सुदर्शनचम्पूकाव्यम् (कृष्णानन्दविरचितम्)

सुदर्शनचम्पूकाव्यम्
कृष्णानन्दः
१९३८

श्रीकृष्णानन्दकवीन्द्रविरचितं सुदर्शनचम्पूकाव्यम्। नारायणपदाम्भोजमकरन्दमधुव्रतः । कृष्णानन्दः करोत्येनां चम्यूं सर्वमनोरमाम् ॥ १॥ शास्त्रं स्मृतिं च साहित्यं कृष्णानन्देन धीमता । अधीत्य क्रियते चम्पूः शं पूरयतु सर्वतः ॥ २ ॥ दंष्ट्रादुष्टकरालकालियशिरोभङ्गप्रसङ्गोच्छल- द्रक्तव्यक्तजलौघपूर्णयमुनाकूलप्रवाहोत्सवः । स्फूर्जदुर्जयकंसकेशिमथनो राधामुखेन्दूदये जीवज्जीवसमः करोतु कुशलं श्रीकृष्णदेवः प्रभुः॥३॥ १. 'वेदाकाशमुनीन्दु(१७०४)संमितशके-' इति ग्रन्थान्तिमपद्यतो वैक्रमे शरद १८३९(%A.D. 1788) श्रावणशुक्लदशमीगुरुवासरे इमं ग्रन्थं रचि तवान्छीकृष्णानन्दकवीन्द्र इत्यवगम्यते. अपि च । द्राग्द्वारस्थितदन्तिदन्तमुसलोत्पाटप्रतिष्ठोल्लस- त्पौरस्त्रीपरिवेषपूरितमहाकीर्तिर्यशोदात्मजः । गोपीवृन्दृगन्तपीवरमहापीयूषधाराशत- स्नानक्लिन्नकलेवरः कलयतां कल्याणमव्याहतम् ॥ ४ ॥ अत्र लोकाः पृच्छन्ति- कस्यैष क्रियते चम्पूर्महीपालशिरोमणेः । गद्यपद्यमयी लोके श्रुतिचित्तसुखप्रदा ॥ ५ ॥ अस्ति समस्तमहीमण्डलाखण्डलप्राययादववंशावतंसमहाराजाधि- राजविराजितराजधानीविभूषितगढजयशलमेरो नाम देशः । स चु प्रथितवरसरोभिः सेवितः सर्वकालं विविधविटपिवाटीवृन्दविद्योतितश्रीः । कृषिभिरुचितकाले सर्वलोकोपकारी गढजयशलमेरो देशरत्नं विभाति ॥ ६ ॥ तत्रानेकनगरग्रामपाकारपरिखाप्रासादप्रतोलिकाप्रकारैरभिमण्डितान्त- र्मण्डलबर्हिर्मण्डलोद्देशः । गजगलदबिरलमदजलचलत्सेककुशलमुस- लाकारधारासंपातनिष्पातसंपादिताशेषभूकषाणाङ्गनाजनप्रवर्तमानमहाम- होत्सवाभिरामकामदेवोद्दामसजलजलदागमप्रतीतिप्रयोजकः । तत्रापि महापवित्रमतिसुप्रसिद्ध भाटीकुलम् । समस्तलोकेष्वतिसुप्रसिद्धं समस्तराजन्गणस्तुतं च । भाटीकुलं सर्वगुणानुपेतं वर्णाश्रमाचारपरायणं च ।। ७ ।। भूमण्डले कुण्डलतामुपैति यदोः कुलं चन्द्रकलाविशुद्धम् । तत्रापि भाटीकुलमप्रमेयं समस्तभूमावतिशोभमानम् ॥ ८॥ सुदर्शनचम्पूकाव्यम् । भाटीकुलावतंसो दुर्जनशालो महीपालः । आसीत्प्रसिद्धजन्मा शंकरवर्मा सुतस्तस्य ॥ ९ ॥ एतस्याजनि राजनीतिदयितः सर्वार्थचिन्तामणिः सर्वश्लाघ्यगुणः प्रतापतपनः प्रोत्तप्तसप्तार्णवः । प्रत्याशापरिपूरकः प्रतिदिनं कारुण्यवारांनिधिः श्रीमद्वीरसुदर्शनो नृपवरो जीयात्सहस्रं समाः ॥