← अध्यायः ४ सुकविहृदयानन्दिनी
अध्यायः ५
अध्यायः ६ →

पञ्चमोऽध्यायः विषमवृत्ताध्यायः

सम्पाद्यताम्


विषमवृत्ताध्याय आरभ्यते ।
मुखपादोऽष्टभिर्वर्णैः ।
परेऽस्मात्‌ मकरालयैः क्रमाद्वृद्धाः ।
सततं यस्य विचित्रैः पादैः संपन्नसौंदर्यम्‌ ।
तदभिहितममलधीभिः पदचतुरूर्ध्वाभिधं वृत्तम्‌ ॥ १

प्रथमपादोऽष्टाक्षरः । परे च द्वितीयतृतीयचतुर्थाः । अस्मात्प्रथमपादात्मकरालयैश्चतुर्भिश्चतुर्भिरक्षरैः क्रमाद्वृद्धा वर्धिताः । क्रमादिति कोऽर्थः । द्वितीयो द्वादशाक्षरः । तृतीयो षोडशाक्षरः । चतुर्थो विंशत्यक्षर इति क्रमाद्वृद्धिं प्राप्ताः । सततमनवरतं इति विविधैश्चतुर्विंशतिप्रकारप्रस्तारेण विचित्रैः पादैः प्राप्तसौंदर्यं तद्वृत्तं आचार्यैः पदचतुरूर्ध्वं नामोक्तम्‌ । यथा ।
आक्रम्यमाकृष्य धनु-
र्ये त्वया निहिता रणांगणे शरैः ।
रिपवः सहसा गतासवः क्षितिपते श्रुतम्‌ ।
पदचतुरूर्ध्वं न चलन्ति तत्रैव निपतन्ति सशल्याः ॥
अत्र गणपादाभावात्‌ गुरुलघू नेष्यते । अत्र च प्रस्तार्यमाणं चतुर्विंशतिधा भवति । षोडशद्वादशअष्टौ षोडशविंशतिद्वादश अष्टौ इत्यादि । १

प्रथममुदितवृत्ते ।
विरचितविषमचरणभाजि ।
गुरुकयुगलनिधन इह कलित आङा ।
विधृतरुचिरपदविततियतिरिह भवति पीडः ॥ २

प्रथममुदितवृत्ते पदचतुरूर्ध्वे विरचितान्‌ विषमान्‌ अष्टौद्वादशषोडशविंशत्यक्षरान्‌ पदान्‌ भजतीति तस्मिन्‌ विषमचरणभाजि इह छंदसि आङा कलितो युक्तः पीडो भवति । आपीड इत्यर्थः । क्व सति इत्याह । गुरुकयुगलनिधने गुरुद्वयं निधनेऽवसाने यस्य तस्मिन्सति । कीदृशं इत्याह । विधृतरुचिराणां पादानां वितत्या यतिर्विरामो यस्य स तथोक्तः । अन्ते गुरुद्वयोपादनादत्र शेषाणां लघुत्वमस्यानुज्ञानं केदारेणेति मन्यामहे । यथा ।
ध्रुवमिह वनितानां
हृदि विनिहितदयितगुणानाम्‌ ।
प्रसरति मलयमरुति विरहवतीनां
स्मरसुहृदि विजयिनि भवति नियतमसुविनाशः ॥
द्विगुरूणि छंदसि आपीडेति त्रयाणां गुरूणां अप्रवेशाच्छर्गण्ड इति नाम नोक्तम्‌ ।
इदमपि पूर्ववच्चतुर्विंशतिप्रस्तारो भवति । तेभ्यश्चतुर्विंशतिभ्यस्त्रीनवकृष्य समान्यभिधातुमाह । २

प्रथममितरचरणसमुत्थं
श्रयति जगति लक्ष्म ।
इतरदितरचरणजनितमपि च तुर्यं
चरणयुगकमविकृतमपरमिह कलिका सा ॥ ३

आपीडस्य प्रथमं तुर्यं चतुर्थं इतरचरणसमुत्थं द्वितीयपादं द्वादशाक्षरोपलक्षितं लक्ष्म श्रयति भजति । कोऽर्थः । प्रथमपदे द्वादशाक्षरः । द्वितीयोऽष्टाक्षरः । अपरमपि चरणयुगलमविकृतमप्रत्ययाभावमित्येवंलक्षणा कलिका नाम । मञ्जरीति वक्तव्ये छंदोभंगभयात्‌ कलिकेत्युक्तमेकार्थत्वान्न दोषः । यथा ।
अधमजनसुहृदि कलिकाले
सुजनकृतविरोधे ।
सकलुषमुषि सपदि विधुवनायाः
तदनु विमनमनसि मुदमिह जनयति निवासा ॥ ३

