ओं

शिवमयम्

सुप्रभेदम्

अथ क्रियापादे प्रश्नविधिपटलः ।

कैलाशशिखरासीनं मुनिसङ्घैः समावृतम् ।
देवैर्यक्षैः सगन्धर्वैः सिद्धविद्याधरैरपि ॥ १-१ ॥

ब्रह्मामृगाङ्कसूर्यैश्च लोकेशैरिहसंवृतम् ।
दृष्ट्वा प्रणम्य देवेशं विघ्नेशोवाक्यमब्रवित् ॥ १-२ ॥

भगवन् देवदेवेश लोकनाथजगत्पते ।
अनन्यमानसो भूत्वा शिवज्ञानं परं वद ॥ १-३ ॥

यदवाप्यनराः सर्वे मुक्तिमायान्ति केवलाम् ।
ज्ञानयोगक्रियाचर्याः पुराप्रोक्ताः सविस्तराः ॥ १-४ ॥

पुंसामनुग्रहार्थाय संक्षेपाद् वकुमर्हसि ।
तन्त्राणामुद्भवं किञ्चित् मन्त्राणामुद्भवं कथम् ॥ १-५ ॥

किं शौचा चमनं देव स्नानं भस्मविधिः कथम् ।
अर्चनाङ्गञ्च पूजा च मुद्राणां लक्षणं कथम् ॥ १-६ ॥

नैवेद्यं चाग्निकार्यश्च अग्निकुण्डबलिः कथम् ।
उत्सवस्यविधिः कोवा स्नपनस्य विधिः कथम् ॥ १-७ ॥

शीतकुम्भं कथं देव नवनैवेद्य लक्षणम् ।
कार्तिक्याङ्कृत्तिकादीपमाषाढे पूरकर्मकम् ॥ १-८ ॥

फलपाक विधानञ्च आचार्यस्य च लक्षणम् ।
लक्षणं करणानाञ्च ग्रामादीनां कथं प्रभो ॥ १-९ ॥

विभव निश्चयं किं वा कर्षणस्य विधिः कथम् ।
बालालयविधिः कोवा धामवास्तु विधि कथम् ॥ १-१० ॥

आद्येष्टकाविधानं किं गर्भन्यासविधिः कथम् ।
अङ्गुलीनां विधानं किं कथं प्रासादलक्षणम् ॥ १-११ ॥

मूर्ध्नेऽष्टकाविधानं किं कथं वा लिङ्गलक्षणम् ।
प्रतिमालक्षणं किं वा अङ्कुरार्पणलक्षणम् ॥ १-१२ ॥

लिङ्गसंस्थापनं किञ्च सकलस्थापनं कथम् ।
शक्तिनां स्थापनं किं वा परिवारस्य लक्षणम् ॥ १-१३ ॥

प्. २) अथाष्ट परिवाराणां स्थापनञ्च पृथक् पृथक् ।
इन्द्रादीनां प्रतिष्ठा च आदित्यस्थापनं कथम् ॥ १-१४ ॥

क्षेत्रपालप्रतिष्ठा च शूलस्य स्थापनं कथम् ।
अस्त्रराजप्रतिष्ठा च शास्तुश्च स्थापनं कथम् ॥ १-१५ ॥

जीर्णोद्धारविधिः किं वा प्रायश्चित्तविधिः कथम् ।
तन्त्राणां सङ्करोपेतं क्रियापादे कथं प्रभो ॥ १-१६ ॥

चर्या पादे च शैवानामुद्भवञ्च कथं प्रभो ।
जातिभेदविधानं किं मण्डलस्य कथं प्रभो ॥ १-१७ ॥

दीक्षामार्गं कथन्तेषां चर्यापादे व्यवस्थितम् ।
आदिशैवानुशैवानां कथं वा शोडश क्रियाः ॥ १-१८ ॥

व्रताचाराः कथन्तेषां पवित्रारोहणं कथम् ।
दीक्षितानां नृपाणाञ्च स्वर्णगर्भ तुलाकथम् ॥ १-१९ ॥

हिरण्यगर्भ तुलाभारं दहनस्य विधिः कथम् ।
पितृयज्ञविधानं किं स पिण्डीकरणञ्च किम् ॥ १-२० ॥

अष्टकायाविधानञ्च प्रायश्चित्तविधिः कथम् ।
नाडीचक्रं कथं योगे कालचक्रं तु कीदृशम् ॥ १-२१ ॥

आधाराधेयकं सर्वं योगपादे तु कीर्तितम् ।
ज्ञानपादे महादेव शिवसृष्टिक्रमं कथम् ॥ १-२२ ॥

पशुसृष्टिश्चका देव षडध्वालक्षणं कथम् ।
मया तु तानिप्रश्नानि प्रश्नान्यन्यान्यशेषतः ॥ १-२३ ॥

वक्तुमर्हसि मे देव अनुग्रह्योह्यहं प्रभो ।

श्रीभगवानुवाच

साधु साधु महाप्राज्ञ यत् त्वयापरिचोदितम् ॥ १-२४ ॥

शुद्धशैवमिदं तन्त्रं न देयं न प्रकाशितम् ।
दीक्षितस्य सुधीरस्य शिवभक्तिपरस्य च ॥ १-२५ ॥

श्रवणीयं न चान्यत्र कथनं हि प्रशस्यते ।
चतुष्पादयुतं तन्त्रं भुक्तिमुक्त्यर्थकारणम् ॥ १-२६ ॥

सारात् सारमिदं तन्त्रं सुप्रभेदं विनायक ।
तवस्ते? हादहं वक्ष्ये तत्सर्वं श्रूयतां क्रमात् ॥ १-२७ ॥

प्. ३) शैवं पाशुपतं सोमं लाकुलञ्च चतुर्विधम् ।
तेषु शैवं परं सौम्यं रौद्रं पाशुपतादिकम् ॥ १-२८ ॥

शैवं पुनश्चतुर्भेदं वामदक्षिणमेव च ।
मिश्रञ्चैव तु सिद्धान्तं तेषु सिद्धान्तमुत्तमम् ॥ १-२९ ॥

अष्टाविंशति भेदेन सिद्धान्तं शृणु तत्वतम् ।

इति प्रश्नविधिपटलः प्रथमः ॥ १ ॥


 अथ तन्त्रावतारविधिपटलः


अथातः संप्रवक्ष्यामि तन्त्राणामुद्भवं परम् ।
तनोति विपुलाननर्थान् तन्त्रमन्त्रसमाश्रितान् ॥ २-१ ॥

त्राणञ्च कुरुते पुंसां तेन तन्त्रमिति स्मृतम् ।
कामिकं योगजं चिन्त्यं कारणमजितं तथा ॥ २-२ ॥

दीप्तं सूक्ष्मं सहस्रञ्च अंशुमान् सुप्रभेदकम् ।
विजयञ्चैव निश्वासं स्वयम्भुवमथानलम् ॥ २-३ ॥

वीरं च रौरवञ्चैव मकुटं विमलं तथा ।
चन्द्रज्ञानञ्च बिंबञ्च प्रोत्गीतं ललितं तथा ॥ २-४ ॥

सिद्धं सन्तान सर्वोक्तं पारमेश्वरमेव च ।
किरणं वातुलञ्चैव अष्टाविंशति संहिताम् ॥ २-५ ॥

वक्ष्यामि सर्वतन्त्राणां वक्तारं प्रतिवाचकः ।
ज्ञानमेकं विभज्याशु दशाष्टादशसंहिताः ॥ २-६ ॥

सृष्टेरनन्तरं विघ्न मयाप्रोक्ताभिमुक्तये ।
कामिकं प्रणवाख्यस्य परार्थ ग्रन्धसङ्ख्यया ॥ २-७ ॥

प्रणवार्ति कलः प्रोक्त स्त्रिकलाच्च ततो हरः ।
त्रयश्चैवोप भेदाः स्युर्वक्तारं भैरवोत्तरम् ॥ २-८ ॥

नारसिम्हञ्च वैवत्स उच्यते कामिकत्रयम् ।
योगजं तु सुधाख्यस्य प्रोक्तं तल्लक्षसङ्ख्यया ॥ २-९ ॥

सुधाख्याद्भस्म संप्राप्तस्ततः प्राप्तो विभुः क्रमात् ।
वीणाशिखोत्तरन्तारं सुधासन्तन्तिमेव च ॥ २-१० ॥

प्. ४) आत्मयोगञ्च पञ्चैते योगतन्त्रस्य भेदकाः ।
चिन्त्यं सूदीप्त संज्ञस्य प्रोक्तं शतसहस्रकैः ॥ २-११ ॥

दीप्ताच्चगोपति प्राप्तस्ततः प्राप्ता तु चालिका ।
सुचिन्त्यं सुभगं वामं पापनाशं सुरोद्भवम् ॥ २-१२ ॥

अमृत्यविद्रतन्त्रञ्च षड्विधं तत् प्रकीर्तितम् ।
कारणं कारणाख्यस्य कोटिग्रन्धेन चोदितम् ॥ २-१३ ॥

कारणाच्छर्वरुद्रस्तु शर्वान् प्राप्तः प्रजापतिः ।
कारणं पावनं दौर्गं माहेन्द्रं भिमसंहिता ॥ २-१४ ॥

ततस्तु मारणत्वेषां सप्तधाकारणं तथा ।
अजितं तु शिवाख्यस्य नियुतग्रन्धसङ्ख्यया ॥ २-१५ ॥

सुशिवाख्याच्छिव प्राप्तः तच्छिवादच्युतः ततः ।
प्रभूतञ्च परोद्भूतं पार्वती पद्मसंहिता ॥ २-१६ ॥

चतुर्भेदमिदं तन्त्रे चास्मिन्तन्त्रे प्रकीर्तितम् ।
दीप्तमीशस्य विख्यातं नियुतग्रन्धसङ्ख्यया ॥ २-१७ ॥

ईशात् त्रिमूर्तिः संप्राप्ताः ततः प्राप्तो हुताशनः ।
अमेयमब्दमच्छाद्यमसङ्ख्यममितौजसम् ॥ २-१८ ॥

आनन्दं माधवोद्भूतं अत्भुतञ्चमृतं तथा ।
दीप्तन्तु नवधा प्रोक्तं सूक्ष्म तन्त्रनिबोधनात् ॥ २-१९ ॥

सूक्ष्मं सूक्ष्मस्य संप्रोक्तं तत् ग्रन्धं
पद्मसङ्ख्यया ।
कालभीमस्तत प्राप्तो भीमाधर्मो यथा तथा ॥ २-२० ॥

अतीतममलं शुद्धमप्रमेयं तु जातुभाक् ।
वु?बुधं विबुधं हस्तमलङ्कारं सुबोधकम् ॥ २-२१ ॥

एते सहस्र तन्त्रस्य दशसङ्ख्या प्रकीर्तिताः ।
अम्शुमानम्बु संज्ञस्य पञ्चलक्षेण कीर्तितम् ॥ २-२२ ॥

अग्रश्चैवांबुसंज्ञाच्च अग्रान् प्राप्तस्ततो रविः ।
विद्यापुराणं तन्त्रञ्च वासवं निललोहितम् ॥ २-२३ ॥

प्रकरणं भूततन्त्रमात्मालङ्कारमेव च ।
काश्यपङ्तौ तमञ्चैन्द्रं ब्राह्मं वासिष्ठमेव च ॥ २-२४


प्. ५) ईशानोत्तरतन्त्रञ्च अंशुमान्वादश स्मृतम् ।
सुप्रभेदमिदं तन्त्रं दशेशस्य प्रकीर्तितम् ॥ २-२५ ॥

विघ्नेश्वरोदशेशाच्च दशप्राप्तो बृहोदरात् ।
त्रिकोटिसङ्ख्यया प्रोक्तं भेदमत्र न विद्यते ॥ २-२६ ॥

क्रियादि ज्ञानपर्यन्तमत्रैवेह प्रदृश्यते ।
इदं शास्त्रमनेनैव सुप्रभेदमिति स्मृतम् ॥ २-२७ ॥

शिवभेदमिति प्रोक्तं रुद्रभेदमथोच्यते ।
रुद्रस्यानादिसंज्ञस्य विजयं तन्त्रमुत्तमम् ॥ २-२८ ॥

परमेशस्ततः प्राप्त त्रिकोटिग्रन्थसङ्ख्यया ।
विजयं चोद्भवं सौम्यं अघोरं मृत्युनाशनम् ॥ २-२९ ॥

कुबेरेशं महाघोरं विमलं विजयाष्टकम् ।
निश्वासं यद्दशार्णस्य प्रोक्तं तत् कोटिसङ्ख्यया ॥ २-३० ॥

दशार्णाच्छैलजा वाप्ता अष्टभेदेन चोदिताः ।
निश्वासोत्तर निश्वासौ निश्वासस्यमुखोदयम् ॥ २-३१ ॥

निश्वासनयनञ्चैव तथा निश्वासकारिका ।
घोरसंज्ञा समाख्याता गुह्यञ्चाप्येवमष्टधा ॥ २-३२ ॥

निधनस्य स्वयंभूतं त्रिकोट्यर्द्धेन कीर्तितम् ।
निधने शात् स्वयंभुतं श्रुतवान्नपि चोद्भवः ॥ २-३३ ॥

प्रजापतिमतं पद्मं स्वायंभुवमिति त्रिधा ।
आग्नेयञ्च ततो मेनाग्रन्धसङ्ख्या युतत्रयम् ॥ २-३४ ॥

आग्नेयं तन्त्रमेवन्तु ततः प्राप्तो हुताशनः ।
आग्नेयमेकमेवन्तु आग्नेयां नादमेव च ॥ २-३५ ॥

तेजसो वीरसंप्रोक्तं नियुतग्रन्धसङ्ख्यया ।
प्रजापतिस्ततः प्रोप्त त्रयोदशविभेदतः ॥ २-३६ ॥

प्रस्तरं फुल्लममलं प्रबोधं बोधबोधकम् ।
अमोहं मोहसमयं शकटंशाकटायिकम् ॥ २-३७ ॥

हलं विलोखरं भद्रं वीरं वीरे त्रयोदश ।
रौरवं ब्रह्मणेशस्य अंबुजाष्टकसङ्ख्यया ॥ २-३८ ॥

प्. ६) नन्दिकेशस्ततः प्राप्तो भेदाः षट्प्रविधीयते ।
कालदाहं कलातीतं रौरवं रौरवोत्तरम् ॥ २-३९ ॥

महाकालमतञ्चैन्द्रं रौरवं षट्प्रकीर्तितम् ।
मकुटन्तु शिवाख्यस्य शतसाहस्रसङ्ख्यया ॥ २-४० ॥

महादेवःस्ततः प्राप्ता भेदञ्च द्विविधं भवेत् ।
मकुटोत्तरन्तु मकुटं द्विविधञ्च विधीयते ॥ २-४१ ॥

सर्वात्मकस्य विमलं त्रिलक्षग्रन्धसङ्ख्यया ।
वीरभद्रः स्ततः प्राप्तो भेदाः षोडश एव च ॥ २-४२ ॥

अनन्तं भोगमाक्रान्तं वृषंलिङ्गं प्रषोदरम् ।
प्रषोद्भूतौ सुदन्तञ्च रौद्रं भद्रविधिं तथा ॥ २-४३ ॥

आरेवतमतिक्रान्तमट्टहासमलङ्कृतम् ।
अजितं मारणं तन्त्रं विमलं षोडशैव तु ॥ २-४४ ॥

चन्द्रज्ञानमनन्तस्य त्रिकोटिग्रन्धसङ्ख्यया ।
बृहस्पतिस्ततः प्राप्तो भेदाश्चापि चतुर्दश ॥ २-४५ ॥

स्थिरं स्थाणमहान्तञ्च नन्दीशं नन्दिकेश्वरम् ।
एकपादपुराणञ्च शङ्करन्तूलरुद्रकम् ॥ २-४६ ॥

श्रीभद्रं कल्पभेदञ्च श्रीमुखं शिवशासनम् ।
शिवशेखरमाख्यातं देव्यामतन्तथैव च ॥ २-४७ ॥

चन्द्रज्ञानस्य तन्त्रस्य चतुर्दशविधं भवेत् ।
मुखबिंबं प्रशान्तस्य शतसाहस्र सङ्ख्यया ॥ २-४८ ॥

दधीचिर्मुनि संप्राप्तो भेदः पञ्चदशैव तु ।
चतुर्मुखमहायोगं संस्तोभं प्रतिबिंबकम् ॥ २-४९ ॥

अर्थालङ्कारवायव्यं तोटकन्तुटिनिकरम् ।
प्रत्ययं चतुलायोगं कुट्टिमं पट्टिशेखरम् ॥ २-५० ॥

महाविद्या महासौरं बिंबं पञ्चदशैव तु ।
प्रोत्गीतं शूलिनः प्रोक्तं लक्षत्रितयसङ्ख्यया ॥ २-५१ ॥

कवचाख्यस्ततः प्राप्ता भेदाः षोडश एव हि ।
कवचञ्चैव वाराहं पिङ्गलामतमेव च ॥ २-५२ ॥

प्. ७) पाशबन्धं दण्डधरं कुशञ्च धनुधारिणम् ।
शिवज्ञानञ्च विज्ञानं श्रीकालं ज्ञानमेव च ॥ २-५३ ॥

आयुर्वेदं धनुर्वेदं सर्वदंष्ट्रविभेदनम् ।
गीतं भरतमातोद्यं प्रोत्गीतं षोडशेन वै ॥ २-५४ ॥

ललितञ्चलयस्यैव प्रोक्तमष्टसहस्रकम् ।
आलयाल्ललितं प्राप्तो ललितं ललितोदरम् ॥ २-५५ ॥

कौमारञ्चैव विघ्नेशं त्रिविधं परिकीर्तितम् ।
बिन्दोः सिद्धमिदं तन्त्रं कोटिकोट्यर्द्धसङ्ख्यया ॥ २-५६ ॥

बिन्दुसंज्ञाच्च संबन्धः प्राप्तश्चण्डेश्वरोपरः ।
सारोत्तरमथाद्यस्तु ऐशानोत्तरमेव च ॥ २-५७ ॥

शालाभेदं शशीमण्डं सिद्धतन्त्रं चतुर्विधम् ।
सन्तानं शिवनिष्ठस्य षट्सहस्रन्तु संङ्ख्यया ॥ २-५८ ॥

शैवे वायुस्ततः प्राप्तो भेदं सप्तविधं भवेत् ।
लिङ्गाद्ध्यक्षं सुराद्ध्यक्षं शङ्करं त्वमलेश्वरम् ॥ २-
५९ ॥

असङ्ख्यमनिलं द्वंद्वं सन्तानं सप्तधोदितम् ।
सोमदेवस्य सर्वोक्तं द्विलक्षेणैव सङ्ख्यया ॥ २-६० ॥

नृसिम्हः प्राप्तवान् सोमात् भेदं पञ्चविधं भवेत् ।
शिवधर्मन्तु धर्मोन्तं वायुप्रोतं तथैव च ॥ २-६१ ॥

दिव्यप्रोतमथैशानं शर्वोत्गीतं विधीयते ।
श्रीदेव्यास्तु समाख्यातं पारमेश्वरमुत्तमम् ॥ २-६२ ॥

ग्रन्धद्वादशलक्षन्तु सप्तधा प्रसृतन्तु तत् ।
उशनामुनि संप्राप्त श्रीदेव्याश्च यथा क्रमम् ॥ २-६३ ॥

मातङ्गं यक्षिणी पद्मं पारमेश्वरमेव च ।
पुष्कलं सुप्रयोगञ्च हंसं सामान्यमेव हि ॥ २-६४ ॥

किरणङ्गरुडस्योक्तं कोटिपञ्चकसङ्ख्यया ।
संवर्तकस्तत प्रप्ताः भेदन्तन्नव एव तु ॥ २-६५ ॥

गारुडन्नै-ऋतन्निलं रुत्विंभानुक धेनुकम् ।
प्रबुद्धं बुद्धकालाख्यं नवमङ्किरणं तथा ॥ २-६६ ॥

प्. ८) शिवस्य वातुलं प्रोक्तं ग्रन्धं शतसहस्रकम् ।
महाकालः स्ततः प्राप्तो भेदं वै द्वादशोदितम् ॥ २-६७ ॥

वातुलञ्चोत्तरञ्चैव कालज्ञानं प्ररोहितम् ।
सर्वं सर्वात्मकं श्रेष्ठं नित्यंशुद्धं महाननम् ॥
२-६८ ॥

विश्वं विश्वाकरञ्चैवं वातुलीद्वादशं स्मृतम् ।
अष्टाविंशति तन्त्राणां तन्त्रसङ्ख्या प्रकीर्तिताः ॥ २-६९ ॥

कामिकं पादयुग्मं स्याद् योगजङ्गुल्भमेव च ।
चिन्त्य पादाङ्गुलिः प्रोक्तं कारणं जङ्घमेव च ॥ २-७० ॥

अजितं जानुदेशञ्च दीप्तं मूलप्रदेशकम् ।
सूक्ष्मन्तु गुह्यबीजं स्यात् सहस्रन्तु कटीतटम् ॥ २-७१ ॥

अंशुमान् प्रष्ठभागञ्च सुप्रभेदन्तु नाभिकम् ।
विजयङ्कुक्षिदेशं स्यान्निश्वासं हृदयं भवेत् ॥ २-७२ ॥

स्वायंभुवं स्तनौ द्वौ तु अनलं नेत्रमेव च ।
वीरं कण्ठप्रदेशन्तु रौरवं श्रोत्रमेव च ॥ २-७३ ॥

मकुटे मकुटं तन्त्रमङ्गप्रत्यङ्गमेव च ।
बाहू तु विमलं प्रोक्तं चन्द्रज्ञानमुरस्थलम् ॥ २-७४ ॥

बिंब तन्त्रं सुवदनं प्रोत्गीतं जिह्वसंज्ञितम् ।
ललितं कपोलतलं सिद्धञ्चैव ललाटकम् ॥ २-७५ ॥

सन्तानं कुण्डल ज्योतिः शर्वोक्तमुपवीतकम् ।
पारमेश्वरहारञ्च किरणं रत्नभूषितम् ॥ २-७६ ॥

वातुलं परमेशस्य वायुस्तद्विशङ्केन तु ।
कल्पञ्च सूत्रसंयोगं शिवधर्मेनुलेपनम् ॥ २-७७ ॥

ललितः पुष्पमाल्यञ्च सिद्धान्तञ्च निवेदनम् ।
तन्त्रकायशरीरेण मन्त्रप्राणमयं तथा ॥ २-७८ ॥

एभिर्भेदोपभेदैश्च सादाख्ये मूर्तिमा स्थिताः ।
शैवभेदमिदं तन्त्रं दशाष्टादशसंहिताः ॥ २-७९ ॥

चिन्तामणिरिवाभाति एक या बहुधादिशेत् ।
यट्र्य?व्येकोभवेद्वक्ता श्रोतारोबहवो यथा ॥ २-८० ॥

प्. ९) येन तन्त्रेण चारब्धं कर्षणाद्यर्चनान्तकम् ।
तस्मिन् तन्त्रे प्रकर्तव्यं अन्य तन्त्रं न कारयेत् ॥ २-८१ ॥

कारयेदन्य तन्त्रेण नोक्तन्तस्मिन् विशेषतः ।
तन्त्रावतारणं प्रोक्तमन्त्रोद्धारमथ शृणु ॥ २-८२ ॥

तन्त्रावतार द्वितीय पटलः ॥ २ ॥


मन्त्रोद्धार पटलः

अथातः संप्रवक्ष्यामि मन्त्रोद्धारविधिं परम् ।
सर्वसिद्धिकरं श्रेष्ठं सर्वकामप्रदायिकम् ॥ ३-१ ॥

मननं सर्ववेदित्वं त्राणं संसारसागरात् ।
मननत्राणधर्मित्वां मन्त्र इत्यभिधीयते ॥ ३-२ ॥

शिवं ब्रह्माङ्गविद्येशान् गणेशान् लोकपालकान् ।
अस्त्रान्विद्याङ्गमेवन्तु बीजार्णक्षुरिकां तथा ॥ ३-३ ॥

पृथिव्यादीनि बीजानि बीजब्रह्मं पुरोक्तकम् ।
पिण्डमन्त्रं कलामन्त्रं पञ्चब्रह्मञ्च रुद्रकम् ॥ ३-४ ॥

वक्ष्यते सविशेषेण तच्छृणुष्व गजानन ।
योसौ परापरो देवः सर्वज्ञः सर्वदाविभुः ॥ ३-५ ॥

निष्कलन्तु परब्रह्मं तस्माच्छक्ति द्वयं भवेत् ।
तद्द्वयं निष्कलं प्रोक्तं तस्मान् नादसमुद्भवः ॥ ३-६ ॥

तस्मात् बिन्दु समुत्पन्नं तस्माद् योनिसबीजकम् ।
अकारादिविसर्गान्तं बीजं तत् षोडशाक्षरम् ॥ ३-७ ॥

त्रयस्त्रिंशाक्षराः शेषा योनयश्चाव्ययात्मिकाः ।
तेषु तन्त्राः समुत्पन्नास्तेषु मन्त्राः समुद्भवाः ॥ ३-८ ॥

तस्य वाचकमन्त्राणांस्तैरेवाभि न विद्यते ।
दशबीजमिदं मन्त्रं सर्वमन्त्रेषु कथ्यते ॥ ३-९ ॥

ओंकारं प्रथमंबीजमाकारन्तु द्वितीयकम् ।
त्रितीयं बीजमीकारं सर्वकारक कारणम् ॥ ३-१० ॥

प्. १०) चतुर्थं बीजमूकारं व्योकारं पञ्चमं भवेत् ।
मकारं षष्ठमेवं स्याद् व्याकारं सप्तमं तथा ॥ ३-११


पिकारमष्टमं बीजन्नेकारं नवमं स्मृतम् ।
ओंकारं दशमं बीजं सर्वात्मा चैव विश्रुतम् ॥ ३-१२ ॥

एत देव प्रबोद्धव्यं शिवेन परिभाषितम् ।
शिवमन्त्रमिदं प्रोक्तं तस्य लक्षणमुच्यते ॥ ३-१३ ॥

सदाशिवं तत्व संस्थं प्रत्यक्षं सर्वतोमुखम् ।
इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥ ३-१४ ॥

कर्णिका केसरैर्युक्तं तत्रस्थन्तु सदाशिवम् ।
पञ्चमूर्द्धं चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥ ३-१५ ॥

चतुरास्यञ्चतुर्नासं वसुश्रोत्रञ्चतुर्गलम् ।
दशभुजन्तनूरेका द्विपादं पद्मसंस्थितम् ॥ ३-१६ ॥

शुद्धस्फटिकसङ्काशं सूर्यकोटिसमप्रभम् ।
चन्द्रांशु हिमशीतञ्च सर्वाभरणभूषितम् ॥ ३-१७ ॥

शुक्लांबरधरन्देवं शुक्लयज्ञोपवीतिनम् ।
अभयं शूलपरशुं वज्रखट्गञ्च दक्षिणे ॥ ३-१८ ॥

खेटकं चांकुशं पाशं घण्टावह्निञ्च वामके ।
मनोन्मनीं तस्य वामे पञ्चावरणमध्यगाम् ॥ ३-१९ ॥

एवं सदाशिवं ध्यायेत् सर्वपाप निकृन्तनम् ।
इदं रूपं सदाध्येयं सर्वकर्मफलप्रदम् ॥ ३-२० ॥

एतत् सदाशिवं रूपमुमेशस्य शृणुष्व हि ।
मम रूपप्रभेदोस्ति चैक वक्त्रञ्चतुर्भुजम् ॥ ३-२१ ॥

शिवमन्त्रमितिख्यातं ब्रह्माङ्गञ्च ततः शुणु ।
प्रथमात् पञ्चबीजादि ब्रह्माङ्गं प्रधितानि वै ॥ ३-२२ ॥

शुक्लं रक्तं तथाश्यामं कुङ्कुमं क्षीरसन्निभम् ।
पञ्चानां पञ्चवर्णानि पञ्चब्रह्ममिहोच्यते ॥ ३-२३ ॥

रशामिषर्पपर्यन्तं शिवाङ्गञ्चेति कीर्तितम् ।
इन्दु धूम्रौ तथा किञ्चिद् धूम्र कृष्णं रवेर्निभम् ॥ ३-२४ ॥

प्. ११) तमोरूपं सुविज्ञेयं सूर्यकोटि शिवास्त्रकम् ।
शिवाङ्गास्त्रस्य पर्यायमघोरास्त्रं प्रकीर्तितम् ॥ ३-२५ ॥

एकाक्षरसमायुक्तमोङ्कारादिनमोन्तकम् ।
अस्त्रं विसर्गसंयुक्तमन्ये बिन्दुसमायुताः ॥ ३-२६ ॥

शेषा प्लुतसमायुक्ताः शिवाङ्गाश्च प्रकीर्तिताः ।
ब्रह्माङ्गाश्च यथा प्रोक्तास्तेषां रूपमिहोच्यते ॥ ३-२७ ॥

त्रिणेत्रञ्चतुर्भुजं सौम्यं सर्वलक्षणसंयुतम् ।
हारकेयूर संयुक्तं सर्वाभरणभूषितम् ॥ ३-२८ ॥

तेषां रूपं मयाप्रोक्तं विद्येशंलक्षणं शृणु ।
द्वितीयादि नमोन्ताश्च विद्येशानां प्रकीर्तितम् ॥ ३-२९ ॥

जपा पुष्प प्रभोनन्तो नीलवर्णन्तु सूक्ष्मकम् ।
शिवोत्तमोथकुन्दाभो बन्धूकं चैकनेत्रकः ॥ ३-३० ॥

पद्माभमेकरुद्रस्य रक्ताशोक स्त्रिमूर्तिभिः ।
नीलोत्पलाभ श्रीकण्ठः शिखण्डी चाञ्जनः प्रभः ॥ ३-३१ ॥

अनन्तादिशिखण्ड्यान्ताश्चाष्ट विद्येश्वरा स्मृताः ।
तेषां हृदोपचारन्तु ओंकारद्वयमेव हि ॥ ३-३२ ॥

पूर्वोक्तलक्षणोपेतं तेषां रूपं ततोमतः ।
गणेशलक्षणं वक्ष्ये शृणु तत्वङ्गजानन ॥ ३-३३ ॥

एकारादि द्वितीयान्तं गणेशानान्तु बीजकम् ।
जाम्बूनदमयिदेही चण्डो वै सूर्यसन्निभः ॥ ३-३४ ॥

नन्दीशः पद्मरागस्तु कालोमरतकप्रभः ।
वृषभः शारदाभ्राभो गणेशः पद्मसन्निभः ॥ ३-३५ ॥

भृङ्गीश श्वेतवर्णस्तु रक्तवर्णस्तु षण्मुखः ।
देव्यादि षण्मुखान्ताश्च विज्ञेयास्ते गणेश्वराः ॥ ३-३६ ॥

तेषां हृदुपचारन्तु ज्ञेयं विद्येशवत्पुरा ।
इन्द्रादिलोकपालानां शृणुमन्त्रङ्गजानन ॥ ३-३७ ॥

दशबीजं ततः प्रोक्तं पूर्वादिक्रमयोगतः ।
इन्द्रस्तु पीतवर्णः स्यात् पिङ्गवर्णस्तु पावकः ॥ ३-३८ ॥

प्. १२) कृष्णवर्णोयमः प्रोक्तो नि-ऋतिर्धूम्रवर्णकः ।
वरुणः शुक्लवर्णस्तु वायुर्वै पीतवर्णकः ॥ ३-३९ ॥

सोमस्तु हिमसङ्काशस्त्वीश स्फटिकसन्निभः ।
ज्वालाविद्युदनं तस्य ब्रह्मणश्चेन्द्रकोपकः ॥ ३-४० ॥

तेषां रूपं पृथक् प्रोक्तं मन्त्राणां लक्षण शृणु ।
दशाभि प्रथमान्तञ्च मन्त्रमुच्चार्यते क्रमात् ॥ ३-४१ ॥

नानावर्णमयं वज्रं शक्तिर्विद्युत् प्रभासिकाः ।
दण्डश्च नीलजिमूतः खड्गोनीलोत्पल प्रभः ॥ ३-४२ ॥

पाशः पावक सङ्काशश्चांकुशं पद्मरागभाक् ।
गदा तु षारवर्णा तु इन्द्रनील स्त्रिशूलकः ॥ ३-४३ ॥

अतसी कुसुमश्चक्रः पद्मस्तत् भास्करप्रभः ।
भूतानां शिरसश्चोर्द्ध्वे आयुधानि प्रकल्पयेत् ॥ ३-४४ ॥

शिवबीजमिदं मध्ये शिवब्रह्माङ्गमेव च ।
विद्येशाश्च गणेशाश्च लोकपालास्त्रसंयुतम् ॥ ३-४५ ॥

मन्त्रं रूपं तथा वर्णं प्रोक्तादश विशेषतः ।
दशबीजाच्च ये चान्ये क्रमान्नागानन शृणु ॥ ३-४६ ॥

विद्याङ्गलक्षणं ब्रूमो नेत्रेण तु समायुतम् ।
सप्ताष्ट पञ्चमात्रन्तु गुणवर्णा यथा क्रमात् ॥ ३-४७ ॥

ओङ्कारादि प्रशान्ताय नमोहृद्युक्त वर्णकम् ।
ओं प्रणवात्मं नमोनमः शिरस्फटिकसन्निभम् ॥ ३-४८ ॥

शिखायहुं प्रणवादि शिखाचैवाञ्जन प्रभा ।
हुङ्कारस्तु तथा वर्म पद्मपत्रेणसन्निभम् ॥ ३-४९ ॥

फट्कारमिहशस्त्रं स्यात् सूर्यकोटिसमप्रभम् ।
एतत् पाशुपतास्त्रञ्च ईषट्करालदंष्ट्रकम् ॥ ३-५० ॥

ओं जिह्वासं स्मृता नेत्रमरुणाभं ततो विदुः ।
पूर्ववद् रूपमेतेषां शक्तिबीजं तत शृणु ॥ ३-५१ ॥

ओं भॄं जॄं क्ष्मॄं शक्तिमन्त्रं स्यात् बीजमुख्यन्तु
देवता ।
तप्तकाञ्चन वर्णाभा रूपलक्षणमुच्यते ॥ ३-५२ ॥

प्. १३) चतुर्भुजा त्रिणेत्रा च सर्वालङ्कारसंयुता ।
नितम्बतटविस्तीर्णा मध्यक्षामा स्तनोन्नता ॥ ३-५३ ॥

एवं लक्षणसंयुक्ता आदिशक्तिर्मनोन्मनी ।
शक्तेस्तु लक्षणं प्रोक्तं क्षुरिकास्त्रं ततः शृणु ॥ ३-५४ ॥

ओश्चिपिखीचिदक्षि उत्क्षुरिकामन्त्रमुत्तमम् ।
विशुद्धस्फटिकाकारं क्षुरिकास्त्रञ्चतुर्भुजम् ॥ ३-५५ ॥

विद्याङ्गास्त्रं शिवाङ्गास्त्रं अघोरास्त्रं त्रितीयकम् ।
शिवाङ्गास्त्र द्विधा चैव शिवशस्त्रं तथैव च ॥ ३-५६ ॥

सर्वात्मा ज्ञानहृदयं विद्याङ्गाद् योगजं स्मृतम् ।
भूतजं हृदयं घोरं हृदयन्तु त्रिधा भवेत् ॥ ३-५७ ॥

सृजेत भूतजेनैव योगजेन तु सम्हरेत् ।
ज्ञानेन मोक्षदं प्रोक्तमित्येवन्तु मनीषिणाम् ॥ ३-५८ ॥

पृथिव्यादीनि बीजानि लवरय्यहकारकाः ।
ब्रह्माख्यां पूर्ववत् ब्रह्ममेवञ्चैव तत शृणु ॥ ३-५९ ॥

प्रथमं ब्रह्मबीजं सात् द्वितिय्यं पिण्डमन्त्रकम् ।
कलामन्त्रं तृतीयन्तु ब्रह्ममेतत् त्रिधा मतम् ॥ ३-६० ॥

ब्रह्मबीजेष्वयत् ब्रह्म बीजब्रह्ममिहोच्यते ।
सद्यादीशानपर्यन्तं वक्ष्यमाणं विधानतः ॥ ३-६१ ॥

पिण्डमन्त्रमिति ज्ञेयं कलामन्त्रं ततः शृणु ।
सद्यः कलाभिरष्टाभिर्वामदेवस्त्रयोदश ॥ ३-६२ ॥

अघोराष्टकलाष्टाभिश्चतुर्भिश्चैव वक्त्रकम् ।
ईशानं पञ्चधा भित्वा कल्पयेत् तु विचक्षणः ॥ ३-६३ ॥

अष्टत्रिंशत्कला ह्येवं कला ब्रह्मन्तु कथ्यते ।
ब्रह्मरुद्रौ प्रवक्ष्यामि चक्रं न्यसाक्षरक्रमात् ॥ ३-६४ ॥

मण्डपं कारयेत् तत्र नवहस्तप्रमाणतः ।
प्रपां वा कल्पयेद् विद्वान् द्वादशस्तम्भसंयुतम् ॥ ३-६५ ॥

वितानं ध्वजसंयुक्तं भूषितं धूपदीपकैः ।
मण्डपस्य तु तन्मध्ये चक्रं कुर्याद् विशेषतः ॥ ३-६६ ॥

प्. १४) पूर्वापरेण मार्गेण युग्मसूत्रं प्रपातयेत् ।
दक्षिणोत्तरमार्गेण तद्वत् सूत्रं प्रपातयेत् ॥ ३-६७ ॥

सप्ताङ्गुलान्तरं ज्ञेयं मानाङ्गुलेन कारयेत् ।
षोडशाङ्गुलमानेन मध्ये वृत्तं प्रकल्पयेत् ॥ ३-६८ ॥

तन्मद्ध्येऽष्टदलं पद्मं तत् बाह्ये षोडशं दलम् ।
तत् बाह्ये भ्रामयेद् विद्वान् संवीक्ष्य वरणङ्क्रमात् ॥ ३-६९ ॥

पञ्चाङ्गुलान्तरं तेषां द्वाराग्रे शूलमुल्लिखेत् ।
बाह्यविधौ न्यसेद् धीमान् त्रयस्त्रिंशच्च देवताः ॥ ३-७० ॥

बाह्यवास्तुपदे युक्ता देवान् सङ्कल्प्य तत्र वै ।
खट्गखेटकसंयुक्तान् वास्तुदेवान् न्यसेत् क्रमात् ॥ ३-७१ ॥

रक्तवर्णनिभान् देवान् हृदयेऽञ्जलिसंयुतान् ।
परितः कल्पयेत् तत्र एकैकान्तरितः क्रमात् ॥ ३-७२ ॥

ब्रह्माक्षरान् महाशासु रुद्रार्णानि दिशासु वै ।
प्रागाद्युत्तरपर्यन्तं दिक्षु ब्रह्मं समुद्धरेत् ॥ ३-७३ ॥

आग्नेय्यां दिशिकोणान्तं रुद्रमन्त्रं समुद्धरेत् ।
ब्रह्मरुद्रक्रमेणैवं विन्यासञ्च ततः शृणु ॥ ३-७४ ॥

ब्रह्मसूत्रं न्यसेत् तत्र सितेन रजसा पुनः ।
नानावर्णविमिश्रेण भ्रामयेत् ब्रह्मसूत्रकात् ॥ ३-७५ ॥

रक्तेन धातुना वर्ग प्रस्तरेदक्षराणि वै ।
यवर्गादष्टमं बीजं तेजोबीजसमायुतम् ॥ ३-७६ ॥

चतुर्दश स्वरोपेतं बिन्दुनादसमन्वितम् ।
ब्रह्महत्यादिकं पापञ्जप्तमात्रेण नश्यति ॥ ३-७७ ॥

इदं प्राणदमुद्धृत्य कर्णिकायां विशेषतः ।
प्राक् दले प्रणवं न्यस्त्वा द्याकारं तस्य दक्षिणे ॥ ३-७८ ॥

पप्रगच्छोश्च सद्योसौ न्यसेद् अष्टदलाब्जके ।
सद्योजाश्च तथा तश्च पृच्छिपश्च ततः पुनः ॥ ३-७९ ॥

जाकाराश्च इमेसर्वे पूजाद्यब्ददले न्यसेत् ।
मकारञ्च सकारञ्च गोकारञ्च तथा पुनः ॥ ३-८० ॥

प्. १५) जातायश्च तथा वै नं स्थवसर्गोयमेव च ।
भाश्च वे च तथा भश्च चेतना च तथातिभम् ॥ ३-८१ ॥

मिकारमिन्द्रदिक् पात्रे भतीनावे भवेगमः ।
न वै वताजान्योसाश्च न्यासेत् षोडशदिक् दले ॥ ३-८२ ॥

प्रदक्षिणक्रमादेवमन्वेष्वा वरणेषु च ।
जश्च भश्च तथा पेचमश्चप्यो च तमोक्षरः ॥ ३-८३ ॥

खकारश्च विकारश्च खकारोमा तथैव च ।
काच पश्च तथा पोच ह्योचरे कारयेव च ॥ ३-८४ ॥

मुश्चयश्च तथा द्राच रुद्रः शन्नोत एव च ।
पश्च धिश्च तथा गाश्च पूर्वादीनि प्रदक्षिणम् ॥ ३-८५ ॥

चतुर्विंशति मे प्रोक्ता प्रथमावरणे क्रमात् ।
नश्च माश्च तथा स्वश्च व्यश्च दिश्च ततः पुनः ॥ ३-८६ ॥

ने च पश्च तथाव्या च पश्चना चर एव च ।
बालबाधपराश्चैव रश्चघोचर एव च ॥ ३-८७ ॥

स्रश्च विश्चककारश्च षश्च पिश्च तथैव च ।
चोश्च प्रश्च तथा द्रश्च मुश्च प्रश्च श एव च ॥ ३-८८ ॥

एत चश्च द्वितीये तु द्वात्रिंशद्वर्णमुच्यते ।
स विसर्गोमकारस्तु रवतावाक्षरान्य हुः ॥ ३-८९ ॥

तत् बाह्ये षोडशदले भश्च मोचय एव च ।
पाच रूच क्वकारश्च रिकारश्च च एव च ॥ ३-९० ॥

बश्च मोच तथा नश्च मश्च पामस्तथैव च ।
मोकारश्च मलो चैव सविसर्गोह्य एव च ॥ ३-९१ ॥

रेतौ निश्च तथाद्याश्च निश्चयश्च त आयतः ।
शिकारः प्रणवश्चैव याच्चदश्च तथैव च ॥ ३-९२ ॥

सविसर्गे ककारस्तु तेधमाश्च प्रपञ्च च ।
षट्त्रिंशदक्षरा प्रोक्ता स्त्रितीया वरणे ततः ॥ ३-९३ ॥

नश्च वाच ततो दीप नाधा प्रश्च जनेऽपि वा ।
व्याश्चर्वश्च समौ प्रश्च लकारोभुक्तिरेव च ॥ ३-९४ ॥

निश्चयश्च तथा द्राश्च ओष्ठ ज्येकार एव च ।
सविसर्गन्त कोरस्तु मश्चसश्चम आयते ॥ ३-९५ ॥

प्. १६) ण्यश्चरश्च तथा हिश्च मोचनश्चध एव च ।
त्याकारश्च न कारश्च ईकारश्च त एव च ॥ ३-९६ ॥

तश्च भूश्च नवौभानौ वश्चभश्च तथैव च ।
चतुर्था वरणेह्यत्र चतुश्चत्वारिंशदक्षरम् ॥ ३-९७ ॥

यश्च वा च तथा देश्च माद्योवाश्च तथैव च ।
पादोहामाश्चयश्चैव वा कारश्च शि एव च ॥ ३-९८ ॥

स विसर्गोमकारश्च न कारः प्रणवस्ततः ।
यधौ नाधाब्द शाश्चैव शब्दासाः स विसर्गमः ॥ ३-९९ ॥

तश्चणे च विरूकारौ हुकारो बश्चयः ततः ।
ह्याकारौ सर्वकारौ च शश्चरश्च त आयतः ॥ ३-१०० ॥

तु हे सेच्च च कारश्च लकारश्च न एव च ।
लकारश्च निकारश्च स्वराद्योह्हेविस्तथा ॥ ३-१०१ ॥

रेफ पूर्वोपकारस्तु सश्चद्यश्चपि एव च ।
न्याकरोपित्तिशाश्चैव त्याच शश्च व एव च ॥ ३-१०२ ॥

वकारोव्यो च भव्यौ च भकारश्च ततोन्ततः ।
अष्टषष्ट्य क्षराः प्रोक्ताः पञ्चमावरणे तथा ॥ ३-१०३ ॥

ज्येकारश्च तथा मोश्च नश्चदापदपास्तथा ।
यच्च पाकृति पच्चैव कानेचाद्यस्वरस्तथा ॥ ३-१०४ ॥

यश्च आयसकारश्च हार्गसा स विसर्गमम् ।
न च जोश्च तथा तेजसौ जाते कार एव च ॥ ३-१०५ ॥

ऐकारश्च विकारश्च ऊकारश्च तथा पुनः ।
रेफ पूर्वशकारश्च सच्चयश्च ततः पुनः ॥ ३-१०६ ॥

रेफ पूर्वे तु दीर्घस्तु स्पश्चणे च विरू ततः ।
न ह्योर्वे घोततीं ताशा ताश्चशा च ततः पुनः ॥ ३-१०७ ॥

दीर्घरेफौ पकारश्च रश्च पश्चतिथौ ततः ।
णामिनाभ्याश्च श्लिंश्चैव शीं श्लीं कारस्तथैव च ॥ ३-
१०८ ॥

प्रणवश्च शकारश्च देशादेत्ताश्च जा ततः ।
अश्च षश्च रुकारश्च पूषौ रूप तथैव च ॥ ३-१०९ ॥

षट् च सप्ततयः प्रोक्ताः षष्ठमावरणे क्रमात् ।
तधष्ठा षाश्च शेविश्च पाचयश्च ततः पुनः ॥ ३-११० ॥

प्. १७) रूचद्रश्च तथा रौचयश्च नाशाविरेव च ।
घ्नश्च विश्चर्वसौ चैव याकारश्च तरुश्च वै ॥ ३-१११ ॥

रेफपूर्वौ चकारश्च रुश्चण्डश्च गधौ तथा ।
डा गणेपि चरूडाश्च रावसाश्चरणेऽपि च ॥ ३-११२ ॥

रूस्तुस्तैमाश्च प्रोवैव स्वराद्योमविसर्गयुक् ।
तश्चवश्च शिमस्ता च वश्चशिश्च भ एव च ॥ ३-११३ ॥

तरघोमोगराश्चैव सश्चरश्चश्च एव च ।
ह्री कारश्च त्रयं दीप ह्रिकारस्य तथा त्रयम् ॥ ३-११४ ॥

अक्षर त्रीणी हुंकाराः प्रणवं फट् तथास्त्रयः ।
दीपकश्च तथांशाश्च अशीतिः सप्तमावृतौ ॥ ३-११५ ॥

द्रौश्चरुश्च तथा मोचनश्चरश्चरुपी तथा ।
यश्चष्टा च तथा दंश्च तूश्चवश्च लिपी तथा ॥ ३-११६ ॥

लिश्च किश्च लिपी चैव लिश्च हिश्चतन्ती पुनः ।
नामादाश्च तथा द्वंश्चणेपि रूलाश्चद्रू तथा ॥ ३-११७ ॥

यश्चला च तथा मूचणेपि रूजाश्च एव च ।
बीजायाश्चैव बीचैवणेपि बेरुद्र एव च ॥ ३-११८ ॥

अक्षरः सविसर्गेण मकारो न यदा तथा ।
नमो न देनाद्य स्वराः सविसर्गौमतौ ततः ॥ ३-११९ ॥

वीह्य पोमोन ह्यताम्रर्वनाश्चन्ता चनस्ततः ।
अफट्कारौ च हुंश्चैव प्रणवश्च तथा पुनः ॥ ३-१२० ॥

षट् च वौ चैव षट्चैव यथा स्वाचैव हा पुनः ।
स्वाश्चस्तिश्च सकारश्च सविसर्गौ मनौस्तथा ॥ ३-१२१ ॥

अष्टमावरणे प्रोक्ता अष्टाशीत्यक्षराः पुनः ।
सविसर्गोमकारश्च नकारश्च ययौ पुनः ॥ ३-१२२ ॥

यान्निर्वे च धमाः साश्च जुश्चग्यश्च ऋ एव च ।
श्वश्च ह्वा च तथा जींश्च ग्रश्चनोच ह आयतः ॥ ३-१२३ ॥

लीपे पाश्च तथा पश्च लापा नानास्तथैव च ।
मोनयाश्चैव पिश्चैव रुद्रपाश्चै य आयतः ॥ ३-१२४ ॥

द्रापणे पिततारू च लश्च नायौ चला ततः ।
नाकारेणापि रूरांश्च रुद्राश्चैव य एव च ॥ ३-१२५ ॥

प्. १८) राचरूश्च तथा तच्च प्रणवश्च ह्य एव च ।
पश्चसिश्च तथाद्यश्च चापिश्चर्व स एव च ॥ ३-१२६ ॥

सविसर्गोमकारश्च तश्चभ्यश्चनुयो पुनः ।
तव गोप्ते च गौयौ च ह्या च गुश्च तथा पुनः ॥ ३-१२७ ॥

मोनहु प्राश्च हश्चैव स्मश्च व्रंश्चैव नांस्ततः ।
तश्च हा च तथा स्वा च यकारश्च र आयतः ॥ ३-१२८ ॥

यश्च भीश्च तथा भूश्च मश्च प्रेच ह आयतः ।
सा च यश्च तथा रा च यश्च जश्च व एव च ॥ ३-१२९ ॥

हाच स्वाच तली चैव ज्वश्च सुश्च द एव च ।
नवमावरणे प्रोक्ताः शताष्टाधिकमक्षरम् ॥ ३-१३० ॥

यश्च लाच तथा काच व्यालिकैलिश्च किंस्ततः ।
यश्च ता च तथा श्वश्च शाश्चयश्च व आयतः ॥ ३-१३१ ॥

ध्राश्चयश्च तथा ता च ता श्रीश्चाना चयौ पुनः ।
ता च ना चस्वराच्छाद्यो यश्चन्ताश्च न एव च ॥ ३-१३२ ॥

अकारश्च मकारश्च नोमणश्च पिता तथा ।
लश्चपश्च यकारश्च लाचभश्च तथा पुनः ॥ ३-१३३ ॥

णेचपिश्च तथा रूच पञ्चपुश्च य एव च ।
ष्वाच पुश्च तथा णश्च विश्वरूपर्भगौ तथा ॥ ३-१३४ ॥

यश्च भाच तथा गश्चणे च ष्वाश्चरु एव च ।
पुश्च द्यो च तथात्मश्च व्योचनश्च त एव च ॥ ३-१३५ ॥

चेचना च तथा तश्च चेचेवाद्य स्वरास्तथा ।
यश्चरा च तथा पश्च रश्चयश्च तथैव च ॥ ३-१३६ ॥

मेचरश्च पकारश्च यश्च पाच तथा परू ।
निश्चद्यो च तथा ये च तश्च पश्चतिणाच्चिवाः ॥ ३-१३७ ॥

नकारश्च स्वरश्चोद्यो रश्चपश्चन्द्र एव च ।
रुश्चष्णुश्च तथा पिश्च ह्याच पुश्चरकौ ततः ॥ ३-१३८ ॥

स्यश्च नैश्च तथा सा चर्वश्च सश्च द एव च ।
प्रश्च खश्चसुतौ चैव हूकारश्चर्व एव च ॥ ३-१३९ ॥

दशमावरणे प्रोक्ताः शताश्च द्वादशाधिकाः ।
कश्चमः सविसर्गस्तु नयायेश्चरु आयतः ॥ ३-१४० ॥

प्. १९) याकारश्च तथा कारयश्च राच ह आयतः ।
नश्चद्ध्या च तथाने च गित्ययोत्यं नियास्तथा ॥ ३-१४१ ॥

ताच स्थिश्च तथा सश्च मश्च पीच ग एव च ।
यो बलंश्च नयौ ना च णेच विश्च तथा पुनः ॥ ३-१४२ ॥

रुकारश्च तथा नो च मश्च सेचनमौ ततः ।
णेकारश्च विरूतौ च रेकारश्च तथा पुनः ॥ ३-१४३ ॥

सेतरेणे विरुन्ताश्च नश्चयाश्च य एव च ।
तश्च नश्च अकारश्चत्मश्च विश्च वधू पुनः ॥ ३-१४४ ॥

अग्निश्च स्वराश्चाद्योप श्वरूपश्च एव च ।
नित्योजः सविसर्गश्च ते मथाश्च तथा पुनः ॥ ३-१४५ ॥

प्रश्च विश्च तथा रूनौ विश्वरूच अपिंस्ततः ।
व्या विश्चैव तथा व्योमिन् स्माच प्रश्चति एव च ॥ ३-१४६ ॥

शिक्ष क्ष्मा च तथा सूचब्दश्च शश्चन एव च ।
ज्ञाश्च गश्च तथा पिंश्च गश्च तश्च परू तथा ॥ ३-१४७ ॥

तुश्च षिश्च तथा सा च तश्च स्थिश्चर्व एव च ।
पूतौस्तुश्च अनौ चैव विन्यसेत् तु विशेषतः ॥ ३-१४८ ॥

दशैकावरणे प्रोक्ताः शतवर्णाश्च षोडश ।
ककारश्च विलौ चैव अकारोयश्च वा शिराः ॥ ३-१४९ ॥

घोमानाश्च यकारश्च ज्ञाचवश्च ष एव च ।
रुश्च पुश्च तयौ चैव वा शिये तत् पगास्तथा ॥ ३-१५० ॥

जकारोयश्च नाशाश्च ईकारश्चाद्यमक्षरम् ।
प्रणवः सविसर्गेण मकारप्रश्चयस्ततः ॥ ३-१५१ ॥

पारुतिश्च कृकारश्च प्रश्चणे च विरूरकाः ।
हंसश्चाभ्य स्वरश्चैव यश्चरा च क आयतः ॥ ३-१५२ ॥

अं चैवाद्य स्वाराश्चैव णेचविश्च तथा पुनः ।
रुर्थौ चाद्य स्वराश्चैव यर्थ चैवाद्यमक्षरम् ॥ ३-१५३ ॥

महामहे बहुश्चैव तथा प्रणव एव च ।
सविसर्गेण रूकारः प्रणवश्च तथा पुनः ॥ ३-१५४ ॥

चत्वारश्चैव सूकारा नाकारश्च तथा चतु ।
देनादेश्च तथा ना च अकारोन्तश्च नस्ततः ॥ ३-१५५ ॥

प्. २०) अकारश्च स्मकारश्च अश्चन्तश्चर्भ एव च ।
आह्य स्वरोमकारश्च मेवोशिश्च च एव च ॥ ३-१५६ ॥

षांश्च शांश्च तथा वांश्च लांश्च यांश्चस्तथापि च

ओकारेश्च तथा नेच विश्चव्याम च एव च ॥ ३-१५७ ॥

व्योकारश्च तथा ऊचं रच आकार एव च ।
प्रणवश्च वयश्चैव मश्चनच्चम एव च ॥ ३-१५८ ॥

शिश्च दश्चर्वसौ चैवर्वश्च शश्चव एव च ।
द्वादशावरणे प्रोक्तो विंशतिश्चशतं क्रमात् ॥ ३-१५९ ॥

यश्चणा च तथा रश्च वाचपाचप एव च ।
यकारो ह्यागुवाश्चैव देवमायाश्च एव च ॥ ३-१६० ॥

नोश्च पश्चात् प्रयद्युश्च विधं द्राचैवकास्तथा ।
वश्च सिश्च यथा दश्च भूयभ्यश्च च एव च ॥ ३-१६१ ॥

रेच घोणे विरुद्राश्च विश्चयद्यश्च आयतः ।
विश्चणे च तथा पिश्च रूपद्धश्च शुयौ ततः ॥ ३-१६२ ॥

याश्च गुश्च तथा णेचरु माया च यथौ ततः ।
माचणेऽपि तथा रूति ककारायश्च वा पुनः ॥ ३-१६३ ॥

देय व्याश्च स्वराश्चाद्यो वेचभश्च विमौ ततः ।
वाचमावाकने चैव कानेचाद्य स्वरस्ततः ॥ ३-१६४ ॥

त्र्यंश्च सश्च ततो दीपः सविसर्ग व एव च ।
तकारः प्रणवश्चैवः सविसर्गो न एव च ॥ ३-१६५ ॥

जकारादीपकश्चैवः सविसर्गो ह कारकः ।
मकारः प्रणवश्चैव सविसर्गस्प एव च ॥ ३-१६६ ॥

प्रणवश्च तथा दाच सश्चस्तुश्च तपो ततः ।
तश्च भावै च स्वाकारः सविसर्गो म एव च ॥ ३-१६७ ॥

नश्च पेच तथा भश्च प्रश्चगच्छ च एव च ।
सविसर्गोमकारस्तु नये ताश्च प एव च ॥ ३-१६८ ॥

न कारश्चैव शाद्रौ च क्षंकारः क्षविसर्गयुक् ।
त्वैंश्चक्षूंश्च तथा क्षंश्च त्वां क्षां हां हाश्च
एव च ॥ ३-१६९ ॥

त्रयोदशावरणे प्रोक्ता विंशदष्टोत्तरं शतम् ।
यश्चमोश्च तथा रुश्च वश्चकायौ च एव च ॥ ३-१७० ॥

प्. २१) राचयाक्त्या च शश्चैव दिश्चमाकार एव च ।
लयेक्ता च तथा मूच तश्च जाद्यो स एव च ॥ ३-१७१ ॥

चन्द्रश्च नश्चधारा च विश्चसुश्चाष्ठ एव च ।
रिश्चवश्च तथाण्यश्च रेच वश्चरवौ तथा ॥ ३-१७२ ॥

यश्च घे च यकारश्च अकारश्च ततः पुनः ।
रश्चश्चाग्नि तथा लाच काश्चमः सविसर्गयुक् ॥ ३-१७३ ॥

नियवाशिश्च हौकारः प्रणवश्च तथा चणे ।
पिश्च रूच तथा वीच शिदासाश्चैव यस्ततः ॥ ३-१७४ ॥

पाशिदा साश्चणेकारः पिश्चरुय न एव च ।
यानाश्च महिमौ धीये वाश्च शिश्च तथैव च ॥ ३-१७५ ॥

दासः सर्वश्च चौचैव शिश्चवंश्च ह एव च ।
नोयनिश्च तथा नश्च धनिश्चाद्य स्वरस्तथा ॥ ३-१७६ ॥

मंपधा च तकारश्च तीरश्च स्वराभ्यतः ।
नश्चमश्च सनौसश्च शान्तेशायाश्च दीपकः ॥ ३-१७७ ॥

स विसर्गोवकारस्तु शिकारं विन्यसेत् ततः ।
स विसर्गोमकारस्तु नयेनांश्च पणांस्ततः ॥ ३-१७८ ॥

द्राचरुश्च विसर्गेण मकारोनश्चनेत्मकाः ।
मृश्च अश्च विसर्गेण मकारोनश्चने तथा ॥ ३-१७९ ॥

मवौ चैव सकारश्च स विसर्गो म एव च ।
नश्च नश्च तथा ने च तथात्मश्च तथा पुनः ॥ ३-१८० ॥

स विसर्गोमकारश्च नकारश्चैव ए ततः ।
चतुर्दशावरणे प्रोक्तं षट्त्रिंशश्च शतक्षरम् ॥ ३-१८१ ॥

एवं अक्षरविन्यासं कृत्वोद्धरणमारभेत् ।
सौधमूर्तिं प्रवक्ष्यामि पञ्चवक्त्रसमन्वितम् ॥ ३-१८२ ॥

पञ्चादशाक्षसंयुक्तं भूजैश्च दशशोभितम् ।
वरदाभय हस्तं स्याद् अष्टायुधसमन्वितम् ॥ ३-१८३ ॥

दुकूलपट्टवसनं सर्वाभरणभूषितम् ।
पद्मासनसमारूढं प्रासाअदमिति चोच्यते ॥ ३-१८४ ॥

एकवक्त्रं त्रिणेत्रं स्यात् चतुर्भुजं सुरूपकम् ।
दिव्यांबरधरं देवं दिव्याभरणभूषितम् ॥ ३-१८५ ॥

प्. २२) एवं ब्रह्मसमाख्यातं रुद्रलक्षणमुच्यते ।
चतुर्वक्त्रं चर्बाहु द्वादशाक्षिसमन्वितम् ॥ ३-१८६ ॥

वरदाभयहस्तं स्यात् छुलश्चांकुशमेव च ।
सर्वाभरणसंयुक्तं शुक्लयज्ञोपवीतकम् ॥ ३-१८७ ॥

क्षौमवस्त्रधरं रक्तं ध्यायेद् रूपं विशेषतः ।
संक्रान्ते विषुवे चैव अयने जन्म-ऋक्षके ॥ ३-१८८ ॥

दीक्षायास्थापनान्ते च दुर्भिक्षे दुर्निमित्तके ।
भूमिकं पेदिशां दाहे ज्वरमार्यादि पीडने ॥ ३-१८९ ॥

गोक्षीरं गन्धतोयं वा घृतं वा मधुवा पुनः ।
नालिकेरजलं वापि रुद्रेण स्नापयेच्छिवम् ॥ ३-१९० ॥

सप्तजन्म कृतं पापं यजमानस्य नश्यति ।
सर्वेषामेव देवानां मन्त्रमेवं द्विधामतम् ॥ ३-१९१ ॥

स्वनाम्नि चादिवर्णे तु ऋचामन्यत् स वह्निकम् ।
बिन्दुनादसमायुक्तं सर्वेषां मूलमन्त्रकम् ॥ ३-१९२ ॥

दीर्घाणि ह्यंगमेवं स्यात् षडंगाश्चैव कीर्तिताः ।
अस्त्रं विसर्गसंयुक्तं ह्रस्वा वै ब्रह्मपञ्चकम् ॥ ३-१९३ ॥

यथा वर्णस्तथा रूपं अस्मिन् मन्त्रे प्रचोदितम् ।
तेषां मन्त्रं तु सर्वेषां शिवस्य परमात्मनः ॥ ३-१९४ ॥

सर्वकार्ये प्रयोक्तव्यं सर्वसिद्धिप्रदायकम् ।
मन्त्रोद्धारमिदं प्रोक्तं शौचाचमनकं शृणु ॥ ३-१९५ ॥

इति मन्त्रोद्धारस्तृतीय पटलः ॥ ३ ॥


प्. २३) अथ शौचाचमन पटलः

अथातः संप्रवक्ष्यामि सौचाचमनलक्षणम् ।
साधकानां हितार्थन्तु चतुराश्रमधर्मिणाम् ॥ ४-१ ॥

ब्राह्मे मुहूर्ते विद्वान् वै मनसाचिन्तयेच्छिवम् ।
त्रिपादो न त्रिघटिका राजन्ते तु दिने दिने ॥ ४-२ ॥

ब्राह्म्यं मुहूर्त्तमाख्यातं मम संख्यासु कथ्यते ।
उत्थाय च बहिर्ग्रामात् गत्वाशौचं समाचरेत् ॥ ४-३ ॥

रविं दक्षिणतः कृत्वा विण्मूत्रन्तु विसर्जयेत् ।
दक्षिणाभिमुखोरात्रौ तृणमाधायभूतले ॥ ४-४ ॥

करे वा कर्णमूले वा उपवीतं न्यसेत् बुधः ।
वेष्टयित्वा शिरस्तत्र ऋजुका यो न पाचयन् ॥ ४-५ ॥

प्रत्यादित्य जलाग्निनां चन्द्रगोब्राह्मणान् प्रति ।
देवालयसमीपे तु कूपे गोष्ठेन भस्मनि ॥ ४-६ ॥

क्षेत्रे च वृक्षच्छायायां नद्यामन्तः सरस्वपि ।
चैत्य वृक्षसमीपे तु वेलायां वाम होदधेः ॥ ४-७ ॥

चत्वरे ग्रहमध्ये च न कुर्यादुभयं नरः ।
वामेन शिश्नं संग्राह्य मृत्पिण्डं दक्षिणे करे ॥ ४-८ ॥

जलेशुद्धे समागम्य पश्चात् छौचं समाचरेत् ।
सकृन्मृत्तिकया शिश्नमक्षमात्रप्रमाणतः ॥ ४-९ ॥

तथा सर्वत्र संयोज्य पश्चात् पादे तु मृत्तिकाम् ।
दश कृत्वा करं वामं सप्तकुर्यात् करद्वयम् ॥ ४-१० ॥

शोधयेदंभसा नित्यं ग्रहस्थानां विधीयते ।
एतद् उक्तं ग्रहस्थानां द्विगुणंब्रह्मचारिणाम् ॥ ४-११ ॥

त्रिगुणं वा न प्रस्थानां यतीनान्तु चतुर्गुणम् ।
यावन्मात्रामनः शुद्धिस्तावत् शौचं समाचरेत् ॥ ४-१२ ॥

उत्थायतीरोत् तस्माद् वै अन्यत्रा चमनञ्चरेत् ।
प्रक्षाल्य पाणिपादौ च दक्षिणादि क्रमेण तु ॥ ४-१३ ॥

स पवित्रकरेणैव सर्वकर्मसमाचरेत् ।
स्थले तु दक्षिणं पादं वामपादं जलेस्थितम् ॥ ४-१४ ॥

प्. २४) नाभो न दिक्षुसंवीक्ष्य हस्ते गोकर्णवत् कृते ।
माषमग्नन्तु यद्वारि निःशब्दन्तत्र पीयते ॥ ४-१५ ॥

यथा वै त्रितयं पीत्वा आस्येंगुष्ठेन निस्पृशेत् ।
मुखं हस्तेन संस्पृश्य पद्भ्यामभ्युक्षणं भवेत् ॥ ४-
१६ ॥

अङ्गुष्ठानामिकाभ्यान्तु चक्षुषी संस्पृशेत् बुधः ।
अङ्गुष्ठ तर्जनीभ्यान्तु नासिकां संस्पृशेत् पुनः ॥ ४-१७ ॥

अङ्गुष्ठ कनिष्ठाभ्यां तु श्रोत्रे चैव तु संस्पृशेत् ।
यदा तत् त्रितयं पीत मृग्यजुः सामतृप्तये ॥ ४-१८ ॥

अथर्वस्येति हासार्थं तन्मुखन्तु द्विधा स्पृशेत् ।
पादावुभौ तदाभ्युक्ष्य ऋषीणां सप्ततृप्तये ॥ ४-१९ ॥

मूर्द्धास्ये चक्षुषी श्रोत्रे सर्वाधिक्येन्दु चक्षुषा ।
भुजौ तु नाभि हृदयमिन्द्रमिष्ण्वनलांस्तथा ॥ ४-२० ॥

क्षुधेकफेत्वधासन्ने सद्य आचमनं कुरु ।
अङ्गुष्ठे नास्य संस्पृश्य पश्चादाचमनं बुधः ॥ ४-२१ ॥

एवमाचनं प्रोक्तं तत स्नानविधिं शृणु ॥

इति शौचाचमनश्चतुर्थ पटलः ॥ ४ ॥


अथ स्नान पटलः

अथातः संप्रवक्ष्यामि स्नानं पापहरं परम् ।
पञ्च स्नानानि विप्राणां हीनानां शुद्धये ततः ॥ ५-१ ॥

स्नानं वारुणमाग्नेयं दिव्यं वायव्यमानसौ ।
वरुणं वारिणा स्नानं आग्नें भस्मनाभवेत् ॥ ५-२ ॥

दृष्ट्वा सातपयादिव्यं वायव्यं रजसागवाम् ।
मन्त्रैर्मान समित्युक्तं पञ्चस्नानाः प्रकीर्तिताः ॥ ५-३ ॥

वक्ष्ये वारुणमाग्नेयं शृणु तत्वं गजानन ।
नद्यां वाप्यान्तटाके वा कूपे वापि चतुर्विधम् ॥ ५-४ ॥

प्. २५) कूपस्नानं न कर्तव्यं वाप्यादिषु च संभवे ।
तटाकेष्वपिन स्नानं सरित्सत्यांगजानन ॥ ५-५ ॥

कूपाद् दशगुणं वाप्यां वाप्यादशगुणं सरित् ।
तस्माद् दशगुणं नद्यः समुद्रगामिकाः पराः ॥ ५-६ ॥

प्राङ्मुखोदङ्मुखो वापि स्नानार्थं संव्रजेत् गुरुः ।
ततः शतगुणं पुण्यं स्नानं प्राङ्मुखमुच्यते ॥ ५-७ ॥

तत्रापि दक्षिणन्तीरमनन्तं फलमावहेत् ।
तोयंशुद्धमशुद्धं वा शिवालयसमीपतः ॥ ५-८ ॥

शिवगङ्गेति तां विद्याच्छिवधामांबु सेवनात् ।
तेषान्तीर्थं समागम्य स्नानं कुर्याद् विशेषतः ॥ ५-९ ॥

शुचौ देशेसुखासीनः प्राङ्मुखोवाप्युदङ्मुखः ।
प्लक्षोदुंबरनिम्बैश्च कुर्याद्वैदन्तधावनम् ॥ ५-१० ॥

मलस्नानं पुराकृत्वा विधिस्नानं ततः परम् ।
रजनीकरणविष्ठैस्तु अङ्गप्रत्यंगघर्षणम् ॥ ५-११ ॥

मलस्नानमिदं प्रोक्तं मन्त्रस्नानमतः शृणु ।
मत्स्यमण्डूकसर्पाद्यैरन्यैश्च जलजादिभिः ॥ ५-१२ ॥

सेवितन्तु जलं नित्यं तस्माद्दुष्टं विशेषतः ।
तद्दोषशमनार्थन्तु शिवतीर्थं प्रकल्पयेत् ॥ ५-१३ ॥

हस्तमात्रप्रमाणेन परितश्चतुरश्रकम् ।
हुंफट्कारेणे शुद्धाञ्च मृदं गृह्णीतसाधकः ॥ ५-१४ ॥

सद्येन स्थापयेन्मन्त्री वामदेवेन सेचयेत् ।
अघोरेण तु संप्पृश्य पुरुषेण त्रिभागिकम् ॥ ५-१५ ॥

पूर्वेण दक्षिणे नैव तथा चैवोत्तरेण तु ।
ईशानेन तु मन्त्रेण एकैकमभिमन्त्रयेत् ॥ ५-१६ ॥

अस्त्रंब्रह्मशिवं जप्त्वा पूर्वादिक्रमशो न्यसेत् ।
अस्त्रजप्तन्तु यद्भागं दशदिक्षुविनिक्षिपेत् ॥ ५-१७ ॥

शिवजप्तन्तु यद्भागं तीर्थमद्ध्ये विनिक्षिपेत् ।
फट्कारेणाभिमन्त्रेण नाराचास्त्रप्रयोगतः ॥ ५-१८ ॥

प्. २६) जले सूक्ष्माश्च ये दोषास्तेषामुच्चाटनं भवेत् ।
ब्रह्मजप्तस्य चार्द्धेन आत्मनोङ्गानि कर्षयेत् ॥ ५-१९ ॥

शिरोवक्त्रञ्च हृदयं पादौगुह्यञ्च भागशः ।
शेषार्द्धेनोप संस्पृश्य स्नात्वा भित्वा पुनः पुनः ॥ ५-२० ॥

उपस्पृश्य ततस्नायाच्छिव तीर्थस्यमध्यतः ।
तीर्थानिपञ्च वै सन्ति द्विजानामुभयेकरे ॥ ५-२१ ॥

ब्रह्माग्नि पित्रदेवाश्च ऋषितीर्थानि पञ्चधा (-था) ।
अङ्गुष्ठमूलके ब्राह्मं अग्निमङ्गुलमध्यमे ॥ ५-२२ ॥

तर्जन्यङ्गुष्ठयोर्मध्ये पैत्रकं तीर्थमुच्यते ।
अङ्गुलीनान्तु मूलेतु दैविकं तीर्थमुच्यते ॥ ५-२३ ॥

अङ्गुल्यग्रे ऋषीतीर्थं पञ्चदेवांश्च विन्यसेत् ।
अग्निर्वायुः प्रजाद्ध्यक्षः तीक्ष्णरश्मिः पुरन्दरः ॥ ५-२४ ॥

अङ्गुष्ठादौ न्यसेद् विद्वान् क्रमेणैव व्यवस्थितान् ।
पिबेद् वै ब्रह्मतीर्थेन चाग्नितीर्थेन प्रोक्षणम् ॥ ५-२५ ॥

चक्रवत्युपचारेण सुगन्धामलकादिभिः ।
जलक्रीडावसाने तु वक्त्रमुद्राभिषेचयेत् ॥ ५-२६ ॥

शिवब्रह्माङ्ग विद्याङ्गै स्नानं कृत्वा विचक्षणः ।
पञ्चब्रह्मशिवाङ्गैश्च त्रिपदैरघमर्षणम् ॥ ५-२७ ॥

अन्तर्जले पिधायाक्षं सर्वाङ्गं नैव दर्शयेत् ।
दर्शयेच्च ततः तीर्थं मुखमग्नोध वा पुनः ॥ ५-२८ ॥

मुखमग्नन्तु यत् प्रोक्तं शताद्ध्यर्धं भवेत् क्रमात् ।
अर्धाङ्गेध्यर्ध साहस्रं निम्नगेकोटिरुच्यते ॥ ५-२९ ॥

ध्यानयुक्तो विनिक्रम्य क्रमेणाचम्य तत्वतः ।
ततः सूर्य इति प्रातर्मध्याह्नेत्वाप उच्चरेत् ॥ ५-३० ॥

सायेऽग्निश्चेति जप्त्वा तु क्रमेणाचमनञ्चरेत् ।
आपोहिष्ठेति संप्रोक्ष्य सावित्र्या चोदकंक्षिपेत् ॥ ५-३१ ॥

स्थित्वा सन्ध्यामुपासीत प्रातः शुद्धकृताञ्जलिः ।
स्थितो वासीनमध्याह्ने उपासीनस्तुरात्रिके ॥ ५-३२ ॥

प्. २७) एकवारं यथा शक्यं प्राणायामन्ततो जपेत् ।
अष्टवारन्तु सावित्रीं सन्ध्याकालेषु नित्यशः ॥ ५-३३ ॥

मित्रा सत्येनेमम्मेति सततं स ममंत्रितः ।
एभिर्मन्त्रैस्त्रिभिर्विद्वान् प्रातरादावुपासयेत् ॥ ५-३४ ॥

देवां नृषीन् पितॄंश्चैव वामाघोरेण सद्यकैः ।
तर्पयेत् तु यथा विद्वान् पूर्वे चोत्तरदक्षिणे ॥ ५-३५ ॥

अप्रशस्तं निशि स्नानं रवेरन्यत्रदर्शनात् ।
वृत्त्रस्य रुधिरं नित्यं स्रवन्तिनिशिनिम्नगाम् ॥ ५-३६ ॥

तस्मात् स्नानञ्च पानञ्च न कुर्वीत कदाचन ।
रात्रौ वा परिगृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥ ५-३७ ॥

सुवर्णानि समक्षं वा प्राणायामेन वा जलम् ।
प्राणायामत्रयं वापि कारयेद् देशिकोत्तमः ॥ ५-३८ ॥

जलशुद्धिर्भवे देवं निशि स्नानायगम्यते ।
तस्माद् दीपन्तु गृह्णीयाद् देवार्थञ्चात्मनश्च वै ॥ ५-३९ ॥

एवं समाचरेन्नित्यं शिवमन्त्रं ततो जपेत् ।
ऋग्भिर्जप्तैर्जलं स्पृष्ट्वा मूर्ध्निपादान्तकं क्रमात् ॥ ५-४० ॥

शिवमन्त्रं यथा शक्ति जपेत् ब्रह्माङ्गकैर्बुधः ।
फट्कारेण तु मन्त्रेण शिवतीर्थन्तु संहरेत् ॥ ५-४१ ॥

धौतवस्त्रन्तु संग्राह्य चार्द्रवस्त्रं विसर्जयेत् ।
शिवधामन येत् पश्चात् प्रदक्षिणमथाचरेत् ॥ ५-४२ ॥

प्रणम्यदण्डवत् भूमौ शिवं परमकारणम् ।
यत्र यत्र मुखद्वारे कवाटद्वयमिष्यते ॥ ५-४३ ॥

तत्र तत्र कवाटे तु नवदेवान् समर्चयेत् ।
भूजङ्गञ्च पतङ्गञ्च ऊर्ध्वाधः कल्पयेत् क्रमात् ॥ ५-४४ ॥

तत् स्कन्दपट्टिका मध्ये त्वा संस्थाप्य विशेषतः ।
स्वनामाद्येन चार्णेन गन्धपुष्पादिनार्चयेत् ॥ ५-४५ ॥

प्. २८) अस्त्रमन्त्रेणमतिमान्तं मुद्रान्तु प्रदर्शयेत् ।
कवाटोद्घाटनं कृत्वा प्रविशेन्मण्डपं प्रति ॥ ५-४६ ॥

ततस्तु शोधनीं बद्ध्वा हुंकारेणविशोधयेत् ।
जलस्नानमिदं प्रोक्तं भस्मस्नानमथो शृणु ॥ ५-४७ ॥

इति स्नान पटलः पञ्चमः ॥ ५ ॥


अथ भस्मस्नान पटलः

अथातः संप्रवक्ष्यामि भस्मस्नानविधिं परम् ।
श्रीकरञ्च पवित्रञ्च हारमाभरणं तथा ॥ ६-१ ॥

लोकवश्यकरं पुण्यं पापनाशं दिने दिने ।
गावच्छिवपुरात् पञ्चक्षितिं प्राप्ताः शिवेच्छया ॥ ६-२ ॥

सुरासुरैर्मध्यमानात् क्षीरोदात् सागरोत्तमात् ।
पञ्चगावः समुत्पन्नाः सर्वलोकस्यमातरः ॥ ६-३ ॥

नन्दासुभद्रासुरभिः सुशीलाः सुमनास्तथा ।
कपिलाकृष्णश्वेता च धूम्रारक्ता तथैव च ॥ ६-४ ॥

नन्दादि सुमनान्तानां वर्णमेतत् प्रकीर्तितम् ।
सर्वलोकोपकारार्थं देवानां तर्पणाय च ॥ ६-५ ॥

गोमातर स्थिता भुमौ स्नानार्थं हि शिवस्य तु ।
गोमयं रोचनामूत्रं क्षीरं दधि घृतङ्गवाम् ॥ ६-६ ॥

षडङ्गानि पवित्राणि सर्वसिद्धिकराणि हि ।
गोभिर्यज्ञा प्रवर्तन्ते गोषुदेवां प्रतिष्ठिताः ॥ ६-७ ॥

गोभिर्वेदाः समुद्गीर्णाः सषडङ्गपदक्रमाः ।
शृङ्गमूले गवां नित्यं ब्रह्माविष्णुश्च संस्थितौ ॥ ६-८ ॥

शृङ्गाग्रे सर्वतीर्थानि स्थावराणि चराणि च ।
शिरोमध्ये त्वहं तत्सभूतैः परिवृतः सह ॥ ६-९ ॥

प्. २९) ललाटे संस्थितोवत्स तत्त्वं भ्राता विशेषतः ।
कम्बलाश्वतरौ नागौ नासापुटसमाश्रितौ ॥ ६-१० ॥

कर्णयोरश्विनीदेवौ चक्षुषीशशिभास्करौ ।
दन्तेषु मरुतो देवा जिह्वायां वरुणो स्थितः ॥ ६-११ ॥

सरस्वती तु हुङ्कारे यमयक्षौ च गण्डयोः ।
सन्ध्याद्वयं ततोष्ठाभ्यां ग्रीवे चन्द्रे समाश्रितः ॥ ६-१२


पुरमध्येषु गन्धर्वा पुराग्रेषु च पञ्चगाः ।
पुराणां पश्चिमाग्रेषु गणाह्यः सरस्तथा ॥ ६-१३ ॥

रुद्राश्चैव तु नाडिस्था वायवः सर्वसन्धिषु ।
श्रोणीतटस्थाः पीतरो ह्युरसिस्थ उमारमे ॥ ६-१४ ॥

श्रीरपाने गवान्नित्यं धर्मोलांगूलमाश्रितः ।
आदित्यरश्मयो वालागोमूत्रे जान्हवीस्वयम् ॥ ६-१५ ॥

ऋषयश्च तथा सर्वे रोमाग्रेषु च संस्थिताः ।
उदरे पृथिवी जाताजन्तवश्च गजानन ॥ ६-१६ ॥

चत्वारः सागराः पुर्णागवां ये च पयोधराः ।
आसितं विश्वविघ्नेश यथा गोषु प्रतिष्ठितम् ॥ ६-१७ ॥

दत्तश्चैव हुतं भुक्तं गोषु सर्वञ्चराचरम् ।
कपिलायान्तु गोमूत्रं कृष्णायां ग्राह्य गोमयम् ॥ ६-१८ ॥

क्षीरं श्वेत निभायान्तु धूम्रायाश्च दधिस्मृतम् ।
सर्पिः संग्राह्य रक्तायां सर्ववर्णेषु रोचना ॥ ६-१९ ॥

गोमूत्राद् गुल्गुलुं जातः सुगन्धिः प्रियदर्शनः ।
आहारः सर्वदेवानां शिवस्य च विशेषतः ॥ ६-२० ॥

गोमयादुत्थित श्रीमान् बिल्ववृक्षः शिवप्रियः ।
तत्रास्ते पद्महस्ता श्रीःश्रीवृक्षस्तेन चोच्यते ॥ ६-२१ ॥

बीजान्युत्पल पद्मानां पुनर्जातानि गोमयात् ।
यत् बीजञ्जगतः किञ्चित् ज्ञेयं तत् क्षीरसंभवम् ॥ ६-२२ ॥

दध्नः सर्वाणि जातानि माङ्गल्यान्वर्थ सिद्धये ।
घृताद् अमृतमुद्भूतममराणामति प्रियम् ॥ ६-२३ ॥

तस्मात् तासां षडङ्गैश्च स्नापयेच्छिवमादरात् ।
गोरोचना च माङ्गल्या पवित्रा सर्वकामदा ॥ ६-२४ ॥

प्. ३०) इत्थं गावस्समालोच्य भस्मापिगोमयं गृहेत् ।
भूमा वा प्ततितं ग्रह्यं सद्यमन्त्रेणगोमयम् ॥ ६-२५ ॥

पिण्डानि वाममन्त्रेण ह्यघोरेण तु शोषयेत् ।
पुरुषेण तु तद्दग्ध्वा ईशानेनाभिमन्त्रयेत् ॥ ६-२६ ॥

केतकी पुष्पसंयुक्तं नवभाण्डेषु निक्षीपेत् ।
अथवा चाग्निहोत्रेषु भस्मग्राह्यं विचक्षणैः ॥ ६-२७ ॥

जलस्नानं पुराकृत्वा भस्मस्नानमतः परम् ।
जलस्नानं विनाचोर्द्ध्वे भस्मस्नानं विधीयते ॥ ६-२८ ॥

शिवब्रह्माङ्गजप्तेन भस्मस्नानं समाचरेत् ।
ईशानेन कमुद्धूल्य वक्त्रं तत् पुरुषेण तु ॥ ६-२९ ॥

बहुरूपेण हृदयं नाभिं वामेन कीर्तितम् ।
सर्वाङ्गं सद्यमन्त्रेण समुद्धूल्य विचक्षणः ॥ ६-३० ॥

उषितं वा ससन्त्यद्य शुद्धवस्त्रं परिग्रहेत् ।
पादौ पाणी च संशोद्ध्य पश्चादाचमनं कुरु ॥ ६-३१ ॥

भस्मनोद्धूलनाभावे त्रिपुण्ड्रन्तु विधीयते ।
आध्वरं कर्म तत् सर्वं न त्रिपुण्ड्रं न चाचरेत् ॥ ६-३२ ॥

तर्जन्य नामिका मध्यै स्त्रिपुण्ड्रन्तु समाचरेत् ।
ब्रह्माविष्णुश्च रुद्रश्च त्रिपुण्ड्रस्याधि दैवतम् ॥ ६-३३ ॥

शिरस्थाने स्वयं ब्रह्म ललाटे स्कन्ध (-न्थ) एव च ।
कण्ठे विनायकश्चैव बाहौ च केशवस्तथा ॥ ६-३४ ॥

हृदयेत् वीश्वरः प्रोक्तो नाभौ चैव प्रजापतिः ।
जान्वोस्तु चाश्विनी चैव पादयोः पञ्चगास्तथा ॥ ६-३५ ॥

सर्वतीर्थेषु यत् स्नानं सर्वयज्ञेषु यत् फलम् ।
तत्फलं कोटिगुणितं भस्मस्नानेन सिद्ध्यति ॥ ६-३६ ॥

भस्मस्नानमिदं प्रोक्तं अर्चनाङ्गमतः शृणु ।

इति भस्मस्नान पटलः षष्ठः ॥ ६ ॥


प्. ३१) अथ अर्चनाङ्ग पटलः

अथातः संप्रवक्ष्यामि अर्चनाङ्गसमुच्चयम् ।
पाद्यमाचमनञ्चार्घ्यं गन्धपुष्पञ्चधूपकम् ॥ ७-१ ॥

दीपञ्चैव निवेद्यञ्च लिङ्गनृत्तं दशैव तु ।
दशाङ्गैस्तु समायुक्ता पूजाश्रेष्ठा शिवस्य तु ॥ ७-२ ॥

दीपान्तमर्चनं प्रोक्तं नैवेद्यान्तन्तु पूजनम् ।
शान्तिकं बलिनृत्तान्तं पूजात्रिविधमुच्यते ॥ ७-३ ॥

उशिरञ्चन्दनं दूर्वा सिद्धार्थकसमन्वितम् ।
चतुरङ्गसमायुक्तं पाद्य द्रव्यमुदाहृदम् ॥ ७-४ ॥

एलालवङ्गकर्पूरत्र पूजाति फलैर्युतम् ।
आचमनन्तु पञ्चाङ्गं द्रव्यैरेतैः प्रसिद्ध्यति ॥ ७-५ ॥

आपः क्षीरकुशाग्राणि यवसिद्धार्थतण्डुलैः ।
तिलैर्वीही समायुक्तमर्घ्यमष्टाङ्गमुच्यते ॥ ७-६ ॥

यवतण्डुलसिद्धार्थर्व्रीहिभिश्चाक्षतं विदुः ।
व्रीहितण्डुलसंयुक्तमक्षतन्तु प्रकीर्तितम् ॥ ७-७ ॥

अगरुञ्चन्दनञ्चैव कोष्ठं कुंकुममेव च ।
सममर्धं पादमेवा कर्पूरेणसमायुतम् ॥ ७-८ ॥

गन्धद्रव्यमिदं प्रोक्तं पुष्पान् सम्यगतः शृणु ।
श्वेत कृष्णं तथा रक्तं सात्विकादिगुणत्रयम् ॥ ७-९ ॥

पुष्पाणि पीतवर्णानि सत्वराजसमिश्रितान् ।
कृष्णां निलोत्पलादन्यान्तामसान् परिवर्जयेत् ॥ ७-१० ॥

नन्द्यावर्तन्तु पूर्वाह्णे मधाह्णे करवीरकम् ।
साये तु मल्लिका प्रोक्ता ह्यर्धरात्रौ द्विकर्णिका ॥ ७-११ ॥

द्रोणञ्च श्वेतपद्मञ्च जाती च बहुकर्णिका ।
नन्द्यावर्तं श्रियावर्तं मन्दारं शतपत्रिकम् ॥ ७-१२ ॥

श्वेतार्कमालती चैव पुन्नागं कुरवन्तथा ।
एवमादीनि पुष्पाणि सात्विकानि समादिशेत् ॥ ७-१३ ॥

रक्तोत्पलं तथा पद्मं ब्रहतीधुर्धूरकं तथा ।
पाटलीरक्तपुष्पाणि राजसानि विनिर्दिशेत् ॥ ७-१४ ॥

प्. ३२) कर्णिकारञ्च धुर्तूरसरलारग्वधौ तथा ।
एवमादीनि पीतानिमिश्रकाणि विनिर्देशेत् ॥ ७-१५ ॥

करञ्जवकुलञ्चैव शिरीषं केतकी तथा ।
लाङ्गली च विहीतञ्च बन्धूकञ्चैव डाडिमी ॥ ७-१६ ॥

किंशुकञ्च मदन्ती च कुमुदानि च वर्जयेत् ।
अतिपक्वमपक्वञ्च मुकुलैर्नार्चयेद् धरम् ॥ ७-१७ ॥

केशकीटापविद्धानि लूतसूत्राव्रतानि च ।
स्वयं पतितपुष्पाणि पर्युषितानि वर्जयेत् ॥ ७-१८ ॥

शमिबिल्वमपामार्गं कुशदूर्वा सहा तथा ।
नागनन्दी रुद्रपर्णीधातकी पत्रमेव च ॥ ७-१९ ॥

भद्री चैव महाभद्री द्रोणपत्रं तथैव च ।
उग्रगन्धैस्तु निर्गन्धैन्नार्चयेत् तु विशेषतः ॥ ७-२० ॥

पत्र जातिषु सर्वेषु बिल्वपत्रं प्रशस्यते ।
तथैव पुष्पजातीनां पद्मपुष्पमुदाहृतम् ॥ ७-२१ ॥

उत्सवादिषु यात्रायां परिवेष क्रियासु च ।
सकलानामलङ्कारे वर्ज्या ग्राह्याप्रकीर्तिताः ॥ ७-२२ ॥

एवं पुष्पाणि चोक्तानि धूपन्तु संप्रवक्ष्यते ।
कृष्णागरुर्भवेदेव कार्यः सद्विगुणं भवेत् ॥ ७-२३ ॥

त्रिगुणञ्चन्दनं प्रोक्तमीषत् कर्पूरमिश्रितम् ।
शीतारिनामधूपोयं मधुनां पावितं भवेत् ॥ ७-२४ ॥

एवं धूपं परं श्रेष्ठं उत्तमन्तद्विशिष्यते ।
गुल्गुलुं वा घृतं वापि गुलं वा बिल्वधूपकम् ॥ ७-२५ ॥

कुष्ठं वा चन्दनं वापि घृतमश्रं सुधूपयेत् ।
गोघृतं वाथतैलं वा कर्पूरं वर्तिसंयुतम् ॥ ७-२६ ॥

चतुस्त्रयंगुलायाम दीपज्वालाविशिष्यते ।
दीप प्रियो हि भगवान् देवदेवः सदाशिवः ॥ ७-२७ ॥

अर्चनाङ्गविधि प्रोक्ता त्वर्चनायाविधिं शृणु ।

इति अर्चनाङ्गः सप्तमः पटलः ॥ ७ ॥


प्. ३३) अथ शिवार्चनविधि पटलः

अथातः संप्रवक्ष्यामि शिवार्चनविधिक्रमम् ।
सर्वपापहरं दिव्यं सर्वलोकसुखावहम् ॥ ८-१ ॥

श्रीप्रदं सर्वविघ्नघ्नं राज्ञो राष्ट्रविवर्धनम् ।
तदपि द्विविधं प्रोक्तमात्मार्थञ्च परार्थकम् ॥ ८-२ ॥

क्षणिके चललिङ्गे च स्थण्डिले मण्डलेऽपि च ।
कौतुके भक्तिचित्रे वा आत्मार्थेऽर्चनमारभेत् ॥ ८-३ ॥

ग्रामे दृष्ट्वाधवान्येषु शिवधामनिनिर्मिते ।
तेषु स्थावरलिङ्गेषु परार्थं यजनं स्मृतम् ॥ ८-४ ॥

सिकतं तण्डुलञ्चान्नं नदीमृद्गोमयं तथा ।
नवनीतञ्च रुद्राक्षं पिष्टं चन्दनकूर्चकम् ॥ ८-५ ॥

पुष्पमालांगुलञ्चेष्टं क्षणिका द्वादश स्मृताः ।
पूजान्ते क्षणिका त्याज्याः तत्त्वं हृदि समानयेत् ॥ ८-६ ॥

स्फटिकं रत्नजं शैलं बाणलिङ्गञ्च लोहजम् ।
चललिङ्गं समाख्यातं स्थण्डिलं शालितण्डुलैः ॥ ८-७ ॥

सिकतैर्वा समाख्यातं मण्डलं करमानतः ।
गोमयालेपिते तत्र संलिख्ख्याब्जदलाष्टयुक् ॥ ८-८ ॥

मण्डलं त्विति विख्यातं द्वादशप्रतिमार्चनम् ।
कौतुकं त्विति ख्यातं भित्तिचित्रं तथैव च ॥ ८-९ ॥

आत्मार्थ यजनेख्याता यथा युक्त्यासमर्चयेत् ।
दीपान्तं वाहविष्यन्तमात्मर्थे तु परार्थके ॥ ८-१० ॥

सामान्यमिदमाख्यातं परार्थस्तु विशेषतः ।
नित्योत्सवन्तु नित्याग्नियजनं पादुकार्चनम् ॥ ८-११ ॥

नीराजनं रजन्याञ्च गीतं नृत्तञ्च वाद्यकम् ।
तेषु कुर्याद् यथा शक्यं लिङ्गेस्थावर संज्ञके ॥ ८-१२ ॥

उक्तेषु तेषु सर्वेषु विना नित्योत्सवं ततः ।
पादुकाभ्यर्चनं त्यक्त्वा शेषाण्यात्मार्थमाचरेत् ॥ ८-१३ ॥

दीक्षितानां द्विजातीनामात्मार्थमनुलोमिनाम् ।
परार्थमादिशैवानामात्मार्थं वा समर्चयेत् ॥ ८-१४ ॥

(प्. ३४, ३५) मिस्सिन्ग्

प्. ३६) वह्निमण्डलमध्यस्थ ज्वालाभिर्वह्निबीजतः ।
पादाङ्गुष्ठाच्छिखायावन् निर्दहेच्छुष्ककाष्ठवत् ॥ ८-१५ ॥

विचिन्त्य भस्मीभूतं तु पिण्डीकृत्वा निलेन तु ।
तस्मिन् प्रागुक्तममृतं स्रवन्तं भस्मनि स्मरेत् ॥ ८-१६ ॥

आत्मानमानयेत् तत्र सर्वात्महृदयेन तु ।
दिव्यदेहो भवे देवमङ्गन्यासं अथ शृणु ॥ ८-१७ ॥

मूर्धादिसृष्टिरेवं स्यात् पादादिः संहृतिर्भवेत् ।
नासादि हृदयान्तन्तु स्थिति न्यासं प्रकीर्तितम् ॥ ८-१८ ॥

पञ्चमेन शिरः पञ्चपञ्चभिः कल्पयेत् ततः ।
चत्वारिवदनां यत्र वक्त्रमन्त्रेण भावयेत् ॥ ८-१९ ॥

पञ्चमं वदनं तत्र सर्वात्म हृदयेन तु ।
अन्यथा (-धा) कल्पयेत् घोरं हृत्ग्रीवांसेष्वधोरसि ॥ ८-२० ॥

तन्नाभ्युदरपृष्ठेषु न्यसेद् वा मन्त्रयेद् दश ।
गुह्यं पायुस्तथा चोरु जानुनी जंघकाद्वयम् ॥ ८-२१ ॥

स्फिचौ द्वौ तु कटिः पार्श्वौ न्यसेत् सद्यं ततोऽष्टधा ।
पाणिपादौ तथा नासाशिरोबाह्ये न्यसेत् बुधः ॥ ८-२२ ॥

दक्षिणे कटिपार्श्वे तु क्षुरिकास्त्रं प्रकल्पयेत् ।
मूर्धानने च हृदये गुह्यो वै पादयोः क्रमात् ॥ ८-२३ ॥

ब्रह्माणि सृष्टिमार्गेण ईशानादीनि विन्यसेत् ।
पादादारभ्य सद्यादि संहरं न्यासकर्मणि ॥ ८-२४ ॥

नाभ्यादि हृदयान्तन्तु स्थितिन्न्यासं प्रकीर्तितम् ।
सर्वात्मानन्तु हृदये सशिवं शिरसि न्यसेत् ॥ ८-२५ ॥

शिखायां ज्वालिनीं न्यस्त्वा वर्मणादेहमध्यतः ।
अस्त्रं हस्तप्रदेशेषु पञ्चाङ्गान्योमाचरेत् ॥ ८-२६ ॥

विद्याङ्गं पूर्ववन्न्यस्त्वा नेत्रं नेत्रेषु योजयेत् ।
द्वात्रिंशत् सन्धिदेशेषु बीजमुख्यन्तु विन्न्यसेत् ॥ ८-२७ ॥

हृत्पद्मे तु न्यसे देवमष्ट त्रिंशत् कलान्वितम् ।
अङ्गुष्ठमात्रमचलं ध्यायेत् प्रणवमीश्वरम् ॥ ८-२८ ॥

मानसैः कुसुमैर्गन्धैर्धूपदीपोपचारकैः (-र्गन्थैर्-)।
पूजयेद् धृदये नैव आत्मशुद्धिस्तु कीर्तिताः ॥ ८-२९ ॥

प्. ३७) द्वारदेवान् समभ्यर्च्य गन्धपुष्पादिभिः क्रमात् ।
वाग्देवीं द्वारशाखोर्ध्वे सव्ये वामे श्रियं यजेत् ॥ ८-३० ॥

विघ्नेशं मध्यमे पूज्यनन्दिवर्गांश्च दक्षिणे ।
यमुनाञ्च महाकालं वामे भ्यर्च्यस्वनामभिः ॥ ८-३१ ॥

स्थानं संमृज्यसंप्रोक्ष्य दिग्बन्धञ्चास्त्रमन्त्रतः ।
भौमदिव्यन्तरिक्षस्थान् विघ्नान् प्रोत्सारयेद्धृदा ॥ ८-३२ ॥

भूमीष्ठान् प्राणदृष्ट्या तु तत्वदृष्ट्यान्तरिक्षगान् ।
ज्ञानदृष्ट्या तु दिक् स्थांस्तां स्तन्नामाख्यायमुद्रया ॥
८-३३ ॥

ब्रह्मस्थाने तु ब्रह्माणं पुष्पगन्धादिभिर्हृदा ।
स्थानशुद्धिर्भवे देवं द्रव्यशुचिन्ततः शृणु ॥ ८-३४ ॥

गोमयेनोपलिप्याथ द्रव्यपात्राणि विन्यसेत् ।
अर्घ्यपात्रं शरावञ्च पाद्याचमनपात्रकौ ॥ ८-३५ ॥

वर्धनीजलभाण्डञ्च अस्त्रमन्त्रेण क्षालयेत् ।
हृदयेन निरीक्ष्याथ कवचेनावकुण्ठयेत् ॥ ८-३६ ॥

अर्घ्यपात्रं समादाय सन्दाह्यभ्यन्तरं हृदा ।
संस्पृश्य तस्मिं श्वेताब्जं ध्यात्वा वै मण्डलत्रयम् ॥ ८-
३७ ॥

तेषु तत्वत्रयं स्मृत्वा आत्मविद्या शिवात्मकम् ।
शिवांबुना शिवे नैव अपूर्वब्रह्मपञ्चकैः ॥ ८-३८ ॥

कलावर्णात्मकैः पिण्डैरभिमन्त्र्य यथा क्रमम् ।
सुगन्धिकुसुमान् गन्धान् प्रक्षिप्याबुनिमन्त्रवित् ॥ ८-३९ ॥

तत्तोयं सर्वपात्रेषु द्रव्यपात्रेषु सर्वतः ।
विन्दौ बिन्दुं विनिक्षिप्य कुशेनैव हृदाणुना ॥ ८-४० ॥

द्रव्यशुद्धिर्भवेदेषां मन्त्रशुद्धिरतः परम् ।
ओंकारादि युतामन्त्रा नमस्कारान्तयोजिताः ॥ ८-४१ ॥

पूर्वं शिवं समुच्चार्य ततो ब्रह्माङ्गकाद्युभौ ।
विद्याङ्गं बीजमुख्यञ्च क्षुरिकाञ्च समुच्चरन् ॥ ८-४२ ॥

तत् तद्रूपान्वितान्ध्यात्वा पूर्ववन्मन्त्रशुद्धये ।
क्रियाकाले प्रयोक्तव्या स्वाहान्तं हवने स्मृताः ॥ ८-४३ ॥

मालाद्यैश्वर्यजातानि मन्त्राणि ह्यानितानि च ।
मन्त्रशुद्धिरियं प्रोक्ता लिङ्गशुद्धिरतः परम् ॥ ८-४४ ॥

प्. ३८) हुंफट्कारेण मन्त्रेण महाघण्टां प्रदापयेत् ।
प्रच्छादनपटन्त्यक्त्वा लिङ्गशुद्धिं समारभेत् ॥ ८-४५ ॥

निर्माल्योद्वासनारंभे स्नानारंभे तदन्तके ।
धूपकाले हविष्यादौ हविष्यन्ते तथैव च ॥ ८-४६ ॥

नित्योत्सवान्ते नृत्तान्ते महाघण्टां प्रदापयेत् ।
निर्माल्योद्वासने काले स्नानान्ते तु विशेषतः ॥ ८-४७ ॥

हविष्यादौ च नृत्तान्ते कुर्याद्यवनिवान्ततः ।
स्नानारंभे तथा धूपे हविष्यान्ते तथैव च ॥ ८-४८ ॥

नित्योत्सवादिकाले च पटं प्रच्छादनन्त्यजेत् ।
शिवे समर्चितं पूर्वं हृदयार्घ्यं विसर्जयेत् ॥ ८-४९ ॥

अङ्गुष्ठतर्जनीभ्यान्तु पुष्पं ग्राह्यविचक्षणः ।
कनिष्ठानामिकामध्ये त्यजेत् पर्यूषितङ्गुरुः ॥ ८-५० ॥

विसर्जने च काले तु पुष्पं मूर्ध्निदापयेत् ।
न पुष्परहितं तुर्याच्छिवमौलिं गुरूत्तम ॥ ८-५१ ॥

पिण्डिकेशस्थ निर्माल्यञ्चण्डेशाय निवेदयेत् ।
लिङ्गशुद्धिः सपिण्डान्ता क्रमेणैव समापयेत् ॥ ८-५२ ॥

लिङ्गं प्रक्षाल्य चास्त्रेण पीठं पाशुपतेन तु ।
त्यजेदुषितगन्धादि जलैर्दक्षिणहस्ततः ॥ ८-५३ ॥

सङ्ख्याय शुद्धयः पञ्च ततस्त्वासनकल्पनम् ।
आसने मूर्तिमावाह्य त्वेतद्वितयमध्वनि ॥ ८-५४ ॥

व्याप्यव्यापकभावेन ज्ञात्वायजनमारभेत् ।
इच्छाशक्त्युत्थितं पद्मं पृथिव्यादिशिवान्तकम् ॥ ८-५५ ॥

पार्थिवाण्डमयं स्कन्दमाप्यान्तं नालमेव च ।
प्रधान तत्व पर्यन्तं तन्नालं कण्टकैर्युतम् ॥ ८-५६ ॥

अकारादिक्षकारान्तं शंबरं कण्टकं स्मृतम् ।
श्यामाभन्नालमित्युक्तं नालसूत्रं त्विदं स्मृतम् ॥ ८-५७ ॥

पुंस्तत्वादि कलान्तञ्च पीठन्दलाष्टकान्वितम् ।
धर्मं ज्ञानञ्च वैराग्यमैश्वर्यं पादमेव हि ॥ ८-५८ ॥

प्. ३९) आग्नेयादिक्रमेणैव सिंहरूपोग्रदंष्ट्रकाः ।
सितरक्तपीतकृष्णा स्त्रिणेत्रा वज्रपीठकाः ॥ ८-५९ ॥

अन्योन्याभिमुखाः सर्वे सिंहकोटिसमायुताः ।
न्यस्तव्या भार्द्रमन्त्रेण भीमाभीम पराक्रमाः ॥ ८-६० ॥

अधर्मज्ञानवैराग्या नैश्वर्यान्वै क्रमेण तु ।
प्रागाद्युत्तरपर्यन्तान्नियतांश्च सितप्रभान् ॥ ८-६१ ॥

न्यस्त्वागुणत्रये नैव ऊर्ध्वच्छदमथच्छदम् ।
पीठस्योर्ध्वे महामाया ग्रन्थिस्तत्वङ्गजानन ॥ ८-६२ ॥

विद्यातत्वमयिन्तस्य कर्णिकां परिचिन्तयेत् ।
इच्छाशक्त्यादिबीजानि विद्येशांश्च दलानि वै ॥ ८-६३ ॥

मन्त्रास्तत् केसरेप्रोक्तास्ते विद्यायां प्रतिष्ठिताः ।
केसरे बीजमुख्येन शक्तिन्तत्र प्रकल्पयेत् ॥ ८-६४ ॥

सितरक्तासितांश्चैव मूलमध्याग्रकान् क्रमात् ।
दलंश्वेतं विजानीयात् कर्णिकाकनकप्रभा ॥ ८-६५ ॥

पञ्चविंशतिकानीह बीजानिहरितानि वै ।
तप्तचामीकरप्रख्यं शक्तिव्यूहं न्यसेत् ततः ॥ ८-६६ ॥

केसरेषु च मध्ये तु वामादीन् पूर्वतः क्रमात् ।
वामाज्येष्ठा च रौद्री च कालीकलविकरणी तथा ॥ ८-६७ ॥

बलविकरणी बलप्रमधनी सर्वभूतदमनात्मिका ।
मध्येमनोन्मनीं देवीं कर्णिकायां निवेशयेत् ॥ ८-६८ ॥

सूर्याख्यमण्डलं पात्रे केसरे सोममण्डलम् ।
कर्णिकोपरिचाग्नेयं मण्डलस्थां मनोन्मनीम् ॥ ८-६९ ॥

इच्छाशक्त्यादिनालान्त (इश्चा-) मनन्तासनमीरितम् ।
गुणान्तं धर्मज्ञानादि सिंहाख्यमासनं विदुः ॥ ८-७० ॥

योगासनन्तु तत् ख्यातं परमेशस्य सुव्रत ।
पद्मग्रन्धिं समारभ्य केसरान्ताब्जमासनम् ॥ ८-७१ ॥

शक्त्यन्तं केसरादूर्ध्वं कर्णिका विमलासनम् ।
एव मब्जासनं कल्प्यपूजयेत् स्वस्वनामभिः ॥ ८-७२ ॥

मुकुलीं प्रथमं बध्वा पद्ममुद्रामतः परम् ।
शशकर्णिं शिवं विप्रः कर्णिकान्तं निदर्शयेत् ॥ ८-७३ ॥

प्. ४०) आसनोपरिमूर्तिन्तु सदाशिवमनुत्तमम् ।
पञ्चवक्त्रशिरोपेतं पञ्चाधिकदशेक्षणम् ॥ ८-७४ ॥

दशदोर्दण्डसंयुक्तं अष्टायुधसमज्वलम् ।
अभयं शूलपरशुं वज्रं खट्गञ्च दक्षिणे ॥ ८-७५ ॥

वरदञ्चाङ्कुशं पाशं घण्टां वह्निञ्च वामतः ।
अच्छ स्फटिकसंकाशमष्टत्रिंशत् कलात्मकः ॥ ८-७६ ॥

पञ्चब्रह्माङ्ग विद्याङ्ग दशबीजात्मकं परम् ।
दिव्यांबरधरञ्चार्थ वज्राङ्कितजटाधरम् ॥ ८-७७ ॥

बद्धपद्मासनासीनं कंबुग्रीवं सुयौवनम् ।
इच्छाज्ञानक्रियाचेति नेत्रत्रयसमन्वितम् ॥ ८-७८ ॥

शुक्लयज्ञोपवीतञ्च देवं ज्ञात्वा परापरम् ।
सर्वाभरणसंयुक्तं ध्यात्वा ह्यावाहयेत् ततः ॥ ८-७९ ॥

लिङ्गंमूलपरीणाहे कल्पयेत् तु मनोन्मनीम् ।
तदे?स्या परिस्थिते लिङ्गे चलेचैव सदाशिवम् ॥ ८-८० ॥

एवं सङ्कल्प्यमूर्तिन्तु ततोवाह्यमनुं स्मरन् ।
पुष्पैरञ्जलिमापूर्य तदा वाहनमुद्रया ॥ ८-८१ ॥

प्रविष्टे हृदयाग्रे तु शिवरूपं विचिन्तयेत् ।
प्रणवं मनसोच्चार्य सर्वज्ञादिर्गुणैर्युतम् ॥ ८-८२ ॥

सर्वोपाधिविनिर्मुक्तं कारणानान्तु कारणम् ।
अतर्क्यमप्रमेयञ्च धृतमव्ययमीश्वरम् ॥ ८-८३ ॥

बिन्दावभ्युदितं ध्यायेत् स्थिरधीः पुरतः स्थिरे ।
सदाशिवात्ममध्यस्थं विन्यसेद् देशिकोत्तमः ॥ ८-८४ ॥

आवाहनादिभिर्भक्त्या परमेशं सुपूजयेत् ।
आवाह्य सद्यमन्त्रेण स्थापयेत् गुह्यमन्त्रतः ॥ ८-८५ ॥

बहुरूपेण सान्निध्यं पुरुषेणनिरोधनम् ।
सर्वावयवसंपूर्णमिशानेन तु भावयेत् ॥ ८-८६ ॥

आवाहनाख्यया वाह्य स्थापयेच्छान्तमुद्रया ।
ध्वजाख्यया तु सान्निध्यं रोधनं निष्ठुराख्यया ॥ ८-८७ ॥

पाद्यं हृदाणुनादत्वा वक्त्रेणाचमनं ततः ।
अर्घ्यन्तु शिरसादत्वा पञ्चमूर्धसु बुद्धिमान् ॥ ८-८८ ॥

प्. ४१) करन्यासं विना तत्र दहनप्लावनं विना ।
सर्वमात्मविशुध्यर्थमाचरेत् तु गजानन ॥ ८-८९ ॥

आवाहने तु पूजान्ते विसर्जनविधौ तथा ।
अर्घ्यं दद्यात् तु मन्त्रज्ञस्त्रिषु कालेषु बुद्धिमान् ॥ ८-९० ॥

अर्घ्ये विलेपने स्नानेत्रिषुगन्धं प्रेयोजयेत् ।
आवाहनार्घ्य पाद्येषु स्नाने धूपे विलेपने ॥ ८-९१ ॥

नैवेद्ये च विसर्गे च पुष्पमष्टसुयोजयेत् ।
आवाहनंविना सप्तकाले वारिसुयोजयेत् ॥ ८-९२ ॥

गन्धं पुष्पेण संयोज्य पुष्पं गन्धेनयोजयेत् ।
धूपं दीपेनसंयोज्य दीपन्दीपेन योजयेत् ॥ ८-९३ ॥

तिलोद्भवेनतैलेन हस्तयन्त्रोद्भवेन वा ।
गोघृते नैव वा लिङ्गमभ्यज्य हृदयाणुना ॥ ८-९४ ॥

मर्दयेच्छालिपिष्टेन हरिद्रा चूर्णकेन वा ।
शिवेन पिण्डमन्त्रैश्च कलाभिर्मानमन्त्रकैः ॥ ८-९५ ॥

सहस्राक्षरमन्त्रेण व्योमव्यापिदशाक्षरैः ।
पञ्चाङ्गैश्चैव विद्याङ्गैः क्षूरिकाबीजमुख्यकैः ॥ ८-९६ ॥

सुगन्धिकुसुमोपेतं जलौघैरभिषेचयेत् ।
सद्योजातेन गोमूत्रं गोमयङ्गुह्यकेन तु ॥ ८-९७ ॥

क्षीरन्तु बहुरूपेण दधितत् पुरुषेण तु ।
ईशानेन घृतं स्नाप्य पञ्चगव्यमथैकतः ॥ ८-९८ ॥

समादायोक्तसंख्याभिः स्नापयेत् तु दशाक्षरैः ।
मधुने क्षुरसे नैव नालीकेरजलेन च ॥ ८-९९ ॥

अच्छगोरोचनामिश्र जलैः संस्नापयेद्धृदा ।
द्रव्येषूक्तेष्वथा लाभे यथालाभं परिग्रहेत् ॥ ८-१०० ॥

घृष्ट्वा हरिद्राचूर्णैश्च स्नापयेद् गन्धवारिणा ।
वस्त्रमाचमनीयञ्च अर्घ्यन्तु हृदयाणुना ॥ ८-१०१ ॥

दुकूलपट्टकार्पास वासोभिर्विविधैरपि ।
इन्ध्याभिः पुष्पमालाभिः पत्रच्छेदैरथार्च्चयेत् ॥ ८-१०२ ॥

संपत्तौ हेमपट्टाद्यैर्विविधैरङ्गभूषणैः ।
संभूष्य हेमपुष्पैस्तु कुसुमेश्च सितासितैः ॥ ८-१०३ ॥

प्. ४२) विज्ञाप्यलयभोगाङ्गं देवदेवं क्षमापयेत् ।
जपं स्तुत्यं नमस्कारं ध्यानं श्रद्धावदित्यपि ॥ ८-१०४ ॥

नृत्तं गीतञ्च वाद्यञ्च महाघण्डा स्वनादिकम् ।
लयाङ्गमुक्तं पूजायां देवदेवस्य नित्यशः ॥ ८-१०५ ॥

भोगाङ्गानि च शेषाणि लयैर्भागैश्च पूजयेत् ।
पञ्चवरणमार्गेण क्रमादावरणं न्यसेत् ॥ ८-१०६ ॥

सद्यं पश्चिमदिक्पात्रे वाम देवन्तथोत्तरे ।
अघोरं दक्षिणे यष्ट्वा पुरुषं पूर्वपात्रतः ॥ ८-१०७ ॥

ईशानमीशदिक्भागे न्यस्त्वा सम्यक् समर्चयेत् ।
स्नानदीपं पृथक् तेषामङ्गानामंगभावतः ॥ ८-१०८ ॥

कर्णिकायां ततो याम्ये संयजेदात्म तत्वकम् ।
विद्या तत्वन्ततः सौम्ये शिवतत्वन्तु मद्ध्यमे ॥ ८-१०९ ॥

आत्मानमन्तरात्मानं परमात्मानमेव च ।
यजेत् तत्व त्रयं स्थाने हृदापुष्पैः सितासितैः ॥ ८-११० ॥

गर्भावरणमाख्यातं विद्येशावरणं ततः ।
गर्भावरणबाह्येषु पद्मपत्रेषु संयजेत् ॥ ८-१११ ॥

अनन्तं पूर्वतः पूज्य त्रिमूर्तिं वह्निगोचरे ।
सूक्ष्मन्तु दक्षिणेभागे श्रीकण्ठं नि-ऋतौ तथा ॥ ८-११२ ॥

शिवोत्तमन्तु वारुण्यां शिखण्डिं वायुगोचरे ।
एक नेत्रं तथा सौम्ये ह्येकरुद्रं तथैशके ॥ ८-११३ ॥

द्वितियावरणं ह्येवं प्रणवेन स्वनामभिः ।
उमा वै चोत्तरेयष्ट्वा पूर्वभागे वृषन्ततः ॥ ८-११४ ॥

दक्षिणे गजराजानं गुहं वै वारुणे तथा ।
महाकालन्तु नि-ऋतौ भृंगीशं वायुदेशतः ॥ ८-११५ ॥

चण्डेशमीशदिक्भागे नन्दीशञ्चाग्निगोचरे ।
उमादिक्षुमुखान्तानि तृतीयावरणेदले ॥ ८-११६ ॥

इन्द्रादिलोकपालांश्च ऐन्द्र्यादिषु प्रपूजयेत् ।
ब्रह्माणं दक्षिणेभागे विष्णुमुत्तरतो यजेत् ॥ ८-११७ ॥