१०॥ अपरं च । स्फूर्जद्दुर्जनशाल एष विनयी दाता महीमण्डले भाटीवंशसमुद्भवोऽतिविदितः श्रीशंकरोऽस्यात्मजः। लोकानामुपकारकेण सुचिरं धात्रा धरामण्डले वीरो धीरसुदर्शनोऽतिकरुणो राजा कृतोऽयं कृती ॥११॥ कुमार इव धूर्जटेः सुरपतेर्जयन्तो यथा पठत्यनुदिनं गुरोर्निखिलबालविद्यां मुदा । सुदर्शनमहीपतेर्नृपतिचक्रचूडामणे- र्यशस्करणसुन्दरो जयति बालवृन्दारकः ॥ १२ ॥ वेदव्याकरणादिशास्त्रकवितालंकारसाङ्गागम- व्याख्यानस्फुरदिन्दुसुन्दरयशोवृन्देन देवात्मना । विश्वव्यापककामराजगुरुणा सोऽयं मुदा दीक्षितो वीरो भूपसुदर्शनो यदुकुले भूमण्डलाखण्डलः ॥१३॥ सुदर्शनो महाराजो विभाति क्षितिमण्डले । यथा शोभाकरश्चन्द्रो जगदानन्ददायकः ।। १४ ॥ तस्यैषा क्रियते चम्पूः सुदर्शनमहीपतेः । दानसंमानसंपद्भिः सर्वेषां सुखदायकः ।। १५ ।। काव्यमाला। अतिप्रचण्डदोर्दण्डकलितासिदण्डखण्डीकृतारातिचक्रसीमन्तिनीस- मुत्सारितशिरोवर्तिसिन्दूरधाराभरणसमस्तारुणीकृतदिग्वलयवर्तिबहुकालो- पचीयमानविरहव्यथाकुलितचारुचक्रवाकमिथुनमिलनोच्छासविश्वाससं- भावकः सुदर्शनो नाम राजा विराजते मध्याह्नमार्तण्डमण्डलोपमप्रच- ण्डप्रद्योतविद्योतिताशेषदिगन्तरमहाप्रसिद्धमानसादिसरोवरालंकारप्रदोष- मुद्रितसरोरुहोदरवर्तिमकरन्दलुब्धमधुपश्रेणीबन्धमोक्षणाकालप्रचारझा- ङ्लकारोदीतयशोराजहंसः । स एष नृपभैरवः समरसीम्नि दुर्वारणः समस्तधरणीपतिप्रथितलब्धयुद्धोत्सवः । यदीयरिपुनागरीनयनवारिसंपादित- प्रसन्नसरसीरसी चरति कीर्तिहंसीगणः ॥ १६ ॥ प्रचण्डचण्डांशुसनप्रभावः पुरा न भूतो न च कोऽपि भावी ! सुदर्शनो नाम महाबलोऽसौ यदोः कुले राजकुलावतंसः ।।१७॥ सुदर्शनयशोगानं कस्य कस्य न रोचते । कृष्णानन्दसमुत्पन्नं किं पुनर्व्रजमण्डले ।। १८ ॥ तस्यायं क्रमः---- वारंवारमुदारवारणपटासंघट्टसंभाविता- रातिक्ष्मापतिवीरधीरजलधिप्रव्यक्तरक्तं पयः । पीत्वा वर्षति वैरिवारिजमुखीनेत्राम्बुयुष्मद्यशो- मुक्ताः पुष्यति राजराज किमसिः किं स्वातिधाराधरः ॥१९॥ श्रीमद्वीरसुदर्शनाय मृगयारम्भं विमुञ्चाङ्कतः सातङ्कं हरिणः पते द्विजपतेर्भूयादनर्थो महान् । सुदर्शनचम्पूकाव्यम् । किं च त्वं चतुरोऽसि निर्मलयशःकर्पूरपूरश्रिया साम्यं सौम्य समागमिष्यति सदा निर्दोषदोषाकरः॥ २०॥ सुदर्शनमहाराजे दानाय समुपागते नृत्यन्ति गुणिनां गेहे कविता वनिता इव ॥ २१ ॥ सुदर्शनमहाराजे महादानं प्रकुर्वति । नृत्यन्त्यपि च गायन्ति दिक्षु भिक्षुकयोषितः ।। २२ ।। गृहं यदीयं स्फटिकाभिरामं संपूर्णकाम वृषभध्वजस्य । सेवां समासाद्य गुरोः प्रसादाच्छ्रीकामराजस्य महान्न तस्य ॥२३॥ कवित्वशक्तिर्मधुरा च वाणी भाषासु गीर्वाणवचोमये च । यस्यास्ति भूवौ स धनी कुलीनः स पण्डितः सर्वगुणानुपेतः ॥२४॥ साहित्यविद्यानिपुणः सदैव शास्त्रेषु सिद्धान्तसमस्तवेत्ता । ज्ञाता विशेषं कवितारसस्य दाता चिरं जीवतु सत्कवीनाम् ॥ २५ ॥ एतस्य द्वे भार्ये । दास्यश्च संजीवनी च । शुभूषणाय प्रतिपन्नभावा मनोरथज्ञा भुवि सुप्रसन्ना । पत्युः पदाम्भोरुहलुब्धभृङ्गी संगीतविद्यानिपुणस्य तस्य ॥ २६॥ पद्मेव कृष्णस्य, वृषध्वजस्य गौरीव गौरी, मकरध्वजस्य । रतीव, शक्रस्य शचीव, भूमौ सातोमरी वीरसुदर्शनस्य ॥२७॥ सुवर्णदानेन समस्तकालं सातोमरी पीतमयं करोति । महीतलं राजतपुञ्जदानैः शुक्लं कदाचित्कुरुते समन्तात् ।। २८ ।। सोही च- माणिक्यमुक्ताफलगुम्फितेन हारेण तस्या हृदयस्थितेन । नक्षत्रताराग्रहमण्डलानि विनिर्जितान्येव निर्जैर्मयूखैः ॥ २९ ॥ सुवर्णपात्रेण करस्थितेन सुवृत्तमुक्ताफलपूरितेन । नित्यान्वितं विप्रवरार्पितेन सोही यशश्चन्द्रमसं विभाति ॥ ३०॥ संजीवनी च---- गन्धर्वकन्या भुवि चित्रलेखा लोकोपकाराय कृतावतारा । संजीवनीमूर्तिमिषादशेषसौन्दर्यचातुर्यनिवासभूमिः ॥ ३१ ॥ विराजते सर्वगुणानुपेता संजीवनी कल्पलतेव भूमौ । कदापि यं पश्यति दूरतोऽपि तस्यापरिश्लिप्यति हेमवृष्टिः ॥ ३२॥ अधीतवेदस्तु सुदर्शनोऽसौ बाल्ये धनुर्वेदपरस्ततोऽभूत् । महाबलः पञ्चशराभिरामो दिने दिने यौवनमाततान ॥ ३३ ॥ गान्धर्वविद्यासु महाप्रवीणो वीणामृदङ्गादिषु तालदक्षः । तथापि नित्यं नृपतिर्गुणिभ्यो ददाति भूरि द्रविणं महेच्छः॥३४॥ मल्लैरनेकैः कृतमुष्टियुद्धप्रहारसंहारविचेष्टितैश्च । खङ्गाहारोत्पतनप्रकारं गुरोः सकाशादधिगम्य सद्यः ।। ३५ ।। शरैरनेकैनिजवैरिवंशं विपाट्यासास युवा सहासम् । ग्रन्थिप्पहारैः सकलं निरीक्ष्य लक्षीकृतं चारुविशालवक्षाः ॥३६॥ वीणारसं केवलमेष एव जानाति विख्यातविलासहासः । ॥ ३७॥ यत्सभायां वाराङ्गनाः- संगीतविद्यानिपुणाः सदैव नृत्यन्ति गावन्ति सुवर्णवर्णाः । वाराङ्गनाश्चन्दनकुङ्कुमाढ्याः सुभाषितं कामकलाप्रवीणाः ॥ ३८॥ प्रफुल्लपङ्केरुहपत्रनेत्रा मृदङ्गवाद्यादिभिरभ्युपेताः । यदक्षिपातेन मनो मुनीनां सद्यो नवं चञ्चलतामुपैति ।। ३९ ॥ सुदर्शनचम्पूकाव्यम् । ता एव गायन्ति विलासवत्यः स्वभावतः कोकिलकण्ठनादैः । पदप्रहारैरिव कामदेवं विबोधयामासुरधीतविधाः ॥ ४० ॥ एतादृशी यद्यथ दृश्यते न संश्रूयते किं तु विदूरतोऽपि । नेत्र नभोसण्डलमेव नैव जातं यदा किं चरितं विधातुः ॥४१॥ ब्राह्मे मुहूर्ते किल सावधानो गुरोः पदाम्भोरुहचिन्तनाय । सरोरुहाक्षोऽतिविनीतनिद्रो मनो ददौ पूर्णमनोरथश्रीः !! ४२ ॥ ततः परं स्मृत्यनुसारतोऽसौ धर्मार्थकामानतिदुर्लभांश्च । स चिन्तयामास वरप्रकारैः कुलोचितैः सर्वजनप्रतिष्ठैः ॥ ४३ ।। ततः समुत्थाय महासुशीलः स्नानादिकं साङ्गनतो विधाय । शुक्लद्विवासाः कृतचन्दनादिक्रियानुलेपः कृतभूतशुद्धिः !! ४५ ॥ देवोपमो देवगृहं गतोऽसौ सुदर्शनो नाम नृपावतंसः । कालेयकाद्यैरतिसुप्रसिद्धैः सुगन्धिभिः पूजनमाचकार !! १५ ।। दशोपचारैः खलु षोडशेन पञ्चोपचारेण च पञ्चदेवान् । स पूजयित्वातिविशुद्धचेता नित्यं च कर्मापि तथाकरोत्सः ।।४६ ॥ नित्यं च दान कुरुते नृपोऽसौ सुवर्णरत्नादिकमप्रमेयम् । द्विजेभ्य एव प्रतिपादयित्वा योगालयं दिव्यमुपागतोऽसौ ॥४७॥ दिव्यासनस्थोऽतिविशुद्धचित्तो वायुं समाकर्पति योगयुक्तः । शनैः शनैरुच्छ्वसितासनोऽसौ योगीश्वरो योगविशारदश्च ।। ४८ ॥ ततो लघुकृत्य वपुः स्वकीयमाकाशसंस्थं विधिवच्चकार । ततो गुरुकृत्य सुनिश्चलोऽसौ गुरोः प्रसादाद्गिरिवञ्चकार ।। ४९ ॥ एवंविधैर्योगवरैः प्रसिद्धैर्युवा यदूनां नयनाभिरामः । संसारसौख्याय गृहस्थितोऽपि योगीश्वरोऽसौ नृपतिर्विभाति ।। ५० ।। मुक्त्यधैर्मकः श्रुतिभिः प्रसिद्धः सर्वस्व शास्त्रस्य हि योगमाहुः । उक्तस्ततः सर्वगुणानुपेता जनाः समाश्रित्य तरन्ति पारन् ॥५१॥ काव्यमाला अहोऽनुकम्पा वसतो जगत्यां महीपतिर्वीरसुदर्शनोऽसौ । योगीश्वरोऽयं समधीतविद्यो ददाति वित्तं भुवि याचकेभ्यः ॥५२॥ यस्य सभायां पण्डिताः- प्रमेयसिद्धान्तपदार्थवार्ता विचारयन्तः कथयन्ति सारम् । समस्तलोकेष्वतिदुर्लभं च ते पण्डिता यस्य गृहे वसन्ति ।। ५३ ॥ कवयश्च--- सुधास्यन्दसंदोहसंदेहकारि कचित्काव्यभव्याक्षरं नर्तयन्ति । क्वचिद्गीतसंगीतविद्यानवद्याः क्वचिद्दण्डनीतिं विनीता वदन्ति ॥५४॥ क्वचिल्लोलरोलम्बमाताकुलाङ्गान्मतङ्गानहो देहि देहीति वाचः । क्वचिद्वाजिराजीरिति स्पष्टवाचां विवर्तुं मुदा सर्वदा नर्तयन्ति ।।