर्णिकारांश्च पुष्पितान् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥३०॥ हंससारससंघुष्टां वन्दे गोदावरी नदीम् । क्षिप्रं रामाय शंसध्वं सीतां हरति रावणः ॥ ३१॥ दैवतानि च यान्यस्मिन्वने विविधपादपे । नमस्करोम्यहं तेभ्यो भर्तुः शंसत मां हृताम् ॥ ३२ ॥ यानि कानिचिदप्यत्र सत्त्वानि विविधानि च । सर्वाणि शरणं यामि मृगपक्षिगणानि वै ॥ ३३॥ ह्रियमाणां प्रियां भर्तुः प्राणेभ्योऽपि गरीयसीम् । विवशा ते हृता सीता रावणेनेति शंसत ॥ ३४॥ विदित्वा तु महाबाहुरमुत्रापि महाबलः । आनेप्यति पराक्रम्य वैवस्वतहतामपि ॥ ३५॥ सा तदा करुणावाचो विलपन्ती सुदुःखिता। वनस्पतिगतं गृधं ददर्शायतलोचना ॥ ३६ ॥ सा तमुवीक्ष्य सुश्रोणी रावणस्य वशंगता। समाक्रन्दद्भयपरा दुःखोपहितया गिरा ॥ ३७ ॥ जटायो पश्य मामार्य ह्रियमाणामनाथवत् । अनेन राक्षसेन्द्रेण करुणं पापकर्मणा ॥ ३८॥ नैष वारयितुं शक्यस्त्वया क्रूरो निशाचरः । सत्त्ववाञ्जितकाशी व सायुधश्चैव दुर्मतिः ॥ ३६ ॥ रामाय तु यथातत्त्वं जटायो हरणं मम । लक्ष्मणाय च तत्सर्वमाख्यातव्यमशेषतः ॥ ४०॥ जटायुः। तं शब्दमवसुप्तस्तु जटायुरथ शुश्रुवे । निरैक्षद्रावणं क्षिप्रं वैदेहीं च ददर्श सः ॥ १॥ ततः पर्वतशृङ्गाभस्तीक्ष्णतुण्डः खगोत्तमः । वनस्पतिगतः श्रीमान्व्याजहार शुभां गिरम् ॥ २॥ दशग्रीव स्थितो धर्म पुराणे सत्यसंश्रवः । भ्रातस्त्वं निन्दितं कर्म कर्तुं नाहसि सांप्रतम् ॥ ३॥ जटायुर्नाम नानाहं गृधराजो महाबलः । राजा सर्वस्य लोकस्य महेन्द्रवरुणोपमः ॥ ४ ॥ लोकानां च हिते युक्तो रामो दशरथात्मजः। तस्यैषा लोकनाथस्य धर्मपत्नी यशस्विनी ॥ ५ ॥ सीता नाम वरारोहा यां त्वं हर्तुमिहेच्छसि । कथं राजा स्थितो धर्म परदारान्परामृशेत् ॥ ६॥ रक्षणीया विशेषेण राजदारा महाबल । निवर्तय गतिं नीचां परदाराभिमर्शनात् ॥ ७ ॥ न तत्समाचरेद्धीरो यत्परोऽस्य विगर्हयेत् । यथात्मनस्तथान्येषां दारा रक्ष्या विमर्शनात् ॥ ८॥ ( ७८ ) यदि शूर्पणखाहेतोर्जनस्थानगतः खरः । अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ॥ ६ ॥ अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः । यस्य त्वं लोकनाथस्य हृत्वा भार्यां गमिष्यसि ॥१०॥ क्षिप्रं विसृज वैदेहीं मा त्वा घोरेण चक्षुषा । दहेद्दहनभूतेन वृत्तमिन्द्राशनिर्यथा ॥ ११ ॥ सर्पमाशीविषं वड्वा वस्त्रान्ते नावबुध्यसे । ग्रीवायां प्रतिमुक्तं च कालपाशं न पश्यसि ॥ १२ ॥ स भारः सौम्य भर्तव्यो यो नरं नावसादयेत् । तदन्नमपि भोक्तव्यं जीर्यते यदनामयम् ॥ १३ ॥ यत् कृत्वा न भवेद्धर्मो न कीर्तिर्न यो ध्रुवम् । शरीरस्य भवेत् खेदः कस्तत्कर्म समाचरेत् ॥ १४ ॥ वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी। न चाप्यादाय कुशली वैदेहीं मे गमिष्यसि ॥१५॥ न शक्तस्त्वं बलाद्धर्तुं वैदेहीं मम पश्यतः । हेतुभिर्न्यायसंयुक्तैर्धवां वेदश्रुतीमिव ॥ १६ ॥ नहि मे जीवमानस्य में नयिष्यसि शुभामिमाम् । सीतां कमलपत्राक्षीं रामस्य महिषर्षी प्रियाम् ॥ १७ ॥ अवश्यं तु मया कार्यं प्रियं तस्य महात्मनः । जीवितेनापि रामस्य तथा दशरथस्य च ॥ १८ ॥ तिष्ठ तिष्ठ दशग्रीव मुहूर्त पश्य रावण । वृन्तादिव फलं त्वां तु पातयेयं रथोत्तमात् । युद्धातिथ्यं प्रदास्यामि यथाप्राणं निशाचर ॥ १६ ॥ इत्युक्तः क्रोधताम्राक्षस्तप्तकाञ्चनकुण्डलः । राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रममर्षणः ॥ २० ॥ ( ७६ )

स संप्रहारस्तुमुलस्तयोस्तस्मिन् महामृधे । बभूव वातोद्धुतयोर्मेघयोर्गगने यथा ॥ २१ ॥ तस्य तीक्ष्णनखाभ्यां तु चरणाभ्यां महाबलः । चकार बहुधा गात्रे व्रणान् पतगसत्तमः ॥ २२ ॥ अथ कोधाद्दशग्रीवो जग्राह दश मार्गणान् । मृत्युदण्डनिभान्घोराञ्छनोर्निधनकातया ॥ २३ ॥ स तैर्वाणैर्महावीर्यः पूर्णमुक्तैरजिह्मगैः । बिभेद निशितैस्तीक्ष्णैर्गृधं घोरैः शिलीमुखैः ॥ २४ ॥ स राक्षसरथे पश्यानकी वाष्पलोचनाम् । अचिन्तयित्वा बाणांस्तान्राक्षसं समभिद्रवत् ॥ २५ ॥ ततोऽस्य सशरं चापं मुक्तामणिविभूषितम् । चरणाभ्यां महातेजा बभज पतगोत्तमः ॥ २६ ॥ ततोऽन्यद्धनुरादाय रावणः क्रोधमूञ्छितः । ववर्ष शरवर्षाणि शतशोऽथ सहस्रशः ॥ २७ ॥ शरैरावारितस्तस्य संयुगे पतगेश्वरः । कुलायमभिसम्प्राप्तः पक्षिवञ्च बभौ तदा ॥ २८ ॥ स तानि शरजालानि पक्षाभ्यां तु विधूय है। चरणाभ्यां महातेजा बभजास्य महद्धनुः ।। २६ ।। तश्चाग्निसदृशं दीप्तं रावणस्य शरावरम् । पक्षाभ्यां च महातेजा व्यधुनोत् पतगेश्वरः ॥ ३०॥ काञ्चनोरश्छदान्दिव्यान् पिशाचवदनान्खरान् । तांश्चास्य जवसंपन्नाञ्जघान समरे बली ॥ ३१ ॥ अथ त्रिवेणुसंपन्नं कामगं पावकार्चिषम्। मणि-सोपान-चित्राझं बभा च महारथम् ॥ ३२॥ पूर्णचन्द्रप्रतीकाशं छत्रं च व्यजनैः सह । पातयामास वेगेन ग्राहिभि राक्षसैः सह ॥ ३३ ॥ ( ८० ) सारथेश्चास्य वेगेन तुण्डेन च महच्छिरः । पुनर्व्यपहनच्छीमान्पतिराजो महाबलः ॥ ३४॥ स भग्न्धन्वा विरथो हताश्वो हतसारथिः । अङ्केनादाय वैदेहीं पपात भुवि रावणः ॥ ३५॥ निपपात भृशं पृष्ठे दशग्रीवस्य वीर्यवान् । तं गृहीत्वा नखैस्तीक्ष्णैर्विददार समन्ततः ॥ ३६ ॥ विददार नखैरस्य तुण्डं पृष्ठे समर्पयन् । केशांश्चोत्पाटयामास नखपक्षमुखायुधः ॥ ३७ ॥ स तदा गृध्रराजेन क्लिश्यमानो मुहुर्मुहुः । अमर्षस्फुरितोष्ठः सन्प्राकम्पत च राक्षसः ॥ ३८ ॥ ॥ संपरिष्वज्य वैदेहीं वामेनाङ्केन रावणः । तलेनाभिजधाना” जटायुं क्रोधमूञ्छितः ॥ ३६ ॥ जटायुस्तमतिक्रम्य तुण्डेनास्य खगाधिपः । वामबाहून्दश तदा व्यपाहरदरिंदमः ॥४०॥ संच्छिन्नबाहोः सद्यो वै बाहवः सहसाऽभवन् । विषज्वालावलीमुक्ता वल्मीकादिव पन्नगाः ॥