लोकेश गणयोर्मध्ये ब्रह्मविष्णूयमोत्तरे ।
चतुर्थावरणं ह्येवमथास्त्रावरणं शृणु ॥ ८-११८ ॥

प्. ४३) आशास्वष्ट सुवज्रादींश्चक्रं सौम्येब्जमन्त्रके ।
लोकपालान् सहस्त्रांश्च स्वस्वमन्त्रेण पूजयेत् ॥ ८-११९ ॥

गर्भावरणमन्त्राणां बीजमुद्रान्तु दर्शयेत् ।
विद्येशानाङ्गणेशानां कालकण्ठन्तु दर्शयेत् ॥ ८-१२० ॥

लोकेशानामथास्त्राणां शूलमुद्राः प्रकीर्तिताः ।
देवतार्चनकाले तु यथा त्वाच्छादयेत् बुधः ॥ ८-१२१ ॥

पापरोगनिमग्नानां मृष्टानाञ्च स्वकर्मभिः ।
क्रूराणां कुब्जकादीनं कृशिकानां तथैव च ॥ ८-१२२ ॥

तथा कृत्रिमभक्तानां निन्दकानाञ्च पापिनाम् ।
अन्यच्च दोषदृष्टानाम दृष्टानामिति स्मृतम् ॥ ८-१२३ ॥

महाघण्टानिनादेन राक्षसाश्चासुरास्तथा ।
ब्रह्मराक्षसपैशा च भूतयक्षोरगेश्वराः ॥ ८-१२४ ॥

दूरं गच्छन्ति नादेन यान्ति देवाः सुसन्निधिम् ।
धूपदीपौ प्रदातव्यौ घण्टारवसमन्वितम् ॥ ८-१२५ ॥

ज्वलदङ्गारसंपूर्णं धूपपात्रं नरेण तु ।
सव्यहस्तेन सङ्ग्राह्य घण्टां वामेनपाणिना ॥ ८-१२६ ॥

सुरूपान्धीरनिर्घोषां वादयन् सर्वदा गुरुः ।
ध्वनिनाधूपखण्डाया ग्रामशान्तिकरं भवेत् ॥ ८-१२७ ॥

दद्यादाचमनं तत्र दर्पणच्छक्रचामरान् ।
मनसा वा स्वरूपेण दर्शयेत् तु विचक्षणः ॥ ८-१२८ ॥

बीजमुद्रां नमस्कारां मुकुलिं पद्ममुद्रिकाम् ।
ध्वजाख्यां लिङ्गमुद्राञ्च देवदेवस्य दर्शयेत् ॥ ८-१२९ ॥

शिवेच्छा प्रतिमाः सर्वाः पूजयेत् तु यथोचितम् ।
आसनावरणे कृत्वा द्वारपालार्चनं विना ॥ ८-१३० ॥

नित्यस्नानं विनालोभे स्नानं पर्वणि पर्वणि ।
चण्डेशपरिवाराणि विना बिंबानिपूजयेत् ॥ ८-१३१ ॥

शिवस्य परिवाराणि समभ्यर्च्य यथा विधि ।
मुद्रादर्शनवेलायां शिवं स्नाप्यनिवेदयेत् ॥ ८-१३२ ॥

समारभ्यशिरः पूर्वं दक्षिणोत्तर पश्चिमे ।
ऊर्ध्वभागे तु मन्त्रज्ञः पञ्च स्वर्घ्यं निवेदयेत् ॥ ८-१३३ ॥

प्. ४४) सद्योघोरेन रेवामेद त्वार्घ्यं पञ्चमान्तकम् ।
अपसव्यार्घ्यमित्युक्तं पूजाकालेषु नित्यशः ॥ ८-१३४ ॥

सव्यापसव्यमार्गाभ्यां दत्वार्घ्यन्तु पुनः पुनः ।
ऊर्ध्ववक्त्रे तु दातव्यं संमूखार्घ्यं पराङ्मुखम् ॥
८-१३५ ॥

संमुखं संस्थि देहस्य विसर्गेर्घ्यं पराङ्मुखम् ।
नैवेद्यं दापयेत् पश्चात् यथा विभवविस्तरैः ॥ ८-१३६ ॥

भक्ष्यभोज्यां न पानानि सत्फलाज्यगुलान्वितम् ।
तेन दीपेन दत्वा तु नित्यां हि कमथो यजेत् ॥ ८-१३७ ॥

शिवाग्नौ रक्षिते तस्मिन् परितः शोध्य दीप्य च ।
परिषिच्य हृदापूज्यलोकेशानां ततो मतम् ॥ ८-१३८ ॥

संपूज्य च ततः पद्मे शिवं ब्रह्माङ्गकैरधः ।
घृतान्नेन घृतेनाथ जुहुयात् तण्डुलेन वा ॥ ८-१३९ ॥

प्रत्येकन्तु त्रिसंख्या वा ह्येक संख्यमथापि वा ।
परिषेचनमन्त्रेण पुनः सिच्यविसर्जयेत् ॥ ८-१४० ॥

एवं नित्याग्निकार्यन्तु मध्यमे चाथमेपि च ।
उत्तमे चाग्निकार्योक्तं सर्वं कुर्याद् विचक्षणः ॥ ८-१४१ ॥

परिवारबलिं दत्वा निर्माल्यान्नं विसर्जयेत् ।
मुखवासञ्च तांबूलं दत्वा नित्यपवित्रकम् ॥ ८-१४२ ॥

सर्वच्छिद्रापनोदार्थं धूपितं प्रोक्षितं ततः ।
दशबीजमनुस्मृत्य पवित्रमधिरोपयेत् ॥ ८-१४३ ॥

पूजाकाले तु संप्राप्ते लिङ्गमूर्ध्निपवित्रकम् ।
अवतीर्यार्चिते लिङ्गे तं पवित्रं पुनर्नयेत् ॥ ८-१४४ ॥

नित्योत्सवन्तु कर्तव्यं विध्युक्तं त्रिषुसन्धिषु ।
नीराजनन्तु कर्तव्यं रात्रौ रात्रौ विशेषतः ॥ ८-१४५ ॥

प्रक्षाल्यपादौ हस्तौ च प्र *?म्याष्टाङ्गमादरात् ।
प्रदक्षिणत्रयं कृत्वा मन्त्रञ्जप्त्वा क्षमापयेत् ॥ ८-१४६ ॥

कालत्रयङ्गुणातीतः कालात्मा शिवशाश्वतः? ।
उदयस्थिति संहारकण्व पुण्यैककारणा ॥ ८-१४७ ॥

अनेकतप कृत्यानि नयसर्वाणि सर्वदा ।
फलप्रदान्यमोघानि संपूर्णानि प्रसीदमे ॥ ८-१४८ ॥

प्. ४५) एतन्मन्त्रं जपित्वेशं क्षमस्वेति वदेत् गुरुः ।
स त्रिपाद त्रिघटिका रात्र्यन्ते तु दिने दिने ॥ ८-१४९ ॥

ब्राह्मं मुहूर्तमाख्यातं संघोष्यस्त्विति कथ्यते ।
तथा पञ्च महाशब्दं कृत्वा शुभनिवृत्तये ॥ ८-१५० ॥

शौचं स्नानादिकं कृत्वा पूजान् कृत्वादिशैवकम् ।
भास्करस्योदयात् पूर्वं दृष्ट्वारभ्य यथा क्रमम् ॥ ८-१५१ ॥

यामैका चोत्तमासन्धिर्मध्यमा पञ्चनाडिका ।
मध्यमाया कनिष्ठा स्याद् यथा विभवमाचरेत् ॥ ८-१५२ ॥

सा चैकाघटिका स्नाने घटिकाद्वयमर्चने ।
नैवेद्यं घटिकार्धञ्च घटिकार्धं बलिं ततः ॥ ८-१५३ ॥

घटिकार्धैकसंयुक्ता वेला तत्र विधीयते ।
नित्योत्सवे तथा स्नाने शुद्धे वै सुद्धनृत्तके ॥ ८-१५४ ॥

सार्द्धत्रिघटिका प्रोक्ता द्रव्यसंपन्नपूजने ।
असंपद्यजनं प्रोक्तं मध्यमाधमकालतः ॥ ८-१५५ ॥

एवं समर्चिते सर्वमर्चितञ्च चराचरम् ।
तस्माल्लिङ्गार्चनं कार्यं प्राज्ञैश्च सुमहात्मभिः ॥ ८-
१५६ ॥

ब्रह्मचर्येण वेदैश्च यज्ञैश्च विविधैः शुभैः ।
अग्निहोत्रैश्च सन्यासैराश्रमैश्च सुपालितैः ॥ ८-१५७ ॥

त्रिदण्डैश्च व्रतैः सर्वै घृतैः पाशुपतादिकैः ।
एतैरन्यैश्च यतिभिः प्राप्यते यत्फलं शुभम् ॥ ८-१५८ ॥

तत्फलं लभते साधु लिङ्गस्यार्चन तत् परः ।
एकोह्यभ्यर्च्यते लिङ्गन्तपस्तप्यति चा परः ॥ ८-१५९ ॥

तयोर्मध्ये तु स श्रेष्ठो यो लिङ्गं संप्रपूजयेत् ।
अनेकजन्मसाहस्रे भ्रममाणस्तु योनिभिः ॥ ८-१६० ॥

कश्चिदाप्नोति वै मुक्तिं लिङ्गार्चनरतोनरः ।
शिवार्चनविधिः प्रोक्तो मुद्रायालक्षण शृणु ॥ ८-१६१ ॥

इति शिवार्चनविधि पटलोष्टमः ॥ ८ ॥


प्. ४६) अथ मुद्रालक्षण पटलः

अथातः संप्रवक्ष्यामि मुद्रायालक्षणं परम् ।
अर्चनादिक्रियाकाले संयोज्या सा सलक्षणा ॥ ९-१ ॥

अस्त्रीवक्त्री महामुद्रा शोधनी च संहारिणी ।
पञ्चमुखी च सुरभि द्रव्या च मुकुली तथा ॥ ९-२ ॥

पद्मा च शशकर्णी च शक्तिबीजा तथा भवेत् ।
आवाहनी च शान्ता च मनोरमध्वजा तथा ॥ ९-३ ॥

निष्ठुरा लिङ्गमुद्रा च गायत्री कालकण्ठका ।
शूलमुद्रा नमस्कारात्रयोविंशति कीर्तिताः ॥ ९-४ ॥

द्वौ मुष्टी संहति कृत्वा शीघ्रं हस्तौ प्रसारयेत् ।
अस्त्रमुद्रेति विख्याता सर्वेषाञ्च भयंकरी ॥ ९-५ ॥

वामहस्तो परिस्थाप्य अङ्गुल्यो दक्षिणस्य तु ।
आकुञ्चयेत् ततः सर्वा नङ्गुष्ठेन तु बन्धयेत् ॥ ९-६ ॥

वामाङ्गुष्ठेषु संपीड्य अङ्गुल्योङ्गुष्ठकं दृढम् ।
इयं वक्त्राख्यमुद्रा तु स्नानार्थं देशिकस्य तु ॥ ९-७ ॥

हस्ताभ्यां संस्पृशेत् पादौ द्वौहस्तौ मस्तके न्यसेत् ।
एषामुद्रा महामुद्रा करसंस्कारपश्चिमे ॥ ९-८ ॥

पाणिमूले तु संलग्नौ हृद्देशे तु परस्परम् ।
कृत्वैवं ताडयेत् पाणिमुद्रेयं शोधनी भवेत् ॥ ९-९ ॥

प्रसार्य दक्षिणाङ्गुल्यस्त्वङ्गुष्ठं मूर्ध्निसंस्थितम् ।
मुष्टिवत् सततं कृत्वा ह्येषा संहारिणी स्मृताः ॥ ९-१० ॥

कृत्वान्योन्य गताङ्गुल्याः पृष्ठतो हस्तयोर्द्वयोः ।
तिर्यक् त्वेकं न्यसेत् तत्र अङ्गुष्ठाभ्यां समाक्रमेत् ॥ ९-११ ॥

तर्जिन्या मध्यमादूर्ध्वे नामिके चोच्छ्रिते शुभे ।
कृत्वा पञ्चमुखी ख्याता मुद्रेयं शङ्करस्य तु ॥ ९-१२ ॥

वेणी बन्धं करौ कृत्वा ह्यङ्गुष्ठौ युग्मसंस्थितौ ।
तर्जनीमध्यमे लीनौ कनिष्ठानामिके युते ॥ ९-१३ ॥

एवञ्चत्वारि युग्मन्तु दिव्यामृतसुवर्षिणि ।
इयं सुरभिमुद्रा च द्रव्यशुद्ध्यर्थमुच्यते ॥ ९-१४ ॥

प्. ४७) कृत्वाञ्जलिं कराभ्यान्तु अङ्गुष्ठानामिकान्वितम् ।
प्रसारयेत् ततः शेषां मुद्रेयं द्रव्यरूपिणी ॥ ९-१५ ॥

द्वौहस्तावेकतः कृत्वा मध्ये तु सुषिरन्तयोः ।
सरोजमुकुलाकारां मुकुलिन्तु प्रदर्शयेत् ॥ ९-१६ ॥

पूर्वोक्तामुकुली या तु हृद्देशान्निः सृताङ्गुली ।
व्याको च कमलाकारां पद्ममुद्रान्तु दर्शयेत् ॥ ९-१७ ॥

तर्जन्यौ कुञ्चिते चैव तयोरग्रे निधापयेत् ।
द्वयोरंगुष्ठशिरसि तेषां मध्यघनः समाः ॥ ९-१८ ॥

कृत्वा तु मणिबन्धे तु वामे सव्यन्तथा न्यसेत् ।
मुद्रेयं शशकर्णी तु विज्ञेया योगकर्मणि ॥ ९-१९ ॥

तर्जनीं कुञ्चयेदेकामङ्गुष्ठे तु तथा पुनः ।
शक्तिमुद्रेति विख्याता शक्तीनाञ्च प्रकल्पयेत् ॥ ९-२० ॥

उत्तानौ तु करौ कृत्वा वेणीबन्धन्तु कारयेत् ।
अङ्गुष्ठौ प्रक्षिपेन्मध्ये हस्तसंपुट गोपितौ ॥ ९-२१ ॥

कनिष्ठकौ तथा चैव मुहुः कृत्वा प्रसारितौ ।
अग्रे गुरुसमायुक्तां बीजमुद्रां प्रदर्शयेत् ॥ ९-२२ ॥

तर्जन्यङ्गुष्ठलग्नाग्रा शान्तेयं संप्रकीर्तिता ।
हस्ता वुत्तान्नकौ कृत्वा कन्न्यसौङ्गुष्ठकौ न्यसेत् ॥ ९-२३ ॥

मूलपर्वे समौ कृत्वा मुद्रेषावारिधि स्मृता ।
बलितं हस्तयोः कार्यमुत्ताने तु कनिष्ठकौ ॥ ९-२४ ॥

तयोर्वामावलि ज्ञेया वलीते मध्यमेऽपि च ।
कुञ्चिते नामिका या च स्वपाणितल योजिते ॥ ९-२५ ॥

देशिन्यौ प्रसृतौ कृत्वा तयोरग्रे नियोजयेत् ।
अङ्गुष्ठौ मूलपर्वस्थौ तयोरेव हि कुञ्चितौ ॥ ९-२६ ॥

मनोरमेति विख्याता शिव सा युज्यदायिका ।
वामे प्रदेशिन्यग्रन्तु वेष्टयेत् सव्यपाणिना ॥ ९-२७ ॥

कृत्वोर्ध्वे तु ततोऽङ्गुष्ठं हृदये सन्नियोजयेत् ।
वामाङ्गुष्ठञ्च वामाभिस्ति सृभिर्वेष्टयेत् क्रमात् ॥ ९-२८ ॥

ध्वजमुद्रासमाख्याता संयोज्या योगकर्मणि ।
अङ्गुष्ठौ मध्यतः कृत्वामुष्टिभ्यां पीडयेदुभौ ॥ ९-२९ ॥

प्. ४८) हस्तौ वाप्युभयौ कृत्वा निष्ठुरां सन्नियोजयेत् ।
कृत्वामुष्टि भवेद्धस्तौ व्युद्धमङ्गुष्ठसंस्थितौ ॥ ९-३० ॥

मुद्रैषा लिङ्गसंज्ञा तु कृत्वा देशिकदर्शने ।
अन्योन्यान्तरगाः सर्वाः करपृष्ठाग्रयोजिताः ॥ ९-३० ॥

अङ्गुष्ठाङ्गुलयः कुर्यादक्षरञ्च नरान्तने ।
पूजाकर्मणि गायत्रीं गायत्र्यान्तु प्रयोजयेत् ॥ ९-३१ ॥

कृत्वामुष्टिं ततो स्थाने तदानङ्गुलियोजिते ।
अङ्गुष्ठाग्रौ च संलग्नौ कालकण्ठीन्तु दर्शयेत् ॥ ९-३२ ॥

अन्योन्यान्तरितं कृत्वा पाणि पृष्ठेन योजयेत् ।
मध्यमे चोच्छ्रिते कृत्वा शूलमुद्रे कीर्तिताः ॥ ९-३३ ॥

सतताङ्गुलि संलग्नौ हस्तौ हृद्देशमाश्रितौ ।
सर्वेषां बन्धनं कार्यं वमाङ्गुष्ठनिपीडनम् ॥ ९-३४ ॥

नमस्कारेति विज्ञेया सर्वकर्मणिकारयेत् ।
विधिप्रपूरणार्थन्तु कृत्वा मुद्रान्तु देशिकाः ॥ ९-३५ ॥

मुद्रायालक्षणं प्रोक्तं हविष्यलक्षणं शृणु ।

इति मुद्रालक्षण पटलो नवमः ॥ ९ ॥


अथ हविष्यविधि पटलः

अथतः संप्रवक्ष्यामि हविष्यविधिमुत्तमम् ।
नीवारञ्चैव गोधूमं यवं वेणुसमुद्भवम् ॥ १०-१ ॥

प्रधानतण्डुलं प्रोक्तन्नैवेद्यस्य शिवस्य तु ।
अलाभे चोक्तबीजानामथवा शालितण्डुलैः ॥ १०-२ ॥

श्वेतशाली महाशाली रक्तशाली तथैव च ।
कृष्णशाली हेमशाली शालायश्च तथान्यकाः ॥ १०-३ ॥

शालयोर्व्रीहहयोर्वाथ तण्डुलार्थं प्रगृह्य च ।
वर्णगन्धरसैरुष्टास्त्वयोग्यास्तण्डुलास्तथा ॥ १०-४ ॥

चातुर्वर्णोत्भवानारी पतिपुत्रवतीमता ।
तेषामेक तमे जाता अन्या वा कृतमङ्गला ॥ १०-५ ॥

प्. ४९) सा तण्डुलक्रियायास्तु युक्ताभक्तिसमन्विता ।
आदित्यरश्मि सन्तप्ता धान्यं प्रक्षिप्युलूखले ॥ १०-६ ॥

प्राङ्मुखोदुङ्मुखो वापि कुट्टने मुसलेन तु ।
तुषान् व्यपोह्य शूर्पेण कंबुकाञ्च कणान्त्यजेत् ॥ १०-७ ॥

अखण्डान् तण्डुलान् ग्राह्य श्वेतवर्णांस्तु निर्मलान् ।
द्विगुञ्जं माषकं विद्याद्धरणं माषविंशतिः ॥ १०-८ ॥

धरणाष्टौ पलञ्चैव पलंमुष्टिरिहोच्यते ।
चतुर्मुष्टिस्तथा पादं प्रस्थं पादचतुष्ककम् ॥ १०-९ ॥

आढकन्तच्चतुष्कं स्याद् द्रोणन्तस्य चतुष्ककम् ।
तवधामार्गमुद्दिश्य नैवेद्यन् तत् प्रकल्पयेत् ॥ १०-१० ॥

प्रातः साये तथा भ्यर्च्य मध्याह्ने च निवेदनम् ।
प्रस्थद्वयन्तु तत् काले पाचयित्वा निवेदयेत् ॥ १०-११ ॥

एकदीपं द्विकाले च रात्रौ दीपद्वयन्त्विह ।
एवमुक्तप्रमाणेन क्षुद्रमध्याधमाधमम् ॥ १०-१२ ॥

प्रातः काले च मध्याह्ने द्विप्रस्थन्तण्डुलं हविः ।
साये संख्यान्तमभ्यर्च्य दीपं प्राग्द्विगुणं भवेत् ॥ १०-
१३ ॥

प्रस्थद्वयं त्रिकालेषु प्रत्येकञ्च निवेदयेत् ।
दीपञ्चैव चतुःप्रोक्तासा ये तु द्विगुणं तथा ॥ १०-१४ ॥

अधमन्त्रयकञ्चैव वाद्यध्वनिसमन्वितम् ।
स्नाने भोजनके याने प्रच्छन्नपटमार्जने ॥ १०-१५ ॥

बलिदानेप्युषः काले वाद्यघोषन्तु कारयेत् ।
मध्यमस्याधमे प्रोक्तं मध्याह्ने त्वाढकं हविः ॥ १०-
१६ ॥

प्रस्थद्वयं द्विकाले च दीपं विंशतिकं भवेत् ।
मध्यत्रये तु मतिमान् वाद्यध्वनि समायुतम् ॥ १०-१७ ॥

त्रिकालं बलिलिङ्गे च बलिदानन्नयेत् ततः ।
मध्यमामध्यमं विद्यात् त्रिकाले ष्वाढकं हविः ॥ १०-१८


अर्धयामे तदर्द्धञ्च चतुर्विंशति दीपकम् ।
अर्द्धरात्रे तु या पूजार्धयाममिहोच्यते ॥ १०-१९ ॥

स्नानानि तु निवेद्यान्तं बलिहोमविवर्जितम् ।
वामान्तं वाथ कुर्वीत स्नात्वा वर्जितपूजितम् ॥ १०-२० ॥

प्. ५०) सायङ्कालस्य यामान्ते पूजायामान्तमुच्यते ।
त्रिकालं च बलिः प्रोक्तं पुष्पार्घ्यन्तु क्रमेण तु ॥ १०-२१ ॥

वाद्यध्वनिसमायुक्तं शंखकाहलसंयुतम् ।
मध्याह्ने नित्यहोमञ्च शिवमन्त्रसमन्वितं ॥ १०-२२ ॥

मध्यमस्योत्तमे चैव त्रिकालेस्वाढकत्रयम् ।
आढकश्चार्धयामेतु दीपसप्ततिसंयुतम् ॥ १०-२३ ॥

त्रिकालं बलिरन्नं स्यात् द्विकालं होममाचरेत् ।
सर्ववाद्यसमायुक्तं षट्काले च सुघोषयेत् ॥ १०-२४ ॥

षड्विधं यत्र कुर्वीत कालसङ्ख्या न विद्यते ।
उत्तमस्याधमं ज्ञेयं द्रोणेनैव त्रिसन्धिषु ॥ १०-२५ ॥

द्रोणार्धमर्धयामे तु दीपमष्टशतं भवेत् ।
त्रिकाले बलिरुक्तं स्यात् त्रिकालं होमसंयुतम् ॥ १०-२६ ॥

वादकानाञ्चतुर्विंशत् सर्ववाद्यसमन्वितम् ।
गणिकाश्च चतुस्त्रिंशत् चतुर्विंशति वार्धकम् ॥ १०-२७ ॥

रूपयौवनयुक्ताभि स्त्रिकालं नृत्तमाचरेत् ।
पञ्चाचार्यसमायुक्तं कालं यामसमन्वितम् ॥ १०-२८ ॥

उत्तमं मध्यमे तस्मिन् चतुर्वर्णं हविस्त्रिषु ।
पायसादीन्विधाने तु प्रत्येकं द्रोणतण्डुलैः ॥ १०-२९ ॥

द्रोणे तु चोदनं कुर्यात् पाचयित्वा पृथक् पृथक् ।
द्रोणान्न्यधार्धयामे तु दीपञ्चैव शतद्वयम् ॥ १०-३० ॥

त्रिकालं बलिहोमञ्च शीतारिधूपमुच्यते ।
वाद्यकानां चतुस्त्रिंशत् पञ्चाशत् गणिकान्वितम् ॥ १०-३१ ॥

कालं यामन्तु तस्योक्तं नृत्तं कुर्यात् त्रिसन्धिषु ।
घटिकाद्वेभवेत् स्नानं घटिकैकार्चनं भवेत् ॥ १०-३२ ॥

निवेद्यार्त्थं त्रिपादं स्याद्यात्रार्थन्तु त्रिपादकम् ।
अतः परं त्रिघटिका शंखवाद्यादिशोभनैः ॥ १०-३३ ॥

शेषकाले महाहव्यं भक्ष्यादीनां निवेदनम् ।
परिवेषं विनोदञ्च गेयमुक्तादिभिश्चरेत् ॥ १०-३४ ॥

प्. ५१) अत्रार्धयामपूजान्ते कुर्यात् कवाटबन्धनम् ।
अन्यकालेन कर्तव्यं कवाटस्य तु बन्धनम् ॥ १०-३५ ॥

उत्तमान्मध्यमं प्रोक्तं उत्तमोत्तममध्यमे ।
उत्तमोत्तममुद्दिश्य हविष्यक्रममुच्यते ॥ १०-३६ ॥

पायसादीनिपक्वानि पञ्चद्रोणेन वै पृथक् ।
तदर्द्धमर्द्धयामे तु दीपं पञ्चशतं भवेत् ॥ १०-३७ ॥

त्रिकालं बलिहोमञ्च पञ्चाशद्वाद्यसंयुतम् ।
तण्डुलात् त्रिगुणं क्षीरं कदलीफलसंयुतम् ॥ १०-३८ ॥

मुद्गभिन्नञ्चतुर्थाशं यथा शत्यागुलान्वितम् ।
पायसान्नमिदं प्रोक्तं कृसरान्नन्ततः शृणु ॥ १०-३९ ॥

तण्डुलस्य चतुर्थांशं प्रक्षिप्यतिलचूर्णकम् ।
तच्चतुर्थांश शमाज्यन्तु पाचयित्वा यथा विधि ॥ १०-४० ॥

कृसरान्नमिदं प्रोक्तं गुलान्नमधुनोच्यते ।
तण्डुलात् द्विगुणं क्षीरं तदर्धांशंगुलं क्षिपेत् ॥ १०-४१


गुलार्धं प्रक्षिपेदाज्यं गुलान्नमिदमुच्यते ।
तण्डुलस्य चतुर्धांशं मुद्गजन्तत्र बुद्धिमान् ॥ १०-४२ ॥

नालिकेरफलैः सूक्ष्मैर्मुद्गस्यार्धं सुनिक्षिपेत् ।
महाहविरथो वक्ष्ये वसुद्रोणाधमाधमम् ॥ १०-४३ ॥

द्विगुणं मध्यमं प्रोक्तं त्रिगुणञ्चोत्तमोत्तमम् ।
चतुःपञ्चषट्गुणितं मध्यमत्रितयं तथा ॥ १०-४४ ॥

सप्ताष्ट नवगुणितमेतदुत्तमकन्त्रयम् ।
उपदंशं ततो वक्ष्ये शृणु तत्त्वङ्गजानन ॥ १०-४५ ॥

द्वात्रिंशदंशमेव स्यात् सर्पिस्तत्र परिग्रहेत् ।
षोडशांशन्तु गुल्माषं दद्ध्यष्टांशन्तु संग्रहेत् ॥ १०-
४६ ॥

कदलीपनसाम्राञ्च परिपक्वान् समर्चयेत् ।
तरुणाश्चोपदं शास्युः शृणु वक्ष्योपदंशकान् ॥ १०-४७ ॥

कदली चैव कुश्माण्डोर्वारुकञ्च पटोलिका ।
कोशातकी चरूपुष्पं वेत्राग्रंलिकुचं तथा ॥ १०-४८ ॥

प्रस्थस्य त्रिफलञ्चैव स्तुषित्वा देशिकोत्तमः ।
वल्लीशूलं तथान्त्रान्तं सर्वान्य न्यासमं तथा ॥ १०-४९ ॥

प्. ५२) अलाबुन्नालिकेरञ्च सूरणंकारवल्लिका ।
अन्ये रसयुताः शुद्धाः कन्दमूलफलास्तथा ॥ १०-५० ॥

कटुकाश्च तथा म्लाश्चतिक्ताश्च मधुरास्तथा ।
तथा लाभो पदंशाञ्च पचेल्लवणसंयुतम् ॥ १०-५१ ॥

प्रक्षालनं ततः कृत्वा सत्कृत्वोद्भिस्तु तण्डुलान् ।
बीजमुख्येन मन्त्रेणशोधयित्वा विशेषतः ॥ १०-५२ ॥

अर्धाधिकयुतन्तोयं तण्डुलस्य प्रमाणतः ।
चुल्लिमध्ये न्यसेदग्निं स्वबीजेन तु चार्चयेत् ॥ १०-५३ ॥

तस्योपरि तथा पात्रं काष्ठैरग्निं प्रदीपयेत् ।
क्रिमिजुष्टैस्तथा काष्ठैर्विस्फुलिङ्गयुतेन च ॥ १०-५४ ॥

गन्धपुष्पादिनाभ्यर्च्य वस्त्रेणा वेष्टयेत् ततः ।
पिपीलिकाश्रितैश्चैव काष्ठैरग्निन्नदीपयेत् ॥ १०-५५ ॥

अपक्वमतिपक्वञ्च परिम्लानञ्च वर्जयेत् ।
पात्राणि च शरावाञ्च बाह्यशुद्धिं विशेषतः ॥ १०-५६ ॥

सर्वपात्रेषु तद्भाह्ये त्रिपुण्ड्रन्तु विचक्षणः ।
हुङ्कारेण तु मन्त्रेण सर्वमुत्थापयेत् क्रमात् ॥ १०-५७ ॥

मुखं वस्त्रेण वाच्छाद्य पाचकस्तान् समुद्धरेत् ।
अभ्युक्ष्यपरितोमार्गं छत्रपिञ्छसमायुतम् ॥ १०-५८ ॥

शङ्खध्वनिसमायुक्तमालयन्तु प्रवेशयेत् ।
मण्डपस्योत्तरे भागे दक्षिणे वा निधाय च ॥ १०-५९ ॥

हविष्ये चोपदंशे च आज्ये नैवाभि हारयेत् ।
सौवर्णं रजतन्ताम्रमधवा कदलीदलम् ॥ १०-६० ॥

शुद्धकांस्येन वा कार्यं पात्रं शतपलेन तु ।
स्थलकापादरहिता त्रिपादीकार्यमस्थिता ॥ १०-६१ ॥

पीठोत्सौधा महाभद्राः शुद्धकांस्यमयाः समाः ।
दर्वीं हस्ते समादाय सप्रमाणां सलक्षणाम् ॥ १०-६२ ॥

तदाज्ये नाभिचर्यादौ पात्रमन्नेन पूरयेत् ।
हविष्यस्य चतुर्भागं निवेद्यं स्यात् शिवस्य तु ॥ १०-६३ ॥

पूर्णचन्द्रमिवाकारं गुल्माषेन गुलेन च ।
फलेनाज्येनदध्ना वा उपदंशैः समावृतम् ॥ १०-६४ ॥

प्. ५३) निवेदयेच्छिवायैवं हविष्यं सर्वसिद्धिदम् ।
हृदयेन तु मन्त्रेण निवेद्य विधिपूर्वकम् ॥ १०-६५ ॥

चतुर्भागैकभागेन परिवारे बलिन्ददेत् ।
चतुर्भागैकभागेन होमकर्मसमाचरेत् ॥ १०-६६ ॥

शेषांस्तु देशिकायैव दातव्यं भोजनं हितम् ।
आचमनं हृदादत्वा चण्डेशाय निवेदयेत् ॥ १०-६७ ॥

तांबूलं दापयेत् पश्चात् पत्रस्यैकफलं तथा ।
फलाच्चतुर्गुणं प्रत्रं तैलमिश्रं सचूर्णकम् ॥ १०-६८ ॥

तत्वान्यान्युपचाराणि हृदयेन तु दापयेत् ।
सदाशिवस्य निर्माल्यं मनुष्याणां न भोजनम् ॥ १०-६९ ॥

पशूनाञ्च गजादीनां वा जले वाथ निक्षिपेत् ।
अथवा वह्निनादाह्य भूमौ वा खनयेत् बुधः ॥ १०-७० ॥

सकलानान्तु नैवेद्यं परिचारकभोजनम् ।
तदप्यं यजनैश्चैव भोजने त्वथदोषकृत् ॥ १०-७१ ॥

हविष्यलक्षणं प्रोक्तमग्निकार्य विधिं शृणु ।

इति हविष्यविधि पटलोदशमः ॥ १० ॥


अथ अग्निकार्यविधि पटलः

अथातः संप्रवक्ष्यामि अग्निकार्यविधिक्रमम् ।
नित्यन्नैमित्तिकञ्चैव प्रतिष्ठा या मथोत्सवे ॥ ११-१ ॥

ग्रहणे विषुसंक्रान्त्यां शत्रूणाञ्च प्रदर्शने ।
शान्तिके पौष्टिके चैव दीक्षायान्तु पवित्रके ॥ ११-२ ॥

गर्भाधानादिशैवानां तेषान्तु दहनादिषु ।
प्रायश्चित्तादिकालेषु वह्निकर्मसमाचरेत् ॥ ११-३ ॥

कुण्डे वा स्थण्डिले वापि द्विविधे होमकर्मणि ।
वर्तनाविधिनावत्स कुण्डञ्चेद्वर्तयेत् बुधः ॥ ११-४ ॥

प्. ५४) वालुकै स्थण्डिलञ्चेत् तु प्रत्यग्रे हस्तविस्तृते ।
शोधनं क्षालनञ्चैव शोषणं पाचनं तथा ॥ ११-५ ॥

रेखात्रयं तु पूर्वाग्रं रेखैकाचोत्तरामुखा ।
उल्लेखनन्तु चास्त्रेण अभ्युक्ष्यकवचेन तु ॥ ११-६ ॥

पूर्वामुखास्त्रयोरेखा ब्रह्माविष्णुश्च रुद्रकः ।
उत्तराभिमुखारेखा शिवा सा तु न संशयः ॥ ११-७ ॥

पुष्पाक्षतैः समभ्यर्च्य शिवाग्निं तत्र साधयेत् ।
सूर्यकान्तोद्भवं श्रेष्ठमरण्युत्भवमेव वा ॥ ११-८ ॥

क्षेत्रे वा श्रोत्रियागारे जातवेदसमानयेत् ।
ताम्रपात्रे शरावे वा सौवर्णेराजतेऽपि वा ॥ ११-९ ॥

नवमृण्मयपात्रे वा तद लाभे विशेषतः ।
अग्निं तत्रैव निक्षिप्य आग्नेये तन्त्रवित्तमः ॥ ११-१० ॥

शोधयेदस्त्रमन्त्रेण कवचेनावकुण्ठयेत् ।
बीजमुख्येनमन्त्रेण अमृतीकृत्यभावयेत् ॥ ११-११ ॥

क्षुरिकामर्चयेन्मंत्री गन्धपुष्पादिभिः क्रमात् ।
कुण्डे वा स्थण्डिले वापि दर्भेण विष्टरं न्यसेत् ॥ ११-१२ ॥

तन्मध्ये तु सुसंस्थाप्य वागीश्वरीं विशेषतः ।
ऋतुस्नाता स कृच्चस्ताद्ध्याययेत् तु विचक्षणः ॥ ११-१३ ॥

त्रिभिर्भज्याग्नि नाकुण्डं योगमार्गेण निक्षिपेत् ।
बीजमन्त्रेण संस्थाप्य शौचमाचमनं ददेत् ॥ ११-१४ ॥

सद्यमन्त्रेण संस्नाप्य प्रशान्तेति त्रिधास्मरन् ।
गर्भाधानं कृतं ह्येवं गर्भपुंसवनन्ततः ॥ ११-१५ ॥

वामदेवेन मन्त्रेण रुद्राण्यभ्यर्चयेत् ततः ।
प्रोक्तं पुंसवनं ह्येवं सीमन्तञ्च ततः शृणु ॥ ११-१६ ॥

शिरसा बहुरूपेण गन्धपुष्पादिभिर्युतम् ।
वक्त्रेण चास्त्रमन्त्रेण जातकर्मसमाचरेत् ॥ ११-१७ ॥

हृदयेनद्विवक्त्रन्तु द्विनासी च षडक्षिकम् ।
त्रिमेखलं त्रिपादञ्च चतुश्रङ्गं द्वयं शिरः ॥ ११-१८ ॥

प्. ५५) सोपवीतं जटामौलिमुक्षारूढं सिताननम् ।
सप्तहस्तं सुदीप्ताङ्गं सप्तजिह्वासमावृतम् ॥ ११-१९ ॥

हिरण्याकनकारक्ता कृष्णा च सुप्रभा तथा ।
अतिरिक्ता बहुरूपा जिह्वा सप्तप्रकीर्तिताः ॥ ११-२० ॥

हिरण्यावारुणे जिह्वा कनकामध्ये व्यवस्थिताः ।
रक्ताचोत्तरजिह्वा स्यात् कृष्णायाम्यादिशि स्थिता ॥ ११-२१ ॥

सुप्रभा पूर्वजिह्वा स्यादतिरक्ताग्नौ व्यवस्थिता ।
बहुरूपे शदिक्भागे जिह्वास्थानं प्रकीर्तिताः ॥ ११-२२ ॥

अग्निरूपमिदं गुह्यं सर्वशान्त्यर्थमुच्यते ।
एवं रूपं स्मरन्नित्यं जातकर्मसमाचरेत् ॥ ११-२३ ॥

पुरुष्टु तेन चैशेन गन्धाद्यैः सुप्रपूजयेत् ।
नामकर्मसमाख्यातं पञ्चसंस्कारकं स्मृतम् ॥ ११-२४ ॥

प्रागग्रैश्चोदगग्रैश्च कुशैः कुण्डे परिस्तरेत् ।
त्रयः परिधयः प्रोक्ताः पश्चिमेदक्षिणोत्तरे ॥ ११-२५ ॥

वह्नावीशे समिच्चेत् तु मेखलोपरिनिक्षिपेत् ।
दक्षिणे ब्रह्मणस्थानं पद्माकारं प्रकल्पयेत् ॥ ११-२६ ॥

प्रणीतामुत्तरे स्थाप्य विष्णुस्तस्याधि दैवतम् ।
बीजमुख्येन मन्त्रेण ब्रह्मविष्णू च पूजयेत् ॥ ११-२७ ॥

लोकपालास्तथा पूज्या मेखलोपरिदेशिकः ।
आज्यस्थालिं चरुस्थालीं प्रणीतां प्रोक्षणीं तथा ॥ ११-२८ ॥

होमद्रव्याणि पात्राणि वामपार्श्वे विचक्षणः ।
दर्भोपरि तथा द्वंद्वं दैवस्यपि तुरेकशः ॥ ११-२९ ॥

पात्राण्युद्वापयेद्विद्वान् सर्वद्रव्याणिशेषतः ।
इन्धनाज्यसमित् क्षीर दधीमधु चरूणि च ॥ ११-३० ॥

लाजसक्तूतिलं मुद्गमाढकीमाष एव च ।
सर्षपं धवनिवारौ फलापूपौ दशाष्टधा ॥ ११-३१ ॥

प्रोक्तान्येतानि सर्वाणि नित्यादौ होमयेत् क्रमात् ।
नित्येन्धनादयः सप्त ह्यथवा होमकर्मणि ॥ ११-३२ ॥

प्रणीतांभसि सौम्ये तु सर्वतीर्थानि कल्पयेत् ।
दक्षिणे होमद्रव्याणि प्रोक्षणीञ्च न्यसेत् क्रमात् ॥ ११-३३ ॥

प्. ५६) प्राङ्मुखोदङ्मुखोवापि होमं कुर्याद् विशेषतः ।
आज्यशुद्धिन्ततः कुर्यात् पर्यग्नि प्लवनं क्रमात् ॥ ११-३४ ॥

संप्लवनं कुशेनैव कुशाग्रौ तत्र निक्षिपेत् ।
अदिते न्वादिमन्त्रेण सर्वत्र परिषेचनः ॥ ११-३५ ॥

जलेन स्पर्शनं कृत्वा वह्नौ सन्तप्प्यतं स्रवम् ।
पञ्चविंशद्धुनेद्धिमानग्निबीजन्तु संस्मरन् ॥ ११-३६ ॥

अन्नप्राशनमेवं हि अन्यकर्मणिकारयेत् ।
हृदयेन तु मन्त्रेण सप्तसप्ताहुतिर्जपेत् ॥ ११-३७ ॥

वक्त्रक्रियादिकं सर्वं हृदयेन तु कारयेत् ।
शिवाग्निजनितौ ह्येवं पश्चात् संकल्प्य विष्टरम् ॥ ११-३८ ॥

अग्निमध्ये ततोमंत्री ह्यब्जं संकल्पयेत् प्रभोः ।
पूर्ववत् कल्पयित्वा तु तत आवाहयेच्छिवम् ॥ ११-३९ ॥

आवाहनादियत् कर्म पूर्वोक्तविधिना ततः ।
होमं कुर्याच्छिवे नांगैर्विद्यांगैर्ब्रह्मभिस्तथा ॥ ११-४०


विद्येशान् लोकपालांश्च अस्त्रशक्तिसमायुतान् ।
गन्धपूष्पादिनाभ्यर्च्य होमयेत् तु विचक्षणः ॥ ११-४१ ॥

शिवे दशाहुतिं हुत्वा ह्यन्येष्वेकाहुतिर्भवेत् ।
सर्वद्रव्यसमायुक्तं शिववक्त्रे नियोजयेत् ॥ ११-४२ ॥

शिवब्रह्माङ्ग विद्याङ्ग घृतादीनिहुनेत् तथा ।
सहस्रं वा तदर्धं वा तदर्धार्धमथापि वा ॥ ११-४३ ॥

शतमष्टोत्तरं वापि पञ्चविंशति षोडश ।
द्रव्यान्ते व्याहृतिं हुत्वा तदादौपरिषेचनम् ॥ ११-४४ ॥

एवं विधि क्रमेणैव होमयेत् साधकोत्तमः ।
वर्णं गन्धं ध्वनीधूमं शिखामग्नौ सुलक्षयेत् ॥ ११-
४५ ॥

वज्रकाञ्चनरौप्याभं सिन्दूरेन्दु समप्रभम् ।
आदित्योदयवर्णाभं हरितालसमप्रभम् ॥ ११-४६ ॥

वैडूर्यद्युति संकाशं पिङ्गलञ्च स्वभावतः ।
तप्तायससुवर्णाभा दशवर्णाः प्रकीर्तिताः ॥ ११-४७ ॥

चन्दनागरु कर्पूरकच्चोलजाति गन्धवत् ।
मल्लिका पाटलीगन्धमन्दारञ्च सुगन्धिकम् ॥ ११-४८ ॥

प्. ५७) उशीरनागपुन्नाग चंपकन्तु सुशोभनम् ।
शखभेर्यादिनिर्घोषं मेघदुन्दुभिनिस्वनम् ॥ ११-४९ ॥

सर्वसंपत्करं घोषं धूपञ्चैव ततः शृणु ।
कुन्दपुष्पसमाकारं श्यामलाक्षाकृतिं शुभम् ॥ ११-५० ॥

शुकपिञ्छनिभाकारं धूमञ्चाप्युत्तमं भवेत् ।
स्वस्त्या कृति समाकाराच्छत्राकारोर्ध्वगामिनी ॥ ११-५१ ॥

शिखाशिखी प्रतीकाशा कदंबमुकुला कृतिः ।
यस्य होमेशिखा ह्येषा तस्य सिद्धिर्न्न संशयः ॥ ११-५२ ॥

एवमादि शुभं ज्ञात्वा कारयेत् तन्त्र वित्तमः ।
पूर्णाहुतिं ततः कृत्वा शिवमन्त्रेण देशिकः ॥ ११-५३ ॥

शिवं पूर्वं विसृज्यात्र पच्छादग्निं विसर्जयेत् ।
अग्निकार्यस्य चान्ते तु प्राणाग्नि होममाचरेत् ॥ ११-५४ ॥

तत्पार्श्वे वह्निशालायां भोजनस्थानमुच्यते ।
तत् स्थानं गोमयालिप्तं शुद्धिं कृत्वा विशेषतः ॥ ११-५५ ॥

पिष्टचूर्णैरलङ्कृत्य सवितानं सदीपकम् ।
तांम्रकांस्य कटल्यादि पात्रेष्वेक तमेशुभे ॥ ११-५६ ॥

पात्रशेषाणि संयोज्य आत्मस्थं शिवमर्चयेत् ।
आत्मा हि यजमानोसौबुद्धिस्तत्पत्निका स्मृता ॥ ११-५७ ॥

हृत् पुण्डरीकवेद्याञ्च अन्तस्थाग्नौ सुपूजयेत् ।
रोमदर्भान् परिस्तीर्य ह्योंकारं शिवसंयुतम् ॥ ११-५८ ॥

उच्चार्य परिषिच्याथ पादावभ्युक्ष्यमन्त्रवित् ।
अमृतोपेति मन्त्रेण जलं पीत्वा विशेषतः ॥ ११-५९ ॥

अनामिमध्यमाङ्गुष्ठ युक्ताभ्यन्नं शनिः शनैः ।
पञ्चप्राणाहुतिं हुत्वा प्राणमन्त्रैस्तु पञ्चभिः ॥ ११-६० ॥

तत्पात्र स्पर्शनं कृत्वा पश्चात् भुञ्जीत बुद्धिमान् ।
आचम्य च विधानेन आदित्याभिमुखं स्थितः ॥ ११-६१ ॥

उदरं शिवमन्त्रेण दक्षिणाभिमृशेत् ततः ।
दक्षिणाङ्गुष्ठके नाथ पादाङ्गुष्ठे तु दक्षिणे ॥ ११-६२ ॥

प्. ५८) स्रवन्तोयं शिवं स्मृत्वा हृन्मन्त्रन्तु समुच्चरन् ।
चुलुकोदकमेवं स्यात् स्वात्मानं पादमूलतः ॥ ११-६३ ॥

प्राणाग्निहोत्रमित्येतं नित्यमेवमुदाहृतम् ।
आचार्यमूर्तिमास्थाय पाशौघान् कृन्ततीश्वरः ॥ ११-६४ ॥

पूजां गृह्णाति लिङ्गस्थो वह्निस्थो हविराहुतिम् ।
अग्निकार्यमिदं प्रोक्तं शृणुत्वंकुण्डलक्षणम् ॥ ११-६५ ॥

इति अग्निकार्यविधि पटल एकादशः ॥ ११ ॥


 अथ कुण्डलक्षण पटलः

अथातः संप्रवक्ष्यामि कुण्डलक्षणमुत्तमम् ।
प्रतिष्ठाद्युत्सवे काले मण्डपङ्कारयेत् बुधः ॥ १२-१ ॥

प्रासादपुरतोभागे प्रतिष्ठायां विशेषतः ।
ईशाने पार्श्वके चैन्द्रे कल्पयेत् तु विशेषतः ॥ १२-२ ॥

महानसेन्यधाग्नेय्यां नित्याग्न्यायतनं बुधः ।
अनुक्तेषु च येज्ञेषु उक्तदेशे विधीयते ॥ १२-३ ॥

उत्तमन्दशहस्तं स्यान्मध्यमं नवहस्तकम् ।
अधमं सप्तहस्तं स्यान्मण्डपं त्रिविधं मतम् ॥ १२-४ ॥

षोडशस्तंभसंयुक्तं द्वादशस्तंभमेव वा ।
दिशश्च विदिशश्चैव नच्छिद्रं व्योमसंपदम् ॥ १२-५ ॥

चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।
स्थलन्तालसमुत्सेधमथवा च षडङ्गुलम् ॥ १२-६ ॥

दर्भमालाभिरावेष्ट्य पुष्पामालोपशोभितम् ।
वितानैरूर्ध्वमाच्छाद्यमुक्तादामैरलङ्कृतम् ॥ १२-७ ॥

तत् त्रिभागैक भागेन वेदिं मध्ये प्रकल्पयेत् ।
हस्तमात्रसमुत्सेधं दर्पणोदरसन्निभम् ॥ १२-८ ॥

तत् पूर्वे चतुरश्रं स्यादाग्नेय्यान्तु भगाकृतिः ।
अर्धचन्द्रस्तु याम्यायां नै-ऋत्यान्तु त्रिकोणकः ॥ १२-९ ॥

वारुण्यां वर्त्तुलं कुण्डं षट्कोणञ्चैव वायवे ।
उत्तरे पद्मकुण्डन्तु ऐशान्न्यामष्टकोणकम् ॥ १२-१० ॥

प्. ५९) ऐन्द्रशाङ्करयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ।
नित्यहोमाग्नि कुण्डन्तु हस्तमात्रप्रमाणतः ॥ १२-११ ॥

शतार्धाहुति कुण्डस्यमुष्टिमात्रप्रमाणतः ।
रत्निः स्याच्छतसङ्ख्यायाः सहस्रे करसंहितम् ॥ १२-१२ ॥

द्विकरं दशसाहस्रे चतुर्हस्तन्तु लक्षके ।
षट्करं दशलक्षे तु कोट्याहुत्यष्टहस्तकम् ॥ १२-१३ ॥

कुण्डविस्तारमाख्यातं कुट्यूर्ध्वेऽष्टकरं मतम् ।
अनुक्तमानाहुतयश्चोक्त कुण्डेषु होमयेत् ॥ १२-१४ ॥

चतुरश्रस्यकुण्डस्य लक्षणं शृणु सांप्रतम् ।
प्राङ्मुखानि त्रिसूत्राणि उदङ्मुखानि तथैव च ॥ १२-१५ ॥

एवं विन्यस्यमानेस्याच्चतुरश्रञ्चतुष्पदम् ।
योन्यादि सर्वकुण्डानि चतुरश्रोद्भवानि हि ॥ १२-१६ ॥

कोणे ग्राह्या चतुर्थांशं तद्भागेन तु वर्तयेत् ।
क्षेत्रस्यार्धावधिर्यावत् तथान्यं भ्रमयेत् क्रमात् ॥ १२-१७ ॥

कर्णायामस्य सप्तांशं पूर्वायादिशिविन्यसेत् ।
तस्माच्च पादयेत् सूत्रौ भवेदश्वत्थ पत्रवत् ॥ १२-१८ ॥

दशभाग कृतं क्षेत्रं द्विभागन्तु व्यपोह्य च ।
मध्येऽष्टांशं परिग्राह्य भ्रामयेदर्धचन्द्रवत् ॥ १२-१९


पञ्चभाग कृतं क्षेत्रं द्विभागौ पार्श्वयोर्न्यसेत् ।
तेनमानेन सूत्रेण द्विसूत्रञ्चाग्रसंयुतम् ॥ १२-२० ॥

तत्र सूत्रत्रयं कृत्वा तत् त्रिकोणमिहोच्यते ।
अष्टादशकृतं क्षेत्रमेकभागं बहिर्न्यसेत् ॥ १२-२१ ॥

तस्मान्मध्यं गृहीत्वैव भ्राम्यतद्वर्तुलं स्मृतम् ।
तत् क्षेत्रमष्टधा कृत्वा भागैकं पार्श्वयोर्बहिः ॥ १२-२२ ॥

तयोर्मध्यं गृहीत्वार्धं सूत्रेणैव पुरा तथा ।
षट्सूत्रं परितः कृत्वा षट्कोणन्तद्भवेदिह ॥ १२-२३ ॥

वर्तुलं पूर्ववत् कृत्वा मध्यमेकर्न्निकान्न्यसेत् ।
षोडशंदलसंयुक्तं दलाग्रं दर्शयेद् बहिः ॥ १२-२४ ॥

पद्मकुण्डमिदं प्रोक्तं सर्वकामार्थसाधनम् ।
चतुर्विंशति भागैकं बाह्ये दिक्षु व्यवस्थितम् ॥ १२-२५ ॥

प्. ६०) मध्यात् कोणं गृहीत्वा तु अष्टसूत्रं समर्पयेत् ।
अष्टकोणमिदं प्रोक्तमितिशास्त्रस्य निश्चयः ॥ १२-२६ ॥

यावन्मात्रन्तु विस्तारन्तावद् घातप्रमाणकम् ।
कुण्डस्ययाद्रशं रूपन्तादृशि मेखला भवेत् ॥ १२-२७ ॥

त्रिमेखलन्तु कर्तव्यमेकमेखलमेव वा ।
चतुरङ्गुलमुत्सेधं विस्तारं तत् प्रमाणतः ॥ १२-२८ ॥

एकमेखलमेवं स्यात् त्रिमेखलमथ शृणु ।
चतुरङ्गुलं भवेदूर्ध्वं मध्यमन्त्र्यङ्गुलं भवेत् ॥ १२-
२९ ॥

अधस्तात् द्व्यङ्गुलं प्रोक्तं विस्तारोत्सेधमेव हि ।
अश्वत्थ पत्रवद्योनि मेखलोपरिविन्न्यसेत् ॥ १२-३० ॥

एकाङ्गुलन्तदुत्सेधं विस्तारञ्चतुरङ्गुलम् ।
सप्ताङ्गुलन्तु दैर्घ्यं स्यादेकाङ्गुलन्तु नालकम् ॥ १२-३१ ॥

कुण्डानां लक्षणं प्रोक्तं स्थण्डिलञ्चेत् तु पूर्ववत् ।
चतुरङ्गुलमुत्सेधं दर्पणोदरसन्निभम् ॥ १२-३२ ॥

एकाङ्गुलन्तदुत्सेधमष्टाङ्गुल सुविस्तृतम् ।
प्रणिता स्थानमेवं स्यात् ब्रह्मस्थानं तथा भवेत् ॥ १२-३३ ॥

चतुरश्रं प्रणिताया ब्रह्मणे पद्ममेव च ।
विना वा केवलं स्थाप्य स्थलमात्रे यजेदुभौ ॥ १२-३४ ॥

सिकतैस्थण्डिलञ्चेत् तु स्यात् कुर्याद् धस्तमात्रकम् ।
हस्तमात्रस्य कुण्डस्य लक्षणं कीर्तितं क्रमात् ॥ १२-३५ ॥

द्विहस्तादीनिकुण्डानि कृत्वैवं मेखलादिकान् ।
अङ्गुलाङ्गुलवृद्ध्या तु विस्तारोत्सेधतः समान् ॥ १२-३६ ॥

समन्तात् सुसमान् कृत्वा ह्योष्ठ कुण्डस्य चापरि ।
एकाङ्गुलेन हस्तस्यान्मेखलायाः सुमध्यमे ॥ १२-३७ ॥

अङ्गुलाङ्गुल वृध्यातु मानाधिक्येषु कारयेत् ।
अथवाङ्गुलिभिः षट्भिश्चतुर्भिश्चाष्ट हस्तके ॥ १२-३८ ॥

कुण्डानां लक्षणं प्रोक्तं नित्योत्सवमथ शृणु ।

इति कुण्डलक्षण पटलोद्वादशः ॥ १२ ॥


प्. ६१) अथ नित्योत्सवविधि पटलः

अथातः संप्रवक्ष्यामि नित्योत्सव विधिक्रमम् ।
त्रिकालमर्चनान्ते तु क्रतोर्बलिरुदाहृतम् ॥ १३-१ ॥

सर्वेषाञ्च बलिं कुर्यात् ततो बलिरिति स्मृतम् ।
यक्षराक्षस पैशाच भूतनागास्तथैव च ॥ १३-२ ॥

श्रुत्वैव तद्बलेःशब्दं सद्योगच्छन्ति बाह्यतः ।
तस्मात् सर्वप्रयत्नेन कुर्यान्नित्योत्सवं बुधः ॥ १३-३ ॥

मण्डपाद्दक्षिणे भागे मण्डलञ्चतुश्रकम् ।
सौवर्णं राजतन्ताम्रं कांस्यं वा पात्रमुच्यते ॥ १३-४ ॥

चतुस्त्रिद्वियवं पात्रघनंस्यादुत्तमादिके ।
विस्तारं हस्तमानं स्यादोष्ठन्नवमथाङ्गुलम् ॥ १३-५ ॥

घनं नवचतुष्कं स्यात् पात्रमेध्येऽब्जमुच्यते ।
त्रिभागैकन्तु विस्तारं पात्रं काम्स्ये न कारयेत् ॥ १३-६ ॥

तस्याब्जस्योच्चंद्व्यङ्गुल्यमेकाङ्गुलमथापि वा ।
कर्तव्यं कर्णिका बाह्ये दलाष्टकमथार्धतः ॥ १३-७ ॥

उत्सेधार्द्धं तदर्द्धं स्याद्दलाग्रन्तु नवोन्नतम् ।
पात्रं वृत्तं प्रकर्तव्यं मध्यमे विंशदङ्गुलम् ॥ १३-८ ॥

अधमे षोडशाङ्गुल्यं पात्र विस्तारमुच्यते ।
एवं कृत्वा बलेः पात्रं मण्डले विन्यसेत् सुधीः ॥ १३-९ ॥

तत स्त्रिकालमन्नेन बलिर्लिङ्गस्यचोत्तमम् ।
प्रातर्मध्याह्नमन्नेन मध्यन्तु विदुर्बुधाः ॥ १३-१० ॥

मध्याह्ने चान्नलिङ्गन्तु अधमन्तत् गजानन ।
पूर्वाह्णे पुष्पलिङ्गन्तु सा ये तण्डुलमेव च ॥ १३-११ ॥

उत्तमस्याढकञ्च स्यान्मध्यमस्य तदर्धकम् ।
अधमं पञ्चपादन्तु तण्डुलं पाचयेत् क्रमात् ॥ १३-१२ ॥

अपक्वमति पक्वञ्च अत्युष्णमतिशीतलम् ।
बलेस्तुरसलवणं वर्जयेद् देशिकोत्तमः ॥ १३-१३ ॥

प्. ६२) दधिसर्पिफलैर्मिश्रं मर्दितं सुदृधं यथा ।
षोडशाङ्गुलमुत्सेधं (-थं) मूलन्तद्विगुणं भवेत् ॥ १३-
१४ ॥

ऊर्ध्वं त्रयङ्गुलन्नाहमानुपूर्वात् क्षयं भवेत् ।
मध्यमं द्वादशाङ्गुल्यमूर्ध्वं कुर्यात् द्वयाङ्गुलम् ॥
१३-१५ ॥

अष्टाङ्गुलाधमं प्रोक्तमूर्ध्वमेकाङ्गुलं भवेत् ।
अस्त्रं पाशुपतन्न्यस्त्वा रूपन्तत्र विचिन्तयेत् ॥ १३-१६ ॥

त्रिणेत्रं चतुर्भुजं रौद्रं शिखाकोटिसमुज्वलम् ।
वरदाभयदं हस्तं वामं सव्याक्षशूलधृत् ॥ १३-१७ ॥

एवं पाशुपतं ध्यात्वा बलिलिंगेसु पूजयेत् ।
दर्शयेदस्त्रमुद्रान्तु शास्त्रमुद्रान्तु देशिकः ॥ १३-१८ ॥

नमस्काराब्जमुद्रे च दर्शयेत् तु विशेषतः ।
गन्धपुष्पादिनाभ्यर्च्य तद्रूपं प्रतिमां बुधः ॥ १३-१९ ॥

पुरस्तात् प्रतिमाङ्गच्छेदन्नादिकमनु व्रजेत् ।
दशायुधानि परितः सर्वालंकारसंयुतम् ॥ १३-२० ॥

विधिस्नानं पुराकृत्वा पुर्यष्टिपरिचारकाः ।
शुक्लोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः ॥ १३-२१ ॥

पवित्रपाणिर्मौनी च हस्तमात्रेण दण्डधृत् ।
सर्वाभरणसंयुक्तः सर्वावयवसुन्दरः ॥ १३-२२ ॥

शिरसाधारयेल्लिङ्गं प्रदक्षिण विशेषतः ।
पूर्वाह्णे ब्रह्मणः प्रीतिर्भवेत् बलिविधानतः ॥ १३-२३ ॥

रक्तोष्णी षोत्तरीयश्च शुक्लमाल्यानुलेपनः ।
मध्याह्ने धारयेन्नित्यं मम प्रीतिकरं भवेत् ॥ १३-२४ ॥

पीतोष्णी षोत्तरीयश्च विष्णु प्रीतिस्तु सायके ।
दक्षिणाभिमुखः शिष्यं संप्रोक्ष्य हृदयेन तु ॥ १३-२५ ॥

गन्धं पुष्पन्तथा दत्वा पात्रं शिरसिविन्यसेत् ।
रंगेवाशिबिकायां वा गजारूढमथापि वा ॥ १३-२६ ॥

अथवा पादगमनं प्रदक्षिणमथाचरेत् ।
पटहैर्मद्दलैश्चैव झल्लरी जयघण्टकैः ॥ १३-२७ ॥

प्. ६३) काहलैस्तालकैः शंखैर्वीणावेणुरवैः सह ।
छत्रध्वजसमायुक्त पिञ्छचामरसंयुतम् ॥ १३-२८ ॥

धूपदीपसमायुक्तं वितानोपरिशोभितम् ।
नृत्तगीतसमोपेतं गणिकाभिरलंकृतम् ॥ १३-२९ ॥

अन्यैर्भक्तजनैः सार्धं स्तोत्रध्वनिसमन्वितम् ।
पूर्वे तु समहस्तं स्यात् भृंगिणी पततं परम् ॥ १३-३० ॥

तृतीयं कद्रुवाद्यञ्च चतुर्थन्तु च ढक्ककम् ।
पञ्चमं कयटञ्चैव कुञ्चितालञ्च षष्ठकम् ॥ १३-३१ ॥

सप्तमन्तु प्रहारं स्याद्विषमच्छिन्नचाष्टमम् ।
बाह्य पीठैकमावृत्य प्रासादाग्रप्रदक्षिणम् ॥ १३-३२ ॥

इन्द्रस्य शुभ्रतालन्तु अग्नेर्बाद्धावणं भवेत् ।
यमस्यद्व्यगुणीतालं नि-ऋतौमल्लतालकम् ॥ १३-३३ ॥

वारण्यान्नवतालन्तु वायोर्वैनागतालकम् ।
सोमस्य कोल्लिका प्रोक्ता ईशानस्य तु ढक्करी ॥ १३-३४ ॥

इत्येतैः कल्पितास्तालैः प्रासादं त्रिःप्रदक्षिणम् ।
कृत्वा पादौ सुसंक्षाल्यपादुकार्चनमारभेत् ॥ १३-३५ ॥

पाद्यैराचमनैरर्घ्यैर्गन्धैः पुष्पैः सुधूपकैः ।
बलिञ्च प्रथमञ्चैव पूजयेत् तु विशेषतः ॥ १३-३६ ॥

विदोलयं ततः पश्चाद्विन्यस्य पूर्वमण्डले ।
गन्धपुष्पादिनाभ्यर्च्य हृदयेन तु मन्त्रवित् ॥ १३-३७ ॥

प्रागुक्तेनास्तमन्त्रेण शिव संयोजयेत् सुधीः ।
संपूज्य देवदेवेशं नमस्काराख्यमुद्रया ॥ १३-३८ ॥

सव्यापसव्यमार्गेण त्रिःकृत्वा तु प्रदक्षिणम् ।
दण्डवत् प्रणमेद्वाथ दण्डाख्यमिति च स्मृतम् ॥ १३-३९ ॥

दण्डाख्यः श्रूयते पश्चादष्टाङ्गं सन्नियोजयेत् ।
शिरोजानू च कर्णौ च चिबुकं बाहुकद्वयम् ॥ १३-४० ॥

अष्टांगेन नमस्कुर्यात् पञ्चाङ्गोप्यत्र तं शृणु ।
शिरोहस्तौ द्विजानू च कृत्वा पञ्चभुवि स्थितम् ॥ १३-४१ ॥

प्. ६४) इदं पञ्चाङ्गमेवन्तु नमस्कारत्रयं स्मृतम् ।
अधमं ह्येतदाख्यातं यथा शक्त्येनकारयेत् ॥ १३-४२ ॥

ततोपहारपुष्पाणि चण्डेशायनि वेदयेत् ।
अन्नलिङ्गञ्जले वापि बाह्यपीठे विनिक्षिपेत् ॥ १३-४३ ॥

तदन्ते कारयेन्नृन्तं तदुक्तविधिनासह ।
तदुपाङ्गमिति प्रोक्तमर्चनान्ते तु नित्यशः ॥ १३-४४ ॥

चित्रालङ्कारसंयुक्ते मण्डपे समलंकृते ।
भेर्यादींस्तु तथा यान्ती * * *शिवसंस्थितान् ॥ १३-४५ ॥

नर्त्तको मर्दकश्चैव दक्षिणे तु व्यवस्थितौ ।
गायकोवंशकश्चैव उत्तरे विनिवेशितम् ॥ १३-४६ ॥

आचार्यौ दक्षिणे देशे सौम्ये तस्याधिप स्मृतम् ।
सुस्नात्वा सम्यगाचम्य गन्धद्रव्यादिपूर्वकम् ॥ १३-४७ ॥

शुक्लवस्त्रपरिधानाः शुक्लमाल्योपशोभिता ।
सर्वाभरणसंपूर्णा नृत्तगेयसुपेशला ॥ १३-४८ ॥

पूर्वासन्ध्यास्तु गान्धारं षाडपञ्च ततः परम् ।
मध्याह्ने नट्टरागं स्यात् कौशिकञ्च ततः परम् ॥ १३-४९ ॥

साये तु चेदकं प्रोक्तमर्धरात्रे तु पञ्चमम् ।
भरतोक्तं यथा नृत्तं सन्धिं प्रतिसुकारयेत् ॥ १३-५० ॥

एवं नृत्तं कृतं यत्र सुभिक्षं लोकशान्तिकम् ।
दुर्निमित्तानि नश्यन्ति क्षेत्रमारोधकं नृणाम् ॥ १३-५१ ॥

ककाराधि पतिश्चापि भोगमोक्षप्रादायकम् ।
कवाटबन्धनं कृत्वा स्वगृहं सन्निवेशयेत् ॥ १३-५२ ॥

एवं नित्योत्सवं प्रोक्तमुत्सवञ्च ततः शृणु ।

इति नित्योत्सवविधि पटलस्त्रयोदशः ॥ १३ ॥


प्. ६५) अथ शिवोत्सवविधि पटलः

अथातः संप्रवक्ष्यामि शिवोत्सवविधिं शृणु ।
नवाहमुत्तमं प्रोक्तं सप्ताहं मध्यमं स्मृतम् ॥ १४-१ ॥

पञ्चाहमधमं प्रोक्तमुत्सवं त्रिविधं स्मृतम् ।
अलाभे तु प्रकर्तव्यौ त्रयहैकाहकौ तथा ॥ १४-२ ॥

आद्येषु च त्रितीयेषु ध्वजारोहणमारभेत् ।
न ध्वजारोहणं प्रोक्तं द्वितये तु तथोत्सवे ॥ १४-३ ॥

तद्दिनं त्रिगुणि कृत्य तदादौध्वजमुद्धरेत् ।
द्विगुणे तद्दिनादौ वा ध्वजमारोप्य बुद्धिमान् ॥ १४-४ ॥

ध्वजारोहणपूर्वं वा भेरीताडनपूर्वकम् ।
त्रिगुणे द्विगुणे काले कारयेद् देशिकोत्तमः ॥ १४-५ ॥

अङ्कुरार्पण पूर्वे तु आदिरात्र्यङ्कुरार्पणम् ।
कृत्वा भेरीन्तु सन्ताड्य ध्वजमारोपयेत् ततः ॥ १४-६ ॥

उत्सवे च प्रतिष्ठायं सायादिदिनमुत्तमम् ।
प्रातः काले ह्यवभृथं सायङ्काले समारभेत् ॥ १४-७ ॥

रात्रिः सायाह्नि वा प्रातरितिशास्त्रस्य निश्चयः ।
नवाहेऽष्टादशबलिं सप्ताहे तु चतुर्दश ॥ १४-८ ॥

पञ्चत्रयैक ऋक्षषु दशषट्द्वितयं बलिम् ।
एवं कृते तु मतिमान् लोकशान्तिकरं भवेत् ॥ १४-९ ॥

कृत्तिकादिषु मासेषु कार्तिके कृत्तिकान्तकम् ।
मार्गशीर्षकमासेषु आर्द्रान्तन्तु शिवोत्सवम् ॥ १४-१० ॥

पुष्यान्तं पौष्यमासे तु मघान्तं माघमासके ।
फाल्गुने चोत्तरान्तं स्यात् चित्रान्तञ्चैत्रमासके ॥ १४-११ ॥

विशाखान्तं हि वैशाखे ज्येष्ठे मूलान्तकं भवेत् ।
उत्तराषाढमाषाढे श्रावणे श्रवणान्तकम् ॥ १४-१२ ॥

पूर्वाभाद्रे तथा मासे पूर्वाभाद्रान्तमुच्यते ।
आश्वन्तमश्वयुङ्मासे उत्सवं कारयेत् बुधः ॥ १४-१३ ॥

आर्द्रान्तं सर्वमासेषु कर्तव्यन्तु शिवोत्सवम् ।
षष्ठ्यष्टमीह्यमावास्यान्ते वान्यत् पुण्य ऋक्षके ॥ १४-१४ ॥

प्. ६६) राज्ञन्मन्य विलये युद्धारंभे समारभेत् ।
विस्तारेणसमं पुच्छं त्रिपुच्छं वा द्विपूच्छकम् ॥ १४-१५ ॥

मध्ये वृषभमालिख्य स्थितं वा शयनन्तु वा ।
दर्भमालासमायुक्तं किंकिणिवरकान्वितम् ॥ १४-१६ ॥

ग्रामप्रदक्षिणं कृत्वा चालयं वा प्रदक्षिणम् ।
वेणुं वा क्रमुकं वापि चन्दनञ्जातिबिल्वकम् ॥ १४-१७ ॥

सालस्तं भञ्चखदिरञ्चंपंकं देवदारुकम् ।
नालिकेरतरुं वापि निर्णितं सुदृढध्वजम् ॥ १४-१८ ॥

प्रासाद त्रिगुणं दैर्घ्यं द्विगुणं वा ततः समम् ।
शिखरग्रीवसीमान्तं वृषभस्थलसंमतम् ॥ १४-१९ ॥

तथा द्वित्रितलान्तं वा गोपुरान्तमथापि वा ।
षट्त्रिंशदंगुलन्नाहं ध्वजदण्डं विधीयते ॥ १४-२० ॥

त्रिंशदंगुलके नाथ चतुर्विंशन्तु वाङ्गुलम् ।
उत्तमादधमन्नाहं ग्राह्यमेवं सुदण्डके ॥ १४-२१ ॥

घटिकात्रयसंयुक्तं विस्तारेऽष्टाङ्गुलेन तु ।
तत् घनञ्चतुरङ्गुल्यं त्रिभिरङ्गुलिभिस्तु वा ॥ १४-२२ ॥

दैर्घ्यन्तु द्वादशाङ्गुल्यं षोडशाङ्गुल्यकन्तु वा ।
दण्डे तु सुषिरं कृत्वा सुस्निग्धन्तु यथा तथा ॥ १४-२३ ॥

घटिकात्रयकं न्यस्य तेष्वन्तस्थं सवैणवम् ।
दण्डाग्रेण समं कुर्यादग्रं वेणवकस्य तु ॥ १४-२४ ॥

दण्डञ्चाप्यथवा कुर्यात् घट्यन्तस्थं सुनिश्चलम् ।
वैणवस्य तु दैर्घ्यन्तु द्वादशन्तालमुच्यते ॥ १४-२५ ॥

अथवा षोडशन्तालं चतुर्दशन्तालमेव वा ।
दशतालन्तु वा ग्राह्यं द्वादशाङ्गुल नाहकम् ॥ १४-२६ ॥

तस्यार्धार्धश्च मात्रे तु वलयन्त्वायसेन तु ।
यन्त्रार्थं बन्धयेद्धीमानलाभे दारुणा भवेत् ॥ १४-२७ ॥

तदन्ते रज्जुसंवेश्य द्विगुणं मूलमाश्रितम् ।
मध्यमाङ्गुलिनाहन्तु तन्तुना सुदृढं कृतम् ॥ १४-२८ ॥

पीठगोपुरयोर्मध्ये वृषभस्याग्रतोऽपि वा ।
कलयेन्मध्यहारायां मध्यादेर्मध्यमेपि वा ॥ १४-२९ ॥

प्. ६७) भूमिं खात्वोरुमात्रन्तु हैमन्तत्रैव निक्षिपेत् ।
दण्डं संस्थाप्य पूर्वन्तु दर्भमालासमावृतम् ॥ १४-३० ॥

चतुस्तालन्तु विस्तारादुत्सेधं द्वितलान्तकम् ।
दर्पणोदर संकाशं ध्वजपीठं विधीयते ॥ १४-३१ ॥

पञ्चतालन्तु विस्तारमुत्सेधन्तु त्रितालकम् ।
उत्तमोत्तमपीठस्य मध्यमस्योर्ध्वमुलतः ॥ १४-३२ ॥

तयोर्मध्येऽष्टधाभज्यध्वजपीठानव स्मृताः ।
ध्वजमारोपयेत् तत्र रज्जुयन्त्रेण बुद्धिमान् ॥ १४-३३ ॥

प्रासादाभिमुखं स्थित्वाप्य घोरास्त्रेणमन्त्रतः ।
ध्वजदण्डेन संबध्वा रोपयेद्विधिपूर्वकम् ॥ १४-३४ ॥

प्रासादस्याग्रतः कुर्यात् मण्डपं चतुरश्रकम् ।
स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥ १४-३५ ॥

सर्वदेवमयं शूलं स्थण्डिलोपरिविन्यसेत् ।
मध्यपत्रे भवेद् रुद्रो ब्रह्मादक्षिण पत्रके ॥ १४-३६ ॥

वामपत्रे ततो विष्णु स्त्रिपत्रस्याधिदैवतम् ।
वामे ज्येष्ठान्तु रौद्रीन्तु शूलमूले प्रकल्पयेत् ॥ १४-३७ ॥

फलकास्कन्ददैवत्या कुंभन्तत्रैव वारुणम् ।
स्थली चैवाग्निदैवत्यं दण्डस्य तु सरस्वती ॥ १४-३८ ॥

पीठस्य पार्वती प्रोक्ता भूमिभागे वसुन्धरा ।
गन्धादिभिः समभ्यर्च्य तदग्रे कलशान्न्यसेत् ॥ १४-३९ ॥

विद्येश्वरसमायुक्तां मध्ये वृषभदैवतम् ।
सकूर्चान् सा पिधानांश्च सहास्त्रान् स हिरण्यकान् ॥ १४-४० ॥

गन्धादिनार्चयित्वा तु स्वैस्वैर्नामभिरेव तु ।
तदग्रे स्थण्डिले स्थाप्य भेरीं वस्त्रेण वेष्टिताम् ॥ १४-४१ ॥

पटहं विष्णुदैवत्यं सुषिरं वायुदैवतम् ।
शब्दन्तत् ब्रह्मरूपं स्याद् रूपाभावस्तथैश्वरम् ॥ १४-४२ ॥

वासुकी चर्मसूत्रन्तु वलयौरविचन्द्रकौ ।
मातरः सप्तकीलास्तु प्रहारास्कन्ददैवतम् ॥ १४-४३ ॥

प्. ६८) अर्चयित्वा सुगन्धाद्यैर्हृदयेन विचक्षणम् ।
आचार्यं पूजयेत् पूर्वं वादकं तदनन्तरम् ॥ १४-४४ ॥

आचार्यो वाममन्त्रेण सन्ताड्य स्त्रिप्रकारतः ।
वादकस्ताडयेत् पश्चात् बलितालं विशेषतः ॥ १४-४५ ॥

गेयनृत्तादिसंयुक्तं दिशितालन्तु वादयेत् ।
तीक्ष्ण शृङ्गायविद्महे वेदपादायधीमहि ॥ १४-४६ ॥

तन्नो वृषभः प्रचोदयात् * * * * * * * ।
इमं मन्त्रमनुस्मृत्य रवन्दत्वा विशेषतः ॥ १४-४७ ॥

तन्मूलेकलशैः स्नाप्यमुद्गान्नन्तु निवेदयेत् ।
पुण्याहन्तत्र कर्तव्यं भेर्यारवमथाचरेत् ॥ १४-४८ ॥

शङ्खदुन्दुभिनिर्घोषैर्गीतनृत्तसमाकुलम् ।
सर्वालङ्कारसंयुक्तं त्रिशूलेनसमन्वितम् ॥ १४-४९ ॥

ग्रामप्रदक्षिणे काले सन्धिदेवान् समर्चयेत् ।
आवाह्य लोकपालांश्च बलिन्दत्वा विशेषतः ॥ १४-५० ॥

श्रावयेत् तीर्थदिवसानाचर्य प्रीतमानसः ।
त्रिशूलञ्च ध्वजन्नित्यं संपूज्य हविषान्वितम् ॥ १४-५१ ॥

उत्सवारंभ पूर्वे तु रथादीन् कारयेत् क्रमात् ।
यन्त्र डोलांदृढाञ्चित्र यन्त्र रंगांस्तथैव च ॥ १४-५२ ॥

यन्त्र देवालयांश्चैव मन्त्रमण्डपिकां तथा ।
भ्रमत् गजांश्चयन्त्रांश्च सिंहयन्त्रान्तथैव च ॥ १४-५३ ॥

वृषभं यंत्रिकांश्चैव कारयेत् सुविशेषतः ।
नानापिच्छान्विताञ्छत्रां नानाव्यजनमेव च ॥ १४-५४ ॥

नानाच्छत्रध्वजांश्चैव चामराण्यपि कारयेत् ।
देवालयमलङ्कृत्य बाह्यमभ्यन्तरं ततः ॥ १४-५५ ॥

द्वारतोरणविन्यासं कदली क्रमुकान्वितम् ।
देवालयस्य पुरतः प्रपाङ्कृत्वाति सुन्दराम् ॥ १४-५६ ॥

वितानो परिसञ्छन्नां मुक्तादामैरलङ्कृताम् ।
पुष्पमालासमायुक्तामलङ्कृत्य प्रपां क्रमात् ॥ १४-५७ ॥

स्तंभानावेष्ट्य वस्त्रैश्च फलपुष्प ध्वजान्वितान् ।
यागशालां ततः कुर्यात् पूर्वोत्खातस्य पार्श्वयोः ॥ १४-५८ ॥

प्. ६९) उत्तरे वाथ कर्तव्यमैशान्न्यां पावके तथा ।
मण्डपे वा दृढं कार्यं षोडशस्तंभसंयुतम् ॥ १४-५९


नवभागैकभागे तु मध्ये वेदीं प्रकल्पयेत् ।
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥ १४-६० ॥

कुण्डानिपरितः कुर्यादेककुण्डमथापि वा ।
गोमयेनोपलिप्यात्र नानापुष्पैः प्रकीर्य च ॥ १४-६१ ॥

सूक्ष्मैस्तण्डुल चूर्णैस्तु नानावर्णसुचूर्णकैः ।
वज्राङ्कुशं त्रिशूलञ्च चक्रं तत्र तथैव च ॥ १४-६२ ॥

पद्मञ्चैवोत्पलाङ्कञ्च नन्द्यावर्तकमेव च ।
कुम्भाभं मध्यचन्द्राभं वृक्षाकारांश्च लाञ्छयेत्
॥ १४-६३ ॥

वामां वा नगरादीं वा ह्यलङ्कृत्य विशेषतः ।
वीधयश्चोपवीध्यश्च निम्नोन्नतविवर्जिताः ॥ १४-६४ ॥

शोधयित्वा समांभूमिञ्जलसेकोपलेपनैः ।
पताकाभिर्ध्वजैश्चापि तथा काशद्ध्वजैरपि ॥ १४-६५ ॥

कदलीभिर्धूपदीपैर्द्वारकुंभैरथान्यकैः ।
साङ्कुरैच्छिद्र कुम्भैश्च पालिकाभिः समन्ततः ॥ १४-६६ ॥

वस्त्रैश्च गन्धमाल्यैश्च भवनं प्रतिभूषयेत् ।
ततोङ्कुरार्पणङ्कुर्यादुत्सवस्य दिनादितः ॥ १४-६७ ॥

यथाङ्कुरार्पणे प्रोक्ता तथा कुर्याद् विशेषतः ।
वेदिमध्ये ततः कृत्वा स्थण्डिलं शालिकामयम् ॥ १४-६८ ॥

षट्द्रोणैः पञ्चद्रोणैर्वा चतुद्रोणैस्तु वा पुनः ।
तण्डुलैः समलंकृत्य तिलैर्दर्भैस्ततोपरि ॥ १४-६९ ॥

ससूत्रं कुर्चवस्त्राढ्यं पञ्चरत्नसमन्वितम् ।
शिवकुम्भं न्यसेन्मध्ये वर्धनं तस्य वामतः ॥ १४-७० ॥

वस्त्रकूर्च्च समायुक्तं हेमयुक्तं प्रकल्पयेत् ।
ध्यात्वा सदाशिवं देवं शिवकुम्भे निवेशयेत् ॥ १४-७१ ॥

मनोन्मनींस्तु सञ्चिन्त्य वर्धन्यां विन्यसेत् सुधीः ।
परितोऽष्टौ घटां न्यस्य विद्येश्वरसमन्वितान् ॥ १४-७२ ॥

प्. ७०) सकूर्चान्वस्त्रसंयुक्तान् सहेमान्वारिपूरितान् ।
कलशाधिपतींस्तत्र स्वैस्वैर्मन्त्रैः सुपूजयेत् ॥ १४-७३ ॥

लोहादिदारुवर्णहनि आयुधानिदशक्रमात् ।
वक्ष्यमाणोक्तविधिना कारयेत् प्रतिमाकृति ॥ १४-७४ ॥

वेदिकायास्तु परितस्त्वायुधानि प्रपूजयेत् ।
वज्रादीन् स्थापयेद् विद्वान् पूर्वादिषु प्रदक्षिणम् ॥ १४-७५ ॥

वामे संस्थाप्य चक्रन्तु दक्षिणे पद्ममेव च ।
अष्टमङ्गलरूपाणि वेदिबाह्ये प्रपूजयेत् ॥ १४-७६ ॥

शूलास्त्रं विन्यसेत् तत्र उत्सवे योगधामनि ।
अग्निकार्यन्ततः कृत्वा नवपञ्चैक वा पुनः ॥ १४-७७ ॥

एकाग्नेर्वेदिका पूर्वे ह्युत्तरे पश्चिमेऽथवा ।
वृत्तं वा चतुरश्रं वा सर्वकुण्डानि कारयेत् ॥ १४-७८ ॥

पर्यग्निकरणं कृत्वा यागशालां विशेषतः ।
यवं हृदयमन्त्रेण सिद्धार्थं सद्यमन्त्रतः ॥ १४-७९ ॥

तिलमीशानमन्त्रेण हुत्वामुद्गन्तु नेत्रतः ।
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं तु मूलतः ॥ १४-८० ॥

पूजावसाने विद्वान्वै वह्निकार्योक्तमाचरेत् ।
अर्चनं विधिनावत्स सायं प्रातर्दिने दिने ॥ १४-८१ ॥

होमान्ते तु बलिं दद्यात् बल्यन्ते चोत्सवं बुधः ।
प्रथमं विश्वरात्रन्तु द्वितीयं भूतरात्रकम् ॥ १४-८२ ॥

तृतीयमृषिरात्रं स्याच्चतुर्थञ्चेन्द्ररात्रकम् ।
पञ्चमं ब्रह्मरात्रन्तु षष्ठं वै विष्णुरात्रकम् ॥ १४-८३ ॥

सप्तमं रुद्ररात्रं स्यादष्टमञ्चैश्वरस्य तु ।
सदाशिवस्य नवमन्नवाहेष्वधि देवताः ॥ १४-८४ ॥

ऋषिरात्रं समारभ्य सदाशिवदिनान्तकम् ।
सप्ताहेतु प्रयोक्तव्यं ब्राह्म्यात् सदाशिवान्तकम् ॥ १४-८५ ॥

पञ्चाहेतु प्रयोक्तव्यं रुद्रात्सदाशिवान्तकम् ।
त्रयहेत्विति चैका हे सदाशिव पदान्तिकम् ॥ १४-८६ ॥

प्. ७१) त्रयहेत्वितिचैकाहे सदाशिवदिनं भवेत् ।
हविर्भिर्दीपकैश्चैव दिनेष्वेतेषु नित्यशः ॥ १४-८७ ॥

विशेषात् पूजनं कुर्यात् विभवस्यानुरूपतः ।
ग्रामाधिदैवतांश्चैव पूजयेत् तु विशेषतः ॥ १४-८८ ॥

शुद्धान्नन्दधिसंमिश्रं लड्डुकापूपसंयुतम् ।
फलञ्च गुलसम्मिश्रं गणेशस्य प्रियन्त्विदम् ॥ १४-८९ ॥

बलयोरजनी पूर्णं घृतान्नन्दधिसक्तुकम् ।
भूत क्रूरबलिः प्रोक्तस्तेन भूतबलिं हरेत् ॥ १४-९० ॥

पञ्चमूलङ्कुशाग्रञ्च शाल्यनञ्चाज्यमिश्रकम् ।
कदलीफलसंयुक्त मृषीणां बलिरुच्यते ॥ १४-९१ ॥

इन्द्रवल्ली हरिद्रा च प्रियङ्गु घृतसंयुतम् ।
चतुर्थे हनिदातव्यमिन्द्रस्य बलिरुत्तमम् ॥ १४-९२ ॥

पद्मपुष्पं स रजनी पायसंलाजसंयुतम् ।
पञ्चमे हनिदातव्यं ब्रह्मणोबलिरुच्यते ॥ १४-९३ ॥

गुलोदनं घृतोपेतं बृहतीफलसंयुतम् ।
षष्ठे हनि च दातव्यं विष्णु प्रीतिकरं परम् ॥ १४-९४ ॥

साज्यन्तु कृसरान्नं वै नालीकेरफलैर्युतम् ।
सप्तमे हनिदातव्यं रुद्रप्रीतिकरं भवेत् ॥ १४-९५ ॥

वेणुकन्दधिसंयुक्तं कदलीफलसंयुतम् ।
अष्टमे हनिदातव्यमीश्वरस्य बलिस्तथा ॥ १४-९६ ॥

शुद्धान्नं दधिसंयुक्तं लाजापूपसमायुतम् ।
कदलीपनसोपेतं गुलखण्डसमिश्रितम् ॥ १४-९७ ॥

नवमे हनिदातव्यं सादाख्यस्य शिवस्य तु ।
सर्वेषामपि शुद्धान्नमाज्ययुक्तं दधिप्लुतम् ॥ १४-९८ ॥

दापयेद् वा विशेषेण तत्तन्मन्त्रेण देशिकः ।
द्रोणं वापि तदर्धं वा तदर्धं वापि पाचयेत् ॥ १४-९९ ॥

कपित्थफलमात्रेण बलिं दत्वा पृथक् पृथक् ।
उत्सवस्य पुरस्तात्तु दद्यात् ग्रामबलिं तथा ॥ १४-१०० ॥

प्. ७२) वाद्यध्वनिसमायुक्तं धूपदीपसमायुतम् ।
ध्वजैः पिञ्छैः समायुक्तं स्तोत्रमङ्गलवाचकैः ॥ १४-१०१ ॥

यज्ञपिठोपरिस्थाप्य त्रिशूलञ्चान्नलिङ्गकम् ।
दशायुधानि परितः स्थापयेद् देशिकोत्तमः ॥ १४-१०२ ॥

यज्ञाभावे तु तत् सर्वं व्रजेयुः शिरसाधृताः ।
आचार्यः शिष्य संयुक्तः सर्वाभरणभूषितः ॥ १४-१०३ ॥

सर्वालङ्कारसंयुक्तः सोष्णीषः सोत्तरीयकः ।
आदिशैवः प्रसन्नात्मा श्रद्धाभक्तिसमन्वितः ॥ १४-१०४ ॥

ब्रह्मादीशानपर्यन्तमिंद्रादीशान्तमेव वा ।
बलिं दत्वा तु तत् ग्रामे देवैश्चैवं विशेषतः ॥ १४-१०५ ॥

सायं प्रातर्बलिं दद्यात् होमान्ते तु विशेषतः ।
उत्सवं प्रारभेदन्ते सर्वालङ्कारसंयुतम् ॥ १४-१०६ ॥

नानाप्रहरणोपेताः सगजाश्चाग्रतस्ततः ।
तदन्ते तुरगारूढास्तदन्ते गजवाहनाः ॥ १४-१०७ ॥

यन्त्ररङ्गास्तदन्ते तु दिव्यस्त्री परिभूषिताः ।
तदन्ते शाश्चयन्त्राश्च डोलायन्त्राश्च मण्डपाः ॥ १४-१०८ ॥

यन्त्र देवालयं पश्चान्नृत्तगेयसमन्विताः ।
आद्यं सुखासनं प्रोक्तं द्वितीयमुमयासह ॥ १४-१०९ ॥

वृषारूढं त्रितीयन्तु त्रिपुरघ्नञ्चतुर्थकम् ।
नृत्ताख्यं पञ्चमं प्रोक्तं षष्ठ वै चन्द्रशेखरम् ॥ १४-
११० ॥

सप्तमं त्वर्धनारीशं हरिरर्धन्तु चाष्टमम् ।
भिक्षाटनं च नवमं दशमङ्कालनाशनम् ॥ १४-१११ ॥

दशैकं कामदहनं ततो लिङ्गं पुराणकम् ।
द्वादश प्रतिमास्त्वेते सर्वालङ्कारसंयुताः ॥ १४-११२ ॥

रङ्गे वा शिबिकायां वा रथेवारोप्य भक्तितः ।
आदिशैवानुशैवाश्च देवानामनुगा स्मृताः ॥ १४-११३ ॥

पशुपतास्तदन्ते तु महावृतधरास्त्वनु ।
कालामुखास्तदन्ते तु तदन्ते ब्राह्मणाः क्रमात् ॥ १४-११४ ॥

तदग्रे रुद्र गणिकाः सर्वालङ्कारसंयुताः ।
तदन्ते गायकाः प्रोक्तास्तदन्ते नर्तका व्रजेत् ॥ १४-११५ ॥

प्. ७३) ईश्वरः शक्तिसहितस्ततो गच्छेश्चनैः क्रमात् ।
योषिद्भिः सत्रिशूलादि यन्त्रदीपैर्विशेषतः ॥ १४-११६ ॥

अस्त्रदीपैर्यष्टिदीपैः सर्वत्र परिशोभितः ।
वितानैच्छिद्र दीपैश्च पताकाभिश्च शोभितः ॥ १४-११७ ॥

सर्वेषां पृष्ठतो गच्छेच्चण्डेशः समलङ्कृतः ।
तदग्रे घोषयेत् सम्यक् सर्वातोद्यान् क्रमेण तु ॥ १४-११८ ॥

पटहैर्मद्दलैस्तालैर्भेरीपणवडुण्डुभैः ।
जर्झरी झल्लरी मोन्तैर्वीणावेणुरवैस्तथा ॥ १४-११९ ॥

अग्रतः पृठतश्चैव घोषयेत् सविशेषतः ।
तदन्ते वैश्य शूद्राद्यागच्छेयुर्भक्तिसंयुताः ॥ १४-१२० ॥

सर्वे वर्णास्तदन्ते तु व्रजेयुः क्रमशस्ततः ।
ये देवमनुगच्छन्ति तत्गतेनान्तरात्मना ॥ १४-१२१ ॥

पदे पदेश्वमेथस्य प्राप्नुवन्ति फलं नराः ।
वृद्धबालयुवानश्च स्त्रियश्च पुरुषास्तथा ॥ १४-१२२ ॥

सर्वपापाद्विमुच्यन्ते सर्वत्रैव समन्विताः ।
एवं प्रदक्षिणं कुर्यात् ग्रामं वा नगरन्तु वा ॥ १४-१२३ ॥

शनैर्देवालयङ्गच्छेत् बलिपीठे बलिं क्षिपेत् ।
पादप्रक्षालनङ्कृत्वा प्रविशेदालयं प्रति ॥ १४-१२४ ॥

प्रपाङ्कृत्वा स्थितं देवं सर्वदेवगणैः सह ।
मृदङ्गादिमहाशब्दं शिवस्य पुरतस्थितम् ॥ १४-१२५ ॥

नमकश्चमकश्चैव दक्षिणे तु व्यवस्थितौ ।
गान्धर्वकोवं शकश्च उत्तरे तु व्यवस्थितौ ॥ १४-१२६ ॥

आचार्यो दक्षिणेभागे नृपस्तस्यैव चोत्तरे ।
उभयोरपि पार्श्वाभ्यां देवस्य गणिका स्मृताः ॥ १४-१२७ ॥

देवस्याग्रे विशेषेण नृत्तं कुर्यात्सगेयकम् ।
नीराञ्जनं कर्तव्यं देवदेवस्य चोत्सवे ॥ १४-१२८ ॥

भस्मपुष्पञ्च दीपञ्च पात्रेषु च विनिक्षिपेत् ।
पुरादत्वा त्वाचमनं पुष्पं शिरसि विन्यसेत् ॥ १४-१२९ ॥

अच्युतं मूर्ध्नि विन्न्यस्य गन्धं दद्याद् विशेषतः ।
पुनराचमनं दद्याद् धूपदीपं प्रदापयेत् ॥ १४-१३० ॥

प्. ७४) पिष्टे विन्यस्त दीपेन भ्रामयेच्छिवमूर्धनि ।
तदन्ते दापयेत् भस्मदर्पणं दर्शयेत् पुनः ॥ १४-१३१ ॥

गणिकाभिर्वहित्वा तु वाद्यध्वनि समायुतम् ।
पीठाग्रे वा विनिक्षिप्य प्राकाराणां बहिः क्षिपेत् ॥ १४-१३२ ॥

कारयेत् साधकेन्द्रेण एतत् साये तु रक्षयेत् ।
वस्त्रादिनि प्रदातव्यं भक्तानाञ्च विशेषतः ॥ १४-१३३ ॥

परिवेष क्रमं ह्येवं दर्शनादघनाशनम् ।
यावद् देवोत्सवं कुर्यात् तावदेवदिने दिने ॥ १४-१३४ ॥

अनाद्यं सर्ववर्णानां दद्याद् देवस्य तुष्टये ।
तत स्त्रीर्थदिनात् पूर्वे मृगयात्रां समारभेत् ॥ १४-१३५ ॥

युद्धारंभ प्रभावेन ग्रामङ्गत्वा प्रदक्षिणम् ।
कौतुकं बन्धयेद् धीमान् तस्मिन्रात्रौ विशेषतः ॥ १४-१३६ ॥

सौवर्णं रजतं सूत्रं अथ कार्पासमेव वा ।
स्थण्डिलोपरिसंस्थाप्य त्रिशूलं स्थण्डिलोपरि ॥ १४-१३७ ॥

याग मण्डपमध्ये तु शूले कौतुकबन्धनम् ।
हृदये नैव कृत्वा तु पुण्याहन्तत्र कारयेत् ॥ १४-१३८ ॥

उत्सवप्रतिमां बध्वा कौतुकं हृदयेन तु ।
स्थण्डिलोपरिसंस्थाप्य कलशान्नवसङ्ख्यया ॥ १४-१३९ ॥

पिधानकूर्चवस्त्राढ्याञ्छिव विद्येश्वरान्वितान् ।
गन्धादिभिः समभ्यर्च्य शूलन्तैः स्नानमाचरेत् ॥ १४-१४० ॥

नद्यां वाप्यां तटाके वा हृदे स्नानं समाचरेत् ।
अथ नद्यादिषु स्नानं विना वा शेषमाचरेत् ॥ १४-१४१ ॥

होमबल्युत्सवान् प्रातः कृत्वा चूर्णोत्सवन्ततः ।
प्रासादस्याग्रतो वापि याम्ये वा पावकेऽथवा ॥ १४-१४२ ॥

गोमयालेपनं कृत्वा धूपदीपैः समन्वितम् ।
पालिकाद्यैरलङ्कृत्य स्थण्डिलन्तत्र कारयेत् ॥ १४-१४३ ॥

शूलं पश्चिमतः स्थाप्यो लूखलं मुसलं ततः ।
वस्त्रेणो लूखले वेष्ट्यदर्भैरावेष्टयेत् पुनः ॥ १४-१४४ ॥

प्. ७५) गन्धाद्यैरर्चयित्वा तु त्रिशूलं लूखलं ततः ।
घृतं शिरोर्पणङ्कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥ १४-१४५ ॥

सुशुष्कां रजनीं पूर्वं चूर्णे चूर्णे तु लूखले ।
हृदा प्रक्षिप्य चास्त्रेण कुट्टयेद् देशिक स्त्रिभिः ॥ १४-१४६ ॥

ततो भक्तजनैः सार्धं चूर्णयेद् देशिकोत्तमः ।
संस्नाप्य लिङ्गं चूर्णेन पञ्चब्रह्मसमुच्चरन् ॥ १४-१४७ ॥

स्नापयेत् कौतुकं शूलं हृन्मन्त्रेण सतैलकम् ।
आचार्यं पूजयेत् तत्र वस्त्र हेमाङ्गुलीयकैः ॥ १४-१४८ ॥

ग्रामं वा नगरं वापि शीघ्रङ्गच्छेत् प्रदक्षिणम् ।
नदीतटाकतीरे वा स्थण्डिले द्वितये कृते ॥ १४-१४९ ॥

शूलन्तत्रैव संस्थाप्य तत्पूर्वेकलशां न्यसेत् ।
अर्चयेत् स्वस्वमन्त्रेण शूलं वै कलशांस्तथा ॥ १४-१५० ॥

गङ्गा च यमुना चैव नर्ददा च सरस्वती ।
सिन्धुर्गोदावरी चैव कावेरी चैव सप्तकान् ॥ १४-१५१ ॥

आवाह्य मध्यकलशे गन्धतोय सुपूरिते ।
अनन्तादि शिखण्ड्यन्तान् कलशेष्वभितो न्यसेत् ॥ १४-१५२ ॥

पुण्याहं वाच्यशूलास्त्र देवानभ्यर्च्य पूजयेत् ।
स्नापयेत् कलशैः पश्चात् स्नानं तीर्थे समाचरेत् ॥ १४-१५३ ॥

त्रिशूलेन सहैवात्रये तीर्थं कुर्वते नराः ।
मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ॥ १४-१५४ ॥

याग गेहे शिवाग्नौ तु दद्यात् पूर्णाहुतिं पुनः ।
होमोपरिष्टात् तत्रस्थं शास्त्रोक्तं सुसमाचरेत् ॥ १४-१५५ ॥

यागेशं पूजयेत् पश्चात् गन्धपुष्पादिभिः शुभैः ।
साधितैः कलशैस्तत्र स्नपनं कारयेच्छिवम् ॥ १४-१५६ ॥

भक्तानां परिचाराणां वस्त्रादिभिः प्रदापयेत् ।
ध्वजावरोहणं कुर्यात् तत्रादौ तु विशेषतः ॥ १४-१५७ ॥

त्रयाहे वापि पञ्चाहे सप्ताहे वा वरोहयेत् ।
स्नपनन्तु ततः कृत्वा मूललिङ्गे विशेषतः ॥ १४-१५८ ॥

प्. ७६) उत्सव प्रतिमाश्चापि त्रिशूलञ्च ध्वजस्तथा ।
स्नपनङ्कारयेत् तत्र स्तोत्रमङ्गलवाचकैः ॥ १४-१५९ ॥

हरिद्रानथ शुद्धान्नं सो पदंशं बलिं क्षिपेत् ।
ध्वजावरोहणङ्कृत्वा पूजान्ते तु विचक्षणः ॥ १४-१६० ॥

प्रदक्षिणं ततः कृत्वा सन्धिदेवां विसर्जयेत् ।
यागोपयुक्त द्रव्याणि देशिकाय प्रदापयेत् ॥ १४-१६१ ॥

एवं यः कुरुते मर्त्त्य उत्सवं च शिवस्य तु ।
कुलैकविंशदुत्तार्य शिवलोकमवास्यति ॥ १४-१६२ ॥

शिवोत्सवमिदं प्रोक्तं स्नपनञ्च ततः शृणु ।

इति शिवोत्सवविधि पटलश्चतुदर्शः ॥ १४ ॥


अथ स्नपनविधि पटलः

अथातः संप्रवक्ष्यामि स्नपनस्य विधिक्रमम् ।
पञ्चम्याञ्च नवम्याञ्च चतुर्दश्यान्तु पर्वणोः ॥ १५-१ ॥

संक्रान्तौ विषुवे चैव अयने ग्रहणे तथा ।
पञ्चम्यादि ग्रहणान्तं दशवृद्ध्युत्तरं वरम् ॥ १५-२ ॥

दीक्षान्ते च प्रतिष्ठान्ते प्रोक्षणे चोत्सवान्तके ।
यागान्ते च सुनक्षत्रे कृत्तिकादीपकर्मणि ॥ १५-३ ॥

कर्तव्यं जन्मनक्षत्रे मङ्गलेमन्त्रसाधने ।
राजाभिषेक समये मरणान्तेथ जन्मनि ॥ १५-४ ॥

अतिवृष्टावनावृष्टौ दुर्भिक्षे दुर्निमित्तके ।
भूमिकंपे दिशान्दाहे ज्वरमार्यादि पीडने ॥ १५-५ ॥

सर्वरोगसमुत्पन्ने शत्रुभिः पीडनेपि च ।
प्रायश्चित्तादिकालेषु शिवं संस्नापयेत् गुरुः ॥ १५-६ ॥

नवधा स्नपनं तत्र संक्षेपेण शृणु क्रमात् ।
पञ्चभिः पञ्चभिश्चैव पञ्चविंशतिभिस्तथा ॥ १५-७ ॥

अन्यस्य त्रितयन्त्वेषु शृणु मध्यमकत्रयम् ।
पञ्चाशन्न्यूनमेकन्तु एकाशितिस्ततः परम् ॥ १५-८ ॥

प्. ७७) शतमष्टोत्तरं ज्ञेयं मध्यमत्रितयं त्विह ।
षोडशद्विशतञ्चैव अष्टोत्तरशतत्रयम् ॥ १५-९ ॥

अष्टाधिकसहस्रन्तु उत्तमादिशिवाधिकम् ।
उत्तमं त्रीणिविख्यातं सर्वेषां स्नपनं शृणु ॥ १५-१० ॥

प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।
विंशश्चतिथि हस्तञ्च भानुदिक्करमेव च ॥ १५-११ ॥

नवाष्ट सप्तषट्पञ्चहस्तैर्नवविधं स्मृतम् ।
अष्टसाहस्रकं पादं नवानां मण्डपा स्मृताः ॥ १५-१२ ॥

षट्त्रिंशत् गात्रसंयुक्तमुत्तमानां विधीयते ।
षोडशस्तंभसंयुक्तं मध्यमानान्तु कारयेत् ॥ १५-१३ ॥

द्वादशस्तंभसंयुक्तमधमानां प्रकल्पयेत् ।
कूटं वा मण्डपं वापि कारयेत् स्वप्रमाणतः ॥ १५-१४ ॥

चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।
वितानध्वजसंयुक्तं दर्भमालोपशोभितम् ॥ १५-१५ ॥

वक्ष्यमाणविधानेन कर्तव्यञ्चाङ्कुरार्पणम् ।
कलशानि ततो ग्राह्य साधयेद् आदिशैवकः ॥ १५-१६ ॥

सौवर्णं रजतं वापि तथा ताम्रमयैरपि ।
शङ्खैर्वा शुक्तिकैर्वापि गवां शृङ्गैरथापि वा ॥ १५-१७ ॥

अथवा मृन्मयैर्वापि सर्वलक्षणसंयुतैः ।
सुपक्वैः सुस्वरैः स्निग्धैर्बिंब प्रभसमन्वितैः ॥ १५-१८ ॥

एतैर्ल्लक्षणसंयुक्तैः स्नापयेत् परमेश्वरः ।
उत्तमं द्रोणसंपूर्णं मध्यमन्तु तदर्धकम् ॥ १५-१९ ॥

अधमञ्चाढकं प्रोक्तं सर्वेषामाढकं तु वा ।
शङ्खशुक्ति विशृङ्गाणां स्वप्रमाणेन पूरयेत् ॥ १५-२० ॥

सूत्रेण वेष्टयित्वा तु कालयित्वाधिवासयेत् ।
गोमयालेपनङ्कृत्वा विष्टसूत्राणि पातयेत् ॥ १५-२१ ॥

सूत्राणाञ्चाप्य धर्मादीन् गात्राणान्धर्मपूर्वकान् ।
स्थण्डिलन्तत्र कुर्वित् शालिभिर्विमलैस्तथा ॥ १५-२२ ॥

आढकञ्च तदर्धं वा कलशानां पृथक् पृथक् ।
तदर्धं तण्डुलैर्भूष्य तदर्धन्तिलसंयुतम् ॥ १५-२३ ॥

प्. ७८) नवधा स्नपनन्तेषु चाद्यसप्तविधिं शृणु ।
मण्डपान्तश्चतुष्पत्र युक्ताब्जं कर्णिकान्वितम् ॥ १५-२४ ॥

पञ्चकुम्भस्य विख्यातं महादिदलशोभितम् ।
प्रागुदक्भ्यां चतुःसूत्रं मार्गैर्न्नवपदं विदुः ॥ १५-२५


अष्टसूत्रं समङ्कृत्वा प्राङ्मुखोदङ्मुखं क्रमात् ।
मध्ये नवपदं ग्राह्यं बहिरेका वृतिन्त्यज्येत् ॥ १५-२६ ॥

ऐन्द्रादिषु चतुर्दिक्षु पदमेकं परिग्रहेत् ।
अग्नेय्यादीशपर्यन्तन्तिसृभिस्त्रिः पदं भवेत् ॥ १५-२७ ॥

महादिक्पदपार्श्वाभ्यां द्वारार्थं द्विपदं त्यजेत् ।
पञ्चविंशत्पदङ्कृत्वा स्थापयेदधमत्रयम् ॥ १५-२८ ॥

पादानान्तालमात्रं स्यात् सूत्रद्वादशकल्पितम् ।
उदक्सूत्रं तथा कल्प्य ह्यष्टद्वाराणि योजयेत् ॥ १५-२९ ॥

मध्यमे पञ्चविंशच्च द्विपदंत्वावृतं त्यजेत् ।
पञ्चत्रिंशत्पदं कृत्वा तेष्वेकं गृह्ययत्नतः ॥ १५-३० ॥

इदमेकोन पञ्चाशदेकाशीति पदं शृणु ।
पदमेकं समावृत्त्य द्वारादिषु पदा त्यजेत् ॥ १५-३१ ॥

एकाशीति पदं ह्येवं मध्यमान्मध्यमं शृणु ।
प्रागग्रं षोडशं सूत्रमुदगग्रं तथैव च ॥ १५-३२ ॥

पञ्चविंशत् पदन्तेषु मध्यसङ्ग्राह्ययत्नतः ।
विदिक्षुनवकङ्ग्राह्यं द्वारत्वात् द्विपदं त्यज्येत् ॥ १५-३३ ॥

चतुर्दिक् तिथिकोष्ठेषु तृतीये सन्त्यजेत् त्रयम् ।
एवङ्कृते पदा सम्यक् शिवाधिक्यं शताष्टकम् ॥ १५-३४ ॥

विंशत् सूत्रं प्रकर्तव्यं प्राङ्मुखोदङ्मुखं क्रमात् ।
तन्मध्ये पञ्चविंशच्च संग्राह्य परितोद्वयम् ॥ १५-३५ ॥

त्यजेत् द्वाराष्टकोपेतं गोमयेन तु वारिणा ।
दिशश्च विदिशश्चैव पञ्चविंशत् पदं क्रमात् ॥ १५-३६ ॥

मध्यमव्यूहमध्यस्थं नवन्त्यक्वाब्जमालिखेत् ।
एवङ्कुर्याद् विधानज्ञः षोडशद्विशतं भवेत् ॥ १५-३७ ॥

नवधा स्नपनं प्रोक्तं तेषां द्रव्यन्ततः शृणु ।
वज्रं मरतकञ्चैव वैडूर्यञ्च प्रवालकम् ॥ १५-३८ ॥

प्. ७९) मौक्तिकं पञ्चरत्नानि शिवकुंभे तु विन्यसेत् ।
रत्नाभावे ततो हेमं नवानां हेममेव च ॥ १५-३९ ॥

पाद्यमाचमनञ्चार्घ्यं पञ्चगव्यं कुशोदकम् ।
क्षीरं दधिघृतञ्चैव प्रथमावरणं विदुः ॥ १५-४० ॥

प्रस्थपादं घृतं प्रोक्तं द्विपादन्दधिरुच्यते ।
त्रिपादं क्षीरमित्युक्तं प्रस्थञ्चैव तु गोमयम् ॥ १५-४१ ॥

षट्गुणञ्चैव गोमूत्रं पञ्चगव्यमिति स्मृतम् ।
मधु इक्षुरसञ्चैव पनसाम्रफलौ तथा ॥ १५-४२ ॥

कदली नालिकेरौ च सर्षपञ्च तिलं तथा ।
विल्वञ्चमातुलुङ्गञ्च नारङ्गद्वयमेव च ॥ १५-४३ ॥

यवनी वारलाजञ्च तस्य चूर्णङ्गुलन्तथा ।
चन्दनं लघुकुष्ठौ च कच्चोलं पुष्पपत्रकम् ॥ १५-४४ ॥

कर्पूरं हिमबेरञ्च जटामांसिमुरन्त्रणम् ।
शमीदूर्वा च श्वेतार्कं बिल्वपत्रञ्च चंपकम् ॥ १५-४५ ॥

शङ्खपुष्पंत्वपामार्गं विष्णुक्रान्ति च धुर्तुरम् ।
नन्द्यावर्तं श्वेतपद्मं पुन्नागञ्चातिपाटलि ॥ १५-४६ ॥

सह देवी शतपत्री लक्ष्मीस्थलारविन्दकम् ।
धातकी तुलसी चैव करवीराकृष्णमल्लिका ॥ १५-४७ ॥

मल्लिका च शतावेरी गोक्षुराज कृताञ्जली ।
महाद्रोणञ्च द्रोणञ्च भद्री च मधुमद्रिका ॥ १५-४८ ॥

इन्द्रवल्लीरुद्रपाणी धात्री चैव हरिद्रकी ।
व्याघ्र नवी च माञ्जिष्ठी सरलं भद्रकाषुकम् ॥ १५-४९ ॥

नवनीतं द्राविलञ्च सज्जन्तक्कोलमेव च ।
बला चाति बला चैव सिंही प्रियङ्गुलोद्धृता ॥ १५-५० ॥

नागकेसरजंबूका कपित्थाश्वत्थ गुग्गुलु ।
एला च जीरकञ्चैव कृष्णजीरकमेव च ॥ १५-५१ ॥

सुतैलं कुङ्कुमं मेघमगरुङ्कृष्णलोचना ।
श्रीवेष्टकं गन्धरसं पिप्पलीहस्तपिप्पली ॥ १५-५२ ॥

कृष्णागरुञ्चतगरं मनःशिलारक्तचन्दनम् ।
लवङ्गं रजनी चूर्णं कषायं मार्जनान्तकम् ॥ १५-५३ ॥

प्. ८०) पिप्पलोदुंबर प्लक्ष वटत्वग्भिः कषायकम् ।
द्रव्यं तिलकुशाग्राणि तथा मार्जव्यमादिशेत् ॥ १५-५४ ॥

द्रव्याण्येतानि चोक्तानि द्विविधं स्नानमार्जनम् ।
रसद्रव्याणि सर्वाणि स्नानद्रव्याणि संविदुः ॥ १५-५५ ॥

फलचूर्णौषधीत्यादि मार्जनद्रव्यकाणिते ।
रसादन्यानि सर्वाणि तोयैःसंपूरयेत् सुधीः ॥ १५-५६ ॥

रसाश्च पञ्चगव्याक्ताः पञ्चकुम्भेषु कीर्तिताः ।
आज्यान्ता नवकुम्भानां वत्वन्ताः पञ्चकुम्भके ॥ १५-५७ ॥

गुलादिपुन्नागान्ताश्च चत्वारिंशन्नवाधिके ।
द्रव्यादिजात्यलान्ताश्च एकाशीतिर्विशेषतः ॥ १५-५८ ॥

पाद्यादिमार्जनान्तास्तु अष्टोत्तरं शतं भवेत् ।
अधर्माद्यादि * * * दिग्विदिग्व्यूह संज्ञकाः ॥ १५-५९ ॥

मध्यमस्य शिवव्यूहो नवव्यूहा प्रकीर्तिताः ।
गन्धपुष्पादिनाभ्यर्च्य दर्भैश्चैव परिस्तरेत् ॥ १५-६० ॥

मध्यमे शिवकुम्भन्तु शिवमन्त्रेण विन्यसेत् ।
द्वात्रिंशद् वा चतुर्विंशत् षोडशप्रस्थपूरितः ॥ १५-६१ ॥

शिवकुम्भमिदं प्रोक्तं वर्धन्यास्तु तदर्धकम् ।
पञ्चरत्नसमायुक्तं सकूर्चं वस्त्रवेष्टितम् ॥ १५-६२ ॥

शिवव्यूहस्य मध्ये तु विन्यस्य शिवकुम्भकम् ।
तस्य व्यूहस्य सुम्ये तु तन्मध्ये वा शिवोत्तरे ॥ १५-६३ ॥

सकूर्चां वस्त्रसंयुक्तां वर्धनीं हेमसंयुताम् ।
मनोन्मनीन्तु संस्थाप्य बीजमन्त्रमनुस्मरन् ॥ १५-६४ ॥

गन्धपुष्पादिभिः पूज्य हृदयेन विचक्षणः ।
पाद्यारभ्य घृतान्तानामष्ट विद्येश्वराधिपाः ॥ १५-६५ ॥

मध्वादिमार्जनान्तानां शतरुद्राधिदैवताः ।
एकैकमर्चयेत् सर्वानेकैकं वस्त्रकं ददेत् ॥ १५-६६ ॥

स्वस्वनाम चतुर्थ्यन्तैर्गन्धपुष्पादिभिर्यजेत् ।
षोडश द्विशतञ्चैव पूर्ववत् स्थापयेत् क्रमात् ॥ १५-६७ ॥

पूर्वोक्तानीहद्रव्याणि प्रधानानि सुकीर्तिताः ।
उशीरागरुकर्पूर चन्दनैश्च सुपुष्पितम् ॥ १५-६८ ॥

प्. ८१) शुद्धतो येन सम्मिश्रमुपस्नानोदकं स्मृतम् ।
उपस्नानानि तत् सङ्ख्या सप्ततीर्थानि यानि तु ॥ १५-६९ ॥

अधमाधममारभ्य उत्तमादधमान्तकम् ।
उक्तं सर्वं विशेषेण देवता द्रव्यसंयुतम् ॥ १५-७० ॥

उत्तमान्मध्यमञ्चैव उत्तमोत्तममेव च ।
स्नपनञ्चैव द्रव्यांश्च किञ्चित् भेदं गजानन ॥ १५-७१ ॥

षट्सूत्रं प्राङ्मुखं तत्र उदक्सूत्रकमेव च ।
पञ्चतालप्रमाणेन पदवीसारविस्मृता ॥ १५-७२ ॥

अतः परं समावृत्य पदमष्टौ परित्यजेत् ।
चत्वारिवीधयः प्रोक्ता महादिक्षु चतुष्पदाः ॥ १५-७३ ॥

द्वादशानि पदानिह चतुष्कोणेषु सङ्ग्रहेत् ।
तेषु द्वादशकोष्ठेषु प्रत्येकं पञ्चविंशतिः ॥ १५-७४ ॥

मध्यव्यूहविशेषेण कृत्वा नवपदन्ततः ।
षडावरणमार्गेण स्थापयेत् स्थापकोत्तमः ॥ १५-७५ ॥

स्थापयेन्मध्यतो व्यूहे नवकुम्भानि पूर्ववत् ।
वर्धनीं तस्य वामे तु प्राग्वत्संस्कृत्य मन्त्रवित् ॥ १५-७६ ॥