५५|| ज्योतिषिकाश्च- भविष्यदर्थं सततं ब्रुवन्ति मध्येसभं वीरसुदर्शनस्य । ज्योतिर्विदः सर्वगुणानुपेताः स्ववृत्तिमन्तो नृपतेः प्रसादात् ।। ५६॥ वैद्याश्च- अधीतविद्या निपुणाः सदैव दृष्ट्या वदन्ति प्रतिपन्नरोगान् । निदानतो रोगपरीक्षया च चिकित्सया सर्वजनोपचारान् ।। ५७ ॥ मल्लाश्च

-मनागनायासरसेन येन चूर्णीकृतः प्रस्तर एव सद्यः । स तादृशो मल्लवरः सभायां विराजते वीरसुदर्शनस्य ।। ५८ ॥ नटाश्च----- संमोहयन्तो निजनर्तनेन समस्तलोकानपि पण्डितांश्च । नानाविधं वेषधरं वहन्ति रसेषु सर्वेषु विपश्चितश्च ॥ ५९ ।। सुदर्शनचम्पूकाव्यम् । शैलूषकाच- वंशं समारोहति निर्विशङ्कमधः पतत्यूर्ध्वत एव सद्यः । तथैव तिष्ठत्यपि वंशमूले कुत्रापि नाघातकथाप्रसङ्गः ॥ ६ ॥ नटी च---- तथा तथा गायति चन्द्रकान्तमुखं वहन्ती मधुरखरेण । यथा यथा श्रोत्रगतेन सद्यो मोहं समायान्ति महर्षयोऽपि ॥६१।। बन्दिनच---- प्रभातकाले सततं पठन्ति सत्काव्यमुच्चैःस्वरमाश्रिताश्च । सद्वन्दिनो वीरजनस्य चित्तं युद्धाय बद्धादरतां नयन्ति ।। ६२ ॥ समस्तथरणीपालप्रसिद्धवरकार्मुकः । प्रतिष्ठापूरकः पूरैः पूरयन्निव सर्वतः ।। ६३ ।। एकदा स एव सुदर्शनो महाराजो मृगयाव्याजेन वैरिग्रामासन्नो बभूव ? श्रीमद्वीरसुदर्शनं सुविदितं युद्धाय बद्धादरं मत्वा दारुणसानुमाश्रितवती ब्यालोलचैलाञ्चला। नेत्रोत्पन्ननवीननीरकणिकाव्याजेन नम्रानना दत्ते वैरिबिलासिनी प्रतिदिनं मुक्ताफलानां तुलाः ॥ ६४ ॥ ततोऽतिदूरं यमुनानिकुञ्जमाखेटकार्थं नृपतिः प्रतस्थे । विलासिनीभिर्वरसैनिकैश्च करेणुकारोहणतत्पराभिः ॥ ६५ ।। मातङ्गमालोपरिसंस्थितेन ध्वजेन चामीकरचिह्नितेन । वाताभिघातैरतिसुन्दरेण स शोभमानो मृगयां जगाम ॥ ६६ ॥ इतस्ततो हस्तिकराभिधातनिपातसंजातमहाध्वनीनाम् । मार्गस्थितानां विबुधद्रुमाणां पङ्क्तिक्रमः केवलमारराज ॥ ६७ ॥ काव्यमाला गलन्मदाः केचिदमी मतङ्गा विदूरतः सैनिकतः प्रयान्ति । दन्ताहतानेकविशालवृक्षशाखासमालंकृतभूमिभागाः ।। ६८ !! गच्छन्ति गर्जन्ति सहस्रशोऽस्य धावन्ति सर्वत्र विना विचारन् । दन्तैः समुत्पाट्य तरं समग्रं शुण्डाभिवातालमेघमालाः ॥ ६९ ॥ महागजाः प्रौढकृतप्रहारा विशृखला भीमतरा बभूवुः । धूली भिरासादितभूषणाङ्गा दन्ताभिधाताहतपर्वताश्च !! ७० ।। महीभुजो वीरसुदर्शनस्य समन्दराजन्यपवित्रकीर्तेः । सर्वाणि कार्याणि समस्तकालं विशोभमानानि गुरोः प्रसादात् ॥