सुन्दरीशतकम् (उत्प्रेक्षावल्लभविरचितम्)

सुन्दरीशतकम्
उत्प्रेक्षावल्लभः

काव्यमाला। श्रीमद्दुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकम् जयति विलासवतीनां नेत्रप्रान्तावलोकनप्राणः । वदनेन्दुद्युतिसदनः स्मितमाध्वीमेदुरो मदनः ॥ १ ॥ सहृदयहृदयग्राह्यं मदनमहीपालशासनादेव। विरचयति सुन्दरीशतमुत्प्रेक्षावल्लभः सुकविः ॥ २॥ चन्द्राधिकरुचयोऽपि क्षालनशुचयोऽपि चन्द्रकान्तेन । सुन्दरि तव नखमणयो न नयो यत्तापयन्ति मनः ॥ ३ ॥ वरवर्णिनि तव चरणौ कस्य न हृदयानुरञ्जनं कुरुतः । परमेष्ठिनोऽतिनिष्ठुरपाणितलस्पर्शतस्ताम्रो ॥ ४ ॥ सुन्दरि जङ्घायुगमिदमुपासनस्तम्भविभ्रमं धत्ते । इषुमिरतनोर्मनों में विद्धं यल्लग्नमात्रमिह ॥ ५ ॥ सुन्दरि काञ्चनकदली कर्पूरोत्पत्तिशालिनीत्यनया । चन्द्रोद्वर्तनसुरभिस्तवोरूरुपमीयते कविमिः ॥ ६ ॥ विपरीतरतसमुद्यमपुलकप्रथमानमांसलामोगम् । सुरतसुखैकनिधानं सुन्दरि जघनस्थलं जयति ॥ ७ ॥ वलिभिर्बन्धमकस्मादुपेत्य मध्वस्तनूभवत्यस्याः । आनन्दीति नितम्बः समुन्नतिं निर्भरं धत्ते ॥ ८ ॥ अम्बरचुम्बिनमेनं नितम्बमधिरुह्य मुग्धनयनायाः । दूरात्पश्यति यूनां मनांसि पाटच्चरो मदनः ॥ ९ ॥ १. अस्य कवेदेशो न ज्ञायते. गोकुलनानश्वास्योत्तमकाव्यनिर्मित्या, "उत्प्रेक्षावल्लभ' इति नाम जातमिति वरमश्लोकतो ज्ञायते. आदर्शपुस्तकसमाप्ती "चिन्तामणिभधानामिद पद्यम्-'अनलशररसधाराके वर्षे माघस्य शुक्लशुभषट्याम् । गुरुवारे रेवत्या संपूर्ण सुन्दरी- शतकम् ॥ इत्युपलभ्यते तथा च विक्रमसंवत् १६५३ (रिहस्ताब्दाः १५९४) काल: स्फुट एवं. २. अस्य काव्यस्य पुस्तकं त्वेकमेव शुद्धं जीर्ण प्राप्तम्. तच्च कदाचित्कर्तृ- समयलिखितमेव भवत सुन्दरीशतकम् । अस्मिन्प्रकृतिमनोज्ञे लगा प्रायेण मान्मथी दृष्टिः । सुन्दरि यतो भवत्याः प्रतिक्षणं क्षीयते मध्यः ॥ १० ॥ यां तव गात्रे यौवनतपनरथारोहनेमिनवरेखा । सुन्दरि सैव जनानां जनयति रोमावलिभ्रान्तिम् ॥ ११॥ साररविपुरःसरीकृतयौवनमायातमभिमुखं सुतनोः । आलक्ष्यते यथेषा रोमालिच्छद्मतश्छाया ॥ १२॥ सुतनोरियप्रदेशे तिष्ठतु नवरोमराजिभुजगीती। त्रिवलित्रिसत्यरेखा वयःफणिग्राहिणाकारि॥ १३ ॥ वक्षसि सुमुखि भवत्या मनोहरं कान्तिमण्डलं जयति । आमितमभिनववयसा कामनृपादेशचक्रमिव ॥ १४ ॥ वयसा कुम्भकृतास्याः परिभ्रमत्कान्तिमण्डलच्छलतः । अअनि किमुरसि चक्रं कुचकुम्भं कर्तुकामेन ॥ १५ ॥ कृतचन्दनाङ्गरागो मदनसखः श्रीफलद्वेषी । सुन्दरि सुवर्णवर्णो वक्षोजः कीदृशो रुद्रः ॥ १६ ॥ करनखललितभुजायाः पल्लवकुसुमाभिरामलतिकायाः । अनयोर्विशेषदर्शी सुन्दरि कुसुमेषुरेवैकः ॥ १७ ॥ यस्य स्वरेण विजितः प्रिये पिकोऽभूदनप्रियः सपदिः । उपमामुपैतु शङ्खः कण्ठे तस्मिन्निधित्वेन ॥ १८ ॥ वदनमिदमृतमयमिति न तर्कितं किं तु तत्प्रमितम् । मुग्धे दग्धरतिप्रियजीवननेव प्रमाणमिह ॥ १९ ॥ इन्दोरखण्डमण्डलनिर्यत्पीयूधमृष्टरसनो यः । अधरंदलं तव सुन्दरि वर्णयितुं कल्पते यदि सः ॥ २०. सुन्दाि तव दृक्तुलनामारोढुं विकसितं सरोजेन । विधिना तदैव दत्तं परागविषतो मुखेऽस्य रजः ॥ २१ ॥ लोचनयोः श्रीभृतयोः कर्णान्तिकवासिनोः पृथुक्रमयोः अनयोस्तन्वि किमुचिता वद परहृद्यापहारिणी रीतिः ॥ २२ ॥ काव्यमाला । सुन्दरि तव नयनाम्बुजभालकलानाथखण्डयोर्मध्ये । अन्योन्यकलहशान्त्यै मुकुटिभ्रमरावली व्यरचि ॥ २३ ॥ तव नयनवारिरुहयोः संकोचों भालचन्द्रमुद्वीक्ष्य । मा भूदिति कमलभुवा भ्रूलेखा व्यरचि किं मध्ये ॥ २४ ॥ तव निर्मलौ कपोलौ सौन्दर्यासारसुन्दराभोगौ । किं वर्णवामि सुन्दरि चुम्बनयोग्याकृती कृतिनः ॥ २५ ॥ सीमन्तिनि तव कुटिलस्निग्धायतमेचकः कटाक्ष इव । हा हन्त केशहस्तो हृदयं हस्ताद्विहस्तयति ॥ २६ ॥ युवजनमारणशीला सुन्दरि वेणीकपाणिकोपेता। तव चरममङ्गमेतत्कवयित्वा पातकी कः स्यात् ।। २७ ।। कुसुमशरनृपनिदेशात्सुतनौ चकितं नवं वयो विशति । नवसेवक इव पार्थिवसद्मनि दत्तप्रवेशोऽपि ॥ २८ ॥ शरणमिव याचमानं क्वचित्तचिद्बाल्यनङ्गेषु भ्रमति मनोजनिदेशादधिकारिणि यौवने भवति ॥ २९ ॥ कुसुमशरनृपतिशासनमभिनवसौन्दर्यसारसौभाग्यम् । युवजनमनोविनोदो जयति प्रथमं वयस्तस्याः ॥३०॥ जयति स्मितप्रकारः स्फुरदधरोपान्तविश्नमस्तस्याः कुसुमाञ्जलिरिव दत्तो नवेन वयसा रतीशाय ॥ ३१ ॥ सुन्दरिं तव सितेन स्फुरिताधरपल्लवाङ्कमिलितेन । मकरध्वजनृपहस्ते वद कस्य मनो न विक्रीतम् ॥ ३२ ॥ अङ्गं कोमलमङ्गादधरोऽधरतोऽपि चन्द्रमुखि वचनम् । वचनादपि स्मितं ते तत्कथमन्तर्भिनत्ति मम ॥ ३३ ॥ अधरदलोपरि निहितं मुक्ताचूर्णं दरस्मितं तस्याः । आस्वाद्योच्छूनमिदं मनो मम स्नेहमभिलषति ॥ ३४ ॥ सस्मितमुखमवधीरितचेलाञ्चलमीषदानतग्रीवम् । तिर्यग्विलोकयन्त्या कोऽपि कृती लक्षितः क्रियते ।। ३५ ।। सुन्दरीशतकम् । तरुणि तरलनयनान्तं वलितग्रीवं वधूतचेलान्तम् । भवनद्वारिं विशन्त्यास्तव दृष्टं द्रष्टुमुत्कण्ठे ।। ३६ ॥ पश्यत्यसंमुखं मां मयिं पश्यति साथ संमुखीभवति । स्मरमेकतोऽवरोहैः श्रमयति कोटिद्वये मौर्वीं ॥ ३७॥ तव सुन्दरि मधुरसितमेदुरमच्चक्षुरभिमुखं चक्षुः । शरदिन्दुकिरणतुन्दिलकुमुदोन्मुखमधुपमनुहरते ॥ ३८ ॥ सुन्दरि विवृत्य दृष्टः कष्टमयाङ्गेन भुजगेन । अधरामृतेन जीवति सोऽयमुपायान्तरासाध्यः ।। ३९ ।। कुञ्चन्मृदुकरशाखाकृष्टाञ्चलकोणतिर्यगुल्लसितः । लक्षीकरोति धन्यं सुन्दरि दीर्घः कटाक्षस्ते ॥ ४० ॥ निष्ठुरपञ्जरकोषे नवसंयमित्तस्य खञ्जनस्येव । गुरुजनसमक्षमक्षिव्यापारो जयति मुग्धाक्ष्याः ॥ ४१॥ तव नयनपुण्डरीकात्प्रिये कटाक्षक्रमा विराजन्ते । विकसितविचकिलकुसुमात्कुसुमानीवावतीर्णानि ।। ४२ ॥ किंचिदुदञ्चय चञ्चलमञ्चलमचिरेण लोचनांशुकयोः सुन्दरि कर्णवत्तंसः कैरवमिन्दीवरं भवतु ॥ ४३ ॥ चक्षुरपाङ्गमपाङ्गः कर्ण कर्णोऽपि दूतिकावचनम् । अवधत्ते मम तपसामुदारसारः क्रमः सोऽयम् ॥ ४४ !! कातरनयननिवेदितनिर्दयकंदर्पवेदनातिशयम् । दृष्टं निस्वात्तमन्तः प्रियया प्रस्थानवेलायाम् ॥ ४५ ॥ संसदि सखीजनानां गोष्ठीं कर्तुं पुरः प्रवृत्तायाः। गोत्रस्खलनविलक्षं सुन्दरि मुखमीक्षणीयं ते ॥ १६ ॥ अरविन्दद्युतिशोणं लोचनकोणं सरोजाक्ष्याः । प्रणमति मय्यथ सदयं हरिहारे(?) हृदयं न विस्मरति ।। ४७ ॥ सागसि मयि मन्दपदं पश्चादेत्य स्थिते सरोजदृशम् । मुकुरं प्रदर्शयन्त्या तत्सख्यां किमिव नोपकृतम् ॥ १८ ॥ १०४ काव्यमाला। सस्मितमरुणकपोलं रचितभ्रूभङ्गमञ्चितव्रीडम् । संपृक्तभावरुचिरं बदनं तस्याः स्मरामि सखे ॥ ४९ ॥ ज्ञातासि गृहजनैरिति कथिते संभ्रान्ततारकं दूत्या । अरुणमपि मानवत्याः स्मरामि पाण्डूमवद्वदनम् ॥ ५० ।। प्रेमासवोन्मदिष्णोः प्रणयतनीयांसि तानि वचनानि । करणीयानि न हृदये दयिते यदयं दयावसरः ।। ५१ ॥ तव विरहानलतप्तं स्नेहकटाहं मदन्तरात्मानम् । सुन्दरि चन्दनशाखे शीतलय स्पर्शमात्रेण ॥ ५१ ॥ सहचर कुशलं तस्याः कुशलवती कथय किमपि संदिष्टम् के संदिशतु कृशानी न तत्र मरुतोऽपि यद्गमनम् ॥ ५३ ॥ अवधिदिवसप्रयाणाः प्रियतम तस्या मृगीदृशः प्राणाः । तिष्ठन्ति कतिपयाहं कृत्वा प्रस्थानमधिकण्ठम् ।। ५४ ।। गच्छति वर्षाकाले जलवरपटली यथा यथा रिक्ता । वर्षति लोचनयुगली तथा तथा पुण्डरीकदृशः ॥ १५ ॥ नदति कलापिकलाये नवजलदच्छायशान्तसंतापे संशयदोलारूढं जीवितमस्याः स्मरेण कृतम् ॥ ५६ ॥ किं वा कृतैः प्रयत्नैरेतैस्तुहिनोपचारसमवेतैः । उष्णीभवति यदस्याः परितः शीतोऽपि संचरन्पवनः ।। ५७ ।। अग्निश्चन्दनलेपो विषममृतं मरणमेव जीवातुः । सुन्दरि विरहिजनानां काचन लोकोत्तरा रीतिः ।। ५८ ॥ विरहार्तिदलनमौषधमेकं चेष्टासु तासु तादात्म्यम् । सुन्दरि यस्मिज्जाते ब्रह्मानन्दोऽपि नाकाङ्क्षयः ।। ५९ ॥ सुन्दरि रहस्यमालिषु कल्याणी स्फूर्तिरेव तव वेद । गोत्रस्खलनभयेन त्यक्ता यद्गौरवी संसद् ।। ६० ।। सुन्दर वसन्तपथिकान्रजनिभुजङ्गी यथा यथा दशति । तद्विषसंक्रान्तिवशात्तथा तथा क्षीयते दैर्व्यात् ॥ ६१ ॥ सुन्दरीशतकम् । सुन्दरि समुदितशशिकरधौततमा नेयमष्टमी रात्रिः । विरहिजनमसितभुजगी विदृश्य परिवर्तितोत्ताना ॥ ६२ ॥ पर्यङ्कपार्श्वलग्नां गलश्रुप्लावितैकभुजमूलाम् । अञ्चलसंवृतवदनां तामन्तश्चिन्तयामि चिरम् ॥ ६३ ॥ अश्रुप्लुतमतिकातरमनिमिषमस्पन्दतारकं तस्याः । लोचनयुगलं स्मरतः स्मरतो मम केवलं भीतिः ॥ ६ ॥ प्रत्येकमिन्द्रियाणामास्तां भिन्नैव देवतान्यस्य । परिणमति मम तु सैका सकलेन्द्रियदेवतात्वेन ॥ १५ ॥ अयि पथिक रक्ष जीवं परिहर दूरेण केतकीकुसुमम् । इह वसति पुष्पधन्वा सरहरनयनान्निरातङ्कः ॥ ६६ ॥ तव रथ्या राजगृहं प्रेमधनं किं च परिजनो बन्धुः । सख्यो भूर्ताः प्राणाः सुन्दरि किमतो मनाकाङ्क्ष्यम् ॥ ६७ ॥ साहसभवनमदूतिकमवलोकनदानवर्धमानमिदम् । जयतिः क्वचिदपि कन्ये सुन्दरि सहजं तव प्रेम ॥ ६८ ॥ शितिकण्ठकण्ठकान्तिप्रतिमल्ले स्फुरति सर्वतस्तिमिरे । धन्याय वदति सुन्दरि तवागमं पारिमलोत्कर्षः ॥ ६९ ।। मन्त्रो मनसा द्वेषश्चन्द्रमसा हन्त परिचयस्तमसा । सुन्दर तवाभिसारे परिपाटी काचिदन्यैव ।। ७० आसारस्नपिते यत्प्रयासि पथि दुस्तरे पयोदजलैः प्राक्तनमुदवासतपः फलोन्मुखं कस्यचित्कृतिनः ॥ ७१ ॥ द्विगुणीकृतान्धतमसं वर्षति रुद्धानिलं पयोवाहे । आकस्मिकमागमनं कान्त्यानुमितं सखे तस्याः ॥ २ ॥ अतिमन्दवर्षदम्बुदशीकरशिशिरासान्द्रवसनायाः । आकस्मिकागतायाः कण्ठंग्रहण फलं जनुषः ॥ ७३ ।। सितवसनमौक्तिकावलिचन्दनचर्चासहायशालिन्याः । ज्योत्स्नाभिसारिणि तव च्छाया परिपन्थिनी भवति ।। ७४ ।। नव० गु०:१० काव्यमाला। . ॥ यावत्पतति न चरणं छाया दुर्वारवैरिणी शिरसि । ज्योत्स्नाभिसारवेषः सहचरि नेशः कृतार्थयितुम् ।। ७५ ।। वचनरचनैः कृतं तव कितवप्रणिपातमात्रसाध्यायाः । अस्याः मानकदल्याः फलावसानः परीपाकः ।। ७६ ॥ भ्रूमङ्गभङ्गिभुग्न् तिर्यक्चललोचनं मुखं दधती । सुरतप्रार्थनवेलाकृतावहेला वधूर्जयति ॥ ७७ ।। विश्लथयति किमपि नीवीं कलकण्ठि रतस्य कूजितं यत्ते शिक्षाविस्मृतिरेषा गुरोरभक्तिं निवेदयति ॥ ७८ मधुधौतमधुरमधुरं धृतपंम्मिल्लं धवे धयति । कवलयति किमपि कम्पितकान्ताकरकंकणकणितम् ॥ ७९ ॥ अर्चितचण्डीचरणप्रसादफलमन्यदुर्लभं तरुणः । सुन्दरि हसितकरम्बितमखण्डपुण्येन खण्डयत्याधरम् ॥ ८० ॥ स्मेरानने मुखं तव सुधानिधेर्मण्डलेन तुलयन्तम् । एनं निजावरसुधादानेन न कि विलक्षयसि ॥ ८१॥ निबिडीकृतोरुबन्धं वेल्लितवदनेन्दुनिर्ह्नुतोच्छ्वासम् । तस्याः स्मरामि सुरतं तत्करभररुद्धमन्नामि ॥ ८२॥ सस्मिततिर्यग्वेल्लितमुखपर्यन्तप्रकीर्णकबरीकम् । अतिभाग्यवान्भवत्याः सुन्दरि पुरुषायित्तं लभते ॥.८३ ॥ प्रतिपणितमेकवार पातुं द्यूते जिलं पिबन्नधरम् । आवृत्तिद्वयभीत्या नायं निश्चूषते धूर्तः ।। ८४ ॥ आश्लेषोऽधरदानं चुम्बनमनिमेषवीक्षणं सुरतम् इत्येकैकपणेन क्रीडति मिथुनं जितान्योन्यम् ॥ ८५ ।। संस्पृष्टपद्मिनीको यथा यथार्कः करान्प्रसारयति । सुन्दरि मानवतीयं संकुचंति तथा तथा छाया ।। ८६ ॥ प्रातः पृच्छति निभृतं सखीजने रजनिकेलिवृत्तान्तम् । मन्दस्मितादजायत रहस्यभेदः सरोजाक्ष्याः ॥ ८७ ।। सुन्दरीशतकम् दोरान्दोलनसुभगं नितम्बभरमन्थराङ्गिविन्यासम् तव गजगामिनि गमनं कुरुते यतिचित्तसंयमनम् ॥ ८८ ।। चरणक्रममनुविलसद्भ्रूयुगविन्यासमानतग्रीवम् । नृत्यन्नितम्बबिम्बं गतमस्या कं न मोहयति ।। ८९ ॥ चरणतलगलदलक्तकवलत्पदं वर्त्म चकितनयनायाः। अनुरागबन्धपद्धतिरियतीति परं निवेदयति ॥ १० ॥ नतवदनमुन्नतभ्रूः पश्यन्ती वदनमूर्मिकामुकरें। सुन्दरि मृदु स्मयन्तीं कस्य न नयनं कृतार्थयसि ।। ९१ ॥ अघरोत्तरासमर्थं मदनपुमथै स्मितेन परिपुष्यत् । कस्यं न करोति कदनं वदनं दुष्टाधरं तस्याः ॥ १२ ॥ त्रिवलीतरङ्गतरलितनखाङ्कमीनं झषाङ्ककैवर्तः । तस्यां सुधासरस्यां वलयति रोमालिबडिशेन ।। ९३ ॥ सुन्दरि तव रोमावलिमुखाग्रजाग्रन्नखाङ्कलेखेयम् प्रत्यग्रविधृतभुजगी दंष्ट्राकोटिश्रियं वहति ।... दरविकसदम्बुजास्या भाति रवेः संमुखस्थिता नलिनी । हिमकरकरोपनीतां कदर्थनां वक्तुकामेव ।। ९५ ।। सौघशिखराधिरूढा मन्दानिलकम्पमानवसनान्ता । कस्यापि धन्यजनुषः पुण्यपताका परिस्फुरति ॥ ९६ ॥ पुनरुक्तभूषणानां हृदयाभिन्ने निवेद्यमानानाम् । सुन्दरि तव चरितानां कथमपि कथया न तृप्यामि ।। ९७ ॥ अङ्कगतस्तव कुमुदिनि मत्तो मधुपः प्रसुप्त इति मन्ये । संभावयति सरोजं यन्न विनिद्रं समागत्य ॥ ९८ ॥ अपकृतये तव पद्मिनि सहवासो भवति हन्त कुमुदिन्याः। त्वयि निशि निशि स्वपत्यामनया यन्नीयते मधुपः ॥ ९९ ।। त्वमधिकगुणासि मालति मल्लीलवलीलवङ्गलतिकाभ्यः । सकललतिकानुसारी यया निबद्धः षडङ्घ्रिरपि ।। १०० काव्यमाला। मधुकर तवैव धन्यं जनुरभितो बन्यमन्यदुत्सृजतः । यस्य प्रेमाबन्धो मालत्यां यन्न तस्याश्च ॥१०१ !! किं कृतमनेन मरुता माधविकाकुसुमसौरभं वहता । आश्लिष्टभ्रमरीकोऽप्यौत्कण्ठ्यं मधुकरो नीतः ॥ १०२ ॥ स्थास्यति कुवलयकलिंका कर्णे तव तावदेव कमलाक्षि । विकसति न यावदेषा चन्द्रकरस्पर्शदुर्ललिता ॥ १०३ ।। आश्लिष्य जिघ्र पिब मधु मधुकर तोषोदयाय मालत्याः निर्दय सुगन्धिवल्लीरेताश्चरणैः किमाक्षिपसि ॥ १०४ ईशस्याप्युपकुरूते क्वचित्कलावान्निसर्गकुटिलोऽपि । भ्रूर्भवति चन्द्रलेखा सुन्दरि शंभोस्तृतीयदृशः ।। १०५ ॥ केतकि तव यदि न कृतं परिशीलनमादरान्महेशेन । इयता न कापि हानिः सौरभ्याकृष्टमधुपायाः ॥ १०६ ॥ प्रकटितकपटाचार रथ्यामुखरचितमन्दिरद्वारम् । युवतीहृदयस्तेन युवानमेनं नमस्कुर्मः ॥ १०७ ॥ कति कति नात्र युवत्यो जडीभवन्ति स्खलन्ति वेपन्ते । इदमुदवसितोपान्तं तत्साध्व्यो दूरमुज्झन्ति ॥ १०८ ॥ अधिभवनमुच्चपीठे पामरवध्याहृते सुखासीनः । अभिलषितमुत्तमर्णः कटाक्षयस्तामवाप्नोति ॥ १०९ ॥ कुसुमेषुशास्त्रचर्चा सरसहृदा भावनीयं यत् । तव्द्यरचि "सुन्दरमुत्प्रेक्षावल्लभेनेदम् ॥ ११ ॥ भारत्यैव क्रियते स्तोत्रैः संतुष्टया द्विजद्वारा । श्रीगोकुलस्य सुकवेरुत्प्रेक्षावल्लभेत्यभिधा ॥ १११ ॥ इति श्रीमदुत्प्रेक्षावल्लभकविरचितं सुन्दरीशतकं समाप्तम्