पञ्चपङ्क्तिक्रमं वक्ष्ये पञ्चमावरणान्तिकम् ।
प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥ १५-७७ ॥

तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।
पञ्चमे पञ्चगव्यन्तु तिंशदष्टोत्तरं त्विदम् ॥ १५-७८ ॥

यवनी वारमुद्गांश्च तिलं सर्षपमेव च ।
श्वेतशाली महाशाली रक्तशाली तथैव च ॥ १५-७९ ॥

सौगन्धी हेमशाली च दशबीजमिति स्मृतम् ।
द्वाविंशत् कलशेपूर्य प्रथमावरणे न्यसेत् ॥ १५-८० ॥

उपस्नानादिनीतानि तावत् सङ्ख्यानि विन्यसेत् ।
चत्वारिंशच्च चत्वारि कलशानि समन्ततः ॥ १५-८१ ॥

अर्चयित्वा विधानेन बीजमन्त्रमनुस्मरन् ।
प्रथमावरणं प्रोक्तं द्वितीयावरणं शृणु ॥ १५-८१ ॥

चामीकरं तथा हेमं शातकुम्भमतः परम् ।
जांबूनदञ्च तप्तञ्च जाति सप्तादिमिश्रितम् ॥ १५-८२ ॥

प्. ८२) षड्विंशत् कलशे सूत्रमुदकैः सहविन्यसेत् ।
तावत् सङ्ख्या भवेत् तेषु कलशेष्वन्तणोदकम् ॥ १५-८३ ॥

कलशानि द्विपञ्चाशच्चतुष्कोणेषु चैव हि ।
द्वितीयावरणे न्यस्त्वा ब्रह्ममन्त्रैश्च देशिकः ॥ १५-८४ ॥

द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ।
पद्मरागञ्च वैडूर्यं वज्रं पुष्यन्तथैव च ॥ १५-८५ ॥

स्फटिकं मौक्तिकं निलमिन्द्रनीलं प्रवालकम् ।
एतेषु नवरत्नांबु त्रिंशत् सुकलशेषु वै ॥ १५-८६ ॥

तावत् सङ्ख्या भवेत् तानि कलशेष्वन्तरोदकम् ।
कलशानि भवेत् षष्टिश्चार्चयित्वाङ्ग विद्यया ॥ १५-८७ ॥

तृतीयावरणं प्रोक्तञ्चतुर्थावरणं शृणु ।
हरितालं तथा माञ्जिमञ्जनञ्च मनःशिला ॥ १५-८८ ॥

रोध्रञ्च सीसकञ्चैव गैरिकन्तु ततः परम् ।
चतुस्त्रींशत्सुकुम्भेषु सप्तधात्वंबुना सह ॥ १५-८९ ॥

तावत् ग्राह्यो भवेत्तानि कलशेष्वन्तरोदकम् ।
अष्टोत्तरं तथा षष्टिः कलशानां विशेषतः ॥ १५-९० ॥

प्रत्येकमर्चयेत्तानि विद्यांगैश्च विशेषतः ।
पञ्चमावरणे पञ्चगव्याधानमतः शृणु ॥ १५-९१ ॥

गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् ।
गोमूत्रादिषडेतैस्तु अष्टत्रिंशत् घटे न्यसेत् ॥ १५-९२ ॥

विन्यसेत् ब्रह्मपञ्चानामष्टत्रिंशत् कला क्रमात् ।
यावत् सङ्ख्या भवेत्तानि प्रत्येकञ्चान्तरोदकम् ॥ १५-९३ ॥

द्रव्यान् कुम्भेषु संयोज्य शतरुद्रान्विशेषतः ।
शतत्रयेषु कुंभेषु विन्यसेत् तु पृथक् पृथक् ॥ १५-९४ ॥

संस्नाप्याभ्यर्च्य विधिना स्वैस्वैर्नामभिरेव च ।
त्रिशताष्टममेवोक्तमुत्तमस्योत्तमं शृणु ॥ १५-९५ ॥

प्रागग्रं द्वादशं सूत्रं उदगग्रं तथैव च ।
एकविंशच्छतं कृत्वा पदन्तत्र विनायक ॥ १५-९६ ॥

चतुष्कोणेषु मतिमांश्चतुःसूत्राणि विन्यसेत् ।
आग्नेयादिसमारभ्य पदैकान्तरितं यथा ॥ १५-९७ ॥

प्. ८३) षट्त्रिंशत् गात्रसंयुक्तं गात्रस्थाना वृतन्त्यजेत् ।
द्वारे द्वेद्वेपदन्त्यक्त्वा चत्वारिंशत् पदं स्थितम् ॥ १५-९८ ॥

तेषां मध्यमकोष्ठन्तु कृत्वा नवपदन्ततः ।
एकैकं पदमध्ये तु पञ्चविंशति सङ्ख्यया ॥ १५-९९ ॥

कलशानि ततोप्यष्ट सहस्रैकादशावृतौ ।
विद्येशोमा शिवाख्यांश्च कुम्भान्विन्यस्य पूर्ववत् ॥ १५-१००


विद्येशावरणन्त्यक्त्वा तच्छृणुष्वदशावृतान् ।
प्रथमे चैव बीजानि लोहान्येव द्वितीयके ॥ १५-१०१ ॥

तृतीये चैव रत्नानि धातूंश्चैव चतुर्थके ।
पञ्चमे पञ्चगव्यानि षष्ठे चैव फलोदकान् ॥ १५-१०२ ॥

गन्धाश्चौषधयः सर्वे सप्तमे च तथा भवेत् ।
अष्ट मृच्चाष्टमे चैव कषाया नवमावृतौ ॥ १५-१०३ ॥

दशमे चैव पुष्पाणि एकैकन्तु शृणु क्रमात् ।
बीजानि पञ्चगव्यान्तं पूर्ववत् स्थापयेत् बुधः ॥ १५-१०४ ॥

पञ्चमावरणं प्रोक्तं षष्ठमावरणं शृणु ।
कदली बिल्वचूतांश्च मातुलुङ्गञ्च डाडिमी ॥ १५-१०५ ॥

नालिकेरञ्च नारङ्गं लिकुचंपनसं तथा ।
फलोदकानि तानीहद्वेषष्टीत्यभीधीयते ॥ १५-१०६ ॥

प्रत्येकं विन्यसेत् तानि कलशेष्वन्तरोदकम् ।
कलशानि शतानीह चतुर्विंशति चोत्तरम् ॥ १५-१०७ ॥

प्रत्येकमर्च्चयेत् तानि प्रशान्तायेतिमन्त्रतः ।
गन्धैरोषधिभिश्चैव सप्तमावरणं शृणु ॥ १५-१०८ ॥

उशीरञ्चन्दनञ्चैव कर्पूरञ्जातिरेव च ।
शङ्खपुष्पञ्च श्रीदेवी विष्णुक्रान्तीशतावरी ॥ १५-१०९ ॥

गन्धांश्चाष्टौ च धातूंश्च षष्ट्युत्तरषडेव च ।
तावत् सङ्ख्या तु विज्ञेया ह्युप स्नानविशेषतः ॥ १५-११० ॥

द्वात्रिंशदुत्तरं प्रोक्तं शतमेकं समासतः ।
ओषधीनां लतानाञ्च वृक्षाणाञ्च समासतः ॥ १५-१११ ॥

फलानां कुसुमानाञ्च मूलादीनां समाहरेत् ।
सप्तमावरणं प्रोक्तमष्टमावरणं शृणु ॥ १५-११२ ॥

प्. ८४) दर्भाधोनागदन्ताग्रे वराहस्य च कर्षणे ।
वल्मीके वृषशृंगाग्रे नद्यां वै पर्वतेऽपि च ॥ १५-११३ ॥

समुद्रे चैव मेधावी मृदं ग्राह्य विशोधयेत् ।
प्रत्येकं कलशेष्वेवं सप्ततिः परिसङ्ख्यया ॥ १५-११४ ॥

उदकेन समापूर्य तत् सङ्ख्या चान्तरोदकम् ।
चत्वारिंशत् समायुक्तं शतमेकं प्रकीर्तितम् ॥ १५-११५ ॥

अर्चयेत् पार्थिवार्णेन नवमावरणं शृणु ।
आम्रोथपनसश्चैव न्यग्रोधोदुंबरस्तथा ॥ १५-११६ ॥

अश्वत्थञ्च शिरीषञ्च मधुकोथपलाशकः ।
अष्टवृक्षत्व चश्चूर्णं विन्यसेद् वारिणासह ॥ १५-११७ ॥

प्रत्येकं पूरयित्वा तु सप्ततिश्चतुरुत्तरम् ।
तावत् सङ्ख्या भवेत् तानि उपस्नानोदकानि च ॥ १५-११८ ॥

चत्वारिंशत् तथा चाष्टौ शतैकेन समायुतम् ।
अर्चयेच्छिखयाधीमान् गन्धपुष्पादिभिः क्रमात् ॥ १५-११९ ॥

दशमावरणे प्रोक्तं पुष्पाणि च ततः शृणु ।
पङ्कजांश्च पलाशांश्च नन्द्यावर्तांश्च मल्लिकाः ॥ १५-
१२० ॥

करवीरञ्चंपकञ्च नीलोत्प्ललं तथाष्टकम् ।
कलशेषु विनिक्षिप्य सप्तत्यष्टाधिक स्मृताः ॥ १५-१२१ ॥

पुष्पाणि कलशेष्वेव निक्षिप्याद्भिः प्रपूर्य च ।
तावत् सङ्ख्या भवेत् तानि उपस्नानानि विन्यसेत् ॥ १५-१२२ ॥

एवं दशावृतान् स्थाप्य गन्धपुष्पाक्षतैर्युतम् ।
प्रत्येकं कलशान् सर्वान्वस्त्रैरावेष्ट्य यत्नतः ॥ १५-१२३ ॥

द्रव्येषु शतरुद्रांश्च अप्सुतीर्थानि कल्पयेत् ।
नवधा स्थापनं प्रोक्तं तत्र मुद्रां प्रदर्शयेत् ॥ १५-१२४ ॥

आद्यन्ते च नमस्कारां मध्ये बीजांमनोराम् ।
एवन्तु स्थापयेद् विद्वानासनावाहनादिकम् ॥ १५-१२५ ॥

कृत्वा प्रागुक्तवद्धिमानभिषेकं समाचरेत् ।
पुण्याहन्तु विशेषेण कृत्वा कुम्भान् प्रपूजयेत् ॥ १५-१२६ ॥

शैवन्तत्र विधानज्ञमादिशैव कुलोद्भवम् ।
एकन्तत्र विधानज्ञमाचार्यं पूजयेत् क्रमात् ॥ १५-१२७ ॥

प्. ८५) वस्त्रैराभरणैः पुष्पैरङ्गुलीयकयज्ञकैः ।
शिवकुम्भं समुत्थाप्य हस्तेन शिरसाथवा ॥ १५-१२८ ॥

संवाह्य गर्भगेहन्तु उत्तराभिमुखस्थितः ।
स्थापयेद् देवदेवेशं मूलमन्त्रेणमन्त्रवित् ॥ १५-१२९ ॥

गणांबिकेन मन्त्रेण वर्धन्या स्थाप्यपिण्डिकाः ।
तत् तत् स्थाने पुनस्थाप्य पूर्ववच्च यथा क्रमम् ॥ १५-१३० ॥

स्नाप्यद्रव्यं यथा न्यायमुत्थानञ्च तथैव च ।
स्थापिते नैव मन्त्रेण स्नापयेत् तु सदाशिवम् ॥ १५-१३१ ॥

कलशं वा महेस्ते तु विन्यस्त्वा दक्षिणेन तु ।
गोशृंगाग्र प्रमाणेन संस्थाप्यच्छिन्नधारया ॥ १५-१३२ ॥

स्थापितान्युपयुक्तानि कलशानिविसर्जयेत् ।
स्नपनानाञ्च सर्वेषामन्तेहारिद्र चूर्णकैः ॥ १५-१३३ ॥

संस्नाप्याभ्यर्चयेद् विद्वान् प्रभूतहविषं कुरु ।
बीजानामप्यलाभे तु निवारं वायवन्तु वा ॥ १५-१३४ ॥

लोहानामप्यलाभे तु निक्षिपेत् तप्तकाञ्चनम् ।
रत्नानामप्यलाभे तु मौत्तिकं ग्राह्य देशिकः ॥ १५-१३५ ॥

धातूनामप्यलाभे तु हरितालं विशेषतः ।
पुष्पाणामप्यलाभे तु पद्मसङ्ग्राह्य देशिकः ॥ १५-१३६ ॥

एवं यः कुरुते मर्त्यः भक्तियुक्तस्तथैव च ।
शशिवत् क्रीडते नित्यं शिवलोकेमहीयते ॥ १५-१३७ ॥

स्वेच्छयैव समागत्य पृथिव्यामेकराट् भवेत् ।
नवधा स्नपनं प्रोक्तं शीतकुम्भविधिं शृणु ॥ १५-१३८ ॥

इति स्नपनविधि पटलः पञ्चदशः ॥ १५ ॥


प्. ८६) अथ शीतकुम्भविधि पटलः

अथातः संप्रवक्ष्यामि शीतकुम्भस्य लक्षणम् ।
अनावृष्टेश्च दुर्भिक्षे परराष्ट्रप्रवेशने ॥ १६-१ ॥

ज्वरापस्मारनाशाय वसूरिनासनार्थकम् ।
सर्वरोगविनाशार्थं शीतकुम्भन्तु कारयेत् ॥ १६-२ ॥

द्वात्रिंशत् प्रस्थसंपूर्णं बिंब प्रभसमन्वितम् ।
त्रिसूत्रैर्वेष्टयित्वा तु यवान्तं वाथवाङ्गुलम् ॥ १६-३ ॥

शिवाग्रे स्थण्डिलं कृत्वा या वदष्टौ सकर्णिकम् ।
तण्डुलैः सोभितं कृत्वा तिलैर्दर्भैः परिस्तरेत् ॥ १६-४ ॥

अष्टद्रोणेन शालीनं तदर्धैस्तण्डुलैर्युतम् ।
तण्डुलार्धतिलैर्युक्तं कारयेत् तु विचक्षणः ॥ १६-५ ॥

वस्त्रपूतेन तोयेन शिवकुम्भन्तु पूरयेत् ।
सर्वगन्धसमायुक्तं पञ्चरत्नसमन्वितम् ॥ १६-६ ॥

स वस्त्रं सापिधानञ्च सकूर्चं हेमसंयुतम् ।
स्थण्डिले विन्यसेत् कुम्भं गन्धपुष्पादिभिर्युतम् ॥ १६-७ ॥

पूर्वेद्युरधिवासं स्याद्रात्रौ जागरमाचरेत् ।
दिशास्वध्ययनं कार्यं कुम्भं स्पृष्ट्वा विशेषतः ॥ १६-८


शान्ति होमं प्रकर्तव्यं तस्याग्रे तु विशेषतः ।
प्रभाते देवदेवस्य मूर्ध्निमध्येसु षिरङ्कृतम् ॥ १६-९ ॥

वस्त्रैरावेष्ट्यगात्राणि पुष्पमाल्यैर्विभूषयेत् ।
कुम्भं विन्यस्य तन्मध्ये तत् पृष्ठेसु षिरं न्यसेत् ॥ १६-१० ॥

लोहसूच्याग्रमानेन नालं हेममयं भवेत् ।
द्विगुणं क्षीरदातारं मधूनित्रिगुणं भवेत् ॥ १६-११ ॥

हृदयेन तु मन्त्रेण कुम्भमारोप्ययत्नतः ।
उपकुम्भन्तु संस्थाप्य स्थण्डिले पूर्ववत् बुधः ॥ १६-१२ ॥

एकविंशद्दिनं वापि चतुर्दशदिनन्तु वा ।
सप्ताहं वाथ पञ्चाहं त्रियहं वा विशेषतः ॥ १६-१३ ॥

प्. ८७) सन्ततं श्रावयेन्मूर्ध्नि कृत्वाशान्तिकरं स्मृतौ ।
नित्यपूजाविशेषेण काले काले विचक्षणः ॥ १६-१४ ॥

द्विगुणं पूजयेत् तत्र यावच्छक्यमथापि वा ।
उपकुम्भात् तु निक्षिप्य जलादुत्थाय पूर्ववत् ॥ १६-१५ ॥

कुम्भावरोहणं यावत् तावद्धोमं समाचरेत् ।
आचार्यं पूजयेत् तत्र वस्त्राङ्गुलीयकादिभिः ॥ १६-१६ ॥

दक्षिणां देशिकायैव दापयेत् तु विशेषतः ।
अन्ते कुम्भं परित्यज्य वक्त्रमन्त्रेणमन्त्रवित् ॥ १६-१७ ॥

प्रभूतहविषन्दत्वा पूर्वोक्त विधिनासह ।
अन्यान् भक्तजनांश्चापि अन्नपानेन पूजयेत् ॥ १६-१८ ॥

शीतकुम्भमिदं प्रोक्तं नवनैवेद्यकं शृणु ।

इति शीतकुम्भविधि पटलःषोडशः ॥ १६ ॥


अथ नवनैवेद्य विधि पटलः

अथातः संप्रवक्ष्यामि नवनैवेद्यलक्षणम् ।
अग्रयानां हि नाम्ना तत् कृते तस्माज्जयं भवेत् ॥ १७-१ ॥

सुमुहूर्त्ते सुलग्ने च नक्षत्र करणान्विते ।
वाद्यध्वनिसमायुक्तं त्रिशूलेनसमन्वितम् ॥ १७-२ ॥

सर्वालङ्कारसंयुक्तं ततो भक्तजनैर्युतम् ।
स्वक्षेत्रं संप्रविश्याथ ऐशान्यां दिक्समाश्रिताः ॥ १७-३ ॥

तत् क्षेत्र रक्षकानां तु दध्योदन बलिंक्षिपेत् ।
शूकंदात्रेन निक्षिप्य हृदयेन तु बुद्धिमान् ॥ १७-४ ॥

विशुद्ध तण्डुलोपेतं शूकं सर्वोपदंशकैः ।
ग्रामं वा नगरं वापि प्रदक्षिणमथाचरेत् ॥ १७-५ ॥

सर्वालंकारसंयुक्तं सर्वातोद्यसमन्वितम् ।
तद्भागाश्च गजाश्चैव तया चैवाग्रतो नयेत् ॥ १७-६ ॥

प्. ८८) शूकभारान्ततो नीत्वा व्रीहिभाराननन्तरे ।
उपदंशान्ततो नीत्वा तत स्तण्डुलभारकान् ॥ १७-७ ॥

वादका गणिकाश्चैव व्रजेयुः सर्वभूषिताः ।
सर्वेषां पृष्ठतोभागे संव्रजेत् प्रतिमां शनैः ॥ १७-८ ॥

ततो भक्तजनाः सर्वे व्रजेयुः क्रमशः पुनः ।
प्रविश्य भवनं मंत्री शूकभारां निवेश्य वै ॥ १७-९ ॥

आदित्य करसन्तप्तान् व्रीहीन् संक्षिप्यलूखले ।
तुर्यग्रमण्डलं कृत्वा पिष्टचूर्णैर्विचित्रितैः ॥ १७-१० ॥

शालिभि स्थण्डिलङ्कृत्वा लूखलं तत्र विन्यसेत् ।
वस्त्रेण लूखलं बध्वा मूसलञ्च ततोर्चयेत् ॥ १७-११ ॥

संक्षुभ्यबीजमुख्येन तण्डुलङ्ग्राह्ययत्नतः ।
नालिकेरगुलोपेतं मरीची जीरकान्वितम् ॥ १७-१२ ॥

हृदयेन तु मन्त्रेण दद्याद् देवस्य भक्तितः ।
अन्येषां प्रतिमानान्तु दापयित्वा हृदापुनः ॥ १७-१३ ॥

परिवारबलिन्दत्वा चण्डेशायनिवेदयेत् ।
ताम्बूलन्तु विशेषेण दत्वा तत्र हृदाणुना ॥ १७-१४ ॥

प्रभूतहविषं दत्वा पूर्वोक्तविधिनान्वितः ।
ततो भक्तजनान्सर्वां नवान्नेन तु भोजयेत् ॥ १७-१५ ॥

प्रोक्तन्तु नवनैवेद्यं कृत्तिकादीपकं शृणु ।

इति नवनैवेद्यविधि पटलः सप्तदशः ॥ १७ ॥


अथ कृत्तिकादीपविधि पटलः

अथातः संप्रवक्ष्यामि कृत्तिकादीपलक्षणम् ।
कार्तिके कृत्तिकामासे दीपकर्मसमाचरेत् ॥ १८-१ ॥

देवालयमलङ्कृत्वा दीपसाधन सङ्ग्रहम् ।
स्नपनन्तत्र कुर्वीत यजमानेच्छयान्वितम् ॥ १८-२ ॥

प्रासादाग्रस्य परितच्छाष्टदिक्षुविशेषतः ।
कूटागाराणि कृत्वा तु चतुर्गात्रान्वितानि वै ॥ १८-३ ॥

प्. ८९) कूटबन्धेषु सर्वत्र मृदं विन्यस्य तत्र वै ।
दीपानिविन्यसेत् तेषु दीपस्तं भांस्तु विन्यसेत् ॥ १८-४ ॥

खदिरन्नालिकेरं वा पात्रमानं प्रकीर्तितम् ।
घृतं पात्रे समानीय शोधितं तैलमेव वा ॥ १८-५ ॥

कार्पासबीजसंयुक्तं वाससच्छिन्नसंयुतम् ।
घृतमध्येसु विन्यस्य स्तंभमूर्ध्निसुदीपयेत् ॥ १८-६ ॥

प्रासादमिह सर्वत्र दीपमाल्यैरलङ्करोत् ।
क्षुद्रनास्यां महानास्यां कुंभे चैव कपोतके ॥ १८-७ ॥

पालिका सुगुहा स्वत्र दीपयन्त्रैः सुदीपयेत् ।
प्रासादमूर्ध्नि देशेषु मण्डपेगोपुरे तथा ॥ १८-८ ॥

प्राकारेषु विशेषेण दीपं सर्वत्र योजयेत् ।
स्तंभेषु घटिका योज्यास्तेषु दीपसमावृतम् ॥ १८-९ ॥

अघोरास्त्रेण मन्त्रेण दीपदण्डेधिरोपयेत् ।
उत्तमं कूटदीपं स्यान्मध्यमं स्तंभदीपकम् ॥ १८-१० ॥

दीपं बाहुल्या मात्रं यदधमं परिचक्षते ।
भवानीं कारयेत् पश्चात् देवदेवं त्रिशूलिनम् ॥ १८-११ ॥

उत्सवं वा प्रकर्तव्यमेकाहं विधिवत् सुधीः ।
केवले भवने नैव बल्यादि क्रममाचरेत् ॥ १८-१२ ॥

ग्रामं वा नगरादिं वा आलयं वा प्रदक्षिणम् ।
दीपेन भूषयित्वा तु भक्तियुक्तानरोत्तमाः ॥ १८-१३ ॥

ईदृग्गुण विशेषाढ्यं ग्रामं कृत्वा प्रदक्षिणम् ।
आलयं संप्रविश्याथ परिवेषक्रमञ्चरेत् ॥ १८-१४ ॥

प्रभूतहविषङ्कृत्वा देवदेवस्य भक्तितः ।
स्तुत्यैरध्ययनैर्भक्तैर्वाद्यै नृत्तादिकैरपि ॥ १८-१५ ॥

परितोष्य च देवेशं क्रियां सम्यक् समाचरेत् ।
कृत्तिका दीपमत्रोक्तं पूरकर्म ततः शृणु ॥ १८-१६ ॥

इति कृत्तिकादिपविधि पटलोष्टादशः ॥ १८ ॥


प्. ९०) अथ आषाढपूरकर्मविधि पटलः

आषाढपूर्वनक्षत्रे पूर्वेद्युरधिवास्य च ।
रात्रौ होमं प्रकर्तव्यं बलिं प्रक्षिप्ययत्नतः ॥ १९-१ ॥

रात्रौ प्रतिसरं बध्वा आचार्यं पूजयेत् ततः ।
प्रभाते देवदेवेशं विशेषात् पूजनं तथा ॥ १९-२ ॥

बलिन्तत्रैव निक्षिप्य कृत्वा ग्रामप्रदक्षिणम् ।
लाजचूर्णादि सङ्ग्राह्य स्नानार्थन्तु शिवस्य तु ॥ १९-३ ॥

जलतिरे प्रपाङ्कृत्वा सर्वालङ्कारसंयुताम् ।
तन्मध्ये तु स्थितं देवमभ्यर्च्य हृदयेन तु ॥ १९-४ ॥

लाजचूर्णसमायुक्तं गुलञ्चाम्रफलैर्युतम् ।
कदलीपनसोपेतमपूपञ्च विशेषतः ॥ १९-५ ॥

सङ्ग्राह्यमृद्घटे शुद्धे प्रत्येकं भक्तिपूर्वकम् ।
भक्त्यानि वेदयित्वा तु हृन्मन्त्रेण विचक्षणः ॥ १९-६ ॥

लाजचूर्णं विसृज्याथ हृदयेन शिवाग्रतः ।
नवोदकेन तन्मध्ये शूलं संस्नाप्यदेशिकः ॥ १९-७ ॥

आलयन्तु पुनर्गत्वा ततः स्नपनमाचरेत् ।
प्रभूतहविषं दत्वा हृदयेन शिवाग्रतः ॥ १९-८ ॥

प्रभूतहविषं दत्वा शिवस्य च विशेषतः ।
अन्येषां प्रतिमाणाञ्च हविषन्तु निवेदयेत् ॥ १९-९ ॥

एवं समासतः प्रोक्तं फलपाकविधिं शृणु ।

इति आषाढपूरकर्मविधि पटल एकोनविंशतिः ॥ १९ ॥


प्. ९१) अथ फलपाकविधि पटलः

अथातः संप्रवक्ष्यामि फलपाकविधिं परम् ।
दूरतस्तु शिवं दृष्ट्वा नमस्कृत्वा तु यो नरः ॥ २०-१ ॥

मुच्यते सर्वपापेभ्यो निर्मोकादिव पन्नगाः ।
दूराध्वश्रमविक्लान्तः सुधीः कृत्वा प्रदक्षिणम् ॥ २०-२ ॥

मार्ग क्लेशोऽप्यथेशाय भवेत् पापानि नश्यति ।
जनैः पृष्ठानु यातोऽत्र भूलोके तु स जीवति ॥ २०-३ ॥

उत्सवे बलिकाले तु यथा कुर्वन् प्रदक्षिणम् ।
पदे पदेऽश्वमेऽथस्य फलं प्राप्नोति मानवः ॥ २०-४ ॥

यथा कृत्वा नमस्कारं तथा लोकेसु पूजितः ।
जलपुष्पं सुपुष्पं वा देवमुद्दिश्य निक्षिपेत् ॥ २०-५ ॥

नानापुष्पैरलङ्कृत्य नानाभोगं समश्नुते ।
आरामं देवदेवस्य यो नरः कृतवान् भुवि ॥ २०-६ ॥

स एव धनवान् च्छ्रीमानिहलोकेसु पूजितः ।
अयुतं योगवान् दद्यात् श्रोत्रिये वेदपारगे ॥ २०-७ ॥

गोशृङ्गेनाधिकं देवं क्षीरस्नानस्य तत्समम् ।
कपिलापञ्चगव्येन कुशवारियुतेन च ॥ २०-८ ॥

स्नापयेद् देवदेवेशं गवाङ्कोटिफलैः समम् ।
नवधा स्नपनं कुर्वन्यो नरो भक्तिसंयुतः ॥ २०-९ ॥

नानाभोगसमायुक्तः शिवलोके महीयते ।
नवमार्गे तु यत् कर्म भोगोऽपि नवधा भवेत् ॥ २०-१० ॥

नवधा हविषं कृत्वा नवधा भोगमश्नुते ।
घण्टामणिञ्च यो दद्यात् ख्यातिर्भूतिर्विशिष्यते ॥ २०-११ ॥

वस्त्राण्याभरणादीनि देवदेवस्य योजयन् ।
नानावस्त्रैः सुसंपूर्णैर्नाना चा भरणैस्तथा ॥ २०-१२ ॥

पूजितस्त्विह देवैस्तु पृथिव्यामेकराट् भवेत् ।
दीपन्तु देवदेवस्य सकृत् काले प्रदापयन् ॥ २०-१३ ॥

प्. ९२) लोके तु दीपवत् सोऽपि सर्ववित्तावृतस्मृतः ।
मनसा कर्मणा वाचा शिवमुद्दिश्य यो नरः ॥ २०-१४ ॥

सर्वारम्भप्रयोगे वा * * * * * भात् पुनः ।
सर्वदानतपोयज्ञैः प्राप्यते यत् फलं महत् ॥ २०-१५ ॥

तस्मादतिशयं स्वर्गे तत्फलं महमा?प्नुयात् ।
कर्षणे च मते लोकान् सप्तसर्वान् जयिष्यति ॥ २०-१६ ॥

इष्टकाशैल लोहैर्वायः कुर्याद् भवनन्नरः ।
काञ्चनेन विमानेन शिवलोकेमहीयते ॥ २०-१७ ॥

संसिद्धे तु विमाने तु स्थापनं विधिमार्गतः ।
शिवलोकमवाप्नोति पूज्यमानः सदामरैः ॥ २०-१८ ॥

शिवलिङ्गे कृते पश्चात् फलं सामीप्यमाप्नुयात् ।
यद्रूपं स्थापितं बिम्बन्तद्रूपोथ भविष्यति ॥ २०-१९ ॥

रूपैर्हरव पुर्भूत्वा ईशेन सहितः सुवी ।
तस्य लोके च रन्धिमान् यथा कामन्तथेशवत् ॥ २०-२० ॥

शिवायनिहिता यानि पुष्पाणि च दलानि च ।
फलानि चैव बीजानि धान्यादीनि विशेषतः ॥ २०-२१ ॥

यजमानस्य पूर्वे तु शिवलोके व्रजन्ति हि ।
शिवयज्ञे समाप्ते तु तत् प्रयोगेन देहिनः ॥ २०-२२ ॥

एवं विंशदतीतानां गुरूणां तस्य वंशिनाम् ।
दशपूर्वान् समृच्छन्ति समासेनदशा परान् ॥ २०-२३ ॥

मातृपक्षे प्रसूतानां तल्लोके स्थानमिष्यते ।
शुश्रूषकाणां दाराणां पुत्रभ्रातृसमन्वितम् ॥ २०-२४ ॥

शिवलोके निवासं स्याद् यन्नलभ्यंसु देवतैः ।
भुक्त्वा तु विपुलान् भोगान् प्रलये समुपस्थिते ॥ २०-२५ ॥

ज्ञानयोगं समासाद्य स तत्रैव विमुच्यते ।
प्राकारमण्डपान् कुर्वन्यधेऽष्टं स्वर्गमाप्नुयात् ॥ २०-२६


वापी कुपतटाकांश्च देवमुद्दिश्ययत्नतः ।
यः कुर्वन्बहुधनाढ्यस्तदन्ते शिवमाप्नुयात् ॥ २०-२७ ॥

प्. ९३) कार्यकर्मण्य शक्तस्तु स्मरन्नित्यं तु यः पुमान् ।
तत्रैव मृयते चैव तस्य स्वर्गं न संशयः ॥ २०-२८ ॥

आसनासनि सद्भावं ज्ञात्वा संपूजयेच्छिवम् ।
सा लोक्यञ्चैव सामीप्यं सा रूप्यं प्राप्नुयात् क्रमात् ॥ २०-
२९ ॥

अग्निपूजा च सा लोक्यं बलिना वै तथा भवेत् ।
उत्सवे नैव सामीप्यं सा रूप्यं रुद्रचिन्तया ॥ २०-३० ॥

शिवनिन्दाञ्च यो मूढः कुर्यादज्ञानमोहितः ।
स याति नरकं घोरं त्रिसप्तति च संयुतः ॥ २०-३१ ॥

तं हन्यादसमर्थश्चेत् गच्छेद् वाथ ततो बहिः ।
यस्तु प्राणपरित्यागं कुर्याच्छिवनिमित्ततः ॥ २०-३२ ॥

तस्यैव फलसंपत्तिं मयावक्तुन्न शक्यते ।
तावत् तु शिव सा युज्यं प्राप्नुयान्नात्र संशयः ॥ २०-३३ ॥

भक्तिः स्वाभाविकी चैव कृत्रिमा चेति वै द्विधा ।
स्वभाविका तु या भक्तिः पूर्वजन्मविवर्त्तिता ॥ २०-३४ ॥

सहजा चेति सा ज्ञेया इहामुत्र सुखप्रदा ।
कृत्त्रिमा वै कृतानाम सा परत्र सुखप्रदा ॥ २०-३५ ॥

सहजा वै कृता चैव या सा भक्तिर्न नश्वरी ।
स पुनः शिव एवेति चिन्तयेत् तच्छिवं नरम् ॥ २०-३६ ॥

लिङ्गाद्धस्तं शतं वार्धं शिवक्षेत्रं समन्ततः ।
यस्य तत्रैव वासत्वं शिवलोकस्य कारणम् ॥ २०-३७ ॥

यत्र तत्रैव पञ्चत्वं शिवलोकस्य कारणम् ।
यत् तु मानुषकं लिङ्गं क्षेत्रमानमिदं स्मृतम् ॥ २०-३८ ॥

स्वयंभूते सहस्रं स्यादार्षे चैव तदर्धकम् ।
आरामवापि सर्वाणि स्थावराणि तराणि च ॥ २०-३९ ॥

दिव्यं प्रयान्त्य सन्देहं प्रभावात् परमेष्ठिनः ।
तस्मादावसथं कार्यं शिवक्षेत्रसमीपतः ॥ २०-४० ॥

आत्मार्थं पूजयेत् सर्वेसोपहारं शिवस्य तु ।
तस्मात् पत्रफलैः पुष्पैरम्भ सा मनसा बुधः ॥ २०-४१ ॥

प्. ९४) चित्तं शिवात्मकङ्कृत्वा शिवमाराधयेत् सदा ।
शिवधर्मात्परोधर्मो न भूतो न भविष्यति ॥ २०-४२ ॥

अन्येषु पशुधर्मेषु स्वर्ग एव फलं हि तत् ।
एतद्धि शिवशास्त्रेषु भुक्तिमुक्तिप्रदायकम् ॥ २०-४३ ॥

सर्वशास्त्रं समुत्सृज्य शिवशास्त्रेषु योजयेत् ।
फलपाकविधिः प्रोक्तमाचार्यलक्षणं शृणु ॥ २०-४४ ॥

इति फलपाकविधि पटलोविंशतिः ॥ २० ॥


अथ आचार्यलक्षण पटलः

अथातः संप्रवक्ष्यामि आचार्यस्य तु लक्षणम् ।
फलपाकविधिं श्रुत्वा शिवभक्तिर्भवेद्यथा ॥ २१-१ ॥

तदा प्रवर्तते पुंसो लिङ्गसंस्थापनेरतिः ।
आचार्यं पूर्वमन्वेष्य मूर्तिपांस्तदनन्तरम् ॥ २१-२ ॥

आदिशैव कुलोद्भूतः पञ्चगोचरसंस्थितः ।
सर्वशास्त्रार्थ तत्वज्ञः शिवज्ञानविशारदः ॥ २१-३ ॥

शिवसिद्धान्त तत्वज्ञः शिवाग्निगुरुपुजकः ।
सर्वावयवसंपूर्णः सर्वलक्षणसंयुतः ॥ २१-४ ॥

वयः षोडशकादूर्ध्वं सप्ततेरध उच्यते ।
शिखी वा बद्धकेशश्च कृतज्ञः प्रियदर्शनः ॥ २१-५ ॥

गृहस्थश्चोत्तमो ज्ञेयो भौतिक ब्रह्मचार्यपि ।
क्रियादि ज्ञानपर्यन्त शास्त्रेषु कृतनिश्चयः ॥ २१-६ ॥

क्रियापादे तु निपुणश्चर्या पादानुवर्तकम् ।
योगपादे क्रियाभ्यासो ज्ञानपादानुरञ्जकः ॥ २१-७ ॥

हेयो पादेय तत्वज्ञस्तत्वार्थे संव्यवस्थितः ।
परं भाव विद श्रेष्ठं पञ्चधा वा परं विदुः ॥ २१-८ ॥

प्. ९५) देहबन्धनिमित्तञ्च विधिवद्दीक्षितो बुधः ।
शिवज्ञानामृतानन्दस्तूहापोह विधानवित् ॥ २१-९ ॥

ईदृक् भूतस्तु यो विद्वान् स्थापनादीनि कारयेत् ।
स एव स्थापको वत्सनेतरः सर्वदा विभोः ॥ २१-१० ॥

अनुशैवादिभिर्नैव स्थापनादीनि कारयेत् ।
कण्वादिरादि शैवैस्तु कर्तव्यं स्थापनान्तकम् ॥ २१-११ ॥

अन्यथा तु कृते राज्ञस्त्वाभिचारश्च देवताः ।
नतं गृह्णीत देवेशो न फलञ्जायते ततः ॥ २१-१२ ॥

यदि मोहेन कुर्वीत सान्निद्ध्यं न कदाचन ।
मूर्तिपांस्तु ततो वक्ष्ये आदिशैव कुलोद्भवान् ॥ २१-१३ ॥

आचार्यारम्भशास्त्रे तु तस्मिन्विगत संशयान् ।
तदभि प्रायतत्व ज्ञानाचार्यस्यानुकूलकान् ॥ २१-१४ ॥

मूर्तिञ्च मूर्तिधारांश्च ज्ञातान् सम्यक् समाहितान् ।
एभिर्गुणैः समायुक्तान् गृह्णीयातान्विचक्षणः ॥ २१-१५ ॥

वामनांश्च ततोज्ञात्वा वर्जयेत् तान् प्रयत्नतः ।
स्वशास्त्रसमयद्वेक्षी त्वङ्गप्रत्यङ्गहीनकः ॥ २१-१६ ॥

नास्तिकोमत्सरोरोगी बधिरोवृद्धिजीवकः ।
भिषक् शास्त्रोपजीवी च तथा रंगोपजीवकः ॥ २१-१७ ॥

पिशुनः क्रूरकर्मस्थश्च पलः पारदारिकः ।
सभीपुरोधसोगर्वीनिः सत्यश्च कृतघ्नकः ॥ २१-१८ ॥

सन्यासीतार्किको भ्रष्टः कृशाङ्गः शल्यजीवकः ।
परापवादशीलश्च नैष्ठिकश्च कपालिकः ॥ २१-१९ ॥

अति ह्रस्वस्त्वति स्थूलो अतिदीर्घोकुदर्शकः ।
विकटदन्तः कुनवीमधु वै खलतिस्तथा ॥ २१-२० ॥

शिपिविष्टोव्रणोपेतश्मश्रुभ्रू चक्षुपिङ्गलाः ।
गुल्मी चैव बृहद्बीजीत्वर्शसादीनि पिडितः ॥ २१-२१ ॥

प्रतिष्ठा तन्त्र किञ्चित् ज्ञः पशुशास्त्रानुरञ्जितः ।
तन्वोपदेश हीनश्च विमनस्कामनस्ककः ॥ २१-२२ ॥

प्. ९६) न्यूनाङ्गी चातिरिक्ताङ्गी शठः पण्योपजीवकः ।
षण्डश्च गुह्यकश्चैव नैर्गकः श्वापदन्तकः ॥ २१-२३ ॥

ईदृशान्वर्जयेद् विद्वान् सर्वकर्मबहिष्कृतान् ।
यदि मोहेन कुर्वीत सान्निध्यं न कदाचन ॥ २१-२४ ॥

आचार्यमूर्तिपांश्चैव पूर्वोक्तान् संप्रगृह्य च ।
ततश्चापेक्षयेद् वत्स शिल्पिनं सुकुलोद्भवम् ॥ २१-२५ ॥

स्थपतिं सूत्र गृहिणं वर्धकं तक्षकं तथा ।
स्थापकेनोदितं सर्वं शिल्पशास्त्रेण निर्दिशेत् ॥ २१-२६ ॥

प्रासादादि प्रकर्ताथ सोऽपि हस्तपतिः स्मृतः ।
सूत्रग्राही च मानज्ञो द्रुमाभिख्यो च वर्द्धकी ॥ २१-२७ ॥

तनूकरणयोग्यो यस्त्वसौ तक्षक उच्यते ।
च्छेद्यांश्च च्छेदयेत् सर्वान् भेद्ये तु द्रव्यभेदकः ॥ २१-२८


वेद्ये तु वेदयेद् द्रव्यां च्छिल्पिकर्मस्त्रिधा भवेत् ।
स्थपतिः सूत्रग्राही च प्रासादान् प्रतिमादिकान् ॥ २१-२९ ॥

कुर्यात् तदक्षिमोक्षादीन् तक्षकेन समाचरेत् ।
शेषे तु वर्जयेत् तत्र मन्त्रकर्मसु सर्वदा ॥ २१-३० ॥

तेषान्तु शिल्पिकार्येऽपि स्थपतेस्तु नियोगतः ।
स्थपतिः शिल्पकार्येषु स्थापकस्यानुसारतः ॥ २१-३१ ॥

स्थपतिः शास्त्रकर्मज्ञः कृतकर्माभिजात्यवान् ।
न हीनाङ्गोतिरिक्ताङ्गो धर्मिष्ठः सत्यवाचकः ॥ २१-३२ ॥

शल्य ज्ञानान्वितः साधु दृढबन्धुरतन्द्रितः ।
ईदृशं शिल्पिनङ्ग्राह्य प्रारभेत् सर्वकर्मकम् ॥ २१-३३ ॥

आचार्यलक्षणं प्रोक्तं करणानां विधिं शृणु ।

इति आचार्यलक्षण पटल एकविंशतितमः ॥ २१ ॥


प्. ९७) अथ करणाधिकारलक्षण पटलः

अथातः संप्रवक्ष्यामि करणानां तु लक्षणम् ।
यागोपकरणं यस्मात् तस्मात् तत् करणं विदुः ॥ २२-१ ॥

दर्भाणां लक्षणञ्चैव पवित्राणां विशेषतः ।
कूर्चानां दर्भमालाया विष्टराणाञ्च लक्षणम् ॥ २२-२ ॥

आज्यस्थाल्याश्चरुस्थाल्याः कलशानान्तु लक्षणम् ।
हविः पात्रपिधानञ्च जलद्रोण्याश्च लक्षणम् ॥ २२-३ ॥

धूपघण्टाविकल्पञ्च स्थालिकायाश्च लक्षणम् ।
प्रमाणं दीपदण्डानां यंत्रिकायाश्च लक्षणम् ॥ २२-४ ॥

बलिपात्र त्रिपादीनां दर्वीणां लक्षणं तथा ।
वितान ध्वजवस्त्राणां पृच्छं न पटलक्षणम् ॥ २२-५ ॥

तथोष्णीषोत्तरीयाणां खट्गायाश्च सनस्य च ।
रथस्य लक्षणञ्चैव शिबिकापर्यङ्कयोस्तथा ॥ २२-६ ॥

सिंहासनोपयानानां स्तंभाच्छादनरङ्गयोः ।
पादुकादर्शनानान्तु व्यजनञ्चामरस्य च ॥ २२-७ ॥

सितात पत्र पत्राणां पिञ्छानाञ्चैव लक्षणम् ।
मङ्गलानामधात्राणां तोरणद्वयलक्षणम् ॥ २२-८ ॥

सुवर्णपट्टपुष्पाणां गोलकायाश्च लक्षणम् ।
मकुटानाङ्कुण्डलानां हारकेयूरयोश्च वै ॥ २२-९ ॥

कटकङ्कटिसूत्राणां नूपुरस्य च लक्षणम् ।
जठरोपरिबन्धानां स्त्रीणां भूषणलक्षणम् ॥ २२-१० ॥

क्षुराणां कर्तरीणान्तु मार्जनस्य प्रमाणकम् ।
एतेषां लक्षणं वक्ष्ये ह्यानुपूर्वात् गजानन ॥ २२-११ ॥

अशुष्कञ्छिन्नभिन्ना ग्राह्यदर्भा खण्डितास्तथा ।
कोमला श्यामला स्निग्धा जीर्णाः शुभ्राः शुभावहाः ॥
२२-१२ ॥

मृदुश्यामाश्च स्त्रीलिङ्गाः पुल्लिङ्गाः कोमला स्थिराः ।
अकोमला स्थिराश्चैव अनुग्राह्या नपुंसकाः ॥ २२-१३ ॥

दर्भाणां लक्षणं प्रोक्तं पवित्राणां ततः शृणु ।
कुशादर्भाश्च गोवालाः पवित्रङ्कनकास्तथा ॥ २२-१४ ॥

प्. ९८) सप्तपञ्च त्रियुक्तो वा ह्यग्रन्तु द्व्यङ्गुलं भवेत् ।
द्व्यङ्गुलं तस्य नालन्तु ग्रन्धिरेकाङ्गुलं भवेत् ॥ २२-१५ ॥

दक्षिणावर्तग्रधितं पवित्रमिहशोभनम् ।
अनाम्यङ्गुलविस्तारं ताराष्टैकाम्शहीनकम् ॥ २२-१६ ॥

तप्तचामीकरेणैव पवित्रं कनकाख्यकम् ।
दशपञ्चाधिकैर्दर्भैर्दशैकादशकैस्तु वा ॥ २२-१७ ॥

दशभिर्न बभिर्वापि सप्तभिः पञ्चभिस्तु वा ।
दर्भसङ्ख्याङ्गुलायामादर्भाणां नवकोर्ध्वके ॥ २२-१८ ॥

नवाङ्गुलन्तु तद्दैर्घ्यं दर्भाणां सप्तपञ्चके ।
दक्षिणावर्त ग्रथितं ग्रन्धिरेकाङ्गुलं भवेत् ॥ २२-१९ ॥

कूर्चाग्रञ्चतुरङ्गुल्यं कूर्चमेवं विधीयते ।
दशपञ्चाधिकं यत् तु शिवकुम्भस्य विन्यसेत् ॥ २२-२० ॥

द्वादशैश्चैव विन्यस्य शेषैः शेषेषु विन्यसेत् ।
ऊर्ध्वग्रन्ध्या ह्यतोग्रन्तु पूर्वाग्रन्तु यथा न्यसेत् ॥ २२-२१ ॥

कूर्चानां लक्षणं प्रोक्तं दर्भमालां ततः शृणु ।
द्विवृतादक्षिणावर्ता द्वित्रिकैः पञ्चभिस्तु वा ॥ २२-२२ ॥

दर्भान्तरं वै द्व्यङ्गुल्यं हस्तमानेन लंबयेत् ।
कनिष्ठाङ्गुलिनाहेन रज्जुङ्कुर्यान् मनोरमम् ॥ २२-२३ ॥

लम्बमानास्तु दर्भाणां शस्तास्ता इति संस्मृताः ।
जपहोमार्चनं तस्य मध्ये वीध्यत्वमागताः ॥ २२-२४ ॥

प्रासादयज्ञशालायां परिवेष्ट्य च यत्नतः ।
विष्टरं पञ्चदर्भैस्तु ग्रन्थिरेकाङ्गुलं भवेत् ॥ २२-२५ ॥

मुलाग्रौ च दशाङ्गुल्यौ विष्टरं तु विधीयते ।
सप्तविंशति दर्भैर्वा ह्येकविंशतिरेव वा ॥ २२-२६ ॥

दशपञ्चभिरेवाथ कूर्चं कुर्वीत बुद्धिमान् ।
ग्रन्थिस्त द्व्यङ्गुलं प्रोक्तं अग्रं तु द्विगुणं भवेत् ॥ २२-२७


नालमेकोनविंशत् तु दर्भेण व्रतबन्धनम् ।
एषा वै प्रोक्षणी प्रोक्ता परिस्तरणकं शृणु ॥ २२-२८ ॥

एकविंशति दर्भाभिः कला ग्रन्थिस्तु बन्धयेत् ।
मेखला मध्यमायाममूलाग्रोदयमिष्यते ॥ २२-२९ ॥

प्. ९९) परिस्तरणकं प्रोक्तं ततः परिधयः शृणु ।
यैर्मानैः समिथं प्रोक्तं तैरेवपरिधिर्भवेत् ॥ २२-३० ॥

आयामं हस्तमानेन कनिष्ठाङ्गुलिनाहकम् ।
तिस्रः परिधयः प्रोक्ताः पश्चिमे दक्षिणोत्तरे ॥ २२-३१ ॥

परिधेर्लक्षणं प्रोक्तं समिधालक्षणं शृणु ।
न स्फोटिकान सुषिरा ऋजवोग्रन्थि वर्जिताः ॥ २२-३२ ॥

द्वादशाङ्गुलिकायामा कनिष्ठाङ्गुलिनाहकाः ।
समिधालक्षणं प्रोक्तं मेक्षणं तत् प्रमाणतः ॥ २२-३३ ॥

ततः सृक्लक्षणं वक्ष्ये शृणु मुग्धविनायक ।
खदिरश्च शमीविल्वपलाशाः प्लक्षचन्दनौ ॥ २२-३४ ॥

तथा च यज्ञ वृक्षेषु यथा सम्भवतः कुरु ।
त्रिंशदङ्गुलमायाममष्टाङ्गुल सुविस्तृतः ॥ २२-३५ ॥

तदर्धन्तु घनं प्रोक्तं सूत्रेण समितं ततः ।
षडङ्गुलं भवेदाभ्यं सप्ताङ्गुलन्तु विस्तृतम् ॥ २२-३६ ॥

तदग्रन्तु त्रिधा कृत्वा तस्मात् कुर्यात् त्रिकोणवत् ।
गजोष्ठ सदृशाकारन्निम्नं स्याद्यवमानकम् ॥ २२-३७ ॥

तद्बहिः पट्टकाङ्कुर्याद्यवाद्यवसुविस्तृतम् ।
अष्टाङ्गुलसुविस्तारा वेदिकाष्टाङ्गुलायता ॥ २२-३९ ॥

तन्मध्ये कारयेत् गर्तन्तच्चक्र्यङ्गुलविस्तृतम् ।
खातं स्यात् तत् प्रमाणेन तद्बहिर्यवमानका ॥ २२-४० ॥

पट्टिका तु प्रकर्तव्या तद्बहिर्यवनिम्नगा ।
बिलबाह्ये तु परितः पट्टिकार्द्धाङ्गुलेन तु ॥ २२-४१ ॥

श्वभ्रस्य परितः कार्यं पद्ममष्टदलंशुभम् ।
श्वभ्रारभ्यमुखान्तं यत् कनिष्ठाङ्गुलमानतः ॥ २२-४२ ॥

खातं स्यात् कृत धारार्थं निम्नोन्नतविवर्जितम् ।
दण्डोर्ध्वे वेदिकाधस्तात् त्र्यङ्गुलेन त्रिखण्डिका ॥ २२-४३ ॥

अर्धाङ्गुलविवृध्या तु वृत्ता वा चतुरश्रका ।
दण्डं नवाङ्गुलायामन्तस्य नाभं षडङ्गुलम् ॥ २२-४४ ॥

दण्डाधोमुकलङ्कार्यं तदायामन्तु द्व्यङ्गुलम् ।
नाभमष्टाङ्गुलं प्रोक्तं मानमेवं विधीयते ॥ २२-४५ ॥

प्. १००) वेदिका परभागब्जे पृष्ठाकारन्तुलाञ्चयेत् ।
तन्मध्ये कर्णिकाकारं पादतारञ्च त्र्यङ्गुलम् ॥ २२-४६ ॥

अङ्गुलन्तु तदुत्सेधं स्रवमेवं प्रकल्पयेत् ।
अरत्निमात्रमायामं तदग्रे बिलसंयुतम् ॥ २२-४७ ॥

मूलं षडङ्गुलन्नाहं तदर्धं कण्ठनाहकम् ।
पुष्करं मूलनाहन्तु द्विपुटं नासिकासमम् ॥ २२-४८ ॥

माषमग्नन्तु निम्नं स्यात् बिलद्वयसमन्वितम् ।
गोपुच्छसदृशं दण्डं प्रोक्तं तत् स्रवलक्षणम् ॥ २२-४९ ॥

सौवर्णं रजतन्ताम्रं मृन्मयं वाथकारयेत् ।
अष्टाङ्गुल सुविस्तीर्णन्निम्नं प्रस्थेन पूरितम् ॥ २२-५० ॥

घनमानाङ्गुलं प्रोक्तं द्रव्यपात्रं विधीयते ।
होमकाले तु द्रव्याणां प्रमाणं लक्ष्यते धुना ॥ २२-५१ ॥

घृतेषु गव्यं तच्छेषु स्रवं पूर्णप्रमाणतः ।
सक्तुमुष्टिमिदं वासमधु वै घृतवत् भवेत् ॥ २२-५२ ॥

करपूर्णन्तु लाजस्य चाक्षमात्रङ्गुलस्य तु ।
समिदौषधकं दानां फलानां स्वप्रमाणतः ॥ २२-५३ ॥

अन्नमक्षप्रमाणं स्यात् पूर्णाहुत्यास्तु सृङ्मति ।
तिलसर्षपयोश्चैव शुक्तिमात्रं विधीयते ॥ २२-५४ ॥

दध्नाक्षीरस्यमानन्तु घृतवत् परिकीर्तितम् ।
यववेणु कुलुत्थानां शुक्तिमात्रेण होमयेत् ॥ २२-५५ ॥

अपूपस्य चतुर्निष्कन्धान्यानां मुष्टिमात्रकम् ।
एवं प्रमाणं द्रव्याणामाज्यस्थालीन्ततः शृणु ॥ २२-५६ ॥

आज्यस्थाल्या प्रणीतायाः प्रमाणं द्रव्यपात्रवत् ।
आस्यं षडङ्गुलन्तार मोष्ठमेकाकाङ्गुलं भवेत् ॥ २२-५७ ॥

कर्णमेकाङ्गुलं प्रोक्तं जठरं द्वादशाङ्गुलम् ।
विस्तारेण समाख्यातं शेषं बुद्ध्या प्रकल्पयेत् ॥ २२-५८ ॥

चरुस्थालिन्तथैवापि कलशानां विधिं शृणु ।
द्वादशाङ्गुलविस्तारमुदरं समुदाहृतम् ॥ २२-५९ ॥

वर्तितं त्रिगुणन्तेन नाहन्तस्य विधीयते ।
कर्णं द्वियङ्गुलोत् सेधं विस्तारञ्चतुरङ्गुलम् ॥ २२-६० ॥

प्. १०१) ओष्ठन्तु द्व्यङ्गुलोत्सेधं द्व्यङ्गुलन्निर्गमं स्मृतम् ।
एवमेव हि वृद्ध्या तु कर्तव्यौ मध्यमाधमौ ॥ २२-६१ ॥

अनुसारं यथा बुध्या कल्पयेत् कल्पवित्तमः ।
आच्छादनं शरावाणां मुखमानेन विस्तरम् ॥ २२-६२ ॥

त्र्यङ्गुलन्तु तदुत्सेधं मध्ये निम्नं द्वयाङ्गुलम् ।
एवं प्रमाणमुद्दिष्टं शृणुष्व घटलक्षणम् ॥ २२-६३ ॥

यद्वद्वैकलशाकरं तद्वदेव * * स्मृतम् ।
चतुर्गुणविवृध्या तु घटमेवं विधीयते ॥ २२-६४ ॥

चरुस्थाली यथा रूपं हविः पात्रन्तथैव च ।
यावत् तण्डुलसंपत्तिस्तावत् ब्रह्मणमुच्यते ॥ २२-६५ ॥

आस्यतुल्यं पिधानन्तु मध्ये तु वलयं तथा ।
मिश्रतम्रेण ताम्रेण हविः पात्रं प्रकीर्तितम् ॥ २२-६६ ॥

सौवर्णं रजतं वापि ताम्रजाम्रन्मया तु वा ।
जलद्रोणी प्रकर्तव्या वृत्ता वा चतुरश्रका ॥ २२-६७ ॥

दशद्रोणैरथाद्भिस्तु पूर्णितं ग्रीववर्जितम् ।
अष्टद्रोणेन पूर्णं वा षट्भिर्वाद्रोणपञ्चकैः ॥ २२-६८ ॥

चतुर्भिर्वा त्रिभिः कार्यं वर्धनीञ्च ततः शृणु ।
तस्यास्यञ्चतुरङ्गुल्यमोष्ठद्वयसमायुतम् ॥ २२-६९ ॥

तत् पार्श्वं सुषिरान्तस्थं नालीस्याच्चतुरङ्गुलम् ।
बृहोदरं तनुग्रीवं समयुक्तिमथाचरेत् ॥ २२-७० ॥

कमण्डलुश्च तद्वत् स्यान्मुखमध्योर्ध्वनालके ।
ओष्ठञ्च सुषिरं कृत्वा प्रष्ठे पादं प्रलंबितम् ॥ २२-७१ ॥

अङ्गुलन्तु च तन्मानं सुषिरं पार्श्वतस्तथा ।
ऊर्ध्वे पिप्पलमानं स्यादक्षिरं मुखनालकम् ॥ २२-७२ ॥

एवं कमण्डुलुङ्कुर्यात् सर्वलक्षणसंयुतम् ।
कलुषं कृमिशैवालमशुचिस्थानसंश्रितम् ॥ २२-७३ ॥

गन्धवर्णरसैर्जुष्ठं सूर्यरश्मिविवर्जितम् ।
पङ्काश्मदूषितञ्चैव क्षारोदं पल्वलोदकम् ॥ २२-७४ ॥

अग्राह्यमुदकङ्ग्राह्य मेभिर्दोषैर्विवर्जितम् ।
अष्टद्रोणैरथाद्भिस्तु स्नानं कन्यसमुच्यते ॥ २२-७५ ॥

प्. १०२) अभिषेकमथाद्भिस्तु द्विगुणैर्मध्यमं स्मृतम् ।
उत्तमं त्रिगुणैरद्भिः पुष्पपात्रमथ शृणु ॥ २२-७६ ॥

विंशत्यङ्गुलविस्तारं त्रिगुणन्नाहमुच्यते ।
तदन्तर्नाहमेवन्तु पुष्पपात्रं विधीयते ॥ २२-७७ ॥

तदर्धमर्घ्यपात्रन्तु तन्नालेन विहीनकम् ।
शरा वा कृतिरग्रे तु द्विपात्रं तदविस्थितम् ॥ २२-७८ ॥

शराव पृष्ठनालन्तु अष्टाङ्गुलसुदैर्घ्यकम् ।
तिर्यक् कृत्वा यथा भोगं तदन्ते चैकपायुवत् ॥ २२-७९ ॥

पिधानं मुकुलाकारमनेकसुषिरैर्युतम् ।
धूपपात्रं समाख्यातमुरुघण्टामथ शृणु ॥ २२-८० ॥

द्वादशाङ्गुलमुत्सेधं त्रिगुणन्नालमेव च ।
जिह्वा च द्वादशाङ्गुल्यं तदर्धं शिखरं भवेत् ॥ २२-८१ ॥

तन्मध्ये वै तु सुषिरं वलयेन समन्वितम् ।
तद्घनं त्रिगुणेनैव तदास्योष्ठघनं स्मृतम् ॥ २२-८२ ॥

कण्ठन्तु त्र्यङ्गुलोत्सेधमधमस्य तु लक्षणम् ।
द्विगुणं त्रिगुणं प्रोक्तं धूपघण्टामथ शृणु ॥ २२-८३ ॥

घण्टां कुर्वीत कांस्येन चतुरङ्गुलमुच्यते ।
विस्तारन्तत् प्रमाणन्तु शिखरन्तु तदर्धकम् ॥ २२-८४ ॥

अष्टाङ्गुलेन घण्टा स्यात् जिह्वा च चतुरङ्गुला ।
तत् घनं त्रिगुणे नैव तदास्योष्ठ घनं भवेत् ॥ २२-८५ ॥

अधमन्त्वेतदुद्दिष्टं पञ्चाङ्गुलन्तु मध्यमम् ।
ज्येष्ठं षडङ्गुलं प्रोक्तमन्यत्सर्वं समंविदुः ॥ २२-८६


तत् समन्नालमूर्ध्वन्तु शूलन्तच्छिरविन्यसेत् ।
पात्रं वा शंखचक्रं वा वृषं वा मूर्ध्नि विन्यसेत् ॥ २२-
८७ ॥

धूपकाले प्रयोक्तव्यं घण्टानादसमन्वितम् ।
घण्टायास्तु ध्वनिं श्रुत्वा सर्वपापैः प्रमुच्यते ॥ २२-८८ ॥

स्थलिकापाद रहितं रक्तिमात्रं सुविस्तृतम् ।
सौवर्णं रजतन्ताम्रं कांस्ये नैवाथ कारयेत् ॥ २२-८९ ॥

ओष्ठमेकाङ्गुलोन्नत्या तद्घनं द्विगुणेन तु ।
अर्धाधिकञ्च द्विगुणं प्रोक्तं वै मध्यमोत्तमे ॥ २२-९० ॥

प्. १०३) स्थलिकालक्षणं प्रोक्तं दीपदण्डं ततः शृणु ।
एकहस्तं समारभ्य नवहस्तान्तमेव च ॥ २२-९१ ॥

उत्सेधादष्टभागैक दण्डनाहं प्रकीर्तितम् ।
तदुच्चैः पञ्चभागे तु द्विभागं पादविस्तरम् ॥ २२-९२ ॥

पदान्ताद्धस्तमानेन तद्वदूर्ध्वे तु विस्तरम् ।
नानागणिकया युक्तं नानाकुंभैः समन्वितम् ॥ २२-९३ ॥

तदूर्ध्वे मुकुलाकारं नालं ग्रन्धिसमायुतम् ।
दीपदण्डं तव प्रोक्तं दीपमालां ततः शृणु ॥ २२-९४ ॥

ताम्रेण वायसेनाथ दारुभिर्वाथ कारयेत् ।
द्वारे तु द्वारवत् कृत्वा प्रभाकारन्तु पृष्ठके ॥ २२-९५ ॥

शूलवच्छूल देवांश्च चक्रञ्च चक्रदीपवत् ।
धुर्तूरपुष्पवन् मूर्ध्नि एकधारक दीपिका ॥ २२-९६ ॥

दीपदेहा इमे प्रोक्ता यंत्रिकांश्च ततः शृणु ।
आयसेन प्रकर्तव्यं नालं वै मध्यमाङ्गुलम् ॥ २२-९७ ॥

कवाटार्गल संबन्धं यथा युक्तं भवेदिह ।
द्विवक्त्रञ्च ततः कृत्वा पूर्वपश्चिमसंयुतम् ॥ २२-९८ ॥

मूले वलयसंयुक्तं सुस्निग्धञ्च भवेदिह ।
यंत्रिका च तथा प्रोक्ता बलिपात्रमतः शृणु ॥ २२-९९ ॥

आयसेन प्रहैमेन अथवा ताम्रकेण वा ।
चतुस्त्रिद्वयतालं वा विस्तारं समुदाहृतम् ॥ २२-१०० ॥

दलाष्टकसमायुक्तं कर्णिकामध्यमे न्यसेत् ।
भक्तिद्वयङ्गुलोत्सेधं त्रिभागैकेन कर्णिकाः ॥ २२-१०१ ॥

चतुर्विधा त्रिपादी स्याच्छंख पादीत्रिपादिका ।
यवनी पादमेवं स्यात् स्थलिका पादमेव च ॥ २२-१०२ ॥

षडङ्गुलन्तदुत्सेधं तदर्धं मुखविस्तरम् ।
कनिष्ठाङ्गुल नाहन्तु शङ्खपादं प्रकीर्तितः ॥ २२-१०३ ॥

द्विगुणञ्च त्रिपादी च पादं वक्त्रेणसंयुतम् ।
शरावा कृतिमूले तु शेषं बूध्याप्रकल्पयेत् ॥ २२-१०४ ॥

प्. १०४) त्रिपाद त्रिगुणं वत्सयवन्याः पादमुच्यते ।
पीठोत्सेधसमं विद्यात् स्थलिका पादमेव च ॥ २२-१०५ ॥

त्रिपादलक्षणं प्रोक्तं दर्व्यालक्षणकं शृणु ।
रत्निमात्रं तदायामं भुजङ्गस्य फणोपमम् ॥ २२-१०६ ॥

अष्टाङ्गुलसुविस्तीर्णं तदर्धं पादमेव च ।
तदर्धं मध्यमस्योक्तमुक्तं दर्व्यास्तु लक्षणम् ॥ २२-१०७ ॥

पञ्चहस्त प्रमाणेन विस्तारायामतः समम् ।
वस्त्रयुग्मसमायुक्तं सुश्लक्ष्णं सुदृढं सितम् ॥ २२-१०८ ॥

नानावर्ण विचित्राङ्गं तथा सर्वन्तु कारयेत् ।
एवं वितानमुक्तन्तु ध्वजलक्षणमुच्यते ॥ २२-१०९ ॥

क्षौमपट्टदुकूलैर्वा कार्पास सममेव वा ।
हस्तमात्र सुविस्तारमायामं द्विगुणं भवेत् ॥ २२-११० ॥

चतुस्त्रिद्वयपुच्छं वा ध्वजार्धशिरपुच्छकम् ।
पताकायाः प्रमाणन्तु प्रागुक्तद्विगुणायतम् ॥ २२-१११ ॥

अन्यत् समानमत्रैव जललक्षणमुच्यते ।
पट्टदेवाङ्गनेत्रैर्वा कार्पासैः शुक्लवाससा ॥ २२-११२ ॥

पीठोत्सेधस्य चार्धार्धं वस्त्रविस्तारमुच्यते ।
विस्ताराष्टगुणायामं सदशन्तु सलक्षणम् ॥ २२-११३ ॥

आखुदष्टाग्नि दग्धञ्च जीर्णञ्चापि विसर्जयेत् ।
वस्त्रमेवं समाख्यातं पृच्छन्न पटमुच्यते ॥ २२-११४ ॥

द्वारादध्यर्ध विस्तारमायामं द्विगुणं भवेत् ।
पापक्रूर परिभ्रष्टैर्नास्तिकैः श्रुतिदूरकैः ॥ २२-११५ ॥

गोरसक्रयकैश्चैव पतितैश्च द्विजन्मभिः ।
वेदविक्रयकैश्चापि शास्त्रविक्रयकैरपि ॥ २२-११६ ॥

अदृष्टार्थं प्रकर्तव्यं दृष्टे पूजा तु निष्फला ।
विसर्जने तु निर्माल्ये पुष्पालङ्कारकर्मणि ॥ २२-११७ ॥

निवेद्यकाले सन्दिग्धे पृच्छन्न पटमुच्यते ।
उष्णीषञ्चोत्तरीयञ्च श्वेतसूक्ष्म सुवाससा ॥ २२-११८ ॥

उष्णीषञ्चोत्तरीयञ्च नवहस्तप्रमाणतः ।
खट्गपादसमुत्सेध रत्निद्वयसमायुतम् ॥ २२-११९ ॥

प्. १०५) अथवा हस्तमात्रं स्यात् पादद्विगुणविस्तरम् ।
विस्तारद्विगुणायामं कक्ष्याभिर्बन्धयेत् ततः ॥ २२-१२० ॥

खट्गायालक्षणं प्रोक्तमासनं शृणु सुव्रत ।
चतुःसिह्मसमायुक्तं हस्तमात्रोच्छ्रयं भवेत् ॥ २२-१२१ ॥

द्विरत्निविस्तृतं कार्यं वृत्तं च चतुरश्रकम् ।
आच्छाद्यतरुभिच्छोर्ध्वन्निघृणं सुदृढं क्रमात् ॥ २२-१२२


हंसा कारेण वा पादं भूतपादमथापि वा ।
गजाकारं वृषाकारं पादङ्कुर्याद् विशेषतः ॥ २२-१२३ ॥

कपोतनासिका युक्तं नानारत्नैर्विभूषितम् ।
हाटकं रजतं वापि यथा दारुमयन्तु वा ॥ २२-१२४ ॥

आसनं त्विदमाख्यातं ततः पद्मासनं शृणु ।
ऊर्ध्वाधोदलसंयुक्तं वृत्तमब्जासनं स्मृतम् ॥ २२-१२५ ॥

खट्गाकारैर्युतं पीठं समं वा चतुरायतम् ।
फलकापादहिनञ्च ततो रथमिहोच्यते ॥ २२-१२६ ॥

चतुश्चक्रसमायुक्तञ्चक्र पोततरुद्वयम् ।
तदूर्ध्वे वेदिकायुक्तमुत्तरन्तु निवेशयेत् ॥ २२-१२७ ॥

तदूर्ध्वे पद्मपट्टञ्च क्षूद्रपट्टं ततो न्यसेत् ।
कापोत नासिकायुक्तं फलकोपरि विन्यसेत् ॥ २२-१२८ ॥

द्वादशक्षुद्र पादाः स्युरष्टौ वा षोडशापि वा ।
विंशतिर्वा समाख्याता नासिकास्तद्वदेव हि ॥ २२-१२९ ॥

प्रत्यग्रे मुकुलं कार्यं तस्य नालं त्रिवक्रकम् ।
वृषभौ पार्श्वयोर्न्यस्त्वा तयोर्मध्ये पितामहः ॥ २२-१३० ॥

यष्टिरज्जु समायुक्तस्त्वग्रभागे प्रतिष्ठितः ।
प्रासादवत्तदुपरि मण्टपन्तोरणं हि वा ॥ २२-१३१ ॥

रथं समासतः प्रोक्तं रङ्गञ्चैव ततः शृणु ।
रथाधिष्ठानवत् कृत्वा ब्रह्माणं मुकुलन् त्यजेत् ॥ २२-१३२ ॥

रङ्गमण्टपवत् कृत्वा ह्यधप्रासादवत् कृतम् ।
दारुणा द्वितलङ्कृत्वा तदूर्ध्वे तु रगंमयः ॥ २२-१३३ ॥

चतुर्वापि गजोमध्ये वृषसिंहद्रुमोथवा ।
तलोर्ध्वेयं त्रिडोलांश्च अन्यदुक्तन्तु कारयेत् ॥ २२-१३४ ॥

प्. १०६) एवं तु रङ्गमाख्यातं शिबिकाञ्च तत शृणु ।
शिबिका चैव मौण्डी च शेखरी च त्रिधा भवेत् ॥ २२-१३५ ॥

उत्तमं सप्ततालन्तु पञ्चतालन्तु मध्यमम् ।
अधमन्तु चतुस्तालं विस्तारं त्रिविधं स्मृतम् ॥ २२-१३६ ॥

विस्तार द्विगुणायामं पादो न द्विगुणं तु वा ।
दन्तैर्वा दारुसारैर्वा काञ्चनाद्यैरलङ्कृतम् ॥ २२-१३७ ॥

पद्मपट्टिकया युक्तं फलकादि दृढान्तरम् ।
पद्मपत्रं षडङ्गुल्यं फलकाङ्गुलि हीनकम् ॥ २२-१३८ ॥

षोडशाङ्गुलमुत्सेधं भित्तेरुच्छ्रयमुत्तमम् ।
एकैकाङ्गुलिहीनास्युर्मध्यमस्याधमस्य तु ॥ २२-१३९ ॥

पट्टिका विस्तरं शस्तमथाष्टाङ्गुलमुत्तमम् ।
अङ्गुलाङ्गुलिहीनन्तु मध्यकन्य सयोस्तथा ॥ २२-१४० ॥

मध्ये पट्टिकया युक्तं फलकाञ्जालकान्वितम् ।
भित्तिपादाश्रितं कीलमायसेन तु कारयेत् ॥ २२-१४१ ॥

नानारूपसमायुक्तं नानानटसमायुतम् ।
मध्यपट्टसमं प्रोक्तमग्रभित्तेः समुन्नतम् ॥ २२-१४२ ॥

भित्यग्रे सिम्हकौतिर्यक् मकरेतच्छिरोपरि ।
पालिका सदृशाः पादाः सप्तवाष्टाङ्गुलोन्नताः ॥ २२-१४३ ॥

एवं वै शिबिकाप्रोक्ता मौण्डी शेखरयोः शृणु ।
विस्तारस्य समं प्रोक्तं भित्ते रुच्छ्रयमेव तु ॥ २२-१४४ ॥

शलाकृति यथा रूपं मौण्ड्याकारं विधीयते ।
शेखरे शिखरैर्युक्तं कापोतैः पादसंयुतम् ॥ २२-१४५ ॥

एवन्तु शिबिका प्रोक्ता ह्यण्डजादीं ततः शृणु ।
अण्डजं मुण्डजञ्चैव रोमजञ्चर्मजं तथा ॥ २२-१४६ ॥

वामजं शयनं पञ्च कल्पास्त्वेते विशेषतः ।
अण्डजञ्चात्र बोधव्यं पक्षिपिञ्छसमुद्भवम् ॥ २२-१४७ ॥

कार्पासेन कृतं यत्तु मुण्डजं च प्रकीर्तितम् ।
आविकादि मृगाणान्तु रोमजं रोमजं स्मृतम् ॥ २२-१४८ ॥

चर्मजं व्याघ्र सिंहयोः कौशेयं वामजं स्मृतम् ।
पट्टं वापि प्रकर्तव्यं स देशेनसमन्वितम् ॥ २२-१४९ ॥

प्. १०७) अण्डजं श्वेतरूपं स्यान्मुण्डजं पीतवर्णकम् ।
रोमजं कृष्णवर्णन्तु रक्तवर्णन्तु चर्मजम् ॥ २२-१५० ॥

वामजं सितवर्णन्तु शुक्लरूपन्तु पट्टकम् ।
यथार्हकं तथा कृत्वा ह्युपधानं तथा भवेत् ॥ २२-१५१ ॥

नवद्वादशकैर्वापि दशपञ्चाधिकैस्तु वा ।
नानावर्णैः सवर्णैश्च नानारूपसमायुतैः ॥ २२-१५२ ॥

एतैर्वस्त्रैस्तु संप्रोक्तं तरङ्गमिहशोभनम् ।
स्तम्भायाम समायुक्तं स्तंभवेष्ट न मुच्यते ॥ २२-१५३ ॥

शुद्धकांस्येन कर्तव्यं विस्तारं रत्निमात्रकम् ।
षोडशाङ्गुलविस्तारमथवा द्वादशाङ्गुलम् ॥ २२-१५४ ॥

तारार्धं वा तु तुङ्गं स्यात् कुर्याद् देवस्य दर्पणम् ।
तत्र तु द्वादशाङ्गुल्यं पादुकं स्वप्रमाणतः ॥ २२-१५५ ॥

आयामार्धन्तु विस्तारं विस्तारार्धं समुच्छृतम् ।
लोहे नैव तु कर्तव्यं पादुकाद्वयमुत्तमम् ॥ २२-१५६ ॥

चामरव्यजनादीनां लक्षणं वक्ष्यते धुना ।
मायूरव्यजनं कुर्याच्चमर्या चामरं तथा ॥ २२-१५७ ॥

हेमरत्नमयं दण्डं रौप्यन्ताम्रमयं तु वा ।
दन्तैर्वा दारुसारैर्वा दण्डं कुर्याद् विशेषतः ॥ २२-१५८ ॥

श्वेतच्छत्रस्य पिञ्छस्य वक्ष्येहं लक्षणं शृणु ।
सप्त षट्तालतारं वा ह्यधवा पञ्चतालकम् ॥ २२-१५९ ॥

वस्त्रैरावेष्ट्य सर्वत्र मौक्तिकैश्च विभूषयेत् ।
मयूरपिञ्छकैः पिञ्छमथोद्युगन्तु कल्पयेत् ॥ २२-१६० ॥

सौवर्णं रजतं वापि ताम्रं वा मकुटं भवेत् ।
नवाष्ट सप्तषड्डस्तैः पञ्चहस्तैश्चतुष्ककैः ॥ २२-१६१ ॥

त्रिहस्तैर्वा यथा लाभन्तेषां दण्डस्य दैर्घ्यकम् ।
तालञ्छत्रन्तु कर्तव्यं तत् प्रमाणन्तु बुद्धिमान् ॥ २२-१६२ ॥

छत्रं पिञ्छं तथा प्रोक्तमष्टमङ्गलमुच्यते ।
दर्पणं पूर्णकुंभञ्च वृषभं युग्मचामरम् ॥ २२-१६३


श्रिवत्सं स्वस्तिकं शङ्खं दीपो देवाष्टमङ्गलम् ।
स्त्रीणां शिरोपरिन्यस्त्वा मङ्गलानि विशेषतः ॥ २२-१६४ ॥

प्. १०८) रत्निमात्रं समुत्सेधं मन्वङ्गुल सुविस्तृतम् ।
दर्पणादिनी रूपाणि कृत्वा वै शिरसि न्यसेत् ॥ २२-१६५ ॥

सर्वधा शुक्लवर्णाः स्युः सर्वाभरणसंयुतान् ।
यन्मानं दिव्यनारीणां तन्माने नैव कारयेत् ॥ २२-१६६ ॥

हृदयें जलिसंयुक्ताः पद्मपीठोपरि स्थिताः ।
लोकैर्वा दारुभिर्वापि कारयेद् देशिकोत्तमः ॥ २२-१६७ ॥

स्वनाम्नैव च संपूज्य सर्वमङ्गलकर्मसु ।
अथवाष्टाङ्गुलन्तारमायामं षोडशाङ्गुलम् ॥ २२-१६८ ॥

अधस्तात् पद्मपीठन्तु तच्चतुर्थां शमानतः ।
पद्मोर्ध्वे दर्पणादीनि कारयेद् अथ लेखयेत् ॥ २२-१६९ ॥

देवाष्टमङ्गलं प्रोक्तमस्त्राणां लक्षणं शृणु ।
शूलं परशु वज्रञ्च खट्गंपाशं तथाङ्कुशम् ॥ २२-
१७० ॥

घण्टानागञ्च वह्निञ्च क्षुरिका च दशायुधम् ।
एकतालप्रमाणन्तु भूतानामुपरि स्थितम् ॥ २२-१७१ ॥

विंशत्यङ्गुलमायामं भूतानान्तु प्रकीर्तितम् ।
भूतवत् भूतमानेन कारयेत् सर्वमानकैः ॥ २२-१७२ ॥

यद्वर्णमायुधस्योक्तं तद्वर्णं नामतद्भवेत् ।
भागेन कारयेच्छूलं गण्डिकाभागमेव च ॥ २२-१७३ ॥

शूलस्य लक्षणं प्रोक्तं परशोर्ल्लक्षणं शृणु ।
गण्डिकाशूलपादाभ्यां कालमानेन वै बुधः ॥ २२-१७४ ॥

भागन्नालं तथा ग्रन्धि चतुरास्य समायुतम् ।
एवं वै परशु प्रोक्तं वज्रलक्षणमुच्यते ॥ २२-१७५ ॥

तालमात्रं तथा यामं विस्तारोऽष्टाङ्गुलं मतम् ।
तन्मध्ये गण्डिकां कुर्यात् चतुरङ्गुलमानतः ॥ २२-१७६ ॥

शेषैरष्टाङ्गुलैरेव अधश्चोर्ध्वं त्रिशूलवत् ।
पार्श्व पत्रद्वयञ्चक्रं मध्यमत्र ऋजुस्थितम् ॥ २२-१७७ ॥

एवं वज्रं समाख्यातं खट्गलक्षणमुच्यते ।
एकाङ्गुलन्तु विस्तारमधस्तात् कञ्चुकं भवेत् ॥ २२-१७८ ॥

चतुरङ्गुलविस्तारा फलका चतुरश्रका ।
त्रियङ्गुलं भवेत् कर्णं तस्य नाहं द्वयाङ्गुलम् ॥ २२-१७९ ॥

प्. १०९) कर्णोर्ध्वे पालिकां कुर्यात् फलकोक्तार्धमानतः ।
तदूर्ध्वोङ्गुलविस्तारमर्धाङ्गुलमथायतम् ॥ २२-१८० ॥

ऋजुङ्कृत्वा कृतिर्वक्त्रमेवं खड्गस्यलक्षणम् ।
फणद्वयसमायुक्तः पाशः प्रोक्तोभुजङ्गमः ॥ २२-१८१ ॥

पूर्वोक्तविधिना कार्या घण्टा लक्षणसंयुताः ।
नागं हीनाङ्गवत् कृत्वा फणयुक्तं सजिह्वकम् ॥ २२-१८२ ॥

अग्निज्वालासमायुक्तो नालमर्धमिदं भवेत् ।
क्षुरिकान्तालमात्रोच्चान्तस्य मूलन्तु खट्गवत् ॥ २२-१८३ ॥

ऋजुतीष्णास्य संयुक्तां सूक्ष्माग्रेण समायुताम् ।
एवं दशायुधं प्रोक्तं सदाशिवकरेधृतम् ॥ २२-१८४ ॥

सर्वमङ्गलकार्येषु उत्सवे यागकर्मणि ।
पूजयेत् सुविशेषेण लोकपालायुधांच्छृणु ॥ २२-१८५ ॥

वज्रं शक्तिञ्च दण्डञ्च खट्गंपाशांकुशौ गदाम् ।
त्रिशूलं चक्रं पद्मञ्च दशायुधमिति स्मृतम् ॥ २२-१८६ ॥

प्राक् दशास्त्रोक्तमानेन लोकशास्त्राणि कारयेत् ।
पूर्ववद् वज्रमुक्तन्तु शक्तिलक्षणमुच्यते ॥ २२-१८७ ॥

मूले गण्डिकयायुक्तं भवेदेकैकमङ्गुलम् ।
एकैकाङ्गुल वृध्या तु विस्तरं गण्डिकात्रयम् ॥ २२-१८८ ॥

चतुरङ्गुलन्तु तन्मूलं नाहन्तस्य षडङ्गुलम् ।
तदूर्ध्वे गण्डिकायुक्तं कुम्भञ्चैव तदूर्ध्वतः ॥ २२-१८९


दण्डमेवं समाख्यातं खट्गंपाशन्तु पूर्ववत् ।
दण्डाग्रे गण्डिकायुक्ता जिह्वा श्वेत्बालचन्द्रवत् ॥ २२-१९० ॥

अङ्कुशं त्वितिविख्यातं गदालक्षणमुच्यते ।
गदायास्तु प्रकर्तव्यं कुम्भाधस्तात् तु पूर्ववत् ॥ २२-१९१ ॥

कुम्भधारा समायुक्त गदा वै दण्डवत् स्मृतौ ।
प्रागुक्ता वयवोपेतं शूलं पूर्वव देव हि ॥ २२-१९२ ॥

चक्रस्य शूलवन्मानं द्वादशारसमन्वितम् ।
मध्ये नाभि समायुक्तं परितः पत्रसंयुतम् ॥ २२-१९३ ॥

एवञ्चक्रं समाख्यातं पद्मलक्षणमुच्यते ।
अष्टाङ्गुलन्तु मुकुलं दलाष्टकसमन्वितम् ॥ २२-१९४ ॥

प्. ११०) चतुरङ्गुलनालन्तु कुर्यात् पद्मं स लक्षणम् ।
सौवर्णं रजतं वापि ताम्रा यासन्तु दारुवत् ॥ २२-१९५ ॥

तेषां रत्निसमुत्सेधं कृत्वा पुरुषमानतः ।
किञ्चिदत्र विशेषोस्ति शक्तिस्त्रीरुपया भवेत् ॥ २२-१९६ ॥

शेषाश्च पुरुषाकारा सर्वाभरणभूषिताः ।
अस्त्राणि शिरसाधार्या नमस्कृत्वा कृताञ्जलिः ॥ २२-१९७ ॥

अस्त्रवर्णास्तु पूर्वाः स्युर्नामतन्नाम एव तु ।
अस्त्राणां लक्षणं प्रोक्तं तोरणानां शृणु क्रमात् ॥ २२-
१९८ ॥

पलाशखदिराश्वत्थैः शमीबिल्वशिरीषकैः ।
कारयेत् तोरणान् सम्यक् यथा वा याज्ञिकैः पुनः ॥ २२-१९९ ॥

सप्तषट्पञ्चहस्तोच्चं विस्तारं स्यात् तदर्धकम् ।
एकहस्तप्रमाणेन मध्ये शूलसमायुतम् ॥ २२-२०० ॥

तोरणानां विधिः प्रोक्ता भद्रं तोरणमुच्यते ।
द्वारेषु गोपुराणाञ्च विन्यसेच्छुभ कर्मणि ॥ २२-२०१ ॥

द्वारात् पादाधिकं दैर्घ्यं विस्तारं द्वारतः समम् ।
कुम्भगण्डियुतं स्तंभं विष्कंभं रत्निविस्तृतम् ॥ २२-२०२


अश्वत्थ पत्रवलयैरष्टमङ्गलकैर्युतम् ।
त्रिशूलमुपरि न्यस्त्वा हस्तमात्रप्रमाणकम् ॥ २२-२०३ ॥

भद्रतोरणमेवोक्तं सुवर्णकुसुमं शृणु ।
द्वादशाङ्गुलविस्तारं वसुभागार्धमेव वा ॥ २२-२०४ ॥

मध्यमे कर्णिकायुक्ते दलाष्टकसमन्वितम् ।
पुष्पमेवं समाख्यातं पट्टञ्च गोलकां शृणु ॥ २२-२०५ ॥

पट्टञ्च भागविस्तारं लिङ्गनाहञ्च दैर्घ्यकम् ।
गोलका किञ्चिदाविधं लिङ्गमानेन कारयेत् ॥ २२-२०६ ॥

जटामकुटमीशस्य शक्तिनान्तु किरीटकम् ।
मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ॥ २२-२०७ ॥

कटकं कटिसूत्रञ्च पादनूपुरकं तथा ।
कुर्यादुदर बन्धञ्च स्त्रीणां वै रत्नभूषणम् ॥ २२-२०८ ॥

प्. १११) यथा हि प्रतिमानान्तु तथा तत्रैव बुद्धिमान् ।
एवमाभरणं प्रोक्तं क्षुरकर्तरिकां शृणु ॥ २२-२०९ ॥

अष्टाङ्गुलमयि वामं तदर्द्धं विस्तृतं तथा ।
आयसेन तु कर्तव्यं तन्नालञ्चतुरङ्गुलम् ॥ २२-२१० ॥

द्वादशाङ्गुलमानेन विवक्रमरसंयुतम् ।
क्षुरकर्तरिकौ प्रोक्तौ दीक्षाकर्मणि योजयेत् ॥ २२-२११ ॥

द्वादशाङ्गुलमानेन ऊर्मिजालेनमार्जनम् ।
नालिकेरस्य पत्राणां सारान् बहुलसंयुतान् ॥ २२-२१२ ॥

अरत्निमात्रमायामन्तं मूले रज्जुबन्धनम् ।
द्विविधामार्जनी प्रोक्ताह्ययं मार्जनकर्मणि ॥ २२-२१३ ॥

मृत्पात्राणीह सर्वाणि मासादूर्ध्वं परित्यजेत् ।
लोहदार्वादिकरणं तल्लयान्तं परिग्रहेत् ॥ २२-२१४ ॥

एवं समासतः प्रोक्तं ग्रमादीनां ततः शृणु ।

इति करणाधिकारलक्षणपटल द्वाविंशतितमः ॥ २२ ॥


 अथ ग्रामादिलक्षण पटलः

अथातः संप्रवक्ष्यामि ग्रामादीनान्तु लक्षणम् ।
देवानां पूजनार्थन्तु ग्रामादिविन्यसेत् क्रमात् ॥ २३-१ ॥

ग्रामञ्च नगरञ्चैव पत्तनं खर्पटं परम् ।
खेटकं कुटिकञ्चैव शिबिरं राजधानिकम् ॥ २३-२ ॥

सेनामुखं दशैतानि कीर्तितानि क्रमेण वै ।
विप्राणाञ्च ससत्यानां वासोग्राम इति स्मृतम् ॥ २३-३ ॥

स एव विप्रमुख्यानामग्रहार इति स्मृतम् ।
अनेकजातिसंबाधं नानाशिल्पजनैर्युतम् ॥ २३-४ ॥

क्रयविक्रयकैः कीर्णं सर्वदेवैः समायुतम् ।
नगरं त्वितिविख्यातं पत्तनं शृणु सांप्रतम् ॥ २३-५ ॥

प्. ११२) दीपान्तरगतद्रव्यं विक्रयक्रयकैर्युतम् ।
पत्तनं त्वब्धितीरे तु तयोर्मिश्रन्तु खर्पटम् ॥ २३-६ ॥

क्रयविक्रयकैर्युक्त नानाजातिसमायुतम् ।
तन्तु वायैः समायुक्तं तत्पुरं त्वितिसंस्मृतम् ॥ २३-७ ॥

शूद्रैरधिष्ठितं यत्तत् खेटकं त्वितिकीर्तितम् ।
तेषां समान्तरे येषां वा संकुटिकमुच्यते ॥ २३-८ ॥

राजसेना च मूनान्तु निवेशं शिबिरं स्मृतम् ।
चतुरङ्गसमाकीर्णं नृपभूतिसमायुतम् ॥ २३-९ ॥

राजवेश्मसमायुक्तं राजधानीति चोच्यते ।
सर्वजातिसमाकीर्णं नृपवेश्मसमायुतम् ॥ २३-१० ॥

बहुरक्षासमायुक्तं सेनामुखमिति स्मृतम् ।
ग्रामद्वादश साहस्रैर्दशसाहस्रकैरथ ॥ २३-११ ॥

सहस्राष्टकसङ्ग्याभिः कर्तव्यञ्चोत्तमत्रयम् ।
सप्तषट्पञ्चसाहस्रैर्मध्यमत्रयमेव हि ॥ २३-१२ ॥

चतुस्त्रिद्विसहस्रैस्तु कन्यसत्रयमाश्रयेत् ।
एवं नवविधं प्रोक्तमथक्षुद्राणि चोच्यते ॥ २३-१३ ॥

सहस्रमर्धमर्धञ्च क्षुद्रेषु वरमुच्यते ।
द्विशतं त्वर्धमर्धञ्च क्षुद्रमध्यममेव च ॥ २३-१४ ॥

चत्वारिंशदथत्रिंशद्विंशत् क्षुद्रावरं स्मृतम् ।
अष्टादशविधन्तेषु यथा शक्तन्तु कारयेत् ॥ २३-१५ ॥

विद्याचारगुणैर्युक्तान् पत्न्यग्नि गुरुपुत्रकान् ।
दरिद्रां वेदशास्त्रज्ञानाहू या भ्यर्चयेत् क्रमात् ॥ २३-१६ ॥

विप्रनामादिकं गोत्रैस्ताम्र पत्रतलेर्पयेत् ।
ग्रामबीजां विनिच्छित्य तथा प्रत्यकरेणुना ॥ २३-१७ ॥

प्रमाणैर्निश्चितं भूमिं दद्यादुदकपूर्वकम् ।
एवमेव कृते पश्चात् ग्रामविन्यासमारभेत् ॥ २३-१८ ॥

भूमिं समतलङ्कृत्वा खातकर्षणसंयुतम् ।
पञ्चसाहस्र दण्डेन कल्पयेदुत्तमस्य तु ॥ २३-१९ ॥

सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।
तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥ २३-२० ॥

प्. ११३) वृत्तं वा चतुरश्रं वा पूर्वायाममथापि वा ।
दक्षिणायतमेवाथ कल्पयेत् तन्त्रवित्तमः ॥ २३-२१ ॥

तन्मध्ये नै-ऋतेभागे दण्डमानेन विस्तृतम् ।
शङ्कुमण्डलमास्तीर्य मध्ये शङ्कुं स लक्षणम् ॥ २३-२२ ॥

खदिरञ्चन्दनं वापि सालयाज्ञकवृक्षजम् ।
द्वादशाङ्गुलमुत्सेधं नाहङ्कृत्वा तदर्धतः ॥ २३-२३ ॥

मूलात् षोडश हीनाग्रं सुदृढमृजुमव्रणम् ।
शङ्कुप्रमाणाद् द्विगुणं त्रिगुणं मण्डलत्रयम् ॥ २३-२४ ॥

ब्रह्माणं मनसाध्यात्वा शङ्कुण्डलमध्यमे ।
न्यस्त्वाच्छायाग्रपतनं दृष्ट्वा संलक्ष्यसुचिना ॥ २३-२५ ॥

पूर्वाह्णे वा पराह्णे वा सूत्रं तत्र प्रसारयेत् ।
एवं पाचीन्तु सङ्कल्प्य मत्स्ये नोदीचिकंबुधः ॥ २३-२६ ॥

एकाशीति पदन्तत्र सूत्रमानेन कल्पयेत् ।
तत्रस्थ देवान् सङ्कल्प्य गन्धपुष्पादिभिः क्रमात् ॥ २३-२७ ॥

ईशानश्चाथफर्जन्यो जयन्तश्च महेन्द्रकः ।
आदित्यः सत्य अभ्रंशा वन्तरिक्षश्च पूर्वगाः ॥ २३-२८ ॥

अग्निः पूषा च वितथोग्रहक्षतयमौ तथा ।
गन्धर्वो भृंगराजस्तु मृगश्चिव तु दक्षिणे ॥ २३-२९ ॥

नि-ऋतिद्वौ वारिकश्चैव सुग्रीवं पुष्पदन्तकः ।
वरुणश्चासुरः शोषः पापयक्ष्मा च पश्चिमे ॥ २३-३० ॥

वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।
ऋगोदध्ययनश्चैव द्वात्रिंशत् बाह्यदेवताः ॥ २३-३१ ॥

मरीचिको विवस्वांश्च मित्रश्च पृथिवीतरः ।
आपश्चैवापवत्सश्च सविता सावित्र एव च ॥ २३-३२ ॥

इन्द्र इन्द्र जयश्चैव रुद्रोरुद्र जयस्तथा ।

तत् समंद्वा * * * * * * * * * * * *? ।

तदर्धं क्षुद्रविधिना दक्षिणोत्तरमार्गतः ।
ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥ २३-३५ ॥

प्. ११४) श्रीवत्सन्नाभिवर्तञ्च पार्श्वयुक्तन्तु पद्मकम् ।
नन्द्यावर्तञ्च भद्रञ्च स्वस्तिकञ्च प्रकीर्णकम् ॥ २३-३६ ॥

ग्रामा ग्रहारयोर्न्यासमेवं प्रोक्तं विशेषतः ।
कुम्भवेदिक सिंहाख्या स्त्रिधासेना निवेशनम् ॥ २३-३७ ॥

दण्डकन् त्वितिविख्यातं नागरादिप्रकल्पयेत् ।
वीधयः प्राङ्मुखस्तिस्रः सप्तपञ्च उदङ्मुखाः ॥ २३-३८ ॥

अष्टद्वारन्तु विन्यासं श्रीवत्सन्तु प्रगद्यते ।
ता एव विधयः प्रोक्ता नाभियुक्तञ्च मध्यमे ॥ २३-३९ ॥

पार्श्वयो राजवीधी च नाभिवर्तस्य चोच्यते ।
अनाभिः पूर्ववत् प्रोक्तं पार्श्वयुक्तमिति स्मृतम् ॥ २३-४० ॥

अष्टद्वारसमायुक्तं प्राङ्मुखं पञ्चवीधिकाः ।
शेषाणि पूर्ववत् कृत्वा नन्द्यावर्तमुदाहृतम् ॥ २३-४१ ॥

द्वारवीधिं यदिप्रोक्ष्यद्रुममध्यम संस्पृशेत् ।
भद्रकं नामनामेति स्वस्तिकञ्च ततः शृणु ॥ २३-४२ ॥

तिर्यग्वीधिरयुग्माश्च प्राङ्मुखाश्चतुरत्थ्यया ।
स्वस्तिकञ्च इति प्रोक्तं पद्मकञ्च ततः शृणु ॥ २३-४३ ॥

नाभिमङ्गलवीधीभ्यामयुग्माः क्षुद्रविधयः ।
परिवेष्टिञ्च तद्वारमेतत् पद्मकमुच्यते ॥ २३-४४ ॥

तथा स्वस्तिकवत् कृत्वा कोणमध्ये च द्वारकौ ।
एतत् तु कर्णिका पद्मं पद्मावर्तमथशृणु ॥ २३-४५ ॥

पद्मवत् प्रोतरत्थ्यान्तं पद्मावर्तमिति स्मृतम् ।
स्वमध्ये नाभियुक्तन्तु तद्युक्ता चान्तवीधिका ॥ २३-४६ ॥

प्रकीर्णकमिति प्रोक्तं कुम्भकञ्च ततः शृणु ।
आवृतञ्चोक्तरत्थ्या च कुम्भकञ्चेति कथ्यते ॥ २३-४७ ॥

पञ्च * * * * * * * * * * * * * *? ।

सहस्रदण्डमानेन मध्यमस्य तु बुद्धिमान् ।
तदर्धदण्डमानेन कर्तव्यं त्वधमस्य तु ॥ २३-४९ ॥

प्. ११५) यथेष्टायतरत्थ्येक द्वारद्वयसमन्वितम् ।
तद्दण्डकमिति प्रोक्तमेतत् ग्रामादिनामतः ॥ २३-५० ॥

नाभिप्रोक्तं दण्डछेदं सूत्रछेदं न कारयेत् ।
सगर्भा सर्व-ऋद्धिः स्यादगर्भा सर्वनाशिनी ॥ २३-५१ ॥

तस्मादादौ प्रकर्तव्या सगर्भा पृथिवी ततः ।
शतद्वयपलैस्ताम्रैस्तदर्धैर्वा तदर्धकैः ॥ २३-५२ ॥

पलैः फेला प्रकर्तव्या हस्तमात्रप्रमाणतः ।
नवकोष्ठसमायुक्तं सपिधाना समादृढा ॥ २३-५३ ॥

रत्नबीज सम्रध्या तु लोहकन्दानि चैव हि ।
फेलामध्ये यथा न्यस्त्वा सुमुहूर्ते तु विन्यसेत् ॥ २३-५४ ॥

ग्राममध्ये सभास्थाने द्वारदक्षिणपार्श्वके ।
देवालये तथा रामे तटाकस्य तु तीरके ॥ २३-५५ ॥

एवं गर्भं सुविन्यस्य ग्रहश्रेणी समारभेत् ।
त्रिदण्डं पञ्चदण्डं वा सप्तदण्डाधमत्रयम् ॥ २३-५६ ॥

नवैकादशदशकं मध्यमत्रितयं विदुः ।
दशपञ्चाधिकं सप्तदशचैकोनविंशतिः ॥ २३-५७ ॥

उत्तम त्रितयद्वत्र एषामेक तमंबुधः ।
विस्ताराभद्विगुणाधिक्यं दण्डैकमधिकं यथा ॥ २३-५८ ॥

विस्तारादर्द्धमायामं द्विगुणं त्रिगुणायतम् ।
पुरुषस्यप्रधानं हि वासं दक्षिणमुच्यते ॥ २३-५९ ॥

उत्तरेरङ्गमेवं स्यात् स्त्रीणाञ्चेद्विपरीतकम् ।
ईशे महासनं प्रोक्तं मांहेन्द्रे द्वारवेशनम् ॥ २३-६० ॥

नै-ऋते कल्पयेद् धान्यं फर्ज्जन्येजलनिर्गमम् ।
विधेरभिमुखद्वारं ग्रहाणां तद्विधीयते ॥ २३-६१ ॥

सप्तविंशति दण्डं वा महावीधि प्रमाणतः ।
तत् समन्द्वारमाख्यातं तद्वास्तूक्त पदेषु वै ॥ २३-६२ ॥

तदर्धं क्षुद्र विधिना दक्षिणोत्तरमार्गतः ।
ग्रहारंभस्य पूर्वे तु देवानामालयं पृथक् ॥ २३-६३ ॥

प्. ११६) ईशाने चेश्वर स्थानं सोमेशानान्तरेऽथवा ।
तथैन्द्राशान योर्मध्ये कल्पयेत् तु विचक्षणः ॥ २३-६४ ॥

सहस्रभूसुरादूर्ध्वे ब्रह्मेशो वायुदेशके ।
पञ्चमूर्ति विधानेन स्थापयेद् वै जनार्दनम् ॥ २३-६५ ॥

ऐन्द्रे तु भास्करस्थानं महामोट्यास्तु पावके ।
दुर्गस्थानन्तु याम्यायां महेशि तुश्च नै-ऋते ॥ २३-६६ ॥

विष्णु स्थानन्तु वारुण्यां सुब्रह्मण्यन्तु वायवे ।
विनायक स मातृणां स्थानं सम्यक् तथोत्तरे ॥ २३-६७ ॥

प्राकार परिखाबाह्ये मातृणां स्थानमिष्यते ।
तासां वै चोत्तरद्वारं ग्रामादीनां हिताय वै ॥ २३-६८ ॥

सूर्यस्य पश्चिमद्वारमन्येषां पूर्वतोमुखम् ।
तटाकस्य तु तीरे तु ज्येष्ठा देवीं प्रकल्पयेत् ॥ २३-६९ ॥

बाह्ये चाभ्यन्तरेवापि देवागारं पृथक् पृथक् ।
शिवस्य वास्तु बाह्ये तु प्रासादं प्रोक्तदेशके ॥ २३-७० ॥

सन्धिमर्मेषु वीध्यग्रे देवानामालयन्न हि ।
ग्रामायामस्य पञ्चांशं परितः कल्पयेत् पृथक् ॥ २३-७१ ॥

पैशाचमिति विख्यातं तत्र देवालयं स्मृतम् ।
शिवस्याराधनं नित्यं भुक्तिमुक्तिप्रदायकम् ॥ २३-७२ ॥

अन्येषां पूजनन्नित्यं ग्राम-ऋद्धिकरं भवेत् ।
देवस्थानं विनायत्र एककालं न वासयेत् ॥ २३-७३ ॥

नित्यपूजाविहीने तु क्रुद्धं पीडां करोति हि ।
तत् पूजकास्तु तत् पार्श्वे तस्यालयसमीपतः ॥ २३-७४ ॥

आवासं संप्रकल्प्यैव न्यसेयुर्निरुपद्रवाः ।
ग्रामादीनान्तु परितः शूद्राणान्तु निवासकम् ॥ २३-७५ ॥

वारिजां पश्चिमेभागे अथवा दक्षिणे दिशि ।
प्राच्याञ्चैव कुलालानां पश्चिमे वा विशेषतः ॥ २३-७६ ॥

पश्चिमे मांसवृत्तीनां वायव्येमत्स्यजीविनाम् ।
दक्षिणे तैल वृत्तीनामुत्तरे पुष्पजीविनाम् ॥ २३-७७ ॥

प्. ११७) आग्नेय्यां नापितानान्तु नै-ऋत्यान्तन्तु वायकान् ।
परितः परिघातन्तत् बाह्ये चाप्यन्त्यजनान् पृथक् ॥ २३-७८ ॥

पूर्वे वा पश्चिमे वापि कर्मकारान् प्रकल्पयेत् ।
कारुकाणान्ततो बाह्ये चण्डालानान्ततो बहिः ॥ २३-७९ ॥

ग्रामात् क्रोशमतिक्रम्य नगराणान्तदर्धतः ।
ग्रामस्यैशान दिक्भागे श्मशानन्तु विधीयते ॥ २३-८० ॥

नद्यास्तीरेऽथवा सोमे कञ्चिद्दूरं समाश्रितम् ।
चतुर्दिक्षु तटाकञ्च कोणे वापि प्रकल्पयेत् ॥ २३-८१ ॥

एवं समासतः प्रोक्तं ग्रामादीनान्तु लक्षणम् ।
शृणुत्वमेव मनसा विभवस्य तु निश्चयम् ॥ २३-८२ ॥

इति ग्रामादिलक्षणपटलस्त्रयोविंशतितमः ॥ २३ ॥


अथ विभवनिश्चय पटलः

अथातः संप्रवक्ष्यामि विभवस्य विनिश्चयम् ।
साम्रतं हारकञ्चैव द्विविधं मार्गमुच्यते ॥ २४-१ ॥

शिवं साम्रमिति प्रोक्तमन्येषां हारकं स्मृतम् ।
अशक्तः साम्रतं कर्तुं हारकेणसमारभेत् ॥ २४-२ ॥

समाप्ति पूर्वं यत् कर्मसाम्रतं ह्यभिधीयते ।
पश्चात् कर्मसमाप्तिः स्यात् हारकं मार्गमुच्यते ॥ २४-३ ॥

नवधा कल्पयेद् विद्वान् यज्ञोपस्करमादरात् ।
आदिशैवांस्तपोयुक्तां विधिज्ञान् मन्त्रसंयुतान् ॥ २४-४ ॥

शिवव्रतधरान्मुख्यान् शैववेद विशारदान् ।
यस्मिन् सञ्जायते भक्तिस्तस्मिन्नाहूयशास्त्रतः ॥ २४-५ ॥

प्. ११८) सर्वशास्त्राश्रितं शास्त्रं सर्वज्ञानेषु दुर्ल्लभम् ।
सर्वपूजा क्रियायुक्तं तन्त्रं सर्वार्थसाधनम् ॥ २४-६ ॥

इदं शास्त्रं परं दिव्यं तमसामिव भास्करः ।
तस्माच्छैवमिदं श्रेष्ठं रत्नानामिव भास्करः ॥ २४-७ ॥

शैवरत्नमतं दिव्यं शैवशास्त्रार्थ पारगाः ।
जङ्गमा इवमूर्तिस्थाः शिवस्येव विशेषतः ॥ २४-८ ॥

नमस्कृत्वा यथा न्यायं पप्रच्छेत् सविधानतः ।
अनुज्ञाप्य स्वदेशस्थान् भक्तियुक्तान् दृढवृतान् ॥ २४-९ ॥

यूयं दासाः शिवेमुख्या युष्माकमिहमुख्यतः ।
भक्तस्य मम दासस्य युष्मद् भक्तिपरस्य च ॥ २४-१० ॥

अनुमान्यो भवद्भिश्च पूजा संप्रतिग्रह्यताम् ।
अहं दीक्षां करीष्यामि येषु यज्ञपरं परम् ॥ २४-११ ॥

समाप्यताञ्च युष्माभिर्दीर्घ सत्रं विशिष्यते ।
अरिष्टानाञ्च शान्त्यर्थं यूयमेव प्रगृह्यताम् ॥ २४-१२ ॥

तत् पुनर्महदत्यन्तं युष्माकं प्रक्षिपाम्यहम् ।
शतमष्टोत्तरं वापि आदिशैवान् प्रगृह्य च ॥ २४-१३ ॥

एत देवञ्च कर्तव्यं मयायज्ञसमाप्तिकम् ।
युष्मच्छासनमार्गेण प्रयताम विशेषतः ॥ २४-१४ ॥

हविषामध्यमे तावदर्चनाभोगमेव तु ।
गन्धपुष्पार्थमेतावद् धूपस्य च तथैव च ॥ २४-१५ ॥

स्नपनार्थं तथा चैव उत्सवार्थं तथैव च ।
एतावत् परिचाराणामुद्भूतिकसमन्वितम् ॥ २४-१६ ॥

प्रायच्छित्तार्थमेतावत् कृत्तिकादीपकाय वै ।
आश्रायणार्थमेतावत् प्रभूतहविरत्थकम् ॥ २४-१७ ॥

न्यूनातिरिक्त वस्त्वेश्च सर्वेषाङ्गुरवे तथा ।
तन्त्र संरक्षकस्यैव एतावल्लेखकस्य च ॥ २४-१८ ॥

श्रोतॄणाञ्चैव वक्तुश्च दैवज्ञस्य तथैव हि ।
शुश्रूषकाणामेतावत् भोगमेताव देव तु ॥ २४-१९ ॥

प्. ११९) शैवातिथ्यर्थमेतावत् भक्तानामपि चैव हि ।
वाद्यकानां हि वै तावत् तथा वै तक्षकस्य तु ॥ २४-२० ॥

यथार्हकं तथा स्मृत्वा स्मृत्वा चैव तु कारयेत् ।
इति सञ्चिन्त्य सर्वस्वं परिकल्प्य यथा क्रमम् ॥ २४-२१ ॥

भूमिभागेन वै ह्येषां भृत्त्यर्थं परिकल्पयेत् ।
यद्यन्तरेभि ह्रियते तत् समाप्तिफलं भवेत् ॥ २४-२२ ॥

अक्षीणं कल्पयेत् तेषां यथा शुद्धां न भोजनम् ।
अक्लेशवस्त्रा जीवन्ति नित्यं गन्धादिवासिताः ॥ २४-२३ ॥

ग्रहस्थान् स्थापयेद् धीमान् सर्वोपकरणानि तु ।
सुपुष्टभोगङ्कृत्वा तु सुस्थिरं शासनान्वितम् ॥ २४-२४ ॥

कृत वा नल्पभोगं यः क्लेशेन परिचारकान् ।
सतमेव हि देवेशः क्लेशयत्य चलात्मकः ॥ २४-२५ ॥

न तिष्ठेद्यदि वा तिष्ठेत् नतमाढ्यं प्रकल्पयेत् ।
स्वयत्नतः फलंदातु रदा तुश्चाप्यफं व्रजेत् ॥ २४-२६ ॥

सहैकविंशत् पूर्वैस्तु स्वकुलैश्च तथानुजैः ।
वित्तशाठ्येन यः कुर्यात् धर्मशाठ्येन वा नरः ॥ २४-२७ ॥

न तत्फलमवाप्नोति प्रलोभा क्रान्तमानसः ।
तस्मात् त्रिभागं वित्तस्य जीवनार्थमथात्मनः ॥ २४-२८ ॥

भागद्वयञ्च धर्मार्थमनित्यं जीवितं यतः ।
साधयित्वा च तत् पूर्णन्ताम्रपात्र तलेर्पितम् ॥ २४-२९ ॥

निश्चयं विभवस्योक्तं कर्षणं शृणु सुव्रत ।

इति विभवनिश्चयपटलश्चतुर्विंशतितमः ॥ २४ ॥


प्. १२०) अथ कर्षण पटलः

अथातः संप्रवक्ष्यामि प्रासादार्थन्तु कर्षणम् ।
सुमुहूर्ते सुलग्ने च देशिकः शिल्पिभिः सह ॥ २५-१ ॥

उत्तरायणकाले तु कर्षणादीन् समारभेत् ।
शिशिरश्च वसन्तश्च ग्रीष्म प्रावृट् तथैव च ॥ २५-२ ॥

शरच्चैव तु हेमन्तो ऋतवः षट्प्रकीर्तिताः ।
तपस्तपस्य शिशिरस्तौ मासौमाखफाल्गुनौ ॥ २५-३ ॥

वसन्तश्चैत्र वैशाखौमासौ तौमधुमाधवौ ।
ज्येष्ठाषाढाव्रतु ग्रीस्मोमासौ शुक्लशुचिस्मितौ ॥ २५-४ ॥

प्रावृट्च्छ्रावण भाद्राख्यौ नभोनभस्य संज्ञितौ ।
मासौ शरदिषोर्जौ तु तावाश्वयुजकार्तिकौ ॥ २५-५ ॥

सहः सहस्यौ हेमन्तौ मार्गपुष्यौ तु तौ स्मृतौ ।
दक्षिणं शर्वरी ज्ञेया देवानामुत्तरोत्तमौ ॥ २५-६ ॥

दिनौतदुत्तरायणे दक्षिणे त्वरिते मतम् ।
मार्गशीर्षं तथा षाढं प्रोष्ठं माखंविवर्जयेत् ॥
२५-७ ॥

सर्वे मासाग्रहीतव्याः शिवेन परिभाषिताः ।
तत्रापि सर्वमासेषु वसन्तश्रेष्ठ उच्यते ॥ २५-८ ॥

श्रेष्ठं मध्यममेवोक्तं अधमं दक्षिणायनम् ।
नक्षत्रपक्षवाराश्च पूर्वमेव सुभाषिताः ॥ २५-९ ॥

कृत्तिका वह्निदैवत्यं रोहिणी च प्रजापतिः ।
मृगशीर्षः सोमदेवत्यमार्द्रायान्तु शिवं स्मृतम् ॥ २५-१० ॥

पुनर्वसोस्त्वदित्याश्च तिष्यस्य च बृहस्पतिः ।
आश्लेषस्य हिनागः स्यान्मखस्य पितरस्तथा ॥ २५-११ ॥

भोगो हि फाल्गुने चैव ह्यर्यमोत्तर फाल्गुनः ।
हस्तं सावित्रमित्युक्तं सर्वकार्येषु पूजितम् ॥ २५-१२ ॥

त्वष्टा चैव तु चित्ताया स्वातेर्वै वायुदैवतम् ।
इन्द्राग्नी च विशाख्यस्य त्वनूराधस्यमिश्रकम् ॥ २५-१३ ॥

ज्योष्ठायाश्चैव चेन्द्रस्तु मूलस्य नि-ऋतिस्तथा ।
पूर्वाषाढांभ इत्युक्ता स्थपनेष्वहितं त्विदम् ॥ २५-१४ ॥

प्. १२१) विश्वे देवोत्तराषाढं ब्रह्मात्माभिजितस्तथा ।
श्रवणस्य हरिश्चैव श्रविष्ठावसवस्तथा ॥ २५-१५ ॥

वरुणः शतभिषजस्त्वजः प्रोष्ठपदस्य तु ।
उत्तरप्रोष्ठ पादस्य त्वहिर्बुद्ध्निश्च कीर्तितम् ॥ २५-१६ ॥

पूषा चैव तु रेवत्याश्चाश्विन्याश्वयुजस्तथा ।
यमश्चैव भरण्याश्च दिनानामधिदैवताः ॥ २५-१७ ॥

तिष्यश्रवणहस्तार्द्रामैत्रादित्यमखास्तथा ।
प्राजापत्याश्वयुक् स्वाति सौम्यपौष्ण्यत्रिरुत्तराः ॥ २५-१८ ॥

द्वितीया च तृतीया च पञ्चमी षष्ठ सप्तमी ।
दशम्येकादशी चैव प्रतिपच्च त्रयोदशी ॥ २५-१९ ॥

पौर्णमासी च तिथयः शुक्लपक्षे विशेषतः ।
राशयश्चरवर्ज्यास्तु शेषाग्राह्याधनुर्विना ॥ २५-२० ॥

बुधः शुक्रेन्दु जीवश्च वाराश्रेष्ठास्तु नेतराः ।
द्रेक्काणांशकहोराश्च एकादर्शनमिष्यते ॥ २५-२१ ॥

त्यक्त्वा सोमोदयं तत्र चान्येषामुदयं शुभम् ।
व्याधि पीडां करोत्यत्र क्रूरैर्जुष्टदिनं त्विह ॥ २५-२२ ॥

सोमसूर्यौ च भुञ्जाश्च त्रिषष्ठाय स्थिताः शुभाः ।
त एव लग्नगाः कुर्यार्व्याधिशोक भयानि तु ॥ २५-२३ ॥

अष्टमस्थाग्रहाः सर्वे कर्तुः कुर्वन्ति दुस्थितम् ।
एकादश गताः सर्वे क्षेमारोग्यसमृद्धिदाः ॥ २५-२४ ॥

भयकृत् भार्गवः प्रोक्तः सट्सप्तदशम स्थितः ।
नवद्विसप्त पञ्चस्थो गुरुः शोभनकृत् तथा ॥ २५-२५ ॥

सोमोति सौख्यकृत् प्रोक्तो द्वितीये पञ्चमेपि च ।
रविवारः शुभोयुक्तः पौष्णहस्तत्रिरुत्तरैः ॥ २५-२६ ॥

सौरिवारः शुभः प्रोक्तस्वातीरोहिणी योगतः ।
बुधयुक्ता द्वितीया च गुरुः षष्ठिसमायुतः ॥ २५-२७ ॥

इन्दुरेकादशी युक्तः प्राणपीडां करोति हि ।
पौष्णस्तु सप्तमीयुक्त प्रजान्दहति वह्निवत् ॥ २५-२८ ॥

प्. १२२) अशुभः सोमवारस्तु उत्तराषाढसंयुतः ।
विष्ठिस्त्रणान्त नक्षत्रखण्डांश्च गुलिकांस्त्यजेत् ॥ २५-२९ ॥