४१॥ ततो मुहूर्तं संग्रामो बभूवाऽतुलवीर्ययोः । राक्षसानां च मुख्यस्य पक्षिणां प्रवरस्य च ॥ ४२ ॥ तस्य व्यायच्छमानस्य रामस्यार्थे स रावणः । पक्षौ पादौ च पाचौं च खङ्गमुद्धृत्य सोऽच्छिनत् ॥ ४३ ॥ स च्छिन्नपक्षः सहसा रक्षसा रौद्रकर्मणा । निपपात महागृध्रो धरण्यामल्पजीवितः ॥ ४४ ॥ तं दृष्ट्वा पतितं भूमौ क्षतजार्द्रं जटायुषम् । अभ्यधावत वैदेही स्ववन्धुमिव दुःखिता ॥ ४५ ॥ तं नीलजीमूतनिकाशकल्पं स पाण्डुरोरस्कमुदारवीर्यम् । ( ८१ ) ददर्श लङ्काऽधिपतिः पृथिव्यां जटायुषं शान्तमिवाग्निदावम् ॥ ४६ ॥ ततस्तु तं पत्ररथं महीतले निपातितं रावणवेगमर्दितम् । पुनश्च संगृह्य शशिप्रभानना रुरोद सीता जनकात्मजा तदा ॥४७॥ ---:००: लङ्का-प्रापणम्। तमल्पजीवितं गृधं स्फुरन्तं राक्षसाधिपः । ददर्श भूमौ पतितं समीपे राघवाश्रमात् ॥१॥ सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम् । गृध्रराजं विनिहतं विललाप सुदुःखिता ॥२॥ न नूनं राम जानासि महह्यसनमात्मनः । धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः॥३॥ अहं हि कृपया राम मां त्रातुमिह संगतः। शेते विनिहतो भूमौ ममाभाग्याद्विहंगमः ॥४॥ त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना। सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥५॥ तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् । श्रभ्यधावत वैदेहीं रावणो राक्षसाधिपः॥६॥ तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् । मुञ्चमुञ्चेति बहुशः प्राप तां राक्षसाधिपः ॥ ७H कोशन्तीं रामरामेति रामेण रहितां वने । जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥ ८॥ प्रघर्षितायां वैदेह्यां बभूव सचराचरम् । जगत्सर्वममर्यादं तमसाउन्धेन संवृतम् ॥EM स तु तां राम रामेति रुदती लक्ष्मणेति च । जगामादाय चाकाशं रावणो राक्षसेश्वरः॥ १०॥ तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी । रराज राजपुत्री तु विद्युत्सौदामनी यथा ॥ ११ ॥ उद्धृतेन च वस्त्रेण तस्याः पीतेन रावणः । अधिकं परिवभ्राज गिरिर्दीप्त इवाग्निना ॥ १२ ॥ तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च । पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥ १३ ॥ तस्याः कौशेयमुद्धृतमाकाशे कनकप्रभम् । बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥ १४ ॥ तस्यास्तद्विमलं वक्त्रमाकाशे रावणाङ्कगम् । न रराज विना रामं विनालमिव पङ्कजम् ॥ १५ ॥ चरणान्नपुरं भ्रष्टं वैदेह्या रत्नभूषितम् । विद्युन्मण्डलसंकाशं पपात धरणीतले ॥ १६ ॥ तरुप्रवालरक्का सा नीलाङ्गं राक्षसेश्वरम्। प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥ १७ ॥ तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा । जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥ १८ ॥ तस्यास्तान्यग्निवर्णानि भूषणानि महीतले । सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात् ॥ १६ ॥ तस्याः स्तनान्तरा्द्भ्रष्टो हारास्ताराधिपद्युतिः । वैदेह्या निपतन्भाति गङ्गेव गगनच्युता ॥ २० ॥ रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् । रुदती करुणां सीतां ह्रियमाणा तमब्रवीत् ॥ २१ ॥ न व्यपत्रपसे नीच कर्मणाऽनेन रावण । ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे ॥ २२ ॥ ( ८३ ) त्वयैव नूनं दुष्टात्मन्भीरुणा हर्तुमिच्छता । ममापवाहितो भर्ता मृगरूपेण मायया ॥ २३ ।। मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम । विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ॥ २४ ॥ येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि । व्यवसाय स्तु ते नीच भविष्यति निरर्थकः ।। २५ ॥ नह्यहं तमपश्यन्ती भर्तारं विवुधोपमम् । उत्सहे शत्रुवशगा प्राणान्धारयितुं चिरम् ॥ २६ ॥ न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे । मृत्युकाले यथा मर्यो विपरीतानि सेवते ॥ २७ ॥ मुमूर्षणां तु सर्वेषां यत्पथ्यं तन्न रोचते । पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम् ॥ २८ ॥ व्यक्तं हिरण्मयांस्त्वं हि संपश्यसि महीरुहान् । नदी वैतरणी घोरां रुधिरौघविवाहिनीम् ॥ २६ ॥ खङ्गपत्रवनं चैव भीमं पश्यसि रावण । तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् ॥ ३०॥ द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् । न हि त्वमीशं कृत्वा तस्यालीकं महात्मनः॥ ३१ ॥ धारितुं शक्ष्यसि चिरं विषं पीत्वेव निघृण । वद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥ ३२ ॥ क गतो त्वप्स्यसे शर्म मम भर्तुर्महात्मनः । निमेषान्तरमात्रेण विना भ्रातरमाहवे ॥३३॥ राक्षसा निहता येन सहस्राणि चतुर्दश । कथं स राघवो वीरः सर्वास्त्रकुशलो वली । न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ॥ ३४॥ एतच्चान्यच्च परुष वैदेही रावणाङ्कगा। भयशोकसमाविष्टा करुणं विललाप ह ॥ ३५॥ ह्रियमाणा तु वैदेही कश्चिन्नाथमपश्यती। ददर्श गिरिशृङ्गस्थान्पश्च वानरपुङ्गवान् ॥ ३६॥ तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च ॥ ३७ ॥ मुमोच यदि रामाय शंसेयुरिति भामिनी । वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥ २८॥ संभ्रमात्तु दशग्रीवस्तत्कर्म च न बुद्धवान् । पिङ्गाक्षस्तां विशालाक्षीँ नेत्रैरनिमिषैरिव ॥ ३६॥ विक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः । स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥ ४० ॥ जगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः । तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥ ४१ ॥ उत्सङ्गेनैव भुजगी तीदणदंष्ट्रां महाविषाम् । वनानि सरितः शैलान्सरांसि च विहायसा ॥ ४२ ॥ स क्षिप्रं समतीयाय शरश्चापादिव च्युतः । तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥ ४३ ॥ सरितां शरणं गत्वा समतीयाय सागरम् । संभ्रमात्परिवृत्तोर्मी रुद्धमीनमहोरगः ॥ ४४ ॥ वैदेह्यां हियमाणायां बभूव वरुणालयः । अन्तरिक्षगता वाचः ससृजुश्चारणास्तथा ॥ ४५ ॥ एतदन्तो दशग्रीव इति सिद्वास्तदाऽब्रुवन् । स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः ॥ ४६ ॥ प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः। सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ॥ ४७ ॥ संरूढकक्ष्यां बहुलां वमन्तःपुरमाविशत् । तत्र तामसितापानीं शोकमोहसमन्विताम् । ४८ । निदधे रावणः सीतां मयो मायामिवासुरीम् । अब्रवीच्च दशग्रीवः पिशाचीर्दर्शनाः ॥ ४६H यथा नैनां पुमान्स्त्री वा सीतां पश्यत्यसंमतः। मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥ ५० ॥ यद्यदिच्छेत्तदैवास्या देयं मच्छन्दतो यथा । या च वक्ष्यति वैदेहीं वचनं किञ्चिदप्रियम् ॥ ५१॥ अज्ञानाद्यदि वा ज्ञानान्न तस्या जीवितं प्रियम् । तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥ निष्क्रम्यान्तःपुरात्तस्मारत्किं कृत्यमिति चिन्तयन् ॥ ५२ ॥

     राम-निवर्तनम्।

राक्षसं मृगरूपेण चरन्तं कामरूपिणम् । निहत्य रामो मारीचं तूर्ण पथि न्यवर्तत ॥ १॥ तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् । करस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥ २ ॥ स तस्य खरमाशाय दारुणं रोमहर्षणम् । शङ्कयामास गोमायोः खरेण परिशङ्कितः ॥३॥ अशुभं वत मन्येऽहं गोमायुर्वाशते यथा । खस्ति स्यादपि वैदेहा राक्षसैर्भक्षणं विना ॥ ४ ॥ तं दीनमानसं दीनमासेदुर्मृगपक्षिणः । सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः खरान् ॥५॥ तानि निमित्तानि महाघोराणि राघवः । न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ॥६॥ ( ८६ ) आजगाम जनस्थानं चिन्तयन्नेव राघवः। ततो लक्ष्मणरामायान्तं ददर्श विगतप्रभम् ॥ ७॥ ततो विदूरे रामेण समीयाय स लक्ष्मणः । विषण्णः सन्विषण्णेन दुःखितो दुःखभागिना ॥८॥ स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम् । विहाय सीतां विजने वने राक्षससेविते ॥६॥ गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः । उवाच मधुरोदर्कमिदं परुषमार्तवत् ॥ १० ॥ अहो लक्ष्मण गर्ह्यं ते कृतं यत्त्वं विहाय ताम् । सीतामिहागतः सौम्य कच्चित्स्वस्ति भवेदिति ॥ ११ ॥ न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा । विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ॥१२॥ अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे । अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे ॥ १३ ॥ जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै । यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् ॥ १४ ॥ वाशन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् । अपि स्वस्ति भवेत्तस्या राजपुत्र्या महावल ॥ १५ ॥ इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम् । हतं कथंचिन्महता श्रमेण स राक्षसोऽन्भूम्रियमाण एव ॥ १६ ॥ मनश्च मे दीनमिहाप्रहृष्टं चतुश्च सव्यं कुरुते विकारम् । असंशयं लक्ष्मण नास्ति सीता हता मृता वा पथि वर्तते वा ॥ १७ ॥ ( ८७ ) स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः । पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥ १८ ॥ प्रस्थितं दण्डकारण्यं या मामनुजगाम ह । क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥ १६॥ राज्यभ्रष्टस्य दीनस्य दण्डकान्परिधावतः। क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥ २० ॥ यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् । क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥ २१ ॥ पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण । विना तां तपनीयामां नेच्छेयं जनकात्मजाम् ॥ २२ ॥ कञ्चिज्जीवति वैदेही प्राणैः प्रियतरा मम । कञ्चित्प्रवाजनं वीर न मे मिथ्या भविष्यति ॥ २३ ।। सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि । कञ्चित्सकामा कैकेयी सुखिता सा भविष्यति ॥ २४ ॥ सपुत्रराज्यां सिद्धार्थो मृतपुत्रा तपस्विनी । उपस्थास्यति कौसल्या कञ्चित्सौम्येन कैकेयीम् ॥ २५ ॥ यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥ २६ ॥ यदि मामाश्रमगतं वैदेही नाभिभाषते । पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥ २७ ॥ हि लक्ष्मण वैदेही यदि जीवति वा न वा । त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी॥ २८ ॥ सुकुमारी च बाला च नित्यं चादुःखभागिनी । मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥ २६ ॥ सर्वथा रक्षसा तेन जिलेन सुदुरात्मना । वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥ ३०॥ ( ८८ ) श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम । त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥ ३१ ॥ सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने । प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥ ३२ ॥ दुःखिताः खरघातेन राक्षसाः पिशिताशनाः । तैः सीता निहता घोरैर्भविष्यति न संशयः ॥ ३३ ॥ अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन । किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥ ३४ ॥ इति सीतां वरारोहां चिन्तयन्नेव राघवः । आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥ ३५॥ विगर्हमाणोऽनुजमार्तरूपं क्षुधाश्रमेणैव पिपासया च । विनिःश्वसन्शुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥ ३६॥ स्वमाश्रम स प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् । एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो वभूव ॥ ३७॥ अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः । परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः ॥ ३८ ॥ तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् । यदा सा तव विश्वासाद्वने विरहिता मया ॥ ३६॥ दृष्दैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण । शङ्कमानं महत्पापं यत्सत्यं व्याथितं मनः॥४०॥ स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे । दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥ ४१ ॥ ( ६ ) एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः । भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥ ४२ ॥ न स्वयं कामकारेण तां त्यक्त्वाऽहमिहागतः। प्रचोदितस्तयैवोनस्त्वत्सकाशमिहागतः ॥ ४३ ॥ आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम् । परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥ ४४ ॥ सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली । । गच्छ गच्छेति मामाशु रुदती भयविक्लवा ॥४५॥ प्रचोद्यमानेन मया गच्छेति वहुशस्तया । प्रत्युक्ता मैथिली वाक्यमिदं तत्प्रत्ययान्वितम् ॥ ४६ ॥ न तत्पश्याम्यहं रक्षो यदस्य भयमावहेत् । निर्वृता भव नास्त्येतत्केनाप्येतदुदाहृतम् ॥ ४७ ॥ विगहितं च नीचं च कथमार्योऽभिधास्यति । त्राहीति वचनं सीते यस्त्रायेत्रिदशानपि ॥४८॥ किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् । विखरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ॥ ४६ ।। राक्षसेनेरितं वाक्यं त्रासात्त्राहीति शोभने । न भवत्या व्यथा कार्या कुनारीजनसेविता ॥ ५० ॥ अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका । न वास्ति त्रिषु लोकेषु पुमान्यो राघवं रणे ॥ ५१ ॥ जातो वा जायमानो वा संयुगे यः पराजयेत् । अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः ॥ ५२ ।। एवमुक्ता तु वैदेही परिमोहितचेतना। उवाचाणि मुञ्चन्ती दारुणं मामिदं वचः ॥ ५३ ॥ भावो मयि तवात्यर्थपाप एव निवेशितः । विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे ॥ ५४॥ (६० ) संकेताद्भरतेन त्वं रामं समनुगच्छसि । क्रोशन्तं हि यथात्यर्थ नैनमभ्यवपद्यसे ॥ ५५ ॥ रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि । राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे ॥ ५६ ॥ एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः । क्रोधात्प्रस्फुरमाणोष्ठ श्राश्रमादभिनिर्गतः ॥ ५७ ॥ एवं व्रुवाणं सौमित्रिं रामः संतापमोहितः। अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः ॥ ५८ ॥ जानन्नपि समर्थ मां रक्षसामपवारणे । अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान् ॥ ५६ ।। न हि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम् । क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत्त्वमिहागतः ॥ ६॥ सर्वथा त्वपनीतं ते सीतया यत्प्रचोदितः । क्रोधस्य वशमागम्य नाकरोः शासनं मम ॥ ६१॥ असौ हि राक्षसः शेते शरेणाभिहतो मया । मृगरूपेण येनाहमाश्रमादपवाहितः ॥ ६२ ॥ विकृष्य चापं परिधाय सायक सलीलवाणेन च ताडितो मया । मार्गी तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः ॥ ६३ ॥ शराहतेनैव तदातया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम् । उपाहतं तद्वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥ ६४ ॥ ( ६१ ) अन्वेषणम् । मृशमात्रजमानस्य तस्याधो वामलोचनम् । प्रास्फुरञ्चास्खलद्रामो वेपथुश्चास्य जायते ॥ १॥ उपालक्ष्य निमित्तानि सोऽशुभानि मुहुर्मुहुः । अपि क्षेमं तु सीताया इति वै व्याजहार ह॥२॥ त्वरमाणो जगामाथ सीतादर्शनलालसः। शून्यमावसथं दृष्ट्वा बभूवोद्विग्नमानसः ॥ ३॥ उद्भमन्निव वेगेन विक्षिपरघुनन्दनः। तत्र तत्रोटजस्थानमभिवीय समन्ततः ॥४॥ ददर्श पर्यशालां च सीतया रहितां तदा । श्रिया विरहितां ध्वस्तां हेमन्ते पद्मिनीमिव ॥५॥ रुदन्तमिव वृक्षश्च ग्लानपुष्पमृगद्विजम् । श्रिया विहीन विध्वस्तं सत्यतं वनदैवतैः ॥६॥ विप्रकीर्णाजिनकुशं विप्रविद्धबृसीकटम् । दृष्ट्वा शून्योटजस्थानं विललाप पुनः पुनः ॥ ७॥ हृता मृता वा नष्टा वा भक्षिता वा भविष्यति । निलीनाप्यथवा भीरुरथवा वनमाश्रिता ॥८॥ गता विवेतुं पुष्पाणि फलान्यपि च वा पुनः । अथवा पद्मिनीं याता जलार्थं वा नदीं गता ॥ ६ ॥ यत्नान्मृगयमाणस्तु नाससाद वने प्रियाम् । शोकरक्तेक्षणाः श्रीमानुन्मत्त इव लक्ष्यते ॥१०॥ वृक्षात्वृक्षं प्रधावन्स गिरीश्चापि नदीनदम् । बभ्राम विलपन्रामः शोकपङ्कार्णवप्लुतः ॥ ११ ॥ अस्ति कच्चित्त्वया दृष्टा सा कदम्वप्रिया प्रिया । कदम्ब यदि जानीषे शंस सीतां शुभाननाम् ॥ १२॥ (१२) स्निग्धपल्लवसंकाशां पीतकौशेयवासिनीम् । शंसव यदि सा दृष्टा बिल्व बिल्वोपमस्तनी ॥ १३ ॥ अथवाऽर्जुन शंस त्वं प्रियां तामर्जुनप्रियाम् । जनकस्य सुता तन्वी यदि जीवति वा न वा ॥ १४ ॥ ककुभः ककुभोरूं तां व्यक्तं जानाति मैथिलीम् । लतापल्लवपुष्पाढ्यो भाति ह्येष वनस्पतिः ॥ १५॥ भ्रमरैरुपगीतश्च यथा द्रुमवरो ह्यसि । एष व्यक्तं विजानाति तिलकस्तिलकप्रियाम् ॥ १६ ॥ अशोक शोकापनुद शोकोपहतचेतनम् । त्वन्नामानं कुरु क्षिप्रं प्रियासंदर्शनेन माम् ॥ १७ ॥ यदि ताल त्वया दृष्टा पक्कतालोपमस्तनी। कथयस्व वरारोहां कारुण्यं यदि ते मयि ॥ १८ ॥ यदि दृष्टा त्वया जम्बो जाम्बूनदसमप्रभा । प्रियां यदि विजानासि निःशङ्कं कथयस्व मे ॥ १६ ॥ अहो त्वं कर्णिकाराद्य पुष्पितः शोभसे भृशम् । कर्णिकारप्रियां साध्वीं शंस दृष्टा यदि प्रिया ॥ २०॥ चूतनीपमहासालान्पनसान्कुररांस्तथा । दाडिमानपि तान्गत्वा दृष्ट्वा रामो महायशाः ॥ २१॥ बकुलानथ पुंनागांश्चन्दनान्केतकांस्तथा । पृच्छन्रामो वने भ्रान्त उन्मत्त इव लक्ष्यते ॥ २२ ।। अथवा मृगशावाक्षीं मृग जानासि मैथिलीम् । मृगविप्रेक्षणी कान्ता मृगीभिः सहिता भवेत् ॥ २३ ॥ गज सा गजनासोरूर्यदि दृष्टा त्वया भवेत् । तां मन्ये विदितां तुभ्यमाख्याहि वरवारण ॥ २४ ॥ शार्दूल यदि सा दृष्टा प्रिया चन्द्रनिभानना । मैथिली मम विस्रब्धः कथयस्व न ते भयम् ॥ २५ ॥ (६३ ) किं धावसि प्रिये नूनं दृष्टासि कमलक्षणे । वृक्षराच्छाद्य चात्मानं किं मां न प्रतिभाषसे ॥ २६ ॥ तिष्ठ तिष्ठ वरारोहे न तेऽस्ति करुणा मयि । नात्यर्थ हास्यशीलासि किमर्थे मामुपेक्षसे ॥ २७ ॥ पीतकौशेयकेनासि सूचिता वरवर्णिनि । धावन्त्यपि मया दृष्टा तिष्ठ यद्यस्ति सौहृदम् ॥२८॥ नैव सा नूनमथवा हिंसिता चारुहासिनी। कृच्छं प्राप्तं हि मां नूनं यथापेक्षितुमर्हति ॥ २६ ॥ व्यक्तं सा भक्षिता वाला राक्षसैः पिशिताशनैः। विभज्याङ्गानि सर्वाणि मया विरहिता प्रिया ॥ ३०॥ नूनं तच्छुभदन्तोष्ठं सुनासं शुभकुण्डलम् । पूर्णचन्द्रनिभं ग्रस्तं मुखं निष्प्रभतां गतम् ॥ ३१ ॥ सा हि चन्दनवर्णाभा ग्रीवा ग्रैवेयकोचिता । कोमला विलपन्त्यास्तु कान्ताया भक्षिता शुभा ॥ ३२ ॥ नूनं विक्षिप्यमारणौ तौ बाहू पल्लवकोमलौ । भक्षितौ वेपमानायौ सहस्ताभरणाङ्गदौ ॥ ३३ ॥ मया विरहिता वाला रक्षसां भक्षणाय वै। सार्थनेव परित्यक्ता भक्षिता बहुवान्धवा ॥ ३४ ॥ हा लक्ष्मण महावाहो पश्यसे त्वं प्रियां क्वचित् । हा प्रिये व गता भद्रे हा सीतेति पुनः पुनः ॥ ३५ ॥ इत्येवं विलपरामः परिधावन्वनाद्वनम् । क्वचिदुद्भमते योगात्वचिद्विभ्रमते बलात् ॥ ३६॥ कचिन्मत्त इवाभाति कान्तान्वेषणतत्परः। स वनानि नदीः शैलान्गिरिप्रस्रवणानि च । काननानि च वेगेन भ्रमत्यपरिसंस्थितः॥ ३७॥ (६४ ) तदा स गत्वा विपुलं महद्वनं परीत्य सर्व त्वथ मैथिलीं प्रति । अनिष्ठिताशः स चकार मार्गणे पुनः प्रियायाः परमं परिश्रमम् ॥ ३८॥ दृष्ट्वाऽऽश्रमपदं शून्यं रामो दशरथात्मजः । रहितां पर्णशालां च प्रविद्धान्यासनानि च ॥ ३६॥ अदृष्ट्वा तत्र वैदेहीं संनिरीक्ष्य च सर्वशः । उवाच रामः प्राकुश्य प्रगृह्य रुचिरौ भुजौ ॥४०॥ क नु लक्ष्मण वैदेही कं वा देशमितो गता। केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ ४१ ॥ वृक्षणावार्य यदि मां सीते हसितुमिच्छसि । श्रलं ते हसितेनाद्य मां भजख सुदुःखितम् ॥ ४२ ॥ यैः परिक्रीडसे सीते विश्वस्तैर्मगपोतकैः । एते हीनास्त्वया सौम्ये ध्यायन्त्यस्राविलेक्षणाः॥४३॥ सीतया रहितोऽहं वै नहि जीवामि लक्ष्मण । वृतं शोकेन महता सीताहरणजेन माम् ॥४४॥ परलोके महाराजो नूनं द्रक्ष्यति मे पिता । कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥ ४५ ।। श्रपूरयित्वा तं कालं मत्सकाशमिहागतः । कामवृत्तमनार्यं वा मृपावादिनमेव च ॥ ४६ ।। धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता। विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ॥ ४७ ॥ मामिहोत्सृज्य करुणं कीर्तिनरमिवानृजुम् । क गच्छसि वरारोहे मा मोत्सृज सुमध्यमे ॥४८॥ त्वया विरहितश्चाहं त्यक्ष्ये जीवितमात्मनः । इतीव विलपरामः सीतादर्शनलालसः॥४६॥ न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् । अनायासादयमानं तं सीतां शोकपरायणम् ॥ ५० ॥ पङ्कमासाद्य विपुलं सीदन्तमिव कुञ्जरम् । लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ ५१ ।। मा विषादं महावुद्धे कुरु यत्नं मया सह । इदं गिरिवरं वीर यहुकन्दरशोभितम् ॥ ५२ ।। प्रियकाननसंचारा वनोन्मत्ता च मैथिली । सा वनं वा प्रविष्टा स्यान्नलिनी वा सुपुष्पिताम् ॥ ५३॥ सरितं वापि संप्राप्ता मीनवञ्जुलसेविताम् । स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ॥ ५४॥ जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ । तस्या ह्यन्वेषणे श्रीमन्क्षिप्रमेव यतावहे ॥ ५५ ॥ वनं सर्व विचिनुवो यत्र सा जनकात्मजा । मन्यसे यदि काकुतस्थ मा स्म शोके मनः कृथाः ॥ ५६ ॥ एवमुक्तः स सौहार्दालक्ष्मणेन समाहितः । सह सौमित्रिणा रामो विचेतुमुपचक्रमे ॥ ५७ । तौ वनानि गिरीश्चैव सरितश्च सरांसि च । निखिलेन विचिन्वन्तौ सीतां दशरथात्मजौ ॥ ५८ ॥ तस्य शैलस्य सानूनि शिलाश्च शिखराणि च । निखिलेन विचिन्वन्तौ नैव तामभिजग्मतुः॥ ५६H विचित्य सर्वतः शैलं रामो लक्ष्मणमब्रवीत् । नेह पश्यामि सौमित्रे वैदेही पर्वते शुभाम् ॥ ६॥ ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् । विचरन्दण्डकारण्यं भ्रातरं दीप्ततेजसम् ॥ ६॥ प्राप्स्यसे त्वं महाप्राज्ञ मैथिली जनकात्मजाम् । यथा विष्णुर्महाबाहुबलिं यद्ध्वा महीमिमाम् ॥ ६ ॥ (६६ ) एवमुक्तस्तु वीरेण लक्ष्मणेन स राघवः । उवाच दीनया वाचा दुःखाभिहतचेतनः ॥ ६३॥ वनं सुविचितं सर्व पद्मिन्यः फुल्लपङ्कजाः । गिरिश्चायं महाप्राज्ञ बहुकन्दरनिर्भरः ॥ ६४॥ नहि पश्यामि वैदेही प्राणेभ्योऽपि गरीयसीम् । एवं स विलपरामः मुहूर्त विह्वलोऽभवत् ॥ ६५ ॥ स विह्वलितसर्वाङ्गो गतवुद्धिर्विचेतनः । विषसादातुरो दीनो निःश्वस्याशीतमायतम् ॥ ६६ ॥ बहुशः स तु निःश्वस्य रामो राजीवलोचनः । हा प्रियेति विचुक्रोश बहुशो वाष्पगद्गदः ॥ ६७ ॥ तं सान्त्वयामास ततो लक्ष्मणः प्रियबान्धवम् । बहुप्रकारं शोकार्तः प्रश्रितः प्रश्रिताञ्जलिः ॥ ६८ ॥ अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटच्युतम् । अपश्यंस्तां प्रियां सीतां प्राकोशत्स पुनः पुनः ॥ ६६ ॥ राम-विलापः ! सीतामपश्यन्धर्मात्मा शोकोपहतचेतनः । विललाप महावाहू रामः कमललोचनः ॥ १ ॥ पश्यन्निव च तां सीतामपश्यन्मन्मथार्दितः । उवाच राघवो वाक्यं विलापाश्रयर्दुवचम् ॥ २ ॥ त्वमशोकस्य शाखाभिः पुष्पप्रियतरा प्रिये । श्रावृणोषि शरीरं ते मम शोकविवर्धनी ॥३॥ कदलीकाण्डसदृशौ कदल्या संवृतावुभौ । ऊरू पश्यामि ते देवि नासि शक्ता निगुहितुम् ॥ ४॥ कर्णिकारवनं भद्रे हसन्ती देवि सेवसे । प्रलं ते परिहासेन मम बाधावहेन वै ॥५॥ विशेषेणाथमस्थाने हासोऽयं न प्रशस्यते । अवगच्छामि ते शीलं परिहासप्रियं प्रिये ॥ ६ ॥ आगच्छ त्वं विशालाक्षि शून्योऽयमुटजस्तव । सुव्यक्तं राक्षसैः सीता भक्षिता वा हृतापि वा ॥ ७ ॥ नहि सा विलपन्तं मामुपसंगैति लक्ष्मण । एतानि मृगयूथानि साश्रुनेत्राणि लक्ष्मण ॥ ८ ॥ शंसन्तीव हि मे देवीं भक्षितां रजनीचरैः । हा ममार्ये व याताऽसि हा साध्वि वरवर्णिनि ॥६॥ हा सकामाद्य कैकेयी देवि मेऽद्य भविष्यति । सीतया सह निर्यातो विना सीतामुपागतः ॥१०॥ कथं नाम प्रवेक्ष्यामि शून्यमन्तःपुरं मम । निर्वीर्य इति लोको मां निर्दयश्चेति वक्ष्यति ॥ ११ ॥ कातरत्वं प्रकाशं हि सीतापनयनेन मे। निवृत्तवनवासश्च जनकं मिथिलाधिपम् ॥ १२ ॥ कुशलं परिपृच्छन्तं कथं शक्ष्ये निरीक्षितुम् । विदेहराजो नूनं मां दृष्ट्वा विरहितं तया ॥ १३ ॥ ॥ सुताविनाशसंतप्तो मोहस्य वशमेष्यति । अथवा न गमिष्यामि पुरीं भरतपालिताम् ॥ १४ ॥ वर्गोऽपि हि तया हीनः शून्य एव मतो मम । तन्मामुत्सृज्य हि वने गच्छायोध्यापुरीं शुभाम् ॥ १५ ॥ न त्वहं तां विना सीतां जीवयं हि कथंचन । गाढमाश्लिष्य भरतो वाच्यो मद्वचनात्वया ॥ १६ ॥ अनुशातोऽसि रामेण पालयेति वसुंधराम् । अम्बा च मम कैकेयी सुमित्रा च त्वया विभो ॥ १७ ॥ कौसल्या च यथान्यायमभिवाद्या ममाज्ञया । रक्षणीया प्रयत्नेन भवता सूक्तचारिणा ॥ १८ ॥ सीतायाश्च विनाशोऽयं मम चामित्रसूदन । विस्तरेण जनन्या मे विनिवेद्यस्त्वया भवेत् ॥ १६॥ इति विलपति राघवे तु दीने वनमुपगम्य तया विना सुकेश्या । भयविकलमुखस्तु लक्ष्मणोऽपि व्यथितमना भृशमातुरो बभूव ॥ २० ॥ स राजपुत्रः प्रियया विहीनः शोकेन मोहेन च पीड्यमानः । विषादयन्भ्रातरमार्तरूपो भूयो विषादं प्रविवेश तीव्रम् ॥ २१ ॥ स लक्ष्मण शोकवशाभिपन्नं शोके निमग्नो विपुले तु रामः । उवाच वाक्यं व्यसनानुरूप- मुष्णं विनिःश्वस्य रुदन्सशोकम् । न मद्विधो दुष्कृतकर्मकारी मन्ये द्वितीयोऽस्ति वसुन्धरायाम् । शोकानुशोको हि परम्पराया मामेति भिन्दन्हृदयं मनश्च ॥ २३ ॥ पूर्वं मया नूनमभीप्सितानि पापानि कर्माण्यसकृत्कृतानि । तत्रायमद्यापतितो विपाको दुःखेन दुःखं यदहं विशामि ॥ २४ ॥ राज्यप्रणाशः स्वजनैर्वियोगः पितुर्विनाशो जननीवियोगः । सर्वानिये लक्ष्मण शोकवेग- मापूरयन्ति प्रविचिन्तितानि ॥ २५ ॥ (६६) सर्व तु दुःखं मम लक्ष्मणेदं शान्तं शरीरे वनमेत्य क्लेशम् । सीतावियोगात्पुनरभ्युदीर्णं काष्ठरिवाग्निः सहसोपदीप्तः ॥ २६ ॥ सा नूनमार्या मम राक्षसेन ह्यभ्याहृता खं समुपेत्य भीरुः । अप्यस्वरं सुस्वरविप्रलापा भयेन विक्रन्दितवत्यभीक्ष्णम् ॥ २७ ॥ तच्छ्लक्ष्णसुव्यक्तमृदुप्रलापं तस्या मुखं कुञ्चितकेशभारम् । रक्षोवशं नूनमुपागताया न भ्राजते राहुमुखे यथेन्दुः ॥ २८ ॥ तां हारपाशस्य सदोचितान्तां ग्रीवां प्रियाया मम सुव्रतायाः । रक्षांसि नूनं परिपीतवन्ति शून्ये हि भित्त्वा रुधिराशनानि ॥ २६ ॥ अस्मिन्मया सार्घमुदारशीला शिलातले पूर्वमुपोपविष्टा । कान्तस्मिता लक्ष्मण जातहासा त्वमाह सीता बहुवाक्यजातम् ॥ ३० ॥ गोदावरीयं सरितां वरिष्ठा प्रिया प्रियाया मम नित्यकालम् । अप्यत्र गच्छेदिति चिन्तयामि नैकाकिनी याति हि सा कदाचित् ॥ ३१॥ पद्मानना पद्मपलाशनेत्रा पद्मानि वाऽऽनेतुमभिप्रयाता । ( १०० ) तदप्ययुक्तं नहि सा कदाचिन् मया विना गच्छति पङ्कजानि ॥ ३२॥ कामं त्विदं पुष्पितवृक्षषण्डं नानाविधैः पतिगणरुपेतम् । वनं प्रयाता नु तदप्ययुक्त- मेकाकिनी साऽतिबिभेति भीरुः ॥३३॥ श्रादित्य भो लोककृताकृतज्ञ लोकस्य सत्यानृतकर्मसाक्षिन् । मम प्रिया सा क्व गता हता वा शंसस्व मे शोकहतस्य सर्वम् ॥ ३४ ॥ लोकेषु सर्वेषु च नास्ति किञ्चिद् यत्तेन नित्यं विदितं भवेत्तत् । शंसस्व वायो कुलपालिनीं तां मृता हृता वा पथि वर्तते वा ॥ ३५॥ इतीव तं शोकविधेयदेहं राम विसंज्ञ विलपन्तमेव । उवाच सौमित्रिरदीनसत्त्वो न्याय्ये स्थितः कालयुतं च वाक्यम् ॥ ३६ ॥ शोकं विसृज्याद्य धृति भजस्व सोत्साहता चास्तु विमार्गणेऽस्याः । उत्साहवन्तो हि नरा न लोके सीदन्ति कर्मखतिदुष्करेषु ॥ ३७ ॥ इतीव सौमित्रिमुदापौरुषं ब्रुवन्तमात रघुवंशसत्तमः । न चिन्तयामास धृति विमुक्तवान् पुनश्च दुःखं महदप्युपागमत् ॥ ३८ ॥ स दीनो दीनया वाचा लक्ष्मणं वाक्यमब्रवीत् । शीघ्रं लक्ष्मण जानीहि गत्वा गोदावरीं नदीम् ॥ ३६॥ अपि गोदावरीं सीता पमान्यानयितुं गता। एवमुक्तस्तु रामेण लक्ष्मणः पुनरेव हि ॥ ४० ॥ नदी गोदावरी रम्यां जगाम लघुविक्रमः । तां लक्ष्मणस्तीर्थवतीं विचित्वा राममब्रवीत् ॥ ४१ ॥ नैनां पश्यामि तीर्थेषु क्रोशतो न शृणोति मे । कं नु सा देशमापन्ना वैदेही क्लेशनाशिनी ॥ ४२ ॥ नहि तं वेद्मि वै राम यत्र सा तनुमध्यमा । लक्ष्मणस्य वचः श्रुत्वा दीनः संतापमोहितः॥४३॥ रामः समभिचक्राम स्वयं गोदावरीं नदीम् । स तामुपस्थितो रामः क्व सीतेत्येवमब्रवीत् ॥ ४४ ॥ भूतानि राक्षसेन्द्रेण वधार्हेण हृतामपि । न तां शशंसु रामाय तथा गोदावरी नदी॥ ४५ ॥ ततः प्रचोदिता भूतैः शंस चास्मै प्रियामिति । न च सा ह्यवदत्सीतां पृष्टा रामेण शोवता ॥ ४६॥ रावणस्य च तद्रूपं कर्मापि च दुरात्मनः । ध्यात्वा भयात्तु वैदेहीं सा नदी न शशंस ह ॥४७॥ निराशस्तु तया नद्या सीताया दर्शने कृतः । उवाच रामः सौमित्रि सीतादर्शनकर्शितः॥४८॥ एषा गोदावरी सौम्य किंचिन्न प्रतिभाषते । कि तु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः ॥ ४६॥ मातरं चैव वैदेह्या विना तामहमप्रियम् । या मे राज्यविहीनस्य वने वन्येन जीवतः ॥ ५० ॥ सर्व व्यपानयच्छोकं वैदेही क्व नु सा गता। शातिवर्गविहीनस्य वैदेहीमप्यपश्यतः ॥५१॥ ( १०२ ) मन्ये दीघा भविष्यन्ति रात्रयो मम जाग्रतः । मन्दाकिनीं जनस्थानमिमं प्रस्रवणं गिरिम् ॥ ५२ ॥ सर्वाणनचरिष्यामि यदि सीता हि लभ्यते । एते महामृगा वीरा मामीक्षन्ते पुनः पुनः ॥ ५३ ॥ वक्रुकामा इह हि मे इङ्गितान्युपलक्षये । तांस्तु दृष्ट्रा नरव्याघ्रो राघवः प्रत्युवाच ह ॥ ५४ ॥ क्व सीतेति निरीक्षन्वै वाष्पसंरुद्धया गिरा। एवमुक्ता नरेन्द्रेण ते मृगाः सहसोत्थिताः ॥ ५५ ॥ दक्षिणाभिमुखाः सर्वे दर्शयन्तो नभःस्थलम् । मैथिली ह्रियमाणा सा दिश यामभ्यपद्यत ॥ ५६ ।। तेन मार्गेण गच्छन्तो निरीक्षन्ते नराधिपम् । येन मार्ग च भूमि च निरीक्षन्ते स्म ते मृगाः॥ ५७ ॥ पुनर्नदन्तो गच्छन्ति लक्ष्मणेनोपलक्षिताः । तेषां वचनसर्वस्वं लक्षयामास चेङ्गितम् ॥ ५८ ॥ उवाच लक्ष्मणो धीमाञ्ज्येष्ठं भ्रातरमार्तवत् । क सीतेति त्वया पृष्टा यदिमे सहसोत्थिताः ॥ ५६ ॥ दर्शयन्ति क्षितिं चैव दक्षिणां च दिशं मृगाः । साधु गच्छावहे देव दिशमेतां च नैर्ऋतीम् ॥ ६० ॥ वाढमित्यव काकुत्स्थः प्रस्थितो दक्षिणां दिशम् । लक्ष्मणानुगतः श्रीमान्वीक्षमाणो वसुंधराम् ॥ ६१ ॥ वसुन्धरायां पतितपुष्पमार्गमपश्यताम् । पुष्पवृष्टिं निपतितां दृष्टा रामो महीतले ॥ ६२ ॥ उवाच लक्ष्मणं वीरो दुःखितो दुःखितं वचः। अभिजानामि पुष्पाणि तानीमानीह लक्ष्मण ॥ ६३ ॥ अपिनद्धानि वैदेह्या मया दत्तानि कानने । मन्ये सूर्यश्च वायुश्च मेदिनी च यशस्विनी ॥ ६४ ॥ ( १०३ ) अभिरक्षन्ति पुष्पाणि प्रकुर्वन्तो मम प्रियम् । एवमुक्त्वा महाबाहुर्लक्ष्मणं पुरुषर्षभम् ॥ ६५ ॥ उवाच रामो धर्मात्मा गिरिं प्रस्रवणाकुलम् । कञ्चित्क्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी ॥ ६६ ॥ रामा रम्ये वनोद्देशे मया विरहिता त्वया । ऋद्धोऽब्रवीगिरि तत्र सिंहः क्षुद्रमृगं यथा ॥ ६७ ।। तां हेमवर्णा हेमाङ्गीं सीतां दर्शय पर्वत । यावत्सानूनि सर्वाणि न ते विध्वंसयाम्यहम् ॥ ६॥ एवमुक्तस्तु रामेण पर्वतो मैथिलीं प्रति । दर्शयन्निव तां सीतां नादर्शयत राघवे ॥ ६६ ॥ ततो दाशरथी राम उवाच च शिलोञ्चयम् । मम बाणाग्निनिर्दग्धो भस्मीभूतो भविष्यसि ॥ ७० ॥ असेव्यः सर्वतश्चैव निस्तृणद्रुमपल्लवः इमां वा सरितं चाद्य शोषयिष्यामि लक्ष्मण ॥ ७१ ॥ यदि नाख्याति मे सीतामद्यचन्द्रनिभाननाम् । एवं प्ररुषितो रामो दिधक्षन्निव चक्षुषा ॥ ७२ ॥ ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत् । त्रस्ताया रामकाक्षिण्याः प्रधावन्त्या इतस्ततः ॥ ७३ ॥ राक्षसेनानुसृप्ताया वैदेह्याश्च पदानि तु । स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च ॥ ७४ ॥ भग्नं धनुश्च तूर्णी च विकीर्णं बहुधा रथम् । संभ्रान्तहृदयो रामः शशंस भ्रातरं प्रियम् ॥ ७५॥ पश्य लक्ष्मण वैदेहा कीर्णाः कनकविन्दवः । भूषणानां हि सौमित्रे माल्यानि विविधानि च ॥ ७६ ॥ तप्तबिन्दुनिकाशैश्च चित्रैः क्षतजविन्दुभिः । श्रावृतं पश्य सौमित्रे सर्वतो धरणीतलम् ॥ ७७ ॥ ( १०४ ) मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः । भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति ॥ ७८॥ तस्या निमित्तं सीताया द्वयोर्विवदमानयोः। बभूव युद्धं सौमित्रे घोरं राक्षसयोरिह ॥ ७६ ॥ मुक्तामणिचितं चेदं रमणीयं विभूषितम् । घरण्यां पतितं सौम्य कस्य भग्नं महद्धनुः ॥२०॥ राक्षसानामिदं वत्स सुराणामथवापि वा । तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम् ॥ ८१॥ विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम् । छत्रं शतशलाकं च दिव्यमाल्योपशोभितम् ।। ८२ ॥ भग्नदण्डमिदं सौम्य भूमौ कस्य निपातितम् । काश्चनोरश्छदाश्चमे पिशाचवदनाः खराः ॥ ८३ ॥ भीमरूपा महाकायाः कस्य वा निहता रणे । दीप्तपावकसंकाशो द्युतिमान्समरध्वजः ॥ ८४॥ अपविद्धश्च भग्नश्च कस्य साङ्गामिको रथः । रथाक्षमात्रा विशिखास्तपनीयविभूषणाः ॥ ५ ॥ कस्येमे निहता बाणाः प्रकीर्णा घोरदर्शनाः । शरावरौ शरैः पूर्णौ विध्वस्तौ पश्य लक्ष्मण ॥८६॥ प्रतोदाभीपुहस्तोऽयं कस्य वा सारथिर्हतः । पदवी पुरुषस्यैषा व्यक्तं कस्यापि रक्षसः ॥ ८७ ॥ वैरं शतगुणं पश्य मम तैर्जीवितान्तकम् । सुघोरहृदयैः सौम्य राक्षसैः कामरूपिभिः ॥ ८ ॥ हता मृता वा वैदेही भक्षिता वा तपस्विनी। न धर्मस्त्रायते सीतां ह्रियमाणां महावने ॥ ८ ॥ भक्षितायां हि वैदेह्यां हुतायामपि लक्ष्मण । के हि लोकप्रियं कर्तुं शक्ताः सौम्य ममेश्वराः ॥ ६॥ ( १०५ ) कर्तारमपि लोकानां शूरं करुणवेदिनम् । अज्ञानादवमन्येरन्सर्वभूतानि लक्ष्मण ॥ ६१ ॥ मृदुं लोकहिते युक्तं दान्तं करुणवेदिनम् । निर्वीर्य इति मन्यन्ते नूनं मां त्रिदशेश्वराः ॥ १२ ॥ मां प्राप्य हि गुणो दोषः संवृत्तः पश्य लक्ष्मण । अद्यैव सर्वभूतानां रक्षसामभवाय च ॥ ६३ ॥ संहृत्यैव शशिज्योत्स्नां महान्सूर्य इवोदितः । संहृत्यैव गुणान्सर्वान्मम तेजः प्रकाशते ॥ ४ ॥ नैव यता न गन्धर्वा न पिशाचा न राक्षसाः। किंनरा वा मनुष्या वा सुखं प्राप्स्यन्ति लक्ष्मण ॥ ५॥ ममास्त्रवाणसंपूर्णमाकाशं पश्य लक्ष्मण । असंपातं करिष्यामि ह्यद्य त्रैलोक्यचारिणाम् ॥ ६६ ॥ संनिरुद्धग्रहगणमावारितनिशाकरम् । विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम् ॥ १७ ॥ विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम् । ध्वस्तद्रुमलतागुल्मं विप्रणाशितसागरम् ॥ ६ ॥ त्रैलोक्यं तु करिष्यामि संयुक्त कालकर्मणा । न ते कुशलिनी सीतां प्रदास्यन्ति ममेश्वराः ॥ ६ ॥ अस्मिन्मुहूर्ते सौमित्रे मम द्रक्ष्यन्ति विक्रमम् । नाकाशमुत्पतिष्यन्ति सर्वभूतानि लक्ष्मण ॥ १०० । समाकुलममर्यादं जगत्पश्याद्य लक्ष्मण । आकर्णपूर्णरिषुभिर्जीवलोकदुरावरैः ॥ १०१ ॥ करिष्ये मैथिलीहेतोरपिशाचमराक्षसम् । मम रोषप्रयुकानां विशिखानां बलं सुराः ॥ १०२॥ द्रक्ष्यन्त्यद्य विमुक्तानाममर्षाद्दूरगामिनाम् । नैव देवा न दैतेया न पिशाचा न राक्षसाः॥१०३ ॥ ( १०६ ) भविष्यन्ति मम क्रोधात्त्रैलोक्ये विप्रणाशिते । देवदानवयक्षाणां लोका ये रक्षसामपि ॥ १०४ ॥ बहुधा निपतिष्यन्ति वाणौघैः शकलीकृताः । निर्मर्यादानिमाल्लोकान्करिष्याम्यद्य सायकैः ॥ १०५ ॥ हृतां मृतां वा सौमित्रे न दास्यन्ति ममेश्वराः । तथारूपां हि वैदेहीं न दास्यन्ति यदि प्रियाम् ॥ १०६ ॥ नाशयामि जगत्सर्व त्रैलोक्यं सचराचरम् । यावद्दर्शनमस्या वै तापयामि च सायकैः ॥ १०७ ॥ इत्युक्त्वा क्रोधताम्राक्षः स्फुरमाणोष्ठसंपुटः । वल्कलाजिनमावद्धय जटाभारमबन्धयत् ॥ १०८ ॥ तस्य क्रुद्धस्य रामस्य तथाभूतस्य धीमतः । त्रिपुरं जघ्नुषः पूर्वं रुद्रस्येव वभौ तनुः ॥ १०६ ॥ लक्ष्मणादथ चादाय रामो निष्पीड्य कार्मुकम् । शरमादाय संदीप्तं घोरमाशीविषोपमम् ॥ ११० ॥ संदधे धनुषि श्रीमान्रामः परपुरञ्जयः। युगान्ताग्निरिव क्रुद्धं इदं वचनमब्रवीत् ॥ १११ ।। यथा जरा यथा मृत्युर्यथा कालो यथा विधिः । नित्यं न प्रतिहन्यन्ते सर्वभूतेषु लक्ष्मण । तथाहं क्रोधसंयुक्तो न निवार्योऽस्म्यसंशयम् ॥ ११२ ॥ पुरेव मे चारुदतीमनिन्दितां दिशन्ति सीतां यदि नाद्य मैथिलीम् । सदेवगन्धर्वमनुष्यपन्नगं जगत्सशैलं परिवर्तयाम्यहम् ॥ ११३ ॥ नं तथा शोकसंतप्तं विलपन्तमनाथवत् । ततः सौमित्रिराश्वास्य मुहूर्तादिव लक्ष्मणः । रामं संबोधयामास चरणौ चाभिपीडयन् ॥ ११४ ॥ ( १०७ ) महता तपसा चापि महता चापि कर्मणा । राक्षा दशरथेनासील्लब्धोऽमृतमिवामरैः ॥ ११५ ॥ तव गुणैर्बद्धस्त्वद्वियोगान्महीपतिः । राजा देवत्वमापन्नो भरतस्य यथा श्रुतम् ॥ ११६ ॥ यदि दुःखमिदं प्राप्तं काकुत्स्थ न सहिष्यसे । प्राकृतश्वाल्पसत्त्वश्च इतरः कः सहिष्यति ॥ ११७ ॥ श्राश्वसिहि नरश्रेष्ठ प्राणिनः कस्य नापदः । संस्पृशन्त्यग्निवद्राजन्क्षणेन व्यपयान्ति च ॥ ११८ ॥ लोकस्वभाव एवैष ययातिर्नहुषात्मजः । गतः शक्रेण सालोक्यमनयस्तं समस्पृशत् ॥ ११६ ॥ महर्षिर्यो वसिष्ठस्तु यः पितुर्नः पुरोहितः । अह्ना पुत्रशतं जज्ञे तथैवास्य पुनर्हतम् ॥ १२० ॥ या चेयं जगतो माता सर्वलोकनमस्कृता । अस्याश्च चलनं भूमेर्दृश्यते कोशलेश्वर ॥ १२१ ॥ यौ धौ जगतो नेत्रौ यत्र सर्वं प्रतिष्ठितम् । आदित्यचन्द्रौ ग्रहणमभ्युपेतौ महाबलौ ॥ १२२ ॥ सुमहान्त्यपि भूतानि देवाश्च पुरुषर्षभ । न देवस्य प्रमुञ्चन्ति सर्वभूतानि देहिनः ॥ १२३ ॥ दिव्यं च मानुषं चैवमात्मनश्च पराक्रमम् । इक्ष्वाकुवृषभावेक्ष्य यतस्व द्विषतां वधे ॥ १२४ ।। किं ते सर्वविनाशेन कृतेन पुरुषर्षभ । तमेव तु रिपुं पापं विज्ञायोद्धर्तुमर्हसि ॥ १२५ ॥ इदमेव जनस्थानं त्वमन्वेषितुमर्हसि । राक्षसैर्बहुभिः कीर्ण नानाद्रुमलतायुतम् ॥ १२६ ॥ सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च। गुहाश्च विविधा घोरा नानामृगगणाकुलाः ॥ १२७ ॥ ( १०८ ) श्रावासः किन्नराणां च गन्धर्वभवनानि च । तानि युक्तो मया सार्धे समन्वेषितुमर्हसि ॥ १२८ ॥ त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः। आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ॥ १२६ ॥ इत्युक्तस्तद्वनं सर्वं विचचार सलक्ष्मणः । क्रद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् ॥ १३०॥ जटायुर्दर्शनम् । ततः पर्वतकृटाभं महाभागं द्विजोत्तमम् । ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ॥ १ ॥ तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् । अनेन सीता वैदेही भक्षिता नात्र संशयः ॥२॥ गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् । एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैजिह्मगैः ॥३॥ इत्युक्त्वाभ्यपतद्द्रष्टुं संधाय धनुषि चुरम् । ऋद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् ॥ ४॥ तं दीनदीनया वाचा सफेनं रुधिरं वमन् । अभ्यभाषत पक्षी स रामं दशरथात्मजम् ॥ ५॥ यामोषधीमिवायुष्मन्नन्वेषसि महावने । सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥ ६ ॥ त्वया विरहिता देवी लक्ष्मणेन च राघव । ह्रियमाणा मया दृष्ट्वा रावणेन बलीयसा ॥ ७ ॥ सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो। विध्वंसितरथच्छत्रः पतितो धरणीतले ॥ ८ ॥ एतदस्य धनुर्भग्नमेते चास्य शरास्तथा । श्रयमस्य रणे राम भग्नः साङ्ग्रामिको रथः ॥ ६॥

"https://sa.wikisource.org/w/index.php?title=सीताहरणम्&oldid=309239" इत्यस्माद् प्रतिप्राप्तम्