द्विगुरुयुतसकलचरणांता
मुखचरणरचितमनुभवति तृतीय: ।
चरण इह हि लक्ष्म
प्रकृतमपरमखिलमपि यदि भवति लवली सा । ४

यस्यास्तृतीयः पादः प्रथमचरणरचितं लक्षणमनुभवति द्वाभ्यां गुरुभ्यां युता सकलचरणानामन्तो यस्याः सा तथोक्ता लवली नाम । अपरं लवल्यां सर्वमपि प्राक्तनं प्रस्तुतं पूर्ववदिति भवति । यथा ।
गगनतलममलमलिमेत‌त्‌
सपदि शशभृदयं अनलवितिकरौघैः ।
जनयति च लवल्याः
चलमिति सरसं भुविद्भविपरिणति(?) परिपीडः ॥ ४

प्रथममधिवसति यदि तुर्यं
चरमचरणपदमवसितिगुरुयुग्मा ।
निखिलपरमुपरितनसममिह ललितपादा
तदियममृतधारा ॥ ५

प्रथमं पादमष्टाक्षरं चरमचरणपदं पश्चिमपादस्थानं यद्यधिवसति । अपरमप्यन्यत्सर्वं उपरितनं पूर्ववत्‌ । अन्ते गुरुद्वययुक्ता सुललितपदपंक्तिरमृतधारा नाम । यथा ।
शशधरमुखि सखि परिरम्भं
तव मम वपुषि मलयजरसनिषेकः ।
श्रवणपुटयुगलसुखकृदतिचतुरमभिहृद्या
वचनममृतधारा ॥

पिंगलनागस्तु पदचतुरूर्ध्वादिषु प्रथमपादविपर्यासे सति मंजर्यादि नामानि वीक्ष्यति । ५

॥ पदचतुरूर्ध्वप्रकरणम्‌ ॥

सम्पाद्यताम्


सजमादिमे सलघुकौ च नसजगुरुकेष्वथोद्गता ।
त्र्यङ्ध्रिगतभनजला गयुता सजसा जगौ चरणमेकत पठेत्‌ ॥ ६

प्रथमपादे सगणजगणसगणा लघुश्च तथा द्वितीयपादे नगणसगणजगणगुरवो भवन्ति त्रिसंख्योपलक्षितोऽङ्ध्रिस्त्रङ्ध्रिस्तृतीयः पादस्तस्मिन्‌ गता भगणनगणजगणलघुगुरवस्तैर्युता । चतुर्थे चरणे सगणजगणसगणा जगणो गुरुश्च यत्र सा उद्गता नाम । एकत इति । प्रथमं द्वितीयेन सहाविलंबितं पठेदित्यर्थः । यथा ।
जितमत्सरा सुकृतिनोऽपि परिहृतकलंकबांधवाः ।
वीक्ष्य सपदि युवतिं विकृतिं नियतं प्रयाति विपुलोद्गतास्तनुः ॥ ६

चरणत्रयं भजति लक्ष्म यदि सकलमुद्गतागतम्‌ ।
र्नौ भगौ भवति सौरभकं चरणे यदीह भवतस्तृतीयके ॥ ७

यद्युद्गतायास्तृतीये पादे रगणनगणभगणगुरवो भवन्ति तदा सौरभकं नाम वृत्तं भवेत्‌ । यथा ।
मलयानिलः प्रियवियुक्तयुवतिजनतावियत्यतः ।
मंदमंदमयमेतितरां घनसारसौरभकमुद्वमन्निव ॥ ७

नयुगं सकारयुगलं च भवति चरणे तृतीयके ।
तदुदितमुरुमतिभिर्ललितं यदि शेषमस्य खलु पूर्वतुल्यकम्‌ ॥ ८

यद्युद्गतायास्तृतीये चरणे द्वौ नगणौ द्वौ सगणौ च भवतः तदा ललितं नाम । शेषमुद्गतावत्‌ । यथा ।
ललितांगहाररमणीयमभिनवललितं समांसलम्‌ ।
इयमतिनयति मुदा प्रमत्ता पुरतो वयस्य तव लास्यमुत्तमम्‌ ॥ ८

॥ उद्गताप्रकरणम्‌ ॥

सम्पाद्यताम्

म्सौ ज्भौ गौ प्रथमाङ्ध्रिरेकतः पृथगन्यत्‌
त्रितयं सनजरगास्तथा ननौ सः ।
त्रिनपरिकलितजयौ
प्रचुपितमितमुदितमुपस्थितपूर्वम्‌ ॥ ९