दुर्दिने च दिशादाहे भूकंपे चण्डमारुते ।
अशनिध्वनिसंयुक्त दिवसे चाशुभं स्मृतम् ॥ २५-३० ॥

संक्रान्तौ ग्रहणे चैव अयने विषुवे तथा ।
उत्सवे शान्तिकाले वा षडशीतिमुखेपि च ॥ २५-३१ ॥

यदिमोहेन कुर्याच्चेत् कर्तुर्वै वस्तुनाशनम् ।
एवं परीक्ष्य बध्नियात् यदीश्चेच्छ्रियमात्मनः ॥ २५-३२ ॥

पर्वतेषु च रम्येषु ग्रामे च नगरेथवा ।
इन्द्रेशाने त्वथेशाने सोमेशानेऽथवा पुनः ॥ २५-३३ ॥

यस्मिं देशेमनोज्ञे तु तत्र प्रासादमारभेत् ।
अथभूमिं परिक्ष्यादौ कर्षणन्तदनन्तरम् ॥ २५-३४ ॥

श्वेतारक्ता तथा पीता कृष्णाभू ब्राह्मणादयः ।
मोक्षदा ब्राह्मणी भूमिर्जयदाक्षत्रिया तथा ॥ २५-३५ ॥

वैश्या भूमिस्तु धनदावृषला पुत्रदायिका ।
ऊषरां क्रिमिभिर्जुष्टां वल्मीकायां विवर्जयेत् ॥ २५-३६ ॥

जानुमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ।
उत्तमात्वधिकाभूमिस्तत् समञ्चेत्तु मध्यमा ॥ २५-३७ ॥

न्यूनेवर्ज्या प्रयत्नेन तत्रस्थां देवतां न्यसेत् ।
भूतप्रेत पिशाचानां बलिन्दत्वा विशेषतः ॥ २५-३८ ॥

एतत् तु देवदेवस्य स्थानं कर्तुं महीतले ।
बलिं पूजाञ्च संग्राह्य शीघ्रं गच्छेद् यथा सुखम् ॥ २५-
३९ ॥

एवमुक्त्वा ततो देवानुद्वास्याथ प्रकर्षणम् ।
पिङ्गलौ पालितौ रक्तौ वृषौ वै नाङ्गहीनकौ ॥ २५-४० ॥

अन्यवर्णं न कर्तव्यं न बालौ न च वृत्तकौ ।
हेमशृङ्गखुरौ न्यस्त्वा वृषमन्त्रेण पूजयेत् ॥ २५-४१ ॥

युगञ्च सहलं बध्वा याज्ञकैर्वृक्षसंभवैः ।
शमिबिल्वञ्च खदिरो पनसस्तंबकस्तथा ॥ २५-४२ ॥

प्. १२३) तक्षकेन तथा कृत्वा यन्त्रयित्वा सलोहकम् ।
हलं युगेनसंबध्वा गोचर्मकृतरज्जुना ॥ २५-४३ ॥

आचार्यस्त्वादिशैवस्तु सकलीकृत विग्रहः ।
पूण्याहं वाचयित्वा तु संप्रोक्ष्य पञ्चगव्यकैः ॥ २५-४४ ॥

कर्षयेच्छिवमन्त्रेण प्रागुदक् प्रणवां महीम् ।
आचार्यं पूजयित्वा तु दद्यात् तु सहलौ वृषौ ॥ २५-४५ ॥

तिलसर्षपमुद्गांश्च शालीबीजांश्च वापयेत् ।
पञ्चरात्र्यां त्वङ्कुरिता ग्राह्यान्या तु विवर्जिता ॥ २५-४६ ॥

तेषु पक्षेषु कालेषु गोगणानां निवेदयेत् ।
एवं परीक्ष्य वसुधां संग्राह्यो देशिकोत्तमः ॥ २५-४७ ॥

विसृज्यमेष वृषभं गते सूर्ये दिने शुभे ।
शङ्कुच्छाया गृहीतव्या मण्डलन्तत्र कारयेत् ॥ २५-४८ ॥

कृत्वा समतलं तत्र गोमयेनानुलिप्य च ।
द्वादशाङ्गुलमायामं स्वायामन्नाहमेव तु ॥ २५-४९ ॥

अष्टांशैकं परित्यज्य सप्तांशमूर्ध्वनाहकम् ।
शमीबिल्व पलाशैर्वा याज्ञिकैर्वा विशेषतः ॥ २५-५० ॥

शंकुन्न्यस्त्वा तु तन्मध्ये भ्रामयेन्मण्डलत्रयम् ।
शंङ्कुच्छायाञ्च संलक्ष्य पूर्वाह्णे वा पराह्णके ॥ २५-
५१ ॥

तन्मध्ये पातयेत् प्राचीं सूत्रमार्गेण देशिकः ।
प्राचीसूत्रप्रमाणेन मत्स्यन्तत्र प्रकल्प्य च ॥ २५-५२ ॥

भवेत् सूत्रमुदक् चैवं संकल्प्य चतुरश्रकम् ।
प्रासादमण्डपानाञ्च प्राकाराणाञ्च विस्तृतः ॥ २५-५३ ॥

सङ्ग्राह्य सुविशेषेण पुण्याहं वाचयेत् बुधः ।
मूलस्थानं गृहीत्वा तु बालस्थानन्तु कारयेत् ॥ २५-५४ ॥

कर्षणाया विधिः प्रोक्तो बालस्थान विधिं शृणु ।

इति कर्षणविधिपटलः पञ्चविंशतितमः ॥ २५ ॥


प्. १२४) अथ तरुणालयलक्षण पटलः

अथातः संप्रवक्ष्यामि तरुणालयलक्षणम् ।
आद्यं द्वितीयमेवन्तु द्विविधन्तरुणालयम् ॥ २६-१ ॥

मूलस्थानस्य यत् पूर्वन्तदाद्यन्तरुणालयम् ।
पूनः प्रासादकरणे भिन्नेच्छिन्नेन वीकृते ॥ २६-२ ॥

यत् कृतन्तत् द्वितीयाख्यन्तरुणालयमुत्तमम् ।
अन्यानि सर्वकर्माणि समानमिति भाषितम् ॥ २६-३ ॥

मूलस्थानं विनिश्चित्य बालस्थानन्तु कारयेत् ।
बाललिङ्गं प्रतिष्ठाप्य पश्चान्मूलं प्रतिष्ठयेत् ॥ २६-४ ॥

बालस्थानं विनापूर्वं मूलस्थानं न कारयेत् ।
बालस्थानं विना यत्र पुत्रपौत्र विनाशनम् ॥ २६-५ ॥

तस्मात् सर्वप्रयत्नेन बालस्थानन्तु कारयेत् ।
यस्मिन् काले यदा क्षेत्रे कृते भूमिपरिग्रहे ॥ २६-६ ॥

तस्याग्रे चोत्तरेवापि अग्रे वामेग्रदक्षिणे ।
ईशाने वापि शेषेण कारयेत् तरुणालयम् ॥ २६-७ ॥

पञ्चसप्त नवाहे वा रात्रौ कृत्वाङ्कुरार्पणम् ।
लोहजं शैलजं लिङ्गं दारुजं मृन्मयन्तु वा ॥ २६-८ ॥

कारयेत् तु विशेषेण लक्षणोक्तेन देशिकः ।
शमीबिल्वमधूकैश्च अश्वत्थोदुंबरैस्तहा ॥ २६-९ ॥

बाललिङ्गं प्रकर्तव्यं मृन्मयञ्चेत् सुपक्वकम् ।
द्वादशाङ्गुलमुत्सेधमुत्तमं परिकीर्तितम् ॥ २६-१० ॥

सप्ताङ्गुलमधोत्सेधमधमामधमेव हि ।
तस्मात् द्व्यङ्गुल वृध्या तु बाललिङ्गा नवस्मृताः ॥ २६-११ ॥

स्वधामकुण्डली भूतं सर्ववृत्तमिहोच्यते ।
छत्राकारं शिरः कुर्याल्लक्षणोद्धारणं विना ॥ २६-१२ ॥

स्वयोनिं कारयेत् पीठमथवा चेष्टकामयम् ।
सप्तपञ्च त्रिहस्तं वा कर्तव्यन्तरुणालयम् ॥ २६-१३ ॥

एवमाद्यं समाख्यातं द्वितीये तरुणालये ।
पूजाभागसमायामं त्रिपादं वार्द्धमेव वा ॥ २६-१४ ॥

प्. १२५) आयाम सदृशन्नाहं लक्षणोधारणं विना ।
नतौ विष्णु विरिञ्चांशौ तश्चिरोन्मूललिङ्गवत् ॥ २६-१५ ॥

लिङ्गमेवं समापाद्य मूलगर्भार्धमानतः ।
त्रियंशं वा चतुर्थाशं प्रोक्तं बालग्रहं त्विह ॥ २६-१६ ॥

बालगेहान्तरे पिठं बाललिङ्गसमोन्नतम् ।
उच्छ्रायसमविस्तारं सावटं सप्रणालकम् ॥ २६-१७ ॥

लिङ्गायामं त्रिधा कृत्वा भागं पीठे निवेशयेत् ।
वृत्तं वा चतुरश्रं वा षोडशांशेन योजितम् ॥ २६-१८ ॥

रत्नन्यासं न कर्तव्यं पादशैलानिकानि च ।
प्रतिलिङ्गं न कर्तव्यं सूत्रञ्चैव तथा भवेत् ॥ २६-१९ ॥

तद्विमानाग्र भागे तु मण्डपं सुविशेषतः ।
दशाष्ट नवहस्तं वा सप्तहस्तमथापि वा ॥ २६-२० ॥

षोडशस्तंभसंयुक्तं सर्वालङ्कारसंयुतम् ।
तन्मध्ये वेदिकां कुर्यात् नवभागैक भागतः ॥ २६-२१ ॥

हस्तमात्रसमुत्सेधां दर्पणोदरवत् समाम् ।
गोमयालेपनङ्कृत्वा ब्राह्मणान् भोजयेत् ततः ॥ २६-२२ ॥

पुण्याहन्तत्र कर्तव्यं वास्तुहोमं विशेषतः ।
तद्धोमं विधिवत् कृत्वा पर्यग्निकरणं तथा ॥ २६-२३ ॥

वस्त्रैः सशालिभिर्युक्तं सदर्भैः पुष्पसंयुतम् ।
पीठस्य मध्यमे न्यस्त्वा कण्ठमात्रे जले तथा ॥ २६-२४ ॥

उषितं लिङ्गमुत्थाप्य स्नानवेद्यु परिन्यसेत् ।
सौवर्णं राजतं वापि क्षौमङ्कार्पासमेव वा ॥ २६-२५ ॥

कौतुकं हृदये नैव कृत्वा घृतशिरोर्पणम् ।
शयने शाययेल्लिङ्गं प्राक् शिरस्कं सयोनिकम् ॥ २६-२६ ॥

गन्धपुष्पाक्षतैश्चैव संपूज्यशयनो परि ।
वस्त्रेणाच्छादनङ्कृत्वा हृदिना पुष्पदर्भकैः ॥ २६-२७ ॥

सर्वलक्षणसंयुक्तं शयनं संप्रकल्पयेत् ।
त्रिरात्रमेक रात्रं वा जले चैवाधिवास्य च ॥ २६-२८ ॥

प्. १२६) वस्त्रेण वेष्टयित्वा तु कुम्भं सूत्रेण वेष्टितम् ।
पञ्चरत्नसमायुक्तं वस्त्रयुग्मेन वेष्टितम् ॥ २६-२९ ॥

व्योमवद् व्यापिनं देवं ध्यात्वारूपं सदाशिवम् ।
विन्यसेत् कुम्भमध्ये तु शिवमन्त्रं समुच्चरन् ॥ २६-३० ॥

संपूज्यगन्धपुष्पाद्यैर्हृदयेन तु मन्त्रतः ।
तस्य वामे तु वर्धन्यां गौरीं विन्यस्य मन्त्रतः ॥ २६-३१ ॥

हैमवस्त्रसमायुक्तां वर्धनीं पूर्ववद्यजेत् ।
मूललिङ्गे तु देवेशं द्वितीयश्चेत् समावहेत् ॥ २६-३२ ॥

विज्ञाप्य देवदेवेशं क्षणकालं विचक्षणः ।
एकाब्दात् द्वादशाब्दान्तं बालस्थाने स्थिरो भव ॥ २६-३३ ॥

एत योरब्दयोर्मध्ये कुर्यान्मूलप्रवेशनम् ।
विज्ञापयेत् द्वितीये तु चाद्ये विज्ञापनं विना ॥ २६-३४ ॥

विद्येशोमा शिवाख्येषु कलशेषु पृथक् पृथक् ।
तत्तद्रूपमनुस्मृत्य स्वस्वमन्त्रेण विन्यसेत् ॥ २६-३५ ॥

सकूर्चान् वस्त्रसंयुक्तान् सर्वलक्षणसंयुतान् ।
गन्धपुष्पादिना पूज्य हृदयेन विचक्षणः ॥ २६-३६ ॥

दिशा स्वध्ययनं कुर्या दृग्यजुः सामाधर्वकैः ।
नवपञ्च तथा त्रीणि एकहोममथापि वा ॥ २६-३७ ॥

कृत्वाग्निमुखसंस्कारं पूर्वोक्तविधिना ततः ।
खदिरं वटबिल्वौ च प्लक्षाश्वत्थावुदुंबरम् ॥ २६-३८ ॥

शमीवैकं ततञ्चैव समित् पूर्वादितः क्रमात् ।
पलाशस्तु प्रधानस्य होमयेद्धृदयेन तु ॥ २६-३९ ॥

औदुंबरसमिद्भिर्वा सर्वेषाञ्चैव कारयेत् ।
समिदाज्यान्नकैर्मन्त्रैर्होमङ्कृत्वा पृथक् पृथक् ॥ २६-४० ॥

समिधं हृदये नैव मूले नैव घृतं हुनेत् ।
शिवगायत्रि मन्त्रेण चरुंहुत्वा विशेषतः ॥ २६-४१ ॥

स्पर्शा हुतिं शिवाङ्गेन हुत्वाङ्गानि च संस्पृशेत् ।
प्रभाते विमले होमङ्कृत्वा पूर्णां शिवेन तु ॥ २६-४२ ॥

प्. १२७) आचार्यं पूजयित्वा तु मूर्तिपानथ पूजयेत् ।
दैवज्ञं पूजयित्वा तु अध्ये तॄन् परिचारकान् ॥ २६-४३ ॥

उत्थाप्यशयनाल्लिङ्गन्तरुणालय मध्यमे ।
संस्थाप्य लिङ्गं सुस्निग्धं पीठस्या वटमध्यमे ॥ २६-४४


कुम्भस्थ देवदेवेशं शिवमन्त्रेण विन्यसेत् ।
शिवाङ्गानि न्यसेत् पश्चात् पिण्डिकायां मनोन्मनीम् ॥ २६-४५ ॥

अष्टविद्येश्वरांस्तत्र पीठे पूर्वादिषु न्यसेत् ।
विद्येशोमा शिवाख्यैस्तु कुम्भैरस्त्राभिषेचनम् ॥ २६-४६ ॥

अर्चनोक्तमथाभ्यर्च्य नैवेद्यं दापयेत् क्रमात् ।
द्वारादिपीठपर्यन्तं विन्यसेत् तु यथा विधि ॥ २६-४७ ॥

स्नपनन्तत्र कुर्वीत यथा शक्त्या विशेषतः ।
उत्सवन्तु यथा शक्ति द्वितीये तरुणालये ॥ २६-४८ ॥

बल्यन्तः पूजयेन्नित्यमुत्सवन्न समाचरेत् ।
बालस्थान विधिः प्रोक्ता शृणुष्वालयवास्तुकम् ॥ २६-४९ ॥

इति तरुणालयलक्षण पटलः सड्विंशतितमः ॥ २६ ॥


अथ प्रासादवास्तु लक्षणपटलः

अथातः संप्रवक्ष्यामि प्रासादवास्तु लक्षणम् ।
मूलस्थानन्तु संशोध्य वास्तु रूपं प्रकल्पयेत् ॥ २७-१ ॥

पुण्याहं वाचयित्वा तु प्रोक्षयित्वा शिवाम्भसा ।
पुष्पादिभिरथाभ्यर्च्य वास्तु देवान् स्वनामकैः ॥ २७-२ ॥

यदङ्गं संस्पृशेत् कर्ता पूजान्ते तन्निरीक्षयेत् ।
तत्रैव वास्तु देहेपि ब्रूयाच्छल्यं यथार्थतः ॥ २७-३ ॥

शिरस्पर्शात् तु तत्रैव अस्थिशल्यङ्करद्वयात् ।
हस्तमात्रे मुखस्पर्शात् काष्ठपृष्ठे गलेद्धृवम् ॥ २७-४ ॥

कण्ठस्पर्शे गलेत्वस्थि त्रिकरे शृंखलं विदुः ।
त्रिभिर्हस्तैरुरस्पर्शात् भवेच्छल्यन्तु शृंखलम् ॥ २७-५ ॥

प्. १२८) करस्पर्शात् करान्ते तु खट्गापातं समादिशेत् ।
बाहुसंस्पर्शनात् कर्तुरङ्गारस्तु त्रिहस्ततः ॥ २७-६ ॥

अश्वपादं विनिर्दिष्टङ्गुल्फे पदप्रमाणतः ।
कणकं पादसंस्पर्शात् सवितस्तिप्रमाणतः ॥ २७-७ ॥

कनिष्ठाङ्गुष्ठयोः स्पर्शात् कराद्धेकां शमुच्यते ।
लोहशल्यं कटिस्पर्शात् तत् करद्वयमानतः ॥ २७-८ ॥

जानुसंस्पर्शनाद्धस्तेनापितोपस्करं तथा ।
भुमिष्ठं शल्यमुद्वास्य तत् प्रदेशं खनेत् ततः ॥ २७-९ ॥

यावत् प्रासादविस्तारं तत् समं वा तदर्द्धकम् ।
अर्धाधिकमथाध्यर्धं खात्वा प्रासादमानतः ॥ २७-१० ॥

अवटस्य चतुर्थांशन्त्र्यंशं वा वालुकैः समम् ।
अश्वेभपादमुसलैर्मुत्गरैस्तु घनं कृतम् ॥ २७-११ ॥

समं कृत्वा ततः पश्चात् प्रोक्षयित्वा शिवास्त्रतः ।
पञ्चगव्येन संसिच्य पवमानमुदीरयन् ॥ २७-१२ ॥

वास्तु विन्यासमार्गन्तु दशसूत्रेण देशिकः ।
एकाशीति पदं वास्तु सर्वसंपत्करन्नृणाम् ॥ २७-१३ ॥

असुराणां हितार्थन्तु शुक्रः कृत्वा महातपः ।
महातपसिसंभूतो भूताकारोमहाबलः ॥ २७-१४ ॥

अप्रयुक्तस्ततो भूतो देवैर्युद्धं प्रवर्तते ।
नहतेस्त्रादिभिर्ज्ञात्वा देवैः सुनिहितः कृतम् ॥ २७-१५ ॥

भूम्यामथोमुखस्तत्र * * * * * संस्थिताः ।
वंशौद्वौ तत्र विज्ञेयौ चतुष्कोणेषु संस्थितौ ॥ २७-१६ ॥

पार्श्ववं शोर्ध्वपाशाश्च त्वष्टौ चैव प्रकीर्तिताः ।
पूत्वोत्तरमुखारज्जुरूर्ध्वं वंशमिति स्मृतम् ॥ २७-१७ ॥

शिरोमर्माणितान्याहुः कोणपार्श्वे तथाष्टसु ।
सूत्राणीह सिराज्ञेया तत्सन्धौ सन्धिरुच्यते ॥ २७-१८ ॥

पदे चैक तु षट्भागे तत् तत् षट्कस्तु चोच्यते ।
पदे चतुर्थभागन्तु तच्चतुष्कमितिरीतम् ॥ २७-१९ ॥

प्. १२९) रज्वग्रसंस्थितं यत् तत् केवलं मर्म उच्यते ।
वास्तु मध्ये भवेत् पद्मं पदमेकाष्टभाजितम् ॥ २७-२० ॥

कोणात् त्रिशूलं स्यात् पादं पादार्धं करसंपुटम् ।
एषान्तु पीडने दोषा बहवः परिकीर्तिताः ॥ २७-२१ ॥

सिराश्च सीरं मर्माणि नश्यन्ति स्थान वासिनः ।
मित्रनाशन्तु सन्धौ तु षट्के वै रंसमन्ततः ॥ २७-२२ ॥

चतुष्के वाहनक्षयं मरणं मर्मसु क्रमात् ।
पद्मस्थाने विनाशन्तु त्रिशूले गर्भनाशनम् ॥ २७-२३ ॥

गोधनस्य विनाशं स्यात् करसंपुटपीडने ।
वास्तु देवां यथा स्थाप्य ईशानादी न शेषतः ॥ २७-२४ ॥

ईशानश्चाथ पर्जन्यो जयन्तोथमहेन्द्रकः ।
आदित्यः सत्यकं शावन्तरिक्षश्च पूर्वगाः ॥ २७-२५ ॥

अग्निः पूषा च वितथो ग्रहक्षतयमौ तथा ।
गन्धर्वो भृङ्गराजश्च मृगश्चैव तु दक्षिणे ॥ २७-२६ ॥

नि-ऋतिर्दौ वारिकश्चैव सुग्रीवः पुष्पदन्तकः ।
वारुणो रोगशोषौ च पापयक्ष्मा च पश्चिमे ॥ २७-२७ ॥

वायुर्नागस्तथा मुख्यो भल्लाटः सोम एव च ।
ऋगोदितिर्दिदिश्चैव द्वात्रिंशत् बाह्यदेवताः ॥ २७-२८ ॥

एकमेकं पदं भुक्त्वा श्मशानाद्याः सुसंस्थिताः ।
ब्रह्मा नवपदान् भुंक्ते वास्तु मध्ये विशेषतः ॥ २७-२९ ॥

समरीकस्तथैन्द्रे तु विवस्वांश्चैव दक्षिणे ।
मित्रश्च पश्चिमे भागे ह्युत्तरे पृथिवीधरः ॥ २७-३० ॥

ब्रह्मणश्च चतुर्दिक्षु स्थिताः षट्पदभोगिनः ।
आपश्चैवा पवत्सश्च ऐशान्न्यां दिशिसंस्थितौ ॥ २७-३१ ॥

शुनासीरश्च सावित्र आग्नेय्यां दिशिसंश्थितौ ।
इंद्र इंद्र जयश्चैव नै-ऋत्यां दिऽसिसंस्थितौ ॥ २७-३२ ॥

रुद्र रुद्र जयौवायौ चतुष्कोणे प्रकीर्तिताः ।
एते द्विपदभोक्तारो द्व्यर्धमेव पदस्मृतः ॥ २७-३३ ॥

चरकी च वितारी च पूतनापापराक्षसी ।
ईशानादिषु कोणेषु बाह्यस्थाः पदवर्जिताः ॥ २७-३४ ॥

प्. १३०) एवं विन्यस्य पूर्वे तु वास्तुदेहं प्रकल्पयेत् ।
यत् किञ्चिद्वास्तु विन्यासं तत् सर्वं वास्तु रूपकम् ॥ २७-३५ ॥

ईशानेकन्तु विन्यस्त्वा वापौ नै-ऋतगोचरे ।
अग्निवाय्वोश्च दिक्भागे जानुकूर्परसंस्थितौ ॥ २७-३६ ॥

लिङ्गमिन्द्र पदेन्यस्त्वा पादौ नै-ऋति विन्यसेत् ।
मरीचिश्चोदरस्थाने स्तनौ विन्यस्य बुद्धिमान् ॥ २७-३७ ॥

विवस्वति च मित्रे च विन्यसे अकुक्षिपार्श्वके ।
ऊरुहस्त तलौ चैव साविते स्थापयेत् ततः ॥ २७-३८ ॥

ऊरुप्रकोष्ठ मध्ये च पादौ सवितरि न्यसेत् ।
रुद्ररुद्रजयौ चैव विन्यसेत् पूर्ववच्छुभम् ॥ २७-३९ ॥

महेन्द्राद्यन्तरिक्षान्ता बाहुमध्ये स्थिता स्मृताः ।
सुजानुकूर्परे चैव ह्यग्नौ विन्यस्य बुद्धिमान् ॥ २७-४० ॥

पूषादिमृगपर्यन्तञ्जंघाञ्च विनिवेशयेत् ।
दौवारिपापयक्ष्मान्ते चान्यजंघा विनिश्चिताः ॥ २७-४१ ॥

वायौ कूर्परजानूच्चं ऋगान्तं बाहु संस्थितम् ।
शेते त्वधोमुखो वास्तु देवः प्राच्यभुवं प्रति ॥ २७-४२ ॥

उग्रः सुभीषणो यस्मात् तस्मात् पूज्यं क्रियार्थिभिः ।
पुण्याहं वाचयित्वा तु प्रोक्षयेत् पञ्चगव्यकैः ॥ २७-४३ ॥

गन्धपुष्पादिभिर्धूपैर्वास्तु देवान् प्रपूजयेत् ।
ईशानं पूजयेत् पूर्वं घृतेना क्षतमिश्रितम् ॥ २७-४४ ॥

पर्जन्याय विशेषेण दद्यान्निलोत्पलादिकम् ।
जयन्तस्य पताकान्तु नीलवर्णां विशेषतः ॥ २७-४५ ॥

महेन्द्रस्य तु रत्नानि भास्करस्य वितानकम् ।
गोधूममण्डकान् सत्ये दद्यान्मत्स्यंभ्रशस्य तु ॥ २७-४६ ॥

दद्यात् तु शाकुनं मांसमन्तरिक्षाय देशिकः ।
अग्नये तु स्रवं दद्याल्लाजं पूष्णे तथैव च ॥ २७-४७ ॥

क्षीरान्नं वितथस्योक्तं मध्वन्नं हि ग्रहक्ष्ते ।
मांसोदनं यमस्याथ गन्धं गन्धर्वकस्य तु ॥ २७-४८ ॥

भृंगे तु शाकुनाजिह्वा मृगेयवतिलस्तथा ।
कृसरं त्वथपित्रे तु दन्तकाष्ठञ्च दौव्रके ॥ २७-४९ ॥

प्. १३१) यावन्त्वथ च सुग्रीवे कुशान्वै पुष्पदन्तके ।
दवापद्मन्तु वरुणे रोगस्यमधु चैव हि ॥ २७-५० ॥

घृतोदनन्तु शोषस्य यवान्वैपापयक्ष्मणि ।
घ्ताक्तमण्डकं दद्याद्रोगाय तु विशेषतः ॥ २७-५१ ॥

नागपुष्पाणि नागाय मुख्यस्या पूपमुच्यते ।
मुद्गान्नञ्चैव भल्लाटे पायसं मधुसोमके ॥ २७-५२ ॥

ऋगस्यैव तु शालूकं लोहितान्यदितौ तथा ।
पूरिकाञ्च दितौ दद्यात् क्रमेणोक्तं बलिक्रमम् ॥ २७-५३ ॥

पयोदधिकुशांश्चैव हरिद्रान्नं गुलान्नकम् ।
पक्वमांसञ्च शुद्धान्नं पक्वञ्च पिशितं तथा ॥ २७-५४


विदिक्ष्वा पादिदेवानां बलिंदद्यात् पृथक् पृथक् ।
घृतान्नं रक्ताहारञ्च लड्डुकं माषमेव च ॥ २७-५५ ॥

समरीयकपूर्वेभ्यो दद्याद्दिक्षु विशेषतः ।
तिलाक्षतय वांश्चैव पञ्चगव्यं कुशं तथा ॥ २७-५६ ॥

दातव्यञ्चरुणा तत्र ब्रह्मणे तु विशेषतः ।
चरकी प्रभृतीनान्तु मांसं पक्वन्निवेदयेत् ॥ २७-५७ ॥

सर्वेषाञ्चैव शुद्धान्नं गुलाज्यन्धिसंयुतम् ।
अलाभे सतिदातव्यं गन्धाद्यैश्च समन्वितम् ॥ २७-५८ ॥

सर्वेषामेव मन्त्रास्तु नामप्रणवसंयुताः ।
पूजादीनां नमोन्तन्तु बलिः स्वहान्तमुच्यते ॥ २७-५९ ॥

कृत्वैवं बलिदानान्ते पूण्याहन्तु विशेषतः ।
संप्रोक्ष्य पञ्चगव्येन मूलमन्त्रमदीरयन् ॥ २७-६० ॥

वास्तुहोमन्ततः कृत्वा मध्ये चोत्तरपूर्वके ।
आरंभस्यादि काले तु होमङ्कृत्वा विशेषतः ॥ २७-६१ ॥

स्थण्डिलन्तत्र कुर्वीत हस्तमात्रप्रमाणतः ।
चतुरंगुलमुत्सेधं गन्धपुष्पं सदर्भयुक् ॥ २७-६२ ॥

शिवाग्निञ्जनयेत् तत्र पूर्वोक्तेन विधानतः ।
अग्निमध्ये न्यसेद् वास्तुन् तत्रस्थैर्दैवतैर्युतम् ॥ २७-६३ ॥

आज्यादि द्रव्यमेवन्तु वास्तोर्वक्त्रे हुनेत् क्रमात् ।
पार्थिवेन तु बीजेन सर्वद्रव्यैस्तु होमयेत् ॥ २७-६४ ॥

प्. १३२) तत्रस्थ देवतानाम्ना स्वाहान्तेन तु होमयेत् ।
एवं पृथक् शतं प्रोक्तं तदर्द्धं वा तदर्धकम् ॥ २७-६५ ॥

दशसङ्ख्याथवा तत्र प्रत्येकं द्रव्यमाचरेत् ।
द्रव्यान्ते व्याहृतिं हुत्वा पूर्णाहुतिं शिवस्य तु ॥ २७-६६ ॥

वास्तु देवान् विसृज्याथ पश्चादग्निं विसर्जयेत् ।
एवं प्रासादवास्तुञ्च संपूज्यसाधकोत्तमः ॥ २७-६७ ॥

बलिं दत्वाग्नि संपूज्य वास्तुकर्मसमारभेत् ।
वास्तुकर्म यदा रब्धं वास्तुहोमं तदा चरेत् ॥ २७-६८ ॥

वास्तुहोमं विनायत्र कृतं वास्तुविनश्यति ।
वाप्यादि होमपर्यन्तं तत्सर्वं समवेन तु ॥ २७-६९ ॥

चतुरायपदं कृत्वा माहेन्द्र द्वारकल्पनम् ।
एतद् विशेषमेवन्तु ग्रह वास्तुविधिं प्रति ॥ २७-७० ॥

एवमेव तु संप्रोक्तं प्रासादवास्तुलक्षणम् ।
आद्येष्टकाविधिं पश्चाच्छृणुष्वैकाग्रमानसः ॥ २७-७१ ॥

इति प्रासादवास्तुलक्षण पटलः सप्तविंशतितमः ॥ २७ ॥


अथ आद्येष्टकाविधि पटलः

अथातः संप्रवक्ष्यामि शृणुत्वं प्रथमेऽष्टकाम् ।
खननं पूरणङ्कृत्वा वास्तु देवान् प्रपूजयेत् ॥ २८-१ ॥

तस्योत्तरे प्रपाङ्कृत्वा पूर्वे वाथ विशेषतः ।
स्थण्डिलन्तस्य मध्ये तु शालिभिश्चतुरङ्गुलम् ॥ २८-२ ॥

अधिवास्यार्ध रात्रौ तु चतस्रः प्रथमेऽष्टकाः ।
शिलामयविमानञ्चेच्छिलाखण्डाधिवासयेत् ॥ २८-३ ॥

इष्टकामय धाम्नि तु इष्टाकास्थापयेत् सुधीः ।
तालत्रयसमुत्सेधं द्विगुणेन सुविस्तृतम् ॥ २८-४ ॥

विस्तार द्विगुणायामं कारयेन्मध्यमोत्तमे ।
अध्यर्धतालमतालं मध्यमान्मध्यभावयेत् ॥ २८-५ ॥

प्. १३३) तालमात्रसमुत्सेधं मध्यमादधमं भवेत् ।
मध्यमत्रयमित्युक्तं मथमत्रयमुच्यते ॥ २८-६ ॥

एकादशाङ्गुलोन्नत्या ह्यधमोत्तममाचरेत् ।
नवाङ्गुलेन तन्मध्यं सप्ताङ्गुल्याधमाधमम् ॥ २८-७ ॥

उन्नतिस्त्वेवमाख्यातं द्विगुणैर्विस्तृतिर्भवेत् ।
तासां द्विगुणकैर्दैर्घ्यं मानैः सर्वाणिकारयेत् ॥ २८-८ ॥

शिलायाः कथितं मानमिष्टकायाः शृणु क्रमात् ।
षडङ्गुलं तदुत्सेधं द्वादशाङ्गुलविस्तृतम् ॥ २८-९ ॥

विस्तारद्विगुणं दैर्घ्यमुत्तमोत्तममेव हि ।
त्रियङ्गुलप्रमाणेन कनीयससमुन्नती ॥ २८-१० ॥

उत्तमाधमयोर्मध्य सप्तधासुविभाजिते ।
नवधा भेदमाख्यातं यथारुचि समाचरेत् ॥ २८-११ ॥

उन्नते द्विगुणन्तारं तस्मात् द्विगुणमायतम् ।
एवं सुपक्वकैकार्यं सुदृढैस्तु मनोहरैः ॥ २८-१२ ॥

मूलं स्थूलं भवेन्नारी ह्यग्रं स्थूलं नपुंसकम् ।
मूलमग्रं समञ्चेत्तु पुल्लिङ्गमिति निश्चितम् ॥ २८-१३ ॥

पुल्लिङ्गैश्चैव पूंसां स्यात् स्त्रीणां स्त्रीलिङ्गकैस्तथा ।
पाटलिपुष्पसंकाशामिष्टकांशं ग्रहेत् ततः ॥ २८-१४ ॥

सूत्रैर्दर्भैरथावृत्य वस्त्रैरावेष्ट्य यत्नतः ।
गन्धपुष्पैरलङ्कृत्य स्थण्डिलोपरिविन्यसेत् ॥ २८-१५ ॥

तस्य पूर्वे तु कलशान् स वस्त्रान् सूत्रवेष्टितान् ।
विद्येश्वरसमायुक्तान् स्थण्डिलोपरिविन्यसेत् ॥ २८-१६ ॥

मध्यमे शिवकुम्भन्तु तस्य वामे तु वर्धनीम् ।
पूजयेद्धृदये नैव गन्धपुष्पादिभिः क्रमात् ॥ २८-१७ ॥

तस्यैवोत्तरदिग्भागे होमं कुर्याद्विचक्षणः ।
समिदाज्यान्नकैश्चैव यथा विधिविशेषतः ॥ २८-१८ ॥

तिलतण्डुलसंमिश्रैर्विशेषेण घृत प्लुतैः ।
ईशानेन तु मन्त्रेण जुहुया तु शताहुतिः ॥ २८-१९ ॥

प्. १३४) शिवाङ्गैश्चैव विद्याङ्गैर्द्रव्यान्ते जुहुयात् ततः ।
प्रभातेसु मुहूर्ते तु इष्टकास्थापनं भवेत् ॥ २८-२० ॥

स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ।
मन्त्रोक्त सर्वकर्माणि स्थापकेन समाचरेत् ॥ २८-२१ ॥

मन्त्रहीनञ्च यत् कर्म सर्वं स्थपतिना कुरु ।
कृतञ्चेत् मन्त्रयुक्कर्मत्वभिचाराय तत् भवेत् ॥ २८-२२ ॥

तस्मात् सर्वप्रयत्नेन मन्त्रोक्तान् स्थापकेन तु ।
सुमुहूर्ते न्यसेद्विद्वांश्चतस्रश्चेष्टकाः क्रमात् ॥ २८-२३ ॥

द्वारस्य दक्षिणे भागे कर्तव्या प्रथमेऽष्टकाः ।
पूर्वादिषु चतुर्दिक्षु चतुर्भिर्ब्रह्मभिर्न्यसेत् ॥ २८-२४ ॥

अग्रमग्रन्तथैशान्ये मूलग्रमञ्च नै-ऋते ।
मूलाग्रञ्चाग्नि वायव्यां स्थापयेत् तु विचक्षणः ॥ २८-२५ ॥

सद्यादि ब्रह्ममन्त्रेण पूर्वादिपुरुषादिके ।
तेषां मध्ये तदा गर्ते पूरयेदुदकैः शुभैः ॥ २८-२६ ॥

कलशान्तस्थ तोयैश्च शिवमन्त्रेण पूरयेत् ।
शुभं स्याद्दक्षिणावर्तं वामावर्तमशोभनम् ॥ २८-२७ ॥

तद्दोषशमनार्थन्तु ईशानेन शताहुतिः ।
तत्रैव नवरत्नानि विन्यसेदनुपूर्वशः ॥ २८-२८ ॥

वज्रमौक्तिक वैडूर्य शङ्खस्फटिक पुष्यकान् ।
चन्द्रकान्तं महानीलं माणिक्कञ्चक्रमां न्यसेत् ॥ २८-२९ ॥

तेषामभावे सौवर्णं विन्यसेत् तु विचक्षणः ।
गजदन्ते तथा क्षेत्रे वल्मीके कर्कटालये ॥ २८-३० ॥

वृष शृङ्गे हृदे नद्याञ्तीर्थे वै पर्वते तथा ।
समुद्रे च मृदं ग्राह्य पूरयेदवटं तथा ॥ २८-३१ ॥

मृदलाभे तु मतिमां नदीतीरे मृदंग्रहेत् ।
अत ऊर्ध्वं प्रकर्तव्यं प्रासादं लक्षणेन तु ॥ २८-३२ ॥

आद्येऽष्टका विधिः प्रोक्ता गर्भन्यासविधिं शृणु ।

इति आद्येऽष्टकाविधि पटल अष्टविंशतितमः ॥ २८ ॥


प्. १३५) अथ गर्भन्यासविधि पटलः

अथातः संप्रवक्ष्यामि गर्भं न्यासविधि क्रमम् ।
यत् प्रासादं सगर्भन्तु सर्वसंपत्करं नृणाम् ॥ २९-१ ॥

अगर्भं यद्विमानन्तु अभिचाराय तत् भवेत् ।
तस्मादादौ प्रकर्तव्यं गर्भन्यासं समृधिदम् ॥ २९-२ ॥

भाजनं पूर्वमारभ्य सुवर्णाद्यैर्यथा क्रमम् ।
सौवर्णं राजतं वापि ताम्रं कांसमयं तथा ॥ २९-३ ॥

शङ्खं वा शुक्तिकं वापि संप्रोक्तं गर्भभाजनम् ।
लोहैरेव प्रकर्तव्या फेलाचोक्तप्रमाणतः ॥ २९-४ ॥

शङ्खञ्च शुक्तिकञ्चैव स्वप्रमाणैः परिग्रहेत् ।
अद्रव्येण पिधानं स्यात् सुस्निग्धं सुदृढं समम् ॥ २९-५ ॥

पादविष्कंभविस्तारा पञ्चविंशत् पदान्विता ।
तद्विस्तारसमोत्सेधा नवकोष्ठान्वितापि वा ॥ २९-६ ॥

घनं वै षोडशांशैश्च तदर्धाः कोष्ठभित्तयः ।
उत्तमन्तु समाख्यातं विस्तारोत्सेधतः समा ॥ २९-७ ॥

विस्तारस्य त्रिपादं वा ह्यर्धं वा भाजनोच्छ्रयम् ।
समं त्रिपादमध्यं वा कोष्ठभित्त्युच्छ्रयं भवेत् ॥ २९-८ ॥

पिधानं कञ्चिदाधिक्यं कृत्वा तदनुसारतः ।
खण्डितं शोषितं वर्ज्यमेवं भाजनमुच्यते ॥ २९-९ ॥

क्षालयित्वा तु गव्यैश्च मृदा वै गर्भभाजनम् ।
भवनस्येन्द्र दिक्भागे मण्डपे समलङ्कृते ॥ २९-१० ॥

गोमयेन समालिप्य पुण्याहं वाच्य तत्र वै ।
सितेन धातुनालिप्य फणयुक्तं भुजङ्गकम् ॥ २९-११ ॥

स्थण्डिलङ्कारयेत् तत्र शालिभिः समलङ्कृतम् ।
तदर्धैरभित कार्यं सप्तद्वीपसमुद्रकान् ॥ २९-१२ ॥

कुशवस्त्रैः समास्तीर्य पुष्पैर्ल्लाजसमायुतैः ।
तस्मिन् ध्यात्वा तु भुवनं विन्यसेत् गर्भभाजनम् ॥ २९-१३ ॥

ब्राह्मन्तु मध्यमपदं त्वष्टौ तत्परितः सुराः ।
मरीचिः सविता चैव विवस्वांश्च विशेषतः ॥ २९-१४ ॥

 प्. १३६) रुद्रोमित्रेन्द्रभूभर्ता ह्यापश्चैतेसु रास्तथा ।
पूर्वादिविन्यसेत् तत्र नवकोष्ठाधिदेवताः ॥ २९-१५ ॥

ईशानश्च जयन्तश्च आदित्यश्च भ्रशोग्निकः ।
वितथश्च यमो भृंगो नि-ऋतिश्च सुकर्णकः ॥ २९-१६ ॥

वरुणः शोषवायू च मुख्यः सोमोदिति स्मृताः ।
बाह्यषोडशकोष्ठानामधि देवाः प्रकीर्तिताः ॥ २९-१७ ॥

माणिक्क वज्रमुक्ताश्च वैडूर्यं शङ्खमेव च ।
स्फटिकं पुष्यरागञ्च सूर्यकान्तेन्दु कान्तकौ ॥ २९-१८ ॥

प्रणवन्तु समुच्चार्य ब्रह्मादिषु विनिक्षिपेत् ।
शालिनी वारगोधूमश्या ममाषकुलुत्थकान् ॥ २९-१९ ॥

तिलनिष्पाप सिद्धार्थान् बाह्य वृत्तेऽष्टदिक्षु वै ।
तालं तथाञ्जनश्यामं विसकञ्च मनःशिला ॥ २९-२० ॥

कुरुष्कगन्ध पक्षाणां रोचनागैरिकं तथा ।
जयन्तादिषु कोष्ठेषु न्यसेत् तदनुपूर्वशः ॥ २९-२१ ॥

पर्वते च तथा तिर्थे नद्यास्तीरे हृदे मृदम् ।
कुलीरावासवल्मीके शंखे वै गजदन्तके ॥ २९-२२ ॥

सलिलेन च संयुक्तमष्टदिक्षु च विन्यसेत् ।
सुवर्णं रजतन्ताम्र मायसन्त्रपुकन्तथा ॥ २९-२३ ॥

मध्यमे च चतुर्दिक्षु विन्यस्त्वा पञ्चलोहकम् ।
उत्पलस्य च पद्मस्य नीललोहितकस्य च ॥ २९-२४ ॥

कुमुदस्य च मूलानि विन्यसेदनुपूर्वशः ।
खट्वाङ्गं हरिणं शूलं परशुं वृषभं तथा ॥ २९-
२५ ॥

कपालं कूर्मसर्पांश्च सुवर्णेन कृतं क्षिपेत् ।
ब्रह्मादीशान पर्यन्तं विन्यस्य प्रणवेन तु ॥ २९-२६ ॥

गन्धपुष्पादिनाभ्यर्च्य विधानेन विधाय च ।
वस्त्रेणाच्छाद्ययत्नेन दर्भैराच्छाद्यबुद्धिमान् ॥ २९-२७ ॥

स्थण्डिलं विन्यसेद् वेद्यां शयनो परिदेशिकः ।
तस्य दक्षिण दिग्भागे होमङ्कृत्वा विचक्षणः ॥ २९-२८ ॥

अष्टत्रिंशत् कलाभिश्च षडंगैश्च दशाक्षरैः ।
हुत्वा देवस्य नाम्नाथ वास्त्वभ्यन्तर बाह्ययोः ॥ २९-२९ ॥

प्. १३७) संपातं विधिवद्धुत्वा पूर्णाहुतिमथाचरेत् ।
ततो भ्युक्ष्य हृदागव्यैर्गर्भस्थानं सुनिश्चितम् ॥ २९-३० ॥

आलये मण्डपे चैव निर्गमस्य प्रदक्षिणे ।
गोपुराणाञ्च सर्वेषां प्रवेशस्य प्रदक्षिणे ॥ २९-३१ ॥

प्रासादमूलतः कुर्यादुपाने वा वृतौ तथा ।
भूमिष्ठं शूद्रजातीनामुपाने नृप वैश्ययोः ॥ २९-३२ ॥

नै-ऋते पथिविप्राणां गर्भस्थानं विधीयते ।
सर्वेषान्तु वृतौ शस्तं भूगतं वापि कारयेत् ॥ २९-३३ ॥

प्राक् द्वारञ्चेत् प्रकर्तव्यमैन्द्र पावकमध्यमे ।
यदीच्छेत्पश्चिमद्वारे दक्षिणे भित्तिके न्यसेत् ॥ २९-३४ ॥

कवाटार्गल योगे वा न्यस्तव्यङ्गर्भभाजनम् ।
मण्डपे स्तंभमूले तु प्रथमावरणे बुधः ॥ २९-३५ ॥

गोपुराणान्तु कर्तव्यं दक्षिणे विनिवेशयेत् ।
गर्भस्थानन्तु संप्रोक्ष्य गव्यैर्मृद्भिर्हृदा बुधः ॥ २९-३६ ॥

फेलामादाय सद्येन वाममन्त्राभिमंत्रिताम् ।
अघोरेणावकुण्ठ्याथ दत्वाह्यर्घ्यं मुखेन तु ॥ २९-३७ ॥

अखण्डर्क्षे तु तद्रात्रौ स्थिरराश्युदये शुभे ।
स्थापयेच्छिवमन्त्रेण निश्चलं सुदृढं बुधः ॥ २९-३८ ॥

स्थपतिर्दृढकर्माणि कृत्वा तत्र प्रसन्नधीः ।
स्थापकं पूजयेत् पूर्वं स्थपतिं तदनन्तरम् ॥ २९-३९ ॥

सुवर्णभूषिता धेनुर्दक्षिणा स्थापकस्य तु ।
शृणुवत्स यथान्ययमङ्गुलीनान्तु लक्षणम् ॥ २९-४० ॥

इति गर्भन्यासविधिपटल एकोनत्रिंशत्तमः ॥ २९ ॥


प्. १३८) अथ अङ्गुली लक्षणविधि पटलः

अथातः संप्रवक्ष्यामि अङ्गुलीनान्तु लक्षणम् ।
मानाङ्गुलन्तु प्रथमं मात्राङ्गुलं द्वितीयकम् ॥ ३०-१ ॥

देहलब्ध प्रमाणन्तु तृतीयमङ्गुलं स्मृतम् ।
यस्मात् परमणुर्नास्ति परमाणुस्तदुच्यते ॥ ३०-२ ॥

परमाणुरधश्चैवापि च केशाग्र एव च ।
रीक्षायूकाय वास्तत्र क्रमशोऽष्टगुणैर्मतम् ॥ ३०-३ ॥

मानाङ्गुलमिति प्रोक्तं ततो मात्राङ्गुलं शृणु ।
आचार्य दक्षिणे हस्ते मध्यमाङ्गुलिमध्यमे ॥ ३०-४ ॥

पर्वमात्राङ्गुलं ज्ञेयं देहलब्धाङ्गुलं शृणु ।
प्रतिमायास्तथोत्सेधे कालगण्येन भाजिते ॥ ३०-५ ॥

तेष्वेकं भागवन्मानं देहलब्धाङ्गुलं स्मृतम् ।
प्रासादमण्डपांश्चैव प्राकारान् गोपुरानपि ॥ ३०-६ ॥

ग्रामाध्वक्षेत्र गण्येषु मानाङ्गुलविधानतः ।
आचार्यदक्षाङ्गुलिभिर्मितेर्व्यासमिधादिकैः ॥ ३०-७ ॥

कूर्चे पवित्रके चैव सृवे सृक्भिरथान्यकैः ।
यागे प्रयोजितानीह मात्राङ्गुलिविधिश्चरेत् ॥ ३०-८ ॥

अथमानाङ्गुलैर्वापि कारयेद्यागकर्मणि ।
देहलब्धाङ्गुले नैव प्रतिमाङ्कारयेत् बुधः ॥ ३०-९ ॥

एकाङ्गुलस्य संज्ञा स्यात् बैन्दुमोक्षोक्तमात्रकम् ।
कलाकोलक पद्माक्षि चाश्विनीद्व्यङ्गुलस्य तु ॥ ३०-१० ॥

रुद्राक्षाग्निगुणाश्चैव शूलविद्या त्रियङ्गुलम् ।
युगभागञ्च वेदञ्च तुरीयं चतुरङ्गुलम् ॥ ३०-११ ॥

रुद्राननेन्द्रियं भूत बाणं पञ्चाङ्गुलस्य तु ।
कर्माङ्गमयनञ्चैव रसश्चैव षडङ्गुलम् ॥ ३०-१२ ॥

पातालमुनिधातूंश्च चाब्धिं सप्ताङ्गुलस्य तु ।
वसुलोकेशमूर्तिश्च ततोऽष्टाङ्गुलसंज्ञकाः ॥ ३०-१३ ॥

द्वारं सूत्रं ग्रहं शक्तिर्नवाङ्गुलमिति स्मृतम् ।
दिशानाड्यायुधञ्चैव प्रादुर्भावं दशाङ्गुलम् ॥ ३०-१४ ॥

प्. १३९) त्रिषु विष्कूश्च विंशश्च गतित्रिंशतिरुच्यते ।
त्रिजगत् चत्वारिंशत् पञ्चाशच्छक्वरीति च ॥ ३०-१५ ॥

अतिशक्वरिश्च षष्टिस्तु यष्टिसप्ततिरुच्यते ।
अत्यष्ट्यशीतिकं विद्धि नवती धृतिरेव च ॥ ३०-१६ ॥

अतिधृतिः शताङ्गुल्यमिति संज्ञा प्रकीर्तिताः ।
एकं दशं शतञ्चैव सहस्रमयुतं पुनः ॥ ३०-१७ ॥

नियुतं प्रयुतञ्चैव कोटिञ्चैव यथार्बुदम् ।
बृन्दं खर्वं निखर्वञ्च शंखं पद्ममतः परम् ॥ ३०-
१८ ॥

समुद्रमध्यन्ताराख्यं पराख्यमपरं तथा ।
परार्धमेवमाख्यातं दशवृत्त्युत्तरोत्तरम् ॥ ३०-१९ ॥

एवमेतानि चोक्तानि सङ्ख्या स्थानानिविंशतिः ।
कालं यमं त्रिभागञ्च षट्कलाश्च वितस्तिकम् ॥ ३०-२० ॥

षट्कोलकं मुखञ्चैव द्वादशाङ्गुलसंज्ञकम् ।
अङ्गुष्ठ तर्जनीयुक्तं प्रादेशमिति कीर्तितम् ॥ ३०-२१ ॥

मध्यमाङ्गुष्ठ संयुक्तं तालमानमिति स्मृतम् ।
अङ्गुष्ठानामिकायुक्तं वितस्तिरिति चोच्यते ॥ ३०-२२ ॥

कनिष्ठाङ्गुष्ठयोर्युक्तं गोकर्णमिति संज्ञिकम् ।
प्रादेशश्च वितस्तिश्च गोकर्णश्च इमे त्रयः ॥ ३०-२३ ॥

यज्ञादिके प्रयोक्तव्याः प्रासादादौ नमापयेत् ।
रत्निः संवृतमुष्टिः स्यादरत्निः प्रसृताङ्गुलिः ॥ ३०-२४ ॥

किष्कुश्च प्राजापत्यश्च धनुर्मुष्टिधनु ग्रहौ ।
अङ्गुलेस्तु चतुर्विंशत् किष्कुरित्युच्यते बुधैः ॥ ३०-२५ ॥

पञ्चविंशतिभिश्चैव प्राजापत्यमुदाहृतम् ।
षड्विंशतिधनुर्मुष्टिः सप्तविंशद्धनुग्रहः ॥ ३०-२६ ॥

किष्कुस्तादि चत्वारिमानाङ्गुलवशात्तम ।
एभिर्हस्त प्रमाणैस्तु प्रासादादीनि कारयेत् ॥ ३०-२७ ॥

शयनञ्चासनञ्चैव किष्कुमानवशात् कुरु ।
लिङ्गञ्च पिण्डिकाञ्चैव प्रासादं गोपुरं तथा ॥ ३०-२८ ॥

प्. १४०) प्राकारमण्डपञ्चैव प्राजापत्यकरेण तु ।
धनुग्रहश्चतुष्कं यद्दण्डमानं प्रकीर्तितम् ॥ ३०-२९ ॥

सहस्रदण्डमानेन क्रोशमात्रं विधीयते ।
गव्यूतिर्द्विगुणं ज्ञेयं तद्विगुणन्तु घातकम् ॥ ३०-३० ॥

घातकस्य चतुष्कन्तु योजनापरिकीर्तिता ।
प्रतिमायास्तदुत्सेधं तालदण्डेन भाजयेत् ॥ ३०-३१ ॥

चतुर्विंशच्छतञ्चैव उत्तमं दशतालकम् ।
विंशच्छतञ्च मध्यन्तु कन्यसं षोडशाधिकम् ॥ ३०-३२ ॥

द्वादशाधिकमेवं यत् नवतालोत्तमं भवेत् ।
अष्टौशतञ्चतुःशतं मध्यमं कन्यसं तथा ॥ ३०-३३ ॥

शतं षण्णवतिश्चैव नवत्युत्तरकरद्वयम् ।
अष्टतालमिदं प्रोक्तं त्रिविधं पूर्वपद्धति ॥ ३०-३४ ॥

इत्येवं भागहीनं स्यादेक तालान्तमेव हि ।
तयोदशार्द्धं मुखज्येष्ठन्तयोदशन्तु मध्यमम् ॥ ३०-३५ ॥

तत्द्वादशार्धमधममुत्तमं दशतालके ।
नवतालोत्तमे चैव मुखं वै द्वादशाङ्गुलम् ॥ ३०-३६ ॥

अर्धार्धाङ्गुल हीनेन मध्यमाधममुच्यते ।
त्रिविधादशतालेन त्रिमूर्तीनान्तु कीर्तिता ॥ ३०-३७ ॥

त्रिविधं नवतालेन देवानां योषितामपि ।
अष्टतालेन मर्त्यानां सप्ततालेन रक्षसाम् ॥ ३०-३८ ॥

षट्तालेन तु गन्धर्वान् पञ्चतालो गणाधिपः ।
वामनस्य तथैवस्याच्चतुस्तालास्तु भूतकाः ॥ ३०-३९ ॥

त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ।
अणुजानान्तथैकं स्यात् पिशाचानान्तु विंशतिः ॥ ३०-४० ॥

अङ्गुल्यः सम्यगाख्याताः प्रासादलक्षण शृणु ।

इति अङ्गुलीलक्षणविधिपटलस्त्रिंशत्तमः ॥ ३० ॥


प्. १४१) अथ प्रासादलक्षणविधि पटलः

अथातः संप्रवक्ष्यामि प्रासादानान्तु लक्षणम् ।
सप्ताष्ट नवहस्तञ्च अधमं त्रितयं भवेत् ॥ ३१-१ ॥

दशद्वादशकं हस्तं षोडशं मध्यमत्रयम् ।
विंशत् त्रिंशच्च पञ्चाशत् त्रीणिचोत्तममिष्यते ॥ ३१-२ ॥

एवं नवविधं प्रोक्तं प्रासादानान्तु विस्तरम् ।
विस्तारं पञ्चविंशत्तु भागं कृत्वा विचक्षणः ॥ ३१-३ ॥

नवांशं गर्भगेहन्तु भित्तिमानन्तु षोडश ।
अथवा षोडशांशे तु चतुष्टं गर्भविस्तरम् ॥ ३१-४ ॥

द्वादशांशस्तु भित्तेस्तु विस्तारं सर्वतः समम् ।
एकाशीति पदङ्कृत्वा नवांशं गर्भमेव तु ॥ ३१-५ ॥

षोडशं भित्तिमानन्तु भित्तिमभ्यन्तरं विदुः ।
तत् बाह्यैकन्तु सलिलं तत् बाह्यैकन्तु भित्तिकम् ॥ ३१-६ ॥

बाह्यभित्तौ चतुर्द्वारमथवा द्वारमेकतः ।
अन्यत् सर्वसमं प्रोक्तं स्थूप्यन्तं कारयेत् बुधः ॥ ३१-७ ॥

यदुक्तं भित्तिविस्तारं बाह्याभ्यन्तरयोः समम् ।
बाह्ये वा भ्यन्तरे वापि त्रिविधं भित्तिमानकम् ॥ ३१-८ ॥

लिङ्गमानविमानस्य विस्तारं शृणु सांप्रतम् ।
यावल्लिङ्गस्य विष्कंभं त्रिगुणं पीठविस्तरम् ॥ ३१-९ ॥

तत्तारं त्रिगुणीकृत्य गर्भगेहं प्रचक्षते ।
गर्भगेहं त्रिभागैकं भित्तिमानं विधीयते ॥ ३१-१० ॥

यदीश्चेत् कर्तृ विस्तारन्तद्विस्तारं विधीयते ।
पूजांशं द्विगुणं पीठं त्रिगुणं वा विशेषतः ॥ ३१-११


पीठस्य त्रिगुणं गर्भन्तत्रिभागैक भित्तिकम् ।
संवीक्ष्य समभूमिश्चेदुपपीठं प्रकल्पयेत् ॥ ३१-१२ ॥

विस्तारस्याष्टभागैकमुपपीठस्य चोच्छ्रयम् ।
तत् पादहीनमर्द्धं वा द्वादशांशं विभज्यतम् ॥ ३१-१३ ॥

द्विभागौ पट्टिकाधस्तादूर्ध्वमंशेन पट्टिका ।
षट्भागं कर्णभागं स्यादेकांशाक्षुद्र पट्टिका ॥ ३१-
१४ ॥

प्. १४२) तस्योर्ध्वे तु द्विभागेन ग्रीवं पादैरलङ्कृतम् ।
यथा लङ्कार संयुक्तमुपपीठं प्रकीर्तितम् ॥ ३१-१५ ॥

ततो जाङ्गलभूमिश्चेदधिष्ठानं प्रकल्पयेत् ।
तच्चतुर्विधमाख्यातमिहशास्त्रे विशेषतः ॥ ३१-१६ ॥

पद्मबन्धञ्चारुबन्धं पादबन्धं प्रतिक्रमम् ।
विस्तारस्य चतुर्थांशमधिष्ठानोच्छ्रयं भवेत् ॥ ३१-१७ ॥

पद्मबन्धं प्रवक्ष्येऽहं शृणु तत्वङ्गजानन ।
उत्सेधं सप्तविंशत् तु द्विभागा पट्टिका भवेत् ॥ ३१-१८ ॥

एकांशं दलमेवोक्तमुपानञ्चैक भागिकम् ।
जगती तु षडंशा स्यात् द्विभागार्धदली क्रमात् ॥ ३१-१९ ॥

अर्धभागं भवेत् स्कन्धं भागमूर्ध्वदलं तथा ।
त्रिभागं कुमुदं विद्या दधोब्जं भागमेव तु ॥ ३१-२० ॥

पट्टिका चैकभागा तु ग्रीवा चैव द्विभागिका ।
तदूर्ध्वमेक भागन्तु पद्मबन्धतो परि ॥ ३१-२१ ॥

द्विभागा पट्टिकाया तु एकभागेन योजनम् ।
तत्व्रतेश्चैक भागन्तु पद्मबन्धमिति स्मृतम् ॥ ३१-२२ ॥

अधिष्ठानस्य चोत्सेधञ्चतुर्विंशति भाजितम् ।
द्विभागापट्टिका प्रोक्ता ह्युपानञ्चैक भागिकम् ॥ ३१-२३ ॥

षट्भागाजगती प्रोक्ता कुमुदं पञ्चभागिकम् ।
एकांशापट्टिका प्रोक्ता ग्रीवा चैव त्रियंशका ॥ ३१-२४ ॥

एकांशापट्टिका विद्धि त्रियंशाचोर्ध्वपट्टिका ।
महापट्टिका त्रियंशा एकं वा जनमुच्यते ॥ ३१-२५ ॥

पादबन्धमितिख्यातं सर्वकार्येषु पूजितम् ।
वृतिक्रमं विशेषेण कर्तव्यं पादबन्धवत् ॥ ३१-२६ ॥

पट्टिकां प्रतिवक्त्रन्तु कुमुदावृत्तमुच्यते ।
एवं प्रतिमुखं कार्यमधिष्ठानं समासतः ॥ ३१-२७ ॥

पादायाममधिष्ठानं द्विगुणं सर्वसंमतम् ।
पादार्धं प्रस्तरं प्रोक्तं कर्णं प्रस्तरवत्समम् ॥ ३१-२८ ॥

प्. १४३) प्रस्तरद्विगुणायामं शेखरं हितमुच्यते ।
भागस्थूपिं प्रकर्तव्यं सर्वालङ्कारसंयुतम् ॥ ३१-२९ ॥

प्रस्तरादूर्ध्वभागे तु कर्णकूटसमायुतम् ।
चतुर्दिक्षु कपोतञ्च तयोर्मध्येऽष्टपञ्जरम् ॥ ३१-३० ॥

अर्धभागन्तु कण्ठं स्यात् भागार्धं शिखरं भवेत् ।
एवमेकतलं प्रोक्तं द्वितलादीनिमच्छृणु ॥ ३१-३१ ॥

प्रस्तरान्मूलपादाच्च तलं प्रतितदूर्ध्वतः ।
सप्तभागैकभिन्नन्तु तलेष्वेवं प्रकीर्तितम् ॥ ३१-३२ ॥

आद्वादशतला देवं भूमौ प्रकल्पयेत् ।
एवमुक्तमिहोत्सेधं द्वारभेदं ततच्छृणु ॥ ३१-३३ ॥

वृतेरूर्ध्वोत्तरान्तं यद्वारस्योत्सेधमुच्यते ।
उत्सेधार्धदशांशो न द्व्यंशं तु परिहीनकम् ॥ ३१-३४ ॥

विस्तारमुत्तमं मध्यमधन्तु प्रकीर्तितम् ।
पूर्वे वा पश्चिमे वापि द्वारङ्कृत्वा विचक्षणः ॥ ३१-३५ ॥

पद्मबन्ध्याद्यधिष्ठाने वृत्ते रुपरिनिर्गमम् ।
वृतेरधस्तादुच्छेदं मसूरे पादबन्धके ॥ ३१-३६ ॥

अङ्गच्छेदन्तु कर्तव्यमाङ्गन्तु न च कारयेत् ।
द्वारभेदमिदं प्रोक्तं जातिभेदं ततः शृणु ॥ ३१-३७ ॥

नागरं द्राविढञ्चैव वेसरञ्च त्रिधामतम् ।
कण्ठादारभ्य वृत्तं यत् तद्वेसरमिति स्मृतम् ॥ ३१-३८ ॥

ग्रीवमारभ्य चाष्टाश्रं विमानं द्राविडाख्यकम् ।
सर्वं वै चतुरश्रं यत् प्रासादं नागरन्त्विदम् ॥ ३१-३९ ॥

एवं जातिरितिख्यातं तत्भेदञ्च ततः शृणु ।
कैलासोमन्धरोमेरु हिमवन्निषधं स्मृतम् ॥ ३१-४० ॥

नीलपर्वतमाहेन्द्रौ नलीनकप्रलीनकः ।
नन्द्यावर्तं च श्रीवर्तं पर्वताकृतिरेव च ॥ ३१-४१ ॥

इत्येवमादि सर्वेषां भेदमित्यभिधीयते ।
चतुःशालाचतुष्कूट युक्तः कैलास एव हि ॥ ३१-४२ ॥

प्. १४४) मन्धरोनाम इत्युक्तश्चतुःशालाष्टकूटकम् ।
मेरुर्नाम इतिख्यातस्त्वष्टशालाष्ट कूटकः ॥ ३१-४३ ॥

हिमवानिति विख्यातो युक्तषोडशपञ्जरः ।
अष्टशालाष्टकूटस्तु प्रासादो लक्षणान्वितः ॥ ३१-४४ ॥

प्रासादो निषधस्तत्र कूटशाला विहीनकः ।
अष्टशाला समायुक्तश्चाष्ट पञ्जरसंयुतः ॥ ३१-४५ ॥

चतुःशालासमायुक्तो वेदीसोपानसंयुतः ।
नलीनकस्तु संप्रोक्ता प्रलीनकमतः शृणु ॥ ३१-४६ ॥

शीर्षकञ्चतुरश्रन्तु पार्श्वयोः कोष्ठसंयुतः ।
पञ्जरं नासिका युक्तं सोपानं पार्श्वयोस्ततः ॥ ३१-४७ ॥

प्रलीनक इति प्रोक्ता नन्द्यावर्तमिति शृणु ।
चतुष्कूटश्चतुःशालाश्चत्वारः पार्श्वनासिकाः ॥ ३१-४८ ॥

मुखनासी तथा युक्तं द्वादशञ्चानुनासिकाः ।
चतुःसोपानसंयुक्तं भूमौ भूमौ विशेषतः ॥ ३१-४९ ॥

नन्द्यावर्तमिदं वत्स श्रीप्रदञ्च ततः शृणु ।
कोष्ठकास्त्विह चत्वारश्चतुष्कोणेषु चैव हि ॥ ३१-५० ॥

चतुर्नासी समायुक्तमनुनासी दशाष्टकम् ।
एवं लक्षणसंयुक्तं श्रीप्रदन्त्विति कीर्तितम् ॥ ३१-५१ ॥

कूटशालासमायुक्ता पुनः पञ्जरनासिका ।
वेदिकाजालकोपेता पर्वता कृतिरुच्यते ॥ ३१-५२ ॥

एवं तले तले कर्यन्नूनमेकैक भागिकम् ।
जातिभेदं समाख्यातं पादानामधुनोच्यते ॥ ३१-५३ ॥

चतुरश्रमथाष्टाश्रं षोडशाश्रन्तु वृत्तकम् ।
कुम्भयुक्तास्तथा केचित् केचित् कुम्भविहीनकाः ॥ ३१-५४ ॥

केचिद् वैकुंभमण्डिभ्यां युक्ताः पादा इति स्मृताः ।
पादानामा इति प्रोक्तो तेषां लक्षणमुच्यते ॥ ३१-५५ ॥

विस्तारस्य चतुर्विंशत् भागैकं पादविस्तरम् ।
तदैवदण्डमाख्यातं पादालङ्कारकर्मणि ॥ ३१-५६ ॥

प्. १४५) मूलपादस्य विस्तारात् सप्तैकांशो न मार्गतः ।
द्विदण्डं मण्डिरुत्सेधं दण्डपादन्तु विस्तरम् ॥ ३१-५७ ॥

अष्टांशं कण्ठमुत्सेधं द्विदण्डं कुम्भविस्तरम् ।
उत्सेधन्तु त्रिपादं हि पादोनाफलका भवेत् ॥ ३१-५८ ॥

त्रिदण्डं विस्तरं प्रोक्तं तदर्धं निर्गतं स्मृतम् ।
वीरकण्ठन्तु दण्डेन विस्तारं तत् समं भवेत् ॥ ३१-५९ ॥

तदूर्ध्वे पोतिकायामन् तत् त्रिपादन्तदुच्छ्रितम् ।
त्रिदण्डमधमायामञ्चतुर्दण्डन्तु मध्यमम् ॥ ३१-६० ॥

उत्तमं पञ्चदण्डन्तु पोतिकायाममुच्यते ।
चित्रपत्रतरंगैश्च भूषयित्वा तु पोतिकाम् ॥ ३१-६१ ॥

कुम्भपादमिदं प्रोक्तं कुम्भभिन्नं प्रचक्ष्महे ।
पादं पोतिकया युक्तं शेषं कर्म न कारयेत् ॥ ३१-६२ ॥

कुम्भहीनास्त्विमे प्रोक्ता लताकुम्भन्तदुच्यते ।
कुम्भाकारन्तु तन्मूले तदूर्ध्वं पद्ममेव तु ॥ ३१-६३ ॥

फलकोर्ध्वे लताङ्कुर्यात् तच्छेषं कुम्भपादवत् ।
पादान्तरे तु कर्तव्यमशक्तश्चेत् तु वर्जयेत् ॥ ३१-६४ ॥

सर्वेषां मेवपादानां तत् पादं निर्गमं भवेत् ।
श्रीकरञ्चन्द्रकान्तञ्च सौमुख्यं प्रियदर्शनम् ॥ ३१-६५ ॥

शुभंकरी च नामानि कर्तव्यानि विशेषतः ।
श्रीकरं वृत्तपादानां षोडशाश्रे तु कान्तकम् ॥ ३१-६६ ॥

सौमुख्यं हि तथाष्टाश्रे तुर्याग्रे प्रियदर्शनम् ।
चतुरश्राष्टमिश्रे च पादाकार्याशुभंकरी ॥ ३१-६७ ॥

पादानां लक्षणं प्रोक्तं तोरणं वक्ष्यते धुना ।
पृष्ठे तु पार्श्वयोश्चैव कर्तव्यास्तोरणास्तथा ॥ ३१-६८ ॥

द्वारस्योत्सेधमानं यत्तोरणस्योच्छ्रयं भवेत् ।
तदर्धं विस्तरं प्रोक्तमुछ्राये षट्विभाजिते ॥ ३१-६९ ॥

मकरन्तु द्वियंशेन शेषं पादमिति स्मृतम् ।
मूलपादस्य चार्धेन तस्य पादप्रमाणकम् ॥ ३१-७० ॥

मकारांशं तदूर्ध्वे तु मध्ये वृत्तं सनिम्नकम् ।
वृत्तेरूर्ध्वे उहां कृत्वा चतुरायतमेव तु ॥ ३१-७१ ॥

प्. १४६) प्रमाणन्तोरणस्योक्तं प्रस्तरञ्च ततः शृणु ।
प्रस्तरोत्सेधमानन्तु पञ्चभागविभाजितम् ॥ ३१-७२ ॥

त्रिभागमुत्तरोत्सेधं पादेनोत्तरवाजनम् ।
एकभागन्तदूर्ध्वे तु कर्तव्या पद्मपट्टिका ॥ ३१-७३ ॥

गजश्रेणी मृगश्रेणी प्रस्तरान्तेषु योजयेत् ।
एवं प्रस्तरमाख्यातं तलं प्रति विशेषतः ॥ ३१-७४ ॥

कूटशालाप्रमाणञ्च अधुना वक्ष्यते शृणु ।
तस्योत्सेधकपोतान्तं षट्भागन्तद्विभाजिते ॥ ३१-७५ ॥

पादं वेदिकया युक्तं पादग्रीवा समायुतम् ।
द्विभागं पादमेव स्यात् द्विभागं शिखरं भवेत् ॥ ३१-७६ ॥

भागस्थूपिसमायुक्तमेवं वै कारयेत् सुधीः ।
कृत्वा विस्तारषट्भागं कूटमेकेन चैव हि ॥ ३१-७७ ॥

द्विभागेन तु शालान्तु भागाभ्यां पञ्जरं तथा ।
चतुरश्रन्ततः कूटं शालं स्यात् गोपुराकृति ॥ ३१-७८ ॥

पार्श्वयोर्नासिका युक्तं तन्मध्ये तनुनासिका ।
द्वित्रिकञ्च चतुः प्रोक्तं कुम्भन्तस्योपरि स्थितम् ॥ ३१-७९ ॥

एक नासिकयायुक्तं पञ्जरं समुदाहृतम् ।
कूटेषु नासिकायुक्तं कोष्ठमेतत् प्रकीर्तितम् ॥ ३१-८० ॥

प्रस्तरोच्च प्रमाणेन तत्समंकण्ठमुच्यते ।
द्वादशांशं विभज्याथ द्विभागापट्टिका भवेत् ॥ ३१-८१ ॥

द्विभागा वेदिका प्रोक्ता कण्ठं पञ्चांशमुच्यते ।
पट्टिकाश्चैक भागं स्यात् द्विभागापद्मपट्टिका ॥ ३१-८२ ॥

तदूर्ध्वे शिखरं प्रोक्तं भागार्धं निर्गमं भवेत् ।
तस्योत्सेधं त्रिधा कृत्वा भागं पादस्य दैर्घ्यकम् ॥ ३१-८३


भागेन नासिका प्रोक्ता तदर्धं मध्यनिम्नकम् ।
शेषभागं त्रिधा कृत्वा नालभागेन कल्पितम् ॥ ३१-८४ ॥

पञ्जरञ्चैकभागेन त्रिशूलं भागमानतः ।
चतुर्भागन्तदर्धं वा ह्यनुनासिकमुच्यते ॥ ३१-८५ ॥

एवं नासिकमाख्यातं स्थूपिलक्षणमुच्यते ।
शिखरार्धं समुत्सेधं पञ्चविंशत् तु तद्भवेत् ॥ ३१-८६ ॥

प्. १४७) सप्तांशं दलमानन्तु भागं तत्कण्ठमुच्यते ।
अष्टभागैस्तु तत्कुम्भञ्चतुर्भागन्तु नालकम् ॥ ३१-८७ ॥

द्विभागं वेदिकां कुर्यात् मुकुलन्तु कला भवेत् ।
मुकुलाग्रमधैकांशं स्थूपिपट्टमिहोच्यते ॥ ३१-८८ ॥

विदिक्षु वृषभं न्यस्त्वा महादिक्षु च मूर्तयः ।
स्कन्दङ्कृत्वा तु तत्पूर्वे याम्ये श्रीकण्ठनायकम् ॥ ३१-८९ ॥

शास्त्रार्थानिमुनीनान्तु मुक्त्यर्थं प्रोच्चरन् गुरुः ।
पश्चिमे नारसिंहञ्च सौम्ये वा विन्यसेत् बुधः ॥ ३१-९० ॥

ब्रह्माणमुत्तरे कृत्वा चतुर्वक्त्रसमायुतम् ।
वृषस्य तालमूर्ध्वे च ह्यासनाः कण्ठसंश्रिताः ॥ ३१-९१ ॥

शालासु देवताः प्रोक्ताः कूटेषु च नयत्विह ।
दिव्यमानुष देवांश्च यथा युक्त्या तु योजयेत् ॥ ३१-९२ ॥

शिवक्रीडा हरिक्रीडा तपक्रीडा विशेषतः ।
यक्षराक्षसगन्धर्व सिद्धविद्याधरोरगान् ॥ ३१-९३ ॥

अष्टदिक्षु यथा युक्त्या न्यस्त्वा पूर्वादितः क्रमात् ।
प्रासादलक्षणं प्रोक्तं मण्डपानां विधिं शृणु ॥ ३१-९४


प्रासादार्द्धं मुखायामं विस्तारं सममुच्यते ।
त्रिपादं वा मुखायामं सार्धं मण्डपमुच्यते ॥ ३१-९५ ॥

देवतामण्डपं पूर्वं द्वितीयं स्नपनार्थकम् ।
वृषार्धं मण्टपं पश्चाच्चतुर्थं नृत्तमण्डपम् ॥ ३१-९६


देवता प्रतिमारूपा स्थापितं देवमण्टपम् ।
कलशस्थापनं यत्र प्रोक्तं स्नपनमण्डपम् ॥ ३१-९७ ॥

वृषभं स्थापितं यत्र वृषभं मण्डपं तथा ।
नृत्तं यत्र कृतं तत् तु नृत्तमण्डपमेव तु ॥ ३१-९८ ॥

गोपुरेऽथव्यवायेपि व्यवाये विकृतं तथा ।
एवञ्चतुर्विधेष्वन्य मण्डपञ्चाग्रतो बहिः ॥ ३१-९९ ॥

तेषां नामानि वक्ष्यामि शृणुवत्स समाहितः ।
नन्दवृत्तं श्रियावृत्तं वीरासनञ्च वृत्तकम् ॥ ३१-१०० ॥

नन्द्यावर्तं माणिभद्रं विशालञ्चेति कीर्तितम् ।
नन्दवृत्तञ्चतुष्पादं षोडशं श्रीप्रतिष्ठितम् ॥ ३१-१०१ ॥

प्. १४८) विंशतिस्तंभसंयुक्तं वीरासनमिति स्मृतम् ।
द्वात्रिंशत् गात्र संयुक्तं जयभद्रेति कथ्यते ॥ ३१-१०२ ॥

षट्त्रिंशत् गात्रसंयुक्तं नद्यावर्तमिति स्मृतम् ।
चतुःषष्टिसमायुक्तं स्तम्भानां माणिभद्रकम् ॥ ३१-१०३ ॥

स्तम्भानान्तु शतैर्युक्तं विशालमिति संज्ञितम् ।
प्रासादवत् समाख्यातं प्रस्तरान्तं प्रमाणतः ॥ ३१-१०४ ॥

प्रासादस्तंभमानस्य एतत् स्तंभं विशिष्यते ।
पादाधिकमथाध्यर्धं पादो न द्विगुणं भवेत् ॥ ३१-१०५ ॥

स्तंभायामाष्टभागैकं स्तंभस्यैव तु विस्तरम् ।
वृत्तं वा चतुरश्रं वा चतुरष्टाश्रमिश्रकम् ॥ ३१-१०६ ॥

षोडशाश्रयुतं वापि शिल्पैः सर्वैः सुशोभितम् ।
स्तंभाच्च बोधिकाधिक्या बोधेरप्युत्तराधिका ॥ ३१-१०७ ॥

उत्तराद्वाजनाधिक्या तस्योर्ध्वे मुद्रिकां न्यसेत् ।
मुद्रिकाच्चतुलाधिक्या जयन्ती तु ततो परि ॥ ३१-१०८ ॥

च्छदयेदिष्टकाभिस्तु तस्योर्ध्वे कलकान् क्षिपेत् ।
वालुकैस्तु समञ्चूर्णं गुल्माषं योजयेत् क्रमात् ॥ ३१-१०९ ॥

मुसलेन तु संपीड्य शर्करादिसमन्वितम् ।
कषाय पिच्छलैर्युक्तं त्रिफलोदकसंयुतम् ॥ ३१-११० ॥

हरीतक्क्यास्तु भागैकं द्विगुणञ्च विभीतकम् ।
धात्रि त्रिगुणमित्युक्तं प्रक्षुण्णान् मलसंयुतम् ॥ ३१-१११ ॥

षण्मासं वा त्रिमासं वा मासं वाप्युषितं तथा ।
दधिमाषोदकञ्चैव नालिकेरस्य तोयकम् ॥ ३१-११२ ॥

क्षीरञ्चदधिसंमिश्रं सम्यक् कर्मसमाचरेत् ।
कूटशालासभां कृत्वा भोगयोग्यं विशेषतः ॥ ३१-११३ ॥

सोपानञ्च यथा युक्त्या हस्तिहस्तन्तथैव च ।
एवं समासतः प्रोक्तं मण्डपं विधिपूर्वकम् ॥ ३१-११४ ॥

प्राकारं परितः कुर्यात् प्रासादस्य प्रमाणतः ।
भूमौ विन्यस्य विस्तारं प्रासादस्य सुनिश्चयम् ॥ ३१-११५ ॥

प्रासादस्य तु विस्तारं तस्य दण्डमिहोच्यते ।
दण्डात्तेन कृतं यत्र त्वन्तर्मलसमैव हि ॥ ३१-११६ ॥

प्. १४९) एकदण्डान्तर्भारा तु मध्यभाराद्विदण्डतः ।
चतुर्दण्डप्रमाणेन कृत्वामय्यादिभित्तिकम् ॥ ३१-११७ ॥

महामय्यादिभित्तिः स्यात् सप्तदण्डप्रमाणतः ।
पृष्ठे चैवाग्रतोप्यर्धं द्विगुणं त्रिगुणन्तु वा ॥ ३१-११८ ॥

चतुर्गुणं मुखायामं प्राकाराणां विशेषतः ।
कपोतान्तं समुत्सेधं हस्तविस्तारभित्तिकम् ॥ ३१-११९ ॥

कूटशालायुतं वापि कूटशालान्तमेव च ।
प्राकारेण समायुक्तं गोपुरस्य विधीयते ॥ ३१-१२० ॥

मण्डले द्वारके वाथ द्वारशालान्तु भारके ।
प्रासादं मध्यभारायां मय्यादौ हर्म्यमेव च ॥ ३१-१२१


गोपुरन्तु महामय्ये एवं पञ्चविधि स्मृतम् ।
चतुर्दिक्षु च संयोज्याः प्राकाराणां पृथक् पृथक् ॥ ३१-१२२ ॥

केचिद् वै मालिकाकारा केचिद् वै गोपुराकृतिः ।
विस्तारं द्वारशोभाया द्वित्रिपञ्चकरं भवेत् ॥ ३१-१२३ ॥

षट्सप्ताष्टनवकरैर्द्वारशाला प्रकीर्तिता ।
एकादश त्रयोदश हस्तं प्रासादविस्तृतम् ॥ ३१-१२४ ॥

चतुर्दशपञ्चदश द्वारहर्म्यमिति स्मृतम् ।
एकविंशस्त्रयोविंश द्वारगोपुरमुच्यते ॥ ३१-१२५ ॥

विस्तारद्विगुणायाममायामद्विगुणोच्छ्रयम् ।
भौमोर्ध्वोत्तरसीमान्तं द्वारस्योच्छरयलक्षणम् ॥ ३१-१२६ ॥

तदर्धं विस्तारं प्रोक्तं अलङ्कारं विमानवत् ।
प्राकारभित्तिमाश्रित्य कुर्यादावृतमण्डपम् ॥ ३१-१२७ ॥

तत्बाह्ये भ्यन्तरेवापि मालिका मण्डपं हि वा ।
पञ्चप्राकारमेवं स्यात् परिवारालयं शृणु ॥ ३१-१२८ ॥

प्रासादस्य चतुर्थं वा तदर्धं वार्धमेव वा ।
मातॄणामालयं कुर्यात् गोपुराकारमेव तु ॥ ३१-१२९ ॥

हस्ति पृष्ठन्तपप्रोक्तं प्रासादन्तु विशेषतः ।
मेध्यन्तु पचनाकारञ्चतुःशालैकशालकम् ॥ ३१-१३० ॥

प्राकारसंयुतङ्कृत्वा बाह्ये वा भ्यन्तरेपि वा ।
पूर्वे तु पश्चिमे द्वारं पश्चिमे पूर्वतो मुखः ॥ ३१-१३१ ॥

प्. १५०) दक्षिणे चोत्तरद्वारमुत्तरे दक्षिणोन्मुखम् ।
वह्नीशान स्थितं यत् तत् पश्चिमेद्वारमिष्यते ॥ ३१-१३२ ॥

नीलानिल स्थितञ्चैव पूर्वद्वारं प्रशस्यते ।
वृषस्य मण्डपं तत्र चतुर्द्वारसमायुतम् ॥ ३१-१३३ ॥

प्रासादलक्षणं प्रोक्तं ततो मूर्धेऽष्टकां शृणु ।

इति प्रासादलक्षणविधिपटल एकत्रिंशत्तमः ॥ ३१ ॥


अथ मूर्धेऽष्टकाविधि पटलः

अथातः संप्रवक्ष्यामि मूर्धेऽष्टकाविधिं शृणु ।
प्रासादस्योत्तरे वाग्रे प्रपां कृत्वा स लक्षणम् ॥ ३२-१ ॥

स्थण्डिलं तत्र कुर्वीत तिलतण्डुलशालिभिः ।
न्यस्त्वा तन्मध्यमे पश्चादिष्टकाः पञ्चकाः क्रमात् ॥ ३२-२


शालिपिष्टमयेनाथ लेखयेदक्षराणि तु ।
यकारं पूर्वभागे तु रकारं दक्षिणे तथा ॥ ३२-३ ॥

लकारं पश्चिमे चैव पकारञ्चोत्तरे तथा ।
हकारं मध्यमे न्यस्त्वा पृथग्वस्त्रेण वेष्टयेत् ॥ ३२-४ ॥

अभितः कलशानष्टौ त्रिसूत्रपरिवेष्टितान् ।
पिधान कूर्चवस्त्राड्यान् गन्धांबु परिपूरितान् ॥ ३२-५ ॥

हेमरत्न विनिक्षिप्त लोकपालाधि देवतान् ।
संस्थाप्या भ्यर्च्यगन्धाद्यै स्वस्वमन्त्रेण देशिकः ॥ ३२-६ ॥

लोहजं दारुजं वापि स्त्रिभिस्तंभं विशेषतः ।
शिखरं सदृशं दीर्घं तारमष्ट षडङ्गुलम् ॥ ३२-७ ॥

अग्रमङ्गुलविस्तारमानुपूर्वात् कृशं तथा ।
चतुरश्रं भवेन्मूलं मध्यमष्टाश्रकं तथा ॥ ३२-८ ॥

तदूर्ध्वं वृत्तमेवं स्याच्छिखि पादमिव स्थितम् ।
गव्यैः प्रक्षालयित्वा तु स्थण्डिलोपरिविन्यसेत् ॥ ३२-९ ॥

प्. १५१) आच्छाद्याहत वस्त्रैश्च दर्भैः संस्तीर्य यत्नतः ।
वास्तु होमन्ततः कृत्वा पर्यग्निं तेन वह्निना ॥ ३२-१० ॥

कुर्यादस्त्रं महाशासु कुण्डानि विधिवत् ततः ।
तुर्याश्राण्यथ वृत्तन्तु शङ्करेपि तथैव हि ॥ ३२-११ ॥

अथवा वालुकैर्वापि स्थण्डिलं कारयेत् क्रमात् ।
अग्न्याधानादिकं सर्वं पूर्वोक्तेन विधानतः ॥ ३२-१२ ॥

पार्थिवादीनि तत्वानि पञ्चेऽष्टकाधि देवताः ।
समिदाज्य चरूलाजान्य वैःसद्यादिभिः क्रमात् ॥ ३२-१३ ॥

उदुंबर वटाश्वत्थ प्लक्षपालाशकाः क्रमात् ।
प्रागादि समिधः प्रोक्ता स्थण्डिले वा विशेषतः ॥ ३२-१४ ॥

प्रत्येकं शतमर्धं वा हुत्वा पूर्णाहुतिं ततः ।
पञ्चभूतात्मकं स्मृत्वा होममेकमथैशके ॥ ३२-१५ ॥

प्रभाते विमलेधीमां नक्षत्रे करणान्विते ।
सुमुहूर्तेसुलग्ने च स्थापक स्थपती तथा ॥ ३२-१६ ॥

शुक्लवस्त्रपरिच्छन्नौ शुक्लमाल्यानुलेपनौ ।
अनन्यमनसा वेतौ स्थापयेदिष्टकाः क्रमात् ॥ ३२-१७ ॥

सद्यादि ब्रह्ममन्त्राणि स्मरन् पूर्वादिविन्यसेत् ।
भूमादि पञ्चत्वत्वानि न्यस्त्वा पूर्वादितः क्रमात् ॥ ३२-१८ ॥

मध्यमे नवरत्नानि न्यस्त्वापूर्वोक्तमार्गतः ।
ईशानेन तु मन्त्रेण स्थूपिं तत्रैव विन्यसेत् ॥ ३२-१९ ॥

स्थपतिः शेषकर्माणि कारयेत् तु यथा दृढम् ।
स्थापको मन्त्रयोग्यस्तु स्थपतिः कर्मयोग्यकः ॥ ३२-२० ॥

शिखरोर्ध्वे तु संस्थाप्य पञ्चभागत्रिभागिकम् ।
अर्धभागन्तु वा दृश्यं स्थूप्याः शेषन्तु बन्धयेत् ॥ ३२-२१


विमानाङ्गानि सर्वाणि कुर्यच्छास्त्रोक्तमार्गतः ।
शैलेन निर्मितेधाम्नि वर्णिते वाप्य वर्णिते ॥ ३२-२२ ॥

इष्टकाभिः सुनिर्वृत्ते सुधाद्यैर्वर्णिते क्रमात् ।
विमान स्थापनं धीमान् कुर्यादस्मिन् विशेषतः ॥ ३२-२३ ॥

प्. १५२) व्यपोह्य संकरान् भाण्डान् कृत्वा शिल्पिविसर्जनम् ।
ततो क्षिमोचनं कुर्याद्धोम वेदान्विशेषतः ॥ ३२-२४ ॥

संपूज्यस्थापकं पश्चात् स्थपतिं पूजयेत् ततः ।
वस्त्रहेमाङ्गुलीयाद्यैर्गो भूमिधनधान्यकैः ॥ ३२-२५ ॥

प्रागुक्तविधिना सम्यक् कर्तव्यञ्चाङ्कुरार्पणम् ।
प्रतिष्ठादिवसात् पूर्वे दिवसे विप्रनिर्णिते ॥ ३२-२६ ॥

प्रासादस्य चतुर्दिक्षु प्रपाः पञ्चकरैः क्रमात् ।
प्रासादमध्यमे वेदीं तत् त्रिभागैकमानतः ॥ ३२-२७ ॥

विस्तारार्ध समुत्सेधं मुष्टिमानमथापि वा ।
चतुर्दिग्वेदिकायास्तु प्राग्याम्य वरुणेन्दुषु ॥ ३२-२८ ॥

होमकुण्डं विधानेन प्रोक्तं वा चतुरश्रकम् ।
प्रासादाभ्यन्तरे कुर्यात् वास्तु होमं विधानतः ॥ ३२-२९ ॥

पर्यग्निकरणङ्कृत्वा महाव्योमेति मन्त्रतः ।
पुण्याहं वाचयित्वाद्भिः प्रोक्षयेत् तु समं ततः ॥ ३२-३० ॥

द्रोणांबुपूरितान् कुम्भान् निर्दोषान् सुदृढान्नव ।
तन्तुना चित्रितान् सर्वान् सर्वगन्धांबु पूरितान् ॥ ३२-३१ ॥

हेमपुष्पविनिक्षिप्तान् प्रत्येकं वस्त्र वेष्टितान् ।
चूतपल्ववसंयुक्तान् संस्थाप्य स्थण्डिलोपरि ॥ ३२-३२ ॥

अष्टद्रोणैस्तदर्धैर्वा वेदिकोर्ध्वे पृथक् पृथक् ।
आलिख्य नलिनञ्चोर्ध्वे चाष्टपत्रं सकर्णिकम् ॥ ३२-३३ ॥

शाल्यर्धन्तण्डुले नैव तण्डुलार्धतिलैः कृतम् ।
मध्यादीशान पर्यन्तं वेदिकासु पृथक् पृथक् ॥ ३२-३४ ॥

संस्थाप्य वर्धनीयुक्तं स्वस्वमन्त्रैर्विशेषतः ।
धामप्राग्वेदिकोर्ध्वस्थ मध्यकुम्भे तु षण्मुखम् ॥ ३२-३५ ॥

तस्यैव वामभागे तु वर्धन्यां सुमतिन्न्यसेत् ।
अभितोष्ट घटेष्वेषु लोकेशान् स्वस्वदिग्गजान् ॥ ३२-३६ ॥

दक्षिणे मध्यकुंभे तु श्रीकण्ठे शन्तु विन्यसेत् ।
वामभागे तु वर्धन्यां न्यस्त्वागौरीं समन्त्रतः ॥ ३२-३७ ॥

प्. १५३) अनन्तादि शिखण्ड्यन्तां विद्येशानभितो न्यसेत् ।
पश्चिमे विष्णुमूर्तिन्तु मध्यकुम्भे तु वामता ॥ ३२-३८ ॥

श्रीयं विन्यस्य वर्द्धन्यां पुरुषं सत्यमेव च ।
अव्यक्तञ्चानिरुद्धञ्च प्रद्युम्नं वासुदेवकम् ॥ ३२-३९ ॥

संकर्षणमनन्तञ्च परितोष्ट सुविन्यसेत् ।
उत्तरे मध्यकुम्भे तु ब्रह्माणञ्च स्वमन्त्रतः ॥ ३२-४० ॥

तस्य वामे तु वर्धन्यां सावित्रीमभितोष्टसु ।
व्यासागस्त्यवसिष्ठांश्च कौशिकं काश्यपं तथा ॥ ३२-४१


गौतमञ्च भरद्वाजं विन्यसेत् तु पराशरम् ।
यद्वद् धामगतासीनास्तद्वत्सं भावयेत् घटे ॥ ३२-४२ ॥

संयजेदुक्तमन्त्रैश्चाप्यनुक्तान् स्वस्वनामभिः ।
प्रत्येकं हविषं दत्वा ह्युपदंशैः समन्वितम् ॥ ३२-४३ ॥

ततो होमं प्रकुर्वीत चतुर्दिक्षु विशेषतः ।
कृत्वाग्निमुखसंस्कारं प्रागुक्तविधिना सुधीः ॥ ३२-४४ ॥

मध्यकुम्भस्थ देवास्तु होमानामधिदेवताः ।
पिप्पलोदुंबर प्लक्षवटाः पूर्वादिषु क्रमात् ॥ ३२-४५ ॥

समित्सर्पिश्चरुर्ल्लाज तिलसिद्धार्थमुद्गकाः ।
यवमाषकुलुत्थाश्च नीवारैकादशः क्रमात् ॥ ३२-४६ ॥

पञ्चब्रह्मैश्च विद्यांगै स्त्रिशतं द्विशतं तु वा ।
शतमष्टोत्तरं वापि प्रत्येकं जुहुयुस्ततः ॥ ३२-४७ ॥

विमानादूर्ध्व भूमिस्थदेवान् संस्नाप्य शैलजान् ।
संप्रोक्ष्य वर्णी तद्देवान् स्वस्वमन्त्रेण देशिकः ॥ ३२-४८ ॥

हैमकौतुकसूत्रेण तेषां दक्षकरे हृदा ।
बध्वा दर्भैः सुवस्त्रैश्च बिंबानाच्छाद्य वर्मभिः ॥ ३२-
४९ ॥

ऋगाद्यध्ययनं कुर्याच्चतुर्दिक्षु विशेषतः ।
एवं रात्रौ तु निर्दिष्टं प्रभाते देशिकोत्तमः ॥ ३२-५० ॥

सुस्नातः सकलीकृत्वा सोष्णीषः सोत्तरीयकः ।
शुक्लांबरधरः सृग्वी शुक्लगन्धानुलेपितः ॥ ३२-५१ ॥

प्. १५४) पञ्चाङ्गभूषणैर्भूष्य हेमयज्ञाङ्गुलीयकैः ।
कुम्भा न भ्यर्च्य विधिना दद्यात् पूर्णाहुतिं हृदा ॥ ३२-५२ ॥

सुमुहूर्तेसु लग्ने च कुम्भानुधृत्यमध्यमान् ।
वर्धनीभिः सहैवात्र नयेदृक्षस्थलोपरि ॥ ३२-५३ ॥

त्यक्त्वा प्रतिसरं वस्त्रं हृदयेन स्वमन्त्रकान् ।
विन्यस्त्वाक्षरसंघांश्च शिरोमध्यात् पदान्तकम् ॥ ३२-५४ ॥

कुम्भात् बिंबे तु तत् तत्त्वं योजयेत् तु पृथक् पृथक् ।
तेषान्तु वामपार्श्वे तु वर्धन्यन्तस्थदेवताः ॥ ३२-५५ ॥

संयोज्य स्वस्वमन्त्रेण यथा युक्त्याभिषेचयेत् ।
परितोष्टघटान्तस्थां स्वस्वाशासु च विन्यसेत् ॥ ३२-५६ ॥

संप्रोक्ष्य कुम्भतोयैश्च देवानन्यांश्च धामनि ।
स्थूप्याद्युपान पर्यन्तं प्रासादाङ्गानि सेचयेत् ॥ ३२-५७ ॥

स्थापकं मूर्तिकांश्चैव अध्ये तॄन् परिचारकान् ।
सर्वांश्च शिवभक्तांश्च पूजयेत् पूर्ववत् सुधीः ॥ ३२-५८ ॥

धामान्तस्थगतं देवं स्नपनं कारयेत् ततः ।
दद्यात् प्रभूतहविषं भोजयेत् भूसुरानपि ॥ ३२-५९ ॥

विमानस्थापनोपेत धाम्निपूजाफलप्रदा ।
अकृते पूजिते धाम्नि तत्सर्वं निष्फलं भवेत् ॥ ३२-६० ॥

शिवस्यैवं समाख्यातं विमानस्थापनं मया ।
अन्येषां देव सर्वेषां कुर्यादेवं विधानतः ॥ ३२-६१ ॥

मन्त्रभेदो भवेदत्र क्रियाभेदो न कल्प्यते ।
प्रासादग्रीवमध्यस्थ देवानां स्वस्वमन्त्रकैः ॥ ३२-६२ ॥

कुर्यात् सर्वं यथोद्दिष्टं विधिनादेशिकोत्तमः ।
विमानस्थापनोपेत मूर्धेऽष्टका विधिं ततः ॥ ३२-६३ ॥

अत ऊर्ध्वं प्रवक्ष्यामि शृणु लिङ्गस्य लक्षणम् ।

इति मूर्धेऽष्टकाविधिपटलो द्वात्रिंशत्तमः ॥ ३२ ॥


प्. १५५) अथ लिङ्गलक्षणविधि पटलः

अथातः संप्रवक्ष्यामि लिङ्गलक्षणमुत्तमम् ।
लयङ्गच्छन्ति भूतानि संहारे निखिलं यतः ॥ ३३-१ ॥

सृष्टिकाले तथा सृष्टिः तस्माल्लिङ्गमुदाहृतम् ।
त्रिविधं लिङ्गमाख्यात सकलं निष्कलं कलम् ॥ ३३-२ ॥

सकलं त्रिविधं तत्र तेषां लक्षणमुच्यते ।
दिक्देशकालरहितो वाङ्मनातीतगोचरः ॥ ३३-३ ॥

स एव देवदेवेशः स्वेच्छया गृह्णिते तनुम् ।
परं भावं समालंब्य सर्वज्ञत्वादिभिर्गुणैः ॥ ३३-४ ॥

योगिनां लक्षणार्थन्तु शास्त्राणामुद्भवाय च ।
प्राणिनामुपकाराय गृह्णीते विग्रहं शिवः ॥ ३३-५ ॥

परात्पर तराद्यस्माच्छिवशक्तेः समुत्भवः ।
द्वितीयं शक्तिमूर्तिश्च बिन्दुनादश्चतुर्थकम् ॥ ३३-६ ॥

दिक्देशकालसंबन्ध रहिता वाच्यवाचकौ ।
स्थापनारहितौ शक्त्या मनोगम्ये तु निष्कलौ ॥ ३३-७ ॥

एतत् तु निष्कलं लिङ्गं शृणु सकलनिष्कलं ।
निष्कलं हि कलाहीनं सकलन्तु कलान्वितम् ॥ ३३-८ ॥

सकलं निष्कलोपेतं तस्मात् सकलनिष्कलम् ।
मुनिदेवमनुष्यैश्च पूजितं लिङ्गमादरात् ॥ ३३-९ ॥

निष्कलं लिङ्गमित्याहुः सकलं भाव्यरूपकम् ।
द्विधाभावगतो योऽन्यो बिन्दुनादोद्भवं ततः ॥ ३३-१० ॥

सकलं निष्कलं तस्मान्मुखलिङ्गं द्विरूपतः ।
सकलं निष्कले लिङ्गे पूजयेत् तु सदाशिवम् ॥ ३३-११ ॥

तदर्धस्त्वीश्वरः प्रोक्तः सकलं रूपमुच्यते ।
तस्य मध्ये सहस्रांशाद्रुद्रोद्भवमिहोच्यते ॥ ३३-१२ ॥

तस्य वामे तु कोट्यंशादेकांशो विष्णुरुद्भवः ।
तस्य दक्षिणभागे तु कोट्यंशात् ब्रह्मणोद्भवम् ॥ ३३-१३ ॥

सकलानि तथैतानि अन्यानि तु तथैव हि ।
ईश्वरः सृष्टिसंहार रक्षणे च प्रभु स्मृतम् ॥ ३३-१४ ॥

प्. १५६) ब्रह्मणा सर्वमुत्पन्नं विष्णुना सर्वपालनम् ।
जगतां सर्वसंहारं शिवस्य परमेष्ठिनः ॥ ३३-१५ ॥

यद्वच्छंभोः समुद्भूतं तद्वच्छक्तेः मुद्भवम् ।
अमूर्तञ्चेदमूर्ता तु समूर्तञ्चेत्समूर्तका ॥ ३३-१६ ॥

अग्नेरुष्णत्व वच्छक्ति रविनाभाविनीविभोः ।
ब्रह्माविष्णुश्चरुद्रश्च ईश्वरश्च सदाशिवः ॥ ३३-१७ ॥

सावित्री श्रीरुमादेवी ईश्वरी च मनोन्मनी ।
लिङ्गे सदाशिवं प्रोक्तं पिण्डिकायं मनोन्मनी ॥ ३३-१८ ॥

एवं पञ्चममूर्तीनामुच्यन्ते पञ्चमूर्तयः ।
तस्मात् तदुदयं प्राप्य शक्तिशंभुमयञ्जगत् ॥ ३३-१९ ॥

द्विधाभवस्य लिङ्गस्य लक्षणं शृणु सांप्रतम् ।
लिङ्गयोनि प्रभेदानि सैकतादीनिमच्छृणु ॥ ३३-२० ॥

क्षणिकञ्चैव मृल्लोहं रत्नजं दारुजं तथा ।
शैलजञ्चैव विघ्नेश षडङ्गं लिङ्गमुच्यते ॥ ३३-२१ ॥

क्षणिका द्वादशप्रोक्ता मृन्मयं द्विविधं पुनः ।
दारुजञ्चाष्टधा प्रोक्तमष्टधालोहजं स्मृतम् ॥ ३३-२२ ॥

सप्तधा रत्नजञ्चैव शैलजन्तु चतुर्विधम् ।
पूजान्ते क्षणिकास्त्याज्यास्त्यजेदन्यानि तल्लये ॥ ३३-२३ ॥

रत्नजं लोहजञ्चैव बाणलिङ्गञ्चलं स्मृतम् ।
शैलञ्चलाचलं प्रोक्तं मृन्मयं दारवं तथा ॥ ३३-२४ ॥

क्षणिकानां फलं वक्ष्ये सैकतं मोक्षकांक्षिणाम् ।
तण्डुलं विभवार्थीनामन्नमन्नप्रदं स्मृतम् ॥ ३३-२५ ॥

नदीमृत् भूमिलाभः स्यात् गोमयं रोगनाशनम् ।
नवनीतं मनोह्लादं रुद्राक्षं ज्ञानवर्धनम् ॥ ३३-२६ ॥

गन्धं सौभाग्यकांक्षिणां कूर्चं मुक्त्यर्थिनां
स्मृतम् ।
आयुष्यवर्धनं पुष्पं गुलमिष्टार्धसिद्धिदम् ॥ ३३-२७ ॥

पैष्टं पुष्टि प्रदं प्रोक्तं क्षणिकानां फलं भवेत् ।
एतेषां चैव लिङ्गानां न प्रमाणन्न च स्थितिः ॥ ३३-२८ ॥

मृन्मयं राज्यफलदं पक्वापक्वप्रभेदकम् ।
शुद्धदेशेमृदं ग्राह्य पूजाभागं सयोनिकम् ॥ ३३-२९ ॥

प्. १५७) कृत्वा दग्धमिदं पक्वं तत्रापक्वमिहोच्यते ।
यवगोधूमचूर्णैश्च घृतक्षिरकषायकैः ॥ ३३-३० ॥

सर्जगुल्गुलुग्रीवेष्टकापित्थनिरयासकैः ।
चूर्णैरालोढ्यसु मृदा मासपक्वोषितं तथा ॥ ३३-३१ ॥

रत्नबीजसमायुक्तं पक्वलिङ्गं समाचरेत् ।
सुवर्णं रजतं ताम्रं कांसमारकूटं तथा ॥ ३३-३२ ॥

आयसं सीसकञ्चैव त्रपुकञ्चेति लोहजम् ।
सौवर्णं श्रीप्रदं प्रोक्तं राजतं राज्यसिद्धिदम् ॥ ३३-३३ ॥

ताम्रं पुत्रप्रदञ्चैव विद्वेषं कांसमेव च ।
आरकूटं तथोच्चाटे क्षयकारकमायसम् ॥ ३३-३४ ॥

सीसकं रोगहरणं त्रपुरायुष्यवर्धनम् ।
एवन्तु लोहजं प्रोक्तं ततो रत्नजमुच्यते ॥ ३३-३५ ॥

मौक्तिकञ्च प्रवालञ्च वैडूर्यं स्फटिकं तथा ।
पुष्यं मरतकं निलं रत्नजं संप्रकीर्तितम् ॥ ३३-३६ ॥

स्फाटिकं भुक्तिमुक्त्यर्थमिष्टसिद्धिं तु रत्नजम् ।
लोहरत्नानिके लिङ्गे पूजाभागं सपीठिकम् ॥ ३३-३७ ॥

यथा लाभप्रमाणेन स्फटिकादीनि कारयेत् ।
स्फटिकादिषु कर्तव्या त्रिभागैरेव पीठिका ॥ ३३-३८ ॥

तदायामसुविस्तारा पिण्डिका शुभदा स्मृता ।
एकाङ्गुलं समारभ्य आचतुर्विंशदङ्गुलान् ॥ ३३-३९ ॥

लोहजं लिङ्गमित्याहुर्लक्षणोद्धारणं विना ।
दारवस्यैव शैलस्य वनं गच्छेत् स्थिरो गुरुः ॥ ३३-४० ॥

शुभे दिने तिथौ वारे सुमुहूर्ते विशेषतः ।
आचार्यं शिल्पिमाहूय वस्त्रैर्हेमाङ्गुलीयकैः ॥ ३३-४१ ॥

शुक्लमाल्यानुलेपाद्यैर्भक्तियुक्तं सुपूजयेत् ।
कुठारादीनि चिह्नानि पराङ्ग्राह्य विचक्षणः ॥ ३३-४२ ॥

आचार्यः शिल्पिभिश्चैव सहायैर्बलवत्तरैः ।
पुण्याहजयशङ्गैश्च शंखभेर्यादिनिस्वनैः ॥ ३३-४३ ॥

यथावस्थानकाले तु निमित्तान्युपलक्षयेत् ।
दिव्यान्तरिक्षभौमानि अशुभानि शुभानि च ॥ ३३-४४ ॥

प्. १५८) सव्येत्वागमनं वामा द्वायसस्य स्वरस्तथा ।
समांसश्येनकस्त्वग्रे दक्षिणाद्वाममार्गतः ॥ ३३-४५ ॥

कन्यानां दर्शनञ्चैव गवारोहणमेव च ।
दधिवै पूर्णकुम्भञ्च ब्राह्मणं पुष्पसंयुतम् ॥ ३३-४६ ॥

पावकं ज्वलमानञ्च मांसभारं तथैव च ।
वेश्यासं दर्शनञ्चैव वराहं हयमेव च ॥ ३३-४७ ॥

शुभान्येतानि सर्वाणि दर्शयित्वा व्रजेत् बुधः ।
उल्कापातं दिशादाहं महावातप्रवर्तनम् ॥ ३३-४८ ॥

अशुभं ह्यन्तरिक्षे तु पूर्वोक्त विपरीतकम् ।
तैलाभ्यङ्गञ्च तत् पात्रं मुक्तकेशस्य दर्शनम् ॥ ३३-४९ ॥

दर्शनं नवमृत् भाण्डं च्छिन्ननासिकमेव च ।
एते तु भौमजा ज्ञेया परीक्षैवं शुभाशुभम् ॥ ३३-५० ॥

शुभेषु प्रस्थितोया या दशुभे तु निवर्तयेत् ।
अशुभेग्निं समास्तीर्य शिवेनैवशतं हुनेत् ॥ ३३-५१ ॥

निमित्तेशोभने गच्छेद् आचार्यः शिल्पिभिः सह ।
संप्रविश्य ततो धीमान्वनान्युपवनानि च ॥ ३३-५२ ॥

महेन्द्रे मलये चैव सह्यैविन्ध्ये तथैव च ।
यावच्छिलाद्रुमौ चास्ति तावद्यायाद्विचक्षणः ॥ ३३-५३ ॥

शमीमधुकरण्डूक कर्णिकारं तथैव च ।
तिन्दुकार्जुनकौ चैव पिप्पलोदुंबरं तथा ॥ ३३-५४ ॥

एते वर्गास्तु चत्वारो ब्राह्मणादि यथा क्रमम् ।
अन्ये च बहवो वृक्षा मध्यवाराः सुशोभनाः ॥ ३३-५५ ॥

स्निग्धपत्रा महाकायाः शुभदेशोत्थितास्तु ये ।
अग्निदग्धाश्चतुष्काश्च पक्षिणान्तु निकेतनाः ॥ ३३-५६ ॥

लतावल्मीकसंस्थाश्च वर्जयेत् साधकोत्तमः ।
शिलाभापि सुविज्ञेया जातिभेदपरीक्षणैः ॥ ३३-५७ ॥

श्वेतरक्ता तथा पीता कृष्णा चैव चतुर्विधा ।
गोक्षीर शंखवर्णाभा ब्राह्मणानां प्रशस्यते ॥ ३३-५८ ॥

जपाबन्धूकपुष्पाभा नृपाणां प्रोच्यते क्रमात् ।
रजनी स्वर्ण सदृशा वैश्यानान्तु प्रशस्यते ॥ ३३-५९ ॥

प्. १५९) माषगुल्गुलु संकाशा शूद्राणान्तु समृद्धिदा ।
सर्वेषान्तु शिलाकृष्णा सर्वसंपत्करी स्मृता ॥ ३३-६० ॥

वसासोषरज क्लिन्ना तप्ताश्चार्कस्यरश्मिभिः ।
अग्निदग्धान्य युक्ता सा वर्जयेत् तां प्रयत्नतः ॥ ३३-६१ ॥

तस्याच्छोत्तरपार्श्वे तु स्थण्डिलेग्निमुखङ्कृते ।
शतं हुत्वा शिवास्त्रेण तमग्रे शयने वसेत् ॥ ३३-६२ ॥

स्वप्ने माणवकञ्जप्त्वा रात्रौ सुप्त्वा शिवं स्मरेत् ।
अशुभे दर्शने स्वप्ने मूले नैव शतं हुनेत् ॥ ३३-६३ ॥

शुभे स्वप्ने तु चेद्धिमान् तदाच्छेदनमारभेत् ।
अभिषिच्य शिवाद्भिस्तु प्रभाते विमलेशुभे ॥ ३३-६४ ॥

अघोरास्त्रेण मन्त्रेण छित्वामधुयुतेन च ।
अधोभागमुखं तस्य पृष्ठमूर्ध्नि प्रकल्पयेत् ॥ ३३-६५ ॥

पार्श्वयोः पार्श्वमेवन्तु मूलं याम्यापरे विदुः ।
पूर्वे चोत्तरपार्श्वे वा शिरः संकल्प्य बुद्धिमान् ॥ ३३-६६ ॥

लाञ्छयित्वा क्षराण्यत्रं ततस्तत् क्षणमारभेत् ।
मूलं पादशिलां ग्राह्य योऽन्या चावृत पार्श्वयोः ॥ ३३-६७


बाला च यौवना वृद्धाज्ञातव्या लक्षणैस्ततः ।
स्निग्धा मृदुतला चैव बालाक्षीण स्वरान्विता ॥ ३३-६८ ॥

सुस्वराकान्ति संयुक्ता सा शिला यौवना स्मृता ।
अग्निदग्धा झर्झरूक्षा वृद्धासानिस्वराशिला ॥ ३३-६९ ॥

बालां वृद्धान्तु सन्त्यज्य यौवनां संग्रहेत् बुधः ।
शिलागर्भान् परीक्ष्याथ कर्तव्यं विधिचोदितम् ॥ ३३-७० ॥

लिङ्गं प्रक्षिप्यक्षिरेण पिष्टकासैः सगैरिकैः ।
इति तत्त्वे करात्रन्तु लिङ्गं प्रक्षाल्य चांभसा ॥ ३३-७१ ॥

बिन्दुरेखा कलंकाश्च शिलादोषाः प्रकीर्तिताः ।
दृश्यते मण्डलं यत्र गर्भं तत्र विनिर्दिशेत् ॥ ३३-७२ ॥

सिते तु मण्डले सर्पो रत्ने तु कृकलासह ।
गोधा वै मण्डले पीते माञ्जिष्ठे दर्दुरोत् भवेत् ॥ ३३-७३ ॥

प्. १६०) कापिले मूषिका प्रोक्ता चित्र वर्णे तु वृश्चिकः ।
श्वेतरक्तविमिश्रे तु गण्डूकोमण्डले भवेत् ॥ ३३-७४ ॥

खद्योतं मधुवर्णे तु कापोतौ ग्रहगौलिका ।
गुलवर्णे तु पाषाणं निस्त्रिंशाभेजलं भवेत् ॥ ३३-७५ ॥

वर्जिता गर्भयुक्तास्तु विमलैरन्वितास्तथा ।
विमलं हेमकांसाख्यं लोहाख्यञ्च त्रिधा स्मृतम् ॥ ३३-७६


परीक्ष्यैव तु कर्तव्यं लिङ्गं गर्भादिवर्जितम् ।
प्रासादगर्भविस्तारं सूत्रेण समितं तथा ॥ ३३-७७ ॥

गर्भविस्तारपञ्चांश स्त्रियं शेनोत्तमं विदुः ।
गर्भन्तु नवधा कृत्वा पञ्चभागन्तु मध्यमम् ॥ ३३-७८ ॥

अधमं गर्भमानार्थं त्रिविधन्तु प्रमाणतः ।
कनिष्ठ ज्येष्ठयोर्मध्ये गर्भेऽष्टांश कृते सति ॥ ३३-७९ ॥

प्रोक्तन्तु नवधा मानन्तेषु कार्यं यदृच्छया ।
अथवान्य प्रकारेण गर्भन्तु नवधा पुनः ॥ ३३-८० ॥

उत्तमं त्रिणिचोक्तानि मध्यमं त्रिणिचादिशेत् ।
अधमं त्रिणिचोक्तानि नवभेदमुदाहृतम् ॥ ३३-८१ ॥

हस्तादि नवहस्तान्तं नवधा हस्तमानकम् ।
त्रितालाद्रुद्रतालान्तं तथा नवविधिं पुनः ॥ ३३-८२ ॥

समं वै वर्धमानञ्च शिवाधिकमतः परम् ।
चतुरश्रमधोभागमष्टाश्रं मध्यमं तथा ॥ ३३-८३ ॥

तदूर्ध्वं वृत्तमेवस्यात् त्रिभागं सर्वतः समम् ।
समलिङ्गमिति प्रोक्तं वर्तमानमथ शृणु ॥ ३३-८४ ॥

चतुर्विंशति चायामे सप्ताङ्गञ्चतुरश्रकम् ।
अष्टाश्रमष्टभागेन नवांशे नैव वृत्तकम् ॥ ३३-८५ ॥

वर्धमानमिदं लिङ्गं शिवाधिकमतः परम् ।
आयामं दशधा कृत्वा चतुरश्र त्रिभागतः ॥ ३३-८६ ॥

अष्टाश्रञ्च त्रिभागेन चतुरंशेन वृत्तकम् ।
शिवाधिकमिदं शस्तं भुक्तिमुक्तिप्रदं शुभम् ॥ ३३-८७ ॥

यस्य लिङ्गस्य चायाम चतुरश्रस्य नाहकम् ।
आयामस्याष्टभागाच्च सप्तांशैर्मध्यनाहकम् ॥ ३३-८८ ॥

प्. १६१) तत् षडंशैस्तु वृत्तं स्यात् परिणाहं प्रकीर्तितम् ।
लिङ्गाया मे चतुर्विंशद्विष्कंभः पञ्चभागिकम् ॥ ३३-८९ ॥

वेदाश्रादिपरीणाहाद्विंशत् षोडश वा नव ।
सर्वेषामेव लिङ्गानां प्रोक्तं वै परिणाहकम् ॥ ३३-९० ॥