७॥ लक्षं हया यस्य गृहे वसन्ति कथं स वाच्यो लघुभिर्वचोभिः । कशाभिषातो न कदापि तेषामङ्गे गिरीर्लङ्घनशङ्कैयव ।। ७२ ॥ विराजते चञ्चलवाजिराजी सुवर्णमाला मणिभूषिताश्च । विशुद्धनासनपृष्ठलग्नवलृप्तचारोच्छितकन्धराश्च ।। ७३ ।। महाजवा हस्वविशुद्धकर्णा मृगानुगाः पक्षधरा इवोर्व्याम् । वाहा विशिष्टाः कृतचारुचेष्टाः सदश्ववाहैर्भिशिक्षिताश्च ।। ७४ ॥ नृत्यन्ति धावन्ति मनोरथज्ञाः समीरणार हि मूर्तिमन्तः । वराश्वबाहोर्ध्वकृतोरुबाहुसंभावनासङ्घित कन्दराश्च ।। ७५ ।। हयं समारुह्य नृपाधिराजः सुदर्शनोऽयं नकुलावतारः । गतागतानेकविधप्रकारविचारसंभारमचाकरोत्सः ॥ ७६॥ मृगाननेकान्मृगयासु हत्वा शस्त्रेण चास्त्रेण करस्थितेन । स हापयत्येव करस्थितेन श्येनादिना पक्षिवराणि भूयः ॥ ७७ ।। पुनः प्रतस्थे मृगयानुबन्धी स बन्धुवर्गैर्वरवाजिसंस्थैः । पदातिवगैर्गणनातिरिक्तैरितस्ततः शीघ्रतरप्रयाणैः ।। ७८ ॥ शार्दूलसंघान्ददृशेऽथ भूप उपत्यकायां यदुवंशवीरः । ततो विशङ्कः पुरुषावतंसो जातप्रहर्षः कृतसंनिधानः ॥ ७९ ॥ दृष्टान्तकलिकाशतकम् । VS दृष्टास्त्वनेका महिषास्तदानीं शृङ्गप्रहाराहतवृक्षसंघाः । सुदर्शनेनाप्रतिमेन तेन महामतङ्गोपमखङ्गिनश्च ॥ ८० ॥ तीक्ष्णेन खङ्गेन करस्थितेन शरेण चामीकरभूषितेन । सुव्यक्तहासेन विना प्रयासं यथैव दृष्टा निहतास्तथैव ।। ८१ ॥ यस्तु दुःशासनोऽपि न परस्त्रीवस्त्रापहारकः, यस्तु कृपाचार्योऽपि कृत- राजसेवः, यस्तु कुमारोऽपि न षाण्मातुरः, यस्तु युधिष्ठिरोऽपि न कौन्तेयः, यस्तु धनंजयोऽपि न सोदरायहन्ता, यस्तु भीमसेनोऽप्यकृतान्याययुद्धः, यस्तु पावकोऽपि नाश्रयासः, यस्तु धर्मराजोऽपि नान्तकः, यस्तु प्रचेता अपि न पाशी, यस्तु पुण्यजनोऽपि न दनुजः, यस्तु जगत्प्राणोऽपि नाती- न्द्रियः, यस्तु धनदोऽपि न कुबेरः, यस्तु सकलार्थप्रदोऽपि न दिग- म्बरः, यस्तु प्राचीदिक्पतिरपि न गोत्रभित् , यन्तु गणपतिरपि नैकदन्तः, वेदाकाशमुनीन्दु (१७०४) संमितशके मासे तथा श्रावणे पक्षे वै धवले तिथौ दशमिते बारे गुरौ शोभने । कृष्णानन्दकवीन्द्रनिर्मितमहाचम्पूरियं पूर्यतां कामं बीरसुदर्शनस्य नृपतेविश्वस्य विद्याजुषः ।। इति श्रीकृष्णानन्दकवीन्द्रविरचिता सुदर्शनचम्पू: समाप्ता ।