यस्य प्रथमे पादे मगणसगणजगणभगणा द्वौ गुरू एकतः । पृथक्‌ अन्यत्त्रितयं पादत्रितयं कथमित्यर्थः । द्वितीये पादे सगणनगणजगणरगणा गुरुश्च तथा तृतीये पादे द्वौ नगणौ सगणश्चतुर्थे नगणत्रयं जगणयगणौ च तद्वृत्तं उपस्थितपूर्वं उपस्थितप्रचुपितमित्यर्थः । यथा ।
आरुह्यान्यभृतप्रिया लसत्सहकारं प्रकटीकृतनवमंजरिं सगर्वा ।
निजकलरवनिनदैः प्रकटयति रतिपतिमहोत्सवमालि ॥ ९

नौ पादेऽथ तृतीयके सनौ नसयुक्तौ प्रथमाङ्ध्रिकृतयतिस्तु वर्धमानम्‌ ।
त्रितयमपरमपि पूर्वसदृशमिह भवति प्रततमतिभिरिति गदितं खलु वृत्तम्‌ ॥ १०

तदेव पदचतुरूर्ध्वं तृतीये पादे नगणौ सगणनगणौ च भवतः प्रथमस्य चतुरूर्ध्वस्याङ्धिः प्रथमाङ्ध्रिवत्‌ कृता यतिर्यस्य क्रियाविशेषणस्य तत्प्रथमाङ्ध्रिकृतयतिर्यथा भवति । एवमपरपादत्रयं पूर्वसदृशमिह तन्त्रे तद्वृत्तं आचार्यैर्वर्धमानं नामोक्तम्‌ । यथा ।
पादेन स्वयमुन्नतस्तनीभिरशोकः प्रमदाभिरभिहतः प्रवर्धमानः ।
विकसितकुसुमसमृद्धिमनुभवति बकुलतरुरपि वरयुवतिमुखासवसिक्तः ॥ १०

अस्मिन्नेव तृतीयके पादे तजरा स्युः प्रथमे च विरतिरार्षभं ब्रुवन्ति ।
तच्छुद्धविराट्पुरः स्थितं त्रितयमपरमपि यदि पूर्वसमं स्यात्‌ ॥ ११

अस्मिन्नेव पदचतुरूर्ध्ववृत्ते तृतीये पादे तगणजगणरगणा भवेयुः, अपरं पादत्रयमपि पूर्वसमं भवति तदा शुद्धविराट्‌पुरःस्थितं आर्षभं वदन्ति शुद्धविराडार्षभमित्यर्थः। यथा।
बिभ्राणा वदनं शशांकबिंबसमानं कमलायतनयना कृशांगशोभिता ।
पीनोच्चपयोधरद्वया जनयति मुदमधिकतरां वनितेयम्‌ ॥ ११

॥ उपस्थितप्रचुपितप्रकरणम्‌ ॥

सम्पाद्यताम्

विषमाक्षरपादं वा पादैरसमं दशधर्मवत्‌ ।
यच्छंदो नोक्तमत्र गाथेति तत्सूरिभिः प्रोक्तम्‌ ॥ १२

विषमाक्षराणि येषु ते पादा यस्मिन् विषमाक्षरपादं यदेवमेव अष्टौ दशसप्तनवाक्षरं वा सर्वपादैरसमं त्रिपादं षट्पादं वा दशधर्मवत्‌ । यथा ।
दश धर्मं न जानन्ति धृतिराष्ट्र निबोध तान्‌ ।
मत्तः प्रमत्त उन्मत्तश्श्रांतः क्रुद्धो बुभुक्षितः ।
त्वरमाणश भीरुश्च लुब्धः कामी च ते दशः ॥ इति षट्पदी गाथा ।
इत्येवमादि अस्मिन् च्छंदस्यर्थे नोक्तं प्रयोगेषु दृश्यते तद्गाथेति विद्वद्भिरुक्तम्‌ । मंगलगीतिकावेष्टकविपद्विध्रुवकचच्चरीपाद्धतिकाद्विपथकप्रभृति तत्सर्वं गाथासंज्ञमवगन्तव्यम्‌ । छंदसामानंत्यात्प्रतिपदमभिधातुमशक्यं तत्सर्वसंग्रहणीयं एका संज्ञा कृतेति । १२

इति सुल्हणविरचितायां सुकविहृदयानन्दिन्यभिधानायां वृत्तरत्नाकरच्छंदोवृत्तौ विषमवृत्ताध्यायः पंचमः ॥