धारालिङ्गं मुखंलिङ्गं शृणुवत्ससमाहितः ।
पञ्चधारा सप्तधारा नवधारा द्वादशधारकः ॥ ३३-९१


धाराः षोडशविंशच्च त्रिरष्टावाष्टविंशतिः ।
अष्टाश्रं मूर्तिपर्यन्तं यवार्धं वायवोन्नतम् ॥ ३३-९२ ॥

पूर्वभागं त्रिधा कृत्वा प्यूर्ध्वभागे मुखं भवेत् ।
पञ्चमूर्धा चतुर्वक्त्रं ग्रीवाचैका समायुतम् ॥ ३३-९३ ॥

श्रोत्राष्टौ च दशोष्ठञ्च सर्वलक्षणसंयुतम् ।
लिङ्गाकारमधस्तस्य पिण्डिकालक्षणं शृणु ॥ ३३-९४ ॥

त्रिगुणं लिङ्गविस्तारं त्रिगुणार्धञ्चतुर्गुणम् ।
त्रिविधस्त्वधमादिस्तु पीठविस्तारमुच्यते ॥ ३३-९५ ॥

विष्णुभागस्य चोत्सेधं पीठोत्सेधं विधीयते ।
अथवा ब्रह्मभागस्य चाष्टांशेन समन्वितम् ॥ ३३-९६ ॥

पद्मपीठं भद्रपीठं वेदिकोपरिमण्डलम् ।
पीठञ्चतुर्विधं प्रोक्तं लक्षणं शृणु सांप्रतम् ॥ ३३-९७


कृत्वा षोडश चोत्सेधं द्व्यंशेन चतुपट्टिका ।
पञ्चभागन्तदूर्ध्वाब्जं दलैः षोडशभिर्युतम् ॥ ३३-९८ ॥

दलमध्याङ्गुलोत्सेधं पद्मकुण्डमिहोच्यते ।
द्विभागं मध्य वृद्धन्तु समन्तात् सदृढं दृढम् ॥ ३३-
९९ ॥

चतुर्भिरूर्ध्व पद्मन्तु द्विभागे नोर्ध्वपट्टिका ।
तदूर्ध्वे तु ततः कुर्यादेकांशं घृतवारिणा ॥ ३३-१०० ॥

पीठतार त्रिभागैकं नालं कुर्यात् तथोत्तरे (तधोत्तरे) ।
तत्तारस्य चतुर्थांशं तदर्धार्धमथादिकम् ॥ ३३-१०१ ॥

द्विगुणं त्रिगुणं मूलं तदमग्रञ्चार्धनाशनम् ।
विस्तारस्य चतुर्धांशादर्धादर्धमथापि वा ॥ ३३-१०२ ॥

प्. १६२) जलमार्गं त्रिभागैकं कुर्यात् तत्र विशेषतः ।
एवन्तु पद्मपीठं हि भद्रपिठमथशृणु ॥ ३३-१०३ ॥

पूर्ववत् षोडशांशन्तु कृत्वोत्सेधं विधानतः ।
भागेनो पानमेकेन चतुर्भिर्जगती भवेत् ॥ ३३-१०४ ॥

कुमुदन्तु त्रिभिर्भागैरेके नैव तु पट्टिका ।
कण्ठं कुर्यात् त्रिभिर्भागैरेकांशेन तु पट्टिका ॥ ३३-१०५ ॥

महापट्टिकाद्व्यंशा तु एकेन घृतवारिणि ।
भद्रपीठं समाख्यातं वेदिपीठमथोच्यते ॥ ३३-१०६ ॥

पीठोत्सेधे नवांशे तु द्वियंशेन तु पट्टिका ।
चतुर्भिः कण्ठ तुङ्गन्तु द्व्यंशे नैवोर्ध्वपट्टिका ॥ ३३-१०७ ॥

घृतवार्येकभागन्तु समन्ताच्चतुरश्रकम् ।
वेदीपीठं समाख्यातं परिमण्डलमुच्यते ॥ ३३-१०८ ॥

भद्रमेव हि वृत्तं स्यादेतद् वै परिमण्डलम् ।
तेष्वेकांश समं वापि त्रिपादं वार्धमेव वा ॥ ३३-१०९ ॥

पीठाङ्गानां प्रवेशञ्च तथा निर्गमनं पुनः ।
सकलानाञ्च लिङ्गानां सामान्यं पीठलक्षणम् ॥ ३३-११० ॥

लिङ्गस्य पीठिकाचेत् तु मध्वष्टाश्र क्रमान्वितम् ।
अवटं कारयेद् धीमान् विष्णुभागसमं यथा ॥ ३३-१११ ॥

ब्रह्मभाग प्रवेशार्थं तन्मानाच्चतुरश्रकम् ।
घृतवारि घटान्नालं सकलेत्वासने विना ॥ ३३-११२ ॥

नन्द्यावर्त शिलांवक्ष्ये पीठाधस्ताच्चतुः शिला ।
परितस्तालमात्रं वा षडङ्गुलमथापि वा ॥ ३३-११३ ॥

पीठविस्तारतोधिक्या नन्द्यावर्तशिलाः शुभाः ।
समन्ताच्चतुरश्रास्तु ब्रह्मभागसमोन्नतः ॥ ३३-११४ ॥

अथवा चतुरश्रस्य चाष्टांशत् सप्तमोच्छ्रिताः ।
गर्भस्य नवभागैकं पादाधारशिलाशुभा ॥ ३३-११५ ॥

तदर्धमेकमेवं वा तन्नवांशैकमुच्छृतः ।
चतुरश्रस्य चाष्टांशादेकांशं मध्यनिम्नगम् ॥ ३३-११६


प्. १६३) लिङ्गतारप्रमाणेन खातविस्तारमानकम् ।
नवनिम्नन्तु तन्मध्ये रत्नन्यासार्धमुच्यते ॥ ३३-११७ ॥

ब्रह्मोपलासमोत्तुंगा तत्ताराध्यर्धविस्तृता ।
एवं कूर्मशिला सिद्धा सुदृढा चतुरश्रका ॥ ३३-११८ ॥

एवमुक्तास्तु सर्वांगाः किञ्चिन्मानाधिकास्तु वै ।
रथस्योपरि विन्यस्य तत् ग्रामं प्रविशेत् सुधीः ॥ ३३-११९ ॥

ग्रामं प्रदक्षिणं कृत्वा वाद्यध्वनि समायुतम् ।
प्रासादस्योत्तरे भागे कृत्वा कर्मकुटीं बुधः ॥ ३३-१२० ॥

नीत्वा तन्मध्यमे लिङ्गं प्राक्च्छिरस्कं सुबुद्धिमान् ।
पट्टिकोपरिविन्न्यस्य सूक्ष्मकर्म च कारयेत् ॥ ३३-१२१ ॥

आचार्यः शिल्पिभिश्चैव लक्षणेनसहैव तु ।
शिरसावर्तनं कार्यन्तच्चतुर्विधमुच्यते ॥ ३३-१२२ ॥

च्छत्राकारन्तु पूर्वञ्च द्वितीयन्त्र पुषाकृतिः ।
कुक्कुटाण्डं तृतीयन्तु चतुर्थंत्वर्धचन्द्रकम् ॥ ३३-१२३ ॥

कृत्वा तारन्तु षट्भागं लिङ्गस्य च शिरस्त्वथ ।
भागेन वर्तनङ्कृत्वा यावन्निम्नन्तु मध्यमम् ॥ ३३-१२४ ॥

च्छत्राकारमिदं प्रोक्तं सर्वसिद्धिप्रदायकम् ।
तारं कृत्वा तु षट्भागं द्विभागार्धेन वर्तिनम् ॥ ३३-१२५ ॥

त्रपुषाकृतिरेवं स्यात् भुक्तिमुक्तिफलप्रदम् ।
कुक्कुटाण्डन्तु तत्रैव विस्तारार्धेन वर्तितम् ॥ ३३-१२६ ॥

लिङ्गतारं त्रिधा कृत्वा द्विभागेन तु वर्तितम् ।
अर्धचन्द्रमिदन्तत्र मुक्त्यर्थं प्रोच्यते क्रमात् ॥ ३३-१२७ ॥

एवं सदाशिवं प्रोक्तं सर्वसिद्धिकरं परम् ।
अन्यानाव्रतदेवांश्च ध्यानमन्त्रेण पूजयेत् ॥ ३३-१२८ ॥

सकलं निष्कलं प्रोक्तं सकलं शृणु सुव्रत ।

इति लिङ्गलक्षणविधिपटलस्त्रयस्त्रिंशत्तमः ॥ ३३ ॥


प्. १६४) अथ सकललक्षणविधिपटलः

अथातः संप्रवक्ष्यामि सकलानान्तु लक्षणम् ।
सर्वावयवदृश्यत्वात् प्रतिमा त्विति चोच्यते ॥ ३४-१ ॥

ईश्वरादिचतुर्मूर्तिः पठ्यते सकलं त्विति ।
एतानि सकलादीनि त्रिविधानि मयोच्यते ॥ ३४-२ ॥

चित्रं चित्रार्धमेवन्तु चित्राभासं तथैव च ।
सर्वावयसंपूर्णं दृश्यं तच्चित्रमुच्यते ॥ ३४-३ ॥

अर्धावयवसंदृश्यं मर्धचित्रं तथैव च ।
पटे भित्तौ च यो लिख्यं चित्राभासमिहोच्यते ॥ ३४-४ ॥

पूजाभागसमायमं तदूर्ध्वं प्रतिमोच्छ्रयम् ।
द्विगुणं त्रिगुणं तत्र मध्यमञ्चोत्तमं त्विह ॥ ३४-५ ॥

एकैकस्य त्रिभिर्भेदैर्नवमानमुदाहृतम् ।
गर्भन्तु नवधा कृत्वा नवधादीप्यमुच्यते ॥ ३४-६ ॥

द्वारस्योच्छ्रयमाने तु षोडशांशविभाजिते ।
भवंगञ्च पतङ्ग च ऊर्ध्वाधोंशद्वयं त्यजेत् ॥ ३४-७ ॥

शुद्धद्वारमिदं शेषमेतन्मनेन चोत्तमम् ।
तत्त्रिभाग द्विभागञ्च मध्यमं त्विति कीर्तितम् ॥ ३४-८ ॥

तत्त्रिभागैकमथममेकैकं त्रित्रिभाजिते ।
प्रोक्तं हि नवधा मानं स्तंभमानमथ शृणु ॥ ३४-९ ॥

स्तंभायामार्धभागेन कर्तव्यं कन्यसं बुधः ।
त्रिपादं मध्यमं प्रोक्तं समं चैवोत्तमं भवेत् ॥ ३४-१०


प्रत्येकं त्रिविधैर्भागैर्नवमानं पुरोक्तवत् ।
उत्तमन्तु चतुस्तालं त्रितालं मध्यमं तथा ॥ ३४-११ ॥

द्वितालमधमं विद्धि हस्तमानसमं शृणु ।
एकहस्तं समारभ्य नवहस्तान्तमेव च ॥ ३४-१२ ॥

नवमानं करेणैव त्वङ्गुलीनां वशाच्छृणु ।
यजमानसमं ज्येष्ठं त्रिपादञ्चैव मध्यमम् ॥ ३४-१३ ॥

प्. १६५) अधमं त्वर्धमित्युक्तं यजमानानुरूपतः ।
एतान्युक्तानि मानानि मानाङ्गुलेन भाजिते ॥ ३४-१४ ॥

तेषु मानेषु युग्मार्थं मानं प्रत्यङ्गुलाधिकम् ।
अथवैकाङ्गुलोनं वा माने माने प्रयोजयेत् ॥ ३४-१५ ॥

एकाङ्गुलं समारभ्य द्वादशान्ताङ्गुलं ग्रहेत् ।
तदूर्ध्वन्तु न कुर्वीत अथस्तादालयेन हि ॥ ३४-१६ ॥

यदुक्तोत्सेधमानन्तु त्रिभागं संविभज्य वै ।
उष्णीषात् पादपर्यन्तं द्विभागे नैव कारयेत् ॥ ३४-१७ ॥

पीठमानमथैकांशं त्रिविधा पद्ममेकतः ।
द्विभागं पीठमानं स्यादासने तु विशेषतः ॥ ३४-१८ ॥

बिंबायाम चतुर्थांशं पीठोच्चं स्थानकस्य तु ।
स्थानकासनयानञ्च कर्तव्यं त्वनुरूपतः ॥ ३४-१९ ॥

यद्विष्णु प्रतिमादन्यं शयनन्तु न कारयेत् ।
आचार्यशिल्पिकर्तॄणामिष्टमानं प्रगृह्य च ॥ ३४-२० ॥

मृन्मयं यदि कुर्याच्चेच्छूलं तत्र प्रकल्पयेत् ।
लोहजञ्च विशेषेण मधूश्चिष्टेन निर्मितम् ॥ ३४-२१ ॥

अङ्गोपाङ्गानि कृत्वाथ स्थिरवत् संप्रकल्पयेत् ।
गन्धपुष्पादिनाभ्यर्च्य धूपदीपसमन्वितम् ॥ ३४-२२ ॥

तस्यैव दक्षिणे पार्श्वे शिवाग्निं तु प्रकल्पयेत् ।
हृदा चाष्टशतं हुत्वा समिदाद्यैः पृथक् पृथक् ॥ ३४-२३ ॥

पूर्णाहुतिं ततो दद्यात् ध्यात्वा तद्रूपमात्मनि ।
हृन्मन्त्रन्तु समुच्चार्य तत्तदङ्गानि बन्धयेत् ॥ ३४-२४ ॥

सर्वावयवसंपूर्णां प्रतिमंशिल्पिभिः सह ।
गृहितप्रतिमोत्तुङ्गे नवभागविभाजिते ॥ ३४-२५ ॥

भागमेकं मुखं प्रोक्तं कण्ठभागं त्रिभागतः ।
भागं कण्ठस्तनान्तञ्च भागं नाभ्यन्तमेव च ॥ ३४-२६ ॥

मेढ्रान्तं भागमानेन द्विभागं चोरुमानकम् ।
भागत्रिभागिकं जानुजंघायाम द्विभागिकम् ॥ ३४-२७ ॥

गुदं भागं त्रिभागन्तु द्विभागं बाहुदैर्घ्यकम् ।
पादोनद्विगुणं तस्य प्रकोष्ठायाममिष्यते ॥ ३४-२८ ॥

प्. १६६) मानमेवन्तु विख्यातं सर्वेषान्तु प्रशस्तकम् ।
तालगण्येन चाङ्गुल्या मानोन्माने तु कारयेत् ॥ ३४-२९ ॥

मुखन्तालं यमञ्चैव वितस्तिर्द्वादशाङ्गुलम् ।
ईश्वरादि चतुर्मूर्तिदशतालेन कारयेत् ॥ ३४-३० ॥

शक्तिनामन्यदेवानां नवतालं प्रकीर्तितम् ।
दिव्यमार्षमनुष्याणामष्टतालेन कारयेत् ॥ ३४-३१ ॥

रक्षसामसुराणाञ्च सप्ततालमिहोच्यते ।
षट्तालेनैव गन्धर्वान् पञ्चतालेन विघ्नकम् ॥ ३४-३२ ॥

वामनात् पञ्चतालैस्तु चतुस्तालैस्तु भूतकान् ।
त्रितालं किन्नराणान्तु मत्स्यानान्तु द्वितालकम् ॥ ३४-३३ ॥

एकतालस्तु कूश्माण्डात् पिशाचाविंशदङ्गुलाः ।
स्थूलसूक्ष्म प्रभेदांस्तु तालभेदमिहोच्यते ॥ ३४-३४ ॥

विहितं तत्तदङ्गुल्या मानमुन्मानमेव च ।
मानन्तद्विस्तरं प्रोक्तमुन्मानं नाहमेव च ॥ ३४-३५ ॥

प्रमाणं दीर्घमित्युक्तं मानोन्मानप्रमाणतः ।
मुखभागं त्रिधा कृत्वा ललाटोच्चमथैव तु ॥ ३४-३६ ॥

एकांशं नासिकान्तं स्यादन्यं नतद्वदेव हि ।
अन्यानि चाङ्गुलैः कार्यमुष्णीषाच्चरणान्तकम् ॥ ३४-३७ ॥

उष्णीषमङ्गुलं प्रोक्तं मस्तकन्तु त्रियङ्गुलम् ।
षट्त्रिंशदङ्गुले नैव शिरसोनाहमुच्यते ॥ ३४-३८ ॥

श्रोत्रयोरन्तरं तत्र ललाटोष्टादशाङ्गुलम् ।
उष्णीषात् तु ततः कर्णपर्यन्तं द्वादशाङ्गुलम् ॥ ३४-३९ ॥

कलाधा नेत्रमायामं विस्तारन्तु तदर्धतः ।
तत्तारे पक्ष्मरेखेव करवीरद्वयोर्यवम् ॥ ३४-४० ॥

असितञ्च त्रिभागैकं ज्योतिः स्यात् पञ्चभागिकम् ।
द्विकलानासिकायामं तदर्धन्तु पुटद्वयम् ॥ ३४-४१ ॥

पुटमध्यं यवं प्रोक्तं नासाग्रन्तिलपुष्पवत् ।
अग्रन्तु द्व्यङ्गुलोत्सेधं मूलोत्सेधं तदर्धतः ॥ ३४-४२ ॥

भ्रुवौषडङ्गुलायामौ कला चैव तदन्तरम् ।
ओष्ठमेकाङ्गुलं प्रोक्तं तदर्धेनोत्तरोष्ठकम् ॥ ३४-४३ ॥

प्. १६७) कलायामं भवेदास्यं मध्यार्धञ्चिबुकं तथा ।
निर्गमञ्चतुरङ्गुल्यं गुलमध्याङ्गुलाधिकम् ॥ ३४-४४ ॥

कर्णं वै चतुरङ्गुल्यं विस्तारन्तु तदर्धतः ।
निम्नमेकाङ्गुलं प्रोक्तं कर्णनाहं त्रियङ्गुलम् ॥ ३४-४५ ॥

षट्भागं कर्णनाहं स्यात् तन्मूलन्तु कलाधिकम् ।
तत्बाह्वोरन्तर स्कन्धौ ततः षट्त्रिंशदङ्गुलम् ॥ ३४-४६ ॥

अग्रं त्रिभागनाहन्तु मणिबन्धेऽङ्गुलाधिकम् ।
इन्दुभागन्तलं ज्ञेयं रसाङ्गुलप्रमाणतः ॥ ३४-४७ ॥

सप्ताङ्गुलं त्वथायामं द्व्यङ्गुलञ्चोन्नतं स्मृतम् ।
रेखाभिः संयुतं वत्समध्यनिम्नं बहिर्घनः ॥ ३४-४८ ॥

करमध्याङ्गुलायामं सप्ताङ्गुलमुदिरितम् ।
मध्यादर्धाङ्गुलं ह्रासं तर्जन्यानामिके तथा ॥ ३४-४९ ॥

भागमङ्गुष्ठमेवन्तु कनिष्ठस्य तथा भवेत् ।
अङ्गुष्ठस्य तथा नाहमायामसदृशं त्विह ॥ ३४-५० ॥

तस्मादर्धाङ्गुल ह्रासो मध्यमायास्तु नाहकाः ।
त्रियङ्गुलन्तु विज्ञेया तर्जन्यानुमिकाद्वयोः ॥ ३४-५१ ॥

तदर्धाङ्गुलहीनन्तु कनिष्ठस्य तु नाहकम् ।
अङ्गुलीनान्तु पर्वं स्यात् पञ्चभागैकमूर्ध्वतः ॥ ३४-५२ ॥

द्विभागं मध्यमं पूर्वं तत्समन्तु तदा स्मृतः ।
अङ्गुष्ठन्तु द्विपर्वं स्यादधश्चोर्ध्व समंमतम् ॥ ३४-५३ ॥

नखं वै चाग्र पर्वाग्रमङ्गुलीनां प्रमाणतः ।
मकुटस्य तु चोत्सेधं मुखं भागाधिकन्तु वा ॥ ३४-५४ ॥

तदर्धाधिकमेवाथ द्विगुणं नाहमुच्यते ।
ईश्वरस्य चतुर्नाहं तथा भूतगणाधिपौ ॥ ३४-५५ ॥

समानमेव सर्वेषां विशेषाकृतिरुच्यते ।
ईश्वरस्य तु वक्ष्येऽहं यथा वदनुपूर्वशः ॥ ३४-५६ ॥

ईश्वरं ह्यात्म तत्वस्थं सर्वतोक्षि शिरोमुखम् ।
इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ॥ ३४-५७ ॥

कर्णिकाकेसरैर्युक्तं पंकजन्तु महेश्वरम् ।
पञ्चमूर्ध्वञ्चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ॥ ३४-५८ ॥

प्. १६८) चतुरास्यञ्चतुर्नासी वसुश्रोत्रञ्चतुर्गलम् ।
तनुरेतत् द्विपादं हि सायुधं दशबाहुकम् ॥ ३४-५९ ॥

शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ।
चद्रांशुहिमशितञ्च सर्वाभरणभूषितम् ॥ ३४-६० ॥

शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ।
अभयं शूलपरशुं वज्रं खट्गं च दक्षिणे ॥ ३४-६१ ॥

खेटकांकुशपाशञ्च घण्टांवरदवामके ।
कुर्यादेवं महेशन्तु शक्तेस्तु लक्षणं शृणु ॥ ३४-६२ ॥

चतुर्भुजां त्रिणेत्राञ्च सर्वालङ्कारसंयुताम् ।
नितंबतटविस्तीर्णां मध्यक्षामांस्तनोन्नताम् ॥ ३४-६३ ॥

दक्षिणे चोत्पलोपेतां वामहस्तेस्रजन्धरीम् ।
वरदाभयहस्तां वै दुकूलवसनान्विताम् ॥ ३४-६४ ॥

करण्डमकुटोपेतामीश्वरस्य तु वामके ।
पीठे चैकासने युक्तां तत्प्रभामण्डले स्थिताम् ॥ ३४-६५ ॥

चन्द्रार्काग्नि प्रतीकाशां जगन्मङ्गलकारकाम् ।
कारयेद् ईश्वरीमेवं वामादीनां शृणुष्व हि ॥ ३४-६६ ॥

वामादीशाष्ट शक्तिंस्तु ईश्वरीं च पृथक् पृथक् ।
ईश्वरस्य च हन्वन्तं बाह्वन्तं वास्तनान्तकम् ॥ ३४-६७ ॥

ईश्वरीदिशमाख्यातं शक्तीनां तत् त्रिपादतः ।
तद्वदा व्रतदेवानामायामन्तु विधीयते ॥ ३४-६८ ॥

ब्रह्मविद्याङ्ग पञ्चाङ्ग विद्येशाश्च गणेश्वराः ।
त्रिणेत्राश्चतुर्भुजाः सौम्याः सर्वाभरणभूषिताः ॥ ३४-६९


नमस्कारकराः सर्वे ह्यक्षमालाब्जधारकाः ।
जटामकुटसंयुक्ताः सर्वे सम्यक् प्रकीर्तिताः ॥ ३४-७० ॥

तेषां वर्णं पुराप्रोक्तं लक्षणेन समन्वितम् ।
एवं आवृत देवानां ममरूपाणि च शृणु ॥ ३४-७१ ॥

आद्यं सुखासनञ्चैव द्वितीयमुमया सह ।
वृषारूढं तृतीयन्तु त्रिपुरारिञ्चतुर्थकम् ॥ ३४-७२ ॥

नृत्ताख्यं पञ्चमं रूपं षष्ठं सोमार्धशेखरम् ।
सप्तमं च धनादीशं हरिरर्धन्तु चाष्टमम् ॥ ३४-७३ ॥

प्. १६९) भिक्षाटनञ्च नवमं दशमंकामनाशनम् ।
एकादशन्तु कालघ्नं ततो लिङ्गपुराणिकम् ॥ ३४-७४ ॥

द्वादश प्रतिमां ह्येवं तेषां लक्षणमुच्यते ।
मेरुपर्वत पार्श्वे तु मुनीनामाश्रमे तथा ॥ ३४-७४ ॥

दिगंबरन्तु मान् दृष्ट्वा तेषां स्त्रीणांभ्रमोसिवै ।
तं ज्ञात्वा मुनयः सर्वे जुहुयास्त्वाभिचारकम् ॥ ३४-७५ ॥

तन्मध्ये हृदयेतानि नागङ्कृष्णा मृगं तथा ।
अपस्मारञ्च परशुमुक्षं व्याघ्रं हरिं तथा ॥ ३४-७६ ॥

करोटिन्तु महाभीमामेवमाद्यागतोमयि ।
नागं मृगञ्च परशुं क्रीडार्थन्धारितं मया ॥ ३४-७७ ॥

पादाधसादपस्मारं करोटिं शिरसोपरि ।
सिंहव्याघ्रौ तदा हत्वा तच्चर्मन्धारितं मया ॥ ३४-७८ ॥

तदुक्षं वाहनं भूत्वा ममप्रियकरं सदा ।
महोदधेर्विषं कण्ठे सोमार्धं शेखरे धृतम् ॥ ३४-७९ ॥

बकपुष्पं जटाभारे मयानृत्ते वधारितम् ।
समानमन्यत् सर्वेषां प्रतिमानां विशेषतः ॥ ३४-८० ॥

त्रिणेत्रञ्चतुर्भुजं सौम्यं बालेन्दु कृतशेखरम् ।
धुर्तूरभुजगोपेतं जटामकुटमण्डितम् ॥ ३४-८१ ॥

व्याघ्रचर्मांबरञ्चैव हारकेयूरसंयुतम् ।
यज्ञोपवीतसंयुक्तं कुण्डलाभ्यामलं कृतम् ॥ ३४-८२ ॥

मूर्तीनां द्वादशानान्तु सामान्यमिदमिरितम् ।
अतः परं विशेषन्तु क्रमशो वक्ष्यतेऽधुना ॥ ३४-८३ ॥

आसने तु सुखासीनं मृगीपरशुधारिणम् ।
अभयं दक्षिणे हस्तं वरदं वामहस्तके ॥ ३४-८४ ॥

कटकं वा सुखासीनमुमा स्कन्दौ च वर्जितम् ।
एवं सुखासनं प्रोक्तमुमा सहितमुच्यते ॥ ३४-८५ ॥

सहासने ह्युमादेवीं सुसौम्यवदनोज्वलाम् ।
द्विभूजां पद्महस्तान्तु मकुटाभरणान्विताम् ॥ ३४-८६ ॥

कटकाख्य ध?रांवामे प्रसारितमथापि वा ।
उमा बाहुस्तनान्तं वा मानं वै षण्मुखस्य तु ॥ ३४-८७ ॥

प्. १७०) कण्ठेशूलसमायुक्तं च्छन्नवीरसमायुतम् ।
उमा शङ्करयोर्मध्ये स्कन्तं वै बालरूपिणम् ॥ ३४-८८ ॥

आसनं स्थानकं वापि वरदं कटकान्वितम् ।
कृत्वा सुखासनं यद्वत् पूर्ववत् परमेश्वरम् ॥ ३४-८९ ॥

देवस्यमुखमन्वीक्ष्य किञ्चित् गौरीन्तु कारयेत् ।
वृषारूढमथोवक्ष्ये वृषभं पृष्ठत स्थितम् ॥ ३४-९० ॥

उमारुद्रौ स्थितौ कृत्वा कूर्परं वृषमस्तके ।
मृगं परशु संयुक्तं कर्तव्यं वृषवाहनम् ॥ ३४-९१ ॥

धनुर्बाणसमायुक्तं कृष्णां परशुधारिणम् ।
उमया सहितं देह कृत्वा तत्त्रिपुरान्तकम् ॥ ३४-९२ ॥

नृत्तार्थोद्धृत वामांघ्रिजानुनाभि समोत्थितम् ।
पादाङ्गुष्ठं समोजानु जान्वङ्गुष्ठ समोद्धृतम् ॥ ३४-९३ ॥

प्रसार्य वामहस्तञ्च दण्डवद्धृदयोपरि ।
अभयं दक्षिणं हस्तं शेषण्डमरुकान्वितम् ॥ ३४-९४ ॥

कण्ठसीमान्तमुधृत्य यथा शोभं प्रकल्पयेत् ।
साग्निकं वामहस्तन्तु बाहुसीमान्तमुद्धृतम् ॥ ३४-९५ ॥

पादाधस्तमपस्मारं सर्पक्रीडा समन्वितम् ।
धुर्तूरकां करोटीञ्च गङ्गेन्दुबकपिञ्छकम् ॥ ३४-९६ ॥

तिस्रः पञ्चजटाः सप्त प्रसार्यकुसुमोज्वलाः ।
सव्ये त्वेवन्तथा वामे दिप्ताग्निसदृशोज्वलाः ॥ ३४-९७ ॥

नृत्तरूपमिदं वत्स सर्वशान्त्यर्थमुच्यते ।
ऋज्वागतन्तु तं देवं मृगं परशुधारिणम् ॥ ३४-९८ ॥

कृत्यंबरधरं देवं कर्तव्यञ्चन्द्रशेखरम् ।
दक्षिणार्धे हरञ्चैव वामार्द्धे पार्वती तथा ॥ ३४-९९ ॥

दक्षिणं कुञ्चितं पादं वामपादमृजु स्थितम् ।
मध्यकायानतौ वक्रमेवं कुर्यात् त्रिभागिकम् ॥ ३४-१०० ॥

हरस्य दक्षिणे हस्ते कूर्परं वृषके स्थितम् ।
प्रकोष्ठे शुकसंयुक्तं हरं परशु संयुतम् ॥ ३४-१०१ ॥

वामे कटकहस्तन्तु दक्षिणेत्वभयं स्मृतम् ।
श्यामवर्णमुखां देवीं रक्तवर्णं हरं तथा ॥ ३४-१०२


प्. १७१) व्याघ्रचर्मांबरं देवं पार्वतीं
क्षौमधारिणीम् ।
पितांबरधरं विष्णुं व्याघ्रचर्मांबरं हरम् ॥ ३४-१०३


विष्णुं किरीटसंयुक्तं शंकरन्तु जटान्वितम् ।
श्यामवर्णं हरिञ्चैव शंकरं युक्तरूपिणम् ॥ ३४-१०४ ॥

हरिरर्धमिदं प्रोक्तं भिक्षाटनमतः परम् ।
सृष्टिमूर्तेः कपालन्तु स्थितिमूर्तेः कलेबरम् ॥ ३४-१०५ ॥

डमरुकसमोपेतं भस्मसर्पैरलङ्कृतम् ।
कण्ठेशूलसमायुक्तं छन्नवीरसमायुतम् ॥ ३४-१०६ ॥

पादुको परिपादौ च सर्वभूतसमावृतम् ।
एवं भिक्षाटनं वत्सकामनाशमथ शृणु ॥ ३४-१०७ ॥

उग्ररूपन्तु कामारि पार्श्वे कामं प्रपातितम् ।
कार्यं कामारिपुं ह्येवं वक्ष्येऽहं कालनाशनम् ॥ ३४-
१०८ ॥

दक्षिणे तु करेशूलं वामे सूच्यङ्गुलि स्मृतम् ।
पादं कालस्य हृदये न्यस्त्वैवं पादसंस्थितम् ॥ ३४-१०९ ॥

कालनाशमिदं प्रोक्तं लिङ्गात् पत्तिमतः परम् ।
लिङ्गं कृत्वोर्ध्वत ब्रह्मा हंसरूपन्तथैव च ॥ ३४-११० ॥

विष्णुं वराहवक्त्रन्तु लिङ्गस्याद्धः प्रकल्पयेत् ।
हृदयेऽञ्जलिसंयुक्तौ ब्रह्माविष्णू च पार्श्वयोः ॥ ३४-१११ ॥

लिङ्गं मध्ये तु कर्तव्यं पूर्ववचन्द्रशेखरम् ।
अदृश्यौ तस्य पादाब्जौ तथैव मकुटं यथा ॥ ३४-११२ ॥

प्रोक्तं द्वादशमूर्तिनां रूपभेदं गजानन ।
देव्यास्तु लक्षणं वक्ष्ये समासाच्छृणु सांप्रतम् ॥ ३४-११३ ॥

हन्वन्तं बाहुसीमान्तं स्तनान्तं समुच्छ्रयम् ।
द्विभुजां श्यामवर्णान्तु सर्वाभरणभुषिताम् ॥ ३४-११४ ॥

दक्षिणे चोत्पलं ग्राह्य वामहस्तं प्रसारयेत् ।
किरीटं वा करण्डाख्यन्तुङ्गपीनपयोधराम् ॥ ३४-११५ ॥

पूर्वोक्तमध्यनाहस्य सप्तांशैकं परित्यजेत् ।
मध्यनाहमिदं प्रोक्तमन्यत्सर्वं समं तथा ॥ ३४-११६ ॥

गौरीरूपमिदं विद्धि विष्णुरूपं ततः शृणु ।
शङ्खचक्रधरं देवं पीतांबरधरं हरिम् ॥ ३४-११७ ॥

प्. १७२) श्रीभूमिसहितं देवं सर्वालङ्कारसंयुतम् ।
स्थितं वाथसमाहीनं शयितं वापि कारयेत् ॥ ३४-११८ ॥

चतुर्मुखञ्चतुर्बाहुं कमण्डल्वक्षधारिणम् ।
रक्तवर्णजटायुक्तं कृत्वा ब्रह्माणमुज्वलम् ॥ ३४-११९ ॥

सावित्रीं वामपार्श्वे तु सर्वालङ्कारसंयुताम् ।
एवं चतुर्मुखं कुर्यात् जगत् सृष्टिकरं शुभम् ॥ ३४-१२० ॥

अन्येषां प्रतिमानान्तु तेषां संस्थापनाविधौ ।
लक्षणं प्रोच्यते सम्यग्यधावनुपूर्वशः ॥ ३४-१२१ ॥

सकलानामिदं प्रोक्तमङ्कुरस्य विधिं शृणु ।

इति सकललक्षणविधिपटलश्चतुस्त्रिंत्तमः ॥ ३४ ॥


अथ अङ्कुरार्पणविधि पटलः

अथातः संप्रवक्ष्यामि अङ्गुरस्यविधिक्रमम् ।
सर्वमङ्गलकार्यादौ कर्तव्यं मङ्गलांकुरम् ॥ ३५-१ ॥

स्थापने प्रोक्षणे चैव स्नपने चोत्सवे तथा ।
नवरात्रे सप्तरात्रे पञ्चरात्रेऽथवा पुनः ॥ ३५-२ ॥

सायादिदिनमारभ्य साये चैवाङ्कुरार्पणम् ।
बीजानमधिपः सोमस्तस्माद्रात्रौ तु वापयेत् ॥ ३५-३ ॥

कृत्वा प्रदक्षिणं ग्रामं शङ्खभेर्यादिनीस्वनैः ।
च्छत्रद्ध्वजवितानैश्च गजाश्वरथरोपणैः ॥ ३५-४ ॥

पिञ्चचामरसंघैश्च त्रिशूलेन समायुतम् ।
माहेश्वरैर्वहित्वा तु पालिकादीन् शिरोपरि ॥ ३५-५ ॥

पालिकाघटिका चैव शरावं त्रिविधं भवेत् ।
सौवर्णं रजतं वापि ताम्रजं मृन्मयन्तु वा ॥ ३५-६ ॥

पालिकामुखविस्तारं कन्यसं द्वादशाङ्गुलम् ।
विस्तारं षोडशाङ्गुल्यं मध्यमं समुदाहृतम् ॥ ३५-७ ॥

प्. १७३) विंशत्यङ्गुलकं ज्येष्ठं विस्तारोत्सेधतः समम् ।
तदर्धं पादविस्तारं सवृत्तं सुदृढं समम् ॥ ३५-८ ॥

विस्तारस्य तु षट्भागमोष्ठं हि परितः त्विह ।
विस्तारस्य त्रिभागैकं सुवृत्तं बिलमुच्यते ॥ ३५-९ ॥

एवं मुखं बिलञ्चैव शेषं दण्डं प्रकल्प्य वै ।
विस्तारस्य त्रिभागैकं दण्डविस्तारमुच्यते ॥ ३५-१० ॥

घटिकाकलशाकारा दण्डं पादन्तु पूर्ववत् ।
चतुर्दिक्षु चतुर्द्वारं त्रिकोणञ्च त्रियङ्गुलम् ॥ ३५-११ ॥

पालिकार्धं शरावन्तु प्रमाणञ्च तथा भवेत् ।
नदीतटाकतीरे वा केदारे पर्वते वने ॥ ३५-१२ ॥

स्थानं प्राप्य विशुद्धञ्च समृन्मृज्याथ भूतलम् ।
हृन्मन्त्रेण समभ्युक्ष्य तेन गन्धादिनार्चयेत् ॥ ३५-१३ ॥

कुन्दाल्या खानयेन्मन्त्री शिवं स्मृत्वा हृदा ततः ।
मृदं संग्राह्य वामेन प्रविशेदालयं प्रति ॥ ३५-१४ ॥

आलयस्याग्रतः कृत्वा मण्डपं चतुरश्रकम् ।
पुण्याहं वाचयित्वा तु भूमिं संप्रोक्ष्य बुद्धिमान् ॥ ३५-
१५ ॥

स्थण्डिलन्तत्र कर्तव्यं पालिकादीनिविन्यसेत् ।
प्रत्येकं षोडशं वापि अष्टौ वा चतुरोपि वा ॥ ३५-१६ ॥

एकाशीति पदं कृत्वा चतुर्विंशपदं विना ।
मध्येनवपदं पद्मं कोणेषु द्वादश स्मृताः ॥ ३५-१७ ॥

पञ्चविंशत् पदं कृत्वा मध्ये पद्मं सलक्षणम् ।
अथवा षोडशं कृत्वा तन्मध्ये बञ्चतुष्पदम् ॥ ३५-१८ ॥

कुम्भं पद्मे तु संस्थाप्य सोमराजाधिदैवतम् ।
सा पिधानं सकूर्चञ्च सहिरण्यं स वस्त्रकम् ॥ ३५-१९ ॥

गन्धाद्यैरर्चयेत् सोमममृतेन तु बीजतः ।
कुरीयमनिलाख्यस्य प्रथमस्वरसंयुतम् ॥ ३५-२० ॥

सानुस्वारं सदानञ्च योजयेदत्रदाक्षरम् ।
दीपमादौ समुच्चार्य तदन्ते बीजमुच्चरेत् ॥ ३५-२१ ॥

सोमं शब्दञ्चतुर्थ्यन्तं नृत्यन्तं प्रोच्चरेत् गुरुः ।
पायसं सोमराजायसोपदं शन्निवेदयेत् ॥ ३५-२२ ॥

प्. १७४) पालिकाकोणभागेषु घटिकाश्च शरावकान् ।
पूर्वादिषु चतुर्दिक्षु विन्यसेत् क्रमयोगतः ॥ ३५-२३ ॥

एवं संस्थापनं प्रोक्तमुत्तमं चाधमाधमौ ।
दिशश्च विदिशश्चैव पालिका स्थापनं भवेत् ॥ ३५-२४ ॥

घटाश्चाभ्यन्तरे स्थाप्य शरावा मध्यमे स्मृतः ।
पालिका ब्रह्मदैवत्यं घटिकाविष्णुरुच्यते ॥ ३५-२५ ॥

ईश्वरस्तु शरावाणां पात्राणामधिदेवताः ।
तेषां मृद्भिः करीषैश्च वालुकैश्च सुपूरयेत् ॥ ३५-२६ ॥

तिलसर्षपमुद्गानिमाषानिष्पावकौ तथा ।
शालिप्रियमपामार्ग यवशामानि वै दश ॥ ३५-२७ ॥

प्रक्षाल्यपयसाविद्वन् दशबीजेन वा पयेत् ।
कुम्भस्थेन जले नैव नित्यं संप्रोक्षयेत् सुधीः ॥ ३५-२८ ॥

नित्यं संपूरयेत् गन्धतो ये नैव घटं पुनः ।
विधाय च विधानेन स्वनुगुप्तं निधापयेत् ॥ ३५-२९ ॥

सितानि कोमलानीह कीर्तितानिशुभानि वै ।
असितानि चतुब्जानि तथा तिर्यग्गतानि च ॥ ३५-३० ॥

तद्दोषशमनार्थन्तु शतं हुत्वाशिवं स्मृतः ।
अङ्गुराणां विधिः प्रोक्तं लिङ्गसंस्थापनं शृणु ॥ ३५-३१


इति अङ्कुरार्पणविधिपटलः पञ्चत्रिंशत्तमः ॥ ३५ ॥


अथ लिङ्गप्रतिष्ठाविधिपटलः

अथातः संप्रवक्ष्यामि लिङ्गसंस्थापनं परम् ।
सर्वसिद्धिकरं पुण्यं सर्वयज्ञफलप्रदम् ॥ ३६-१ ॥

लिङ्गसंस्थापनादन्यत् फलपाकं न विद्यते ।
तस्मात् सर्वप्रयत्नेन लिङ्गसंस्थापने यतिः ॥ ३६-२ ॥

धामाधिष्ठानपर्यन्ते द्वारबन्धस्य पूर्वके ।
मूर्ध्वेऽष्टकायां पूर्वे वा तलान्तेष्वथवा (-धवा)
पुनः ॥ ३६-३ ॥

प्. १७५) धामाङ्गानां समाप्तौ वा लिङ्गं सस्थापयेत्
सुधी ।
सुनक्षत्रे तिथौवारेसु योगेसुमुहूर्तके ॥ ३६-४ ॥

तत्पूर्वे वाङ्कुरं कृत्वा पञ्चसप्तनवाहके ।
अङ्कुरादि प्रतिष्ठान्तमादिशैवेन कारयेत् ॥ ३६-५ ॥

कृत्वा कर्मकुटौ देशे लिङ्गेसूक्ष्माणि शिल्पिभिः ।
शाणाभिर्घर्षयित्वा तु लिङ्गं पीथसमायुतम् ॥ ३६-६ ॥

पीठे तु प्रतिलिङ्गञ्च यथा युक्त्या तु योजयेत् ।
कृत्वा तु लक्षणोद्धार * * * * * मारभेत् ॥ ३६-७ ॥

प्रासादस्याग्रतः कुर्यान्मण्डपं नातिदूरतः ।
अथवा दक्षिणे भागे सर्वालङ्कारसंयुतम् ॥ ३६-८ ॥

मध्यमे स्थण्डिलङ्कृत्वा तत्र लिङ्गन्तु विन्यसेत् ।
सुवर्णलिङ्गं संग्राह्य हृदागैरिकया लिखेत् ॥ ३६-९ ॥

स्थूलरेखान्ततः कृत्वा शिल्पिना विधिचोदितम् ।
पूजाभागन्ततः कृत्वा षोडशांशं समंबुधः ॥ ३६-१०


त्यक्त्वोर्ध्वे तु चतुर्भागं भागेन मुकुलं भवेत् ।
त्रिभागैकं भवेदग्रं तन्मानं मूलविस्तृतः ॥ ३६-११ ॥

तन्मानमूलं तत् प्रोक्तं त्यक्त्वाधस्ताद्वियंशकम् ।
रेखाद्वयन्तु नालं स्यात् तरोरर्धां शकान्तकः ॥ ३६-१२ ॥

पार्श्वे रुद्रौ समालिख्य मुकुलाद्याब्धिकान्तकम् ।
तालान्तरत्रियंशेन तन्मूलादनुपूर्वशः ॥ ३६-१३ ॥

विभागोर्ध्वे तु परितः सूत्रौ पृष्ठे तु बन्धयेत् ।
यवं वा पियवार्धं वा सूत्रनिम्नं विधीयते ॥ ३६-१४ ॥

सूत्राग्रे तु मुखं प्रोक्तं सुत्रसन्धौ तु पृष्ठकम् ।
सूत्रपार्श्वन्तु तत्पार्श्वन्तमूलन्तस्य पद्मकम् ॥ ३६-१५ ॥

स्थापकः स्थपतिं पूज्य पश्चाच्छुद्धिं समाचरेत् ।
अष्टमृत् पञ्चगव्यैश्च शुद्धतोयैर्विचक्षणः ॥ ३६-१६ ॥

ग्रामं प्रदक्षिणङ्कृत्वा देशिकः शिल्पिसंयुतम् ।
कणमात्रे जलेशुद्धे प्रपाङ्कृत्वा विचक्षणः ॥ ३६-१७ ॥

वितान ध्वजमाल्यादि दर्भमालाभिरावृतम् ।
वस्त्रैरावेष्टयेल्लिङ्गं दर्भैरावेष्ट्य यत्नतः ॥ ३६-१८ ॥

प्.१७६) फलकायान्तु पीठे वा प्राक्च्छिरस्कन्तु शाययेत् ।
ऊर्ध्वसूत्रं यथा कृत्वा पीठन्तत् पार्श्वयोस्ततः ॥ ३६-१९ ॥

कलशानष्ट संस्थाप्य रक्षार्थं परितस्तदा ।
लोकपालाधिदैवत्यान् सकूर्चान्वस्त्र वेष्टितान् ॥ ३६-२० ॥

पञ्चरात्रं त्रिरात्रं वा एकरात्रमथापि वा ।
पञ्चगव्ये तु तल्लिङ्गमेकरात्रोषितं तथा ॥ ३६-२१ ॥

अथवा स्नापयेत् गव्यैराढकैस्तु पृथक् पृथक् ।
आलयस्याग्रतो भागे मण्डपञ्चतुरश्रकम् ॥ ३६-२२ ॥

दशद्वादशहस्तं वा त्रयोदशकरं तु वा ।
दशपञ्चकरं वापि विंशद्धस्तमथापि वा ॥ ३६-२३ ॥

षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।
चतुस्तोरणसंयुक्तं दर्भमालासमावृतम् ॥ ३६-२४ ॥

वितानद्ध्वजसंकीर्णं पुष्पमालावलंबितम् ।
नानावस्त्रैरलङ्कृत्य नानालङ्कारसंयुतम् ॥ ३६-२५ ॥

तन्मध्ये वेदिकां कुर्यात्त त्रिभागैकविस्तृतम् ।
हस्तमानसमुत्सेधं दर्पणोदरसन्निभम् ॥ ३६-२६ ॥

तस्यैव परित कृत्वा कुण्डानि च विधानतः ।
पूर्वे तु चतुरश्रन्तु याम्ये चैवार्धचन्द्रवत् ॥ ३६-२७ ॥

पश्चिमे वृत्तकुण्डन्तु उत्तरे पद्ममेव च ।
योन्याकारं तथाग्नेय्यां त्रिकोणञ्चैव नै-ऋते ॥ ३६-२८ ॥

षट्कोणं वायुदिग्भागे ऐशान्यामष्टकोणकम् ।
ऐशान इद्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ॥ ३६-२९ ॥

विस्तारे नवहोमस्यात् संक्षेपे पञ्चहोमकम् ।
पञ्चाग्निच्छेन्महाशासु मूर्तिरीशे शिवाग्निकम् ॥ ३६-३० ॥

गोमया लेपनङ्कृत्वा पिष्टचूर्णैरलकृतम् ।
तस्यैवोत्तर पार्श्वे तु कर्तव्यं स्नानमण्डपम् ॥ ३६-३१ ॥

सप्ताष्टनवहस्तैर्वा कृत्वालङ्कृत्य पूर्ववत् ।
स्नानवेदिन्तु तन्मध्ये स्वभ्रं सम्यक् तथोत्तरे ॥ ३६-३२ ॥

चतुरश्रं समङ्कृत्वा चतुस्त्रिनवहस्तकम् ।
त्रिमेखलसमायुक्तमेकतालसमुन्नतम् ॥ ३६-३३ ॥

प्. १७७) चतुस्त्रिद्व्यङ्गुलन्तारमथवा चैकमेखलम् ।
उत्तरे जलमार्गञ्च मण्डपात् बाह्यनिर्गमम् ॥ ३६-३४ ॥

प्रासादे मण्डपे चैव ब्राह्मणान् भोजयेत् क्रमात् ।
शिवव्रतधरांश्शुद्धान् शिवेभक्तिसमन्वितान् ॥ ३६-३५ ॥

ब्राह्मणोच्छिष्टमुद्वास्य गोमयालेपने कृते ।
पुण्याहं वाचयित्वा तु ब्रह्मघोषसमावृतम् ॥ ३६-३६ ॥

प्रासादेवास्तु होमन्तु पूर्वोक्तविधिनाबुधाः ।
दर्भैः पलाशपत्रैश्च शमीपिप्पलबिल्वकैः ॥ ३६-३७ ॥

पर्यग्निकरणं कृत्वा प्रासादमण्डपं क्रमात् ।
संप्रोक्ष्य शिवमन्त्रेण पञ्चगव्यकुशोदकैः ॥ ३६-३८ ॥

शयनं कल्पयेद्विद्वान् शुद्धशालियवैः सह ।
अष्टद्रोणमयं शालि तदर्धन्तण्डुलं तथा ॥ ३६-३९ ॥

तण्डुलार्धं तिलं प्रोक्तमब्जमालिख्यचार्चयेत् ।
दर्भैरुपरिसंस्तीर्य पुष्पैर्लाजसमायुतम् ॥ ३६-४० ॥

सदशाहत वस्त्रैश्च अण्डजादीनि कल्पयेत् ।
अण्डजं मुण्डजञ्चैव रोमजं वा मजं तथा ॥ ३६-४१ ॥

चर्मजं शयनं पञ्चकल्पयेत् कल्पवित्तमः ।
अण्डजञ्चेति जानीयात् पक्षिणां पिञ्छसंभवम् ॥ ३६-४२ ॥

कार्पासादि कृतं यत्तु मुण्डजञ्चेति तत्स्मृतम् ।
आविकादि मृगाणान्तु रोमजं रोमजं भवेत् ॥ ३६-४३ ॥

कौशेयं वामजं प्रोक्तं सिंहव्याघ्रेण चर्मजम् ।
चर्मजन्तु विजानीयादलाभे सतिबुद्धिमान् ॥ ३६-४४ ॥

पञ्चवक्त्रेण संभाव्य स्थण्डिलोपरियत्नतः ।
पूर्वोक्त लक्षणैर्युक्तं त्वादिशैव कुलोद्भवः ॥ ३६-४५ ॥

शैवतन्त्रं विधानज्ञः समयाचारपालकः ।
सुस्नात्वा चम्यविधिवत् भस्मस्नानमनन्तरम् ॥ ३६-४६ ॥

सर्वाभरणसंयुक्तः सूक्ष्मवस्त्रधरस्तथा ।
शुक्लमाल्यानुलेपश्च शुक्लोष्णीषः सुवस्त्रभृत् ॥ ३६-४७ ॥

ईदृक् भूतः शिवश्वेतः सर्वकर्मसमाचरेत् ।
चतुरश्रावसुवृत्ता वा तजापट्टिका स्मृताः ॥ ३६-४८ ॥

प्. १७८) पट्टिकावेदिका मध्ये स्थापयेन्मन्त्रवित्तमः ।
पञ्चगव्योषितं लिङ्गं शुद्धिं कृत्वा पुनः पुनः ॥ ३६-४९ ॥

दर्भमूले भदन्ताग्रे वराहस्य तु कर्षणे ।
वल्मीके वृषङ्गाग्रे नद्यां वै पर्वते तथा ॥ ३६-५० ॥

समुद्रे च समासेन मृदं ग्राह्यविचक्षणः ।
अष्टमृत् सलिले नैव स्नानन्तत्र समाचरेत् ॥ ३६-५१ ॥

व्योमव्यापि सहस्रेण स्नात्वाद्भिस्तु पुनः पुनः ।
पञ्चगव्येन संस्नाप्य गन्धपुष्पादिनार्चयेत् ॥ ३६-५२ ॥

मधुक्षीर घृताश्चैव सहिरण्यं सपुष्पकम् ।
सौवर्णं रजतन्ताम्रमथवा काम्समेव वा ॥ ३६-५३ ॥

प्रत्येकं प्रस्थसंपूर्णं कृत्वा प्रात्रत्रये बुधः ।
तैर्द्रव्यैर्बीजमन्त्रेण हेमसूच्या तु लेखयेत् ॥ ३६-५४ ॥

बध्वा प्रतिसरं पश्चात् स्वस्तिपुण्याह घोषणैः ।
सौवर्णं राजतं वापि क्षौमं कार्पासजन्तु वा ॥ ३६-५५ ॥

लिङ्गमध्ये तु तां बध्वा पूजांशेन शिवेन वै ।
शयने शाययेल्लिङ्गं प्राक्च्छिरच्छोर्ध्वक्त्रकम् ॥ ३६-५६ ॥

उत्तराच्छादनं वस्त्रैर्दर्भैश्चैव परिस्तरेत् ।
हृदा सुगन्धपुष्पाद्यैः पूजयित्वा समाहिताः ॥ ३६-५७ ॥

पिण्डिकामधिवास्यैव लिङ्गवल्लिङ्गमूलतः ।
दिक्षुतोरणकुम्भानि लोकपालाधिपानि तु ॥ ३६-५८ ॥

शकूर्चान् सा पिधानांश्च वस्त्रयुग्मसमावृतान् ।
मङ्गलाङ्कुरसंयुक्तान् स्थापयेत् तु समं ततः ॥ ३६-५९ ॥

प्रधानकुम्भमादाय द्वात्रिंशत् सप्तपूरितम् ।
बिंब प्रभा समोपेतं तदर्धं वर्धनीं तथा ॥ ३६-६० ॥

सूत्रैरावेष्टयित्वा तु एकसूत्रे तु दोषकृत् ।
त्रिसूत्रं शान्तिकं प्रोक्तं यवमानान्तरं स्मृतम् ॥ ३६-६१ ॥

सूत्रान् सूत्रान्तरं तत्र गन्धतोयैः सुपूरितम् ।
वस्त्रयुग्मेन संवेष्ट्य सकूर्चं सा पिधानकम् ॥ ३६-६२ ॥

चूतपल्लव पुष्पैश्च वितानोपरिशोभितम् ।
पञ्चरत्नन्तु कुम्भे च वर्धन्यां हेमसंयुतम् ॥ ३६-६३ ॥

प्. १७९) ब्राह्मणानां हितार्थन्तु सृक्स्रुवञ्च कमण्डलुम् ।
क्षत्रियाणां हितार्थन्तु गजाश्वरथ सैनिकान् ॥ ३६-६४ ॥

वैश्यानान्तु तुला प्रोक्तं शूद्राणां युगलाङ्गलौ ।
एतानि विन्यसेद् विद्वान् वर्धन्यां शिवकुम्भके ॥ ३६-६५ ॥

तरुणालय पूर्वे तु स्थापयेत् स्थण्डिलोपरि ।
बाललिङ्गगतं देवं कुम्भे विन्यस्य बुद्धिमान् ॥ ३६-६६ ॥

तस्य पीठगतां देवीं वर्धन्यान्तु समावहेत् ।
विद्येश्वराधिपानष्टौ वस्त्रहेमास्त्रसंयुतान् ॥ ३६-६७ ॥

कूर्चाक्षतवितानास्यान् फलपल्लवशोभितान् ।
शिवकुम्भस्य परितः संस्थाप्यकलशान् बुधः ॥ ३६-६८ ॥

विद्येश्वरान् परीवारान् द्वारपालादिदेवताः ।
तत्तत् कुम्भे समाहूय तत्तन्मन्त्रेण मन्त्रवित् ॥ ३६-६९ ॥

रात्रौ होमन्तु कर्तव्यं सर्वमन्त्रैः पृथक् पृथक् ।
तरुणं लिङ्गमुत्थाप्य शैवा लौघे जले क्षिपेत् ॥ ३६-७० ॥

दारुजञ्चाग्निनादग्धमथवाप्सु विनिक्षिपेत् ।
शिवशक्तिञ्च विच्छेद्ये शाच्छिरोधार्य यत्नतः ॥ ३६-७१ ॥

पिञ्छचामरसंयुक्तं छत्रध्वजवितानकैः ।
कुर्याच्छब्दं महाघोषैर्नृत्तगेय समायुतैः ॥ ३६-७२ ॥

प्रदक्षिणं विमानन्तु कृत्वा वर्धनिधारयेत् ।
वेदिकायामथैशाने स्थापयेत् स्थण्डिलोपरि ॥ ३६-७३ ॥

शिवं ब्रह्माङ्गविद्याङ्ग विद्येश्वरगणेश्वरान् ।
लोकपालास्त्रसंयुक्तान् समन्त्रैरेव पूजयेत् ॥ ३६-७४ ॥

गेयनृत्तसमायुक्तं वाद्यध्वनिसमायुतम् ।
ऋग्यजुः सामाधर्वांश्च पूर्वाद्यध्ययनं तथा ॥ ३६-७५ ॥

जपस्तोत्र समायुक्तं ततो होमं समाचरेत् ।
पूर्वोक्त विधिनाहुत्वा कुण्डेष्वेतेषु बुद्धिमान् ॥ ३६-७६ ॥

सर्वद्रव्यं समानं स्यात् समिधस्तु पृथक् शृणु ।
शमीद्ध्मं पूर्वदिग्भागे आग्नेय्यान्तु वटं तथा ॥ ३६-७७ ॥

याम्ये वै कंकतञ्चैव प्लक्षं नै-ऋतिगोचरे ।
अश्वत्थं वारुणे भागे औदुंबरमथानिले ॥ ३६-७८ ॥

प्. १८०) बिल्वं वै सौम्यदिग्भागे ह्यर्कमीशानगोचरे ।
एवं सर्वाग्निकुण्डानां शिवाग्नेस्तु पलाशकम् ॥ ३६-७९ ॥

विद्याङ्गैश्च शिवाङ्गैश्च हुत्वालिङ्गन्तु संस्पृशेत् ।
प्रत्येकं तु शतं साज्यं स्पर्शाहुतिमथाचरेत् ॥ ३६-८० ॥

शिवोहमिति संभाव्य हुत्वायत्नाच्छिवात्मिकम् ।
आकाशो वायुरग्निश्च जलभूमिं दुरेव च ॥ ३६-८१ ॥

सूर्यात्ममूर्तयश्चाष्टौ भवादिमूर्तिधारकाः ।
भवः शर्वः पशुपति रुग्रोरुद्रस्तु भीमतः ॥ ३६-८२ ॥

महानीशश्च विख्यातो मूर्तिधाराः प्रकीर्तिताः ।
कुण्डेष्वग्निं प्रतिष्ठान्तं संरक्ष्येन्धनपूर्वकैः ॥ ३६-
८३ ॥

प्रभाते सुमुहूर्ते तु रत्नन्यासं समारभेत् ।
एकविंशतिभिर्भागैर्द्वारतारं विभज्य वै ॥ ३६-८४ ॥

मध्यमांशं षडंशन्तु सविभज्य द्विभागिकम् ।
वामे व्यपोह्य यत् सूत्रं ब्रह्मसूत्रमिति स्मृतम् ॥ ३६-८५ ॥

तन्मध्ये स्थापयेल्लिङ्गं तन्मध्ये स्थापयेच्छिवम् ।
अन्यथा स्थापिते लिङ्गे नृपराष्ट्राहितावहम् ॥ ३६-८६ ॥

आदौ कूर्मशिलां न्यस्त्वा ब्रह्मभागान्वितां दृढाम् ।
न्यसेत् ब्रह्मशिलामूर्ध्नि नन्द्यावर्तशिलान्विताम् ॥ ३६-८७ ॥

स्थलं सम्यक् प्रकुर्वीत स्नेहद्रव्यान्वितं दृढम् ।
माणिक्कञ्चैव वैडूर्यं निलं मरकतं तथा ॥ ३६-८८ ॥

मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ।
एतानि नवरन्तानि मध्यमादिविनिक्षिपेत् ॥ ३६-८९ ॥

यवनीवारमुद्गाञ्च तिलं वै सर्षपं तथा ।
शालिप्रियङ्गुश्यामाश्च कुलुत्थो नवबीजकम् ॥ ३६-९० ॥

हरितालं तथा श्यामं चन्दनञ्चमनः शिलाम् ।
सौराष्ट्रं पारतं सीसं गैरिकं हेममाक्षिकम् ॥ ३६-९१ ॥

एवं स्मृत्वा क्ष्पेद्विद्वान् प्राणधात्विंद्रियादिके ।
रत्नानि प्राणसंज्ञानि सुबीजानींद्रियाणि च ॥ ३६-९२ ॥

धातूनिधातवः प्रोक्ता बीजमुख्येन विन्यसेत् ।
गन्धपुष्पादिनाभ्यर्च्य नन्द्यावर्तशिलां न्यसेत् ॥ ३६-९३ ॥

प्. १८१) शयनाल्लिङ्गमुत्थाप्य त्यक्त्वा पर्युषितानि च ।
अर्घ्यं दत्वा यथा न्यायं हृदयेन स पुष्पकम् ॥ ३६-९४ ॥

पश्चिमाभिमुखं कृत्वा लिङ्गं वै तु हृदा बुधः ।
आचार्यमूर्तिपांश्चैव अध्ये तॄन् परिचारकान् ॥ ३६-९५ ॥

दैवज्ञं मन्त्रजप्तृंश्च महेः पूज्यो यथार्हकैः ।
आचण्डालमथां नाद्यं कारयेच्छक्तितः क्रमात् ॥ ३६-९६ ॥

रथो परिस्थितं लिङ्गं प्रासादन्तु प्रदक्षिणम् ।
आचार्योग्रन्तु संस्पृष्ट्वा मूर्तिपास्तु स्वकादिशम् ॥ ३६-९७ ॥

कर्तामुलन्तु संस्पृष्ट्वा चाग्रे वर्धनिधारया ।
कृत्वा प्रदक्षिणं देवं स्थित्वाद्वारसमीपके ॥ ३६-९८ ॥

गन्धपुष्पादिनाभ्यर्च्य अर्घ्यं दत्वा हृदाबुधाः ।
ततः प्रवेशयेल्लिङ्गं गर्भगर्ते सुखं यथा ॥ ३६-९९ ॥

सुमुहूर्ते सुलग्ने च नक्षत्रकरणान्विते ।
ध्यात्वा सदाशिवं देवं मूलमन्त्रमनुस्मरन् ॥ ३६-१०० ॥

लिङ्गं संस्थापयेत् तत्र किञ्चिदीशानमाश्रितम् ।
नन्द्यावर्तशिलाभिस्तु बध्वापीठन्तु योजयेत् ॥ ३६-१०१ ॥

स्वयोनिं पीठमुख्यन्तु अवा चैवाष्टकं दृढम् ।
स्थपतौ बुद्धिमात्रेण स्थापकस्तु समाचरेत् ॥ ३६-१०२ ॥

अष्टबन्धं ततः कृत्वा जतुगुल्गुलु सिद्धियुक् ।
सर्जञ्च स्फटिकञ्चैव शर्करा कुरु विन्दकम् ॥ ३६-१०३ ॥

तैलं वै चाष्टसंमिश्रं दग्ध्वाचक्कणवत् बुधः ।
लिङ्गपीठान्तरे क्षिप्त्वा सुदृढञ्च समं ततः ॥ ३६-१०४ ॥

पूजांश षोडशांशैक विस्तारेण समं ततः ।
तत्पादमुच्छ्रयं प्रोक्तमष्टबन्धमिदं मतम् ॥ ३६-१०५ ॥

लिङ्गपीठान्तरं स्निग्धं वज्रबन्धेन वा पुनः ।
आचार्यस्तु पुनस्नात्वा मन्त्रसन्नद्धविग्रहः ॥ ३६-१०६ ॥

पुण्याहं वाचयित्वा तु स्नापयेत् पञ्चगव्यकैः ।
गन्धपुष्पादिनापूज्य क्ल्पयित्वा तथा सनम् ॥ ३६-१०७ ॥

आवाह्याराध्यमन्त्रज्ञः सकलीकरणं शिवम् ।
मन्त्रसन्तर्पणं कृत्वा पूर्णाहुतिमथाचरेत् ॥ ३६-१०८ ॥

प्. १८२) कुम्भपूजां विशेषेण कृत्वा विज्ञाप्यपूर्वकम् ।
आचार्यं पूजयेत् तत्र यथा विभवसंयुतम् ॥ ३६-१०९ ॥

उष्णीषमुत्तरीयञ्च परिधानं तथैव च ।
हेमाङ्गुलीयकैश्चैव गन्धपुष्पं तथैव च ॥ ३६-११० ॥

मकुटं कुण्डलञ्चैव हारकेयूरकं तथा ।
कटकं कटिसूत्रञ्च आचार्यस्य प्रदापयेत् ॥ ३६-१११ ॥

आचार्यदक्षिणा हेमकन्यसं दशनिष्ककम् ।
मध्यमं द्विगुणं तस्य उत्तमे त्रिगुणं भवेत् ॥ ३६-११२ ॥

एवं संपूज्यविधिवत् सवत्साङ्गाश्चदापयेत् ।
आचार्यमनसस्तुष्टिर्देवस्य प्रीतिकारणम् ॥ ३६-११३ ॥

मूर्तिपानां पृथग्वस्त्रैर्हेम निष्कं च दापयेत् ।
होमशेषं ततो नेयं हृदयेन विचक्षणः ॥ ३६-११४ ॥

कुम्भस्थ देवदेवेशं विज्ञाप्य विधिपूर्वकम् ।
आचार्यः कुम्भमुत्थाप्य शिष्येनोत्थाप्य वर्धनीम् ॥ ३६-११५ ॥

मूर्तिपैस्त्वथकुम्भानि प्रासादन्तु प्रदक्षिणम् ।
विश्रम्यद्वारदेशे तु दद्यादर्घ्यं हृदागुरुः ॥ ३६-११६ ॥

ततः प्रविश्यतल्लिङ्गमुत्तराभिमुख स्थितः ।
त्रिपादिकायामुपरि विन्यस्त्वा शिवकुम्भकम् ॥ ३६-११७ ॥

षडध्वासनं तु संकल्प्य लिङ्गमुद्रां प्रदर्शयेत् ।
पुष्पगन्धस्तिलेतैलं यद्वत् तद्वत् स्थित प्रभुः ॥ ३६-११८ ॥

कुम्भस्थ देवदेवेशं लिङ्गमध्ये तु योजयेत् ।
शिवमन्त्रं समुच्चार्य शिवमात्मनि भावयेत् ॥ ३६-११९ ॥

तज्जलेनाभिषेकं यत् तल्लिङ्गे प्राण उच्यते ।
तच्छक्ति व्यापकं स्मृत्वा तद्वच्छक्तिन्तु पीठके ॥ ३६-१२० ॥

सर्वावरणदेवांश्च पूर्ववत् संप्रकल्प्य वै ।
कलशस्थानथावाह्य तज्जलेनाभिषेचयेत् ॥ ३६-१२१ ॥

गन्धपुष्पञ्च धूपञ्च दीपं दत्वा यथा क्रमम् ।
द्वारपालादि पीठान्तं परिवाराण्यशेषतः ॥ ३६-१२२ ॥

तत्तत् कुम्भगतां देवां तत्तत्स्थाने निवेशयेत् ।
पायसं कृसरं गौल्यं मौद्गंशुद्धां न मेव च ॥ ३६-
१२३ ॥

प्. १८३) पञ्चवर्णहविर्दद्यात् परिवारबलिं तथा ।
उत्सवं कारयेत् तत्र सायादिविधिपूर्वकम् ॥ ३६-१२४ ॥

प्रतिष्ठाविधिरेवोक्ता ततः संप्रेक्षणं शृणु ।
प्रतिष्ठाविधिना सर्वं कर्तव्यं युक्तितः क्रमात् ॥ ३६-१२५ ॥

पूर्ववद्वेदिका मध्ये कुंभानिविधिवं न्यसेत् ।
कुम्भसंस्थापनात् पूर्वे लिङ्गशुद्धिं विशेषतः ॥ ३६-१२६ ॥

पिण्डिकाञ्च स्थलञ्चैव पञ्चशुद्धि क्रमेण तु ।
सर्वगन्धैर्विलिप्याथ वस्त्रैरेवा वकुण्ठयेत् ॥ ३६-१२७ ॥

संप्रोक्षणाह्वये नैव पुरोवाहनकं तथा ।
एकलिङ्गविधिस्त्वेषा पञ्चलिङ्गविधिं शृणु ॥ ३६-१२८ ॥

मध्ये सदाशिवं स्थाप्य पुरुषं पूर्वतः तथा ।
अघोरं दक्षिणे स्थाप्य सद्यं पश्चिमतः तथा ॥ ३६-१२९ ॥

उत्तरे वा देवञ्च अथकोणेषु वा बुधः ।
कोणेषु च महादिक्षु संवीक्ष्याथ सदाशिवम् ॥ ३६-१३० ॥

पृथक् पृथक् विमानानि शेषकर्म च पूर्ववत् ।
पञ्चलिङ्गविधिर्येषा नवलिङ्गविधिं शृणु ॥ ३६-१३१ ॥

तेषां विमानं पूर्वोक्तं अष्टदिक्षुविधीयते ।
सदाशिवं समीक्ष्यैव दिशासु विदिशासु च ॥ ३६-१३२ ॥

नवलिङ्गविधिप्रोक्तं सहस्राणां विधिं शृणु ।
मध्ये सदाशिवं प्राग्वद्विद्येशानां पृथक् पृथक् ॥ ३६-१३३


चतुर्विंशच्च तल्लिङ्गं विद्येशानावृतं बुधः ।
सादाख्यस्य वदन्येषां नामरूपाणि कीर्तिताः ॥ ३६-१३४ ॥

तत्तत् स्वनाममन्त्रेण संस्थाप्य विधिचोदितः ।
अष्टा हे षोडशाहे वा मासे वा विधिपूर्वकम् ॥ ३६-१३५ ॥

एकलिङ्गविधौ यद्वत् तद्वत् सर्वं समाचरेत् ।
सादाख्यं लिङ्गरूपेण अन्वलिङ्गन्तु नेष्यते ॥ ३६-१३६ ॥

एवं यः कुरुते मर्त्यः शिव सा युज्यमाप्नुयात् ।
लिङ्गसंस्थापनं प्रोक्तं सकलानां विधिं शृणु ॥ ३६-१३७


इति लिङ्गप्रतिष्ठाविधिपटलः सट्त्रिंशत्तमः ॥ ३६ ॥


प्. १८४) स्वायंभुलिंगागमम्

कारणं वा तुलञ्चैव सूक्ष्मञ्च सुप्रभेदकम् ।
आगमञ्चतुर्भेदं स्वयंभूपुजितं क्रमात् ॥

दैवलिंगागमम्

कामिकं विजयं चैव स्वायंभुवमथानलम् ।
पूजयेद् देवके लिंगे कल्पयेत् कल्पवित्तमः ॥

दिव्यलिंगागमम्

चिंत्यं चैव सहस्रञ्च दीप्तञ्चाप्ययुतं तथा ।
दिव्यलिंगार्चना प्रोक्तं सर्वकर्मसमाचरेत् ॥

ऋषिलिंगागमम्

योगजं मकुटं चैव निश्वासं रौरवं तथा ।
आर्षकं पूजयेद्धीमान् अर्धयामे विशेषतः ॥

मानुषलिंगागमम्

वीरञ्च विमलोद्भेदं चंद्रज्ञानञ्च बिंबकम् ।
पूजयेत् परमं चैव मानुषे देशिकोत्तमः ॥

राक्षसलिंगागमम्

प्रोत्गीतं ललितं चैव सिद्धिं संतानमेव च ।
राक्षसे प्रोक्षयेल्लिंगं आसुरञ्च प्रपूजरेत् ॥

बाणलिंगागमम्

पारमेश्वर संख्योक्तं अंशुमान् किरणं तथा ।
बाणलिंगार्चनं चैव गणपञ्चप्रपूजयेत् ॥

मानुषं योजनादर्वाक् पौराणं दशयोजनम् ।
शतयोजनमार्षञ्च सहस्रं दैविकं भवेत् ॥



प्. १८५) सकलप्रतिष्ठाविधि पटलः

सकलानां प्रतिष्ठान्तु वक्ष्येहमधुना शृणु ।
मूर्तीनामिश्वरादीनां सामान्य स्थापनाविधिम् ॥ ३७-१ ॥

द्वादश प्रतिमानान्तु सामान्यमिदमुत्तमम् ।
चलानाम चलानाञ्च सर्वेषां स्थापनं समम् ॥ ३७-२ ॥

चलस्य तु शिलामृत्भ्यां शृणुमत् स्थापनाविधिम् ।
रत्नन्यासञ्जले वा संशयनन्तु प्रदक्षिणम् ॥ ३७-३ ॥

चित्राभासे तु वर्ज्यं हि रत्नसेतु समाचरेत् ।
चित्राभासे तु कर्तव्यं दर्पणोपरियत्नतः ॥ ३७-४ ॥

त्रिपाद्यूर्ध्वे जलद्रोण्यां स्रावयेद् दर्पणोपरि ।
जलाधिवासं स्नपनं नवमेव समाचरेत् ॥ ३७-५ ॥

सकलानान्तु सर्वेषां सममेतद् भवेद्ध्रुवम् ।
कृत्वाङ्कुरार्पणं पूर्वं प्रागुक्तविधिना पुनः ॥ ३७-६ ॥

प्रासादस्य पुरोभागे मण्डपे समलङ्कृते ।
स्थण्डिलन्तत्र कुर्वीत शालिभिर्विमलैस्तथा ॥ ३७-७ ॥

गन्धपुष्पादिना पूज्य पद्मपीठस्य मध्यमे ।
न पापटानि कर्तव्यं रत्नानिविधिवं न्यसेत् ॥ ३७-८ ॥

माणिक्कञ्चैव वैडूर्यं निलं मरतकं तथा ।
मौक्तिकञ्चैव गोमेदं वज्रं पुष्यं प्रवालकम् ॥ ३७-९ ॥

एतानि हृदये नैव मध्यमादीनि विन्यसेत् ।
तिलमुद्गारनीपांश्च तिलं वै सर्षपं तथा ॥ ३७-१० ॥

श्यामं शालिकुलुत्थञ्च प्रियंगुनवबीजकम् ।
सुवर्णेन कृतञ्चेह बीजानिकवचेन तु ॥ ३७-११ ॥

अञ्जनं हरितालञ्च श्यामञ्चैव मनः शिलाम् ।
पारतञ्चैव सौराष्टं सिद्धकं गैरिकं तथा ॥ ३७-१२ ॥

स्थापकं शिवमन्त्रेण पीठोर्ध्वे पटमध्यमे ।
प्रतिमां तत्र संयोज्य सुस्निग्धं कारयेत् तथा ॥ ३७-१३ ॥

ततः सिकत चूर्णैश्च कृत्वा गोचर्मपट्टिकैः ।
यथा निर्मलतां याति घर्षयेत् प्रतिमां ततः ॥ ३७-१४ ॥

प्. १८६) ततो क्षिमोचनार्थन्तु स्थण्डिले पूर्ववत् कृते ।
बिंबं विन्यस्य तस्योर्ध्वे पटेनमहता वृते ॥ ३७-१५ ॥

अभितः कलशानष्टौ कूर्चाक्षत सपुष्पकान् ।
विन्यस्य तेषु दिक्पालान् समभ्यर्च्य यथा विधि ॥ ३७-१६ ॥

आचार्यः शिल्पिनासार्धं नेत्रमन्त्रमनुस्मरन् ।
हेम सूचि प्रहाराभ्यां शैलजे लोहजे तथा ॥ ३७-१७ ॥

वर्णयत्नन्तु संलिख्य चित्राभासे तु मृण्मये ।
भ्रूरेखां प्रतिमां कृत्वा पक्ष्मरेखा त्रितीयकम् ॥ ३७-१८ ॥

श्वेतमण्डलमालिख्य तन्मध्ये कृष्णमण्डलम् ।
कृष्णस्याभ्यन्तरे विद्वान् ज्योतिर्मण्डलमालिखेत् ॥ ३७-१९ ॥

सुव्यक्तं शिल्पिनाकार्यं नेत्रे मन्त्रं जपेत् गुरुः ।
स्थापकं स्थपतिं पूज्य वस्त्रसौवर्णभूषणैः ॥ ३७-२० ॥

संपूज्यतोषयित्वा तु कृत्वा शिल्पि विसर्जनम् ।
मध्वाज्याभ्यान्तु सन्तर्प्य सौवर्णेन तु दूर्वया ॥ ३७-२१ ॥

नेत्राणि नेत्र मन्त्रेण क्षीरेणैवं समाचरेत् ।
पात्रत्रयन्तु संग्राह्य ताम्रजं कांसमेव वा ॥ ३७-२२ ॥

तेषु क्षीराज्यमधुभिः सौवर्णं राजतैः सह ।
पात्राण्यापूर्यतैरैव प्रत्येकं प्रस्थमानतः ॥ ३७-२३ ॥

मधुनादक्षिणे नेत्रे दर्शयेत् भास्करात्मके ।
सर्पिषागविवामे तु चंद्रात्मकमितः स्मरन् ॥ ३७-२४ ॥

पयसाचोर्ध्व नेत्रे तु दर्शयेदनलात्मकम् ।
तत्तन्मन्त्राण्यनु स्मृत्यतैस्तु संप्रोक्षयेत् गुरुः ॥ ३७-२५ ॥

सौवर्णेन खयुक्तास्तु मध्यतर्जन्यनामिकाः ।
तर्जनीदक्षिणे चोर्द्ध्वे मध्यमा नामिकान्यके ॥ ३७-२६ ॥

संयोज्य हृदयाद्यैश्च सिच्यगन्धांबुना ततः ।
पृच्छन्नपटमावर्ज्य सुपुष्टाङ्गांसु यौवनाम् ॥ ३७-२७ ॥

गोधेनुहव्यमन्त्रेण दुग्ध्वाक्षीरांसवत्सकाम् ।
गांसमभ्यर्च्य सावित्र्या दर्शयेत् तु विचक्षणः ॥ ३७-२८ ॥

दर्शयेत् तु द्विजान् पश्चात् द्विजानन्यान्विशेषतः ।
एवं सकलं बिंबानां सममेतत् प्रकीर्तितम् ॥ ३७-२९ ॥

प्. १८७) येन तस्य विशुद्धिः स्यात् तेन तस्य विशोधयेत् ।
सर्वालंकार संयुक्तं कृत्वाग्रामप्रदक्षिणम् ॥ ३७-३० ॥

जलाधिवासनं कुर्यात् कण्ठमात्रे जलेशुभे ।
चतुष्पादसमायुक्ते वितानध्वज संयुते ॥ ३७-३१ ॥

दर्भमालासमायुक्ते प्रपायाञ्जलमध्यमे ।
वस्त्रयुग्मपरिच्छन्नं दर्भैः पुष्पैश्च वेष्टितम् ॥ ३७-३२ ॥

पीठे वा फलकायां वा प्राक्च्छिरस्कं सुशाययेत् ।
पञ्चरात्रं त्रिरात्रं वा चैकरात्रमथापि वा ॥ ३७-३३ ॥

ततो मण्डपसंस्कारं यथा विभवविस्तरम् ।
पूर्वे वा दक्षिणे वापि पश्चिमे वाम मनोरमे ॥ ३७-३४ ॥

दशभादशहस्तं वा षोडश स्तंभसंयुतम् ।
चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ॥ ३७-३५ ॥

दर्भमालासमायुक्तं पुष्पमालावलंबितम् ।
वितानोपरि सच्छन्नमष्टदिग्ध्वजलंबितम् ॥ ३७-३६ ॥

मङ्कलांकुर संयुक्तं मुक्तादामैर्विभूषितम् ।
मण्डपेन वकोष्ठे तु मध्यभागे विशेषतः ॥ ३७-३७ ॥

उपवेदीं तु कर्तव्या तालोच्छ्रायासुविस्तृता ।
आलयाभ्यन्तरे वेदीं कारयेत् सुदृढांशुभाम् ॥ ३७-३८ ॥

हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ।
अष्टदिक्षु च कुण्डानि कारयेत् सुप्रमाणतः ॥ ३७-३९ ॥

पूर्वे तु चतुरश्रन्तु वह्निपिप्पलपत्रवत् ।
अर्धचन्द्रं तु याम्यायां नै-ऋत्यान्तु त्रिकोणकम् ॥ ३७-४० ॥

वृत्तन्तु वारुणे भागे षडश्रं वायुगोचरे ।
पद्मञ्चैवोत्तरेभागे ऐशान्यामष्टकोणकम् ॥ ३७-४१ ॥

ईशान ऐन्द्रयोर्मध्ये वृत्तकुण्डन्तु कारयेत् ।
मण्डपस्योत्तरे भागे स्नानमण्डपमेव वा ॥ ३७-४२ ॥

स्नानवेदीन्तु तन्मध्ये त्रिद्व्येककरसम्मिताम् ।
हस्तमात्रसमुत्सेधां सुसमां सुदृढां शिवाम् ॥ ३७-४३ ॥

त्रिमेखला समायुक्तां भूताब्ध्यग्न्यङ्गुलैर्मिताम् ।
अथवाष्टाङ्गुला भद्रामेखलैका समन्विता ॥ ३७-४४ ॥

प्. १८८) गोमयालेपनं कृत्वा शोषणं पावनं तथा ।
ब्रह्मणान् भोजयित्वा तु वास्तुहोममतः परम् ॥ ३७-४५ ॥

पर्यग्निकरणं कृत्वा प्रासादं यागमण्डपम् ।
पुण्याहं तत्र कर्तव्यं प्रोक्षयेत् पञ्चगव्यकैः ॥ ३७-४६ ॥

शयनं कल्पयेद्विद्वान् वेदिकोपरिशालिभिः ।
अष्टद्रोणैस्तदर्धैर्वा तदर्धै स्तण्डिलैस्तथा ॥ ३७-४७ ॥

तन्मध्येऽष्टदलं पद्मं तण्डुलेन तु कारयेत् ।
अण्डजाद्यैस्तु संकल्प्य यत्नतो पर्युपर्युतः ॥ ३७-४८ ॥

अलाभे चाण्डजादीनां वस्त्रैपञ्चभिरास्तरेत् ।
तदूर्ध्वे नवशक्तिस्तु इच्छाज्ञानक्रिया अपि ॥ ३७-४९ ॥

गन्धपुष्पादिना पूज्यमङ्गलांकुर शोभितम् ।
जलात् बिंबं समुत्थाप्य पञ्चगव्योषितं तथा ॥ ३७-५० ॥

एकरात्रं तु कर्तव्यमथवा स्नापयेत् तु वै ।
स्नानवेद्यास्तु तन्मध्ये संस्थाप्य प्रतिमां ततः ॥ ३७-५१ ॥

अष्टमृत् सलिले नैव स्नात्वाभ्यर्च्य हृदाबुधः ।
घृतः शिरोर्पणं कृत्वा साक्षितः हेमदूर्वया ॥ ३७-५२ ॥

सौवर्णं रजतं वापि हृदयेन तु मन्त्रतः ।
कौतुकं दक्षिणे हस्ते बन्धयेद्रक्षयान्वितम् ॥ ३७-५३ ॥

गन्धाद्यैश्चैव संपूज्य नीत्वा वैवेदिकोपरि ।
पश्चिमाभिमुखं देवं संयजेद्धृदयेन तु ॥ ३७-५४ ॥

शयने शाययेद् देवं प्राक्च्छिरस्कं मुखोर्ध्वकम् ।
ईश्वर प्रतिमाञ्चेतु श्क्तिञ्च सहवामतः ॥ ३७-५५ ॥

रत्नन्यासादिकर्माणि सहैवात्र समाचरेत् ।
अन्यानि प्रतिमानि ह युक्तायुक्तं सुबुद्धिमान् ॥ ३७-५६ ॥

उत्तराच्छादनं कृत्वा वस्त्रैर्दर्भैस्तु पुष्पकैः ।
विद्येशकलशानष्टौ वज्राद्यस्त्रान् सहैमकान् ॥ ३७-५७ ॥

वस्त्रयुग्मपरिच्छन्नान् सकूर्चान् सा पिधानकान् ।
तत्तन्मन्त्रेण बिंबस्य परितोष्टसुदिक्षु च ॥ ३७-५८ ॥

संस्थाप्य बिंबशिरसच्छैशाने कुंभकेनकम् ।
षोडशावृत संपूर्णं बिंबप्रभसमन्वितम् ॥ ३७-५९ ॥

प्. १८९) त्रिसूत्रैर्वेष्टयित्वा तु सूत्रान् सूत्रान्तरं यवम् ।
पञ्चरत्न समायुक्तं शुद्धांबुपरिपूरितम् ॥ ३७-६० ॥

सचूतपल्लवोपेतं सकूर्चं सा पिधानकम् ।
वस्त्रयुग्मेन संवेष्ट्य स्थण्डिलोपरि विन्यसेत् ॥ ३७-६१ ॥

विप्राणान्तु हितार्थन्तु यज्ञसूत्रञ्च सृक्स्रवम् ।
क्षत्रियाणां हितार्थन्तु गजवाजिरथान् बुधः ॥ ३७-६२ ॥

तुलाञ्चमानपात्राणि वैश्यानान्तु हिताय वै ।
शूद्राणान्तु हितार्थन्तु वृषलांगलसंयुतम् ॥ ३७-६३ ॥

कृत्वैतानि सुवर्णेन षडंगैस्तु विनिक्षिपेत् ।
यद्रूपं प्रतिमं स्थाप्यं तत्तद्रूपस्य भावयेत् ॥ ३७-६४ ॥

कुंभमध्ये तु संस्थाप्य तस्य मूलमनुस्मरन् ।
षड्विधं ध्यानमावाह्यतानि संकल्प्य तच्छिवे ॥ ३७-६५ ॥

पूर्वोक्तेनैव मार्गेण मन्त्रन्यासन्तु कारयेत् ।
पूजयेत् गन्धपुष्पाद्यैर्हृदयेन विचक्षणः ॥ ३७-६६ ॥

वर्धनीं बीजमुख्येन तद्वत्संस्थाप्य वामके ।
अभितश्चोपवेद्यान्तु संस्थाप्यकलशाष्टकान् ॥ ३७-६७ ॥

वस्त्रकूर्चाक्षतो पेतान् ससूत्रान् पल्लवान्वितान् ।
हेमवज्रादिको पेतान् लोकपालाधिदेवतान् ॥ ३७-६८ ॥

संपूज्य स्वस्वमन्त्रेण द्वारकुंभांस्तु विन्यसेत् ।
अष्टमङ्गलरूपाणि वेदिकायास्तु बाह्यतः ॥ ३७-६९ ॥

संस्थाप्य स्वस्वनाम्नार्च्य ततो होमं समाचरेत् ।
कृत्वा चाध्ययनं दिक्षु ऋग्यजुः सामधर्वकैः ॥ ३७-७० ॥

नवपञ्चत्रयं वापि एकाग्निरथवा पुनः ।
प्राग्याम्येन्दुषु कुण्डेषु त्रेताग्निं सम्यगाचरेत् ॥ ३७-७१ ॥

सदाशिवेश्वरौ रुद्रः क्रमात् कुण्डाधिपाः स्मृताः ।
त्रयोवैकाग्निके विद्वाञ्छिवाग्निं पूर्वतो हुनेत् ॥ ३७-७२ ॥

शिवाग्निं प्रथमं हुत्वा मूर्तिहोमं ततः परम् ।
शिवाद्यवनिपर्यन्तं ध्यात्वा सर्वगतं प्रभुम् ॥ ३७-७३ ॥

तत्तद्रूपान् स्वमात्मानं स्मृत्वाग्निं संयजेत् बुधः ।
आदित्यः पूर्वतोमूर्तिर्भव स्त्रिमूर्तिधारकः ॥ ३७-७४ ॥

प्. १९०) आग्नेय्यामग्निमूर्तिस्तु धारकः शर्व उच्यते ।
मूर्तिधारः पशुपतिः पृथिवीमूर्तिदक्षिणे ॥ ३७-७५ ॥

आकाशे नै-ऋते मूर्तिरुद्रस्तन्मूर्तिधारकः ।
आपोवरुणदिक्भागे रुद्रोनामसुधारकः ॥ ३७-७६ ॥

वायुर्वै वायुदिग्भागे भीमा वै मूर्तिधारकः ।
उत्तरे सोममूर्तिस्तु महान्यै मूर्तिधारकः ॥ ३७-७७ ॥

मूर्तिधारस्तथेशस्तु आत्मानं मूर्तिरेव च ।
एवं विधान तस्त्वष्टमूर्तयोमूर्तिधारकाः ॥ ३७-७८ ॥

प्रधानस्य शिवः प्रोक्तस्तत्तद् ध्यानपरायणः ।
प्राग्वदग्निमुखं कृत्वा पश्चात् द्रव्यैस्तु होमयेत् ॥ ३७-७९ ॥

काष्ठाज्य समिदन्नादिलाजासक्तु तिलानि च ।
यवसिद्धार्थ मुद्गानि मधुनैकादशानि च ॥ ३७-८० ॥

तूष्णीन्तदिन्धनं कृत्वा मूले नैव घृताहुतिः ।
समिधं बीजमुख्येन चरुसद्येन होमयेत् ॥ ३७-८१ ॥

लाजा हृदय मन्त्रेण सक्तुञ्च शिरसापुनः ।
शिखया तु तिलं हुत्वा यवान्वैक वचेन तु ॥ ३७-८२ ॥

सिद्धार्थं बहुरूपेण मुद्गमस्त्रेण चैव हि ।
नेत्रेण मधुहोतव्यं जुहुयाद् व्याहृतिं ततः ॥ ३७-८३ ॥

पलाशसमिधं पूर्वे आग्नेय्यास्तु वै कंकतम् ।
वटं याम्ये तु विज्ञेयं अश्वत्थन्नि-ऋतौ तथा ॥ ३७-८४ ॥

प्लक्षन्तु वारुणे गाभे चौदुंबरन्तु वायवे ।
अर्का वै सौम्यदिक्भागे बिल्वमिशानगोचरे ॥ ३७-८५ ॥

इन्द्र ईशानयोर्मध्ये पलाशसमिधं भवेत् ।
द्रव्यं प्रतिसहस्रं वा तदर्धं वार्धमेव वा ॥ ३७-८६ ॥

अष्टोत्तरशतं वापि पञ्चाशत् पञ्चविंशती ।
षोडशा हुतिकं वापि द्रव्यं प्रतिसमाचरेत् ॥ ३७-८७ ॥

ब्रह्माङ्गैरेव हुत्वा तु तत्तत्स्थाने च संस्पृशेत् ।
तदन्ते व्याहृतिं हुत्वानिद्रां रात्रौ तु वर्जयेत् ॥ ३७-८८ ॥

प्रभाते विमले विद्वान् प्रतिष्ठालग्नपूर्वके ।
आचार्यं पूजयेत् पूर्वं वस्त्राङ्गुलीयकादिभिः ॥ ३७-८९ ॥

प्. १९१) हेमपुष्पोपवीतञ्च कुण्डलं कटकं तथा ।
दासीं दासांश्च गाभूमिमाचार्याय प्रदापयेत् ॥ ३७-९० ॥

कन्यसं दशनिष्कञ्च द्विगुणं त्रिगुणं तथा ।
दक्षिणां कन्यसादीनि देशिकस्य विधीयते ॥ ३७-९१ ॥

प्रत्येकं मूर्तिपान् पूज्यदेशिकस्याष्टभागतः ।
दैववज्ञं वास्तुहोतारं मूर्तिपान् त्रिगुणेन वै ॥ ३७-९२ ॥

मूर्तिपस्य त्रिपादेन तद्ध्येतृंश्च पृथक् पृथक् ।
तेषां हेमाङ्गुलीयञ्च वस्त्रयुग्मञ्च दापयेत् ॥ ३७-९३ ॥

भक्तानां परिचाराणां दापयित्वा स्वशक्तितः ।
दीनान्ध कृपणानाञ्च अन्नपानादि दापयेत् ॥ ३७-९४ ॥

दद्यात् पूर्णाहुतिं सर्वैर्मन्त्रैर्वेदशतात्मना ।
होमोपरीष्टतंत्रञ्च कुर्यात् सर्वे यथा क्रमत् ॥ ३७-९५ ॥

किञ्चित् पूर्वमुहूर्तस्य उत्थाप्यशयनाच्छिवम् ।
संपूज्यगन्धपुष्पाद्यैः शङ्खदुन्दुभिनिस्वनैः ॥ ३७-९६ ॥

सर्वालङ्कारसंयुक्तं मन्त्रन्यासमथारभेत् ।
शिवकुंभं समुद्धृत्य वर्द्धनीन्तु शिवाग्रतः ॥ ३७-९७ ॥

विन्यस्त्वार्घ्यन्तु दत्वाथ सकलीकृतविग्रहः ।
ध्यात्वा तद्रूपमग्न्यस्थं प्रतिमायां सुयोजयेत् ॥ ३७-९८ ॥

शक्तिं वै वामपार्श्वे तु विन्यसेत् बीजमूख्यकैः ।
कुम्भात्तत्वं तथा बिंबे संयोज्याङ्गानि विन्यसेत् ॥ ३७-९९ ॥

शिवाख्योमाख्य विद्येश कुंभैरत्राभिषेचयेत् ।
तदन्ते स्नपनं कृत्वा हविष्यन्तु महद्भवेत् ॥ ३७-१०० ॥

उत्सवन्तत्र कर्त्व्यं प्रागुक्तविधिना ततः ।
ईश्वर प्रतिमाण्येवमुत्सवार्थं प्रकीर्तितम् ॥ ३७-१०१ ॥

द्वादश प्रतिमा प्रोक्तास्तथा चोत्सवकर्मणि ।
देशकाल स्वरूपान्यत् समानं सर्वमेव हि ॥ ३७-१०२ ॥

अर्चनादि क्रमान् सर्वान् शिववत् कल्पयेत् क्रमात् ।
सर्वेषामन्य देवानां तत्र तद्विधिचोदितम् ॥ ३७-१०३ ॥

प्. १९२) तथा स्वरूपमेवं स्यात् स्वस्वनामादिमन्त्रतः ।
सर्वेषां स्थापनान्ते तु स्नपनञ्चोत्सवं कुरु ॥ ३७-१०४ ॥

सकलस्थापनं प्रोक्तं तेषां संप्रोक्षणं शृणु ।
वेदिकायां शिवोमाख्य विद्येशकलशान् बुधः ॥ ३७-१०५ ॥

विन्यसेदुपवेद्यान्तु लोकपालाख्य कुंभकान् ।
वस्त्राणि हेमरूपाणि प्रक्षिपेत् पूर्ववत् सुधीः ॥ ३७-१०६ ॥

रत्नादिशयनान्तञ्च वितानैर्बिंबकर्मणि ।
वस्त्रैराच्छाद्य तत्बिंबं होमं पूर्ववदाचरेत् ॥ ३७-१०७ ॥

स्नपनं वायुदिक्भागे अन्यत्सर्वं समानकम् ।
योगोपयोगद्रव्याणि आचार्यायप्रदापयेत् ॥ ३७-१०८ ॥

सकलस्थापनं ह्येवं शक्तिसंस्थापनं शृणु ।

इति सकल प्रतिष्ठाविधिपटलः सप्तत्रिंशत्तमः ॥ ३७ ॥



अथ शक्तिप्रतिष्ठाविधिपटलः

अथातः संप्रवक्ष्यामि शक्तिसंस्थापनं परम् ।
वह्नेरुष्णत्ववच्छक्तिरविनाभाविनीविभोः ॥ ३८-१ ॥

अमूर्तिच्छेदमूर्ताख्या समूर्तञ्चेत् समूर्तकम् ।
सदाशिव शिवौ रुद्रो विष्णुब्रह्मेति भेदिताः ॥ ३८-२ ॥

मनोन्मनीश्वरीचोमा श्रीसावित्री प्रभेदिताः ।
परापरमिदं भेदं लोकानुग्रहकारिणम् ॥ ३८-३ ॥

मनोन्मनीश्वरी चैव सहैवस्थापनं विदुः ।
त्रिभेदमन्यच्छक्तीनामेक युक्तं सहेति च ॥ ३८-४ ॥

शक्तिस्तु केवलं यत्र स्थापने त्वघमुच्यते ।
पूर्वं शंभुं प्रतिष्ठाप्य शक्तेस्तु स्थापनं तथा ॥ ३८-
५ ॥

कृतो युक्तोविधानेन युक्तं तत् परिकीर्तितम् ।
शक्तिंशंभुमथैकत्र स्थापनं तत्सहैव तु ॥ ३८-६ ॥

प्. १९३) त्रिप्रकारेषु सामान्यं मूलमन्त्रादिकं शृणु ।
मायाबीजञ्च व्योमेन सहबिन्दुं सनादिकम् ॥ ३८-७ ॥

आदिशक्तेस्तु मूलं स्याद्वियद्वापि सबिन्दुका ।
षडंगास्तु समाख्यातं स्वरेव द्वितयं तथा ॥ ३८-८ ॥

चतुर्त्थमष्टमञ्चैव द्वादशं स्वरमेव च ।
चतुर्दशस्वरञ्चैव षोडशं स्वरमेव च ॥ ३८-९ ॥

संयोज्य हृच्छिराचूडा वर्मनेत्रास्त्र संज्ञिका ।
शिरोमन्त्रे विशेषोस्ति सलिलार्णेन संयुतम् ॥ ३८-१० ॥

सविसर्गमथास्त्र स्यात् विन्दुनादविवर्जितम् ।
आद्यास्वर तृतीयञ्च पञ्चमं दशमान्तकम् ॥ ३८-११ ॥

द्वादशान्तञ्च पञ्चैते सद्यादि ब्रह्मपञ्चका ।
उच्यते गौरिगायत्री गणांबिकायै विद्महे ॥ ३८-१२ ॥

इत्युच्चार्य तदन्ते तु महातपायैधीमही ।
एवमुक्त्वा तदन्ते तु तन्नोगौरी प्रचोदयेत् ॥ ३८-१३ ॥

गौरिगायत्रि संज्ञाख्या चतुर्विंशतिकाक्षरा ।
मृण्मयं शैलजञ्चैकं शेषं लोहजमुच्यते ॥ ३८-१४ ॥

मृण्मये तु तथा नोक्तमधिवासञ्जलेन तु ।
समानमन्यत् सर्वेषां यथा शक्तिविधीयते ॥ ३८-१५ ॥

पूर्वोक्तेन विधानेन कृत्वा तत्प्रतिमं बुधः ।
प्रतिष्ठादि वसात् पूर्वे कर्तव्यञ्चाङ्कुरार्पणम् ॥ ३८-१६ ॥

पूर्ववद्रत्नविन्यासं कृत्वा तदनुबिंबकम् ।
सुस्निग्धं कारयित्वा तु नेत्रमोक्षणमारभेत् ॥ ३८-१७ ॥

हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण चारभेत् ।
हैमप्रहारसुचिभ्यां नेत्रमन्त्रेण देशिकः ॥ ३८-१८ ॥

भ्रूरेखा प्रथमं लिख्य पक्ष्मरेखाद्वितीयकम् ।
श्वेतमण्डलमालिख्य ततो वै कृष्णमण्डलम् ॥ ३८-१९ ॥

ज्योतिर्मण्डलमध्ये तु कर्तव्यं शिल्पिनाबुधः ।
शिल्पिमुद्वास्य गुरुणा कर्तव्यं कर्मचोत्तरम् ॥ ३८-२० ॥

हिरण्य नखसंप्रोक्तौ तर्जनीमध्यमाङ्गुली ।
तासां नेत्रेप्यसौधीमां छक्तिमन्त्रेण संस्पृशेत् ॥ ३८-२१ ॥

प्. १९४) कांस्ये मधुघृताभ्यान्तु सौवर्णेन तु दूर्वया ।
हृन्मन्त्रेण तु संसिच्य सवत्साङ्गां पयस्विनीम् ॥ ३८-२२ ॥

गौर्धेनुहव्य मन्त्रेण देशिकोगां प्रदर्शयेत् ।
ब्राह्मणादिञ्जनान् सर्वान्वीक्षयित्वाक्षमन्त्रतः ॥ ३८-२३ ॥

बिंबशुद्धिं ततः कृत्वा शुद्धतोयैर्विचक्षणः ।
सर्वालङ्कारसंयुक्तं कृत्वा ग्रामप्रदक्षिणम् ॥ ३८-२४ ॥

जलाधिवासनं पश्चात् त्रिरात्रं वैकरात्रकम् ।
चतुरश्रां प्रपां कृत्वा दर्भमालाविभूषिताम् ॥ ३८-२५ ॥

वस्त्रैरावेष्टयित्वा तु पुष्पैर्दर्भैर्विशेषतः ।
कण्ठमात्रे जलेशुद्धे शक्तिं तत्राधिवासयेत् ॥ ३८-२६ ॥

दिक्पालाधिपकुंभानि विन्यसेत् परितोजले ।
प्रतिष्ठामण्डपं कृत्वा सर्वालङ्कारसंयुतम् ॥ ३८-२७ ॥

षोडशस्तंभसंयुक्तं चतुर्द्वारसमायुतम् ।
चतुस्तोरणसंयुक्तं दर्भमालाभिशोभितम् ॥ ३८-२८ ॥

तन्मध्ये वेदिकां कृत्वा तत्त्रिभागैकविस्तृताम् ।
हस्तमात्रसमुत्सेधां दर्पणोदरसन्निभाम् ॥ ३८-२९ ॥

तालमात्रसमुत्सेधामुपवेदीं प्रकल्प्य वै ।
तस्योत्तरसमीपे तु तद्वद् वै स्नानमण्डपम् ॥ ३८-३० ॥

तन्मध्ये स्नानवेदीञ्च तिस्रोवाद्व्येकमेखलाम् ।
स्थण्डिले वेदिकोर्ध्वे तु अष्टद्रोणैश्च शालिभिः ॥ ३८-३१ ॥

तिलतण्डुलसंयुक्तं पद्ममष्टदलं लिखेत् ।
अण्डजाद्यैर्विशेषण संकल्प्यशयनं तथा ॥ ३८-३२ ॥

अलाभे त्वण्डजादीनां वस्त्रः संकल्प्य पञ्चभिः ।
प्रागुक्तलक्षणोपेतस्त्वादिशैव कुलोद्भवः ॥ ३८-३३ ॥

सुस्नात्वा चन्म्यविधिवत् सर्वालङ्कारसंयुतम् ।
नीत्वा जलोषितं बिंबं स्नापयेत् पञ्चगव्यकैः ॥ ३८-३४ ॥

स्नानवेद्युपरिस्थाप्य सुस्नाप्य विधिपूर्वकम् ।
गणांबिकेतिमन्त्रेण अष्टमृत्सलिलेन तु ॥ ३८-३५ ॥

तदा म्लेलेपनाद्यैश्च बिंबशुद्धिं यथोचितम् ।
गन्धपुष्पादिनाभ्यर्च्य बीजमुख्येन देशिकः ॥ ३८-३६ ॥

प्. १९५) ततः सुवर्णसूत्रेण बध्वा प्रतिसरं बुधः ।
घृतः शिरोर्पणं कृत्वा हेमदूर्वाङ्कुराक्षतैः ॥ ३८-३७ ॥

शयने शाययेच्छक्तिं शिरः पूर्वमुखोर्ध्वतः ।
वस्त्रैराच्छादयित्वा तु पुण्याम्बुनितु देशिकः ॥ ३८-३८ ॥

स्थण्डिले तूपवेद्यान्तु निष्कलंकाञ्छुभां दृढान् ।
वस्त्रहेमसमायुक्तान् सूत्राक्षतसपल्लवान् ॥ ३८-३९ ॥

लोकपालाधिपानष्ट कुंभान् पूर्वादितः क्रमात् ।
आवृतान् कलशांश्चैव हैमसूत्राष्टसंयुतान् ॥ ३८-४० ॥

सकूर्चान् सा पिधानांश्च वस्त्रयुग्मेन वेष्टितान् ।
वामादिशक्ति संयुक्ता नष्टौ संस्थापयेद्धृदा ॥ ३८-४१ ॥

गन्धपुष्पादिनाभ्यर्च्य हृदयेन विचक्षणः ।
वर्धनी सूत्रसंयुक्तान् वस्त्रयुग्मसमावृतान् ॥ ३८-४२ ॥

सकूर्चां सा पिधानांश्च आदिशक्त्यधिदैवतान् ।
हेमपंकजनिक्षिप्तां नवरतसमायुतान् ॥ ३८-४३ ॥

बिंबस्य शिरसश्चैव भावे संस्थाप्यबीजतः ।
गन्धपुष्पाक्षताद्यैश्च संपूज्याग्निमथारभेत् ॥ ३८-४४ ॥

नवपञ्चाग्निकं वापि त्रयं वा चैकमेव वा ।
योन्याकाराणि विधिवत् ततः कुण्डं प्रकल्पयेत् ॥ ३८-४५ ॥

अग्न्याधानान्ततः कृत्वा पूर्ववत् षोडशक्रियाम् ।
आहूयाग्नौ तु तच्छक्तिं बीजमुख्येन मन्त्रवित् ॥ ३८-४६ ॥

पूर्ववत् समिधाज्यैस्तु होमं कृत्वा स्वमन्त्रतः ।
स्पर्शाहुतिं ततः कृत्वा तत्तन्मन्त्रेण मन्त्रवित् ॥ ३८-४७ ॥

प्रभाते सुमुहूर्ते तु सर्वातोद्यसमायुतम् ।
आचार्यमूर्तिपांश्चैव दैवज्ञं संप्रपूजयेत् ॥ ३८-४८ ॥

पूर्णाहुतिं ततो दत्वा बीजमुख्येन मन्त्रतः ।
शक्तिबिंबन्ततोत्थाप्य स्नानवेद्युपरिन्यसेत् ॥ ३८-४९ ॥

वर्द्धनीन्तु ततोत्थाप्य देशिकश्चोत्तराननः ।
बिंबस्य हृदये मूर्ध्नि नाभौ मूले तु विन्यसेत् ॥ ३८-५० ॥

न्यस्त्वा ब्रह्माङ्गमन्त्राणि विन्यसेत् सर्वमात्रकाः ।
वर्धकुंभस्थ शक्तीश्च बिंबे संयोज्यमूलतः ॥ ३८-५१ ॥

प्. १९६) बीजमुख्येन मन्त्रेण तज्जले नाभिषिच्य वै ।
वामादि शक्तिकुंभाद्भिः संस्थाप्य स्वस्वमन्त्रकैः ॥ ३८-
५२ ॥

स्नान लेपादिभिरद्भि स्वस्वमन्त्रैर्विशेषतः ।
पाद्यमाचमनञ्चार्घ्यं दद्याद् देव्यै हृदादिभिः ॥ ३८-५३


अभ्यर्च्य गन्धपुष्पाद्यैः सर्वालङ्कारसंयुतम् ।
पायसं हविषं तत्र हृदयेन प्रदापयेत् ॥ ३८-५४ ॥

एव मेवं समाख्यातं युक्तं तत्र वदामिते ।
मण्डपं विधिना कृत्वा तन्मध्ये वेदिकां क्रमात् ॥ ३८-५५ ॥

सर्वालङ्कारसंयुक्तां वितानध्वजभूषिताम् ।
तन्मध्ये स्थण्डिलं कृत्वा वह्निं तत्रैव संयजेत् ॥ ३८-५६ ॥

तत्र मानुषनाहे तु उमारुद्रौ तु वारुणे ।
वामभागे ह्युमां न्यस्त्वा सर्वालङ्कारसंयुताम् ॥ ३८-५७ ॥

नववस्त्रैरुमारुद्रौ प्रशान्तायेति भूषयेत् ।
आचार्यो ब्रह्मवद्ध्यात्वा विवाहे सर्वकर्मणि ॥ ३८-५८ ॥

पूर्वोक्तेन विधानेन अग्न्याधानादिकं तथा ।
विष्णुं तत्रैव चाहूय देवीमुदकपूर्वकम् ॥ ३८-५९ ॥

रुद्रस्य दक्षिणे हस्ते बीजमुख्येन दापयेत् ।
वामे श्मानन्तु संस्थाप्य गौरीगायत्रिमंत्रतः ॥ ३८-६० ॥

देव्याः पादञ्च रुद्रेण स्पर्शयित्वाश्मनि न्यसेत् ।
शिवमन्त्रेण मन्त्रज्ञो लाजं हुत्वात्रयंबुधः ॥ ३८-६१ ॥

शक्तियुक्तं ततः सर्वं प्रभूतहविषं ददेत् ।
युक्तमेवमिदं प्रोक्तं सहैव स्थापनं शृणु ॥ ३८-६२ ॥

आरंभस्थापनान्तं यत्सर्वकर्मसहैव तु ।
सहैव इति विख्यातं चोत्सवोविधिचोदितः ॥ ३८-६३ ॥

एवमेवं तथा प्रोक्तं लक्षः सावित्रयस्तथा ।
शक्तिसंस्थापनं प्रोक्तं परिवारमथ शृणु ॥ ३८-६४ ॥

इति शक्तिप्रतिष्ठाविधिपटलः अष्टत्रिंशत्तमः ॥ ३८ ॥


अथ परिवारविधिपटलः

अथातः संप्रवक्ष्यामि परिवारविधिक्रमम् ।
द्वारपालादि पीठान्तं परिवारमिति स्मृतम् ॥ ३९-१ ॥

द्वारस्थात् प्रथमंयिष्येत् द्वारपालां ततः परम् ।
वृषभं वै तृतीयन्तु इन्द्रादींस्तु चतुर्थकम् ॥ ३९-२ ॥

पञ्चमं भद्रपीठन्तु तथैवबहिरावृतम् ।
यत्र यत्र मुखद्वारे कवाटाभ्यान्तु देशिकाः ॥ ३९-३ ॥

तत्र तत्र विशेषेण नवधैवं विसर्जयेत् ।
भुजंगञ्च पतंगञ्च ऊर्ध्वाधः संप्रकल्प्य वै ॥ ३९-४ ॥

उत्तरञ्च पताकाञ्च तिष्ठतः सव्यवामयोः ।
विमलञ्च सुबाहुञ्च विन्यसेद्वामदक्षयोः ॥ ३९-५ ॥

श्रियं सरस्वतीञ्चैव स्कन्दोर्ध्वाधः प्रकल्प्य वै ।
तस्य मध्ये तु विघ्नेशं स्वनाम्नाबासने सदा ॥ ३९-६ ॥

स्वनामाद्यक्षरेणैव गन्धपुष्पादिभिर्यजेत् ।
एवं कृत्वा यथा न्यायं द्वारेद्वारे विशेषतः ॥ ३९-७ ॥

सुदृढं वृक्षसारैस्तु कवाटौ तु सलक्षणौ ।
शून्यमेक कपाटञ्चेत् द्विकपाटे तु शान्तिकम् ॥ ३९-८ ॥

दण्डानुपरिबध्वाथ अथस्थाद्दारुजानपि ।
पुलकान्नर्धचंद्रादीञ्छल्पशास्त्रोक्तमार्गतः ॥ ३९-९ ॥

उत्सेधस्याष्टभागैक ऊर्ध्वाधस्तु घनं क्रमात् ।
विस्तारस्तु चतुर्भागं घनं वै दक्षिणोत्तरे ॥ ३९-१० ॥

कपाटलक्षणं ह्येवं तत्रस्थान् प्रथमं यजेत् ।
द्वारे तु देवता प्रोक्ता द्वारपालां ततः शृणु ॥ ३९-११ ॥

अभ्यन्तरग्रहद्वारे शक्तिद्वारमिति स्मृतम् ।
दक्षिणे ज्ञानदाशक्ति धर्मदा चैव चोत्तरे ॥ ३९-१२ ॥

एकवक्त्रो द्विहस्ते च मध्यक्षामेस्तनान्विते ।
कुंकुमाभो महाकालः परशुच्छायुधस्तथा ॥ ३९-१३ ॥

अनन्तेशः पशुपतिर्दक्षिणे द्वारपालकौ ।
अनन्तो रक्तवर्णस्तु वस्त्रायुधसमन्वितः ॥ ३९-१४ ॥

प्. १९८) पशुपद्मोत्पलवर्णः शक्तिहस्तोग्रलोचनः ।
पश्चिमद्वारपालौ च दण्डिमुण्डीशसंज्ञकौ ॥ ३९-१५ ॥

दण्डी सुरेन्द्र चापास्त्र खट्गहस्तोग्रदंष्ट्रकः ।
मुण्डीकुंदेन्दु वर्णाभभिण्डिपालायुधस्तथा ॥ ३९-१६ ॥

विजयश्चैव भृंगीशश्चोत्तरद्वारपालकौ ।
भ्रंशो भृंगश्चवर्णस्तु क्षुरिकायुधहस्तकः ॥ ३९-१७ ॥

विजयश्चेन्द्रकोलोहः शूलहस्तोभयंकरः ।
सर्वेत्रिभंगियुक्तश्च सर्वेकुञ्चित पादकाः ॥ ३९-१८ ॥

उग्रदंष्ट्राः सुवृत्ताश्च सर्वां निर्देशहस्तकाः ।
सर्वे चतुर्भुजोपेता द्विभुजा वा त्रिणेत्रकाः ॥ ३९-१९ ॥

द्विनेत्राश्चोग्रदंष्ट्राश्च हलपल्लवहस्तकाः ।
द्वारोत्सेध समाभद्राः किरीटाद्यङ्गदोज्वलाः ॥ ३९-२० ॥

प्रासादे मण्डपेद्वारे द्वारेद्वारे च कीर्तिताः ।
महामर्यादिभित्तिस्था द्वारगोपुर पार्श्वयोः ॥ ३९-२१ ॥

चतुर्दिक्षु विशेषेण महाकाराणि कारयेत् ।
संवर्तकं श्रियावर्तं कुण्डोदर बृहोदरौ ॥ ३९-२२ ॥

सिंहमुखोहय मुखस्त्वेक पादस्त्वधोमुखः ।
श्वेतवर्णस्तथा न्यस्त्वास्त्व परांश्यामसन्निभः ॥ ३९-२३ ॥

द्विनेत्रा द्विभूजाः सर्वे शूलखट्गायुधास्तथा ।
भूतौ द्वौ द्वौ प्रकर्तव्यौ वासवादिप्रदक्षिणम् ॥ ३९-२४ ॥

अथाहपरिवाराणां पिठञ्चेदन्तरावृते ।
तेषां विमानमन्विच्छेत् द्वितीयेपि च हारके ॥ ३९-२५ ॥

मातृंस्तु दक्षिणे भागे वीरविघ्नसमन्वितम् ॥ ३९-२६ ॥

विष्णुं वा तत्र संस्थाप्य आसीनमथवा स्थितम् ।
विघ्नेशन्नै-ऋते भागे सुब्रह्मण्यन्तु पश्चिमे ॥ ३९-२७ ॥

ज्येष्ठायां वायुदिक्भागे श्रियं वै स्थापयेत् गुरुः ।
दुर्गां वै चोत्तरे कुर्यात् ब्रह्माणमथवापि वा ॥ ३९-२८ ॥

चण्डेशमैशदिग्भागे भास्करं पूर्वतोदिशि ।
कूपस्थानं तथैशान्यामाग्नेय्यां पचनालयम् ॥ ३९-२९ ॥

प्. १९९) अन्तरालेष्वनुक्तेषु यथा रुचिविशेषतः ।
शयनस्थानमाख्यातं पार्वती सहितं तथा ॥ ३९-३० ॥

परिवारालयं सर्वं बाह्येवाभ्यन्तरेपि वा ।
द्वितीयावरणं प्रोक्तं तृतीयावरणं शृणु ॥ ३९-३१ ॥

इन्द्रादिलोकपालांश्च स्वेस्वेस्थानेऽष्टदिक्षु वै ।
शक्रशांकरयोर्मध्ये पित्रस्थानं विधीयते ॥ ३९-३२ ॥

नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ।
वरुणवायुदिशोर्मध्ये आदित्या द्वदशोच्यते ॥ ३९-३३ ॥

भास्करक्षेत्रपालौ च शंकरे वा विशेषतः ।
चक्रपावकयोर्मध्ये अश्विन्यौ द्वौ तु विन्यसेत् ॥ ३९-३४ ॥

आग्नेयधर्मयोर्मध्ये संस्थाप्यसप्तरोहिणीः ।
याम्यनै-ऋतयोर्मध्ये पितृस्थानं विधीयते ॥ ३९-३५ ॥

नि-ऋतिर्वरुणयोर्मध्ये पित्रस्थानं विधीयते ।
नि-ऋतिर्वरुणयोर्मध्ये चाप्सरोगण एव च ॥ ३९-३६ ॥

वरुणवायव्ययोर्मध्ये मुनीनां स्थानमुत्तमम् ।
वायव्यसोमयोर्मध्ये चान्ते तु वसवस्तथा ॥ ३९-३७ ॥

उत्तरेशानयोर्मध्ये रुद्रैकादश एव हि ।
बलिपीठं ततः कृत्वा चतुर्दिक्षु विचक्षणः ॥ ३९-३८ ॥

बाह्याभ्यन्तरयोः पीठौ पूर्वद्वारे प्रकल्पयेत् ।
अन्तरे सर्वभूतांस्तु पिशाचान् बाह्यपीठके ॥ ३९-३९ ॥

यक्षाणां दक्षिणेपीठे राक्षसानां तु पश्चिमे ।
अधमं हि तदग्रे तु अथवाभ्यन्तरे बुधः ॥ ३९-४० ॥

गर्भगेहस्य पञ्चांशे चतुष्कञ्चोत्तमोन्नतम् ।
त्रिभागं मध्यमप्रोक्तं द्विभागमधमं स्मृतम् ॥ ३९-४१


द्वारोत्सेध समञ्ज्येष्ठं तत्त्रिभागन्तु मध्यमम् ।
द्वाराणामधमं विद्धि उत्सेधसमविस्तृतम् ॥ ३९-४२ ॥

उत्सेधसंविभज्याथ भागमेकोनविंशतिः ।
भागेनोपानमेकेन चतुर्भुजगतिस्तथा ॥ ३९-४३ ॥

कुम्भं कृत्वा त्रिभिर्भागैस्तदूर्ध्वे केन पट्टकम् ।
कण्ठं कुर्यात् त्रिभिर्भागैरेके चैवोर्ध्वपट्टिका ॥ ३९-४४ ॥

प्. २००) महापट्टिका द्विंशेन दलोत्सेधं गलोष्टकम् ।
कर्णिकाचैकभागेन प्रोक्तमुत्सेधमुत्तमम् ॥ ३९-४५ ॥

प्रवेशनिर्गमं वक्ष्ये विस्तारं षोडशांशकम् ।
समस्तांशमुपानं तु मन्वन्तं जगतीं तथा ॥ ३९-४६ ॥

भान्वंशं कुमुदं विद्यात् दिगंशं पट्टिकास्तथा ।
अष्टांशं कण्ठविस्तारं दशांशञ्चोर्ध्वपट्टिका ॥ ३९-
४७ ॥

द्वादशांशं महापट्टं वेदिकायां दशांशकम् ।
अष्टांशं दलविस्तारं त्रियंशेन तु कर्णिका ॥ ३९-४८ ॥

चतुरश्रं यथा पीठं कुर्यात् पददलं विना ।
स्थापनान्ते त्वथैतानि पूजयेत् तु विशेषतः ॥ ३९-४९ ॥

प्रतिष्ठाविधि मार्गेण कारयेद् देशिकोत्तमः ।
एवं तथोत्तमं विद्धि सर्वसिद्धिप्रदायकम् ॥ ३९-५० ॥

द्वारकान् भूतपीठान्तं कल्पयेच्चक्रमाद्गुरुः ।
सूर्यार्कवारुणेयात् तु नांशेहर्म्याणु कल्पयेत् ॥ ३९-५१ ॥

आग्नेय्यान्तु प्रकर्तव्यं च्छात्रादीनान्तु मण्डपम् ।
नै-ऋत्यां दिशिकर्तव्यं धर्मश्रवणमण्डपम् ॥ ३९-५२ ॥

गीताभ्यां सर्वविख्यातं वायव्यान्तु विशेषतः ।
यागानामुत्सवादीनां ऐशाने मण्डपं स्मृतम् ॥ ३९-५३ ॥

विख्यातं मध्यहारायां मर्यादिभित्तिके शृणु ।
गोपुरेशानयोर्मध्ये धान्यस्थानमुदाहृतम् ॥ ३९-५४ ॥

कुर्याज्जननशालान्तु याम्यपावकमध्यगः ।
याम्यनै-ऋतयोर्मध्ये कुर्यादायुधमण्डपम् ॥ ३९-५५ ॥

वरुणनै-ऋतयोर्मध्ये कुर्यादास्थानमण्डपम् ।
पाशभ्रद्वायुमध्ये तु नृत्तांव्यासस्यमण्डपम् ॥ ३९-५६ ॥

कुबेरानिलयोर्मध्ये धनसञ्चितमण्डपम् ।
ईशानसोमयोर्मध्ये कर्तव्यं पुष्पमण्डपम् ॥ ३९-५७ ॥

मर्यादिभित्तिके ख्यातं महामर्यादिके शृणु ।
चतुर्दिक्षु महाद्वारे गोपुराणिप्रकल्पयेत् ॥ ३९-५८ ॥

अन्तरालेषु सर्वेषु क्रमेणैवप्रदक्षिणम् ।
ऋग्यजुः सामधर्वाणाञ्छन्दो ज्योतिषयोस्तथा ॥ ३९-५९ ॥

प्. २०१) शीक्षाकल्पनिरुक्तानां ततो व्याकरणस्य च ।
शैवसिद्धान्त शास्त्रस्य तथा पाशुपतस्य च ॥ ३९-६० ॥

सोमसिद्धान्त तन्त्रस्य बौद्ध अर्हतयोस्तथा ।
पा~चरात्राख्य तन्त्रस्य व्याख्यानाभ्यासनानि वै ॥ ३९-६१ ॥

विप्राणां भोजनार्थाय लिङ्गानां भोजनाय वै ।
आदिशैवानुशैवानां स्थापनापरिकल्पयेत् ॥ ३९-६२ ॥

परिवारसमायुक्तं प्राकाराणां प्रकीर्तितम् ।
अतः परं विशेषेण वृषभस्थापनं शृणु ॥ ३९-६३ ॥

इति परिवारविधिपटल एकोनचत्वारिंशत्तमः ॥ ३९ ॥


अथ वृषभस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि वृषभस्थापनं परम् ।
अन्तरावरणे देवाभिद्यते शिवशासने ॥ ४०-१ ॥

तेषु देवा स्थिते तस्मात् परिवारस्यवस्थता ।
वृषभस्य सहस्रांशाभिद्यन्ते मूर्तयस्तदा ॥ ४०-२ ॥

त्रिविधं स्थापनं प्रोक्तं शैलं लोहंसुधामयम् ।
लोहजं स्थानकेकार्यं शयने वा विशेषतः ॥ ४०-३ ॥

शिलासुता प्रकर्तव्यं शयने तु विचक्षण ।
त्रिविधं तत्र कर्तव्यं सर्वसंपत्करं नृणाम् ॥ ४०-४ ॥

लोहजेन तु विघ्नेश कृतञ्चेदुत्तमं सृतम् ।
शैलञ्चमध्यमं प्रोक्तं सुधाया चाधमं भवेत् ॥ ४०-५


वृषभस्य तदुत्सेधं द्वारमानेन वै शृणु ।
द्वारोत्सेधञ्चतुर्थांशमर्धपादोनकं तथा ॥ ४०-६ ॥

समं वा द्विगुणं वापि त्रिगुणं वा विशेषतः ।
तत्काले वृषभायामं द्विसप्तत्यङ्गुलं स्मृतम् ॥ ४०-७ ॥

चतुर्भागमुखं तत्र त्रिभागं नासिका तथा ।
द्व्यङ्गुलन्तु तथा नेत्र मन्त्रः पादसुविस्तरम् ॥ ४०-८ ॥

प्. २०२) शृङ्गायामं द्विभागन्तु तन्मूलं भागविस्तरम् ।
तीक्ष्णाग्रौ तु प्रकर्तव्यौ चानुपूर्वात् क्रमेण तु ॥ ४०-९ ॥

कर्णायामं दशांगुल्यं तद्विस्तारं तदर्धता ।
कला तु कर्णमूलं हि तदन्तश्च तदेव तु ॥ ४०-१० ॥

त्रिभागं नेत्रयोर्मध्ये तद्वच्छ्रंगौ तु मध्यमम् ।
अक्षिकर्णान्तरं भागं कर्णाच्छृङ्गान्तरं तथा ॥ ४०-११ ॥

द्व्यङ्गुलं नासिकाद्वारे तद्वक्रं भागमानतः ।
जिह्वासौ दन्तपङ्ती च यथा युक्त्या च कारयेत् ॥ ४०-१२ ॥

अष्टादशाङ्गुलञ्चोरु तन्नाहं त्रिगुणं तथा ।
जंघादशाङ्गुला ज्ञेया तदूर्ध्वे तु चतुष्कला ॥ ४०-१३ ॥

षडङ्गुलं ततः पादं तदर्धंखुरमुच्यते ।
जंघायाः पश्चिमं पादं कलोर्ध्वन्तु कलाधिकम् ॥ ४०-१४


पुच्छं स्यादग्रमूलान्तञ्चतुरङ्गुलविस्तृतम् ।
मध्यमं द्व्यङ्गुलन्तारमग्रमेकाङ्गुलं स्मृतम् ॥ ४०-१५ ॥

वृषणौ द्विकलायामौ विस्तारं स्याच्चद्व्यङ्गुलम् ।
वृषस्यलक्षणं प्रोक्तं स्थापनं तस्य वै शृणु ॥ ४०-१६ ॥

लोह * * * * ञ्चैव विनाशैलेसुधामये ।
जलाधिवासं शयनं सुधायाञ्च न कारयेत् ॥ ४०-१७ ॥

नेत्रेणमोचयं नेत्रं शयन * * * * * ।
दिक्पालकलशानष्टौ लोकपालाधिपास्ततः ॥ ४०-१८ ॥

वृषकुंभन्तु तन्मध्ये वृषभंगौः समावृतम् ।
घण्डमालारवोपेतं श्वेतवर्ण महाद्युतिम् ॥ ४०-१९ ॥

नवपञ्चत्रयं वापि एकाग्निमथवा पुनः ॥ ४०-२० ॥

शिवाग्निं पूर्ववत् कृत्वा मध्येचाहूयतद्वृषम् ।
पूर्वोक्तमूलमन्त्रेण हुत्वा तत्र शताहुतिम् ॥ ४०-२१ ॥

शिवाङ्गैः शैवमन्त्रेण हृदयादीनिसंस्पृशेत् ।
प्रभाते विमले तत्र पूर्णां हुत्वास्त्रमन्त्रतः ॥ ४०-२२ ॥

प्. २०३) * * स्वनाममन्त्रेण कलशैरभिषेचयेत् ।
वृषगायत्रि मन्त्रेण मध्यकुंभेनदेशिकः ॥ ४०-२३ ॥

गन्धपुष्पादिनायष्ट्वा मुत्गान्नं दापयेत् ततः ।
वृषयागं ततः कृत्वा नवसप्ताहपञ्च वा ॥ ४०-२४ ॥

त्रयाहैकाह्नमेवाथ उत्सवं विधिचोदितम् ।
प्रदक्षिणे वृषंपूर्वं कुर्यादन्यानि तत्समम् ॥ ४०-२५ ॥

वृषयागमिदं ख्यातं वह्नेः संस्थापनं शृणु ।

इति वृषभस्थापनविधिपटल चत्वारिंशत्तमः ॥ ४० ॥


अथ वह्निस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि वह्नेः संस्थापनं शृणु ।
परिवारेऽप्यथाग्नेय्यां विमाने पूर्ववत् कृते ॥ ४१-१ ॥

तत्र बेरन्तु कर्तव्यं पूर्वोक्तेन प्रमाणतः ।
हस्तमानेन वा चार्धकरेणैव तु पीठकम् ॥ ४१-२ ॥

त्रिमेखलं भवेत् पीठं पद्मपीठमथापि वा ।
पीठस्थं वाथबेरं वा प्रतिष्ठां सम्यगाचरेत् ॥ ४१-३ ॥

यत्ते नाद्यस्वरोपेतं प्रथमंबीजमिष्यते ।
रेफेणेकादशोपेतं द्वितीयं स्याच्चवह्निना ॥ ४१-४ ॥

द्वादशान्तस्वरोपेतं वह्निबीजं तृतीयकम् ।
शिखानां द्वादशान्तं यत् स्वरयुत्तञ्चतुर्थकम् ॥ ४१-५ ॥

जीवान्तबीजमुद्धृत्य कालेवह्निसमायुतम् ।
तेनैव नीलमायाभ्यां वह्नेः पिण्डन्तु पश्चिमे ॥ ४१-६ ॥

मौलिना भूषिताः सर्वे भुक्तिमुक्तिफलप्रदम् ।
वच्मीह वह्निरूपन्तु रक्तवर्णञ्चतुर्भुजम् ॥ ४१-७ ॥

वरदाभयहस्तञ्च * * * * * * * * ।
शक्तिः स्यादपरेवामे दक्षिणे तु सृचन्धरम् ॥ ४१-८ ॥

प्. २०४) एकाननं त्रिणेत्रञ्च रक्तकोशोर्ध्वमेव च ।
वह्निरूपं समाख्यातमेवन्धामनि विन्यसेत् ॥ ४१-९ ॥

यजने चाग्निमध्ये च पूर्वोक्तेन स्वरूपतः ।
संस्पृश्य होमयेद्धिमान् बीजै पिण्डैश्च पञ्चभिः ॥ ४१-१० ॥

धामाग्रमण्डपे रम्ये मध्ये वेदिसमन्वितम् ।
प्रागुक्तेन क्रमेणैव पञ्चाग्निं संप्रकल्पयेत् ॥ ४१-११ ॥

त्रेताग्नौ वाथकुर्वीत एकाग्निमथवा पुनः ।
लोहञ्चेद्रत्न विन्यासं कृत्वा नयनमोक्षणम् ॥ ४१-१२ ॥

जलाधिवासयेत् बिंबं शैलजे तु विशेषतः ।
ततोक्षिमोचनादींश्च बाह्ये कृत्वाथधामनि ॥ ४१-१३ ॥

प्रतिष्ठालग्नपूर्वे तु पीठेरत्नादिविन्यसेत् ।
निर्दोषां नवकुंभाश्च वर्धन्यां सहसूत्रके ॥ ४१-१४ ॥

संयोज्यगन्धतो येन पूरयित्वा सकूर्चकान् ।
वितानक्षौमपट्टाढ्या हेमरत्नसमन्वितान् ॥ ४१-१५ ॥

स्थण्डिलं वेदिकोर्ध्वे तु पद्मयुक्तसमन्वितम् ।
आलिख्यकर्णिकायान्तु प्रधानाख्यं पठं न्यसेत् ॥ ४१-१६ ॥

वर्द्धनीं तस्य वामे तु परितोष्टौ च दिक्षु च ।
अष्टकुंभांस्तु विन्यस्य विद्येशोमाशुशुक्षणीन् ॥ ४१-१७ ॥

स्वाहां देवीन्तु वर्धन्यां शिवं पूर्वपदं तदा ।
भास्करं वामकेकुंभे लोकेशां स्वस्वदिक्षु च ॥ ४१-१८ ॥

विन्यस्याभ्यर्च्य गन्धाद्यैः कुंभानां दक्षिणे तथा ।
संकल्प्यचासनं प्राग्वत् तस्मिन् बिंबं सुशाययेत् ॥ ४१-१९ ॥

आरभ्यचार्चनं ध्यानं ततो होमं समाचरेत् ।
शिवाग्निं पूर्ववत्कल्प्य सर्वकुण्डेषु बुद्धिमान् ॥ ४१-२० ॥

अग्निमूर्तिन्तु संकल्प्य समिधान्याज्यलाजकैः ।
तिलेन पञ्चबीजेन होमयेत् तु शतं शतम् ॥ ४१-२१ ॥

प्रभाते सुमुहूर्ते तु शयनात् बिंबमुद्धरेत् ।
समभ्यर्च्य तु गन्धाद्यैः कृत्वा धामप्रदक्षिणम् ॥ ४१-२२ ॥

स्नानवेद्यां न लोहं हि शैलञ्चेद्धाममध्यमे ।
पीठे वा न्यस्य बिंबन्तु रत्नन्यासादनन्तरम् ॥ ४१-२३ ॥

प्. २०५) हृदये पञ्चमंबीजं मुर्ध्निवक्त्रे च नाभिके ।
गुह्ये चैव तु शेषाणि बीजानि क्रमशो न्यसेत् ॥ ४१-२४ ॥

गन्धाद्यैरर्चयित्वा तु पद्ममुद्रां प्रदर्शयेत् ।
पूर्णाहुतिं ततो दद्यात् बीजैः पिण्डेन मन्त्रवित् ॥ ४१-२५ ॥

ततः कुंभान् सुमुद्धृत्य मध्ये कुंभन्तु पञ्चभिः ।
बीजैः पिण्डेनबिंबन्तु प्रागुक्तन्यासमार्गतः ॥ ४१-२६ ॥

तत्कुंभवर्धनीभ्यान्तु स्नापयेत् बीजपिण्डकैः ।
तत्कुंभस्थ जलैरेव स्नापयेत् स्वस्वमन्त्रकैः ॥ ४१-२७ ॥

यष्ट्वागन्धादिकैर्द्रव्यैः प्रदद्यात् तु महाहविः ।
देशिकं पूजयेत् तत्र वस्त्रहेमांगुलीयकैः ॥ ४१-२८ ॥

वह्निसंस्थापनं प्रोक्तं मातृणां स्थापनं शृणु ।

इति वह्निस्थापनविधिपटल एकचत्वारिंशत्तः ॥ ४१ ॥


अथ मातृस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि मातृणां स्थापनं परम् ।
नै-ऋतस्य वधार्थाय ब्रह्मणाचापि निर्मिताः ॥ ४२-१ ॥

ब्रह्माणीं ब्रह्मवत् कुर्यात् महेशीमिश्वरोपमाम् ।
कुमारवच्चकौ मारीं विष्णुवद्वैष्णवीं तथा ॥ ४२-२ ॥

क्रोधाननान्तु वाराहीं वामिनीं तु हलायुधाम् ।
चक्राणीं चक्रवत् कुर्यात् चामुण्डीमुग्ररूपिणीम् ॥ ४२-३ ॥

सुविकीर्णजटाभारां श्यामवर्णाञ्चतुर्भुजाम् ।
कपालशूलहस्ताञ्च चामुण्डीं कारयेत् ततः ॥ ४२-४ ॥

वरदाभयहस्तास्तु तत्तदायुधधारिणः ।
तत्तद्वर्णसमायुक्ता वाहनध्वजसंयुताः ॥ ४२-५ ॥

चतुर्भुजास्तु सर्वाश्च नलिनास्ताश्च संस्थिताः ।
वीरभद्रन्तु पूर्वे तु विघ्नेशं पश्चिमं दिशि ॥ ४२-६ ॥

प्. २०६) वीरासनस्थं वीरेशं विघ्नेशञ्च तथा कुरु ।
मृद्दारुशैल लोहैर्वा कृत्वा तु प्रतिमां बुधः ॥ ४२-७ ॥

रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् ।
नेत्रस्य मोक्षणं पश्चाच्छयने वाधिवासनम् ॥ ४२-८ ॥

शिखाग्नौ विधिवत् कृत्वा ध्यात्वा होमं समाचरेत् ।
स्थापयेत् सुमुहूर्ते तु सुनामाद्यैश्च मन्त्रतः ॥ ४२-९ ॥

मातृणां हविषं दत्वामातृगायत्रि मन्त्रतः ।
यामलोक्त क्रमेणैव मातृयायागं समाचरेत् ॥ ४२-१० ॥

मातृणां स्थापनं प्रोक्तं विघ्नेशस्थापनं शृणु ।

इति मात्रस्थापनविधिपटल द्विचत्वारिंशत्तमः ॥ ४२ ॥


अथ विघ्नेशस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि विघ्नेशस्थापनं परम् ।
आदौ त्वहमुमासार्धं क्रीडार्थं हिमवद्वने ॥ ४३-१ ॥

करेणुश्च गजेन्द्रेण संभोगमकरोत्ततः ।
यदृच्छया तु तन्दृष्ट्वा तदा कारमगामहम् ॥ ४३-२ ॥

करेण्वराकृतिञ्चोमां तदा क्रीडमहं भृशम् ।
तस्यान्तु गर्भमदधात् तस्मिन्काले तपोभवेत् ॥ ४३-३ ॥

महेश्वरसहस्रांशाद् दशांशं तत्तद्रूपकम् ।
एकोनविंशत्यर्णेन भान्तं वह्निसमायुतम् ॥ ४३-४ ॥

मनुस्त्रयो दशान्तञ्च बिन्दुनादसमन्वितम् ।
मूलमन्त्रमिदं ख्यातं विघ्नेशस्य महात्मनः ॥ ४३-५ ॥

द्वितीयस्य तृतीयेन एकमात्रस्वरान्वितम् ।
ब्रह्मजज्ञन्तु विख्यातं षडंगं दीपसंयुतम् ॥ ४३-६ ॥

अङ्गान्ते सविसर्गोत्र शेषस्तु स्वरसंयुतम् ।
आखुध्वजाय विद्महे इत्युक्त्वा तत्तदागुरुः ॥ ४३-७ ॥

प्. २०७) दन्तिहस्ताय धीमहे तन्नोदन्तिः प्रचोदयात् ।
फलदक्षिणहस्ते तु वमहस्ते स्वशृङ्गकम् ॥ ४३-८ ॥

पाशाङ्कुशोर्ध्व हस्ते तु गजहस्ते तु लड्डुकम् ।
करण्डमकुटं प्रोक्तं सर्वाभरणभूषितम् ॥ ४३-९ ॥

शिरश्चक्रप्रभां कृत्वा पद्मपीठोपपरि स्थितम् ।
डाडिमी पुष्पसंकाशं सर्वाभरणभूषितम् ॥ ४३-१० ॥

आसनं स्थानकं वापि कारयेद् विघ्ननायकम् ।
पञ्चतालप्रमाणेनमानेनोक्त प्रमाणकम् ॥ ४३-११ ॥

तन्मानं नवधा कृत्वा मुखमानं द्विभागतः ।
मेढ्रतन्तु चतुर्भागमुलूकातमिति स्मृतम् ॥ ४३-१२ ॥

जान्वन्तमेकभागेन नलकान्तं तदा भवेत् ।
चरणञ्चानुकर्णञ्च भागेनैकेन बुद्धिमान् ॥ ४३-१३ ॥

वाग्वायाम द्विभागन्तु मणिबन्धान्तकं यथा ।
हस्तायामाष्टतालैक हीनं तस्य प्रकोष्टकम् ॥ ४३-१४ ॥

हस्तादप्यर्धमायामं गजहस्तस्य कीर्तितम् ।
कर्णोत्तुङ्गन्तथैकांशं तत्पादोनं सुविस्मृतम् ॥ ४३-१५ ॥

कर्णतारोर्ध्वमानेन दन्तायाममिहोच्यते ।
नवाङ्गुलानि सर्वं तत्पूर्वोक्तेन प्रमाणतः ॥ ४३-१६ ॥

एवन्तु कथितं प्रोक्तं स्थापनञ्च शृणुष्व हि ।
कृत्वालयं तु पूर्वोक्तं प्रथमञ्चाथ बुद्धिमान् ॥ ४३-१७ ॥

प्रासादस्याग्रतः कुर्यात् मण्डपञ्चतुरश्रकम् ।
सर्वलक्षणसंयुक्ता वेदिका तस्य मध्यमे ॥ ४३-१८ ॥

विस्तारस्य त्रिभागैकं वेदिविस्तारमात्र वै ।
जानुमात्रन्तमुत्सेधं कुण्डानि परितः क्रमात् ॥ ४३-१९ ॥

रत्नन्यासं ततः कृत्वा जले चैवाधिवासयेत् ।
नेत्राणि नेत्रमन्त्रेण मोचयेत् तु यथा विधि ॥ ४३-२० ॥

वस्त्रैरास्तीर्यशयनं शाययेच्छयनोपरि ।
सर्वलक्षणसंयुक्तं सूत्रेणैव तु वेष्टितम् ॥ ४३-२१ ॥

सकूर्चं सा पिधानाञ्च सवस्त्रंवारिपूरितम् ।
सहिरण्यं न्यसेत् कुंभं गन्धपुष्पादिनार्चयेत् ॥ ४३-२२ ॥

प्. २०८) तद्रूपं मूलमन्त्रेण प्रत्यङ्गमंगसंयुतम् ।
ध्यात्वा कुम्भे तु विन्यस्य स्वापमुद्रां प्रदर्शयेत् ॥ ४३-२३ ॥

आवृतान् कलशानष्टौ लोकपालादिकान् क्रमात् ।
पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयैककम् ॥ ४३-२४ ॥

समिदाज्यं चरुंलाजान् सकूर्चं सर्षपं तथा ।
लड्डुकं गुलखण्डञ्च फलंक्षीरं तथैव च ॥ ४३-२५ ॥

शिवाग्निं पूर्ववद्ध्यात्वा गणेशं वह्निमध्यमे ।
विघ्नगायत्रि मन्त्रेण सर्वद्रव्याणिहोमयेत् ॥ ४३-२६ ॥

स्पर्शाहुतिं ततः कृत्वा तन्मन्त्रेणैव देशिकः ।
पूर्णाहुतिं ततो हुत्वा मूलमन्त्रं समुच्चरेत् ॥ ४३-२७ ॥

कलशस्थं यथा तत्वं प्रतिमायां तु विन्यसेत् ।
कलशैस्नाप्य विघ्नेशं गन्धपुष्पादिभिः सह ॥ ४३-२८ ॥

गुलोदनं तु हविषं फलयुक्तं निवेदयेत् ।
कर्तव्यमुत्सवं तन्त्र कर्मवित्तानुसारतः ॥ ४३-२९ ॥

त वै तत्स्थापनं प्रोक्तं स्कन्दस्य स्थापनं शृणु ।

इति गणेशस्थापनविधिपटलस्त्रिचत्वारिंशत्तमः ॥ ४३ ॥


अथ स्कन्दस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि स्कन्दस्य स्थापनं परम् ।
तस्योद्भवं समासेन शृणु पूर्वं गजानन ॥ ४४-१ ॥

देहत्यागे पितां दृष्ट्वा तद्योगमहमभ्यसन् ।
सतीचाङ्गं पुनर्गत्वा सुताहिमवतस्तथा ॥ ४४-२ ॥

गिरिपार्श्वे तपः कृत्वा तत्सुतापार्वती भवेत् ।
आवयोः संगमं तत्र देवैः संप्रार्थितोयतः ॥ ४४-३ ॥

रेतोवह्निस्तु संग्राह्य क्षिप्त्वाशरवणे च तु ।
तस्माच्छरवणोभावो नाम इत्यपि कीर्तितः ॥ ४४-४ ॥

प्. २०९) षट्कृत्तिकायां स्थपनं षण्मुखस्त्वभिधीयते ।
तेनैव कार्तिके यस्तु बालहीनां हि तत्भवेत् ॥ ४४-५ ॥

आदिशक्तेः सहस्रांशात् कुमारस्योदयस्तथा ।
पुराह्यखिलजं प्रोक्तमिदानीं स्थापनं शृणु ॥ ४४-६ ॥

प्रासादं विधिवत् कृत्वा प्रतिमान्तदनन्तरम् ।
शिलामृद्दारुलोहैर्वा नवतालेन मानयेत् ॥ ४४-७ ॥

द्विहस्तो वा चतुर्बाहुरष्टबाहुरथापि वा ।
द्विभुजं पद्महस्तन्तु वज्रंशक्तिं तथा परे ॥ ४४-८ ॥

अभयं वरदं पूर्वे चतुर्बाहुरिति स्मृतम् ।
खट्गखेटकमूर्ध्वे तु पाशं पद्मन्तथाष्टकम् ॥ ४४-९ ॥

आसनं स्थानकं वापि यानं वै त्रिविधं तथा ।
आसनं द्विभुजं प्रोक्तं स्थानकं स्याच्चतुर्भुजम् ॥ ४४-१० ॥

यानमष्टभूजे कुर्यात् स्थापनं परिवारके ।
स्कन्दं पद्मगजारूढमुपवीतसमन्वितम् ॥ ४४-११ ॥

डाडिमीपुष्पसंकाशं सर्वाभरणभूषितम् ।
सर्वलक्षणसंयुक्तं पूर्वोक्तेन विधानतः ॥ ४४-१२ ॥

विद्यामेधा च सहिते शुक्लश्यामनिभे तथा ।
सर्वालङ्कारसंयुक्ते द्विभुजे पद्मधारिके ॥ ४४-१३ ॥

स प्रतीकारमेवं हि प्रतिष्ठां शृणु तत्वतः ।
प्रासादस्य पूरस्तात् तु मण्डपे समलङ्कृते ॥ ४४-१४ ॥

रत्नन्यासन्तु कर्तव्यं जले नैवाधिवासनम् ।
कर्तव्यमक्षिमोक्षञ्च शयनंत्वधिवासनम् ॥ ४४-१५ ॥

कुंभं विन्यस्य तत्रैव कलशान्नावृतान् पुनः ।
प्राग्वत्संस्कृत्य कुंभानि स्कन्दमध्ये तु मूलतः ॥ ४४-१६ ॥

विन्यसेत् परितोमंत्री लोकेशान् स्वस्वबीजतः ।
नवपञ्चत्रयैकं वा होमन्तत्रैव पूर्ववत् ॥ ४४-१७ ॥

नवाग्निश्चेत्तु दिक्पाला स्कन्दोहोमाधिपा स्मृताः ।
शक्त्यन्तकजलाः सोम स्कन्दापञ्चाग्निमूर्तीपाः ॥ ४४-१८ ॥

प्. २१०) त्रेताग्निश्चोत्तमं चैव स्कन्दे होमाधिदेवता ।
मूलब्रह्मषडंगैश्च गायत्र्यागव्यवर्तकैः ॥ ४४-१९ ॥

हुत्वा यथा क्रमेणैव पूर्णाहुतिं तु मूलतः ।
स्कन्दगायत्रि मन्त्रेण स्पर्शाहुतिमथाचरेत् ॥ ४४-२० ॥

स्कन्दस्य मूलमन्त्रेण संस्थाप्य स्थापकोत्तमः ।
पञ्चमादि च सद्यान्तं मूर्ध्निन्यासो हृदाबुधः ॥ ४४-२१ ॥

उत्सवस्नपनं तत्र हविष्यन्तु निवेदयेत् ।
आचार्योमूर्तिपांश्चैव संपूज्यविधिवत् ततः ॥ ४४-२२ ॥

स्कन्दस्य स्थापनं प्रोक्तं ज्येष्ठाया स्थापनं शृणु ।

इति स्कन्दस्थापनविधिपटलश्चतुश्चत्वारिंशत्तमः ॥ ४४ ॥


अथ ज्येष्ठास्थापनविधि पटलः

अथातः संप्रवक्ष्यामि ज्येष्ठायाः स्थापनं परम् ।
आदिशक्तेः समुत्पन्ना पश्चादुदधिसंभवा ॥ ४५-१ ॥

उदधौमत्थ्यमाने तु चोत्थिता सा गजानन ।
कालाञ्जननिभा देवी सर्वाभरणभूषिता ॥ ४५-२ ॥

कररूढा कलेपत्नी सुखघ्नादुहितातनुः ।
जानुपार्श्वौ मणिर्वाथा वृषास्यं वृषभं तथा ॥ ४५-३ ॥

वृषभोरक्तवर्णन्तु मणिकाञ्चन स प्रभा ।
रूपाण्येतानि कृत्वा तु प्रतिष्ठां सम्यगाचरेत् ॥ ४५-४ ॥

रत्नन्यासं ततः कृत्वा तोयमध्ये निवासनम् ।
ततो क्षिमोचनं कृत्वा शयने चाधिवासनम् ॥ ४५-५ ॥

कुंभान्यत्रैव विन्यस्य पश्चाद्धोमन्तु पूर्ववत् ।
शिवाग्निं तत्र कृत्वा तु ज्येष्ठां वह्नौसमावहेत् ॥ ४५-६ ॥

प्. २११) ज्येष्ठाया मूलमन्त्रेण सर्वद्रव्याणि होमयेत् ।
संस्थाप्यसुमुहूर्ते तु हविष्यं दापयेत् ततः ॥ ४५-७ ॥

ज्येष्ठायाः स्थापनं प्रोक्तं दुर्गाया स्थापनं शृणु ॥

इति ज्येष्ठा स्थापनविधिपटलः पञ्चचत्वारिंशत्तमः ॥ ४५ ॥


अथ दुर्गास्थापनविधिपटलः

अथातः संप्रवक्ष्यामि दुर्गायाः स्थापनं परम् ।
आदिशक्तेः समुत्भूता विष्णुप्राणानुजा शुभा ॥ ४६-१ ॥

शंखचक्रधरा देवी धनुः सायकधारिणी ।
खट्गखेटकसंयुक्ता शूलपाशसमायुता ॥ ४६-२ ॥

चतुर्भुजं वा कुर्वीत सर्वाभरणभूषितम् ।
श्यामवर्णांसुवदनां महिषस्यशिरस्थिताम् ॥ ४६-३ ॥

सिंहारूढाञ्च वा कुर्यात् पद्मासनसमागताम् ।
आलयस्य पुरोभागे प्रपां कृत्वा सलक्षणाम् ॥ ४६-४ ॥

रत्नन्यासन्तु तत्रैव जले चैवाधीवासयेत् ।
मन्त्रपक्ष्माक्षिमोक्षन्तु कृत्वा प्रतिसरंबुधः ॥ ४६-५ ॥

संकल्पशयनादीनां शाययेत् प्रतिमन्त्रतः ।
कुंभमन्त्रैश्च विन्यस्य ध्यात्वा तद्रूपमात्मनि ॥ ४६-६ ॥

आवृतान् कलशान् स्थाप्य लोकपालांश्च विन्यसेत् ।
होमं पञ्चत्रयैकं वा प्रागुक्तद्रव्यसंयुतम् ॥ ४६-७ ॥

वह्निमध्ये तु देवेशिमाहूयाज्यादिभिर्बुधः ।
आज्यञ्चरुं तथा लाजानौदुंबरसमित्तथा ॥ ४६-८ ॥

दुर्गायामूलमन्त्रेण होमयेद्देशिकोत्तमः ।
देविमुत्थाप्य शयनात् स्नानवेद्युपरिन्यसेत् ॥ ४६-९ ॥

प्. २१२) कुम्भन्दत्वा तथा बीजं मूलमन्त्रेण योजयेत् ।
संस्नाप्य कलशैः पश्चात् प्रभूतहविषं तथा ॥ ४६-१० ॥

दुर्गास्थापनमेवोक्तं चण्डेशस्थापनं शृणु ।

इति दुर्गास्थापनविधिपटलः षट्चत्वारिंशत्तमः ॥ ४६ ॥


अथ चण्डेशस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि चण्डेशस्थापनं परम् ।
उद्भवं प्रथमन्तस्य द्वितीयं स्थापनं क्रमात् ॥ ४७-१ ॥

रुद्रस्यैव तु रुद्रांशं तत्सर्वं चण्डनामतः ।
गणेशावरणे स्थित्वा दशांशेना युतेन तु ॥ ४७-२ ॥

प्रचण्डादिविनिष्क्रान्ता पञ्चमूर्तिर्विधानतः ।
प्रचण्डचण्डः प्रथमं ततो विक्रान्त चण्डगः ॥ ४७-३ ॥

तृतीयो भुविचण्डस्तु वीरचण्डश्चतुर्थकः ।
एवं वै पञ्चचण्डेशा पञ्चब्रह्मसमुद्भवा ॥ ४७-४ ॥

कृतयुगाधिपत्यं तु प्रचण्डमिदमुच्यते ।
विक्रान्तचण्डनामा तु त्रेतायामधिप स्मृतः ॥ ४७-५ ॥

द्वापरे चाधिपत्यं हि विभुश्चण्डेश उच्यते ।
कलौ तु वीरचण्डेश स्वाधिपत्यं प्रकीर्तितम् ॥ ४७-६ ॥

एवं वै पञ्चभेदेन चण्डनामविधीयते ।
आलयस्यैश दिक्भागे विमानं पूर्ववत् क्रमात् ॥ ४७-७ ॥

त्रिणेत्रं चतुर्भुजं वापि द्विनेत्रं द्विभुजं तु वा ।
भमंजटासमायुक्तं सर्वाभरणभूषितम् ॥ ४७-८ ॥

अभयं शान्तदेहञ्च पाशं वै परशुं तथा ।
द्विभुजं यदिकर्तुञ्चेच्छान्तटंकायुतं तथा ॥ ४७-९ ॥

शुक्लयज्ञोपवीतञ्च शुक्लांबरधरं तथा ।
स्नानकञ्चासनं प्रोक्तं पूर्वोक्तविधिना ततः ॥ ४७-१० ॥

प्. २१३) चलस्थापनवत् सर्वं यथा युक्त्याथकारयेत् ।
स्वनामाद्यक्षरं यत्तु तस्यतन्मूलमन्त्रकम् ॥ ४७-११ ॥

तस्य ह्रस्वांश्च दीर्घांश्च ब्रह्मांगस्तु विनिर्दिशेत् ।
शिवार्चने तु तस्यैव दशार्णं मूलबीजतः ॥ ४७-१२ ॥

चण्डेश स्थापनं प्रोक्तं इद्रादि स्थापनं शृणु ।

इति चण्डेशस्थापनविधिपटलः सप्तचत्वारिंशत्तमः ॥ ४७ ॥


अथ चक्रादिस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि चक्रादिस्थापनं परम् ।
इन्द्रमैन्द्रे तु मतिमांस्त्विन्द्रो वज्रांकुशोधरात् ॥ ४८-१ ॥

श्यामाङ्गन्तु गजारूढमप्सरोगणसंयुतम् ।
कृत्वा चाग्निमजारूढं रक्ताभं रक्तलोचनम् ॥ ४८-२ ॥

शिखाभिरूर्ध्वगाभिश्च युक्तिशक्तिस्रवन्धरम् ।
यमं सुदण्डहस्तन्तु महिषासनसंस्थितम् ॥ ४८-३ ॥

करालं कालवर्णञ्च फलपल्लवपाणिनम् ।
खट्गखेटकसंयुक्तं नि-ऋतिश्यामवर्णकम् ॥ ४८-४ ॥

करालं विकृताकारं सिंहारूढं द्विनेत्रकम् ।
वरुणं पाशहस्तन्तु शुक्लवर्णसमप्रभम् ॥ ४८-५ ॥

अन्यहस्तेन वरदं सर्वाभरणभूषितम् ।
अनिलन्धूम्रवर्णन्तु मृगारूढन्धवं ध्वजम् ॥ ४८-६ ॥

सव्येंकुशधरं स्यामञ्चात्मानं विधिवत् गतम् ।
त्वक्षेशन्तु गदाहस्तं श्यामरूपं भयावहम् ॥ ४८-७ ॥

द्विबाहुं रक्तवस्त्राढ्यं रक्ताक्षं पद्मपाणिनम् ।
ईशानन्तु चतुर्बाहुं त्रिणेत्रं तु जटाधरम् ॥ ४८-८ ॥

शूलपाणिं वृषारूढं वरदाभयपाणिनम् ।
कृत्वा वीणाधरं देवं ब्रह्मविष्णू च पूर्ववत् ॥ ४८-९ ॥

प्. २१४) अर्यमाचेन्द्र वरुणौ पूषाविष्णुर्भगस्तथा ।
अजघ्न्योजघन्यञ्च मित्रोधाता इति स्मृताः ॥ ४८-१० ॥

विवस्वांश्चैव फर्जन्यात्वादित्या द्वादश स्मृताः ।
द्विभुजा पद्महस्ताश्च रक्तपद्मासने स्थिताः ॥ ४८-११ ॥

रश्मिमण्डलसंयुक्ता सुरक्तालोकनायकाः ।
ना सत्यश्चैव दस्रश्च अश्विनौतौ प्रकीर्तितौ ॥ ४८-१२ ॥

शुक्लवस्त्रधरौष्णीषौ पुष्तकाभयपाणिनौ ।
सोत्तरीयौ स्वरूपौ च शुक्लहेमनिभौ तथा ॥ ४८-१३ ॥

कुंभिनीग्रन्धिनी कूर्चकुट्टिनि च विकारिणि ।
रुद्राणी च विकारी च रोहिण्याः सप्तकीर्तितः ॥ ४८-१४ ॥

नागाभरणसंयुक्ताः केशभारविभूषिताः ।
नागहस्ता स्वरूपास्तु वरदाभयपाणिकाः ॥ ४८-१५ ॥

पितापितामहौ चैव प्रपितामह एव च ।
पितरस्तूयमानास्तु तेषां वै लक्षणं शृणु ॥ ४८-१६ ॥

सुदृढा पीतकर्णास्तु च्छत्रदण्डधरास्तथा ।
शुक्लवस्त्रै परिच्छन्नाः कीर्तिता पितरस्त्रयः ॥ ४८-१७ ॥

रंभा च विपुला चैव उर्वशी च तिलोत्तमाः ।
मध्यक्षामसमायुक्ताः पीनोरुजघनस्तनाः ॥ ४८-१८ ॥

भृगुश्चैव वसिष्ठश्च पुलस्त्यः पुलहः कृतुः ।
काश्यपः कौशिकाश्चैव आंगिरामुनयस्त्विमे ॥ ४८-१९ ॥

सुवल्कलाजटायुक्ताः सुमुखादंशहस्तका ।
कट्या च मण्डिताकारा शुक्लवस्त्रधराः शुभाः ॥ ४८-२० ॥

पिङ्गला च स नेत्राश्च पत्नयः सप्तकीर्तिताः ।
धरोधृवस्तथा सोमसावित्रस्त्वनिलोनलः ॥ ४८-२१ ॥

प्रत्युषश्च प्रभावश्च सुदंष्ट्राभीमरूपकाः ।
खट्गखेटकहस्तास्तु कुञ्चितभ्रूसुलोचनाः ॥ ४८-२२ ॥

सर्वाभरणसंयुक्ता चित्रवस्त्राधरास्तथा ।
रक्तवस्त्रधरापिताः प्रोक्ता वै वस्त्रतास्त्विह ॥ ४८-२३ ॥

प्. २१५) गीरिशातोगिरीशश्च केशनाशस्तथैव च ।
भूतकासास्तदेकश्च बुद्धिर्भवन एव च ॥ ४८-२४ ॥

कपालीशो ह्यजोबुद्धच्छद्रमौली प्रकीर्तिता ।
भस्मोद्धुलित देहाश्च शूलपाशधरास्तथा ॥ ४८-२५ ॥

त्रयस्त्रिंशतिमेदे वा लोकपालास्त्रसंयुतम् ।
प्रोक्तवर्णाभिधानाश्च सर्वेषां स्थापनं शृणु ॥ ४८-२६ ॥

चलस्थापनवत् सर्वमेकैकं तु विशेषतः ।
अथवान्य प्रकारेण स्थापनन्तु विधीयते ॥ ४८-२७ ॥

तेषां वै मण्डपादीनि कर्माणि च सहैव तु ।
प्रत्येकं कुंभमेवन्तु प्रत्येकाग्निं विशेषतः ॥ ४८-२८ ॥

कारयेत् स्वस्वमन्त्रेण स्थापयेत् तु पृथक् पृथक् ।
इन्द्रादि स्थापनं प्रोक्तं आदित्यस्थापनं शृणु ॥ ४८-२९ ॥

इति चक्रादिस्थापनविहिपटल अष्टचत्वारिंशत्तमः ॥ ४८ ॥


अथ आदित्यस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि आदित्यस्थापनं परम् ।
अदितेः पुत्रभावत्वादादित्यस्यति चोच्यते ॥ ४९-१ ॥

ईश्वरस्यार्धभागे तु जगश्चक्षुरिति स्मृतः ।
द्विभुजं सौम्यमित्युक्वा तस्मात् सौम्यन्तु पूजयेत् ॥ ४९-२ ॥

सर्वसिद्धिं समन्विच्छेत् ग्राममध्ये विशेषतः ।
आलये वामपार्श्वे तु विभवार्थाय देशिकः ॥ ४९-३ ॥

प्रासादं विधिना कृत्वा चाश्वाकर्णसमायुतान् ।
मूर्तयस्तु चतुर्दिक्षु सूर्याक्षविभवानुगाः ॥ ४९-४ ॥

रक्तं श्वेतञ्च पीतञ्च श्यामं सूर्यादिवर्णकम् ।
शिल्पालङ्कारसंयुक्तं प्रासादलक्षणान्वितम् ॥ ४९-५ ॥

ग्रामस्याभिमुखद्वारमालये पश्चिमे मुखम् ।
काष्ठलोहशिलाकृत्भिः कृत्वा तु प्रतिमां ततः ॥ ४९-६ ॥

प्. २१६) द्विभुजं पद्महस्तन्तु रक्तवर्णं स्वरूपकम् ।
करण्डमकुटोपेतं सर्वाभरणभूषितम् ॥ ४९-७ ॥

मकुटद्विगुणन्तारं प्रभामण्डलमध्यमम् ।
उषाश्च प्रत्युषादेवी सव्यासव्ये तु संस्थितः ॥ ४९-८ ॥

अरुणञ्चाग्रतः कृत्वा पङ्कजं तत्स्वरूपकम् ।
सप्ताश्वरथमध्यस्थं भास्करं पापनाशनम् ॥ ४९-९ ॥

रक्तपद्मासनस्थं हि आसनं तत्र कल्पयेत् ।
पूर्वोक्तविधिना सर्वमादित्यं परिकल्पयेत् ॥ ४९-१० ॥

मृण्मयं यदिकुर्वीत दैविके प्रतिमं तथा ।
शूलरज्जुमृदाद्यैस्तु वर्णभेदं सुशिल्पिकम् ॥ ४९-११ ॥

कर्माच्च मध्यमे स्थाप्य शैलजं वाथलोहकम् ।
रत्नादि स्थापनान्तञ्च संक्षेपाच्छृणु सांप्रतम् ॥ ४९-१२ ॥

आलयस्याग्रतः कृत्वा मण्डपंविधिनान्वितम् ।
तन्मध्ये वेदिकां कुर्यात् तत्त्रिभागेति विस्तरात् ॥ ४९-१३ ॥

हस्तमात्रप्रमाणञ्च दर्पणोदरसन्निभम् ।
कुण्डानिपरितः कृत्वा मृदा वा वालुकैश्च वा ॥ ४९-१४ ॥

शालिभिस्थण्डिलङ्कृत्वा रत्नन्यासायदेशिकः ।
रत्नानामप्यलभे तु मौक्तिकं तु निधापयेत् ॥ ४९-१५ ॥

उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः ।
वस्त्रेण वेष्टयित्वा तु जले चैवाधिवासनम् ॥ ४९-१६ ॥

नीत्वा जलोषितं बिंबं संस्नाप्य पञ्चगव्यकैः ।
हेमसूच्याथमधुना नेत्रं नेत्रेणमोचयेत् ॥ ४९-१७ ॥

बध्वा प्रतिसरं मंत्रीशयने चाधिवासयेत् ।
उत्तराच्छादनं कृत्वा दर्भैर्वस्त्रैः समन्ततः ॥ ४९-१८ ॥

शयनस्य च दिक्भागे कुंभंवस्त्रेण वेष्टयेत् ।
सकूर्चान् सापिधान् कुंभान् गन्धाद्यैर्विधिना यजेत् ॥ ४९-१९ ॥

ध्यात्वा तत्तत् स्वरूपाञ्च * * * * * * * * ।
आवृतान् कलशानष्टौ लोकपालाधिकान् क्रमात् ॥ ४९-२० ॥

प्. २१७) वस्त्रकूर्च पिधानाद्यै स्थापयित्वा पृथक् पृथक् ।
पच्छाद्धोमन्तु कर्तव्यं नवपञ्चत्रयन्तु वा ॥ ४९-२१ ॥

शिवाग्निं पूर्ववद् ध्यात्वा न्यस्त्वा चाद्यन्तु मध्यमे ।
समिदाज्यचरूं लाजान् सक्तुसर्षपमेव च ॥ ४९-२२ ॥

सूर्यगायत्रि मन्त्रेण सर्वद्रव्याणि होमयेत् ।
स्पर्शाहुतिं ततः कृत्वा तन्मूलेन तु देशिकः ॥ ४९-२३ ॥

प्रभाते सुमुहूर्ते तु पूर्णां दत्वा स्वमन्त्रतः ।
आचार्यं पूजयेत् तत्र वस्त्रहेमाङ्गुलीयकैः ॥ ४९-२४ ॥

शयनात् बिंबमुत्थाप्य स्नानवेद्यामथानयेत् ।
घृतः शिरोर्पणं कृत्वा नीत्वाकुंभन्तु सन्निधौ ॥ ४९-२५ ॥

कुंभस्थन्तु यथा देवं प्रतिमाया हृदिन्यसेत् ।
संस्थाप्य कलशैरेव गन्धपुष्पादिनार्चयेत् ॥ ४९-२६ ॥

प्रभूतं हविषं दत्वा मूलमन्त्रेण देशिकः ।
प्रारभेदुत्सवं तत्र कर्तावित्तानुसारतः ॥ ४९-२७ ॥

तदुत्सवविधौ सर्वमाहशास्त्रे तु चोदितम् ।
आदित्य स्थापनं प्रोक्तं क्षेत्रपालविधिं शृणु ॥ ४९-२८ ॥

इति आदित्यस्थापनविधिपटल एकोनपञ्चाशत्तमः ॥ ४९ ॥


अथ क्षेत्रेशस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि क्षेत्रेशस्य विधिक्रमम् ।
ईश्वरस्यायुतांशेन क्षेत्रपालोद्भवं तथा ॥ ५०-१ ॥

ग्रामादा वै शदिग्भागे लोकरक्षार्थकारणम् ।
प्रासादं प्रतिमां तत्र पूर्वोक्तविधिना तथा ॥ ५०-२ ॥

द्वारन्तु पश्चिमे मुख्यं दक्षिणे मध्यमं स्मृतम् ।
कन्यसञ्चेन्द्रदिक् द्वारं प्रतिमालक्षणं ततः ॥ ५०-३ ॥

प्. २१८) चतुर्भुजं त्रिणेत्रं वा षट्भुजञ्चाष्टहस्तकम् ।
सुदंष्ट्रं भैरवाकारं कृष्णवर्णं दिगंबरम् ॥ ५०-४ ॥

सर्पयज्ञोपवीतञ्च शिरोमालाकरोटिकम् ।
ऊर्ध्वकेशं सुवृत्ताक्षं नागाभरणभूषितम् ॥ ५०-५ ॥

त्रिशूलं दक्षिणेहस्ते वामहस्ते कपालकम् ।
खट्गञ्च दक्षिणेहस्ते वामहस्ते तु खेटकम् ॥ ५०-६ ॥

एवं चतुर्भुजं विद्धि षत्भूजञ्च ततः शृणु ।
नागञ्च दक्षिणेपाणौ तोमरं वामहस्तके ॥ ५०-७ ॥

प्रागुक्तायुधसंयुक्तं षट्भूजं त्विति कीर्तितम् ।
शूलं डमरुखट्वांगं दक्षिणे वामहस्तके ॥ ५०-८ ॥

एवमष्टभुजं प्रोक्तं षट्भुजायुधसन्निभम् ।
जलस्थापनवत् कृत्वा रत्नन्यासादि पूर्वकम् ॥ ५०-९ ॥

क्षेत्रपालं स्वमन्त्रेण प्रतिष्ठां सम्यगाचरेत् ।
क्षेत्रपालाधिकं प्रोक्तं शूलस्थापनकं शृणु ॥ ५०-१० ॥

इति क्षेत्रेशस्थापनविधिपटलः पञ्चाशत्तमः ॥ ५० ॥


अथ शूलस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि शूलस्थापनकं परम् ।
सदाशिवस्य देवस्य चेतनांशूलमुच्यते ॥ ५१-१ ॥

सर्वदेवमयं शूलं लक्षणं शृणु सांप्रतम् ।
प्रासाद तुङ्गकं वापि त्वथवास्तंभमानकम् ॥ ५१-२ ॥

पादात् पादाधिकं वापि पादार्धं पादमेव वा ।
अधिकं व्योममित्युक्तं तद्विहीनं विशेषतः ॥ ५१-३ ॥

तदुत्सेधदशांशैकं पत्रविस्तारमुच्यते ।
तदर्धं नालविस्तारं तच्चतुर्थं घनं स्मृतम् ॥ ५१-४ ॥

प्. २१९) पार्श्वपत्रेद्वयोरग्रे चूतपत्राग्रवत् कृतम् ।
पत्रतारं त्रिभागेन पत्राणान्तु घनं स्मृतम् ॥ ५१-५ ॥

घनस्यार्द्धांशमेवोक्तं पत्राणान्तु घनं भवेत् ।
तदूर्ध्वन्तारद्विगुणं फलका चतुरश्रकम् ॥ ५१-६ ॥

तदष्टांशं घनं प्रोक्तं तस्याधः कुंभमिष्यते ।
फलकाकार नाहार्धं कुंभ तुङ्गन्तदर्धकम् ॥ ५१-७ ॥

कुंभाधश्चोर्ध्वतश्चापि कर्णनाहं नवांशकम् ।
कुंभनाहाष्टभागेन कर्णनाहमिति स्मृतम् ॥ ५१-८ ॥

कुंभार्धं तदधस्ताच्च तदर्धोदण्डपञ्जरम् ।
दारुजञ्चेत् तु कर्तव्यं लोहजञ्चेत् परं विना ॥ ५१-९ ॥

फलकातारपञ्चांशं त्रिभागं दण्डनाहकम् ।
मूलाधस्तासिकान्तं यत्तन्मानं पीठ तुङ्गकम् ॥ ५१-१० ॥

तदुत्सेधस्य पञ्चांशं त्रियंशंपीठविस्तरम् ।
अब्जाकारञ्चतुरश्रं पीठाकारं तथा स्मृतम् ॥ ५१-११ ॥

अष्टांशं वीभजी कृत्वा त्वैकांशेन तु कर्णिका ।
चतुरंशं दलोत्तुङ्गं दलाग्रञ्चैकभागतः ॥ ५१-१२ ॥

पञ्चभागञ्चतुरश्रं भागादिपाद्य तुङ्गता ।
पीठस्य घनमाख्यातं फलकायाघनार्धकम् ॥ ५१-१३ ॥

ततो दारुमयैर्दण्डैः पीठोर्ध्वे दण्डपञ्जरम् ।
दारुदण्डस्य मध्ये तु योगपट्टेन तां दृढम् ॥ ५१-१४ ॥

शूलाग्रमुखसंज्ञाथ मध्यपत्रेब्जमालिखेत् ।
एवं शूलास्त्रमापाद्य ततस्थापनमारभेत् ॥ ५१-१५ ॥

जलाधिवासनं स्नानं कृत्वा मण्डपसंस्कृतिम् ।
वस्त्रैराच्छाद्य शूलन्तु स्थण्डिले शयनो परि ॥ ५१-१६ ॥

न्यस्त्वा शूलाधिपां देवानर्चयित्वा यथाक्रमम् ।
कलशां विन्यसेत् तत्र शूलास्त्राधिपसंयुतान् ॥ ५१-१७ ॥

सकूर्चानस्त्रसंयुक्तान् तदा युधांश्च बैजिकान् ।
तत्तदग्नौ हुतं हुत्वा तत्तन्मन्त्रैस्तु बुद्धिमान् ॥ ५१-१८ ॥

प्. २२०) सुमुहूर्ते सुलग्ने तु तत्तन्मन्त्राणि संस्मरन् ।
मध्यपत्राधिपो रुद्रो दक्षिणे तु पितामहः ॥ ५१-१९ ॥

वामपत्रे तथा विष्णु स्त्रिपत्राणां तु देवताः ।
वामा ज्येष्ठा च रौद्री च शूलमूले तु देवताः ॥ ५१-२० ॥

फलका स्कन्ददैवत्यं कुंभे तु वरुण स्थिताः ।
तदर्धञ्चाग्नि दैवत्यं दण्डैश्चैव सरस्वती ॥ ५१-२१ ॥

पीठे चैवमुमादेवी भूमिभागे वसुन्धरा ।
स्थापयेत् क्रमशोविद्वान् गन्धपुष्पाक्षतान्वितम् ॥ ५१-२२ ॥

स्वनामाद्येन बीजेन कलशैरभिषेचयेत् ।
अभ्यर्च्य हृदये नैव हविष्यन्तु निवेदयेत् ॥ ५१-२३ ॥

शूलसंस्थापनं प्रोक्तमस्त्रराजविधिं शृणु ।

इति शूलस्थापनविधिपटल एकपञ्चाशत्तमः ॥ ५१ ॥


अथ अस्त्रराजविधिपटलः

अथातः संप्रवक्ष्यामि अस्त्रराजस्य पूजनम् ।
चतुर्भुजं त्रिणेत्रञ्च शिखाकूटसमुज्वलम् ॥ ५२-१ ॥

वामसव्ये च शूलन्तु वरदाभयहस्तकम् ।
रौद्रपाशुपतं ह्येवं बलिबिंबन्तथोच्यते ॥ ५२-२ ॥

स्थानकञ्चासनं वापि प्रभावीं समन्वितम् ।
कृत्वैवं प्रतिमां तत्र पूर्वोक्तेन प्रमाणतः ॥ ५२-३ ॥

जलस्थापनवत् सर्वं रत्नादिस्थापनान्तकम् ।
तन्मन्त्रेणैव संस्थाप्य अन्यत् सर्वं समं भवेत् ॥ ५२-४ ॥

अस्त्रराजविधिः प्रोक्ता शास्त्रसंस्थापनं शृणु ।

इति अस्त्रराजविधिपटल द्विपञ्चाशत्तमः ॥ ५२ ॥


अथ शास्त्रस्थापनविधिपटलः

अथातः संप्रवक्ष्यामि शास्त्रस्थापनमुत्तमम् ।
शास्ता सर्वस्य लोकस्य तस्माच्छास्तेति चोच्यते ॥ ५३-१ ॥

तस्योक्तञ्च स्वरूपञ्च स्थापनञ्च शृणुष्व हि ।
समुद्रमथने काले परिग्रह्यामृतं तथा ॥ ५३-२ ॥

हरिर्बभूवस्त्रीरूपा मोहीनीनामनामतः ।
तन्मोहिनी महंदृष्ट्वा सङ्गतोस्मि कदाचन ॥ ५३-३ ॥

जातस्तदा महाशास्ता मेद्ध्याहाम्रवतीश्वराः ।
द्विनेत्रं द्विभुजं कृत्वा सर्वाभरणभूषितम् ॥ ५३-४ ॥

श्यामवर्णयुतं तेषां शुक्लयज्ञोपवीतिनम् ।
श्वानकुक्कुटमेषाद्यैः क्रिडन्तं सर्वसिद्धिदम् ॥ ५३-५ ॥

मदनावर्णनी देवौ पीतौरससमन्वितौ ।
सर्वाभरणसंयुक्तौ पार्श्वयोर्विन्यसेत् ततः ॥ ५३-६ ॥

वामे दमनकं न्यस्त्वा ते द्वेषं विकृतं स्मृतम् ।
द्विभूजं दक्षिणेहस्ते चक्रदण्डमथेश्वरम् ॥ ५३-७ ॥

फलपल्लवहस्तञ्च कुञ्चितां घ्रिकरं द्वयम् ।
भूताकारं बृहत्कुक्षिं निलालकविभूषितम् ॥ ५३-८ ॥

शास्तुश्च लक्षणं प्रोक्तं स्थापनं शृणु तत्वतः ।
प्रासादे नै-ऋते भागे ग्रामादीनाञ्च नै-ऋते ॥ ५३-९ ॥

अष्टदिक्षु च पूर्वादि तत्ग्रामस्य पराङ्मुखम् ।
प्रासादं कारयेद्धिमान् गजपृष्ठं विशेषतः ॥ ५३-१० ॥

अथवामण्डलं वापि कर्तव्यं प्रतिमां ततः ।
भद्रासने त्वधासीनं तथा वीरासनं तु वा ॥ ५३-११ ॥

मृद्दारुशैललोहैश्च कारयेच्छास्त्रवित्तमः ।
शैलस्थापनवच्छेषं मन्त्रध्यानमथोक्तवत् ॥ ५३-१२ ॥

तस्मादाद्याक्षरेणैव मूलमन्त्रप्रयोगवत् ।
अग्निमध्ये तु तद्रूपं ध्यात्वा होमन्तु मन्त्रवित् ॥ ५३-१३ ॥

प्. २२२) तद्रूपभावनाविष्टा स्थापनादिसमाचरेत् ।
तद्रूपं कौतुकं स्थाप्यमूलबेरस्य चाग्रतः ॥ ५३-१४ ॥

लोहादीनि तथा कार्यं मृच्छिलादीनि कारयेत् ।
अर्चयित्वाथ विधिना हविष्यन्तु निवेदयेत् ॥ ५३-१५ ॥

शास्तुः संस्थापनं ह्येवं जीर्णोद्धारविधिं शृणु ।

इति शात्रस्थापनविधिपटलस्त्रिपञ्चाशत्तमः ॥ ५३ ॥


अथ जीर्णोद्धारविधिपटलः

अथातः संप्रवक्ष्यामि जीर्णोद्धारविधिक्रमम् ।
जीर्णदेही यथा देहं त्यक्त्वान्यं प्रतिपद्यते ॥ ५४-१ ॥

तथा जीर्णञ्च चलितं बेरन्मुञ्चति देवता ।
एवमादीनि सर्वाणि राक्षसाद्याविशन्ति हि ॥ ५४-२ ॥

राक्षसाश्चासुराश्चापि पिशाचा ब्रह्मराक्षसाः ।
तस्मात् सर्वप्रयत्नेन जीर्णोद्धारं तु कारयेत् ॥ ५४-३ ॥

प्रासादं प्रथमं लिङ्गं पीठं प्राकारमण्डपम् ।
गोपुरं परिवारञ्च जीर्णकाले ततोद्धरेत् ॥ ५४-४ ॥

स्थूपीनासि च शाला च कपोतं कूटपञ्जरम् ।
पादाधिष्ठानसंयुक्तं यद्धिनन्तद्विवर्जयेत् ॥ ५४-५ ॥

विमानं पूर्ववत् कृत्वा प्रोक्षणं विधिवत् कुरु ।
तेष्वैकाङ्गविहीनश्चेत् तत् कुर्यात् पूर्ववत् बुधः ॥ ५४-६ ॥

आलयानामिदं प्रोक्तं प्रतिमानां ततः शृणु ।
भ्रूरेखा च क्षुरेखा च नासिका चापिनाक्षयेत् ॥ ५४-७ ॥

ससूत्राणाञ्च लिङ्गे तु रेखाश्राणां तु पीठके ।
अन्याङ्गानां क्षयं दृष्ट्वा पीठे लिङ्गविशेषतः ॥ ५४-८ ॥

उत्तरे जीर्णलिङ्गन्तु तस्योद्धारक्रमं शृणु ।
मण्डलं वर्तयेद्धीमान् शिवलिङ्गस्य दक्षिणे ॥ ५४-९ ॥

प्. २२३) संकल्प्यासनमाराध्य बाह्यपूजां समारभेत् ।
मन्त्रपूतं हविर्दद्यात् तदग्रेऽग्न्यानने कृते ॥ ५४-१० ॥

दूर्वाभुक्ति घृतैर्वापि क्षीरेण तिलतण्डुलैः ।
दशात्मनाशिवाङ्गैश्च पञ्चब्रह्मषडङ्गकैः ॥ ५४-११ ॥

प्रत्येकं शतमर्द्धं वा होमयेत् पञ्चविंशतिः ।
लिङ्गस्या चलनार्थाय मूलेनैव शताहुतिः ॥ ५४-१२ ॥

दद्यात् पूर्णाहुतिं तत्र सहस्राक्षरमन्त्रतः ।
तद्वल्कलेन सम्मिश्रं गोवालकृतरज्जुना ॥ ५४-१३ ॥

कर्तुर्वर्णानुरूपञ्च वृषभं लक्षणान्वितम् ।
तरुणं बलवन्तञ्च भूषयेत् भूषणार्हकैः ॥ ५४-१४ ॥

रज्जुनाबध्यतल्लिङ्गं ककुदग्रे वृषस्य तु ।
तद्रज्जुनासुबध्वा तु बहुरूपमनुस्मरन् ॥ ५४-१५ ॥

तल्लिङ्गमुद्धरेन्मंत्री वृषभेण शिवेन च ।
देशिकं पूजयेत् तत्र वस्त्रैः सौवर्णभूषणैः ॥ ५४-१६ ॥

आरोप्यजीर्णलिङ्गन्तु शिबिकायां रथेपि वा ।
शङ्खकाहलवाद्यैश्च कुर्याच्छब्दं महारवैः ॥ ५४-१७ ॥

आवृतं शिवभक्तैस्तु स्तुतिस्तोत्रसमन्वितम् ।
समुन्द्र प्रक्षिपेल्लिङ्गं नमस्कारान्तमन्त्रकैः ॥ ५४-१८ ॥

तटाकादिष्वशोष्येषु खात्वोर्व्यां वाथनिक्षिपेत् ।
दारुजञ्चेदथाग्नौ तु जले लिङ्गं व्यपोह्य च ॥ ५४-१९ ॥

प्रतिलिङ्गञ्च पीठञ्च कृत्वा पूर्वोक्तलक्षणैः ।
स्थापयेद्विधिनाधीमां नृपराष्ट्रहिताय वै ॥ ५४-२० ॥

जीर्णोद्धारे कृतं सर्वं मण्डलस्थाय शंभवे ।
विज्ञापयेत् प्रणम्यादौ शिवमस्त्विति चोच्चरेत् ॥ ५४-२१ ॥

शिवं प्राग्वत् समभ्यर्च्य शिवास्त्रन्तु विसर्जयेत् ।
तस्याच्छिद्रापनोदार्त्थमघोरास्त्रेण मन्त्रवित् ॥ ५४-२२ ॥

आज्येनाष्टशतं हुत्वा व्याहृत्याहुतिमाचरेत् ।
अग्निस्थं शिवमुद्वास्य होमशेषं समापयेत् ॥ ५४-२३ ॥

प्. २२४) सकलानि च जीर्णानि उद्धरे देवमेव तु ।
वृषं विना चलानान्तु क्रमादेवं समुद्धरेत् ॥ ५४-२४ ॥

मृद्दारुरूपबिंबानि उद्धृत्याशुविनिक्षिपेत् ।
उद्धृते लोहबिंबे तु तद्रव्येण पुनर्नवम् ॥ ५४-२५ ॥

कुर्यात् सामान्यमेवन्तु विशेषमधुना शृणु ।
द्रव्योत् कृष्टेन कर्तव्यं तत्प्रमाणाधिकं तथा ॥ ५४-२६ ॥

इतरन्तु न कर्तव्यं कृतञ्चेत् कर्तृनाशनम् ।
प्राकारमण्डपादीनां यज्जीर्णन्तत्र तद्विना ॥ ५४-२७ ॥

कृत्वा तत् पूर्ववद् धीमान् सुदृढं हि मनोरमम् ।
अन्यथा यदि कुर्याच्चेत् दोषावहं नृणां भवेत् ॥ ५४-२८ ॥

सर्वनाशं भवेदत्र सर्वं निष्फलमेव हि ।
यदा मासा तदर्धेषु अशुभानिशुभानि च ॥ ५४-२९ ॥

अपरीक्ष्य तदा कुर्यादुद्धारं स्थापनं पुनः ।
जीर्णोद्धारमिदं प्रोक्तं प्रायश्चित्तमथ शृणु ॥ ५४-३० ॥

इति जीर्णोद्धारविधि पटलश्चतुःपञ्चाशत्तमः ॥ ५४ ॥


अथ प्रायश्चित्तविधिपटलः

अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
प्राशब्दाख्यो विनाशस्तु प्रायश्चित्तमिति स्मृतम् ॥ ५५-१ ॥

अर्चनादिहुतान्तञ्च प्रायश्चित्तं वदाम्यहम् ।
अर्चनाकालहीने तु शिवमन्त्रञ्जपेच्छतम् ॥ ५५-२ ॥

अर्चनाकालहीने तु सन्ध्याया द्विगुणं तथा ।
एकाहेचाङ्गविच्छेदे हृन्मन्त्रेण शताहुतिः ॥ ५५-३ ॥

एकाहेचार्चहीनेन स्नपनं नवकुंभकैः ।
द्विदिनेत्रि दिने हीने पञ्चविंशतिकुंभकैः ॥ ५५-४ ॥

चतुर्त्था हेतु पञ्चाहे पूजाहीने तु संभवे ।
पञ्चादौ दशके हीने स्नपनं शतकुंभकैः ॥ ५५-५ ॥

प्. २२५) पूजाहीने तु मासान्तं त्रिशतैः कलशैः पुनः ।
त्रिमासमर्चनाहीने सहस्रकलशैः क्रमात् ॥ ५५-६ ॥

षाण्मासोर्ध्वेऽर्चनाहीने संप्रोक्षणमथाचरेत् ।
सन्ध्यायां बलिहीने तु रुद्रमन्त्रंशतं जपेत् ॥ ५५-७ ॥

द्विसन्ध्यं बलिहीने तु शताद्यर्धं जपेत् गुरुः ।
त्रिसन्ध्यं बलिहीने च स्नपनं कारयेत् ततः ॥ ५५-८ ॥

द्वियहादि च मासान्तं बलिविच्छेदकर्मणि ।
शिवाग्निं पूर्ववद् ध्यात्वा स्नपनन्तु शताष्टकम् ॥ ५५-९ ॥

बलिर्मासोर्ध्वहीने तु शिवागिं तत्र बुद्धिमान् ।
सहस्राज्याहुतिञ्चाङ्गैः शिवे नैव तु देशिकः ॥ ५५-१० ॥

अष्टोतरशतैः कुंभैः स्नपनं कारयेत् बुधः ।
नित्योत्सवं पुनः कुर्यात् पूर्ववच्च विशेषतः ॥ ५५-११ ॥

बलि भ्रमणकाले तु लिङ्गं पतितमेव वा ।
स्फटितञ्चलितं भग्नं च्छिन्नं भिन्नन्तु संभवेत् ॥ ५५-१२ ॥

तत्रैव कारयेद्धोममथवालय मध्यमे ।
पूर्ववत् बलिलिङ्गस्य कृत्वा तत्र प्रदक्षिणम् ॥ ५५-१३ ॥

अथवा पूर्ववत् कृत्वा भ्रमणान्ते हुतं क्रमात् ।
मूलमन्त्रं जपेत् तत्र शतमष्टाक्षरं बुधः ॥ ५५-१४ ॥

अगम्यमितिगम्यं वा मूलमन्त्रंशतञ्जपेत् ।
तत्काले दीपहीने तु स्थित्वा तत्र बलिं ततः ॥ ५५-१५ ॥

पुनर्दीपं समावाह्य कृत्वा शेषं प्रदक्षिणम् ।
नैवेद्ये च वीहीने तु द्विगुणन्तु निवेदयेत् ॥ ५५-१६ ॥

हविर्द्रव्यविहीने तु द्विगुणेन तु बुद्धिमान् ।
नित्यं द्रव्यविहीने तु तदान्ये द्विगुणञ्चरेत् ॥ ५५-१७ ॥

नित्याग्निकार्ये हीने तु हृन्मन्त्रेणशता हुतिः ।
उत्सवे तु विशेषेण प्रायश्चित्तं ततः शृणु ॥ ५५-१८ ॥

ध्वजस्य ध्वजदण्डस्य घण्डायास्तु विशेषतः ।
छिन्ने भिन्ने च पतिते चोरग्रस्तादि संभवे ॥ ५५-१९ ॥

कृत्वा तत् पूर्ववत् सर्वं पुनरुत्थापनं कुरु ।
हृदयेनशतं हुत्वा स्नापयेत् पञ्चगव्यकैः ॥ ५५-२० ॥

प्. २२६) यागकाले विहीने तु मूलमन्त्रेण होमयेत् ।
होमद्रव्यविहीने तु हृदयेन शताहुतिः ॥ ५५-२१ ॥

बलिप्रदानवेलायां शुनानीतेति रिक्तके ।
हृन्मन्त्रेण शतं हुत्वा सर्वशान्तिनिमित्तकः ॥ ५५-२२ ॥

शूलास्त्रं पतितं वापि आयुधञ्चाष्टमङ्गलम् ।
शूलस्य स्नपनं तत्र अन्येषाञ्च शताहुतिः ॥ ५५-२३ ॥

प्रतिमां प्रतिमां वापि स्पृष्टां वै चान्त्यपायिभिः ।
कृत्वा तु स्नपनन्तत्र मूलमन्त्रेण हूयते ॥ ५५-२४ ॥

प्रमादात् भिन्नच्छिन्नादि संभवे पूर्ववत् कुरु ।
सर्वेष्वङ्गेषु हीनञ्चेत् पुनरङ्गं नियोजयेत् ॥ ५५-२५ ॥

कण्ठोर्ध्व हीनं बिंबन्तु जीर्णोद्धारन्तु कारयेत् ।
तिथिवारमुहूर्तानि निरपेक्षेण बुद्धिमान् ॥ ५५-२६ ॥

अधिवासनादिकार्याणि सद्य एव समाचरेत् ।
प्रतिष्ठाप्य विशेषेण प्रायश्चित्तं शृणुष्वहि ॥ ५५-२७ ॥

स्नपने कालहीने तु शिरसा तु शताहुतिः ।
स्नपन द्रव्यहीने तु शिखया तु तदर्धतः ॥ ५५-२८ ॥

सुषिरं पतितं भिन्नं भेदनञ्छेदनं हि वा ।
व्यपोह्यकलशन्तत्तु पूर्ववत् कल्पयेत् बुधः ॥ ५५-२९ ॥

अस्पृश्य स्पर्शने वापि श्वानकाकादि स्पर्शिते ।
अन्यं कलशमादाय मन्त्रतो येन पूरयेत् ॥ ५५-३० ॥

हृदयेन शतंहुत्वा स्नपनं तत्र पूर्ववत् ।
करुणालय हीनश्चेत् कृत्वा तत्पूर्ववत् बुधः ॥ ५५-३१ ॥

तरुणं लिङ्गपीठे वा च्छिन्नभिन्नादि संश्रिते ।
तल्लिङ्गन्तु जले त्यक्त्वा लिङ्गं संस्थाप्य पूर्ववत् ॥ ५५-३२ ॥

पतितञ्चलितं लिङ्गं पूर्ववत् स्थापयेत् क्रमात् ।
मूललिङ्गे च विघ्नेश वक्ष्येहमधुना शृणु ॥ ५५-३३ ॥

लिङ्गन्तु स्फटितं भिन्नं जीर्णञ्छेद्यन्तथैव च ।
ईदृग्लिङ्गन्ततस्त्यक्त्वा स्थापयेत् तु न वीकृतम् ॥ ५५-३४ ॥

चलितं पतितं वापि नदिस्रोतेन पातितम् ।
गजेनोत्थापितं वापि चोरैरुन्मत्तकैरपि ॥ ५५-३५ ॥

प्. २२७) तल्लिङ्गं तत्र संस्थाप्य पूर्ववच्छेषमाचरेत् ।
गंभीरे च महालिङ्गे स्रोतसा चलिते सत् ॥ ५५-३६ ॥

अन्यस्यां प्रतिमायां वा शतदण्डात् तु योजयेत् ।
मूललिङ्गमदृश्यञ्चेन् नवलिङ्गन्तु पूर्ववत् ॥ ५५-३७ ॥

एवं वै पिण्डिकायास्तु तथान्यप्रतिमासु च ।
प्रतिष्ठालयहीने तु मूले नैवशताहुतिः ॥ ५५-३८ ॥

क्रियाहीने यथा शास्त्रं मूले नैव समाचरेत् ।
क्रियायां मन्त्रहीने तु शिखया तु शताहुतिः ॥ ५५-३९ ॥

द्रव्यहीने तु विघ्नेश सहस्राहुति वर्मणा ।
क्रियातिरिक्ते सर्वत्र न्यूनेमूलं शतञ्जपेत् ॥ ५५-४० ॥

काकश्वानखरोष्ट्रैश्च मत्तोन्मत्तैश्च दूषयेत् ।
स्पर्शाहुतिञ्च कुर्वीत पुण्याहन्तु विशेषतः ॥ ५५-४१ ॥

हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं हि वा ।
चण्डालाद्यैस्तु परितः संस्पृष्टं वा समीपगम् ॥ ५५-४२ ॥

संप्रोक्षणं प्रतिष्ठाञ्च कुर्वीत स्नपनं पुनः ।
प्रासादे पतिते भिन्नेच्छिन्नेनष्टे तथैव च ॥ ५५-४३ ॥

बालालये शिवं नित्वा विमाने पूर्ववत् कृते ।
विधिवत् प्रोक्षणं कृत्वा पश्चादुत्सवमारभेत् ॥ ५५-४४ ॥

गर्भगेहे स्थलेनिम्ने कलकाद्यैर्द्रवं पुनः ।
तदन्ते वास्तुहोमञ्च पुण्याहं तत्र वाचयेत् ॥ ५५-४५ ॥

बलिपीठविनाशे तु स्थापयेत् बलिपीठकम् ।
परिवारालये हीने पूर्ववत् परिकल्पयेत् ॥ ५५-४६ ॥

तत्बिंबे पतिते भिन्नेच्छिन्ने भेदे तु वर्जयेत् ।
हुत्वा तु शिवमन्त्रेण कुर्यात् बिंबानि पूर्ववत् ॥ ५५-४७ ॥

प्रतिष्ठां कारयेत् प्राग्वत् स्वकीयेन विधानतः ।
अथाद्भुतानां शान्तिन्तु वक्ष्ये दोषविनाशनम् ॥ ५५-४८ ॥

सर्वं विवर्णं संप्राप्ते प्रतिमारोदनेऽपि च ।
ज्वरमारिसमुत्पन्ने रोगस्फोटादि संभवे ॥ ५५-४९ ॥

नवप्रासादपतने चैत्य वृक्षस्य पातने ।
एवमादिसमुत्पन्ने ग्रामादीनाञ्च दोषकम् ॥ ५५-५० ॥

प्. २२८) तद्दोषशमनार्थन्तु त्रिसप्ताहन्तु शान्तिकम् ।
भूमिकंपेदिशान्दाहे प्रतिसूर्य प्रदर्शने ॥ ५५-५१ ॥

दिवानक्षत्रमुत्पन्ने रात्राविन्द्रधनु स्थिते ।
दुर्भिक्षं शत्रुवर्धन्यां राजराष्ट्रभयंकरः ॥ ५५-५२ ॥

मासपूर्णं तथा शान्तिं कुर्याद्दोषनिवृत्तये ।
प्रासादमण्डपाद्येषु वल्मीकं यत्र दृश्यते ॥ ५५-५३ ॥

रत्नकन्यासमुत्पन्ने प्रासादे मधुसंश्रिते ।
प्रविष्टेपिपीलिकालूकौ प्रासादाभ्यन्तरे तथा ॥ ५५-५४ ॥

तत्प्रदेशं खनित्वा तु पूरयेच्छुद्धपांसुभिः ।
पञ्चगव्येन संप्रोक्ष्य पुनःशान्तिन्तु कारयेत् ॥ ५५-५५ ॥

शान्तिं संक्षेपतो वक्ष्ये शृणु तत्वं गजानन ।
हविषं द्विगुणं कृत्वा दीपैः पूष्पैर्विशेषतः ॥ ५५-५६ ॥

शीतकुंभन्तु विधिना शिवस्योर्ध्वन्निदापयेत् ।
दिशाहोमन्ततः कृत्वा मूर्तिहोमं विशेषतः ॥ ५५-५७ ॥

चतुर्दिक्षु चतुर्वेदैः पूर्वमध्यापनं तथा ।
यथावत् स्नपनन्नित्यं तथा वित्तानुसारतः ॥ ५५-५८ ॥

गृतं क्षीरं यथा शक्ति अभिषेकन्तु नित्यशः ।
नालिकेरस्य सलिलैरभिषेकं समाचरेत् ॥ ५५-५९ ॥

तदन्ते रात्रिचूर्णन्तु लिङ्गमुद्वर्त्यशोधयेत् ।
प्रभूतहविषं नित्यं तदन्ते द्विगुणं स्मृतम् ॥ ५५-६० ॥

एवं शान्तिस्तु तत्प्रोक्तं सर्वारिष्टविनाशनम् ।
शान्तिरेवं कृतं यत्र धनधान्याभिवर्धनम् ॥ ५५-६१ ॥

अनुक्तानां तु सर्वेषां विदित्वा गुरुलाघवम् ।
उक्तैरेवं प्रकारैस्तु प्रायश्चित्तानि कारयेत् ॥ ५५-६२ ॥

शान्तिहोमङ्गुरुः कुर्यात् शेषाणान्तु यथोक्ततः ।
प्रायश्चित्तमिदं प्रोक्तं तत्राणां संकरं शृणु ॥ ५५-६३ ॥

इति प्रायश्चित्तविधिपटलः पञ्चपञ्चाशत्तमः ॥ ५५ ॥


प्. २२९) अथ तन्त्रसंकरविधिपटलः

अथातः संप्रवक्ष्यामि तन्त्राणां संकरं परम् ।
शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ॥ ५६-१ ॥

तेषां भेदोपभेदैश्च तत्तच्छास्त्रे समाचरेत् ।
चतुर्विधेषु तन्त्रेषु यथेष्टं तेन बुद्धिमान् ॥ ५६-२ ॥

कर्षणादि प्रतिष्ठान्तं कर्मकुर्याद्विचक्षणः ।
कर्षणादि प्रतिष्ठान्तमेक तन्त्रेण कारयेत् ॥ ५६-३ ॥

भुक्तिमुक्तिप्रदं मुख्यं सर्वसिद्धिमवाप्नुयात् ।
पूर्वमेकेन कृत्वा तत् पश्चादन्येन वै कृतम् ॥ ५६-४ ॥

एतत् तु संकरं तेन राज्ञोराष्ट्रस्य दोषकृत् ।
आचार्यश्चैव कर्ता च नाशनन्त्वखिलं तथा ॥ ५६-५ ॥

यच्छास्त्रेण यदा रब्धं तच्छास्त्रेणैव तत् कुरु ।
कृतञ्चेदन्यशास्त्रेण तन्त्रदोषाय कल्पयेत् ॥ ५६-६ ॥

सौम्यं रौद्रं द्विधावत्स शैवं सौम्यमिति स्मृतम् ।
तदन्यं त्रिविधं तत्र रौद्रमेवेति कीर्तितम् ॥ ५६-७ ॥

रौद्रेण पूजितश्चाहं तथा रौद्रफलप्रदम् ।
सौम्येन पूजितश्चाहं वत्ससौम्यफलप्रदम् ॥ ५६-८ ॥

रौद्रं सौम्येन यष्टव्यं सौम्यं रौद्रेण नार्चितम् ।
वैदिकाचार संबन्धात् सौम्यं श्रेष्ठमिति स्मृतम् ॥ ५६-९ ॥

श्रुत्युक्ताचारबाह्यत्वादपरं रौद्रमुच्यते ।
सौम्येन स्थापयेत् ग्रामे रौद्रेण तु न कारयेत् ॥ ५६-१० ॥

रौद्रेण स्थापितं मोहात् ग्रामनाशं भवेद्धृवम् ।
सौम्यरौद्रमयं सर्वं जगत्येवं चराचरम् ॥ ५६-११ ॥

तस्मात् सर्वप्रयत्नेन रौद्रं सौम्येन पूजयेत् ।
सर्वसिद्धिकरञ्चैतत् एतदुक्तं शिवात्मना ॥ ५६-१२ ॥

पूर्वं सौम्येन संस्थाप्य पश्चाद्रौद्रेण पूजयेत् ।
मोहेन चेत् कृतं तेन राजराष्ट्रं विनश्यति ॥ ५६-१३ ॥

प्. २३०) किमत्र बहुनोक्तेन सौम्ये नैव तु पूजयेत् ।
कामिकाद्यष्टविंशच्च तन्त्रं शैवमिति स्मृतम् ॥ ५६-१४ ॥

तदेव सौम्यमाख्यातं सिद्धान्तं हि तदेव तु ।
तदन्यं रौद्रमाख्यातं तत्रं पाशुपतादिकम् ॥ ५६-१५ ॥

शैवसिद्धान्त तन्त्रेषु तन्त्रैकेन तु कारयेत् ।
अनुक्तेऽस्मिन् तथान्येन संकरन्तु न दोषषभाक् ॥ ५६-१६ ॥

तथा वै चान्य तन्त्राणां तेषु तेषु न दोषकः ।
तन्त्राणां संकरञ्चैव समासात् परिकीर्तितम् ॥ ५६-१७ ॥

षष्ठपञ्चाशत् पटलैः क्रियापादं सुकीर्तितम् ।
क्रियापादमिदं वत्स चर्यापादमथ शृणु ॥ ५६-१८ ॥

तन्त्राणामवतारणादि सकलं संक्षेपतो भाषिते
तेषां संकरमन्त्यमेव तु मया शैवेषु सिद्धान्तकम् ।
पञ्चाशत् पटलश्चषष्ठमधिकं तत्संख्यया विद्यते
तत्पादन्त्वखिलादि शैव सहितन्नोपूजितं दुर्जनैः ॥

इति तन्त्रसंकरविधिपटलः षट्पञ्चाशत्तमः ॥ ५६ ॥

इति सुप्रभेदे क्रियापादः समाप्तः


ओं

शिवमयम्

सुप्रभेदम्

अथ चर्यापादे-शैवोत्पत्तिविधिपटलः

प्. २३१) अथातः संप्रवक्ष्यामि चर्यापादविधिक्रमम् ।
तस्य पादस्य पूर्वे तु शैवानामुद्भवं शृणु ॥ १-१ ॥

शैवं पाशुपतं सोमं लाकुलन्तु चतुर्विधम् ।
एतच्चतुर्विधं शास्त्रं भेदाभावमिति स्मृतम् ॥ १-२ ॥

चतुर्विधेषु शास्त्रेषु यो भक्त्यदीक्षितः क्रमात् ।
त्रयाणाञ्चास्त्रनाम्ना तु प्रोच्यते सकलावधि ॥ १-३ ॥

चतुर्थे तु स्थितानां तु निष्कले कलवर्जितम् ।
शैवे तु वर्तते पुंसां शैवाश्चेति प्रकीर्तिताः ॥ १-४ ॥

पाशुपतादिशास्त्रेषु तथा नामान्युदीरिताः ।
त्रिषु शास्त्रेषु भेदानि भिद्यन्ते स्वस्वमार्गकैः ॥ १-५ ॥

इदानीं शैवभेदानि वक्ष्यंते तु समासतः ।
शास्त्रं चतुर्विधं ज्ञेयं वामदक्षिणमिश्रकम् ॥ १-६ ॥

सिद्धान्तेन समायुक्तं चतुर्थैवं प्रकीर्तितम् ।
वामादिशास्त्रभेदेषु ये दीक्षां वर्तते क्रमात् ॥ १-७ ॥

वामी च दक्षिणीमिश्रीसिद्धान्तीति च कीर्तिताः ।
वामं हि शांभवं शादे दक्षिणं भैरवात्मकम् ॥ १-८ ॥

मिश्रं यामलमित्युक्तं सप्तमातृप्रधानकम् ।
सिद्धान्तं शुद्धशैवन्तु केवलं शांभवस्तथा ॥ १-९ ॥

सिद्धान्तं सर्वसारं हि तत्त्वशुद्धं शिवं स्मृतम् ।
वामं च दक्षिणञ्चैव तद्वयोर्मिश्रकन्तु हि ॥ १-१० ॥

शैवबाह्याः समाख्याता ते तु शैवेऽप्यपूजिताः ।
कामिकादिप्रभेदेन चाष्टाविंशतिसंहिता ॥ १-११ ॥

प्. २३२) शुद्धं शैवान्तसिद्धान्तं तेषां भेदोपभेदकैः ।
सिद्धान्तं मिश्रमित्युक्तं नवयामलसंज्ञकम् ॥ १-१२ ॥

वामाचारस्तु वै पञ्चदक्षिणेऽपि तथैव च ।
द्वयोर्मिश्रं च गुरवः पञ्चपञ्चैव चोदिताः ॥ १-१३ ॥

सिद्धान्तं मिश्रशैवानां पञ्चानां लक्षणं शृणु ।
आचार्यः साधकश्चैव समयि पुत्रकस्तथा ॥ १-१४ ॥

चित्रकेटक इत्युक्तो मातृयज्ञेषु पूजितः ।
शुद्धशैवाख्य सिद्धान्तं दीक्षयादीक्षितः क्रमात् ॥ १-१५ ॥

साधकादि चतुष्काणामाचार्यस्त्वधिप स्मृतः ।
मातॄणां स्थापनं पूजा तासां वह्नेस्तु तर्पणम् ॥ १-१६ ॥

स्नपनोत्सवशान्त्यादिस्त्वाचार्येणैव कारयेत् ।
तम्मिश्रोक्तानि कर्माणि कुर्यात्तैः साधकादिभिः ॥ १-१७ ॥

शिवाग्रजान्वयो भूत्वा आचार्यादि चतुष्ककाः ।
उक्तः पारशिवञ्चैव चित्रकेटकनामतः ॥ १-१८ ॥

समासमिश्रशैवानां यथा तथ्यं शृणूद्भवम् ।
अनादि शैवाः प्रथमं महाशैवा द्वितीयकम् ॥ १-१९ ॥

आदिशैवास्त्रितीयं चतुर्थञ्चनुशैवकाः ।
पञ्चमेऽन्तरशैवास्तु शैवाः पञ्चविधा स्मृताः ॥ १-२० ॥

शक्तिमूर्तीविशक्ती च नादो बिन्दुरिति स्मृतम् ।
सदाशिवेश्वरश्चैव षट्स्थाने ये च संस्थिताः ॥ १-२१ ॥

अनादिशैवा इमे प्रोक्ता महाशैवास्ततः शृणु ।
अनन्तादिशिखण्ड्यन्तास्तथा मन्त्रमहेश्वराः ॥ १-२२ ॥

मायाद्यवनिपर्यन्तं रुद्रा ये च महाबलाः ।
अनन्तेश्वर शिष्यास्ते दैत्याश्च ऋषयस्तथा ॥ १-२३ ॥

ब्रह्मविष्णादि देवास्तु यक्षोरक्षगणैः सह ।
महाशैवास्तु विख्याता आदिशैवान् शृणुष्व हि ॥ १-२४ ॥

अनुशैवा स्मृता ह्येते यक्षरक्षोरगैः सह ।
ब्राह्मणादि चतुर्वर्णा काश्यपादि समुद्भवाः ॥ १-२५ ॥

प्. २३३) परमेश्वरप्रसादेन अधिकारे नियोजिताः ।
शिवधर्मप्रकाशाय सर्वेषां बोधनाय च ॥ १-२६ ॥

स्थापना प्रोक्षणादीक्षा विधिना कृत्यकारणात् ।
ऋषीणां मूर्तिमास्थानि शिवेन परमात्मना ॥ १-२७ ॥

अनुग्रहीताश्च ये सर्वे शैवास्त्वे वान्तर स्मृताः ।
शिवज्ञानयुताः सर्वे शिवधर्मपरायणाः ॥ १-२८ ॥

आचार्याः शिवशास्त्रज्ञा मोक्षज्ञाः शिववत् भुवि ।
शिववत् चिन्तयेत् सर्वे इति शास्त्रस्य निश्चयः ॥ १-२९ ॥

गोचरं गोत्रसूत्रौ च संक्षेपेण वदाम्यहम् ।
गोचरं शिवचिन्हं हि गोत्रं स्वमुनिवर्गकम् ॥ १-३० ॥

सूत्रमाचारमेवं हि शैवानामुच्यते क्रमात् ।
शिवः शिखा तथा ज्योतिः सावित्री व्योमगोचराः ॥ १-३१ ॥

एतानि पञ्चनामानि शैवानां शिवशासने ।
गोचरं कुलमित्युक्तं तच्चिन्हञ्चातुर्वर्णिनाम् ॥ १-३२ ॥

काश्यप कौशिकश्चैव भारद्वाजोथ गौतमः ।
आत्रेयः पञ्चधा ज्ञेयाः संप्रोक्तामुनयस्त्विह ॥ १-३३ ॥

काश्यपादिमुनीनान्तु शिवगोचरमुच्यते ।
काश्यपोनमुचिश्चैव मनुजोमनुभः सह ॥ १-३४ ॥

विश्वामित्रश्च वाल्मीकः पुलस्त्यः पुलहः क्रतुः ।
सनत्कुमारो मेधावी सवक्क्रश्च पराशरः ॥ १-३५ ॥

सनंदनः सदीर्घश्च सनकश्च सनातनः ।
एतेषां ऋषिवर्गाणां गोचरं शिवगोचरः ॥ १-३६ ॥

कौशिकादिमुनिनान्तु शिखागोचरमुच्यते ।
कौशिकः कुशिकश्चैव प्राजापतिस्तु पञ्चमः ॥ १-३७ ॥

शद्ध्यायन्तं तथा भूमि सनन्तः खद्यपूरणः ।
शाण्डिल्योजनकश्चैव सुवर्णस्थाण्डिरेव च ॥ १-३८ ॥

शंखस्थूलो ऋतुश्चैव वीरजोरोमहर्षणः ।
सर्वे तेषामृषीणाञ्च शिखागोचरमुच्यते ॥ १-३९ ॥

मुनीनां भारद्वाजादि ज्योतिर्गोचरमुच्यते ।
भारद्वाजोवसिष्ठश्च मार्कण्डस्थण्डिलो गुरुः ॥ १-४० ॥

२३४, २३५ मिस्सिन्ग पगे

प्. २३६) स्थापनं प्रोक्षणं दीक्षा विधिनाकृत्यकारणात् ।
ये शिवं निर्मितायेन शिवेन परमात्मना ॥ १-४१ ॥

सशैव ब्रह्मवक्त्रे च मर्त्यलोकं व्रजेत् क्रमात् ।
काश्यपादीनि नामानि ऋषिरूपैश्च कीर्तिताः ॥ १-४२ ॥

आदौ शिवस्त्वमस्तीति आदिशैव उदीरितः ।
शिवेन दीक्षिताश्चैते ते शिवब्राह्मणा स्मृताः ॥ १-४३ ॥

सर्वोत्तमाः पराचार्याः विप्रोत्तमाः शिवोत्तमाः ।
द्विजोत्तमोत्तमाश्चैव शिवभेदाः शिवात्मकाः ॥ १-४४ ॥

एषां पर्यायनामानि संक्षेपात् कथितं तव ।
क्रिमिकीटपदंकेभ्यः पर्शपः प्राज्ञयाज्ञकाः ॥ १-४५ ॥

पशुभ्योपि नराः श्रेष्ठास्तेषु श्रेष्ठा द्विजास्तथा ।
द्विजातिष्वधिका विप्रा विप्रेषुक्र तु बुद्धयः ॥ १-४६ ॥

क्रतु बुद्धेषु कर्तव्यास्तेभ्यः सन्यासयोधिकाः ।
सन्यासयोधिकात् श्रेष्ठास्तेषु शंकरपूजिताः ॥ १-४७ ॥

इति चर्यापादेशैवोत्पत्तिविधिपटलः प्रथमः ॥ १ ॥


अथ जातिभेदविधिपटलः

अथातः संप्रवक्ष्यामि जातिभेदविधिं क्रमात् ।
शिवसृष्टिः पुरापश्चात् ब्रह्मसृष्टिः प्रवर्तते ॥ २-१ ॥

गोचरास्तु ततो भेदाः शिवभेदा द्विधास्मृताः ।
मुखेषु ब्राह्मणाजातास्तत् बाह्वोः क्षत्रियास्तथा ॥ २-२ ॥

वैश्या ऊरुश्च विज्ञेयाः पादयोः शूद्रजातयः ।
चतुर्वर्णस्य संयोगात् प्रतिलोमानुलोमतः ॥ २-३ ॥

तेषान्तद्योगकाले तु जायन्ते चान्तरालकाः ।
ततो वृत्तेश्च जायन्ते तेषाञ्चैवोत् भवं शृणु ॥ २-४ ॥

प्. २३७) वर्णेवर्णे यथा मातःशक्तिशंभुमयात्मकाः ।
शक्तिस्त्रीरूपमित्युक्तं पुरुषः शंभुरुच्यते ॥ २-५ ॥

शक्तिशंभुमयं प्राहुर्जगदेतच्चराचरम् ।
ब्राह्मणादि चतुर्वणाः सुस्नानं ह्यनुपूर्वशः ॥ २-६ ॥

तेषां वृत्ति समाचारं ततस्नत्वं वदाम्यहम् ।
शिवसृष्ट्या यथा यस्माज्जायन्ते केवलं मुखात् ॥ २-७ ॥

चतुर्वर्णां शुद्धवर्णा दीक्षायां प्रापयेच्छिवम् ।
लौकिकाचारमार्गेण सर्वेषां वर्तनं शृणु ॥ २-८ ॥

अद्ध्यनञ्चाद्ध्यापनं यजनंयाजनं तथा ।
दानं प्रतिग्रहञ्चैव तेषां कर्माणि चोच्यते ॥ २-९ ॥

जायन्ते ब्रह्मबाह्वोश्च क्षत्रियास्तु महामते ।
नृपक्षत्रियराजानौ राजाभूपाश्च भूपकाः ॥ २-१० ॥

षडेते निजनामानि तेषां पर्यायवाचकाः ।
जगतः पालनन्तेषां स्वधर्मपरिपालनम् ॥ २-११ ॥

ब्रह्माण ऊर्वोर्वैश्यानाञ्जननन्तु विधीयते ।
पीतायां न्यास्तु वणिजः कामदाः सर्वलौकिकाः ॥ २-१२ ॥

पञ्चैतानि मयोक्तानि वैश्यपर्यायवाचकाः ।
गोपाल कृषिवाणिज्य कर्मत्रयसमायुताः ॥ २-१३ ॥

पादयोस्त्वं सृजत् शूद्रान् स्त्रीवर्णानामुपासकान् ।
शुश्रूषान्तु द्विजानाञ्च शूद्राणां वृत्तिरुच्यते ॥ २-१४ ॥

कृष्णाश्च कार्षकाः शूद्रा वृषला प्रेष्यकारकाः ।
एतानि पञ्चनामानि शूद्रपर्यायवाचकाः ॥ २-१५ ॥

अथितश्चाथशूद्रस्तु सत्शूद्रं वैश्यवत् स्मरेत् ।
अमद्यपाः कुलीनास्तु सत्शूद्रास्ते प्रकीर्तिताः ॥ २-१६ ॥

तत्तद्वर्णेषु विधिना जायन्ते क्रमशः तथा ।
ब्राह्मणादि चतुर्वर्णाः वर्णानां स्वस्वजातयः ॥ २-१७ ॥

चातुर्वर्णा इमे प्रोक्तास्त्वनुलोमानि मे शृणु ।
स्वर्णं प्रथमं विद्यादंबष्ठश्च द्वितीयकम् ॥ २-१८ ॥

पारशैवस्तृतीयन्तु जायन्ते ब्राह्मणोद्भवैः ।
मत्गुरूत्युग्रनामा च जायेतेतौ नृपस्य तु ॥ २-१९ ॥

प्. २३८) वैश्यस्य चूचुको ज्ञेयस्त्वनुलोमाः षडैव तु ।
संप्राप्य विप्रोधर्मेण रक्तकन्यां समन्त्रकम् ॥ २-२० ॥

तत्र जातः सवर्णस्तु जानुलोमेषु पूजितम् ।
तत्ब्राह्मणस्तु संज्ञो वै कर्माधर्मण विस्मृतः ॥ २-२१ ॥

हयङ्गजंरथं वापि वाहयेद् वा नृपाज्ञया ।
सेनापत्यञ्च मूनां वा कुर्यादा जीवसंयुतः ॥ २-२२ ॥

पीतस्त्री विप्रसंयोगा दंबष्ठोनामजायते ।
तस्य वृत्तिर्भवेत् कक्ष्या तथैव ज्वालनर्तनम् ॥ २-२३ ॥

शूद्रस्त्री विप्रसंयोगाज्जातः पारशव स्मृतः ।
शूलञ्चक्षुद्र वाद्यञ्च नालिशंसन जीवनम् ॥ २-२४ ॥

नृत्तं वाद्यञ्च कर्तव्यं तथामद्दल वृत्तिका ।
रक्तस्य पीतकन्यायां जातोमत् गुरिति स्मृतः ॥ २-२५ ॥

महाश्रेष्ठी तु नाम्ना च वैश्य प्रत्युपजीवनम् ।
इयन्तत्रैव वृत्तिस्तु नक्षत्रं कर्म आचरेत् ॥ २-२६ ॥

कृष्णाया रक्तसंयोगाज्जात श्रोत्र इति स्मृतः ।
दण्डकर्मसुरक्तस्तु दण्डन्तत्रैव कारयेत् ॥ २-२७ ॥

कृष्णायां पीतसंयोगाज्जातश्चूचुक एव वा ।
काष्ठञ्चैव तृणादीनि वन्यजातीववृत्तिकः ॥ २-२८ ॥

क्रमुकानां फलैः पत्रैर्विक्रियाजीववृत्तिका ।
अनुलोमा इमे प्रोक्ताः प्रतिलोमास्ततः शृणु ॥ २-२९ ॥

वैदेह पुल्कसञ्चैव चण्डालश्च तथैव च ।
आयोगोमागधश्चैव जायन्ते कामतश्चतु ॥ २-३० ॥

सूतो नृपस्य एवञ्च प्रोच्यते प्रतिलोमतः ।
वैश्यायां कृष्णसंयोगाज्जातो वै देहकः स्मृतः ॥ २-३१ ॥

गवां महिषमेषाणां कुर्यात् सम्यक् प्रपालनम् ।
पालिप्रत्युपजीवी च तेषां तत् क्रयविक्रयम् ॥ २-३२ ॥

रक्तायां कृष्णसंयोगाज्जातः पुलस उच्यते ।
सुरासङ्ग्रहणं कृत्वा विक्रयं जीवनं स्मृतम् ॥ २-३३ ॥

२३९) श्वेतायां शूद्रसंयोगाज्जातश्चण्डाल उच्यते ।
कर्णे संधाय्यगोचर्म आयसाभरणं तथा ॥ २-३४ ॥

झल्लरीकक्षतो वापि मलंसर्वं व्यपोह्य च ।
पूर्वाह्णे संविशेत् ग्राममपराह्णेन संविशेत् ॥ २-३५ ॥

रक्तायां पीतसंयोगाज्जातस्त्वा योगवस्मृतः ।
वस्त्रतन्त्रोप जीवी च तन्तु वाया भवेत् खलु ॥ २-३६ ॥

विप्रस्त्रीपीतसंयोगाजातो मागध उच्यते ।
सर्वांश्च वन्दनं कृत्वा कीर्तनञ्च विशेषतः ॥ २-३७ ॥

अधसं स्पृश्यन्तु कृष्णञ्चेत् तस्यान्नन्तु न भुज्यते ।
सर्वेषां प्रेषणं कृत्वा तज्जं वारिकवृत्तिका ॥ २-३८ ॥

विप्रायान्तु नृपस्यैव विधिनायदि जायते ।
पूजितः प्रतिलोमेषु ससूतो नामनामतः ॥ २-३९ ॥

श्वेतत्वप्रतिलोमेषु अस्यैव तु विधीयते ।
तेषामध्ययनं प्रोक्तं धर्माणामनुबोधकम् ॥ २-४० ॥

प्रतिलोमा इमे प्रोक्ताः गूढजातास्ततः शृणु ।
ब्राह्मण्यां ब्राह्मणस्यैव प्रमादात् गूढजातकः ॥ २-४१


सोपिविप्रस्तु विज्ञेयो यागाध्यापनवर्जितः ।
नृपायां ब्राह्मणस्यैव चोररूपेणजायते ॥ २-४२ ॥

ज्योतिषंगणितञ्चैव भूततन्त्रार्थ निश्चितम् ।
आयुर्वेदमथाष्टाङ्गमुच्यते गणिकस्य तु ॥ २-४३ ॥

वैश्यायां ब्राह्मणस्यैव चोरा वै कुम्भकारकाः ।
कुलाल वृत्याजीवी च ना पिताश्च तदेव तु ॥ २-४४ ॥

सूतके प्रेतके चान्ये नाभेरूर्ध्वन्तु चार्पयेत् ।
शूद्रायास्तु द्विजस्येव चोराज्जातो निषादकः ॥ २-४५ ॥

अन्तव्याल मृगादीनि सङ्ग्रहादुपजीवकः ।
श्वेतायान्तु नृपाच्चोराज्जातः सोरथकारकः ॥ २-४६ ॥

आचरेत् शूद्रवन्नित्यं श्वेतत्व प्रतिवर्जितः ।
वाहनानि तु संप्रेष्य तेषां तु परिचारकम् ॥ २-४७ ॥

प्. २४०) रक्तायां रक्तसञ्चोरात् सोपिरक्त इति स्मृतः ।
अभिषेकं विना तस्य शासनी पट्टबन्धनम् ॥ २-४८ ॥

आचारं रक्तवन्नित्यं भोज इत्यभिधीयते ।
पुनर्भूकरणे जातो रक्तायां रक्तनामतः ॥ २-४९ ॥

भोजैः समन्तं विद्यात नृपंकानिनमेव च ।
वैश्यायां रक्तसंञ्चोरा दश्वव्यापारमुच्यते ॥ २-५० ॥

वृषल्या रक्तसञ्चोराच्चूलिकोनाम उच्यते ।
रज्ञश्चैव नियोगेन शूलकर्मस्वयोजितः ॥ २-५१ ॥

ब्राह्मण्यां पीतसञ्चोराज्जातः कालरिति स्मृतः ।
वस्त्राणां जलसेकन्तु क्षालनं वृत्तिरस्य तु ॥ २-५२ ॥

रक्तायां पीतसञ्चोरादारण्या जीववृत्तिकः ।
पीतायां पीतसञ्चोरामणिकारक उच्यते ॥ २-५३ ॥

मणीनां विक्रयं कृत्वा शंबायां वलय क्रिया ।
वृषल्यां पीतसञ्चोरात् कटप्यापार उच्यते ॥ २-५४ ॥

श्वेतायां कृष्णसञ्चोराद्वेदकारक उचयते ।
रक्तायां कृष्णसञ्चोराज्जातो वैणक उच्यते ॥ २-५५ ॥

अस्पृश्याश्च त्रिभिर्वर्णैर्वैणवं जपमाचरेत् ।
पीतायां कृष्णसञ्चोराज्जातोलवण विक्रयः ॥ २-५६ ॥

स एव च क्रिकोज्ञेयस्तैलपिण्याक वृत्तिकः ।
कृष्णायां कृष्णसञ्चोराज्जातोमालव उच्यते ॥ २-५७ ॥

तद्वृत्तिर्गोगजाश्वानां तृणभारञ्च वा भयेत् ।
अन्तराल इमे प्रोक्ता वृत्याश्चैव तत शृणु ॥ २-५८ ॥

अनुलोम प्रतिलोमानाञ्चातुर्वर्णेषु कारणम् ।
तत्र जातमनुष्याणां वृत्ताभिख्यासुरत्र वै ॥ २-५९ ॥

अबष्ठस्य तु विप्रायां जातोवापकवृत्तिकः ।
रक्तायां पीतवद्योगा दधोनापित उच्यते ॥ २-६० ॥

रोमाणां वपनं कुर्यात् वृत्तिर्नाभेरधस्ततः ।
विप्रस्त्रीचूचुकस्यैव जातस्तक्षकनामतः ॥ २-६१ ॥

रक्तायामेव तस्यैव जातोमाल्यस्य बन्धकः ।
पीतायामपिजातोसौ सामुद्रः पश्यजीवकः ॥ २-६२ ॥

प्. २४१) मज्जाततस्तु विप्रायां श्रवणञ्च विधीयते ।
रक्तायामेव सञ्जातः कर्मकार इति स्मृतः ॥ २-६३ ॥

अग्रस्त्रीपुष्कलयोश्च जातोरजक उच्यते ।
चण्डालस्य तु विप्रायाञ्जातः श्वपच उच्यते ॥ २-६४ ॥

श्वमांसं भक्षणं तेषाम् श्मशाने तु निवासयेत् ।
एवमादीनि भेदानि युक्तियुक्तानि योजयेत् ॥ २-६५ ॥

इह तस्माच्च भेदानि वक्तुं वर्षशतैर्न हि ।
समासोक्त्या तु भेदानि चोक्तं दीक्षार्भकान् शृणु ( च्शृणु) ॥
२-६६ ॥

ब्राह्मणाक्षत्रिया वैश्याः शूद्राश्चैव प्रकीर्तिताः ।
एतेषां चातुर्वर्णानामाचार्यत्वं नियोजयेत् ॥ २-६७ ॥

सतु संस्कारमन्येषां कुर्यात् तद्देशिकोत्तमः ।
अनुलोमाश्च षट्प्रोक्ताः प्रतिलोमास्त्रय स्मृताः ॥ २-६८ ॥

सूतश्च मागधश्चैव आयोगावसृतीयकः ।
अन्तरालश्च सर्वे च दीक्षाकर्मणियोजिताः ॥ २-६९ ॥

व्रात्यः सर्वे तु संयोज्याः सर्वकर्मबहिष्कृताः ।
जातिभेदं मयाप्रोक्तं मण्डलञ्च ततः शृणु ॥ २-७० ॥

इति जातिभेदविधिपटलो द्वितीयः ॥ २ ॥


अथ मण्डलविधिपटलः

अथातः संप्रवक्ष्यामि मण्डलं सार्वकामिकम् ।
मण्डलं सारमित्युक्तं सर्वदेवालयं कृतः ॥ ३-१ ॥

मण्डलन्तेन विख्यातं शिवेन परमात्मना ।
सर्वपापानिमुच्यन्ते ततो मण्डलदर्शनात् ॥ ३-२ ॥

दीक्षाकालस्य पूर्वे तु मण्डलं विधिनाबुहः ।
यथा भूमिं परिक्ष्याथ तथा भूमिपरिग्रहम् ॥ ३-३ ॥

प्. २४२) महेन्द्रेमलये विन्ध्य हिमवत् पारियात्रके ।
गङ्गातीरे सरित्पुण्ये सामुद्रायाश्रितेऽपि वा ॥ ३-४ ॥

पुष्पोद्यानेथवा नित्यं क्षीरवृक्षसमीपके ।
शुद्धदेशे मनोरम्ये ग्रहे देवालयेपि वा ॥ ३-५ ॥

प्रागुदक् प्लवणेदेशे मण्डलंत्वा लिखेत्बुधः ।
सप्तम्याञ्च नवम्याञ्च एकादश्यामथापि वा ॥ ३-६ ॥

त्रयोदश्याममावास्यां दीक्षाकर्मप्रशस्यते ।
नक्षत्राणि शुभान्याहुरादित्ये सोमवासरे ॥ ३-७ ॥

गुरुशुक्रेन्दु सूनौ च दीक्षाकर्मणिशोभनम् ।
शिष्यान् संवत्परात् पूर्वे परीक्ष्यात्र गुणागुणान् ॥ ३-८ ॥

गुणयुक्तान्तु सङ्ग्राह्य गुणहीनांश्च वर्जयेत् ।
अङ्कुरानर्पयित्वा तु पूर्वोक्तविधिनैव तु ॥ ३-९ ॥

प्रथमं मण्डलं विद्यात् दीक्षाकर्मद्वितीयकम् ।
तृतीयमभिषेकन्तु क्रमेणैव विधीयते ॥ ३-१० ॥

अधुना मण्डलं यत्तत् समासात् च्छृणुसुव्रत ।
हस्तमात्रं खनेत्भूमिं तन्मृदापूर्यचावटम् ॥ ३-११ ॥

तथाधिकापिसा श्रेष्ठा समासामध्यमा स्मृता ।
न्यूनैव कन्यसाभूमिस्तद्वत् भूमेस्तु तत्फलम् ॥ ३-१२ ॥

उत्तमं सर्वसिद्ध्यर्थं मध्यमं स्वेष्टकामदम् ।
वर्जितञ्चाधमं यत्र तन्मध्योत्तमके शुभे ॥ ३-१३ ॥

चतुरश्रं समंकृत्वा संप्रोक्ष्यपञ्चगव्यकैः ।
मण्डपं वा प्रपां वापि सर्वालङ्कारसंयुतम् ॥ ३-१४ ॥

विंशत् षोडशहस्तैर्वा हस्तैर्द्वादशभिस्तु वा ।
दिक् रन्ध्रवसुहस्तैर्वा मध्यस्तं भविहीनकम् ॥ ३-१५ ॥

चतुर्द्वारसमायुक्तञ्चतुस्तोरणभूषितम् ।
तन्मध्ये वेदिकां कुर्यात् तन्मध्ये मण्डलं बुधः ॥ ३-१६ ॥

शिवभक्तान्भोजयेच्च प्रोक्षयेदस्त्रवारिणा ।
वास्तुपूजाविधानेन वास्तुहोमन्तु कारयेत् ॥ ३-१७ ॥

स्थण्डिलन्तत्र कर्तव्यं शिवाख्यं कलशं न्यसेत् ।
वर्द्धनीं वामपार्श्वे तु हेमरत्नांबुसंयुतम् ॥ ३-१८ ॥

प्. २४३) वस्त्रयुग्मसमायुक्तौ सकूर्चौ सा पिधानकौ ।
शिवाख्यं शिवमन्त्रेण उमाख्यं गौरिनामतः ॥ ३-१९ ॥

संपूज्यैवं विधानेन तत् कुंभाभ्याञ्जलैः शुभैः ।
भूमिं द्रव्याणि शिष्यांस्तु संप्रोक्ष्यास्त्रोदकेन तु ॥ ३-२० ॥

ऋषियज्ञमिदं कृत्वा पूर्वरात्रौ तु देशिकः ।
अधिवास्य ततः पश्चाच्छिवमन्त्रगणैः सह ॥ ३-२१ ॥

शिवद्रव्येण संयुक्तं शिवयज्ञमथाखिलम् ।
योगपीठं न्यसेन्मध्ये तत्वत्रयसमन्वितम् ॥ ३-२२ ॥

शिवं यष्ट्वा विधानेन कुण्डेवा स्थण्डिलेपि वा ।
शिवाग्निं जनयित्वा तु पूर्ववद्विधिना यथा ॥ ३-२३ ॥

संपूज्य विधिनाचाग्निं शिष्याश्चैवाधिवासयेत् ।
विप्रादीनांश्च वर्णानां स्त्रीपुमाश्च नपुंसकान् ॥ ३-२४ ॥

चोदितां छिवभक्तांस्तु दीक्षयेन्मन्त्रवित् सदा ।
चरुन्दत्वा ततस्तेषां शिवमन्त्रैस्तु साधितम् ॥ ३-२५ ॥

आनयित्वा ततस्थालीं क्षालयित्वा शिवांभसा ।
गन्धपुष्पार्चिताङ्कृत्वा तण्डुलैराढकैर्युतम् ॥ ३-२६ ॥

पुष्पैर्दर्भैस्तु परितः कवचेन तु बुद्धिमान् ।
कपिलायास्तु पयसा घृतमिश्रेण पूरयेत् ॥ ३-२७ ॥

न्यस्त्वाग्नि मध्यमेस्थालीं शनैर्मृद्वग्निनापचेत् ।
यदा पक्वञ्चरुन्तत्र तदा तमवतारयेत् ॥ ३-२८ ॥

गोघृतेन हृदामन्त्री चरुं तत्राभिघार्य च ।
संपाद्य विधिनाहुत्वा मन्त्रैः सर्वैः सकृत् सकृत् ॥ ३-२९ ॥

सेत्यग्नौ तु हुतं हुत्वा आज्यशेषमथोदरे ।
निवेदयित्वा देवस्य चर्तर्भागैकभागिकम् ॥ ३-३० ॥

उपोषितानां शिष्याणां त्रिभागञ्चैव दापयेत् ।
दन्तैर स्पृश्य विधिवत् पञ्चब्रह्माप्यनुस्मरन् ॥ ३-३१ ॥

भक्षयित्वा विधानेन पिण्डं प्रत्याचरेत् बुधः ।
दन्तकाष्ठं ततः कृत्वा पञ्चगव्यन्तु पाययेत् ॥ ३-३२ ॥

प्. २४४) दशाक्षरञ्जपित्वा तु विद्यांगैर्ब्रह्मभिर्युतम् ।
बीजमुख्यं ततो जप्त्वा क्षुरिकान्तु विशेषतः ॥ ३-३३ ॥

ततः प्रतिसरं बध्वा शिष्यानाचार्यकः पृथक् ।
गन्धपुष्पादिनाभ्यर्च्य शिवपार्श्वे स्वपेन्निशि ॥ ३-३४ ॥

भस्मशय्या समारूढः शिवद्ध्यानपरायणः ।
ओं शंभवे त्रिणेत्राय पिङ्गलाय महात्मने ॥ ३-३५ ॥

वामाय विश्वरूपाय स्वप्नाधिपतये नमः ।
इमं मत्रञ्जपित्वा तु शिष्यन्तु शयने तथा ॥ ३-३६ ॥

यागस्थाने वसेन्मंत्री शिष्यैः सार्धं शिवाग्रतः ।
ततः प्रभाते यत् स्वप्नं रात्रौ दृष्टं गुरोस्तदा ॥ ३-३७ ॥

स्वप्नं संश्राव्ययत्तथ्यं शुभवाप्यशुभं तथा ।
शुभेसु खमवाप्नोति शिष्याणान्त्वैहिकं फलम् ॥ ३-३८ ॥

अशुभञ्चेत्तदामोक्षमैहिकी सिद्धिवर्जितम् ।
शिष्यद्रव्येण कर्तव्यं दीक्षायज्ञमथाखिलम् ॥ ३-३९ ॥

त्यक्त्वा प्रतिसरन्धिमान्तत स्नानं विधानतः ।
रात्रा वै वं कृते पश्चात् प्रभाते मण्डलं लिखेत् ॥ ३-४० ॥

तद्दृष्ट्वामुच्यते देही त्वशेषपशुबन्धनात् ।
एकहस्तं द्विहस्तं वा चतुर्हस्ताष्ट हस्तकम् ॥ ३-४१ ॥

द्वादशं षोडशं हस्तं मत ऊर्ध्वं न कारयेत् ।
सूत्राणामन्तरं बध्वा द्वित्रिभागस्तु लक्षयेत् ॥ ३-४२ ॥

वामदेवेन मन्त्रेण सूत्रपातस्तु कारयेत् ।
पूर्वपश्चिम दिक्भागे सूत्रं दत्वा समाहितः ॥ ३-४३ ॥

तत्वसूत्रं प्रसार्याथ दक्षिणोत्तरगं शुभम् ।
तस्य सूत्रं ततो ग्राह्य आश्रमेन विनिर्मिते ॥ ३-४४ ॥

पूर्वादिचोत्तरान्तञ्च सूत्रन्तत्र प्रसारयेत् ।
आग्नेय्यां प्रभवं सूत्रं वायव्यान्तु विसार्य च ॥ ३-४५ ॥

ऐशान्यां प्रभवं सूत्रं नै-ऋत्यान्तु विसारयेत् ।
चतुरश्रं समंकृत्वा नवभागं विभज्यताम् ॥ ३-४६ ॥

मध्यभागेन पद्मस्य कर्णिकायां समालिखेत् ।
चतुर्भागैस्तु तत्पद्ममष्टपत्रोपशोभितम् ॥ ३-४७ ॥

प्. २४५) प्रथमं कर्णिकाभागं द्वितीयं केसराणि वै ।
तृतीयं दलसन्धौ तु दलाग्राणि चतुर्थकम् ॥ ३-४८ ॥

प्रतिमावरणे रेखां पद्मबाह्ये तु बुद्धिमान् ।
पद्मस्यैवं प्रमाणन्तदनन्तत्वाच्छिवस्य च ॥ ३-४९ ॥

स्वल्पे स्वल्पन्तु कर्तव्यं विस्तारे विस्तरं भवेत् ।
वीधिः पद्मार्धमानेन पद्ममानेन वा पुनः ॥ ३-५० ॥

वीध्यासमोभवेत् पद्मं शोभापद्मं समाश्रिता ।
तत्समानकपोले तु शोभान्तुल्यापशोभका ॥ ३-५१ ॥

पञ्चमन्तु समद्वारञ्चतुर्दिक्षु विशेषतः ।
द्विहस्तमेकहस्तं वा अत ऊर्ध्वं विवर्जयेत् ॥ ३-५२ ॥

निस्थूलं न कृशं हीनं वक्रबिन्दुविवर्जितम् ।
देवस्य भवनं कृत्वा प्रोक्तं तन्मोक्षसिद्धिदम् ॥ ३-५३ ॥

स्थूलं सर्वभयं प्रोक्तं वक्त्रे कलहमादिशेत् ।
हीने तु सिद्धिहीनन्तु बिन्दौ शत्रुभयपदम् ॥ ३-५४ ॥

कृशे व्याधिसमुत्पन्नं दुर्भिक्षं वर्णमिश्रके ।
सान्निध्यं न भवेच्छोभा राजतः सूत्रलघने ॥ ३-५५ ॥

तस्मात् सर्वप्रयत्नेन कर्तव्यं लक्षणान्वितम् ।
शुक्लं रक्तासितासूत्रं रजतस्त्रिविधं स्मृतम् ॥ ३-५६ ॥

वामे ज्येष्ठा च रौद्री च वर्णानामधितेदवता ।
मुहूर्तस्य प्रकाशार्थं शुक्लवर्णस्य पातनम् ॥ ३-५७ ॥

तद्राग जननार्थाय रक्तवर्णस्य पातनम् ।
तामसस्तु निव्रत्यैव कृष्णवर्णं प्रपातयेत् ॥ ३-५८ ॥

तेषां यागफलप्राप्त्यै पीतवर्णं प्रपातयेत् ।
आलिख्य शुक्लवर्णाद्यैः कनिष्ठाङ्गुलिनाहतः ॥ ३-५९ ॥

सूत्रान्तरं यवं प्रोक्तं हृस्वाद्धृस्वन्तरं स्मृतम् ।
असव्येन तु मुक्त्यर्त्थी भुक्त्यर्त्थी सव्यकेन तु ॥ ३-६० ॥

सर्वसिद्धिकराग्रेण श्रीकामिमुष्टिना लिखेत् ।
मुक्ताचूर्णैस्तु सम्मिश्रं शुक्लवर्णं विशेषतः ॥ ३-६१ ॥

प्. २४६) पद्मरागस्य चूर्णैस्तु रक्तवर्णं प्रशस्यते ।
इन्द्रनीलस्य चूर्णैस्तु कृष्णवर्णं प्रकीर्तितम् ॥ ३-६२ ॥

चामीकरस्य चूर्णैस्तु उमावर्णमुदाहृतम् ।
अलाभे संखचूर्णैश्च जातिलिङ्गस्य चूर्णकैः ॥ ३-६३ ॥

कृष्णाञ्जनस्य चूर्णैस्तु मनःशिलायाश्च चूर्णकैः ।
तेषामलाभे चूर्णानां शालितण्डुलचूर्णकैः ॥ ३-६४ ॥

पक्वेष्टकायाश्चूर्णैश्च दग्धतण्डुलचूर्णकैः ।
ततो हरिद्राचूर्णैस्तु कारयेदब्जमत्र वै ॥ ३-६५ ॥

कर्णिकापीतवर्णेन पुष्करा हेमसन्निभैः ।
यवमात्रोन्नतास्तस्यां पञ्चविंशति पुष्करम् ॥ ३-६६ ॥

केसरागुणसङ्काशास्त्वधोर्ध्वे शुक्लवर्णकाः ।
पद्मस्याष्टदलं श्वेतं कृष्णं रेखान्तरेषु वै ॥ ३-६७ ॥

रेखापार्श्वे तु रक्तान्तौ तथैव प्रतिवारणम् ।
रक्तवर्णेन वीधीस्यात् पद्मस्य परितस्तदा ॥ ३-६८ ॥

द्वाराणि पीतवर्णानि कर्तव्यौ द्वारपार्श्वयोः ।
शोभाश्चाप्युपशोभाश्च सर्ववर्णैस्तु कारयेत् ॥ ३-६९ ॥

एवं समाप्तेन लिने शिवमावाहयेत् बुधः ।
मद्ध्ये सदाशिवं यष्ट्वा गन्धपुष्पादिभिर्युतम् ॥ ३-७० ॥

गर्भावरणसंपूज्य विद्येशावरणं ततः ।
गणेशावरणं पश्चाल्लोकेशावरणं ततः ॥ ३-७१ ॥

अस्त्रावरणमेवन्तु पूजयेत् तु यथा विधि ।
ईश्वरं दक्षिणे यष्ट्वा गौरीं तस्यैव वामके ॥ ३-७२ ॥

मण्डलस्य विधिः प्रोक्तं दीक्षाविधिमतः शृणु ।

इति मण्डलविधिपटस्तृतीयः ॥ ३ ॥


प्. २४७) अथ दीक्षाविधिपटलः

अत ऊर्ध्वं प्रवक्ष्यामि दीक्षामार्गं विशेषतः ।
दीयते तच्छिवत्वं हि क्षीयते पापपञ्जरः ॥ ४-१ ॥

क्षयदानविशेषत्वात् दीक्षा चेत्यभिधीयते ।
मण्डलं पूजयित्वा तु तदग्रे चाग्निपूजनम् ॥ ४-२ ॥

शिवाग्निं विधिवद्धुत्वा प्रागुक्तविधिना हुतः ।
ततस्तु दीक्षयेच्छिष्यान् ब्राह्मणादि क्रमेण तु ॥ ४-३ ॥

आचार्यलक्षणोपेतः शैवसिद्धान्तवित्सुधीः ।
नैष्ठिकः शिवयोगज्ञः सर्वेषां तु गुरूत्तमः ॥ ४-४ ॥

सुस्नात्वा शैवमन्त्रज्ञः सकलीकृतविग्रहः ।
प्रोक्षणं प्रथमं कृत्वा दीक्षांकुर्याद्दिनान्तरे ॥ ४-५ ॥

संपूज्य विधिवच्छिष्यां दीक्षांकुर्यात् द्वितीयकम् ।
विप्रादीञ्च ततः शिष्यान् शुचिस्नात्वा जितेन्द्रियान् ॥ ४-६ ॥

उत्तराभिमुखान् पुष्पैः कुशैरास्तीर्यमण्डले ।
शिवांभसा तु संप्रोक्ष्य चाङ्गुल्यास्त्रेण भस्मना ॥ ४-७ ॥

दहेत् कालाग्निना (कालाग्गिना) सर्वं शरीरं
शुष्ककाष्ठवत् ।
ततो स्यालभतं कार्यं शिववीजेनमुद्रया ॥ ४-८ ॥

हृदा हृदयमालभ्य शिरसा तु शिरस्तथा ।
शिखया तु शिखां स्पृष्ट्वा कवचेनस्तनान्तरम् ॥ ४-९ ॥

नेत्रेणनेत्रं स्पृष्ट्वा तु सर्वेष्वंगेषु चा स्मृतः ।
शिवहस्तन्तु दातव्यमीशानोद्याभिमंत्रितम् ॥ ४-१० ॥

तेषां मूर्धसुतद्धस्तं त्रिधा संस्वापयेत् बुधः ।
गन्धाद्यैस्तु समभ्यर्च्य प्रोक्षणञ्चैवमुच्यते ॥ ४-११ ॥

तस्याग्रे मण्डलं कृत्वा चतुरश्रसमन्वितम् ।
पिष्टचूर्णैरलङ्कृत्य दर्भैरास्तीर्य पुष्पकैः ॥ ४-१२ ॥

ईशानं मध्यमे स्थाने वक्त्रमैन्द्र तु बुद्धिमान् ।
अघोरं दक्षिणे न्यस्त्वा पश्चिमे सद्य एव तु ॥ ४-१३ ॥

प्. २४८) उत्तरे वामदेवन्तु आग्नेय्यां हृदयं ततः ।
ब्राह्मशिरस्तु नै-ऋत्यां शिखां वै वायुदेशके ॥ ४-१४ ॥

कवचं त्वीशदिक्भागे तत्तन्नाम्ना समाचरेत् ।
देवस्याभिमुखाञ्चिष्यान् भस्मोद्धूल न विग्रहान् ॥ ४-१५ ॥

नेत्रे च नेत्रमन्त्रेण संवेष्ट्य नववस्त्रकैः ।
विप्रादीनान्तु शिष्याणां तद्वर्णं समपुष्पकम् ॥ ४-१६ ॥

निक्षिप्यमण्डले मध्ये शिवमन्त्रं समुच्चरन् ।
यस्मिन् च नृपतेः पुष्पं नामगोत्रन्तदात्मकम् ॥ ४-१७ ॥

ईशानवक्त्र विद्येशान घोरब्रह्मसद्यकम् ।
रुद्रो वामश्च हुंकारो नवधानाम उच्यते ॥ ४-१८ ॥

ब्राह्मणादि चतुर्णान्तु गणान्तान्तं शिवादिकम् ।
स्त्रीणान्तु शक्तिनामान्तं दीक्षनामविधीयते ॥ ४-१९ ॥

नैष्ठिकानां विशेषोस्ति गोचरं गोत्रसन्ततिः ।
शिवः शिखा तथा ज्योतिः सावित्री चेति गोचराः ॥ ४-२० ॥

दूर्वासादिचतुर्णान्तु तद्वर्णं गोत्रमुच्यते ।
चर्यापादे तु यत् प्रोक्तं तत्सूत्रं शिवभाषितम् ॥ ४-२१ ॥

आचार्यं गोचरं गोत्रं सूत्रं तस्य विधीयते ।
प्रागुक्तवत् समयिनां तेषामभिमुखङ्गुरुः ॥ ४-२२ ॥

करन्यासं पुराकृत्वा दहनप्लावनञ्चरेत् ।
अष्टत्रिंशत् कलान्यासं कृत्वा तास्तु पुरोक्तवत् ॥ ४-२३ ॥

हृदयानि षडंगानि पञ्चब्रह्माणि विन्यसेत् ।
रुद्रमन्त्रदशात्मानं प्रासादं विन्यसेत् ततः ॥ ४-२४ ॥

षडध्वानां तु संकल्प्य शिवास्यं न कथं यथा ।
करादिपां नदान्तस्य स्वमूर्ध्नादि यथा क्रमम् ॥ ४-२५ ॥

तच्छिष्यानान्तु देहेषु एकैकं विन्यसेत् ततः ।
षडध्वशोधनं ह्येनन्ततो होमं समाचरेत् ॥ ४-२६ ॥

तत्वाध्वा च पदाध्वा च वर्णाध्वा भुवनात्मकम् ।
मन्त्राध्वा च कलाध्वा च एकैकं होमयेच्छतम् ॥ ४-२७ ॥

प्. २४९) विद्येशानां स्वमन्त्रैश्च गणेशानां स्वमन्त्रकैः ।
लोकेशानां स्वमन्त्रैश्च दशास्त्राणां समन्त्रकैः ॥ ४-२८ ॥

घृतेन होमयेद् विद्वान् प्रत्येकन्तु शताहुतिः ।
एवं कर्तुमशकश्चेत् तत्व दीक्षां समाचरेत् ॥ ४-२९ ॥

संश्राव्य समया पश्चात् देवदेवस्य चाग्रतः ।
शिवशास्त्रमनिन्द्यं हि प्रविशेद्दीक्षितान् सदा ॥ ४-३० ॥

आचार्यस्य तु ज्येष्ठानां लिङ्गश्ता?यां न लंघयेत् ।
अदीक्षिता च या नारी सङ्गमं वर्जयेत् तदा ॥ ४-३१ ॥

निर्माल्यन्तु न भुञ्जीत भस्मयुक्तां न निन्दयेत् ।
इत्यष्टौ समयास्त्वेते दीक्षितानां प्रकीर्तिताः ॥ ४-३२ ॥

पालनीयास्तथा ह्येते दीक्षितानां वचः शृणु ।
सुशीलः सुवृतश्चैव शिवभक्ति गुरुस्तथा ॥ ४-३३ ॥

शिवशास्त्रे रतिश्चैव यदा क्षान्ति जितेन्द्रियः ।
इत्यष्टा वस्तिचेत् पुंछः? सयांतिपरमाङ्गतिम् ॥ ४-३४ ॥

न पालयन्ति ये मोहात्तेयान्ति नरके भृशम् ।
कृत्वा तु दिक्बलिन्तत्र गन्धपुष्पादिभिर्युतम् ॥ ४-३५ ॥

सपत्नीकाश्च शिष्याश्च ततः स्वश्रमसंयुता ।
इत्येवं विधिवत् कृत्वा पश्चाद्धोमं प्रकीर्तितम् ॥ ४-३६ ॥

शिवाग्निं पूर्ववत् कृत्वा शिष्यानाहूयमन्त्रवित् ।
अभिमुखे तथा सीनाश्चार्घ्य पाद्यादिनार्चयेत् ॥ ४-३७ ॥

वक्ष्येहं तद्यथा युक्तं पञ्चधा शृणु सांप्रतम् ।
उक्तासुतासु सर्वा तु श्रेष्ठा चेत्यभिधीयते ॥ ४-३८ ॥

पृथिव्यापसथा तेजोवायुराकाशमुच्यते ।
काला न याच्छिवं यावत् पञ्चतत्वैर्व्यवस्थितम् ॥ ४-३९ ॥

पार्त्थीवन्तु निवृत्यां वै शतरुद्रमवस्थितम् ।
आपत् प्रतिष्ठाया विद्या यावच्च प्रकृतिन्नरम् ॥ ४-४० ॥

तेजो वै विद्यया ज्ञेया यावद् विद्येश्वरान्तकम् ।
वायुः शास्त्या तु विज्ञेयास्ततः सदाशिवान्तकम् ॥ ४-४१ ॥

प्. २५०) शक्त्यन्तं नाभिरित्युक्ताः शान्त्याती तेन बुद्धिमान् ।
निवृत्तिर्जानुपर्यन्तं प्रतिष्ठानाभि सीमकान् ॥ ४-४२ ॥

विद्या कर्णान्तमेवं हि मुखान्तं शान्तिरेव तु ।
शान्त्यातीतं तदूर्ध्वे तु परापर शिवान्तकम् ॥ ४-४३ ॥

निवृत्तिं सद्यमन्त्रेण प्रतिष्ठां वाममन्त्रतः ।
विद्याघोरेण होतव्यं शान्तिस्तत्पुरुषेण तु ॥ ४-४४ ॥

शान्त्यातीतमथैशान मन्त्रेण जुहुयात्बुधः ।
एकैकस्य शतं हुत्वा तदर्धं वार्धमेव वा ॥ ४-४५ ॥

एवमेव हुतं हुत्वा बुधस्तत्वैस्तु पञ्चभिः ।
अन्यजन्मविनाशाय हृदयेन शतं हुनेत् ॥ ४-४६ ॥

पशुत्वं नाशनं तस्माच्छिवत्वं हि निवर्तते ।
ततः पूर्णाहुतिं हुत्वा पञ्चब्रह्मभिरेव तु ॥ ४-४७ ॥

एवं समाप्य तद्दीक्षामभिषेकन्ततः शृणु ।
सर्वालंकारसंयुक्तं मण्डपे समलंकृते ॥ ४-४८ ॥

शिवाग्निं पूर्ववत् कृत्वा अभिषेकं समाचरेत् ।
हस्तादि पञ्चहस्तान्तं यथा वित्तानुसारतः ॥ ४-४९ ॥

स्नपनस्य विधानेन स्थापयेत् कुलशानि वै ।
भद्रपीठे समास्थाय शिष्यस्थानं दृढवृतम् ॥ ४-५० ॥

अर्चयित्वा यथा न्यायं न्यासं कृत्वा यथा विधि ।
निष्कलन्तु यथा चार्यः सकलः साधकः सदा ॥ ४-५१ ॥

ततोभिषेकं तस्यैवमाचरेद् देशिकोत्तमः ।
दशाक्षरेण मन्त्रेण कूटकैरष्टभिः क्रमात् ॥ ४-५२ ॥

यथा वित्तानुसारेण पुण्याहञ्जयमङ्गलैः ।
स्नापयित्वा ततो मंत्री शुक्लवस्त्रैर्विभूषितः ॥ ४-५३ ॥

गन्धपुष्पैः समभ्यर्च्य योगपीठोपरिस्थितः ।
उष्णीषं बन्धयेत् सूक्ष्मं सितसुद्धेन वाससा ॥ ४-५४ ॥

ललाटपट्टं दातव्यं यथा राज्ञः प्रकीर्तितम् ।
मकुटं कुण्डलाद्यैस्तु सर्वैराभरणैरपि ॥ ४-५५ ॥

च्छत्रं ह्युपरिसन्धार्य चामरञ्च विधानवित् ।
द्रव्याणामप्यलाभे तु दर्भैरेतानि कल्पयेत् ॥ ४-५६ ॥

प्. २५१) अथवा मनसा सर्वं शिवमन्त्रेण (छिवमन्त्रेन्तण)
चिन्तयेत् ।
रुद्राक्षमुपवीतञ्च उष्णीषञ्चोत्तरीयकम् ॥ ४-५७ ॥

पुस्तकं सृक्सृवञ्चैव करणीं कर्तरीं तथा ।
शिवार्चनाग्निकार्यञ्च जपध्यानञ्च शक्तितः ॥ ४-५८ ॥

व्याख्यामनुग्रहं कार्यमेवं भवतु सर्वदा ।
सर्वाधिकारभावञ्च दत्वाशिष्यस्य देशिकः ॥ ४-५९ ॥

ब्राह्मणक्षत्रिया वैश्याः शूद्राः शुद्धकुलोद्भवाः ।
आचार्यदेहि विज्ञेयानान्येषान्तु कदाचन ॥ ४-६० ॥

सर्वमन्त्रजपध्यान ज्ञानं सत्भावभावितम् ।
सर्वेषान्तु समंज्ञेयं होत्रयादीक्षिताद्ध्वरे ॥ ४-६१ ॥

एवं मन्त्रप्रभावेन कुर्यात् संस्कारकर्मणि ।
चातुर्वर्णानि चान्यानि शिवयागे तु दीक्षयेत् ॥ ४-६२ ॥

अनुलोमान् प्रतिलोमांश्च सुज्ञात्वा दीक्षयेत् गुरुः ।
दक्षिणां गुरवे दत्वा वित्तशाठ्य विवर्जितः ॥ ४-६३ ॥

वस्त्रमाभरणञ्चैव मकुटं कुण्डलं तथा ।
हेमयज्ञोपवीतञ्च हेमपूष्पोपहारकम् ॥ ४-६४ ॥

मुद्राशय्यासनादीनि आचार्यस्य प्रदापयेत् ।
तेषां षोडशकर्माणि शृणु तत्त्वं विनायक ॥ ४-६५ ॥

इति दीक्षाविधिपटलश्चतुर्थः ॥ ४ ॥


अथ षोडशक्रियाविधिपटलः

अथातः संप्रवक्ष्यामि शैवानां षोडशक्रियाः ।
शिवाध्वरे च ये मर्त्या दीक्षायोग्यतया स्थिताः ॥ ५-१ ॥

तेषान्तु षोडशप्रोक्तं शिवेन परमात्मना ।
ऋतुसङ्गमनञ्चाद्ये गर्भाधानं द्वितीयके ॥ ५-२ ॥

पुंसवनं त्रितीयन्तु सीमन्तं हि चतुर्थकम् ।
पञ्चमञ्जातकर्मञ्च षष्ठञ्चोत्थानमेव च ॥ ५-३ ॥

प्. २५२) सप्तमन्नामकरणमन्नप्राशनमष्टकम् ।
नवमे वा सगमनं दशमे पिण्डवर्द्धनम् ॥ ५-४ ॥

समावर्तनकं पश्चाद्विवाहं षोडशो भवेत् ।
एतानि षोडशानी ह पृथग्वक्ष्ये समासतः ॥ ५-५ ॥

प्रथमे ऋतुसंयुक्ते ऋतुसङ्गमनं तथा ।
त्रिरात्रं ऋतुसंयुक्तञ्चतुर्थेह निशुद्ध्यति ॥ ५-६ ॥

आर्तवे पूर्वरात्रौ तु तद्रात्रं प्रतिगृह्य च ।
आर्तवे पररात्रौ तु तद्रात्रं परिवर्जयेत् ॥ ५-७ ॥

प्रथमेहनि चण्डाली द्वितीये ब्रह्मघातकी ।
तृतीये रजकी प्रोक्ता चतुर्थे हनि शुद्ध्यति ॥ ५-८ ॥

त्रिरात्रं मलविद्धा सा स्नानादीनि विवर्जिता ।
एकभुक्ता न खर्वेण वरिसाञ्जलि ना पिबेत् ॥ ५-९ ॥

ग्रहेक्षणदिवा स्वप्नं न शुल्पेनाश्नियात् ततः ।
चतुर्थे दन्तकाष्ठाद्यै स्नात्वा चामलकादिभिः ॥ ५-१० ॥

शुद्धवस्त्रानुलेपाद्यैस्त्रीशूद्राणां न भाषयेत् ।
स्नातायान्तु दृशापश्येत् तादृशं लभते सुतम् ॥ ५-११ ॥

अपश्येदपरं तस्मात् भरारन्दर्शयेत् तु सा ।
कन्याया प्रथमे चेति सर्वालङ्कारसंयुता ॥ ५-१२ ॥

शास्त्रोपदिष्टकल्याणं कृत्वा तत्व विशेषतः ।
शिवाग्निं पूर्ववत् कृत्वा पूर्वोक्तविधिना यथा ॥ ५-१३ ॥

शिवं मध्ये तु संस्थाप्य संपूज्यपूर्ववत् क्रमात् ।
शिवाङ्गं ब्रह्ममन्त्रैस्तु होममेवं प्रकारयेत् ॥ ५-१४ ॥

ऋतु स्नातान्तरितं कृत्वा तत्र वामे तु संस्थिता ।
सुस्नात्वा चम्य विधिवत् बस्मोद्धूलितविग्रहा ॥ ५-१५ ॥

वह्नेः पश्चिमदिक्भागे पूर्वस्याभिमुख स्थिता ।
आचार्येणार्चितञ्चाग्निं ततो मन्त्रेण हूयते ॥ ५-१६ ॥

परिषेकं ततः कुर्याद् विद्यांगैरभिमंत्रितः ।
सहस्रं वा शताष्टं वा हुत्वा वै ब्रह्मपञ्चकैः ॥ ५-१७ ॥

प्. २५३) लक्ष्या तु पटश्रंगे च हविष्यञ्चैव निक्षिपेत् ।
नासिकादक्षिणे पुत्र मपरेदुहितेश्चया ॥ ५-१८ ॥

निर्वीवनं न कर्तव्यं शोषरोषौ च वर्जयेत् ।
पुत्रार्त्थमेव संकल्प्य न भोगाय कदाचन ॥ ५-१९ ॥

आर्तवात् द्वादशान्तं वा षोडशं वा प्रचक्षते ।
प्रधानं त्रिदिनं त्यक्त्वा चतुर्थदिवसागमम् ॥ ५-२० ॥

युग्मके तु पुमान्विद्धित्वयुग्मेस्त्रीप्रजा तथा ।
शुक्लवृद्ध्या तु पुरुषो रक्तवृद्ध्यास्त्रीप्रजायते ॥ ५-२१ ॥

रक्तशुक्लौ समञ्चेत् तु षण्डन्तत्र प्रजायते ।
पुन्नागमुकुलं यद्वत् तद्वत् गर्भाशयोगतम् ॥ ५-२२ ॥

गर्भाशयगतो बिन्दुर्वायुच्छेद्य द्विधापुनः ।
द्विधागर्भं समादाय शरीरं द्विविधं स्फुटम् ॥ ५-२३ ॥

आयुः कर्म च वित्ताद्या वर्तन्ते चेश्वरेण वै ।
ऋतु सङ्गमनं प्रोक्तं गर्भाधानन्ततः शृणु ॥ ५-२४ ॥

सद्योग्रहीत गर्भाया लक्षणं मन्निबोधतः ।
शरीराटोपसं क्लेश स्थितद्वेषकभर्त्रका ॥ ५-२५ ॥

अत्र चिंखरतायोने स्फुरणेन समन्विता ।
आलक्ष्यगर्भं सवीक्ष्य शुभनक्षत्रसंवृतः ॥ ५-२६ ॥

अग्निं पूर्ववदाराध्य सद्येनाष्टशतं हुनेत् ।
यवञ्चापि पयोदत्वा पयोदधि घृतं समम् ॥ ५-२७ ॥

एतत् तु प्रथितं प्रोक्तं प्रासयेदीशमन्त्रतः ।
तत्पत्नीं सकलीकृत्य पुरुषेणोदरं स्पृशेत् ॥ ५-२८ ॥

गर्भाधानमिदं प्रोक्तं ततः पुंसवनं शृणु ।
द्विमासे प्रथमे गर्भे चतुर्मासेऽथवा पुनः ॥ ५-२९ ॥

शुभनक्षत्रसंयोगे चाग्निमाराद्ध्य पूर्ववत् ।
वामदेवेन साहस्रमथवाष्टशतं हुनेत् ॥ ५-३० ॥

तत्र पृथक् च सहितो माषधान्यं प्रवेशयेत् ।
याज्ञिकैर्वृक्षमुकुलैः क्षीरयुक्तं विमत्थ्य वै ॥ ५-३१ ॥

प्. २५४) तद्द्रव्यं नववस्त्रेण पत्न्यानासापुटे बुधः ।
वामदेवेन मन्त्रेण शिवं स्मृत्वा तु दापयेत् ॥ ५-३२ ॥

शैवान् संभोजयित्वा तु आचार्यं पूजयेत् ततः ।
एवं पुंसवनं प्रोक्तं सीमन्तञ्च ततः शृणु ॥ ५-३३ ॥

चतुर्थे षष्ठमेवाष्टमासे सिमन्तकर्मकम् ।
पूर्वे वा शुभनक्षत्रे वह्निं पूर्ववदाचरेत् ॥ ५-३४ ॥

अघोराष्टशतं हुत्वा व्याहृतिस्तत्र हूयते ।
दर्भोदुंबरमाल्यादि बध्वासीमन्तकर्मणि ॥ ५-३५ ॥

ललाटच्छिरमध्यान्तं समालिख्य समापयेत् ।
विद्यांगेन तु तत्कर्म नववस्त्रन्तु दापयेत् ॥ ५-३६ ॥

संपूज्य हेमस्रग्गन्धैः सीमन्तोन्नयनं ततः ।
पुरस्तादीशमन्त्रेण पूर्ववक्त्रवृतञ्चरेत् ॥ ५-३७ ॥

पुरुषेणोदकं स्पृष्ट्वा जपित्वा शिवमन्त्रतः ।
प्रोक्तं सिमन्तमेवं हि जातकर्मं ततः शृणु ॥ ५-३८ ॥

सूतिकाग्रहमन्वीक्ष्य शुद्धिं कृत्वा पुरातनम् ।
तिलसर्षपचूर्णैस्तु धूपयित्वाग्रहान्तरम् ॥ ५-३९ ॥

सूतिकायात्वथेऽष्टाभिस्तर्जांस्त्रीभिः प्रवेशयेत् ।
ग्रहसारन्तु संपूज्य तदज्ञात्वा ग्रहस्थितिम् ॥ ५-४० ॥

कुमारोजायमानश्चेत् विरह्यमपरं ततः ।
अस्त्रेणैवशतं हुत्वा सर्वरक्षार्थमेव च ॥ ५-४१ ॥

जाते पुत्रेशिवं ध्यात्वा मुखं वामेन दर्शयेत् ।
नाभिसूत्रमथास्त्रेण छित्वांगानि विशोद्ध्य वै ॥ ५-४२ ॥

पञ्चब्रह्मसमुच्चार्य पुत्रमूर्ध्नि जिघृक्षयेत् ।
तस्यैव दक्षिणे श्रोत्रे जप्त्वा तत्पुरुषं ततः ॥ ५-४३ ॥

मध्वाज्यगुलसम्मिश्रं दत्वाब्रह्मवृतं तथा ।
सुवर्णदर्भयाबध्वा ते नैवाज्य हृदासह ॥ ५-४४ ॥

प्. २५५) दत्वा हिरण्यरूपेति दातव्यं साधकोत्तमः ।
मातृहस्ते च दत्वातं सद्येन क्षालयेत् स्तनौ ॥ ५-४५ ॥

प्रशान्तायेति मन्त्रेण दातव्यं दक्षिणं स्तनम् ।
कुम्भमाराध्य तत्रैव अघोरास्त्रेण मन्त्रतः ॥ ५-४६ ॥

पूर्णोदकं शरस्थाने रक्षार्थं स्थापयेत् बुधः ।
होतव्यं दशरात्रौ तु सायं प्रातरतंद्रितः ॥ ५-४७ ॥

एतत् कर्म च भर्तुश्च कर्तव्यं हि दिनेदिने ।
त्रयः पञ्चाहसप्ताहे शयनादीनिशोधयेत् ॥ ५-४८ ॥

जातकर्ममिदं प्रोक्तमुत्थानं शृणु सुवृत ।
दशारात्रे त्वतीते तु कृत्वोत्थापनकर्मकम् ॥ ५-४९ ॥

सर्वद्रव्याणि भाण्डानि वर्जयेत्तानि यत्नतः ।
कं सदार्वायसादीनि मानसाशुद्धिरुच्यते ॥ ५-५० ॥

संशोध्यकारुणा वस्त्रं भस्मना हेमशुद्धिकम् ।
मृत्गोमयोदकैरेव तत्ग्रहञ्चोपलेपयेत् ॥ ५-५१ ॥

कृत्वा तु मलिनस्नानं दंपत्योः क्षुरकर्मकम् ।
तत स्नानन्तु कर्तव्यं तदा पर्यग्निकं बुधः ॥ ५-५२ ॥

प्रक्षिप्यनवभाण्डानि पञ्चगव्यन्तु प्राशयेत् ।
पुण्याहं वाचयित्वा तु प्रोक्षयित्वा जनान् क्रमात् ॥ ५-५३ ॥

कुशोदकं शरावे तु शिवमन्त्रगणैः सह ।
शिवभूतञ्च तत्तोयं दंपत्योः प्राशयेत् क्रमात् ॥ ५-५४ ॥

उत्थापनमिदं प्रोक्तं नामनिर्देशनं शृणु ।
एकादश्यां वा द्वादश्यां नामनिर्देशनं क्रमात् ॥ ५-५५ ॥

शिवाग्निं विधिवत् कृत्वा पुत्रं संस्पृश्यमन्त्रवित् ।
पुत्रस्य देवतोद्दिश्य नामकर्म च कारयेत् ॥ ५-५६ ॥

प्रथमन्तु महादेवं द्वितीयन्तु महेश्वरम् ।
त्रितीयं शंकरं प्रोक्तञ्चतुर्थं वृषभध्वजम् ॥ ५-५७ ॥

पञ्चमं कृत्तिवासस्तु षष्ठं वै कामनाशनम् ।
सप्तमं देवदेवेशं श्रीकण्ठञ्चाष्टमं स्मृतम् ॥ ५-५८ ॥

नवमं ईश्वरं प्रोक्तं दशमं पार्वती प्रियम् ।
रुद्रमेकादशञ्चैव द्वादशस्तु शिवस्तथा ॥ ५-५९ ॥

प्. २५६) तानिद्वादशनामानि कृत्तिकादिषु बुद्धिमान् ।
शिवान्तं मुक्तिनामानि वाचयेदग्नि सन्निधौ ॥ ५-६० ॥

दूर्वांकुराक्षतैर्मिश्रैः पाणौ वा दक्षिणोत्तरम् ।
पादादिमूर्ध्निपर्यन्तं शिवांगेन निदापयेत् ॥ ५-६१ ॥

शिवमन्त्रं समुच्चार्य कन्यायाः शक्तिनामतः ।
अंबिका पार्वतीगौरी भवानी च सुरार्चिता ॥ ५-६२ ॥

दाक्षायणीहैमवती महादेवी हरि प्रिया ।
उमाशिवकरी चेति गिरिजाद्वादशैव तु ॥ ५-६३ ॥

शक्तेर्नाम इति ख्याता कृत्तिकादिषु योजयेत् ।
आचार्यपूजनं कृत्वा शैवांस्तान्परिपूजयेत् ॥ ५-६४ ॥

नामनिर्देशनं प्रोक्तं ततोन्नप्रासनं शृणु ।
षाण्मासे शुभनक्षत्रे चान्नप्राशनकर्मकम् ॥ ५-६५ ॥

नोच्छिष्ट स्पर्शनं बालं सुमुहूर्ते शुभेदिने ।
पक्वान्नं पयसाज्येन वह्निमाराध्यपूर्ववत् ॥ ५-६६ ॥

बीजमन्त्रेणमतिमान् कांसपात्रे तु संस्थितम् ।
भोजयेत् पायसे नैव जनान् सर्वान्विशेषतः ॥ ५-६७ ॥

होमान्नं कारयेद्धिमानन्न प्राशनकर्मणि ।
अन्नप्राशनमेवं हि प्रवासगमनं शृणु ॥ ५-६८ ॥

तद्दिने सुमुहूर्ते तु सङ्ग्रहे तु मनोरमे ।
अग्न्याधानन्ततः कृत्वा सद्येनाष्टशतं हुनेत् ॥ ५-६९ ॥

पितापुत्रमलंकृत्य शिवघोषं विशेषतः ।
पिता तत्पुरुषेणैव तत्पुत्रं मूर्ध्नि जिघ्रति ॥ ५-७० ॥

शिवमन्त्रं ततो जप्त्वा गत्वादेवालयं शनैः ।
वृषगायत्रि मन्त्रेण वृषगर्भं प्रणम्य च ॥ ५-७१ ॥

देवदेवं नमस्कृत्वा पुत्रेणसहबान्धवैः ।
गुहालयं ततो गत्वा प्रणम्यगुहमव्ययम् ॥ ५-७२ ॥

शनैः शनैर्ग्रहं नित्वा रक्षां कृत्वा तु भस्मना ।
पिण्डवर्धनकं वक्ष्ये अग्न्याधानन्तु पूर्ववत् ॥ ५-७३ ॥

प्. २५७) विधिवत् ब्रह्मशिरसा हुत्वा चाष्टशतं पुनः ।
दक्षिणांगुष्ठमारभ्य ईशानं तदनुक्रमात् ॥ ५-७४ ॥

जपित्वा कारयेद्विद्वान्येवं वापि दशाक्षरम् ।
मधुराक्षारसद्रव्यैः शैवान् संभोज्ययत्नतः ॥ ५-७५ ॥

पिण्डवर्धनमेवं हि क्षुरकर्म ततः शृणु ।
त्रिवर्षे शुभनक्षत्रे सुतिथौ चोतरायणे ॥ ५-७६ ॥

तद्दिनात् पूर्वदिवसे कृत्वानां दीमुखं पुनः ।
चौलोपनयने चैव समावर्तनके तथा ॥ ५-७७ ॥

पाणिग्रहणके तेषां पूर्वे नान्दीमुखं स्मृतम् ।
वितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् ॥ ५-७८ ॥

पितॄन् पितामहांश्चैव तथा वै प्रपितामहान् ।
एतैर्नामभि संकल्प्य शिवभावादनु क्रमैः ॥ ५-७९ ॥

एवं नान्दीमुखं कृत्वा यथा शक्त्या तु दक्षिणाम् ।
अस्त्रमन्त्रेण संप्रोक्ष्य बध्वा प्रतिसरन्निशि ॥ ५-८० ॥

प्रभाते चौलकार्यार्थं स्थण्डिलं तत्र वित्तमः ।
शिवाग्निं विधिवद्धुत्वा रुद्राण्यष्टशताहुतिः ॥ ५-८१ ॥

अग्नेः पूर्वे तु तद्बालं न्यस्त्वा गव्यादिनार्चयेत् ।
हरहरे तु घोषैस्तु ततोमङ्गलवाचकैः ॥ ५-८२ ॥

दूर्वाक्षताद्यैस्तोत्रैस्तु कृत्वा घृतशिरोर्पणम् ।
क्षुरश्चास्त्रेण संस्पृश्य पितापुत्रञ्च वापयेत् ॥ ५-८३ ॥

ईशाद्यजानुकै ब्रह्मैः शिवपूर्वादितस्तथा ।
पात्रस्थं गोशक्रं मध्ये तत्तत्केशान्वि निक्षिपेत् ॥ ५-८४ ॥

शिरोमध्ये शिखांविद्धि पञ्चविंशति भागतः ।
समवृत्तां शिखां कृत्वा शेषान्त्यक्त्वोर्ध्वनापितः ॥ ५-८५ ॥

प्रवासगमने चैव पिण्डवर्द्धनकेऽपि च ।
चौलकर्मणि कल्याणे श्रद्धावित्तान्वितेऽपि च ॥ ५-८६ ॥

होमं विनाकूमारीणां ततो मन्त्रेणचाचरेत् ।
स्नानं तत्र प्रकर्तव्यं मुक्त्वा प्रतिसरं तथा ॥ ५-८७ ॥

वस्त्राद्यैः समलं कृत्य हारिद्रगन्धपुष्पकैः ।
अग्नेः पूर्वं सुखासीनमक्षताद्यैः समर्चयेत् ॥ ५-८८ ॥

प्. २५८) हुत्वा तु शिवमन्त्रेण सहस्रं वा शतं बुधः ।
पूर्णाहुतिं ततः कृत्वा पूर्वोक्ते नैव मंत्रतः ॥ ५-८९ ॥

आचार्यं पूजयेत् पश्चात् सवत्साङ्गान्तु दापयेत् ।
गोशकृत् सास्त्रकेशांश्च संग्राह्यं धान्यसंयुतम् ॥ ५-९०


गवामभिमुखं कृत्वा निक्षिपेत् पंकमध्यमे ।
दर्भोदुंबरमूले वा कृत्वा चम्यविशेत् पुनः ॥ ५-९१ ॥

चौलकार्यमिदं प्रोक्तमौपनाय नकं शृणु ।
जातसंवत्सरादूर्ध्वे पञ्चषट्सप्तवत्सरा ॥ ५-९२ ॥

अष्टमे वा नवाब्दे वा क्रमात् ज्ञानं स्वरूपकम् ।
ब्रह्मवर्चसमायुष्यं श्रीप्रदञ्च विशेषतः ॥ ५-९३ ॥

अथवा षोडशाब्दान्तमौपनायनमाचरेत् ।
षोडशाब्दादतीते तु उद्दालान्ते समाचरेत् ॥ ५-९४ ॥

द्विमासंयावकं भुक्त्वा मासंक्षीरन्तु दापयेत् ।
आमीक्षिकायाः समार्धं भक्षयेत् दिनेदिने ॥ ५-९५ ॥

पक्वं पयसिदध्योङ्गया तु सामीक्षिका स्मृता ।
कृष्णायां कपिलायां वा अष्टरात्रं क्षितौशयेत् ॥ ५-९६ ॥

शयाच्च्रितन्तु षड्रात्रं त्रिरात्रमुदकं तथा ।
उपवासमहोरात्रमतीते द्वापरे युगे ॥ ५-९७ ॥

एकवृत्तञ्च कर्तव्यमुद्दालकमनुक्रमम् ।
स्नानं वाचाश्वमेधान्ते वाक्यैस्तौ मे विनायक ॥ ५-९८ ॥

गर्भाधानमिदं कर्मपूर्ववत्कारयेत् क्रमात् ।
वृतान्तेथ प्रकर्तव्यं वसन्ते चोत्तरायणे ॥ ५-९९ ॥

शुभनक्षत्रसहिते सुमुहूर्ते विशेषतः ।
अङ्कुरार्पणकं त्वेह सप्ताहे पञ्चमेऽपि वा ॥ ५-१०० ॥

उपवीताजिनं मौञ्जी दण्डन्तत्रैव साधयेत् ।
उपवीतविधिं वक्ष्ये चोष्णीषञ्चोत्तरीयकम् ॥ ५-१०१ ॥

शुभनक्षत्रयोगे च तान्या पाद्ययत्नतः ।
ब्राह्मणीराजपुत्री वा वैश्यकन्याथवा पुनः ॥ ५-१०२ ॥

तिसृभिर्निर्मितं सूत्रं अथवा शूद्रकन्यया ।
अन्यस्त्रीनिर्मितं सूत्रं वर्जितव्यं प्रयत्नतः ॥ ५-१०३ ॥

प्. २५९) अथवातन्तु कार्येषु संग्राह्यं साधकोत्तमः ।
सूत्रसंग्रहणे काले शोधयेत्तोयभस्मना ॥ ५-१०४ ॥

प्राज्ञः प्रारभ्यपूर्वाह्णे सद्यमन्त्रेण तन्तुकम् ।
चतुरङ्गुलमात्रेण षण्णवती च सूत्रकम् ॥ ५-१०५ ॥

ते नैव त्रिगुणं यत्तत्सूत्रं दिग्धमिहोच्यते ।
पूर्वपश्चिमतः स्थित्वा दक्षिणोत्तरमेव हि ॥ ५-१०६ ॥

हस्तदक्षिणमूर्ध्वे तु पृष्टा वै प्रथमं तथा ।
पश्चाद्वामिकञ्चोर्ध्वे त्रिगुणान्ते विशेषतः ॥ ५-१०७ ॥

भूमावन्यत्र वा क्षिप्य पूर्वाग्रे चोत्तराग्रकम् ।
पत्रं पुष्पं तृणं दत्वा कृतलोलवशं कृतम् ॥ ५-१०८ ॥

संप्रोक्ष्य वामदेवेन रज्जुं गृह्णीतसाधनम् ।
ग्रीवायाहस्तयोस्तिर्यक् चांगुष्ठात् बाहुचान्तकम् ॥ ५-१०९ ॥

तत्समञ्चैकसूत्रन्तु त्रिगुणञ्चोपवीतकम् ।
रज्जुं तत्ग्रन्धिके तस्मिन् वाग्देवी सुप्रतिष्ठिता ॥ ५-११० ॥

सावित्री चैव गायत्री वसेतामग्रमूलयोः ।
ब्रह्माविष्णुश्च रुद्रश्च त्रिसूत्राणान्तु देवता ॥ ५-१११ ॥

अघोरास्त्रेण तत्बध्वा बहुरूपेण धारयेत् ।
नाभिप्रदक्षिणं कार्यं नाभेरूर्ध्वं विधानतः ॥ ५-११२


तत्सूत्रं ब्रह्मचारीणां ग्रहस्थानां षडेव हि ।
नवकं वान प्रस्थानां यतीनां द्वादशं स्मृतम् ॥ ५-११३


उपवीतविधिः प्रोक्तमुत्तरीयमथ शृणु ।
वाससा त्रिविशुक्लेन कर्तव्यञ्चोपपीतवत् ॥ ५-११४ ॥

उत्तरीयमिदं प्रोक्तमुष्णीषं त्विहवक्ष्यते ।
हत्वाथस्ताच्छिरोन्तं यत् कर्णौ संच्छाद्ययत्नतः ॥ ५-११५ ॥

शिरोवेष्टनकं नाममृदुना शुक्लवाससा ।
उष्णीषलक्षणं प्रोक्तं कृष्णाजिनमथ शृणु ॥ ५-११६ ॥

चर्मकृष्णाजिन मृगस्यैव नान्योपयोगतः ।
कामं त्वरोगसंयुक्तं स्वतोथमरणन्ध्रुवम् ॥ ५-११७ ॥

प्. २६०) त्रियंगुलं समं वापि तथैवांगुलविस्तृतम् ।
उपवीतसमायाममिति कृष्णाजिनं स्मृतम् ॥ ५-११८ ॥

सद्यमन्त्रं समुच्चार्य बध्वातच्चर्मरज्जुना ।
कार्पासरज्जुना वापि मेखलं शृणुतत्वतः ॥ ५-११९ ॥

शुद्धदेशे स्थितं मौञ्जीं गृहीत्वा शोषणं ततः ।
सूच्यग्रेणैव तांभित्वा त्रिवृद्रज्जु त्रिरावृतम् ॥ ५-१२० ॥

समासान्मेखला प्रोक्ता दण्डस्य लक्षणं शृणु ।
पलाशबिल्वखदिरं शमीवै कंकतं तथा ॥ ५-१२१ ॥

तस्यमूर्ध्नासमदीर्घं सितबाहुसमन्तु वा ।
चर्मयुक्तमृजु स्निग्धं * * * * * * * * ॥ ५-१२२ ॥

पूर्वे नान्दीमुखं कृत्वा तदन्ते चोपनायनम् ।
शिवाग्निं पूर्ववत् कृत्वा चौलवद्वापयेत् ततः ॥ ५-१२३ ॥

अधोमुखगतान् केशान् त्यक्त्वा तत्र शिखाभ्रुवौ ।
स्नानं तत्रैव कर्तव्यं सर्वाभरणभूषितम् ॥ ५-१२४ ॥

भोजयित्वा चरूंविद्वान् कायशुद्ध्यर्थमेव च ।
उपवीतादि चिह्नानि चोत्तरे स्थापयेत् क्रमात् ॥ ५-१२५ ॥

शुचीवोभव्यमन्त्रातः संप्रोक्ष्य देशिकोत्तमः ।
ततः शिष्यं समाहूय वह्नेर्दक्षिणत स्मृतम् ॥ ५-१२६ ॥

संप्रोक्ष्य पञ्चब्रह्मैस्तु शुचीवोहव्यमंत्रितः ।
उत्तराभिमुखं शिष्यं समभ्यर्च्याक्षतादिभिः ॥ ५-१२७ ॥

प्रारभेय.ं प्रधानञ्च परिषेचन पूर्वकम् ।
ब्रंह्मांगैस्तपसं देव्या प्रत्येकं पञ्चकाहुतिः ॥ ५-१२८


परिषेचनन्तु कर्तव्यं शिवे गन्धादिनार्चयेत् ।
बध्वा वै तां नवं रज्जुमियन्द्रक्तेति मेखलाम् ॥ ५-१२९ ॥

शाटिं कौपीनवत् कृत्वा शेषं पृष्ठे वलंबितम् ।
स्वयमुच्चार्य तन्मन्त्रं उपवीतन्तु दापयेत् ॥ ५-१३० ॥

कृष्णाजिनं तु सन्धार्य बहुरूपेण बुद्धिमान् ।
उत्तरीयन्तु दातव्यं प्रशान्तायेति मन्त्रतः ॥ ५-१३१ ॥

प्. २६१) तस्योष्णीषं विनातन्त्रं तदान्याश्रमिणां तु तत् ।
दण्डं दत्वास्त्रमन्त्रेण पवित्रं तदनामिके ॥ ५-१३२ ॥

अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा विशेषतः ।
पादौ प्रक्षाल्य विधिवत् द्विराचम्य विशेषतः ॥ ५-१३३ ॥

ब्रह्मकूर्चं पिबेद्गव्यं शिवमन्त्रेणमन्त्रवित् ।
पञ्चगव्यं कुशोपेतं ब्रह्मकूर्चमिति स्मृतम् ॥ ५-१३४ ॥

पुनराचम्य विधिना सावित्री वृतबन्धनम् ।
प्रदक्षिणं हि मूर्धानं पञ्चब्रह्मैस्तु हूयते ॥ ५-१३५ ॥

सावित्री काण्डर्षयेति हुत्वेदं वृतबन्धनम् ।
सावित्रीञ्चैव गायत्रीं जपित्वाष्टा परं ततः ॥ ५-१३६ ॥

कृत्वा प्रदक्षिणञ्चाग्निं नमस्कृत्वा यथा विधि ।
क्र्त्वा तत्परिषेचन्तु शिवास्त्रेण शताहुतिः ॥ ५-१३७ ॥

समत्भिन्नभित्वा वै शतेन त्वभिमंत्रितैः ।
परिषेचन्तु कर्तव्यं गायत्रीं व्याहृतिं ततः ॥ ५-१३८ ॥

ब्रह्मांगैर्जुहुयात् सम्य्क् प्रत्येकं सप्तसप्त च ।
देवदेवं नमस्कृत्वा गुरुपूर्वं यथार्हतः ॥ ५-१३९ ॥

आचार्यं पूजयेत् तस्मात् यथा वित्तानुसारतः ।
भिक्षापात्रं सुवर्णाद्यैर्दातव्यं पुरुषेण तु ॥ ५-१४० ॥

दण्डं तद्वामहस्ते तु भिक्षापात्रं तु दक्षिणे ।
भवति भिक्षां देहीति वाच उक्त्वा पृथक् पृथक् ॥ ५-१४१ ॥

आत्मार्थं तण्डुलं ग्राह्यं प्रतिग्रहे ग्रहे तु च ।
यात्राकाले तु दण्डेन पश्वादीनि च ताडयेत् ॥ ५-१४२ ॥

सुस्नात्वा विधिना चम्य त्रिषुकालेषु नित्यशः ।
पूर्वमुक्तेन मन्त्रेण विधिनित्यं विधानवित् ॥ ५-१४३ ॥

शैवशास्त्रानुसारेण गुरुपारंपरेण तु ।
संयमेन यनो भूत्वा पूततोयं पिबेत्सुधीः ॥ ५-१४४ ॥

सिवसूर्याय दत्वार्घ्यं कुशपुष्पाक्षतान्वितम् ।
ततो गायत्रिमन्त्रन्तु त्रिसन्ध्यान्तु पृथक् पृथक् ॥ ५-१४५ ॥

प्. २६२) अष्टोत्तरशतञ्चैव शिवं ध्यायं जपेत्बुधः ।
दिनेदिने प्रकूर्वीत सर्वपापविशोधनम् ॥ ५-१४६ ॥

विधिनाचाग्निमन्त्रज्ञः सायं प्रातः सुपूजयेत् ।
कृत्वा वै मन्त्रभावेन व्याहृत्यादि घृतेन च ॥ ५-१४७ ॥

पूर्वोक्तेनैव मन्त्रेण समित्भिश्चैव हूयते ।
एवं दिनत्रयेषूक्तञ्चतुर्थे दण्डमोचनम् ॥ ५-१४८ ॥

पूर्वोक्तविधिवद्धुत्वा सद्येनाष्टशताहुतिः ।
प्रातर्विसर्जनं कृत्वा पूर्वोक्तेन तु मन्त्रतः ॥ ५-१४९ ॥

पर्यूषितोपवीता नित्यक्त्वा दक्षिणतोबुधः ।
नवयज्ञोपवीताद्यैः पूर्ववत् परिकल्पयेत् ॥ ५-१५० ॥

परिषिच्याथविधिवद् व्योमव्यापिदशाहुतिः ।
शिवायशिवमन्त्रेण स्वाहेत्यष्टशतं हुनेत् ॥ ५-१५१ ॥

एवं घृताहुतिं हुत्वा शिवोपकरणं स्मृतम् ।
ब्रह्मचर्यं ततः काले अर्थयेत् साधकोत्तमः ॥ ५-१५२ ॥

ब्रह्मचारी द्विधा तत्र शान्तयः शिवशासने ।
भौतिको नैष्ठिकश्चैव प्रोक्तौतौ ब्रह्मचारिणौ ॥ ५-१५३ ॥

ग्रहस्थस्याश्रमं प्राप्तं भौतिकस्य विधीयते ।
ब्रह्मचर्य वृतिर्यावं नैष्ठिकस्य विशेषतः ॥ ५-१५४ ॥

ताभ्यामेकं विनिश्चित्य घृताहुतिशतं पुनः ।
पूर्णाहुतिं ततो हुत्वा तदहं प्रत्यहं यजेत् ॥ ५-१५५ ॥

नद्यां वापि तटाकेवा उपवीतादिकान्त्यजेत् ।
स्नात्वा चम्य यथान्यायं देवदेवं प्रणम्य च ॥ ५-१५६ ॥

पूजाविधिं ततो ज्ञात्वा संपूज्यपरमेश्वरम् ।
वह्निस्थं देवदेवेशं विधिना पूजयेत् ततः ॥ ५-१५७ ॥

गुरुं प्रणम्यविधिवत् तस्माद्वै गुरुपूजकः ।
तत्रर्ग्वेदमयं सद्यं वामदेवं यजुर्मयम् ॥ ५-१५८ ॥

सामवेदमघोरञ्च वक्त्रञ्चाधर्वणं स्मृतम् ।
सर्वदेवमयेशानमंगयुक्तं शिवं तथा ॥ ५-१५९ ॥

प्. २६३) साक्षात् शिवमयं प्रोक्तं कामिकाद्यागमं त्विह ।
इमान्यध्ययनान्येव तदेवाद्ध्ययनं स्मृतम् ॥ ५-१६० ॥

अध्यापनानितानिह तस्याद्ध्यापनमेव हि ।
शिवायाराधना तस्य यजनं याजनं तथा ॥ ५-१६१ ॥

शिवमुद्दिश्ययद्द्रव्यं दत्तं तद्दानमेव च ।
प्रतिग्रहं ततो वाथ तस्य षट्कर्ममुच्यते ॥ ५-१६२ ॥

शिवसद्भावयुक्तस्य शुद्धशैवस्यधीमतः ।
संस्कारप्रमुखाञ्चैव नान्यसूत्रं समाचरेत् ॥ ५-१६३ ॥

आचरेदन्य होमेन सर्वकर्मबहिस्कृतः ।
वृतभृष्टस्त्विति ज्ञात्वा पुनर्दीक्षां समाचरेत् ॥ ५-१६४ ॥

काण्डोपकरणं कृत्वा वृतारंभविधिं तथा ।
वृते परिसमाप्ते तु कृत्वा तद्वृतमोक्षणम् ॥ ५-१६५ ॥

समावर्तन पूर्वे तु कृत्वा वै श्वक्रिया वृतम् ।
अग्निं नन्दीमुखं कृत्वा क्रियां रात्रौ तु चारभेत् ॥ ५-१६६ ॥

पूर्वयामस्य चान्ते तु बध्वा प्रतिसरं क्रमात् ।
पुरुषेणैव मन्त्रेण सौवर्णं क्षौममेव च ॥ ५-१६७ ॥

अस्त्रेण प्रोक्षयित्वा तु वस्त्रैरेवाव कुण्ठनम् ।
व्योमव्यापि जपित्वा तु रस्वप्नं न तु वाचकम् ॥ ५-१६८ ॥

प्रभाते चोत्तरं तत्र चैवं वै श्वक्रियावृतम् ।
अग्निं पूर्ववदारभ्य मूले नैव शतं हुनेत् ॥ ५-१६९ ॥

ब्रह्मचारी वृतं मत्वाग्रहस्थाशममाश्रयेत् ।
चौलवद्वपनं कृत्वा शिखाप्रकोष्ठ वर्जितम् ॥ ५-१७० ॥

तत्र संशोध्यदशनं स्नापयेद्रजनीयुतः ।
ईशानाद्यैः शतं हुत्वा मुक्त्वामौञ्ज्यादिकास्ततः ॥ ५-१७१ ॥

दत्वा तदुपवीतञ्च षट्सूत्रं पूर्वमन्त्रतः ।
कुण्डलाद्यैस्तु संभूष्य हृदयेन तु मन्त्रतः ॥ ५-१७२ ॥

गन्धादीनि ततो दत्वा वामदेवेति मन्त्रतः ।
नयने चाञ्जनं दत्वा दर्पणं दर्शयेत् बुधः ॥ ५-१७३ ॥

प्. २६४) मधुपकर्मन्तु दातव्यं वामवेतिमन्त्रतः ।
अग्निं प्रदक्षिणं कृत्वा नमस्कृत्वा तु चाग्रतः ॥ ५-१७४ ॥

छत्रोपानहदण्डादि सन्धार्योत्तरदिग्गतः ।
निवृत्यबन्धुभिस्तत्र सुस्थितस्त्वासने तु सः ॥ ५-१७५ ॥

पितृभ्रातृपित्रव्यैस्तु भोक्तव्यं सहबान्धवैः ।
तत्समावर्तनं प्रोक्तं तत्पाणिग्रहणं शृणु ॥ ५-१७६ ॥

सर्वकाले विवाहं स्यात् माघप्रोष्ठविवर्जिते ।
विवाहमष्टधा प्रोक्तं शिवेन परमात्मना ॥ ५-१७७ ॥

ब्राह्मञ्च दैविकञ्चैव प्राजापत्यमथार्षकम् ।
पञ्चमं त्वासुरं प्रोक्तं गान्धर्वं राक्षसं तथा ॥ ५-
१७८ ॥

पैशाचमष्टमं ज्ञेयमुच्यन्ते तानि वै पुनः ।
वयो वृत्तञ्च संपन्नं वृत्तरूपाभिजात्यकम् ॥ ५-१७९ ॥

कन्यां दत्वा समाहूय गोभूमिसहिरण्यकम् ।
तत् ब्राह्ममिति निर्दिष्टं विवाहेषुत्तमं वृतम् ॥ ५-१८० ॥

यज्ञेषु ऋत्विजस्यैव कन्यादानन्तु दैविकम् ।
विप्रस्यैव सुशीलस्य विवाहापेक्षि तस्य च ॥ ५-१८१ ॥

होमकर्मस्वयं कृत्वा वस्त्राभरणकन्यकाम् ।
बुद्धिपूर्वं तु यद्दत्तं प्राजापत्यमिति स्मृतम् ॥ ५-१८२ ॥

सुरूपां कन्यकांश्चैव दत्वागोमिधुनद्वयम् ।
अथगोमिथुनैकं वा विवाहमार्षकं स्मृतम् ॥ ५-१८३ ॥

आरोप्याहरणं कन्यां याच्यमाने मुहुर्मुहुः ।
धनं दत्वा तु यः कन्या संग्रहणं तु यत्तदा ॥ ५-१८४ ॥

आसुरन्तु सविज्ञेयमविद्वत्भिरनुष्ठितम् ।
उभयोरपि संवादे स्त्रीपुंसौ यदिरागतः ॥ ५-१८५ ॥

दानन्तस्यैव तां कन्यां गान्धर्वमिति पठ्यते ।
कृत्वा युद्धं महाघोरं वधबन्धनताडकैः ॥ ५-१८६ ॥

अपहृत्य बलात् कन्यां रुदन्तीं रक्षसामिदम् ।
कन्यांसुप्तां प्रमत्ताञ्च चौर्यापात हृतन्तु वा ॥ ५-१८७ ॥

पैशाचमिति विख्यातं प्राक्पञ्चोदकपूर्वकम् ।
तेषां पूर्वचतुष्कन्तु ब्राह्मणस्य महात्मनः ॥ ५-१८८ ॥

प्. २६५) कर्तव्यमासुरं वापि त्रीणिचान्न्यानि वर्जयेत् ।
सुशीलां रूपसंपन्नां कुलजांबानवान्विताम् ॥ ५-१८९ ॥

असगोत्रां हि कुशलां वधूं संग्राह्यबुद्धिमान् ।
गन्धादिभिरलं कृत्य वस्त्रहेमन्तु दापयेत् ॥ ५-१९० ॥

तयोर्गात्रञ्च नाम्नी च पूर्वमुच्चार्यबुद्धिमान् ।
दत्वोदकन्तु तद्धस्ते पिताभ्राता तु मातुलः ॥ ५-१९१ ॥

दानमेतदिदं प्रोक्तं विसंवादे तु पूर्ववत् ।
स्थण्डिलेऽग्निं समाराद्ध्य ग्रहीतां वै तदग्रहे ॥ ५-१९२ ॥

पुनस्तोयन्तु दातव्यं भर्तुर्वाथपि तुर्ष्वपि ।
एवं पुनर्जलं दानं विवाहं शृणु सुवृत ॥ ५-१९३ ॥

अग्नेः पश्चिमभागे तु आसनं संप्रकल्प्य वै ।
पतिपत्न्योः समाहूय सर्वालंकारसंयुतौ ॥ ५-१९४ ॥

शिवात्मकेति मन्त्रेण वस्त्रं पुष्पन्तु दापयेत् ।
दक्षिणे तु पतिञ्चैव वामे पत्निन्निधाय वै ॥ ५-१९५ ॥

परिषेचनं ततः कृत्वा ब्रह्मांगैरेव हूयते ।
मम हृदयेत्युच्चार्य पत्यातद्धृदयं स्पृशेत् ॥ ५-१९६ ॥

आत्मानं शिववद् ध्यात्वा पत्निं शक्तिस्वरूपवत् ।
शतं हुत्वा तु मूलेन स्वाहान्तं प्रणवादिकम् ॥ ५-१९७ ॥

मधुपर्कन्तु संप्राश्य प्रागुक्तविधिनाचरेत् ।
वृतं गायत्रिमन्त्रेण दर्शयित्वा धनं तथा ॥ ५-१९८ ॥

पुनराचम्य विधिवद् व्याहृत्या तु शताहुतिः ।
अग्नेर्ददिक्षिण पार्श्वे तु प्राणाग्निं संयजेत् क्रमात् ॥ ५-१९९ ॥

गोर्द्धेनुहव्यमन्त्रेण गोवत्सं तत्र दर्शयेत् ।
स्वाहान्तं शिवमन्त्रेण शताष्टकहुतं पुनः ॥ ५-२०० ॥

अग्नेश्च वामपार्श्वे तु गत्वा सप्तपदं ततः ।
संस्थाप्य पश्चिमे श्मानमक्षतादिभिरर्चयेत् ॥ ५-२०१ ॥

पत्न्यास्तु दक्षिणं पादं पतिहस्तेनचोद्धृतम् ।
शिवगायत्रि मन्त्रेण पादमश्मनि विन्यसेत् ॥ ५-२०२ ॥

क्रमात् सप्तपदं गत्वा वाममन्त्रेण बुद्धिमान् ।
भर्तुर्दक्षिणहस्तेन तस्याहस्तन्तु संग्रहेत् ॥ ५-२०३ ॥

प्. २६६) उमामहेशमन्त्रेण हुत्वा लाजाञ्जलित्रयम् ।
देवदेवं नमस्कृत्वा विज्ञाप्यांग विभूषणम् ॥ ५-२०४ ॥

व्योमव्यापिनि मन्त्रेण ग्रहस्थानि च हूयते ।
आद्यन्तं व्याहृतिं हुत्वा प्रायश्चित्ताय सर्वतः ॥ ५-२०५ ॥

औपासनाग्निकं हुत्वा ब्रह्माङ्गैर्दिवसं प्रति ।
हस्तं प्राग्वच्च संग्राह्य गच्छतान्तु शुभे ग्रहे ॥ ५-२०६ ॥

सर्वालङ्कारसंयुक्ते मुक्तादामविभूषिते ।
सद्येन शोधनङ्कृत्वा कतैराप्तोपधानकैः ॥ ५-२०७ ॥

उपलं शक्तिवत् स्मृत्वा दंपत्योर्मध्यमे क्षिपेत् ।
रात्रौदिनाधिपं कृत्वा पूर्वं सोमाधिदैवतम् ॥ ५-२०८ ॥

गान्धर्वञ्च द्वितीये तु त्रितीयेचाग्निदैवतम् ।
तत्तन्मन्त्रन्तु मतिमाञ्जपेत् त्रिंशं नमोन्तकम् ॥ ५-२०९ ॥

तयोः स्वप्ने तु रात्रौ तु स्पर्शनं ननुवाचकम् ।
सुस्नात्वा चम्यविधिवदौपासनं दिनेदिने ॥ ५-२१० ॥

चतुर्थे हनिपूर्वाह्ने तैलेनाभ्यञ्जनं तथा ।
सहैव स्नापयित्वा तु रात्रौवह्निं प्रकल्प्य वै ॥ ५-२११ ॥

ब्रह्माङ्गैर्जुहुयात् तत्र दर्शयित्वा त्वरून्धतीम् ।
अरुन्धतीति मन्त्रेण तां विज्ञाप्य प्रणम्य वै ॥ ५-२१२ ॥

अश्मानं पूर्ववत् कृत्वा ततस्त्वायतनं तु वा ।
हृदाचोत्थाप्यशयनं संप्रोक्ष्यशिवमन्त्रतः ॥ ५-२१३ ॥

खट्गञ्चैव कटंवाथ संविकीर्योपधानकम् ।
शयनं पूर्ववत् कृत्वा तस्मिन् संपादयेत् ततः ॥ ५-२१४ ॥

आत्मानं शिववद्ध्यात्वा तत्पत्निं शक्तिवत्बुधः ।
ऋतुसङ्गमनात् कृत्वा सर्वं वामेन मन्त्रतः ॥ ५-२१५ ॥

सहैवार्त गृहङ्गत्वा गणानाञ्च बलिं पुनः ।
अभ्यागतातिथिञ्चैव पूजयेत् तु दिनेदिने ॥ ५-२१६ ॥

शुद्धशैवोद्भवानान्तु प्रोक्तं वै षोडशक्रिया ।
तेषां वृतं समाचारं शृणुतत्वं विनायक ॥ ५-२१७ ॥

इति षोडशक्रियाविधिपटलः पञ्चमः ॥ ५ ॥


प्. २६७) अथ वृताचारविधिपटलः

अथातः संप्रवक्ष्यामि संक्षेपाद् वृत्तमुत्तमम् ।
वृतं हि द्विविधं प्रोक्तं सामान्यञ्च विशेषतः ॥ ६-१ ॥

ब्रह्मचारीग्रहस्थश्च वानप्रस्थश्च भिक्षुकः ।
चतुराश्रममेवं हि सामान्यं विधिचोदितम् ॥ ६-२ ॥

चतुर्णां गोचराणान्तु सममेतच्छिवागमे ।
ब्रह्मचारी द्विधा ज्ञेया भौतिकोनैष्ठिकस्तथा ॥ ६-३ ॥

शेषान् क्रमात् तु सप्राप्तो ब्रह्मचारी तु भौतिकः ।
मरणान्तं ब्रह्मचर्यं पालनं नैष्ठिकस्य तु ॥ ६-४ ॥

शिखीमुण्डी जटीवापी सकौपीनः समेखलः ।
सदण्डीसोपवीतश्च भस्मरुद्राक्षसंयुतः ॥ ६-५ ॥

त्रिस्नायि च जित क्रोधः सुयमः सत्यभाषणः ।
एककालन्तु भैक्षाशि वसेन्नित्यं गुरोर्ग्रहे ॥ ६-६ ॥

वर्ज्यं तत्गन्धमाल्यादि दर्पणं पादुकं तथा ।
हरिद्रमञ्जनञ्चैव तांबूलं लवणं तथा ॥ ६-७ ॥

शिखा वृतेश्वरं यागङ्कृत्वा चार्यपरिग्रहे ।
ब्रह्मचारी वृतं ह्येवं ग्रहस्थानां वृतं शृणु ॥ ६-८ ॥

गृहिणी संग्रहं कृत्वा विवाहं विधिना तथा ।
अभ्यागता तिथिंश्चैव यथा शक्तिः सुपूजनम् ॥ ६-९ ॥

देवाग्नि गुरुपूजा च ग्रहेधर्मञ्च नित्यशः ।
शिवागमोक्त षट्कर्म श्रद्धाभक्त्या तु वर्धयेत् ॥ ६-१० ॥

शिखी वा बद्धके शीवा शुक्लयज्ञोपवीतकम् ।
स्वर्णरजत ताम्रैश्च स्फटिकैश्चापि भूषयेत् ॥ ६-११ ॥

सुदारान् संग्रहं नित्यं ऋतुकाले विशेषतः ।
चन्दनादीनिमाल्यानि त्वलं कृत्य शुभे ग्रहे ॥ ६-१२ ॥

ग्रहस्थानं वृतं ह्येतद्वानप्रस्थाश्रमं शृणु ।
अपत्नीकः सपत्नीको द्विविधं शिवभाषणे ॥ ६-१३ ॥

वने संवासिको नित्यं शाकमूलादिभक्षयेत् ।
ग्रहस्थस्य वृतं यद्वत् सपत्नीकस्तथैव तु ॥ ६-१४ ॥

प्. २६८) सपत्निकवृतं प्रोक्तमपत्निकवृतं शृणु ।
ब्रह्मचर्यञ्चरेन्नित्यं प्रतिग्रहविवर्जितम् ॥ ६-१५ ॥

सुभूमौ वान्ति?ने वापि कुशे वा शयनेऽथवा ।
सर्वेषु हेद्रियार्थेषु सप्त?मन्तु विवर्जयेत् ॥ ६-१६ ॥

कृत्वा स्नानं त्रिकालेषु देवाग्नि गुरुपूजनम् ।
वनेषु वासयेन्नित्यं फलमूलादिभक्षणम् ॥ ६-१७ ॥

अपत्निकवृतमिदं यतिनाञ्च वृतं शृणु ।
आत्मानं शिववद्दृष्ट्वा सर्वकर्मसमर्प्य च ॥ ६-१८ ॥

सुशिष्ये स्वाधिकारञ्च स्वयं दीक्षा विवर्जितः ।
सर्वाणि चान्यरूपाणि ममत्वं हि सुभावितम् ॥ ६-१९ ॥

समत्वं सुखदुःखेषु सर्वारंभ विवर्जितम् ।
काञ्चनं कोष्टवत् स्मृत्वा प्रियाप्रिय समंभवेत् ॥ ६-२० ॥

स बाह्याभ्यन्तरं शौचा ग्रामान्तेषु निवासनम् ।
य निवृत्तिरियं प्रोक्तं शृणु वै शेषिकां वृतान् ॥ ६-२१ ॥

शिवलिङ्गात् तथा ज्योतिः सावित्री चेति गोचरा ।
शिवदेह समुत्भूतं गोचरं तुलमुच्यते ॥ ६-२२ ॥

काश्यपादि ऋषिणान्तु शिवगोचरसंज्ञकम् ।
भारद्वाजमुनिनान्तु ज्योतिर्गोचरसंज्ञकम् ॥ ६-२३ ॥

गौतमादि ऋषिणान्तु नाम सावित्रगोचरः ।
आत्रेयादि ऋषिणान्तु प्रोक्तञ्च व्योमगोचरः ॥ ६-२४ ॥

तेषां वै शुद्धशैवानां वृत्तिवै शेषिकान् शृणु ।
चतुर्णां गोचराणान्तु प्रजापत्यादि कर्मतः ॥ ६-२५ ॥

प्राजापत्यादिकं पूर्वं महिपालं द्वितीयकम् ।
कपोतं हि तृतीयं वै चतुर्थ्ं ग्रन्धिकं स्मृतम् ॥ ६-२६ ॥

ब्रह्मचर्यादिभिक्षान्तं प्राजापत्यादिक त्विह ।
शिवगोचरसंज्ञानां वृत्तिभेदाः प्रकीर्तिताः ॥ ६-२७ ॥

धृतराष्ट्र वृतं पूर्वं बल?वृत्तिद्वितीयकम् ।
अंसगोपालकश्चैव ज्योतिर्गोचर वृत्तिका ॥ ६-२८ ॥

प्. २६९) प्रथमन्तुदिकं प्रोक्तं द्वितीयं ममांकुरं तथा ।
तृतीयङ्कुलितं प्रोक्तं सावित्री नामगोचरे ॥ ६-२९ ॥

चतुर्गोचर संज्ञन्तु प्रोक्तं भेदानि मे शृणु ।
स्वाद्ध्यायङ्कुरु शुश्रूषा संयमः सत्यवाचकम् ॥ ६-३० ॥

प्राजापत्यवृतञ्चैव ब्रह्मचारि सदाचरेत् ।
शान्त्यादिकर्मकुशला मारणादि सुपेशका ॥ ६-३१ ॥

रक्षकान्तु महिसर्वां महिपालवृतात् तु वै ।
पततिर्णकणान् भूमौ भक्षयित कपोतवत् ॥ ६-३२ ॥

कपोत जीविताये च कपोतास्तु प्रकीर्तिताः ।
सत्ग्रन्ध सतताव्यासन्धनमात्मानमेव हि ॥ ६-३३ ॥

त्यजन्ति देवतानां हि ग्रन्धिकास्तेप्युदा हृताः ।
समुद्रे वा नदीतीरे कुटिं कृत्वा निवासयेत् ॥ ६-३४ ॥

ब्रह्मचारि वृतं ह्येते कुटिकान्तं तथा मताः ।
क्षेमारामेसु तीर्थे वा तत्प्त्नि सहजीवनः ॥ ६-३५ ॥

सदोत्साह समायुक्ता वेतालास्ते भवन्ति वै ।
दिव्यतीर्थार्क पत्राशी पद्महोमपरायणः ॥ ६-३६ ॥

पानप्रस्थाश्रमं कृत्वा पद्म चण्डे प्रकीर्ताः ।
वैदिकाचार विज्ञान ज्ञानयोगसमन्विताः ॥ ६-३७ ॥

अष्टात्विर्गुलि?काभिस्तु भुक्त्वा देशविपत्य वै ।
आशनं गुलिकामात्रं गुलिकान्ते महावृताः ॥ ६-३८ ॥

शरीरदण्डनं कृत्वा वीरासन रतः सदा ।
वृतैश्च दण्डन अस्मात् ते नैव दण्डनं स्मृतम् ॥ ६-३९ ॥

कार्यो गुरु ग्रहेवासः त्रिकाल स्नाधिभक्ष्य भुक् ।
रक्षयेत् ब्रह्मचर्यन्तु प्रोक्तं ब्रह्मोदहवृतम् ॥ ६-४० ॥

स्वदारार्चिः शुद्धचेतस्त्वयाचित धनान्वितः ।
चरन्ति कुटिके यस्मात् ते कुटीचारकास्त्विह ॥ ६-४१ ॥

चरन्ति संसवद्ये च निर्मले कलसं श्रये ।
वने स्मवासिता नित्यं हंसास्ते तु प्रकीर्तिताः ॥ ६-४२ ॥

ग्रामैकरात्रि न्यायेन पर्यान् प्रधिनिमिमतम्? ।
वृता वै शेषिकाः प्रोक्ता गोचराणामिदं वृतम् ॥ ६-४३ ॥

प्. २७०) अन्ते वृतेश्वरं यागं कृत्वा तद्वृतमोक्षणम् ।
वृतं वृतेश्वरं यागं समासाच्छृणु तत्वतः ॥ ६-४४ ॥

चतुरश्रमण्डलङ्कृत्वा गोमयेनानुलिप्य वै ।
पञ्चपद्मं लिवेत्तत्र मध्ये श्वेताब्जमुच्यते ॥ ६-४५ ॥

पूर्वाब्जं पीतवर्णन्तु कृष्णवर्णन्तु दक्षिणे ।
पाण्डरं पश्चिमे भागे रविवर्णमथोत्तरे ॥ ६-४६ ॥

ईशानं मध्यपत्त्रे तु पूर्वाब्जे पुरुषं तथा ।
अघोरं दक्षिणे पद्मे सद्यं पश्चिमपंकजे ॥ ६-४७ ॥

सौम्येब्जे वामदेवन्तु ईशानादिसुपूज्य वै ।
तत्तन्मन्त्रेण गन्धाद्यैः पूजयेत् सुसमाहितः ॥ ६-४८ ॥

तत्तन्मन्त्रजपं कृत्वा शतं वार्द्धार्धमेव वा ।
व्रतेश्वरं नमस्कृत्वा व्रतपूर्णेच्छया पुनः ॥ ६-४९ ॥

व्रतमीशस्य विज्ञाप्य पूर्वाह्ने तु विसर्जयेत् ।
स्नपनन्तु ततः कृत्वा देवदेवं विशेषतः ॥ ६-५० ॥

प्रणम्य वृतनाथन्तु वृतशुद्ध्यन्तु श्रावयेत् ।
व्रतेशपूजनं ह्येवं वृतसिद्धिकराय वै ॥ ६-५१ ॥

तदभावे जलेलिङ्गे प्रक्षेपणविधिं शृणु ।
नद्यां वापि तटाके वा तीरे समतले शुभे ॥ ६-५२ ॥

अन्नमृत्गोमयाद्यैसु लिङ्गं कृत्वा विशेषतः ।
संपूज्य वृतशुद्ध्यन्तु संग्राह्य विधिवत् ततः ॥ ६-५३ ॥

व्योमव्यापि शिवे नैव तल्लिङ्गन्तु जलेक्षिपेत् ।
स्नपनं वर्जयित्वा तु चान्यत् सर्वं समानकम् ॥ ६-५४ ॥

प्रोक्तं वृतेश्वरं यागं समाचारविधिं शृणु ।
प्रणवं सर्ववर्णाख्यं शिवं सर्वमयं विभुम् ॥ ६-५५ ॥

ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकम् ।
गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वजः ॥ ६-५६ ॥

ओमित्येकाक्षरं ब्रह्मवदन्ते सर्वयोगिनः ।
प्रणवन्तु समासोक्ता ततः पञ्चाक्षरं शृणु ॥ ६-५७ ॥

वाचकः सतुविज्ञेयस्तद्वाच्यस्तु शिवं स्मृतम् ।
जपं भुक्तिप्रदं शस्तन्तल्लयोमुनिरिष्यते ॥ ६-५८ ॥

प्. २७१) ऋषिच्छन्दोवर्ण तत्वदेवतास्तु शृणु क्रमात् ।
काश्यपः कौशिकश्चैव भारद्वाजश्च गौतमः ॥ ६-५९ ॥

आत्रेयास्तु नारदादिमुनयः क्रमश स्मृताः ।
अनुष्टुप्चत्रिजगती * * * * * * * * ॥ ६-६० ॥

छन्दांसि सर्वमाख्यातं वर्णान्येव मम शृणु ।
रक्तं कृष्णं तथा श्यामं पीतं स्फटिकसन्निभम् ॥ ६-६१


पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।
सद्यादि पञ्चब्रह्माणि तेषां देवाः प्रकीर्तिताः ॥ ६-६२ ॥

प्रणवेन समायुक्तं जपकाले तथा चरेत् ।
तथा षडक्षरं प्रोक्तं त्रिशूलास्तु न तत्समम् ॥ ६-६३ ॥

जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।
मानसञ्चैव कण्ठे तु ह्युपांशु व्यक्तमेव च ॥ ६-६४ ॥

व्यक्तं दशगुणोपांशु तस्मात् कण्ठोष्ठकं शतम् ।
सहस्रं मानसं तस्मादंगुल्यादि जपं शृणु ॥ ६-६५ ॥

अङ्गुल्या जपसंख्या तु तुल्या एकफलं तथा ।
रेखायाष्टगुणं प्रोक्तं जीवैर्दशगुणान्वितम् ॥ ६-६६ ॥

सन्ध्याकाले कुशग्रन्धिः प्रवालैस्तु सहस्रकम् ।
मणिभिर्दशसाहस्रं मौक्तिकं लक्षमुच्यते ॥ ६-६७ ॥

पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।
रुद्राक्षस्य ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना ॥ ६-६८ ॥

दिव्यवर्षसहस्रन्तु चक्षुरुन्मिलितं मया ।
मुञ्चन्ति मम नेत्राभ्यामश्रु रुद्राक्षमुच्यते ॥ ६-६९ ॥

एकवक्त्रं शिवं साक्षादनन्तं धारणात् फलम् ।
सन्धार्य मृयते यस्तु सयाति परमांगतिम् ॥ ६-७० ॥

द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमुच्यते ।
चतुर्वक्त्रन्तु बिन्दुस्यात् पञ्चवक्त्रं सदाशिवम् ॥ ६-७१ ॥

षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृताः ।
अष्टवक्त्रं तथा विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥ ६-७२ ॥

प्. २७२) नववक्त्रैक वक्त्रान्तं फलन्दशगुणोत्तरम् ।
हस्ते कण्ठे शिखाकर्णे सन्धार्यसहभस्मना ॥ ६-७३ ॥

सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।
दर्शनं पापनाशस्तु स्पर्शनं सर्वसिद्धिदम् ॥ ६-७४ ॥

प्रागुक्तं धारणात् पुण्यं सर्वसिद्धिफलप्रदम् ।
रुद्राक्षन्धारणात् पुण्यं रुद्राक्षन्धारयेत् सदा ॥ ६-७५ ॥

प्रयाणकाले रुद्राक्षं भक्षयित्वा मृतन्तु ये ।
ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ॥ ६-७६ ॥

तस्मात् सर्वप्रयत्नेन जपं रुद्राक्षकैः सदा ।
जपकालञ्च शेषञ्च वक्ष्यते तु समासतः ॥ ६-७७ ॥

पूर्वाह्णे चैव मध्याह्णे चापराह्णेर्धरात्रिके ।
चतुष्कालं त्रिकालं वा तद्देशञ्च शृणुष्व हि ॥ ६-७८ ॥

नदीतटाकतीरे वा गोष्ठे वाप्यालयेऽपि वा ।
वने वाथगिरौ देशे पुण्यस्थाने ग्रहे यजेत् ॥ ६-७९ ॥

दृष्टे दूरेपिमाने तु नमस्कृत्वास्तु भक्तितः ।
पथिश्रान्ते विमानन्तु यदा दृष्टेनमस्कृते ॥ ६-८० ॥

पूर्वं शान्तं तदर्धाय प्रदक्षिणन्तु कारयेत् ।
लिङ्गदर्शनकाले तु पुष्पं कृत्वा प्रणम्य च ॥ ६-८१ ॥

रिक्तपाणिर्नगन्तव्यो देवदेवस्य सन्निधौ ।
पत्रपुष्पफलैर्वापि न शून्यं मस्तकं तथा ॥ ६-८२ ॥

भस्मयुक्ते यदा दृष्टे लिङ्गमुद्रान्तु दर्शयेत् ।
शिवचिन्हधराश्चैव भक्तियुक्तास्तदन्वगाः ॥ ६-८३ ॥

पंकमग्नं पशुं दृष्ट्वा तदुत्थाप्याथगच्छति ।
पैशुन्यञ्च शिवेत्यक्त्वा सर्वप्राणिदया परः ॥ ६-८४ ॥

अदीक्षितजनं स्पृष्ट्वा पापयुक्तांस्तु वर्जयेत् ।
जपं समासतः प्रोक्तं पवित्रारोहणं शृणु ॥ ६-८५ ॥

इति वृताचारविधि पटलः षष्ठः ॥ ६ ॥


प्. २७३) अथ पवित्रारोहण विधिपटलः

अथातः संप्रवक्ष्यामि पवित्रारोहणं शृणु ।
सर्वपूजा समृद्ध्यर्थं वृतपूर्णार्थमेव च ॥ ७-१ ॥

सर्वकर्मसुहीनेषु पूर्णार्थं कारयेत् बुधः ।
आलये देवमारभ्य सर्वसंपत्कराय च ॥ ७-२ ॥

शिवपूजाकरोकार्यः पवित्रारोहण क्रियाम् ।
आषाढे शुक्लपक्षे वा श्रावणे वा विशेषतः ॥ ७-३ ॥

प्रोष्ठमासे स्वयुङ्मांसे कृष्णपक्षेऽथवा पुनः ।
द्वितीयादि चतुर्थादि षष्ठ्यादि च विशेषतः ॥ ७-४ ॥

अष्टम्यन्तं प्रकर्तव्यं पवित्रं सर्वसिद्धिदम् ।
अष्टम्यादि दशम्यादि द्वादशादी च वा बुधः ॥ ७-५ ॥

चतुर्दश्यान्तकं कार्यं पवित्रारोहण क्रियाम् ।
सप्ताहञ्चैव पञ्चाहं त्रियाहं वापि कारयेत् ॥ ७-६ ॥

सप्तम्यां वा त्रयोदश्यां रेवत्यां कृत्तिकान्विते ।
आर्द्रायां रोहिणी युक्ते कारयेत् तत्पवित्रकम् ॥ ७-७ ॥

कृत्वाङ्कुरार्पणं पूर्वे कर्तव्यमधिवासनम् ।
स्नपनन्तु यथा शक्त्या शिवाग्निन्तु विशेषतः ॥ ७-८ ॥

विशेषपूजनं कृत्वा नमस्कृत्वा विशेषतः ।
मया कृतानिदानानि द्रव्याणीह वृतानि च ॥ ७-९ ॥

अनया पूजया सर्वाः संपूर्णास्तु प्रसीदत ।
एवं विज्ञाप्यतं शंभु नमस्कृत्वा तु भक्तितः ॥ ७-१० ॥

तत्भस्मदन्तकाष्ठानि तोयं सूत्रं समावहेत् ।
नदिमृत् भस्मपूर्णे वा मलके वा परिग्रहम् ॥ ७-११ ॥

पूर्ववत् तस्य संग्राह्य पालाशं दन्तकाष्ठकम् ।
अथवा याज्ञकै वृक्षैर्नव वा सप्तसंख्यया ॥ ७-१२ ॥

कनिष्ठांगुलिनाहन्तु द्वादशांगुलीदीर्घकम् ।
वस्त्रपूतेन तोयेन संपूर्यनवमृत्घटम् ॥ ७-१३ ॥

द्वात्रिंशत् प्रस्थपूर्णं वा तदर्द्धं त्वर्धमेव वा ।
सूत्रैः संवेष्टयित्वा तु वस्त्रैरावेष्ट्य यत्नतः ॥ ७-१४ ॥

प्. २७४) पञ्चरत्नानि निक्षिप्य रत्नालाभे हिरण्यकम् ।
सूत्रं प्रागेव संग्राह्य निर्मितं द्विजकन्यया ॥ ७-१५ ॥

यथा संभवसूत्रं वा शोधयेत्तोय भस्मना ।
तत्सूत्रं द्विगुणं प्रोक्तं तदेव द्विगुणं भवेत् ॥ ७-१६ ॥

नवसंख्या तु यत्सूत्रं पवित्रं कनकसिद्धिदम् ।
वामाद्या शक्तयस्तत्र नवसूत्राधि देवताः ॥ ७-१७ ॥

लिङ्गोत्सेध समायामं प्रासादे तु पवित्रकम् ।
हस्तमात्रसमायामं पवित्रमिहशोभनम् ॥ ७-१८ ॥

सूत्रैर्विवर्धयेद्विद्वान् नवधा तु पवित्रकम् ।
नवषोडशविंशद्भिरधमत्रयमेव च ॥ ७-१९ ॥

पञ्चविंशच्च द्वात्रिंशत् षट्त्रिंशे मध्यमत्रयम् ।
पञ्चाशत्सप्ततिश्चैव नवतिश्चोत्तमत्रयम् ॥ ७-२० ॥

एतेषान्तु यथा शक्त्या पवित्रं लक्षणान्वितम् ।
प्रशान्तायेति मन्त्रेण ग्रन्धयित्वा पवित्रकम् ॥ ७-२१ ॥

तस्य मध्ये दशग्रन्धिं बध्वासूत्रेति देशिकः ।
नवसप्ताष्टसूत्रैर्वा ग्रन्धिं कृत्वा विचक्षणः ॥ ७-२२ ॥

इन्द्रादिलोकपालाश्च ग्रन्धीनामधि देवताः ।
आत्मार्थेप्येवमाख्यातं सूत्रसंग्रहणं क्रमे ॥ ७-२३ ॥

सकलानान्तु बिंबानां तदुत्सेधं प्रकीर्तितम् ।
रात्राधिवासने प्रोक्तं पवित्राणि विशेषतः ॥ ७-२४ ॥

निर्दिष्टदिवसे सुद्ध पवित्राण्यधिदेवताः ।
प्राङ्मुखे मण्डपे रम्ये वितानाद्युपशोभितम् ॥ ७-२५ ॥

मण्डले वर्तयेत् तस्या मध्ये पूर्वोक्तमार्गतः ।
पूजाविद्ध्युक्तमार्गेण तस्मिन्न्यस्यात् सदाशिवम् ॥ ७-२६ ॥

हविर्निवेदनं कृत्वा फलभक्ष्यान्यनेकधा ।
तस्याग्रे तु पवित्राणि तद्रात्रौ चाधिवासयेत् ॥ ७-२७ ॥

पवित्राणां तथाग्रे तु कुण्डे वा स्थण्डिलेऽथवा ।
शिवाग्निं पूर्ववत् कृत्वा समिदाज्यां न संयुतम् ॥ ७-२८ ॥

तत्पवित्रविशुद्ध्यर्द्धं तद्रात्रौ चाधिवासयेत् ।
शालितण्डुलपुष्पाद्यै स्थण्डिलञ्चतुरश्रकम् ॥ ७-२९ ॥

प्. २७५) संस्तिर्योपरिवस्त्रेण गन्धपुष्पादिभिः सह ।
वस्त्रोपरि पवित्राणि संस्थाप्याभ्यर्च्य बुद्धिमान् ॥ ७-३० ॥

वस्त्रौराच्छाद्य शिरसा धूपयेद्धृदयेन तु ।
भस्मदक्षिनतः शुद्धं मृच्चूर्णं पश्चिमे दिशि ॥ ७-३१ ॥

सोमे संस्थाप्यतोयन्तु दन्तकाष्ठानि पूर्वके ।
एतानि गन्धपुष्पाद्यैरर्चयेद्धृदयेन तु ॥ ७-३२ ॥

उत्तराच्छाद्नं कृत्वा दर्भैरुपरिदेशिकः ।
तत्र संपूज्य देवेशं गन्धपुष्पस्रगादिभिः ॥ ७-३३ ॥

गन्धैराच्छाद्यविधिवत् पुष्पैराच्छाद्ययत्नतः ।
दर्भैराच्छाद्य पश्चात् तु सुत्रैरावेष्ट्य बुद्धिमान् ॥ ७-३४ ॥

शिवमारोपयेद् रात्रौ पवित्रं पिण्डिकान्वितम् ।
धूपदीपसमायुक्तं संपूज्य हृदयेन तु ॥ ७-३५ ॥

हुत्वातेऽग्निं समाराध्य पवित्रं लिङ्गवर्ततः ।
प्रभूतञ्चैव नैवेद्यं पञ्चवर्णे विशेषतः ॥ ७-३६ ॥

शिवाग्नौ मूलमन्त्रेण शतं हुत्वा विचक्षणः ।
द्रव्यांस्तु हृदये नैव होतव्यं व्याहृतिं ततः ॥ ७-३७ ॥

नृत्तगेय समायुक्तं रात्रौ निद्रां विवर्जयेत् ।
प्रभाते विधिवत् स्नात्वा सकलीकृतविग्रहः ॥ ७-३८ ॥

पर्यूषितानि पुष्पाणि पवित्राणि विसर्जयेत् ।
पूजनं पूर्ववत् कृत्वा स्नपनान्ते विशेषतः ॥ ७-३९ ॥

मृच्चूर्णलेपनं पूर्वं भस्मनालेपनं ततः ।
दन्तकाष्ठैश्च दन्तानि धावयेद् देशिकोत्तमः ॥ ७-४० ॥

पूर्णकुंभोदकैः स्नानं कृत्वा गन्धादिभिः पुनः ।
वस्त्रैराभरणैश्चैव मूलमन्त्रेण देशिकः ॥ ७-४१ ॥

संपूज्य देवदेवेशं नृत्तगेय समन्वितम् ।
सदाशिवमनुस्मृत्य मूलमन्त्रं समुच्चरेत् ॥ ७-४२ ॥

पवित्रारोहणं कृत्वा देवेशं पिण्डिकान्वितम् ।
मण्डलस्थं शिवं यष्ट्वा गन्धाद्यैरनुपूर्वशः ॥ ७-४३ ॥

सहस्राक्षरमन्त्रेण हुत्वातेऽग्निं समर्प्य वै ।
पवित्रं वह्निमारोप्य परिषेषमथाचरेत् ॥ ७-४४ ॥

प्. २७६) पञ्चवरणदेवानां पवित्रं हृदयेन तु ।
अन्येषाञ्चैव देवानां दापयेत् तु पवित्रकम् ॥ ७-४५ ॥

कर्तुश्च देशिकस्यैव तयोः पत्न्याश्च देशिकः ।
शिष्याणां परिचाराणां दत्वा वै तत्पवित्रकम् ॥ ७-४६ ॥

गन्धपुष्पैस्तु संपूज्य धूपदीपैर्विशेषतः ।
प्रभूतहविषं पश्चात् पायसादीनि दापयेत् ॥ ७-४७ ॥

होमन्तथैव कर्तव्यमाद्यन्तं मुनिभोजनम् ।
जनानां सर्वदानानि दत्वा तत्र यथार्हकम् ॥ ७-४८ ॥

वस्त्रैराभरणाश्चाद्यैराचार्यं पूजयेत् ततः ।
यतीनां शुद्धशैवानामन्यान्महेश्वरानपि ॥ ७-४९ ॥

विशेषभोजनं दानं कृत्वा तत्र स्वशक्तितः ।
संश्राव्यसमवान् पश्चाद् देवदेवस्य चाग्रतः ॥ ७-५० ॥

एतानि वृतदानानि संपूर्णानि प्रसीदतः ।
एवं विज्ञापयेद्देवं समाप्तिर्नयनं तथा ॥ ७-५१ ॥

पाशजालानि संश्चिद्यमोक्षं तद्दातुमर्हसि ।
प्रणम्यदण्डवत् भूमौ नमस्कृत्वा विशेषतः ॥ ७-५२ ॥

तस्मादारभ्य चाब्दान्तं षट्चतुर्मासमेव च ।
तन्मासं तद्दिनं वापि नियमेन नयोद्धृतः ॥ ७-५३ ॥

नियमेष्वर्चयेद् धिमान् लिङ्गोक्तमवदारयेत् ।
ततस्त्यक्त्वा तु निर्माल्यं स्नात्वा पूजां समाचरेत् ॥ ७-५४ ॥

रोपयेत् तत्पवित्रन्तु माविभग्नं दिनेदिने ।
नियमावृतसूत्रन्तु तदासूत्रावरोहणम् ॥ ७-५५ ॥

अरोहिणिपवित्राणि पुष्पाणि च विसर्जयेत् ।
पूर्ववत् पूजनं कृत्वा प्रभूतहविषं ततः ॥ ७-५६ ॥

यागोप योगद्रव्याणि ह्याचार्याय प्रदापयेत् ।
पवित्रारोहंअं प्रोक्तं हिरण्यगर्भकन्तुलाम् ॥ ७-५७ ॥

इति पवित्रारोहणविधि पटलः सप्तमः ॥ ७ ॥


प्. २७७) अथ हिरण्यगर्भतुलाभरविधिपटलः

अथातः संप्रवक्ष्यामि हैरण्यगर्भकन्तुलाम् ।
दीक्षायुक्त नृपाणान्तु कर्तव्यौतौ प्रकीर्तितौ ॥ ८-१ ॥

ग्रहणे विषुवेकाले अयने तु प्रशस्यते ।
पौ-ऋषे चा-ऋषे चैव दैविके तु पुराणके ॥ ८-२ ॥

पौ-ऋषैः स्थापितं लिङ्गं पौ-ऋषन्तु प्रकीर्तितम् ।
ऋषिभिस्त्वा ऋषं प्रोक्तं देवैरेव तु दैविकम् ॥ ८-३ ॥

स्वयमुद्भूत लिङ्गन्तु पुराणमिति निश्चितम् ।
पौ-ऋषादि पुराणान्तं फलवृद्ध्युत्तरोत्तरम् ॥ ८-४ ॥

तस्मत् पौराणिके स्थाने कारयेत् तत्र वित्तमः ।
दैविके मध्यमं ज्ञेयमन्यत्रैवाधमं स्मृतम् ॥ ८-५ ॥

प्रासादस्यैशदिक्भागे पूर्वे वा दक्षिणेऽपि वा ।
पश्चिमे चोत्तरेवापि अन्तराले मनोरमे ॥ ८-६ ॥

चतुरश्रमण्डपं कृत्वा चतुर्द्वारसमायुतम् ।
दशद्वादशहस्तं वा षोडशस्तंभसंयुतम् ॥ ८-७ ॥

चतुस्तोरणसंयुक्तं सर्वालंकारसंयुतम् ।
दर्भमालाभिरावेष्ट्य मुक्तास्रग्दामशोभितम् ॥ ८-८ ॥

तन्मध्ये वेदिकां कुर्यात् नवभागैक विस्तृतम् ।
उत्सेधश्चरुमात्रेण दर्पणोदरवच्छुभम् ॥ ८-९ ॥

अदिक्षुचाग्नि कुण्डानि पूर्वोक्तविधिनासह ।
अथवा चतुरश्राणि वृत्तानि विदिशासु वै ॥ ८-१० ॥

चक्रशंकरयोर्मध्ये वृतकुण्डं प्रकल्पयेत् ।
अग्निं वै पूर्ववद्धुत्वा विद्याङ्गं हृदयेन तु ॥ ८-११ ॥

स्थण्डिलं वेदिकायान्तु शालिभिर्विमलैस्तथा ।
तत्रैव संलिखेत् पद्ममष्टपत्रं सकर्णकम् ॥ ८-१२ ॥

गन्धपुष्पैः समभ्यर्च्य धूपदीपैर्विशेषतः ।
हिरण्यभाजनस्याधस्पटपत्रं (स्पृष्टपत्रं) सकणिकम् ॥ ८-
१३ ॥

ऊर्ध्वभागन्ततः कृत्वा चतुर्द्वारसमन्वितम् ।
तथोभागे न्यसेन्मंत्री बीजमुख्येन मन्त्रतः ॥ ८-१४ ॥

प्. २७८) प्रक्षाल्य पञ्चगव्येन समभ्यर्च्य सदाबुधः ।
जलस्नानं पुराकृत्वा दन्तधावन पूर्वकम् ॥ ८-१५ ॥

भस्मस्नानं ततः कृत्वा शुक्लचन्दनलेपितः ।
शुक्लवस्त्रोपवीतश्च शुक्लमाल्येरलङ्कृतः ॥ ८-१६ ॥

सोष्णीषश्चोत्तरीयश्च सर्वाभरणभूषितः ।
प्रविशेत् भाजनस्यान्तं पूर्वाभिमुखसंस्थितः ॥ ८-१७ ॥

शिवमन्त्रं जपित्वा तु शिवध्यानपरायणः ।
ऊर्ध्वभागेन सञ्च्छाद्य हृदयेन विचक्षणः ॥ ८-१८ ॥

सूत्रैरावेष्ट्य यत्नेन पुष्पमाल्यैरलंकृतः ।
शिवोहमिति संभाव्य यावत् स्वस्वाहितावतः ॥ ८-१९ ॥

तस्मान्निर्गम्य नृपतिर्नमस्कृत्वा सदाशिवम् ।
हिरण्यगर्भवेशात् तु पुनर्जन्म न तु वृजेत् ॥ ८-२० ॥

भूत्वा हिरण्यगर्भेण विधाता सर्वजन्तुषु ।
प्रणिपत्य गुरुं तत्र संपूज्य च विशेषतः ॥ ८-२१ ॥

होत्रान् संपूज्यविधिवद्वस्त्रहेमाङ्गुलीयकैः ।
सर्वयज्ञफलं प्राप्य सर्वदानफलं लभेत् ॥ ८-२२ ॥

दिक्षितानां नृपाणान्तु कर्तव्यं तत्प्रयत्नतः ।
शैवमार्ग स्थितानां तु ग्रहिणां लिंगिनामपि ॥ ८-२३ ॥

भक्तानां दापयेत् तत्र नृपसौवर्णभाजनम् ।
प्रोक्तं हिरण्यगर्भन्तु तुलाभारं ततः शृणु ॥ ८-२४ ॥

पूर्वोक्त स्थानकालेषु कर्तव्यं तन्नृपेण तु ।
खदिरश्चन्दनञ्चैवस्तालं चंपकविल्वकैः ॥ ८-२५ ॥

अन्यैस्तु सारवृक्षैर्वा कृत्वास्तं भद्वयं ततः ।
तदूर्ध्वे चोत्तरन्यस्त्वा दण्डमध्ये तु योजयेत् ॥ ८-२६ ॥

सप्तषट्पञ्चहस्तं वा नाहं द्वात्रिंशदंगुलम् ।
अग्रयोः सुषिरं कृत्वा बध्वाशृंखलया दृढम् ॥ ८-२७ ॥

समवृतं त्रिहस्तन्तु ताम्रपात्रद्वयन्तथा ।
किञ्चिन् निम्नन्तु सुषिरन्तयोर्बध्वा तु रज्जुभिः ॥ ८-२८ ॥

आयसेन तु मध्ये तु सुस्निग्धं कारयेत् बुधः ।
दर्भमालाभिरावेष्ट्य पुष्पमालोपशोभितम् ॥ ८-२९ ॥

प्. २७९) स्तंभं वस्त्रैस्तु संवेष्ट्यः सर्वालंकारसंयुतम्

तुलामारोप्य नृपतिः सर्वाभरणभूषितः ॥ ८-३० ॥

तुलामनुसमायुक्तं हृदयेन विचक्षणः ।
शेषपात्रे तु संयोज्य हेमतत्तुल्यगर्तकः ॥ ८-३१ ॥

शिवमन्त्रञ्जपित्वा तु शिवध्यानपरायणः ।
अवतीर्यतुलायास्तु तत्सुवर्णन्तु पूर्ववत् ॥ ८-३२ ॥

दैवानाञ्चैव शैवानां ब्राह्मणानाङ्गुरोस्तथा ।
आदिशैवानुशैवानां दापयेत् तु यथार्हकम् ॥ ८-३३ ॥

वा जपेय सहस्रैस्तु राजसूयशतैरपि ।
अश्वमेध सहस्रैस्तु तैस्तुल्यं फलमाप्नुयात् ॥ ८-३४ ॥

तुलाहैरण्यगर्भन्तु प्रोक्तं वै दहनं शृणु ।

इति हिरण्यगर्भतुलाभारविधिपटलोष्टमः ॥ ८ ॥


अथ दहनविधिपटलः

अतः परं प्रवक्ष्यामि दहनस्यविधिक्रमम् ।
यदा चैतन्यरहिते प्रारभेद्दहनक्रियाम् ॥ ९-१ ॥

दहनञ्च कृतिं भद्रञ्चावटाग्निकमेव च ।
अवटादि क्रियाः सर्वाः संक्षेपाच्छृणु सुवृत ॥ ९-२ ॥

गर्भस्रावञ्च पतनमुढगर्भं तथा प्रजाः ।
चौलकार्यादयोमर्त्या ये मृताश्चावटाभिकाः ॥ ९-३ ॥

दहनं हलिकर्मादि वर्ज्यन्तेषां प्रयत्नतः ।
पवनोर्ध्व मृतिर्येषामब्दं प्रतिदिनेदिने ॥ ९-४ ॥

बलिदाहाद्यकर्माणि सममेतदुदाहृतम् ।
दशवर्षादतिक्रान्ते दशाहं दापयेत् बलिम् ॥ ९-५ ॥

अवटाग्निककार्यं तु समासात् प्रोच्यतेऽधुना ।
कृत्वा शरीरशुद्धिं तत् रजनीपुष्पशोभितम् ॥ ९-६ ॥

प्. २८०) दर्भैरावेष्ट्य यत्नेन बन्धुभिः परिवारितः ।
कार्पासवाससा वापि ग्राहयेत् तु विचक्षणः ॥ ९-७ ॥

शिवभक्तिः शुचिर्भूत्वा भस्मोद्धूलितविग्रहः ।
अपसव्योपवीतस्तु कृतदर्भोत्तरीयकः ॥ ९-८ ॥

गत्वा श्मशान देशे तु शुद्धदेशेमनोहरे ।
खात्वोर्वीं तत्प्रमाणेन विस्तारं तत्प्रमाणतः ॥ ९-९ ॥

बाहुमात्रभिदे निम्ने न्यस्त्वादर्भाक्षतादिभिः ।
शिरस्तु दक्षिणे देशे शाययेन्मृतकं तथा ॥ ९-१० ॥

तूष्णीं गन्धादिनाभ्यर्च्य दर्भैराच्छाद्यतच्छवम् ।
मृदं संपूर्य तत्रैव सुस्निग्धन्तु सुवर्णकैः ॥ ९-११ ॥

तदा स्नानञ्च कर्तव्यं तत्सपिण्डैः सहैव तु ।
दाहक्रियाविना यत्र बलिकर्म न कारयेत् ॥ ९-१२ ॥

अवटाग्निकमेवोक्तमाकृतिञ्च ततः शृणु ।
वाचायुक्तस्यमरणं शस्त्रेणैव तु मुष्टिका ॥ ९-१३ ॥

वसूरिक्षयकुष्ठाद्यैरात्म घातकमारणम् ।
जलेन श्रिंगिणावापि वह्निना वा विशेषतः ॥ ९-१४ ॥

एतैस्तु मरणं एषां तेषामाकृतिरुच्यते ।
सर्पेण पशुनानागैर्देशाद् देशान्तरे गते ॥ ९-१५ ॥

द्वादशाब्दादति क्रान्ते चा कृतिर्दहनं स्मृतम् ।
तस्य पत्न्यस्ति चेत्तत्र वैधव्यं कारयेत् क्रमात् ॥ ९-१६ ॥

बलिकर्माणि चान्यानि कृत्वा चैव समन्त्रकम् ।
पश्चात् कृते गते वापि मङ्गल्याभरणं तथा ॥ ९-१७ ॥

मङ्गल्यमुत्तरीयेण पत्न्याकण्ठे तु रोपयेत् ।
आचार्यं पूजयेद्धिमान्यावदा मरणान्तिकम् ॥ ९-१८ ॥

यत्र पूर्वक्रियासूत्या तत्र कर्म न कारयेत् ।
शस्त्रादिमरणं यत्र कार्यं संवत्सरोपरि ॥ ९-१९ ॥

अमन्त्रेण दहेद् देहं खनित्वा चाथभूतले ।
सुदर्भैराकृतिं कृत्वा सूत्रैरावेष्ट्य चा कृतिम् ॥ ९-२० ॥

पलाशपत्रैरावेष्ट्य सर्वाङ्गं परिकल्प्य वै ।
मृतवत् सर्वकर्माणि कारयेत् तु विचक्षणः ॥ ९-२१ ॥

प्. २८१) आकृतेर्दहनं प्रोक्ता दहनस्य विधिं शृणु ।
शवशुद्धिं पुराकृत्वा भस्मस्नानमतः परम् ॥ ९-२२ ॥

सिकते स्थण्डिलङ्कृत्वा स्वप्रमाणेन देशिकः ।
दर्भैरुपरिविन्यस्य प्रेतं तत्रोपविन्यसेत् ॥ ९-२३ ॥

बध्वापादौ च हस्तौ च रङ्गमाल्यैरलङ्कृतम् ।
ध्यात्वा शिवतनुं पूर्वं ब्रह्माङ्गाकृति विग्रहः ॥ ९-२४ ॥

कर्णमन्त्रञ्जपं कृत्वा बीजमुख्यन्तु मन्त्रतः ।
स्नात्वा चम्यविधानेन वामे तदुपवीतकम् ॥ ९-२५ ॥

सपिण्डैर्बान्धवैर्वापि संस्नाय्येवं शिवाग्निकम् ।
चतुरश्रमलङ्कृत्वा खनित्वा कीलकत्रयम् ॥ ९-२६ ॥

तेषामूर्ध्वे तथा पात्रं न्यस्त्वाधसुषकं बुधः ।
तस्याधश्चाग्निमुद्दीप्य तु षकाग्नौ यथा विधि ॥ ९-२७ ॥

शिवाग्निं ध्याययेत् तत्र गन्धाद्यैश्चाग्निपूजनम् ।
निधाय शुद्धदेशे तु कृत्वाश्वास परीक्षणम् ॥ ९-२८ ॥

हृन्नासिकर्ण देशेषु स्पर्शयित्वा क्रमात् बुधः ।
हृदयेन तु मन्त्रेण श्वासंसंशोध्यमन्त्रवित् ॥ ९-२९ ॥

अघोरेण तदुथाप्य शशाने चोपरोप्यते ।
यावत् प्रेतस्य चायामं तावत् भूमिन्तु खातयेत् ॥ ९-३० ॥

अरतिमात्रमर्धं वा तिलाक्षत कुशोदकैः ।
वामदेवेन संप्रोक्ष्य स्नात्वाकोणेषु कीलकान् ॥ ९-३१ ॥

सूत्रैरावेष्ट्य परितः काष्ठन्तत्रैव निक्षिपेत् ।
प्रेतस्य दक्षिणे भागे शिवाग्निं पूर्ववत् बुधः ॥ ९-३२ ॥

हृदयेन शतं हुत्वा तन्नाम्ना तु शताहुतिः ।
होमशेषं घृते नैव चरुक्षीराक्षतादिभिः ॥ ९-३३ ॥

नाभि हृद्वक्त्रदेशेषु हृदयेन विनिक्षिपेत् ।
इन्धनोपरि विन्यस्य दक्षिणे तु शिरस्ततः ॥ ९-३४ ॥

दत्वाहिरण्यशकलं नवद्वारेषु बुद्धिमान् ।
तदास्य चक्षुषी कर्णौ नासिद्वारौ गुहसथा ॥ ९-३५ ॥

लिङ्गञ्चेति नवद्वारं हृदयेन निधापयेत् ।
क्षीरतण्डुलसम्मिश्रं दत्वा वामेन चास्यके ॥ ९-३६ ॥

प्. २८२) छेदयित्वा ततः पाशमघोरास्त्रेण मन्त्रवित् ।
स्रग्वासञ्च ततः कुर्यात् सपिण्डैर्भ्रातृभिस्तथा ॥ ९-३७ ॥

प्रदक्षिणत्रयं कृत्वा वेलाग्रेणैव बुद्धिमान् ।
जलधारा समायुक्तं वह्निस्थ नवमृत्घटम् ॥ ९-३८ ॥

प्रदक्षिणवशाद्वारमस्त्रमन्त्रेण देशिकः ।
प्रदक्षिणत्रयङ्कृत्वा वामपार्श्वे निधाय वै ॥ ९-३९ ॥

ततः कपालतोयैश्च प्राणस्थानेषु योजयेत् ।
मूर्धादिपादपर्यन्त माज्यालेपं सुशोभितम् ॥ ९-४० ॥

पादद्वयञ्च संस्पृश्य स्मृत्वागौ तु हविष्यवत् ।
अघोरेणाग्नि निक्षिप्य शिरस्थाने शिवं स्मरेत् ॥ ९-४१ ॥

नद्यां वापि तटाके वा सुस्नात्वा भारकैः सह ।
पञ्चगव्यं घृतं पीत्वा मूलमन्त्रं शतञ्जपेत् ॥ ९-४२ ॥

यथा शक्त्याधनं दत्वा ब्राह्मणानां दरिद्रिणाम् ।
तीर्त्थं गत्वा यथा न्यायं स्नापयित्वा सपिण्डकैः ॥ ९-४३ ॥

तिलोदकन्तु तातव्यं तस्य तन्नामपूर्वकम् ।
दहनस्य विधिः प्रोक्ता ब्रह्मचर्यादिषु क्रमात् ॥ ९-४४ ॥

दहनन्तु न कुर्वीत यतीनाञ्चावटाग्निकम् ।
संवाह्य शिबिकाद्येषु तूर्यशब्दैर्महारवैः ॥ ९-४५ ॥

सर्वमङ्गलकर्माणि कारयेत् तु विचक्षणः ।
खात्वादण्डप्रमाणेन प्राङ्मुखं तत्र पूर्ववत् ॥ ९-४६ ॥

स्नानं तत्र न कुर्वीत नास्त्ये वा शौचं मंत्रिणः ।
बलिकर्मणि कर्तव्यमेकोद्दिष्टाधिकं विना ॥ ९-४७ ॥

समासाद्दहनं प्रोक्तं पितृयज्ञविधिं शृणु ।

इति दहनविधिपटलोनवमः ॥ ९ ॥


प्. २८३) अथ पितृयज्ञविधिपटलः

अथातः संप्रवक्ष्यामि पितृयज्ञविधिक्रमम् ।
दहनान्ते बलिङ्कृत्वा एकोद्दिष्टन्तदन्तिके ॥ १०-१ ॥

आश्रमाणां त्रयाणाञ्च बलिपिण्डोदक क्रिया ।
कर्तव्यं द्वारवामे तु न्यस्त्वा चात्मशरावकम् ॥ १०-२ ॥

कूर्चं प्रादेशमात्रन्तु अश्ममध्ये विनिक्षिपेत् ।
पितृदैवतमावाह्य गन्धपुष्पादिनार्चयेत् ॥ १०-३ ॥

तस्य तत् गोत्रनाम्ना तु सर्वद्रव्यं हृदाबुधः ।
प्रथमेह्नि बलिन्दत्वा चान्येष्वेवन्तु दापयेत् ॥ १०-४ ॥

तस्य प्रीतिकरं द्रव्यं दापयित्वा प्रयत्नतः ।
पितृपूजा यदा कुर्यात् तस्य तुष्टिप्रदं सदा ॥ १०-५ ॥

द्वितीयेहनितन्त्रात्मा दाहकेन समन्वितः ।
सपिण्डैः सहगत्वा तु श्मशाने चाग्निके पुनः ॥ १०-६ ॥

घृतक्षुरसमायुक्तं शेषाङ्गं दहनञ्चरेत् ।
सप्ताहे नवभाण्डन्तु अस्थिसंग्रहणं तथा ॥ १०-७ ॥

सक्तुलाजोदना पूपैश्चतुर्दिक्षु च दापयेत् ।
अङ्गैरङ्गादिकन्धार्य तन्मन्त्रेणैव निक्षिपेत् ॥ १०-८ ॥

पुण्यनामा तु मतिमान् शुभार्थाय च देहिनाम् ।
नवाहे वा पराह्णे तु शरावाश्मसुपूर्ववत् ॥ १०-९ ॥

दशरात्रमति क्रम्य सर्वान्तस्थान्विसर्जयेत् ।
स्थापयित्वा जलान् सर्वान् गोमयेन तु लिप्य वै ॥ १०-१० ॥

पुण्याहं तत्र कुर्वीत ग्रहेऽस्मिं तदशेषतः ।
एकादशाहे कर्तव्यमेकोद्दिष्टं विसर्जयेत् ॥ १०-११ ॥

कृतिकालमथारभ्य सुभक्षापेक्षकं विना ।
ग्रहे वा पुरतो वापि प्रपां वै कारयेत् बुधः ॥ १०-१२ ॥

चतुरश्रे समेशुभ्रे सर्वालङ्कारसंयुते ।
शैवतन्त्रविदः सर्वान् तस्य मध्ये समावहेत् ॥ १०-१३ ॥

प्. २८४) पाद्याचमनार्घ्यं दत्वा नम स्मृत्वा तु चाग्रतः ।
ममेदं पितृयागन्तु सर्वशास्त्रार्थमस्तु वै ॥ १०-१४ ॥

अनुग्रह्णं त्विति ब्रूयादावर्तेका वटद्वयम् ।
श्राद्धकर्म समारभ्य दक्षिणे तत्पदार्थिनः ॥ १०-१५ ॥

पदार्थिनो निमित्तञ्च विश्वेदेव पुरस्कृतान् ।
शैवाचारवृतांश्चैव श्रोत्रियान् प्रियदर्शिनः ॥ १०-१६ ॥

संग्राह्यैतान् नमस्कृत्वा पादौ शौचं ततः कुरु ।
कारयेच्चद्वयं पूर्वन्तयोर्दर्भान् परिस्तरेत् ॥ १०-१७ ॥

प्रक्षिप्याथ तिलं मध्ये तैलेनाभ्यञ्जनं ततः ।
सर्वानभ्यञ्जनङ्कृत्वा स्नानं सर्वान् समाचरेत् ॥ १०-१८ ॥

देवाग्नि पितृयज्ञार्थं स्थण्डिलं त्रयमत्र वै ।
उत्तरे देवदेवेशं मध्यमेऽग्नीं प्रकल्पयेत् ॥ १०-१९ ॥

दक्षिणे पितृपिण्डं च शूर्पाकारन्तु देशिकः ।
कारयेद्व्यजनं भक्त्या शिवस्य विधिपूर्वकम् ॥ १०-२० ॥

मेध्येऽग्निं विधिवद्धुत्वा दक्षिणाग्निं परिसरेत् ।
तद्वत् परिधयस्तत्र समिदाज्योदनैस्तिलैः ॥ १०-२१ ॥

हुतायना ममूलेन प्रत्येकन्तु शताहुतिः ।
सहस्राक्षरमन्त्रेण होमङ्कृत्वा तु शक्तितः ॥ १०-२२ ॥

अघोरेण शतं हुत्वा स्वनाम्ना तु शताहुतिः ।
निमित्तञ्च त्रयंभोज्यं विश्वौ देवौ प्रपूजयेत् ॥ १०-२३ ॥

गन्धाद्यैश्च समभ्यर्च्य वर्धनीञ्च सतण्डुलाम् ।
वस्त्रं कांसं सुवर्णञ्च शयनं पादुकं तथा ॥ १०-२४ ॥

दक्षिणाञ्च यथा शक्त्या दापयेत् भक्तिसंयुतः ।
तांबूलन्तु विशेषेण दत्वा वैकंप्रणम्य च ॥ १०-२५ ॥

दर्भाग्रैसुसमुद्वास्य पश्चात् पिण्डन्तु देशिकः ।
शूर्पे सोदनदद्याच्यैर्मर्दयेत् सा पदंशकैः ॥ १०-२६ ॥

कदली पुष्पवत् पिण्डं दक्षिणाग्रं विशेषतः ।
स्वाहान्तं प्रणवान्तं वा मन्त्रमेतदुदाहृतम् ॥ १०-२७ ॥

प्. २८५) चतुर्थ्यन्तं हिते मध्ये तस्य नामसमन्वितम् ।
तत्सूत्र गन्धपुष्पञ्च धूपदीपं विशेषतः ॥ १०-२८ ॥

तिलं दत्वोदकञ्चैव तांबूलमपि पार्श्वकाः ।
ध्यात्वा परमसत्भावं शिवं तत्वैकतां बुधः ॥ १०-२९ ॥

पात्रे पिण्डं समुत्थाप्य ततो हंसन्नियोजयेत् ।
शैवान् संभोज्ययत्नेन पिण्डं रात्रौ जलेक्षिपेत् ॥ १०-३० ॥

पित्रयज्ञविधिः प्रोक्तः सपिण्डीकरणं शृणु ।

इति पितृयज्ञविधिपटलोदशमः ॥ १० ॥


अथ सपिण्डीकरणविधिपटलः

अथातः संप्रवक्ष्यामि सपिण्डीकरणं परम् ।
द्वादशाहे त्रिमासे वा षाण्मासे वत्सरेऽपि वा ॥ ११-१ ॥

तैलाभ्यञ्जनकादीनि पूर्ववत् परिकल्पयेत् ।
देवेशमुद्धरेन्मध्ये वह्निशूर्पन्तु दक्षिणे ॥ ११-२ ॥

संपूज्यपूर्ववत् सर्वं निमित्तं भोजयेत् ततः ।
पृथिव्यापस्थथा तेजोवायुराकाशमेव च ॥ ११-३ ॥

तेष्वेवं सर्वतत्वानि कल्पयित्वा विशेषतः ।
पार्त्थिवादिषु पञ्चैव पञ्चपिण्डन्तु विन्यसेत् ॥ ११-४ ॥

तस्मादुपरिसादाख्यं पूजयेत् तु सदाशिवम् ।
लिङ्गं कृत्वा विशेषेण द्वादशाङ्गुलदीर्घिकम् ॥ ११-५ ॥

अर्चनोक्तविधानेन तस्मिन् संपूजयेच्छिवम् ।
तत्पिण्डं पूर्ववत् कृत्वा तत्वेतत्वे तु योजयेत् ॥ ११-६ ॥

पूर्वं संयोज्य सालोक्यं सामीप्यञ्च द्वितीयकम् ।
त्रितीयञ्चैव सारूप्यं सा युज्यन्तु चतुर्थकम् ॥ ११-७ ॥

प्. २८६) एवं ध्यात्वा तु यत् सम्यक् सपिण्डीकरणं भवेत् ।
अष्टकाहोमकार्यं तु संक्षेपं शृणु सुवृत ॥ ११-८ ॥

माघे च प्रोष्ठमासे च सर्वेद्वौ तु विशेषतः ।
सूर्ये च सूर्यपुत्रे च भूमिपुत्रे तथैव च ॥ ११-९ ॥

अष्टका कुरुते विद्वानस्य द्वारे तु वायदि ।
शिवाग्निं पूर्ववद्धुत्वा पञ्चब्रह्मैः शतं हुनेत् ॥ ११-१०


पञ्चषट्सङ्ख्यकान् शैवान् भोजयित्वा विशेषतः ।
दक्षिणाञ्च यथा शक्त्या वस्त्रहेमपुरःसरम् ॥ ११-११ ॥

पर्वेपर्वेपराह्णे तु यथा शक्त्या तथा कुरु ।
संप्रोक्तमष्टकाहोमं प्रायश्चित्तविधिं शृणु ॥ ११-१२ ॥

इति सपिण्डीकरणविधिपटल एकादशः ॥ ११ ॥


अथ प्रायश्चित्तविधिपटलः

अथातः संप्रवक्ष्यामि प्रायश्चित्तविधिक्रमम् ।
ज्ञातीनाञ्च सगोत्राणां प्रायश्चित्तन्तु नोच्यते ॥ १२-१ ॥

तथा प्रबद्धलोकस्य लोकाचारं नलंघयेत् ।
अदत्वा प्रातिबुद्धस्य प्रायश्चित्तं विधीयते ॥ १२-२ ॥

स्वजाति दीक्षितं स्पृष्ट्वा भस्म स्मानं विशेषतः ।
शूद्रस्य स्पर्शने तस्य सचेल स्नानमाचरेत् ॥ १२-३ ॥

अन्तरालानि सर्वाणि स्पर्शने स्नानकद्वयम् ।
प्रमादात् स्पर्शने विद्वान् जलस्नानं विधीयते ॥ १२-४ ॥

भस्मस्नानं ततः कृत्वा शिवमन्त्रशतञ्जपेत् ।
बुध्यासं स्पर्शनञ्चेति पूर्ववत् स्नानकर्मकम् ॥ १२-५ ॥

तद्दृष्टे भोजनेकाले तच्छेषान्नन्त्यजेत् बुधः ।
स्नानद्वयं तत कृत्वा जप्त्वा मूलं शताष्टकम् ॥ १२-६ ॥

प्. २८७) दुर्गन्धं वायुनागच्छेन्नासाग्रे भिनिवर्तके ।
गोमयन्तु तथा जिघ्रन् सद्यः पञ्चाक्षरञ्जपेत् ॥ १२-७ ॥

स्वजातिदीक्षितानाञ्च भुक्त्वाकामेन वै बुधः ।
व्योमव्यापिञ्जपेदेवं यदिकामाच्छतं जपेत् ॥ १२-८ ॥

नृपान्नभोजने वैद्योघोरमन्त्रं शतञ्जपेत् ।
भुक्ते वैश्यान्नमेवन्तु सहस्रान्तञ्जपेत् क्रमात् ॥ १२-९ ॥

भुक्ते त्वकामाद्रुद्रान्नं कृच्छ्रञ्चांद्रायणञ्चरेत् ।
चान्द्रायणञ्च कामाद्वै कृच्छ्रञ्चैव तु कूष्मकम् ॥ १२-१०


भूक्ते चैकाहमूर्ध्वे तु कृच्छ्रञ्चान्द्रायणञ्चरेत् ।
मासे निरन्तरे भुंक्ते शुद्रत्वमुपजायते ॥ १२-११ ॥

शूद्रेणैव तु संयुक्तो नित्यं शूद्रवदाचरेत् ।
शूद्रस्त्री सङ्गमं कृत्वा सप्तकृच्छ्रन्ततश्चरेत् ॥ १२-१२ ॥

सप्तकृच्छ्रादिकृच्छ्रञ्च मासंमासार्धगामिनः ।
षाण्मासंवत्सरं वापि कृच्छ्रञ्चान्द्रायणञ्चरेत् ॥ १२-१३


अब्दादुपरिसंयोगे प्रायश्चित्तं न विद्यते ।
तस्याचारञ्च तद्वच्चमरणान्ते विशेषतः ॥ १२-१४ ॥

रजस्वलाङ्गना स्पर्शे भुक्ते स्नात्वा शिवञ्जपेत् ।
हेरण्ड कवटाश्वत्थ पत्रेषु यदिभोजनम् ॥ १२-१५ ॥

कामादकामतो वापि शिवमन्त्रं शतञ्जपेत् ।
उच्छिष्टे घृतसंयुक्ते क्षीरेलवणसंयुते ॥ १२-१६ ॥

जपित्वा हृदयं तत्र सर्वदोषनिक्रन्तनम् ।
भुक्त्वान्नदर्शने केशे त्यक्त्वा संशोध्यभस्मना ॥ १२-१७ ॥

संस्मरेद् देवदेवेशं जलं प्राप्यविशुद्ध्यति ।
लशुनं मत्स्यमांसञ्च निर्माल्यञ्च विसर्जयेत् ॥ १२-१८ ॥

प्रमादात् भक्षयित्वा तु शिवमन्त्रं जपेच्छुचिः ।
कामेन यदि भुंजितं शिवमन्त्रशतं जपेत् ॥ १२-१९ ॥

प्. २८८) पातकानाञ्च सर्वेषां समसाच्छृणु सुवृत् ।
ब्रह्महत्या सुरापानं सुवर्णस्तेयमेव च ॥ १२-२० ॥

गुर्वङ्गनागमञ्चैव तद्योगं पञ्चमं स्मृतम् ।
गुरुतल्पसुरापानं ब्रह्महत्या चते त्रयः ॥ १२-२१ ॥

मरणाभिमुखे प्रोक्तन्तेषाञ्च मरणं शृणु ।
बीजं कोशसमायुक्तं मूले संच्छिद्यसाहसात् ॥ १२-२२ ॥

तालपत्रस्य नालेन गुरुतल्पीमृतस्तथा ।
हस्ते संग्राह्य तप्तानां सुरापी मरणं भवेत् ॥ १२-२३ ॥

वचनाच्छृणु ताच्छ्रिद्रं प्रमादादग्निसंभ्वे ।
विप्रचिह्नं परित्यज्य संप्राप्य स्वहतं पदम् ॥ १२-२४ ॥

ब्रह्महाचेति वा गच्छेनहा प्रस्थानमाचरेत् ।
सकृत् प्रवेशीतद्ग्रामं द्वितीयं न प्रवेशयेत् ॥ १२-२५ ॥

भर्त्रानारी समागच्छन् ग्रामान्ते नयतान्निशि ।
एवञ्चाकामतोज्ञेयः कामत शृणु सुवृत ॥ १२-२६ ॥

कृत्वा पूर्ववदाचर्य द्वादशाब्दान्तकं यथा ।
तदूर्ध्वगमने काले जलेवह्नौरणेपतन् ॥ १२-२७ ॥

संप्रविश्यापि मरणं नयेच्छुद्धो भविष्यति ।
स्वर्णस्तोधि च तद्योगात् समासाः शृणु सुवृत ॥ १२-२८ ॥

दानं कृत्वा तु सर्वत्र तीर्थे स्नात्वा तु वत्सरम् ।
शिवमन्त्रं जपेद् देही पश्चादुद्दालकञ्चरेत् ॥ १२-२९ ॥

इदं सुवर्णसेयस्य प्रायश्चित्तं विधीयते ।
चतुर्भिरथसंयुक्तं कामतो कामतोपि वा ॥ १२-३० ॥

न गाग्रे पञ्चब्रह्माणि जपित्वा वत्सरत्रयम् ।
मन्दिरे शिवहर्म्ये वा वने वापि विचक्षणः ॥ १२-३१ ॥

जले लक्षन्तथा कामि स्नात्वा तु दिवसं प्रति ।
विशेषपातकञ्चोक्तं सामान्यं शृणु सुवृत ॥ १२-३२ ॥

मृगजाति कृते हिंसां सद्यमन्त्रं शतं जपेत् ।
पशुजातेश्च हिंसायां प्रागुक्त वृतमाचरेत् ॥ १२-३३ ॥

प्. २८९) पक्षिजातौ वेद्धिं सा घोरमन्त्रं शतं जपेत् ।
सरीस्रपादि हिंसाचेत् पुरुषन्तु शतञ्जपेत् ॥ १२-३४ ॥

स्थावराणि च हिंसाया मीशमन्त्रं शतं जपेत् ।
गुरोस्तु वेतनार्थञ्च हिंसायान्तु न दोषभाक् ॥ १२-३५ ॥

सामान्य पातकं प्रोक्तं सामान्यसेयकं शृणु ।
मृद्दारुशैललोहाञ्च कामतोकामतो भवेत् ॥ १२-३६ ॥

ईशमन्त्रं शतं जप्त्वा लक्षं कामेन वै बुधः ।
स्तेयं समासतः प्रोक्तं सूतकञ्च ततः शृणु ॥ १२-३७ ॥

ग्रहस्थोग्रहिणी योगात् सूतकं प्रेतकं द्विधा ।
दशाहाच्छुद्धिविप्रस्य द्वादशाहात् नृपस्य तु ॥ १२-३८ ॥

वैश्यस्य पक्षतः शुद्धिर्मासं शूद्रस्य चोच्यते ।
सम्यक् ज्ञानी स्वधर्मस्थो न त्यजेत् ज्ञातिनं ततः ॥ १२-३९ ॥

शुद्ध्यते तत्क्षणात् ज्ञानी अज्ञानी चोक्तभाक् भवेत् ।
अन्यथा कुलहानिः स्यात् प्रायश्चित्ते कृते सति ॥ १२-४० ॥

देवाग्नि गुरुपूजादि हीनेद्विगुणमाधिके ।
अघोरन्तु शतं जप्त्वा स्वधर्मपूरितस्तथा ॥ १२-४१ ॥

आशौ चान्नन्ततो भुक्त्वा कृच्छ्रं तत्रैव कारयेत् ।
त्रिसन्धौ पायसादीनि भुकेतु प्रेतकेपि वा ॥ १२-४२ ॥

सूतके सूतके प्राप्ते प्राक्सुतांशेन शुद्ध्यति ।
शूतके सूतकं वापि प्रेतके प्रेतकं तु वा ॥ १२-४३ ॥

प्राप्ताशौचदिनं शुद्धं पूर्वाशौचाद्विनश्यति ।
निकृष्टजाति संयुकेमन्दिरे संस्थिते सदा ॥ १२-४४ ॥

सर्वान् भाण्डान् परित्यज्य कृच्छ्रशुद्धिर्विधीयते ।
कृच्छ्रञ्चैवाति कृच्छ्रञ्च तपकृच्छ्रन्तथैव च ॥ १२-४५ ॥

पराकञ्चान्द्रायणोद्दालन्तेषामाचरणं शृणु ।
दिवसत्रयमेकाशी अयाचितदिनत्रयम् ॥ १२-४६ ॥

दिनत्रयन्तु नक्ताशी निराहारदिनत्रयम् ।
एवं कृच्छ्रं समाख्यातमति कृच्छ्रं ततः शृणु ॥ १२-४७ ॥

प्. २९०) पिबेत् क्षीरस्य कुडुपमेकविंशद्दिनान्तकम् ।
स्नानाद्ध्यायसमायुक्तमति कृच्छ्रमिति स्मृतम् ॥ १२-४८ ॥

त्र्यहमुष्णोदकं पीत्वा क्षीरञ्चैव त्र्यहं पिबेत् ।
त्र्यहमुष्णघृतं पीत्वा त्रयाहं वायुभक्षणम् ॥ १२-४९ ॥

तप्त कृच्छ्रं समाख्यातं पराकञ्च ततः शृणु ।
अनश्नन् द्वादशाहन्तु स्नानं कृत्वा त्रिसन्धिषु ॥ १२-५० ॥

पराकमिति विख्यातं सर्वद्रव्यस्य पूर्वकम् ।
मासार्धं ग्राहवृद्धिः स्यान्मासार्द्धं क्षयमेव च ॥
१२-५१ ॥

चांद्रायणमिति प्रोक्तमुद्दालकं ततः शृणु ।
आमीक्षकं पिबेत् पक्षमष्टरात्रं घृतं स्मृतम् ॥ १२-५२ ॥

अयाचितन्तु षड्रात्रं त्रिरात्रमुदकं बिबेत् ।
उपवासमहोरात्रमेवमुद्दालकं स्मृतम् ॥ १२-५३ ॥

एतेषु प्रायश्चित्तेषु स्नात्वा स्नात्वाशिवं जपेत् ॥ १२-५४ ॥

सहस्राष्टशतं वापि यथा शक्त्या जपेत् ततः ।
चतुर्विधा समाख्याता शिवश्वेता इमाः शृणु ॥ १२-५५ ॥

उदितोदितमुक्तश्च पादाधिक्यन्तमोदितः ।
अर्द्धाधिक्याधिकान्तञ्च द्विगुणास्तु समासतः ॥ १२-५६ ॥

अनुक्तमिहशास्त्रे तु शेषं सामान्यवच्चरेत् ।
प्रायश्चित्तमिदं प्रोक्तञ्चर्या पादे समासतः ॥ १२-५७ ॥

चर्यापादं समाप्तं स्याद्योगपादं ततः शृणु ।

इति प्रायश्चित्तविधिपटलोद्वादशः ॥ १२ ॥

इति सुप्रभेदे चर्यापादः समाप्तः


ओं

शिवमयम्

सुप्रभेदम्

अथ योगपादे-नाडी चक्रविधिपटलः

प्. २९१) अथातः संप्रवक्ष्यामि योगपादं समासतः ।
तस्यपादस्य पूर्वे तु नाडीचक्रक्रमं शृणु ॥ १-१ ॥

द्विसप्तति सहस्राणि नाडयस्तु प्रकीर्तिताः ।
नाडीभिर्व्यावृते देहे जीर्णाश्वत्थस्य पत्रवत् ॥ १-२ ॥

अशीतिश्च चतुश्चैव शतसाहस्रभेदकैः ।
शरीरे क्रीडते देवाः स्वेच्छया परमेश्वरम् ॥ १-३ ॥

भूतग्रामैश्चतुर्भिश्च सर्वयोनि समुद्भवम् ।
अण्डजं स्वेदजञ्चैव उत्बीजञ्च जरायुजम् ॥ १-४ ॥

अण्डजाताश्चये भावास्त्वण्डजास्ते प्रकीर्तिताः ।
स्वेदजाताश्चये भावास्वेदजास्तु प्रकीर्तिताः ॥ १-५ ॥

भूमौ तु तोयबीजाभ्यां मुत्भिदाश्चेति कीर्तिताः ।
इल्वयुक्ताश्चये जाताः कीर्तितास्ते जरायुजाः ॥ १-६ ॥

भूतग्रामैश्चतुर्भिश्च नराद्याषड्विधो भवेत् ।
नरश्चैव मृगश्चैव पशुः पक्षीतथैव च ॥ १-७ ॥

सरीस्रपः स्थावरश्च षड्विधं योनिसंभवम् ।
वाचा वदन्ति यद्वाण्या ते नरास्त्विति कीर्तिताः ॥ १-८ ॥

ऊर्ध्वपुच्छन्तु तद्वृद्धिं मृगं विद्याद्विनायक ।
अधोदीर्घाश्च ये पुच्छाः पशुजातिरुदीरिता ॥ १-९ ॥

द्विपक्षाः पक्षिरित्याहु सरतीतिसरीस्रपः ।
स्थापितं स्थावरं प्रोक्तं षड्विधं भूतमेव च ॥ १-१० ॥

अथ्यन्ते योनि भेदानि क्षेत्रं स्यात् भूमिकं शृणु ।
पृथिव्यादीनि तत्वानि यत्र तिष्ठन्ति तल्लये ॥ १-११ ॥

लयस्थानं तदाख्यातं तत्वातीतं परात्परम् ।
तस्माच्छिन्नं समुत्पन्न तस्माच्छक्तिरजायत ॥ १-१२ ॥

प्. २९२) तस्मान्नादिं समुत्पन्नं तस्मात् बिन्दुसमुद्भवम् ।
तस्मात् सदाशिवं प्रोक्तं सृष्ट्यर्थं पञ्चधा भवेत् ॥ १-१३


तस्मादात्मा समुत्पन्नं सहजं मलसंयुतम् ।
क्षेत्रज्ञन्तं विजानीयाच्छक्तिस्थन्तु तथोच्यते ॥ १-१४ ॥

तस्मादुपरिवेशस्य शुद्धावस्थोनुकीर्तिताः ।
शुभाशुभ वरप्राप्तौ तत्र गच्छन्ति जायते ॥ १-१५ ॥

मायाद्यवनि पर्यन्तं देहबद्धोत्र दृश्यते ।
कर्मोदये तु जननं कर्मान्ते मरणं स्मृतम् ॥ १-१६ ॥

सुखदुःखनिमित्ताय शरीरग्रहणं कृतम् ।
शरीरं द्विविधं प्रोक्तं पुंसत्व स्त्रीत्वमेव च ॥ १-१७ ॥

लिङ्गेन लांच्छितं पुंस्त्वं स्त्रीत्वं योन्याभिलांच्छितम् ।
लिङ्गमीशमयं प्रोक्तं योनिः शक्तिमयं स्मृतम् ॥ १-१८ ॥

तस्माद्वै शिवशक्तिस्तु सर्वमेतत् चराचरम् ।
तच्छरीरं द्विधाप्रोक्तं स्थूलं वै सूक्ष्ममेव च ॥ १-१९ ॥

पृथिव्यापस्तथा तेजोवायुराकाशमेव च ।
शुक्रं बीजां शमित्युक्तं क्षेत्रांशं श्रोणितं स्मृतम् ॥
१-२० ॥

अस्थि स्नायुश्चमज्जा च पित्रजंस्त्रयमेव तु ।
त्वङ्मांसशोणितञ्चैव मातृजं त्रिकमेव च ॥ १-२१ ॥

इत्थं षट्कौशिकं प्रोक्तं शरीरान्तैस्तु जायते ।
नखदन्तश्च रोमाणि केशाश्च नाडयस्तथा ॥ १-२२ ॥

शब्दस्पर्शश्च रूपश्च रसोगन्धश्च पञ्चधा ।
एतैर्भूतगणैर्युक्तं स्थूलं शरीरकं भवेत् ॥ १-२३ ॥

शूक्ष्मस्य गोलकां विद्धि तच्छुभाशुभसाधनम् ।
जननमरणञ्चैव कर्मणा जायते ततः ॥ १-२४ ॥

एवं स्थूलशरीरञ्च संक्षेपाद्वर्णितं मया ।
श्रोत्रं त्वक्चक्षुजिह्वा च घ्राणं बुद्धीन्द्रियं विदुः ॥ १-२५


वाक्पादपाणि पायुश्चोपस्थं कर्मेन्द्रियं स्मृतम् ।
प्राणः समानोदानश्च अपानोव्यान एव च ॥ १-२६ ॥

नागः कूर्मश्चक्रकरो देवदत्तोधनञ्जयः ।
मनोबुद्धिरहंकारश्चित्तोन्तः करणं स्मृतम् ॥ १-२७ ॥

प्. २९३) मदमात्सर्यमानादि सूक्ष्मशारीरकं भवेत् ।
इदं शरीरं लिङ्गं हि तयोर्जन्म ततः शृणु ॥ १-२८ ॥

शुक्लं रक्तेन संभाव्य जनन्याश्चोदरे स्थितम् ।
कर्मादौ सकलं ग्राह्यं प्राप्यते सुषिराशयम् ॥ १-२९ ॥

क्षेत्रांशैश्चैव बीजांशैः शरीरव्याव्रतोगतः ।
रक्ताधिक्क्यात् स्त्रीप्रजा च शुक्लाधिक्यात् पुमान् भवेत् ॥ १-३० ॥

यदिशुक्लसमंरक्तं जायते तु नपुंसकम् ।
भजने तु यथा बिदुर्वद्धते तु शनैः शनैः ॥ १-३१ ॥

पुन्नागमुकुलाकारं गर्भाशयगतं तथा ।
मरणादीनि कर्माणि निमित्तानि वरेण तु ॥ १-३२ ॥

आयुष्यं विभवं कर्मविद्या च निधनं सुखम् ।
षट्कं संप्राप्य तत्रैव ततो गर्भाशयं विशन् ॥ १-३३ ॥

गुणाश्चैव त्रिदोषाश्च जन्तूनान्तत्र संभवाः ।
सत्वं रजस्तमश्चैव गुणत्रयमिहोच्यते ॥ १-३४ ॥

सत्यं ज्ञानं तपोमौनं स्मृतिर्मेधाधृतिः क्षमा ।
उत्साहो निश्चयन्धैर्यमेवं वै सात्विकं गुणम् ॥ १-३५ ॥

दर्पं महदहंकारं विषादं प्रियवाचकम् ।
उद्योगंमात्सरं प्रोक्तं रजसंगुणमुच्यते ॥ १-३६ ॥

आलस्यं मोहनिद्राश्च चापलं ही नवृत्तिकम् ।
पापिष्ठं परनिन्दा च तामसं गुणलक्षणम् ॥ १-३७ ॥

गुणानान्तु समावस्था मूलप्रकृतिरुच्यते ।
संक्षेपात् त्रिगुणं प्रोक्तं त्रिदोषांश्च शृणुष्वमत् ॥ १-३८ ॥

वातं पित्तंकफञ्चैव रोगाणामधिपा स्मृताः ।
सर्वजन्तुषु सामान्यं समंवाधिकमेव च ॥ १-३९ ॥

एवमादीनि चान्यानि संविशेत् सुषिराशयम् ।
गर्भाशयगते काले वायुनाभिद्यते यथा ॥ १-४० ॥

तदा रूपद्वयङ्गत्वा वर्धते तु शनैः शनैः ।
पञ्चाहे तु दशाहे तु पत्मपत्रस्थतोयवत् ॥ १-४१ ॥

मासान्ते चाक्षफलवद् विमासां मृफलाकृतिः ।
त्रिमासेऽष्टाङ्गुलं दीर्घञ्चतुर्मासे शिरोभवेत् ॥ १-४२ ॥

प्. २९४) हस्तौ चैव तु पादौ च पञ्चमासे प्रकीर्तितम् ।
नखाङ्गुल सपादौ च गुल्भौ च नलकौ तथा ॥ १-४३ ॥

जंघेजानु तथा चोरुकटिस्फिक् जघनं तथा ।
स्तनपार्श्वोदरारभ्य कक्षौ वक्षाभुजावुभौ ॥ १-४४ ॥

पादयोर्हस्तयोरेखा ह्यंगुष्ठे नखपर्वगाः ।
गलः कर्णौ च जिह्वा च ओष्ठौ दन्ताश्च नासिका ॥ १-४५ ॥

नयनं भ्रूललाटश्च शिरः केशादयस्तथा ।
एतान्यङ्गानि सर्वाणि जायते षष्ठमासिके ॥ १-४६ ॥

सप्तमासेन्न पानौ च नाभिनालेन भुज्यते ।
प्रसूयते वा तन्मासे वायुना न प्रसूयते ॥ १-४७ ॥

अष्टमासे समुत्थाय वीणादण्डं समाश्रितम् ।
संप्राप्याष्टगुणैश्वर्य मणिमादिकमत्र वै ॥ १-४८ ॥

त्रिकालन्तु विजानाति ज्ञानात् सर्वं प्रकाशते ।
जायते चाष्टमे मासे जातश्चोत्तमजीवती ॥ १-४९ ॥

जायते नवमे मासे दशमासे तु वा पुनः ।
ततस्त्वेकादशे मासे मायया प्रेरितो जनः ॥ १-५० ॥

बोद्धव्यं शक्तिना काचित् श्रमदाहक्षुधादिकान् ।
एवमादीनि वर्द्धन्ते क्रमेणैव शनैः शनैः ॥ १-५१ ॥

तत्र भूत्वान्न वीर्येण वर्धन्ते सप्तधातवः ।
अन्नद्रवसमुत्पन्न रसाद्वै श्रोणितं स्मृतम् ॥ १-५२ ॥

श्रोणितान्मांसमुत्पन्नं मांसान्मेदः समुत्भवम् ।
मेदसोस्थि समुत्पन्नं तस्मात् मज्जातु संभवम् ॥ १-५३ ॥

मज्जाशुक्लं समुत्पन्न मित्येते सप्तधातवः ।
शरीरन्धातुभिः प्राप्तं धातुभिः शब्दराशयः ॥ १-५४ ॥

शब्दादिविषयं ज्ञानं द्विमासोपरिपूर्णके ।
पञ्चविंशति तत्त्वानि वक्ष्यते तु समासतः ॥ १-५५ ॥

भूतानि भूतमात्राणि ततो बुद्धिन्द्रियाणि च ।
कर्मेन्द्रियाणि विघ्नेश तथान्तः करणानि च ॥ १-५६ ॥

अव्यक्तेन समायुक्तं पञ्चविंशदुदाहृतम् ।
पृथिव्यादीनि तत्वानि प्राप्यते त्वखिलान्तनुम् ॥ १-५७ ॥

प्. २९५) पृथिव्यापस्तथा तेजोवायुराकाश एव च ।
महाभूतानि चोक्तानि तेषां भेदं शृणुष्वहि ॥ १-५८ ॥

यत् कठिनं तत्पृथिवी यद्रव्यं ह्याप उच्यते ।
यदुष्णञ्चेत्ततो वह्निर्वायुः सञ्चरति त्विह ॥ १-५९ ॥

अवकाशं यदा काशं महाभूतगणास्विमे ।
अस्थित्वक्मांसकेशाश्च नाडयस्त्विह कीर्तिताः ॥ १-६० ॥

पृथिव्यं शास्तथा ज्ञेयास्त्वाप्यंशाश्च ततः शृणु ।
कफः शोणितमूत्राणि मज्जाशुक्लन्तथैव च ॥ १-६१ ॥

द्रव्यांशकमिति ज्ञेयं सर्वप्राणि च संस्थितम् ।
क्षुधानिद्रा च कृष्णा च आलस्यं मैधुनं तथा ॥ १-६२ ॥

एते पञ्चगुणा प्रोक्ता तेजोंशा इति संस्थिताः ।
आस्ते शेते च गमनं प्रसाराणि निरोधनम् ॥ १-६३ ॥

एते पञ्चगुणा प्रोक्ता वाय्वंशा सुप्रकीर्तिताः ।
कामक्रोधञ्च लोभञ्च भयोमोहसथैव च ॥ १-६४ ॥

पञ्चैतेनुगुणा प्रोक्ता व्योमांशास्तु प्रकीर्तिताः ।
प्रोक्तं भूतगुणञ्चैवं गुणन्तेषान्तु वक्ष्यते ॥ १-६५ ॥

शब्दस्पर्शञ्चरुपञ्च रसंगन्धञ्च पञ्चधा ।
आकाशस्य गुणं शब्दं वायोस्तु स्पर्शनं गुणम् ॥ १-६६ ॥

तेजसस्तु गुणं रूपं रसमापगुणं स्मृतम् ।
पृथिव्यास्तु गुणं गन्धं भूमिकादीनि विन्यसेत् ॥ १-६७ ॥

विषयं त्विति विख्यातं भूतानाङ्गुणमुच्यते ।
शब्दादिविषयं पुण्यं भूमौ तु विनिवर्द्धते ॥ १-६८ ॥

चतुर्गुणाः प्रवर्धन्ते त्रिगुणस्त्वथ वह्निके ।
वायोश्च द्विगुणं प्रोक्तमाकाशस्यैकमेव तु ॥ १-६९ ॥

विषयाणि तथोक्तानि बुद्धिन्द्रियाणि ततः शृणु ।
श्रोत्रत्वक्चक्षुजिह्वा च घ्राणं बुद्धिन्द्रियाणि च ॥ १-७० ॥

शब्दादिविषयाणाञ्च साधनन्ते प्रकीर्तितम् ।
बुद्धीन्द्रियाणामेतेषां देवभूतात्मकं शृणु ॥ १-७१ ॥

प्. २९६) श्रोत्रमध्यात्ममित्युक्तं श्रोतव्यमधि भूतता ।
शिवहस्ताधि दैवन्तु त्वगेवाध्यात्मकं विदुः ॥ १-७२ ॥

स्पर्शनञ्चाधिभूतः स्याद् वायुस्तत्राधिदैवतम् ।
चक्षुरध्यात्ममित्युक्तं द्रष्टव्यमधिभूतता ॥ १-७३ ॥

सूर्यस्तत्राधिदैवत्य जिह्वाचाध्यात्मकं विदुः ।
रसज्ञात्वधिभूतन्तु वरुणश्चाधिदेवता ॥ १-७४ ॥

घ्राणमध्यात्ममित्युक्तं घ्रातव्यमधि भूतता ।
बृहस्पत्यधिदैवञ्च प्रातः शक्तिरिति स्मृतम् ॥ १-७५ ॥

बुद्धीन्द्रियाणि चोक्तानि शृणु कर्मेन्द्रियाणि च ।
वागध्यात्मकमित्युक्तं वक्तव्यमधि भूतता ॥ १-७६ ॥

सरस्वत्यधिदैवत्यं वाणिरध्यात्मकं ततः ।
दातव्यमधिभूतश्च शक्रस्तत्राधिदेवता ॥ १-७७ ॥

पादमध्यात्मकं प्रोक्तं गमनञ्चाधि भूतता ।
शक्राधिदैवतं प्रोक्तं वायुरध्यात्मकं विदुः ॥ १-७८ ॥

उपस्थोध्यात्ममित्युक्तमानन्दमधिभूतता ॥ १-७९ ॥

प्राजापत्याधिदैवत्यं क्रियाशक्तिरिति स्मृता ।
कर्मेन्द्रियाणि चोक्तानि ततोन्त करणं शृणु ॥ १-८० ॥

मनोहङ्कारबुद्धि च चित्तोन्तः करणं विदुः ।
मनोध्यात्ममिति प्रोक्तमन्तव्यमधिभूतता ॥ १-८१ ॥

सोमाधि दैवमित्युक्तो हङ्कारोध्यात्मकं विदुः ।
अधिभूतमहंकारं रुद्रमूर्त्यधिदैवतम् ॥ १-८२ ॥

बुद्धिरध्यात्ममित्युक्तं बोद्धव्यमधिभूतता ।
क्षेत्रज्ञस्याधिदैवं स्याच्चित्तमध्यात्मकं स्मृतम् ॥ १-८३ ॥

चैतन्यमधिभूतं हि ईश्वरश्चाधिदैवतम् ।
मन्यते तंमनो ज्ञात्वा अहङ्कारमहंकृतम् ॥ १-८४ ॥

बोद्ध्यत्वात् बुद्धिरेवं हि चिन्तत्वाच्चित्तमुच्यते ।
मनश्च द्विविधं प्रोक्तं चलाचलमिति स्मृतम् ॥ १-८५ ॥

प्. २९७) अहङ्कारं त्रिधाज्ञेयं भूतवैकारि तेजसम् ।
वक्ष्यते तु समासेन भूतसारसमुद्भवम् ॥ १-८६ ॥

शब्दतन्मात्रमादौ तु गन्धतनात्रमर्थके ।
एतानि पञ्चमात्राणि भूतानां सृष्टिरुच्यते ॥ १-८७ ॥

स्यात्तैजस अहंकारे इन्द्रियाणि समुद्भवम् ।
वैकारिकमहङ्कारे इन्द्रियाणि समुद्भवम् ॥ १-८८ ॥

वैकारिकमहंकारे अधिदेवाः समुद्भवम् ।
बुद्धिरष्टविधा ज्ञेया धर्माधर्मादिरष्टधा ॥ १-८९ ॥

चित्तमेक विधं ज्ञेयं तच्चान्तः करणं विदुः ।
चतुर्भिरन्तः करणैश्चतुर्विंशतिरुच्यते ॥ १-९० ॥

उपादानन्तु तेषां वै चाव्यकमिति निन्दितम् ।
अव्यक्तस्य तु धर्मः स्यात् त्रिगुणं संप्रकीर्तितम् ॥ १-९१ ॥

तामसं राजसञ्चैव सात्विकञ्च तृतीयकम् ।
तामसेयान्ति नरकं राजसे स्वर्गमुच्यते ॥ १-९२ ॥

सात्विके मोक्षमित्युक्तं तस्मात् सात्विकमुच्यते ।
सात्विके सर्वकर्माणि एक चित्तस्तु सात्विकम् ॥ १-९३ ॥

तस्मात् सर्वप्रयत्नेन सात्विकङ्गुणमाश्रये ।
पञ्चविंशति तत्वानि समासात् कीर्तितानि तु ॥ १-९४ ॥

तेभ्य एकादशं तत्वं समासात् च्छृणु सांप्रतम् ।
पुंरागोनियती विद्याकलाकलस्तथैव च ॥ १-९५ ॥

शुद्धविद्याशुद्धकला शुद्धमायान्तथैव च ।
आत्मतत्वञ्च विद्याञ्च शिवतत्वमतः परम् ॥ १-९६ ॥

एकादशानि तत्वानि शरीरे संस्थितानि तु ।
कञ्चुकत्रयमाविश्य शनैः कालेन वित्तमः ॥ १-९७ ॥

आलिंग्यते नियतिना आत्मवद्भाववर्तकः ।
प्रकृतिः पौरुषं यस्मान् तस्मात् पुरुष उच्यते ॥ १-९८ ॥

बालार्कशतसाहस्र भागैकं तत्र चिद्विदुः ।
सञ्जिव इति विख्यातः संसारी चेति चोच्यते ॥ १-९९ ॥

प्रधानादि विशेषान्तं व्यापं वै परिशक्तिना ।
कलाशक्तिरितिख्याता चानमु?क्तैस्तु कारणा ॥ १-१०० ॥

प्. २९८) धर्माधर्माधिसंबन्धा दाणवं सहजं स्मृतम् ।
इत्येवमादि संबन्धाच्छरिरेषु व्यवस्थिताः ॥ १-१०१ ॥

संबन्धास्तस्य जीवस्य दुःखत्रयमिहोच्यते ।
आध्यात्ममधिभूतञ्च अधिदैविकमेव च ॥ १-१०२ ॥

त्रिविधं दुःखमाप्नोति तेषामाध्यात्मकं शृणु ।
आध्यात्मकं द्विधाप्रोक्ता शरीरं मानसं तथा ॥ १-१०३ ॥

गुल्मारशोति सारञ्च ज्वरशूलाद्यनेकधा ।
नरमृगपिशाचैश्च गोपक्षीचोरराक्षसैः ॥ १-१०४ ॥

प्रोक्तं शरीरकं दुःखं मानसं शृणु सुव्रत ।
शोकासूयावमानेर्ष्या मासाध्यादिभिरेव च ॥ १-१०५ ॥

एवं मानसमाख्यातमाधिभौतिकमुच्यते ।
शीतोष्णवातवर्षैश्च विद्युदाशनिमारुते ॥ १-१०६ ॥

एतैर्भूतैस्तु जन्दुःखमाधिदैविकमुच्यते ।
गर्भजन्मजरा ज्ञानमृत्युर्नरकजं तथा ॥ १-१०७ ॥

प्रोक्तं दुःखत्रयं ह्येवमेषु स्थानेषु भूज्यते ।
ततोदराग्निना गर्भे मातृशीलेन बाध्यते ॥ १-१०८ ॥

गर्भात् कोटिगुणं दुःखं योनि यंत्रे प्रपिडनम् ।
एवमादीनिदुःखानि शरीरीभुज्यते क्रमात् ॥ १-१०९ ॥

जाग्रत् स्वप्नं सुषुप्तिश्च तुर्यावस्था ततः शृणु ।
इन्द्रियाणि गताबुद्धिः कृत्वा कर्माण्य शेषतः ॥ १-११० ॥

करणी यानि सर्वाणि दृश्यन्ते जाग्रदेव तु ।
करणानि चेंद्रियाणि बध्वावै वाश्रयं भवेत् ॥ १-१११ ॥

निद्रामाश्रयते बुद्धिर्मन्यते पूर्वकर्मकम् ।
एवं स्वप्नं विजानीयात् सुषिपिञ्च ततः शृणु ॥ १-११२ ॥

करणानि गृहीत्वा तु बुद्धिश्चैतन्यमागता ।
तदाश्रये तु काले तु कर्माण्य प्रतिबुद्ध्यति ॥ १-११३ ॥

सुषिप्तिरिति विख्याता तुरीयं करणं विना ।
जाग्रोमुखगतो जीवस्वप्ने कर्णं समाश्रितः ॥ १-११४ ॥

प्. २९९) सुषुप्तौ हृदमाश्रित्य तुर्ये सर्वगत स्मृतः ।
एवं व्यवस्थितो देहे नाडयश्च तत शृणु ॥ १-११५ ॥

नाभिमूलन्तु हृन्नाल नाडयश्चक्रवत् तथा ।
तिर्यगूर्ध्वमधश्चैव व्याप्तितातैस्तु सर्वतः ॥ १-११६ ॥

चक्रवत्संस्थिता ह्येताः प्रधानश्चाष्टविंशतिः ।
तेषु प्रधानभूतास्तु इडादिदशनाडयः ॥ १-११७ ॥

इडयाविमाशोषा पृथिवी आपनी तथा ।
तेजोवती वायुवी च गमनीमर्दनी तथा ॥ १-११८ ॥

रोदनीरक्तवागि च मृद्वंगी श्रिंगिणी तथा ।
शब्दा स्पर्शा च पूर्णा च सद्रूपारसधारिणी ॥ १-११९ ॥

सर्वाङ्गेषु स्थिता ह्येता प्रधानाश्चाष्ट विंशतिः ।
तासुनाडीषु चान्तस्थाः प्राणादि दशवायवः ॥ १-१२० ॥

प्राणापानस्तथाव्यान उदानश्च समानकः ।
नागकूर्माश्चक्रकरो देवदत्तोधनञ्जयः ॥ १-१२१ ॥

दशप्राणा इति प्रोक्ता वायवः समुदहृताः ।
वायूनान्तु नवानाञ्च प्रभुः प्राणप्रकीर्तिताः ॥ १-१२२ ॥

निश्वासोछ्वासकासैश्च प्राणीनामुदरे स्थिताः ।
इन्द्र निलप्रतिकाशप्राणरूपसुकीर्तिताः ॥ १-१२३ ॥

नादसंयुक्त जीवान्त जीवमाश्रित्य नित्यशः ।
स्थान हृन्नाभिनासाग्रं पादाङ्गुष्ठान्तमाश्रितः ॥ १-१२४


अपान पृष्ठमाश्रित्य वामदक्षिणनिर्गमम् ।
प्राणस्य लक्षणं प्रोक्तमपानञ्च ततः शृणु ॥ १-१२५ ॥

अपानो जीवमाश्रित्य तद्वर्णञ्चैंद्रकोपवत् ।
स्थानन्तु मेढ्रमुले तु गुदमूलन्तु निर्गमम् ॥ १-१२६ ॥

नाभेरधस्तात् स्थानन्तु मेढ्रमूले तु निर्गमम् ।
पुरीषोत् सर्गमात्रादि प्राणापानाश्च निर्गमम् ॥ १-१२७ ॥

प्राणापानोपहे नित्यं शरीराख्यं महारथम् ।
दीपान्तस्थ प्रभु प्राणोरक्षाङ्कृत्वा महामनुम् ॥ १-१२८ ॥

प्. ३००) व्यानं सकलमाश्रित्य स्पर्शादीनी प्रबोधकः ।
गोक्षीरसमवर्णं स्यात् स्थानं सर्वाङ्गसन्धिषु ॥ १-१२९ ॥

उदानच्छक्तिरोगाणामुद्भवन्तत्र कारयेत् ।
विद्युत्पावक सङ्काशान्तस्य वर्णं प्रकीर्तितम् ॥ १-१३० ॥

स्थानं पार्श्वौ च कर्णौ च चक्षुषोर्घ्राणयोस्तथा ।
समान वायोर्वर्णन्तु अतसी कुसुमप्रभम् ॥ १-१३१ ॥

स्कन्धे मूर्धनि जिह्वाश्च जंघयोर्गुल्भयोस्तथा ।
अन्नपानरसन्नित्वा चा पादतलमस्तकम् ॥ १-१३२ ॥

अशेषानन्नपानादीन्वैश्विनराग्नि संयुतम् ।
तत्रा शयाख्य कुण्डे तु हुतं तत्रैव कारयेत् ॥ १-१३३ ॥

तत्र नागसुवर्णन्तु मार्ताण्डोदय सन्निभम् ।
हित्काञ्चरोमहर्षादिन् गेयभक्तिञ्च कारयेत् ॥ १-१३४ ॥

उदयञ्च ललाटञ्च स्थानन्नासादि चासनम् ।
कुन्दपुष्पसमाकारं कूर्मवायोः प्रकीर्तितम् ॥ १-१३५ ॥

नेत्रपक्षौ तु संप्राप्य निमीलोन्मीलनङ्कुरु ।
कृकरस्य तु वर्णं स्यात् भिन्नाञ्जनसमप्रभम् ॥ १-१३६ ॥

क्षुधादिकुरुते नित्यं नासाग्रे तु व्यवस्थितम् ।
देवदत्तस्य वर्णं स्यात् शुद्धस्फटिक सप्रभम् ॥ १-१३७ ॥

मुखं पृष्ठञ्च पादञ्च पार्श्वञ्चैव विशेषतः ।
उत्थाप्यशयनासीनं विज्रंभणमतः परम् ॥ १-१३८ ॥

धनञ्जयस्य वर्णस्यां नीलाञ्जनसमप्रभम् ।
धनञ्जयस्थितो देहममृतस्यापिमुञ्चति ॥ १-१३९ ॥

पश्चात् तु ब्राह्मणं कृत्वा शरीरं भिद्यते गतः ।
इत्येते दशवायूनां प्राणादीनां प्रचक्षते ॥ १-१४० ॥

इडादिनाडयस्तत्र शरीरेव्या प्रतस्तथा ।
नाडीमध्ये ततो वायुः सञ्चरेत् क्रमशस्तथा ॥ १-१४१ ॥

कुण्डल्याख्या महानाडी नाभिमध्ये प्रकीर्तिताः ।
अष्टवर्तुलमेवन्तु कुण्डलीनाडिसुप्तवत् ॥ १-१४२ ॥

नाभेरूर्ध्वं भवेत् पद्मं तटाकाब्जं तु पुष्पवत् ।
तस्य मध्ये स्थितो जीवः सूर्यकोटिसमप्रभः ॥ १-१४३ ॥

प्. ३०१) तस्यान्तस्थं समाख्यातं सूर्यसोमाग्निकुण्डलम् ।
तेषां मध्ये स्थितो देवः सूर्यायुतसमप्रभम् ॥ १-१४४ ॥

वामपार्श्वे इडानाडी पिंगलादक्षनाडिका ।
सुषुम्ना मध्यमे चैव यावदङ्गुष्ठकान्तका ॥ १-१४५ ॥

गान्धारी दक्षिणे नेत्रे हस्ति जिह्वा च वामके ।
पूषा वै दक्षिणे कर्णे वामकर्णे यशस्विनी ॥ १-१४६ ॥

अलंपुष्पन्तु मेडुन्तु कुहूश्चैव गुदे स्थिता ।
शखिनी नासिमध्ये तु दशनाडी ह्यवस्थिता ॥ १-१४७ ॥

अशेषानाडयः सर्वाश्चक्रवद् व्यावृतस्तनुम् ।
चक्रवद् वा वृतोयस्मान् नाडीचक्रमिहोच्यते ॥ १-१४८ ॥

नाडीचक्रमिदं प्रोक्तं कालचक्रमथ शृणु ॥

इति नाडीचक्रविधिपटलः प्रथमः ॥ १ ॥


अथ कालचक्रविधिपटलः

अथातः संप्रवक्ष्यामि कालचक्रस्यलक्षणम् ।
कालञ्च कुरुते यस्मात् कालमेवमुदाहृतम् ॥ २-१ ॥

प्राणीनाञ्चैव देवानां विनाशोत्पत्तिकारणम् ।
अमूर्तिं कालमाख्याता दृष्वादष्टन्तु लक्षणम् ॥ २-२ ॥

त्रिविधं कालमाख्यातं शिवेन परिभाषितम् ।
सृष्टिकालं स्थितिकालं संहारञ्चेति कीर्तितम् ॥ २-३ ॥

शिवाद्यवनि पर्यन्तं सृष्टिरेवमुदाहृतम् ।
या स्थितिः सर्वभूतानां शिवाद्यानन्तक स्थितम् ॥ २-४ ॥

पृथिव्यादि शिवान्ताये लयङ्गच्छेत् परापरम् ।
तदा संहारमेवोक्तं त्रिविधं कालनिर्णयम् ॥ २-५ ॥

त्रिषुकालेषु वर्तन्तेतीतानां गमं ततः ।
वर्तमानाख्यकं कालमुच्यते वै पृथक् पृथक् ॥ २-६ ॥

प्. ३०२) यदा शेषं समाप्तन्तु तदा तीतमिति स्मृतम् ।
सापेक्षकञ्च यत्काले तदा नागतमुच्यते ॥ २-७ ॥

असमाप्तं यदारब्धं वर्तमानमुदाहृतम् ।
तत्कालमव बोद्धव्यं देवादीनामुदाहृतम् ॥ २-८ ॥

युगपत् सृष्टि संहारौ स्थितिकाले निवर्तते ।
केचित् कालात् सृजन्त्येव केचित् कालात् भ्रमन्ति च ॥ २-९ ॥

मनुष्य पितृदेवानां कालसंख्यान्ततः शृणु ।
कालञ्च द्विविधं प्रोक्तं स्थूलं सूक्ष्मन्तथैव च ॥ २-१० ॥

मौक्तिकं (मौकिकं) स्थूलमाख्यातं योगिनां
सूक्ष्ममेव च ।
स्थूलञ्च द्विविधंवत्स चंद्रादित्यस्य चारणम् ॥ २-११ ॥

चंद्रस्य वर्तनाकालोमनुष्याणां प्रकीर्तितम् ।
सूर्यस्य वर्तनाकालो देवानान्तु प्रकीर्तितम् ॥ २-१२ ॥

कालचक्रे तु वर्तन्ते भास्करादि ग्रहास्थथा ।
द्वादशारयुते चक्रे मेषाद्याराशयोरवेः ॥ २-१३ ॥

पट्टिकायाञ्च नाभौ च मध्ये वायुः प्रकीर्तिताः ।
मेरुमूर्ध्निगतञ्चक्रं ब्रह्माण्डे संव्यवस्थितम् ॥ २-१४ ॥

कुलालचक्रवन्नित्यं भ्रामस्तत्रैव देवताः ।
मेरुं प्रदक्षिणं कृत्वा नक्षत्राणि ग्रहाणि च ॥ २-१५ ॥

सूर्योदयास्तमायान्तमहरेवविदुर्बुधाः ।
अस्तमयादुदयान्तं निशा चैवमुदाहृतम् ॥ २-१६ ॥

अहर्निशिद्वयोपेतमहोरात्रमिति स्मृतम् ।
दिवाप्रातरहञ्चैव प्रोक्तः पर्यायवाचकाः ॥ २-१७ ॥

शर्वरीरजनीसायं निशिनक्तन्तु रात्रिकम् ।
हायादि देवतानान्तु पितृणां प्रातरादिकम् ॥ २-१८ ॥

मनुष्याणामहोरात्रमितिशास्त्रेसु निश्चितम् ।
मनुष्याणां हितार्थाय सर्वसंपत्कराय च ॥ २-१९ ॥

पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धयामके ।
तस्मात् सर्वप्रयत्नेन चतुःसन्धिषु पूजयेत् ॥ २-२० ॥

यामं प्रतिविशेषेण पूजयेदष्टसन्धिषु ।
यामार्धं सन्धिरित्युक्तमहोरात्रन्तु पूजयेत् ॥ २-२१ ॥

प्. ३०३) मनुष्याणां दिनं प्रोक्तं पञ्चपञ्चदशाहकः ।
पक्षद्वयिशुक्लपक्षः कृष्णपक्षस्तथैव च ॥ २-२२ ॥

एकराशिगतौ यत्र चन्द्रादित्यौ सहैव तु ।
तत्रामावास्याचेत्युक्तं तत्पक्षं शुक्लमुच्यते ॥ २-२३ ॥

सप्तराशिगतञ्चंद्रं तत्र पूर्णकलामतः ।
पौर्णमासी ततः प्रोक्तः कृष्णः पञ्चदशाहकः ॥ २-२४ ॥

पक्षद्वयं तथा मासोमासाद्वादशवत्सरम् ।
वर्षञ्चैवाब्द पर्याय वाचकाः परिकीर्तिताः ॥ २-२५ ॥

शताब्दन्तु मनुष्याणामायुष्यं समुदीरितम् ।
मृगाणां सर्वजातीनां शताब्दायुः प्रकीर्तितम् ॥ २-२६ ॥

नराणाञ्चैव चायुष्यं शतञ्चैव प्रकीर्तितम् ।
एवमुक्तं मनुष्याणां पितृकालं ततः शृणु ॥ २-२७ ॥

मनुष्याणामहोरात्रं पितृणां घटिका भवेत् ।
त्रिंशत्घटिमहोरात्रं शुक्लपक्षन्तु वासरम् ॥ २-२८ ॥

निशिकृष्णं विजानीयात् पितृणां तदहर्न्निशम् ।
पूर्वसन्धिरमावास्या मध्याह्नञ्चाष्टमी भवेत् ॥ २-२९ ॥

पौर्णमास्यपराह्णन्तु अष्टमीचार्धयामकम् ।
दिवसैर्द्वादशैर्मासं मासैर्द्वादशवत्सरम् ॥ २-३० ॥

अमावास्यान्तु या पूजा पितॄणान्तु प्रसादद ।
पितृकालमिदं प्रोक्तं मनुष्याणां हिताय वै ॥ २-३१ ॥

देवानां वक्ष्यते कालस्तुट्यादि प्रलयान्तकम् ।
तुटिलवनिमेषाश्च काष्ठा चैव कला तथा ॥ २-३२ ॥

क्षणं मुहूर्तं घटिका सन्धिर्यामस्त्वहर्निशि ।
दिवसः पक्षमासौ च ऋतुस्त्वयनवत्सराः ॥ २-३३ ॥

युगमन्वन्तरौ कल्पं महाकल्पप्रलयस्तथा ।
तुट्यादिप्रलयान्तञ्च लक्षणं शृणु सांप्रतम् ॥ २-३४ ॥

स्वस्थान राक्षिकोन्मील उन्मीलन्तु निमेषकम् ।
निमेषस्य चतुर्भागन्तुटीरेवमुदाहृतम् ॥ २-३५ ॥

तुटिद्वयलवं विद्धि लवद्वयनिमेषकम् ।
निमिषोदश पञ्चैव काष्ठाः सा त्रिंशतिः कला ॥ २-३६ ॥

प्. ३०४) कलार्धस्तु क्षणं प्रोक्तं क्षणद्वयं मुहूर्तकम् ।
तदर्द्धं घटिका प्रोक्ता सर्वकार्यन्तया कृतम् ॥ २-३७ ॥

सत्रिपादत्रिघटिका सन्धिरित्युच्यते बुधैः ।
सन्धिद्वयन्तथायाम चतुर्यामन्दिवा स्मृतम् ॥ २-३८ ॥

तदहर्मात्र विज्ञेय महोरात्रं दिनं स्मृतम् ।
दिनपञ्चदशः पक्षो मासः पक्षद्वयं तथा ॥ २-३९ ॥

पूर्वपक्षोपरञ्चैव तौपक्षद्वयमुच्यते ।
मासद्वयं ऋतुः प्रोक्तमयनं वै ऋतुस्त्रयम् ॥ २-४० ॥

अयनद्वयमब्दं हि अहोरात्रन्तु दैविकम् ।
देवानान्तु दिवाप्रोक्तं मकरादि ऋतुस्त्रयम् ॥ २-४१ ॥

ऋतुस्त्रयं कुलीरादि निशि चैवमुदाहृतम् ।
संक्रान्ति विषुवे चैव अयने च प्रकीर्तिताः ॥ २-४२ ॥

अन्यराशि गते भानौ राशिमध्ये तु संक्रमः ।
तुलामेषगते सूर्ये विषुवे तत्प्रकीर्तितौ ॥ २-४३ ॥

कुलीरेमकरे प्राप्ते दक्षिणञ्चोत्तरायणम् ।
उत्तरायण संक्रान्तिः पूर्वाह्नमिति कीर्तितम् ॥ २-४४ ॥

चैत्रे विषु च मध्याह्ने अपराह्ने तु दक्षिणे ।
अश्वयुक् विषुवं प्रोक्तं देवानामर्धरात्रिकम् ॥ २-४५ ॥

चतुः सन्धिषु तस्माद्वे देवेशेषं प्रपूजयेत् ।
नित्यसन्धिर्मनुष्याणां पितॄणामाससन्धिकम् ॥ २-४६ ॥

अब्दसन्धिषु देवाश्च पूजयेत् तु यथा विधि ।
इत्थं भूतमहोरात्रं देवानां तु प्रकीर्तितम् ॥ २-४७ ॥

प्रोक्तमब्द क्रमं ह्येवं युगमानन्तु वक्ष्यते ।
अण्डजाति युगाद्यैव केचित् शास्त्रे प्रकीर्तिताः ॥ २-४८ ॥

चतुर्युगन्तु शास्त्रे तु शिवेन परिभाषितम् ।
तृतयुगन्तु त्रेता च द्वापरन्तु कलिस्तथा ॥ २-४९ ॥

कृतश्चतुः सहस्राब्दं सन्धिरष्टशतं भवेत् ।
सन्ध्याशतं तथा ज्ञेयस्त्रेतार्ध पादहीनका ॥ २-५० ॥

प्. ३०५) चतुःशतः सहस्रो वा द्वापरश्चेति कीर्तिताः ।
कलियुगञ्च ऊर्धस्थो वर्धते तु पुनः पुनः ॥ २-५१ ॥

एतैर्द्वादशसाहस्रैरब्दैरैव चतुर्युगाः ।
सप्तत्येक समावर्त्यामन्वन्तरमिहोच्यते ॥ २-५२ ॥

अशीति सहस्रैर्वर्षैः पञ्चाशद्विसहस्रकैः ।
दिव्यसंवत्सरेणैव ज्ञेयमन्वन्तरं तथा ॥ २-५३ ॥

स्वायंभुवमनुः पूर्वं स्वारोचिषमतः परम् ।
उत्तमंरैव तञ्चैव तापसञ्चक्षुषं तथा ॥ २-५४ ॥

वै वस्वतञ्च सा वर्णमेरु सा वर्णमेव च ।
दक्ष सा वर्णमेवं हि ब्रह्म सा वर्णमेव च ॥ २-५५ ॥

रुद्र सा वर्णमित्युक्तं रौल्यंभौत्यञ्चतुर्दश ।
इत्येवन्तवसं क्षेपात् मनवः परिकीर्तिताः ॥ २-५६ ॥

नाभिकल्पन्तु तत्कालं ब्रह्मणोयदि भावयेत् ।
पञ्चैव कालमेवञ्च कल्पं ब्रह्मादि वा भवेत् ॥ २-५७ ॥

कल्पमेवं समाख्यातं महाकल्पं ततः शृणु ।
त्रयस्त्रिंशच्च देवाद्यास्त्रिशतं त्रिसहस्रकम् ॥ २-५८ ॥

देवानां लयमित्युक्तं तद्रात्रौ तु प्रकल्पयेत् ।
ब्रह्मणस्तदहोरात्रं तदा चेन्द्रालयं भवेत् ॥ २-५९ ॥

शतत्रयं षष्टिदिनं ब्रह्मवर्षमुदाहृतम् ।
षष्टित्रिंशच्च चक्राणां लयं तत्र पुनः पुनः ॥ २-६० ॥

तेन वत्सरमानेन शताब्दं ब्रह्मणोलयम् ।
यावत्ब्रह्मलयं तावद् विष्णोस्तु तदहर्न्निशि ॥ २-६१ ॥

ब्रह्मणात्रिशतं षष्टि लयंतत्र पुनः पुनः ।
तेनमानेन बोद्धव्या शताब्दमीश्वरस्य तु ॥ २-६२ ॥

ईश्वरस्तु लयं यत्तु निमेषं हि सदाशिवे ।
ततो वृद्ध्याशतं वर्षात् सदाशिवलयं स्मृतम् ॥ २-६३ ॥

बिन्दोर्नादस्य तद्वंशात् लयं तत्रैव चोच्यते ।
नादमूर्तिलयं यावच्छक्ताच्छक्तेर्दिनं तथा ॥ २-६४ ॥

प्. ३०६) दिनवृद्ध्याशतं कान्त तावच्छक्ति स्थितः सदा ।
यदा शक्तेर्लयं विद्धि यावत् परदिनं तु यत् ॥ २-६५ ॥

तत्सङ्ख्यानिशताब्दन्तु परस्यैवलयं भवेत् ।
प्रथमं शक्तिकं शान्तं शिवः पर्यायवाचकः ॥ २-६६ ॥

परापरस्य तं ज्ञातं विनाशोत्पत्तिकारणम् ।
देवानां कालमित्युक्तं तत्वानां कालमुच्यते ॥ २-६७ ॥

पृथिव्यादि शिवान्तञ्च सत्वकालं प्रकीर्तितम् ।
ईश्वरस्य लयं यावदात्मनस्तुलयं भवेत् ॥ २-६८ ॥

सदाशिवलयं यावत् नादान्तं लयमेव च ।
ततः शक्तेर्लयं यावल्लयङ्गच्छेच्छिवान्तकम् ॥ २-६९ ॥

तत्वानां लयमेवोक्तं सूक्ष्मकालं ततः शृणु ।
श्वासैस्तु त्रुटिभिः प्राणो घटिका प्राणषट्कके ॥ २-७० ॥

अहोरात्रं ततः षष्टि घटिकादिर्विशेषतः ।
पूर्ववद्दिनवृद्ध्या तु पक्षादीनि विवर्धयेत् ॥ २-७१ ॥

सूक्ष्मकालेन योगेन देव ब्रह्मादिकालयः ।
ज्ञानिनां योगिनाञ्चैव सूक्ष्मकालं प्रकीर्तितम् ॥ २-७२ ॥

कालचक्रमिदं प्रोक्तमाधाराधेयकं शृणु ।

इति कालचक्रविधिपटललो द्वितीयः ॥ २ ॥


अथ आधाराधेयविधिपटलः

अथातः संप्रवक्ष्यामि आधाराधेयलक्षणम् ।
आधारं स्थानमित्युक्तमाधेयमधि दैवतम् ॥ ३-१ ॥

आधाराधेय संबन्धाद्योगमित्यभिधीयते ।
योगं बहुविधं वत्स आधाराणां बहुत्वतः ॥ ३-२ ॥

योगिनां योगमित्युक्तं ज्ञानिनां ज्ञानमेव च ।
वक्ष्येहमधुनायोगं संक्षेपान्नतु विस्तरात् ॥ ३-३ ॥

प्. ३०७) योगिनां साधकं पूर्वं मच्छृणुष्व हि साधके ।
प्रथमञ्चासनञ्चैव द्वितीयं योगपट्टिका ॥ ३-४ ॥

तृतीयमक्षमाला च वेणुदण्डञ्चतुर्थकम् ।
कमण्डलु विजानीयात् पञ्चमन्तु विशेषतः ॥ ३-५ ॥

तेषान्तु लक्षणं वक्ष्ये चासनं कूर्मवत् कृतम् ।
खादिरोदेवदारू च मधुको बिल्व एव च ॥ ३-६ ॥

अथवा याज्ञिकै वृक्षैः कृत्वा कूर्मासनं तथा ।
पादोनं वा तदर्द्धं वा त्रिविधं त्वासनं तथा ॥ ३-७ ॥

दर्पणोदरसङ्काशमधस्तादवदं तथा ।
आसनं त्वेवमाख्यातं योगाभ्यासे विनायक ॥ ३-८ ॥

व्याघ्राजीनं तु प्रधमा कृष्णाजिनं द्वितीयकाः ।
अथवा तन्तुना कार्या त्रिविधायोगपट्टिका ॥ ३-९ ॥

विस्तारन्त्र्यङ्गुलं प्रोक्तं नमानमुपवीतवत् ।
जपमालाशिरोमाला हृंमाला बाहुमालका ॥ ३-१० ॥

कर्णपृष्ठात् तु नाभ्यन्ता उरोमाला इति स्मृताः ।
शिरोमाला तु तन्नाहा भुजमालाभुजासमा ॥ ३-११ ॥

जपमालां समानेन संख्यामात्रं शृणुष्व हि ।
पञ्चविंशति रुद्राक्षैर्माक्षार्त्थिनाञ्जपं स्मृतम् ॥ ३-१२ ॥

षड्विंशति शिवार्थञ्च ज्ञानार्थं शत्रुनाशनम् ।
सप्तविंशति इत्यर्थं पुष्ट्यर्थमष्टविंशतिः ॥ ३-१३ ॥

त्रिंशज्जयार्थिनां कार्यं दशपञ्चाभिचारकः ।
जपमालासमाख्याता जपमालाविधिं शृणु ॥ ३-१४ ॥

प्रणवं सर्वमन्त्रेषु सर्वमुच्चार्यते यतः ।
प्रणवं संप्रवक्ष्यामि संक्षेपान्न तु विस्तरात् ॥ ३-१५ ॥

अकारञ्च उकारञ्च मकारं बिन्दुरूपकम् ।
अकारं ब्रह्मदैवत्यमुकारं विष्णु दैवतम् ॥ ३-१६ ॥

मकारं रुद्र दैवत्यं बिन्दोरीश्वर एव हि ।
नादं सदाशिवं प्रोक्तमित्येते अधिदेवताः ॥ ३-१७ ॥

प्. ३०८) अकारं तु हृदिस्थानं उकारं कर्णदेशकम् ।
तालुमध्यं मकारं स्यात् बिन्दोश्चैव ललाटकम् ॥ ३-१८ ॥

तस्योपरि च नादस्य स्थानं ह्येवं प्रकीर्तितम् ।
अकारादि त्रयोवर्णास्त्वनुस्वार विसर्गकौ ॥ ३-१९ ॥

पञ्चवर्णाः प्रशस्यन्ते अकाराक्षर संभवाः ।

कादिभामक्षिकारेता यकारान्यस्तु बिन्दुके ।
जाताना देशकारान्यास्त्वेते पञ्चाशति स्मृताः ॥ ३-२१ ॥

प्रणवं सर्ववर्णाख्यं सर्वदेवमयं विदुः ।
ऋषिः सनत्कुमारस्तु ओंकारः शुक्लवर्णकः ॥ ३-२२ ॥

गायत्रीच्छन्द इत्युक्तं तस्य वै शिवतत्वकः ।
ओमित्येकाक्षरं * * * * * * * * वा हिनाम् ॥ ३-२३ ॥

प्रणवन्तु समास्योक्ता स्मृतपञ्चाक्षरं शृणु ।
नमःशिवाय पञ्चार्णमेतत् पञ्चाक्षरं स्मृतम् ॥ ३-२४ ॥

वाचिकायस्तु विज्ञेयस्तद्वाच्यस्य शिवः स्मृतः ।
जपं शक्तिप्रदंशस्तं मल्लयोमुक्तिरिष्यते ॥ ३-२५ ॥

ऋषिच्छन्दोवर्णतत्वा देवतास्तु शृणु क्रमात् ।
काश्यपः कौशिकश्चैव भारद्वाजस्तु गौतमः ॥ ३-२६ ॥

आत्रेयस्तु न कारादि मुनयः क्रमशस्तथा ।
अनुष्टुप् त्रिष्टुप् ब्रहति जगत्यति जगत्यपि ॥ ३-२७ ॥

च्छन्दांसिहि समाख्याता वर्णाद्यैश्चक्रमाच्छृणु ।
रक्तं कृष्णन्तथा श्यामं पीतं स्फटिकसन्निभम् ॥ ३-२८ ॥

पृथिव्यादीनि तत्वानि तेषां तत्वं प्रकीर्तितम् ।
सद्यादि पञ्चवक्त्राणि तेषां देवाः प्रकीर्तिताः ॥ ३-२९ ॥

प्रणवेन समायुक्तं जपकाले तथोच्यते ।
तदा षडक्षरं प्रोक्तं स्त्रीशूद्रादैस्तु वर्जितम् ॥ ३-३० ॥

जपञ्चतुर्विधं प्रोक्तं सर्वेषां जपकांक्षिणाम् ।
मानसञ्चैव कण्ठेष्यमुपांशु व्यक्तमेव च ॥ ३-३१ ॥

प्. ३०९) व्यक्तंदशगुणोपांशु स्तस्मात् कण्ठेष्यकं शतम् ।
सहस्रं मानसं तस्मादङ्गुल्यादि जपं शृणु ॥ ३-३२ ॥

अङ्गुल्या जपसंख्यातु तुल्या एकफलं तथा ।
पर्वणाष्टगुणं प्रोक्तं दीपेशतगुणाधिकम् ॥ ३-३३ ॥

शतसङ्ख्याकुशग्रन्धी प्रवालैस्तु सहस्रकम् ।
मणिभिर्दशसाहस्रं मौक्तिकैर्ल्लक्षमुच्यते ॥ ३-३४ ॥

पद्माक्षैः कोटिगुणितं रुद्राक्षैस्तु न विद्यते ।
रुद्राक्षैस्तु ततोत्पत्तिं शृणुत्वं वक्ष्यतेऽधुना ॥ ३-३५ ॥

दिव्यवर्षसहस्रन्तु चक्षुरुन्मीलितं मया ।
मुञ्चन्ति मम नेत्राणि श्रितरुद्राक्षमुच्यते ॥ ३-३६ ॥

एकवक्त्रं शिवः साक्षादनन्तन्धारणे फलम् ।
सन्धार्यमृयते यस्तु सयाति परमाङ्गतिम् ॥ ३-३७ ॥

द्विवक्त्रं शक्तिरित्युक्तं त्रिवक्त्रं नादमेव च ।
चतुर्वक्त्रन्तु बिन्दु स्यात् पञ्चवक्त्रं सदाशिवम् ॥ ३-३८ ॥

षड्वक्त्रमीश्वरं प्रोक्तं रुद्रः सप्तमुखं स्मृतम् ।
अष्टवक्त्रं स्मृतो विष्णुर्नववक्त्रञ्चतुर्मुखम् ॥ ३-३९ ॥

नववक्त्रैकवक्त्रान्तं फलं शतगुणोत्तरम् ।
हस्ते कर्णेशिखेकण्ठे सन्धार्यं सहभस्मना ॥ ३-४० ॥

सर्वपापात् प्रमुच्यन्ते शिवसायुज्यमाप्नुयात् ।
दर्शनं पापनाशन्तु स्पर्शनं सर्वसिद्धिदम् ॥ ३-४१ ॥

सर्वाङ्गधारणात् पुण्यं रुद्राक्षं धारयेत् सदा ।
प्रयाणकाले रुद्राक्षं भक्षयित्वा मृयन्ति ये ॥ ३-४२ ॥

ते रुद्र पदमाप्नोति पुनर्जन्म न विद्यते ।
तस्मात् सर्वप्रयत्नेन जप्यं रुद्राक्षकैः सदा ॥ ३-४३ ॥

जपकालञ्च देशञ्च वक्ष्यते तु समासतः ।
पूर्वाह्ने चैव मध्याह्ने चापराह्नेर्धरात्रिके ॥ ३-४४ ॥

प्. ३१०) चतुष्कालं त्रिकालं वा तद्देशन्तु ततः शृणु ।
नदीतटाकतीरे वा गोष्ठे देवालयेपि वा ॥ ३-४५ ॥

वने वाथ गिरौ देशे पुण्यस्थाने ग्रहे जपेत् ।
देशमेवं समाख्यातं जपसंख्यां ततः शृणु ॥ ३-४६ ॥

सहस्रं वा तदर्धं वा तदर्धं वा शताष्टकम् ।
जपेन् नित्यं सदायोगी सर्वपापविनाशकृत् ॥ ३-४७ ॥

सयाति जपमात्रेण शिवलोकमथाक्षयम् ।
जपसंख्या विधिप्रोक्तो वेणुदण्डविधिं शृणु ॥ ३-४८ ॥

विप्राणान्तु शिरोत्सेधं क्षत्रियाणां ललाटके ।
वैश्यानां नासिकोत्सेधं शूद्रादीनान्तु वर्जयेत् ॥ ३-४९ ॥

वेणुदण्डमृजुं स्निग्धं वक्रकोटरवर्जितम् ।
दण्डस्यैव विधिः प्रोक्ता कमण्डलुविधिं शृणु ॥ ३-५० ॥

पूरितञ्चाढकैः शृएष्ठं मध्यं त्रिप्रस्थपूरितम् ।
द्विप्रस्थपूर्णमधमं मानमेवं कमण्डलोः ॥ ३-५१ ॥

सौवर्णं रजतं वापि ताम्रं वा मृण्मयं तु वा ।
यदुक्तं शिल्पशास्त्रेषु तत्तदुक्ता तु कारयेत् ॥ ३-५२ ॥

शैवाना साधनं प्रोक्तं पञ्चधा समुदाहृतम् ।
योगाष्टकांगौ वक्ष्यामि शृणुष्वेकाग्र मानसः ॥ ३-५३ ॥

यमनियमासनञ्च प्राणायामं ततः परम् ।
प्रत्याहारञ्च ध्यानञ्च धारणा च समाधिकम् ॥ ३-५४ ॥

अष्टाङ्गमिति विज्ञेयं योगिनां योगसाधनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यपरिग्रहम् ॥ ३-५५ ॥

यमन्तु पञ्चधा प्रोक्तं नियञ्च ततः शृणु ।
शौच सन्तोषकात्तच्च तपःस्वध्यायमेव च ॥ ३-५६ ॥

ईश्वर प्रणिधानञ्च नियमं पञ्चधा स्मृतम् ।
गोमुखं स्वस्तिकञ्चैव पद्मञ्चैवार्धचन्द्रकम् ॥ ३-५७ ॥

वीरयोगासनञ्चैव षड्विधश्चासनं स्मृतम् ।
वामजानूपनिन्यस्य दक्षिणञ्जानुमण्डलम् ॥ ३-५८ ॥

प्. ३११) द्वयोः पादतले चैव न्यसेत् द्वौपृष्ठ पार्श्वयोः ।
एवं कृत्वा तु सुस्निग्धं गोमुखीलक्षणान्वितम् ॥ ३-५९ ॥

ऊरूपार्श्वे तलौ न्यस्त्वा जंघामघ्नन्तु स्वस्तिकम् ।
ऊरूपरितले न्यस्त्वा पद्मासनमिहोच्यते ॥ ३-६० ॥

गुल्फत्रयं समं कृत्वा तलेगुह्ये च विन्यसेत् ।
अर्द्धचन्द्रं समाख्यातं वीरासनं ततः शृणु ॥ ३-६१ ॥

द्विभुजं पतितं वामपादं दक्षिणतोपरि ।
स्थिरं वीरासनं प्रोक्तं योगासनं ततः शृणु ॥ ३-६२ ॥

शरीरञ्जानु संबन्धं योगपट्टिकया वृतम् ।
कूर्परौ चैव विन्यस्तं योगासनमिहोच्यते ॥ ३-६३ ॥

कृत्वा चैवैकमेतेषां ततो योगं समाचरेत् ।
योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥ ३-६४ ॥

रेचकं पूरकञ्चैव कुंभकं योगमभ्यसेत् ।
योगाभ्यासस्य पूर्वे तु प्राणायामत्रयं कुरु ॥ ३-६५ ॥

रेचकं पूरकञ्चैव कुंभकञ्च द्वितीयकम् ।
रेचकं रविबिंबं स्यात् पूरकं चन्द्रमण्डलम् ॥ ३-६६ ॥

आग्नेयं कुंभकं ज्ञेयं सकायोद्ध्यान पूजयेत् ।
रेचनाद्रेचकं प्रोक्तं पूरणात्पूरकं ततः ॥ ३-६७ ॥

कुंभकन्तु निरोधेन प्रणवेनाभ्यसेत्त्रयम् ।
रेचकात् द्वादशं मात्रं तन्मात्रं पूरकं स्मृतम् ॥ ३-६८


कुंभकं द्वादशं मात्रमिहशास्त्रे तु निश्चितम् ।
रेचकं ब्रह्मदैवत्यं पूरकं विष्णुदैवतम् ॥ ३-६९ ॥

कुंभकं रुद्रदैवद्यमधि देवास्त्रयं स्मृतम् ।
रेचकं पूरकञ्चैव योगिनान्तु अहर्निशि ॥ ३-७० ॥

सूतकं प्रोतकं मुक्त्वा कुंभकेन तु पूरयेत् ।
प्राणायामक्रमं प्रोक्तं प्रत्याहारं ततः शृणु ॥ ३-७१ ॥

प्. ३१२) इन्द्रियाणीन्द्रियार्थेषु प्रतिस्थाने व्यवस्थितः ।
यावत् तावत् स्थितीभूतः प्रत्याहारः स उच्यते ॥ ३-७२ ॥

आधारेषु च संकल्प्य यथासनं स्वरूपकम् ।
ध्यानमेवं विजानीयात् सर्वदुःखनिवारणम् ॥ ३-७३ ॥

आधारलक्षणं वक्ष्ये संक्षेपान्नतु विस्तरात् ।
नाभेस्तु चतुरंगुल्य मधस्तादग्निमण्डलम् ॥ ३-७४ ॥

कदंबपुष्पवज्जुष्टं पत्रं जुष्टं त्रिकोणकम् ।
मूलाधारमधः प्रोक्तं द्वितीयं नाभिमूलके ॥ ३-७५ ॥

भुजङ्गवलयाकारमष्टवर्तुलमेव च ।
कुण्डलाख्या महानाडी भानुमण्डलमुच्यते ॥ ३-७६ ॥

नाभेरूर्ध्वन्तु यत्पद्मं चंद्रमण्डलमुच्यते ।
हृदये कर्णमूले तु तालुमूले ललाटके ॥ ३-७७ ॥

मूर्ध्निस्थाने तु संकल्प्य ध्यायेत् पद्मकपुष्पवत् ।
हृत् पद्मलक्षणं वक्ष्ये यथा वदनुपूर्वशः ॥ ३-७८ ॥

नाभौ तन्नालमूलन्तु ऊर्ध्वनालमधोमुखम् ।
कदलीपुष्पवत् पद्ममष्टपत्रं सकर्णिकम् ॥ ३-७९ ॥

इहशास्त्रेन वा धारं हृत्पद्मेन समायुतम् ।
आधारलक्षणं प्रोक्तमाधेयञ्च ततः शृणु ॥ ३-८० ॥

आधेयं यत्प्रयुक्तञ्च समाधीत्येवमिश्रितम् ।
इडा च पिङ्गला चैव वीणादण्डस्य पार्श्वयोः ॥ ३-८१ ॥

सुषुम्ना मध्यगा तत्र मध्ये तु सुषिरं तथा ।
जीवप्राणसमायुक्तास्तेषु मध्येषु सञ्चरेत् ॥ ३-८२ ॥

सञ्चरन्निह तत्काले आधारेषु व्यवस्थितम् ।
संयुक्ते योगमाख्यातं योगी खगं समाश्रयेत् ॥ ३-८३ ॥

मूलाधारे ततस्त्वग्नि संयुक्ते योगमभ्यसेत् ।
योगाभ्यासेन तद्योगी अग्निलोकन्तु संस्पृशेत् ॥ ३-८४ ॥

तदूर्ध्वे भास्करन्ध्यात्वा रविलोकमवाप्नुयात् ।
एवं ध्यात्वा तदूर्ध्वे तु चंद्रलोकं स गच्छति ॥ ३-८५ ॥

प्. ३१३) ब्रह्माणं हृदये स्मृत्वा ब्रह्मलोकमवाप्नुयात् ।
विष्णुं ध्यात्वा तदूर्ध्वे तु कण्ठमूले व्यवस्थितम् ॥ ३-८६ ॥

पुरुषं व्यापयेद्योगी योगाभ्यासेन तत्गुणैः ।
तालुमूले स्मरेद्रुद्रं रुद्रलोकपदेच्छया ॥ ३-८७ ॥

पुरुषोपरिवेशान्तं व्यापकं स्वेन तेजसा ।
ललाटे ईश्वरं ध्यात्वा तल्लोकं तदवाप्नुयात् ॥ ३-८८ ॥

सदाशिवन्तु शिरसि ध्यात्वा तत्रैव भूज्यते ।
हृत्पद्ममध्यं गत्वा तु बिन्दुनादञ्च शक्ति च ॥ ३-८९ ॥

चतुरङ्गुलमात्रेण दीपाकारं विचिन्तयेत् ।
चतुस्थानेषु संपूज्य तत्तत्स्थान स्वरूपकैः ॥ ३-९० ॥

शिरोपरिन्यसेत् ब्रह्ममव्ययं निष्कलान्वितम् ।
तस्माद्योग समायुक्तो योगीयोगफलं लभेत् ॥ ३-९१ ॥

अणुमात्रं लभेद्यस्मादणिमेत्यभिधीयते ।
सहस्रैर्वा यथा गत्वा मूलवर्णप्रदेशकम् ॥ ३-९२ ॥

स्वेच्छया लभते यस्मात् तस्मात् सा लघिमा स्मृता ।
भूमौ मनो जपं कृत्वा पूज्यते शास्त्रवादिभिः ॥ ३-९३ ॥

सर्वत्र पूजितो यस्मात् तस्मात् सा महिमा भवेत् ।
सर्वद्रव्याणि संप्राप्तिः प्राप्तिरेषामुदाहृता ॥ ३-९४ ॥

प्रकाम्येषु शरीरेषु प्रकाशन्तु प्रवेशिता ।
सूर्यादिष्वनवाप्तत्वादीशत्वं समुदाहृतम् ॥ ३-९५ ॥

यदीशत्वन्तु तत्रैव तदीशित्वं विधीयते ।
शिवसायुज्य सामर्थ्यात्तच्छिवत्वमिति स्मृतम् ॥ ३-९६ ॥

अणिमाद्यष्ट सिद्धिञ्च लभेद्योगी विशेषतः ।
सालोक्यादि चतुर्थश्च प्राप्यते योगी लक्षणम् ॥ ३-९७ ॥

प्. ३१४) सालोक्यञ्चैव सामीप्यं सा रूप्यं सा युज्यकं
तथा ।
ध्यानलोकन्तु संप्राप्य सा लोक्यन्तद्विधीयते ॥ ३-९८ ॥

तद्देवस्यं समीपत्वात् सामीप्यमिति चोच्यते ।
तत्तद्रूपन्तु लब्ध्वा तत् सारूप्यमिति च स्मृतम् ॥ ३-९९ ॥

शिवे संयोजितं रूपं सा युज्यमिति कत्थ्यते ।
योगं समासात् संप्रोक्तं ज्ञानपादं ततः शृणु ॥ ३-१०० ॥

तद्योगपादं क्रमशः प्रमाणैर्यत्प्रोक्तमत्रैव
समासतस्तत् । नाडी तु चक्रन्त्वथ कालचक्रमाधारयुक्तं
पटलत्रयेण ॥ ३-१०१ ॥

इति आधाराधेय विधिपटलस्तृतीयः ॥ ३ ॥

इति सुप्रभेदेयोगपादः समाप्तः


ओं

शिवमयम्

सुप्रभेदम्

अथ ज्ञानपादे-शिवसृष्टिविधिपटलः

प्. ३१५) अथातः संप्रवक्ष्यामि ज्ञानपादं समासतः ।
तस्यादौ शिवसृटिञ्च शृणुष्वेकाग्रमानसः ॥ १-१ ॥

ज्ञानं प्रवर्तते वत्सभ्रान्ति निर्नाशनाय च ।
अध्वाश्रेणि विनाशाय शिवव्यक्तिकराय च ॥ १-२ ॥

अन्धकारवद ज्ञानं ज्ञानं दीपवदुच्यते ।
ज्ञेयं भास्करवत् प्रोक्तं पश्चात् ज्ञानं विनश्यति ॥ १-३ ॥

पाशजालानि विच्छेद्य तीष्णादिज्ञानमुच्यते ।
पशुपाशपतित्वञ्च ज्ञानेनाश्रयते बुधः ॥ १-४ ॥

ज्ञाने नैव तु कैवल्य प्राप्तिस्तत्र न संशयः ।
शिवाद्यवनिपर्यन्तं लक्षणं शृणु सांप्रतम् ॥ १-५ ॥

योगिनामुपकाराय मोक्षार्थं भुक्तये तथा ।
सृष्ट्यर्थं सर्वजन्तूनां तदा सृष्टिद्वयं स्मृतम् ॥ १-६ ॥

शिवसृष्टिस्तथा पूर्वापशु सृष्टिर्द्वितीयका ।
शुद्धदेव समायुक्ता शिवसृष्टिरुदीरिता ॥ १-७ ॥

मलैरावृत्य शुद्धात्मा पशुसृष्टिः प्रकीर्तिता ।
चराचरादि भेदैस्तु क्रीडते परमेश्वरम् ॥ १-८ ॥

शिवसृष्टिं समासेन शृणु सर्वान् गजानन ।
शिवं परात्परं ब्रह्मवत्? प्रमेयमिति स्मृतम् ॥ १-९ ॥

मलत्वां निन्दितं ज्ञेयममलत्वाद निन्दितम् ।
अनौपम्य समादृश्यं दक्षिणत्वं यथाव्ययम् ॥ १-१० ॥

व्योमातीतात् परं सूक्ष्मं नित्यङ्कारण शून्यतः ।
व्यापीत्वात् सर्वगं प्रोक्तं स्वामिभावात् प्रभुसृतम् ॥ १-११ ॥

प्. ३१६) वाङ्मनोव्यतिरिक्तत्वात् प्रमाणातीतगोचरम् ।
प्रत्यक्षादिप्रमाणानि शृणुवत्स समाहितः ॥ १-१२ ॥

प्रत्यक्षमनुमानञ्च शब्दञ्चोपमयासह ।
अर्त्था पत्तिरभावश्च षट्प्रमाणमिति स्मृतम् ॥ १-१३ ॥

अक्षादिकरणैर्दृश्यं प्रत्यक्षन्तदिहोच्यते ।
लिङ्गालिङ्गादि विज्ञान मनुमानमिति स्मृतम् ॥ १-१४ ॥

आप्तोक्तिवचनैर्गम्यं शब्दमेवमुदाहृतम् ।
तत्सादृश्याद् यथा गम्या ह्युपमाचेति कीर्तिता ॥ १-१५ ॥

दिवाभोजनमस्तीति रात्रौ नास्तीति गम्यते ।
अर्थेनैवार्थ विज्ञेया चार्थापत्तिरिति स्मृतम् ॥ १-१६ ॥

भ्रान्ति ज्ञाने ह्यभावे तु स्वयज्ञानन्तु गम्यते ।
भ्रान्त्या भावे स्वयं ज्ञानमभावमिति कीर्तितम् ॥ १-१७ ॥

एवमादिप्रमाणैस्तु दुर्लक्ष्यन्तच्छिवं स्मृतम् ।
शिवतत्वमिदं प्रोक्तं तत्वा नामखिलात्मनाम् ॥ १-१८ ॥

सृष्ट्यर्थं लोकरक्षार्थं लोकस्योत् पत्तिकारणम् ।
साधकानां हितार्थाय स्वेच्छया ग्रह्णते तनुम् ॥ १-१९ ॥

तच्छरीरं त्रिधाज्ञेयं निष्कलं सकलनिष्कलम् ।
सकलञ्च तथा ज्ञेयं त्रिविधन्तु विशेषतः ॥ १-२० ॥

निष्कलन्तु चतुर्भेदं सकलञ्च तथा भवेत् ।
सकलं निष्कलञ्चैव नवधाकीर्तिताः क्रमात् ॥ १-२१ ॥

शिवतत्वात् सहस्रांशाच्छां निर्नाम्ना समुद्भवा ।
शान्तिश्चेति पराप्राहुस्तस्यापर्याय वाचकः ॥ १-२२ ॥

तस्माच्चैव सहस्रांशाच्छक्तिनामा समुत्भवा ।
शक्तिश्चैव तु विद्या च पर्यायस्तदुदाहृतः ॥ १-२३ ॥

तस्माच्चैव सहस्रांशान्नादमूर्ति समुद्भवः ।
नादस्तस्य प्रतिष्ठा च पर्यायस्त्विति कीर्तिताः ॥ १-२४ ॥

तस्माद् दशैकभागेन बिन्दुतत्व समुद्भवः ।
बिन्दुश्चैव निवृत्तिश्च पर्यायस्तस्य वाचकौ ॥ १-२५ ॥

प्. ३१७) परं भावं समारभ्य सर्वज्ञत्वादिभिर्गुणैः ।
अव्यक्तानि च रूपाणि निर्ल्लक्ष्यानि क्रियास्तथा ॥ १-२६ ॥

चतुर्था निष्कलं ह्येवं शिवतत्वं समुच्यते ।
ध्यानपूजाविहीनस्तु निष्कलत्वं द्वितीयका ॥ १-२७ ॥

इत्येवं निष्कलं प्रोक्तं परं भावमिति स्मृतम् ।
तस्माद् दशैकभागेन सादाख्यं तत्वमुद्भवम् ॥ १-२८ ॥

लिङ्गपीठ प्रकारेण सादाख्यं तत्वलक्षणम् ।
लिङ्गेशंभुः समुत्भूतो नाम्ना सदाशिवेन तु ॥ १-२९ ॥

पीठे शक्तिः समुत्भूतो नाम्ना चैव मनोन्मनी ।
लिङ्गे च पीठिकायाञ्च शक्तिशंभू समुद्भवौ ॥ १-३० ॥

लिङ्गन्तु पुंस्त्वमेवं स्यात् तत्पीठं स्त्रीत्वमेव च ।
निष्कलौ लिङ्गपीठौ च सकलौ शक्तिशांभवौ ॥ १-३१ ॥

निष्कलन्तु कलाहीना सकला तु कलान्विता ।
यतीनाञ्चैव मंत्रीणां ज्ञानिनाञ्चैव योगिनाम् ॥ १-३२ ॥

ध्यानपूजानिमित्ताय सकलन्निष्कलं स्मृतम् ।
लिङ्गपीठं प्रकारेण देवेशं पूजयेत् सदा ॥ १-३३ ॥

अष्टत्रिंशत् कलायुक्तं सकलं त्वितिविद्यते ।
ईशादि सद्यपर्यन्तं कल्पयेत् तु सदाशिवम् ॥ १-३४ ॥

ईशानेन तु मन्त्रेण पञ्चमूर्ध्नि प्रकल्पयेत् ।
पुरुषेणैव मन्त्रेण चतुर्वक्त्रं प्रकल्पयेत् ॥ १-३५ ॥

अघोरेणैव मन्त्रेण हृदयादीनि विन्यसेत् ।
वामदेवेन मन्त्रेण गुह्यादीनि प्रकल्पयेत् ॥ १-३६ ॥

सद्योजातेन मन्त्रेण पादाद्यङ्गानि कल्पयेत् ।
अष्टत्रयोदशाष्टौ च चतुःपञ्च यथा क्रमम् ॥ १-३७ ॥

सद्यवा ममघोरञ्च पुरुषे पकला स्मृताः ।
एवन्तु सकलं प्रोक्तं सकलं त्विति निश्चितम् ॥ १-३८ ॥

करपादा वयवानि कल्पनात्सकलं विदुः ।
सादाख्य तत्व देवेशं प्रत्यक्षं सर्वतोमुखम् ॥ १-३९ ॥

प्. ३१८) इच्छाशक्त्युद्भवं पद्मं सहस्रदलभूषितम् ।
कर्णिकाके सरैर्युक्तं तत्रस्थं हि सदाशिवम् ॥ १-४० ॥

पञ्चमूर्धा चतुर्वक्त्रं नेत्रैर्द्वादशभिर्युतम् ।
चतुरास्यञ्चतुर्नासि अष्टश्रोत्रञ्चतुर्गलम् ॥ १-४१ ॥

दशभुजन्तनूरेकं द्विपादं पद्मसंस्थितम् ।
शुद्धस्फटिकसंकाशं सूर्यकोटिसमप्रभम् ॥ १-४२ ॥

चन्द्रांशु शीतलं सौम्यं सर्वाभरणभूषितम् ।
शुक्लांबरधरं देवं शुक्लयज्ञोपवीतिनम् ॥ १-४३ ॥

अभयं शूलपरशुं वज्रं खट्गन्तु दक्षिणे ।
खेटकांकुशपाशञ्च घण्टावरद वामके ॥ १-४४ ॥

इत्येतैर्लक्षणैर्युक्तं सदाशिवमिति स्मृतम् ।
तस्यैव वामपार्श्वे तु आदिशक्तिर्मनोन्मनी ॥ १-४५ ॥

वह्नेरुष्णत्व वच्छक्ति रविनाभा विनीविभोः ।
शक्तिहीने शिवोनास्ति शिवहीना न शक्तिका ॥ १-४६ ॥

एते समस्त देवाश्च शक्तिशंभु मया स्मृताः ।
तस्माच्छिवमयं प्रोक्तं जगदेतच्चराचरम् ॥ १-४७ ॥

एकवक्राञ्चतुर्हस्तां सर्वाभरणभूषिताम् ।
नितंबतट विस्तीर्णां मध्येक्षामांस्तनोन्नताम् ॥ १-४८ ॥

वामादिशक्तिकोपेतां मनोन्मनीं स लक्षणाम् ।
ध्यात्वा संपूजयेद् धीमान् जगत् प्रीतिकराय वै ॥ १-४९ ॥

ब्रह्माङ्गैश्चैव विद्याङ्गैर्विद्यैश्चैव गणेश्वरैः ।
लोकपालैः सहस्रैश्च क्रमशस्ते समुद्भवाः ॥ १-५० ॥

तत्तत्गुणा वृताः सर्वे तत्तच्चिन्ह समायुताः ।
सर्वावयवसंपूर्णास्त्वनन्तादित्य सप्रभाः ॥ १-५१ ॥

चतुर्भुजास्त्रिणेत्राश्च जटामकुटधारिणः ।
सदाशिवं नमस्कृत्वा तत्तदायुधधारिणः ॥ १-५२ ॥

नानावर्णसमायुक्ता नानाभरणभूषिताः ।
नानागन्ध समायुक्ता नानापुष्पोपशोभिताः ॥ १-५३ ॥

प्. ३१९) सदा शिवं यदात्मन्तु तथा चावृत देवताः ।
आमूर्तञ्चेदमूर्तस्तु पूजांकुर्याद् विशेषतः ॥ १-५४ ॥

यदिलिङ्गस्तु कर्तव्यो गर्भगेहे पृथक् पृथक् ।
लिङ्गस्येव तथा पीठे मूर्तादीनि विचिन्तयेत् ॥ १-५५ ॥

सर्वावरण देवांश्च सकलानि ततः शृणु ।
मूर्तयश्चेश्वराद्यस्तु सकलञ्च प्रकीर्तितम् ॥ १-५६ ॥

यत्तत्सदाशिवं प्रोक्तं तद्वदीश्वरमुच्यते ।
यासां मनोन्मनीयद्वदीश्वरी तत्वमुच्यते ॥ १-५७ ॥

वक्त्राद्यावरणे चैव पूर्ववत् परिकल्पयेत् ।
काष्ठलोहशिला मृत्भिः प्रतिमास्तु प्रकल्पयेत् ॥ १-५८ ॥

विद्या तत्व स्थितं शंभुं सर्वालङ्कारसंयुतम् ।
लिङ्गस्य कौतुकं विद्यात् सकलं त्विति बुद्धिमान् ॥ १-५९ ॥

लिङ्गपूजावसाने तु ईश्वरं पूजयेत् क्रमात् ।
ईश्वरस्य सहस्रांशात् रुद्रस्योद्भवमुच्यते ॥ १-६० ॥

चतुर्भुजस्तिणेत्रस्तु चन्द्रार्धकृत शेखरः ।
विद्युत् पुञ्जनिभो देवो परशूमृगधारिकः ॥ १-६१ ॥

सर्वावयव संपूर्णः सर्वाभरणभूषितः ।
उमादेव्युत्तरे पार्श्वे सर्वलक्षणसंयुता ॥ १-६२ ॥

ईश्वरस्य तु कोट्यंशात् विष्णुस्तत्रैव कीर्तितः ।
श्यामवर्णः सरक्ताक्षः शङ्खचक्रधरोहरिः ॥ १-६३ ॥

पीतांबरधरो देव श्रीभूमिसहितस्तदा ।
ईश्वरस्य तु कोट्यंशात् ब्रह्मणस्तु समुद्भवः ॥ १-६४ ॥

चतुर्भुजश्चतुर्वक्त्रो जटामकुटधारकः ।
कमण्डल्वक्षमालाधृत् पीतवर्णः सुलोचनः ॥ १-६५ ॥

सावित्री सहितस्तत्र सृष्टिमूर्तिरिति स्मृतः ।
स्थितिमूर्तिस्तु विष्णुः स्याद्रुद्रः संहारकारकः ॥ १-६६ ॥

त्रिमूर्तयोथ विख्याता ब्रह्माण्डे संव्यवस्थितः ।
निष्कलन्तु लयस्थानमधिकारं स निष्कलम् ॥ १-६७ ॥

३२०) भोगः सकलमेवं स्यात् लयभोगाधिकारपान् ।
परं निष्कलमित्युक्तं परमं सकलं स्मृतम् ॥ १-६८ ॥

परापरं तथा प्रोक्तं सकलन्निष्कलं भवेत् ।
परापरं यथा ज्ञात्वा समुक्तः पाशहा भवेत् ॥ १-६९ ॥

तिस्रस्तु देवताः पश्चात् त्रयस्त्रिंशत् समुद्भवाः ।
रुद्रैकादशपूर्वास्तु द्वादशादित्यसंयुताः ॥ १-७० ॥

वसवश्चाश्वनीयुक्तास्त्रयस्त्रिंशाधिदेवताः ।
सहस्र त्रिंशतत्रिंशद् देवतास्तत्र मूर्तिषु ॥ १-७१ ॥

शरीरभूतसारेण देवानान्तु स्रजन्ति वै ।
ऐश्वर्यमलसंबन्धाद्धृत् बोधस्तु विनाशयेत् ॥ १-७२ ॥

शिवसृष्टिमिदं प्रोक्तं पशुसृष्टिं ततः शृणु ।

इति शिवसृष्टिविधिपटलः प्रथमः ॥ १ ॥


अथ पशुसृष्टिविधिपटलः

अथातः संप्रवक्ष्यामि पशुसृष्टिविधिक्रमम् ।
अनादित्वं पशुत्वञ्च प्रोच्यते शिवशासने ॥ २-१ ॥

शिवात्तु विद्यते चात्मा जगत् सृष्ट्यर्थमेव तु ।
विद्या तत्वादियोगेन आत्मतत्वमुदीरितम् ॥ २-२ ॥

अथात्मा विमलः शुद्धो माययाबद्धते सदा ।
सहजं मलसंबन्धात् पशुरित्युच्यते बुधैः ॥ २-३ ॥

अमूर्तिस्तु पशुर्नित्यो निर्गुणोनिष्क्रियो प्रभुः ।
मायोदरगते व्यापि भोगोपायेषु वर्तितः ॥ २-४ ॥

सकेवलस्त्विति प्रोक्ता स्वाणवं मलबन्धनात् ।
आणवं सहजं प्रोक्तं तु षकंबुकवत् क्रमात् ॥ २-५ ॥

प्. ३२१) मोहोमदश्चरागश्च विषादश्चैव शोषितम् ।
हर्षको हि च वै चित्र्यं सप्तैते सहजामलाः ॥ २-६ ॥

सहजं मलसंबन्धे केवलं तदुदाहृतम् ।
सहजं मलमित्युक्तमागन्तु कमलं शृणु ॥ २-७ ॥

मायेयं कर्मजञ्चैव द्विविधं शिवसाधने ।
शक्त्याकाचित् बन्धनादि कलाद्यवनिलक्षितम् ॥ २-८ ॥

मायायत्तं विजानीयात् पुण्यपापैश्च कर्मजम् ।
आणवञ्चैव माये यंकामजञ्च त्रिधा भवेत् ॥ २-९ ॥

मलोज्ञानन्तमश्चैव तिरस्कारकरस्तथा ।
प्रतिपत्तिरविद्येति ममपर्याय वाचकाः ॥ २-१० ॥

त्रिमलैर्बद्ध्यते चात्मा सकलः परिवादितः ।
सकलश्चेति बद्धात्मा संसारी विषयि तथा ॥ २-११ ॥

क्षेत्री क्षेत्रज्ञ भोक्ता च पशुज्ञानी तथैव च ।
भोगी चैव शरीरी च आत्मपर्याय वाचकः ॥ २-१२ ॥

अशीतिश्च चतुश्चैव शतःसाहस्र भेदकैः ।
संप्राप्तो योनिभेदस्तु जीवनाम्ना तु तत्र वै ॥ २-१३ ॥

प्रोक्ता तु सकलावस्था शुद्धावस्था ततः शृणु ।
मलानां नाशनार्थय अन्यच्छक्तिनिपा ततः ॥ २-१४ ॥

यावच्छक्तिनि पातान्तं तावदज्ञानवेदनम् ।
पूर्वकर्माणि सर्वाणि समके शक्तिपातने ॥ २-१५ ॥

सदाशिवत्वमापेक्ष्य शिवे भक्तिर्भवेद्यथा ।
तदादीक्षां प्रविश्याथ पूजाश्चैव तु भक्तितः ॥ २-१६ ॥

योगाभ्यासं ततः कृत्वा ज्ञान तंत्रं तदाभ्यसेत् ।
तदा ज्ञानान्धकारञ्च ज्ञानदीपेन नाशयेत् ॥ २-१७ ॥

स्वभावशुद्धं तत्ज्ञानं स्वभावन्तु तथामलम् ।
श्यामनीलादि संबन्धे स्फटिकं तद्वदेव हि ॥ २-१८ ॥

प्. ३२२) तत्वेनाति प्रयत्नेन शुद्धस्फटिकवत् भवेत् ।
घटगुप्तो यथा दीपो घटनाशे तु दीप्यते ॥ २-१९ ॥

घटाभूक्तो यथा भानुर्मुक्तौ वापि तथा भवेत् ।
तद्वत् बन्धत्वमुक्तत्वादात्मनः परिकीर्तितौ ॥ २-२० ॥

मलैरावृतमात्मानं पशुरित्युच्यते बुधैः ।
मलमुक्तमथात्मानं शुद्ध इत्युच्यते बुधैः ॥ २-२१ ॥

ईश्वर स्मृतिना काले लब्धत्वं सतिनिर्मलम् ।
अथोहमीश्वरं स्मृत्वा पश्चात् तन्मयतांगतः ॥ २-२२ ॥

सर्पबुद्ध्या भ्रमन् रज्जुं रात्रौ तिष्ठति यः पुमान् ।
भ्रमेनष्टे यथा काले तदा सर्पं न दृश्यते ॥ २-२३ ॥

अथात्म बन्धमुक्तत्वं शुद्धत्वात् तत्स्वभावतः ।
स्वभावं ज्ञानतोमुक्तिः सजीवन्मुक्त एव हि ॥ २-२४ ॥

देहनाशे परावाप्तिर्घटनाशे तु व्योमवत् ।
सोहं ज्ञाने तु पश्चाद् वै पूजाध्वाने तु वर्जयेत् ॥ २-२५ ॥

सर्वतत्वानि भूतानि दृश्यते चात्म एव हि ।
समत्व सुखदुःखाभ्यां तत्प्रियाप्रिययोः समम् ॥ २-२६ ॥

शरीरारब्धकर्माणि भुज्यते स्वयमेव तु ।
हिंगुत्यक्ते तु तत्पात्रे गन्धं तत्र न नश्यति ॥ २-२७ ॥

कुलालचक्रं कर्मान्ते यथा भ्रमति वै तथा ।
तत्वज्ञ सर्वकर्माणि शरीरन्तेषु नाशनम् ॥ २-२८ ॥

अग्निदग्धानि बीजानि न प्ररोहन्ति भूतले ।
त्रिवर्ण स्थानियो ज्ञात्वा पुनर्जन्म न विद्यते ॥ २-२९ ॥

शुद्धावस्था इयं प्रोक्ता सर्वतत्वादिभिर्गुणैः ।
त्र्यवस्थं पुरुषः प्रोक्तः ह्यध्वानञ्च ततः शृणु ॥ २-३० ॥

इति पशुसृष्टिविधिपटलोद्वितीयः ॥ २ ॥


अथ अध्वाविधिपटलः

प्. ३२३) अथातः संप्रवक्ष्यामि अध्वानञ्च समासतः ।
अध्वानं षड्विधं प्रोक्तं तत्वाध्वादिविनायक ॥ ३-१ ॥

तत्वाध्वा प्रथमं विद्धि भुवनाध्वा द्वितीयकम् ।
मन्त्राध्वा वै तृतीयन्तु वर्णाध्वा वै चतुर्थकम् ॥ ३-२ ॥

पदाध्वा पञ्चमं ज्ञेयं कलाध्वा षष्ठमं स्मृतम् ।
षड्विधैरध्वभिर्मार्गैः संविशेदेकमीश्वरम् ॥ ३-३ ॥

तत्वाध्वानं समासेन भूकटाहादिकं शृणु ।
पृथिव्यादीनिमायान्तमध्वानं वर्ण्यते क्रमात् ॥ ३-४ ॥

कालाग्नेः शतरुद्रान्तं ब्रह्माण्डमिति संस्मृतम् ।
अथाण्डकटहोत्सेधं योजनाकोटिरुच्यते ॥ ३-५ ॥

कालाग्नि रुद्रदेवस्य तस्योर्ध्वे भुवनं विदुः ।
अनेक कोटिरुद्रैस्तु परिवृत्तस्तु तिष्ठति ॥ ३-६ ॥

सिंहासनं महादीपं नानारत्नोपशोभितम् ।
सहस्रत्रयविस्तारं सहस्रयोजनोच्छ्रयम् ॥ ३-७ ॥

भूमेरुपरितप्तेन कोटिषट्कं विधीयते ॥ ३-८ ॥

कोटयः सप्तदशकाः कालाग्नेस्तु घनंमहत् ।
तस्योर्ध्वे नरकं विद्यात् चत्वारिंशच्छताधिकम् ॥ ३-९ ॥

तेषां प्रयत्याद्वात्रिंशत् प्रधानास्तेषु ते त्रयः ।
उपर्युपरि संस्थास्तु द्वात्रिंशन्नरकान् शृणु ॥ ३-१० ॥

रौरवं प्रथमं प्रोक्तं महारौरं द्वितीयकम् ।
शीतोष्णं हि तृतीयन्तु सन्तापनञ्चतुर्त्थकम् ॥ ३-११ ॥

पञ्चमं पद्ममेवं स्यात् महापद्मन्तु षष्ठकम् ।
कमलं सप्तमञ्चैव सूचिमुखमथाष्टकम् ॥ ३-१२ ॥

कृष्णसूत्रन्तु नवमं श्रीमुखं दशमं स्मृतम् ।
एकादशंक्षुराधारमसिधारन्तु द्वादशम् ॥ ३-१३ ॥

प्. ३२४) एकादशं नरकाणामदीप्ते रौरवं स्मृतम् ।
कुंभीपाकस्तु प्रथमो हुंकारं द्वितयस्तथा ॥ ३-१४ ॥

रेश्चीनोकहयस्तुण्डा स्त्रितयः परिकीर्तिताः ।
असृक् पूयश्चतुर्त्थन्तु गजपादस्तु पञ्चमम् ॥ ३-१५ ॥

कृकरच्छेदषष्ठस्तु तप्तमोहस्तु सप्तमम् ।
त्रपुलोमाष्टमप्रोक्ता नवमस्तप्तवालुकः ॥ ३-१६ ॥

अस्तिभङ्गस्तु दशमं कुंभीपाकप्रधानतः ।
अवीचि प्रथमं विद्धि जलूकस्तु सदानदी ॥ ३-१७ ॥

हैमवर्णस्तृतीयं हि शाल्मली च चतुर्त्थकम् ।
अनध्वासो निरुच्छ्वासं पूतिमां सानुदक्षणः ॥ ३-१८ ॥

जतुपंकञ्चलोहञ्च युग्मपर्वत एव च ।
नरकाणां नवानान्तु अवीच्येषु प्रथानकः ॥ ३-१९ ॥

रौरवं कुंभिपाकञ्च अविचिञ्च इमेत्रयः ।
राजराजेश्वरा ह्येते नरकास्तु त्रय स्मृताः ॥ ३-२० ॥

रौरवस्तु तथा मेध्यं कुंभिपाकस्तु तापनम् ।
अवीच्या क्रिमिनिचयं अन्तर्भूतं विचिन्तयेत् ॥ ३-२१ ॥

सप्तसप्तोपनरकैः त्रयाणां परिवारितैः ।
एकोनत्रिंशन्नरकां स्त्रिभिस्त्रिभिरथा वृतान् ॥ ३-२२ ॥

एवं नरकमाख्यातञ्चत्वारिंशत् तदादिकम् ।
अतिघोरस्तु नरका स्त्रिकोणा कृतिसंस्थिताः ॥ ३-२३ ॥

पापिनां नरकं प्रोक्तं धर्मिणां स्वर्ग उच्यते ।
देवद्रव्यापहारश्च शिवशास्त्रविदूषकाः ॥ ३-२४ ॥

पित्रघातश्च ब्रह्मघ्ना एवमाद्यास्त्वनेकशः ।
यातना स्थानमाश्रित्य पतितं नरकार्णवे ॥ ३-२५ ॥

अक्रोधशौचमाचार क्षान्तियुक्ति समायुतः ।
यत्पुण्यं शिवभक्त्या तु सर्वं प्राणिदयान्वितम् ॥ ३-२६ ॥

एवमाद्यानराः सर्वे गच्छन्ति नरकं न हि ।
उच्छ्रयं नरकाणान्तु शृणुवत्स समाहितः ॥ ३-२७ ॥

प्. ३२५) नवं नवतिलक्षाणि एकैकस्योच्छ्रयं विदुः ।
पक्षमात्रान्तरं ज्ञेयं शतलक्षमिति स्मृतम् ॥ ३-२८ ॥

एवन्तु त्रिशतं लक्षं नरकाणां प्रकीर्तितम् ।
अधोरौरवमित्युक्तं कुंभिपाकन्तु मध्यमम् ॥ ३-२९ ॥

अवीचिच्छोर्ध्वतो ज्ञेयं तेषां त्रिस्थानमुच्यते ।
नरकाणामधोर्ध्वे तु विंशत् साहस्रसंयुतम् ॥ ३-३० ॥

नरकाधिपतिःसोयं कूश्माण्डस्तत्र संस्थितः ।
नवन्नवति साहस्रं पुरन्तस्य प्रकीर्तितम् ॥ ३-३१ ॥

शतसहस्रमिति ज्ञेयं लक्षमित्यभिधीयते ।
कुश्माण्डाधिपतिः सोपि नरकाणां प्रभु स्मृतः ॥ ३-३२ ॥

तस्योपरिष्ठात् पातालं अथयामि समासतः ।
महातलं सुतलञ्च रसातलं तलातलम् ॥ ३-३३ ॥

पातालं शङ्करञ्चैव आभासञ्चैव सपकम् ।
महातलानां सप्तानां पाताल इति संज्ञितः ॥ ३-३४ ॥

नागाश्चराक्षसश्चैव देवाश्चाप्सरसस्तथा ।
महातले तूपस्वस्थे सक्रीडमुदितात्मनः ॥ ३-३५ ॥

नवलक्षाणि चोत्सेध मन्तरं लक्षमुच्यते ।
लक्षमात्रान्तरश्चैव पातालानां प्रमाणतः ॥ ३-३६ ॥

ततः सौवर्णपातालं दशलक्षप्रमाणतः ।
तस्योर्ध्वे तु वसुर्देवो हाटकः परमेश्वरः ॥ ३-३७ ॥

नानालङ्कारसंयुक्तं पुरकोटिसमावृतम् ।
तत्सर्वं हाटकं यस्मात् तस्माद्वेहाटकेश्वरः ॥ ३-३८ ॥

तस्योर्ध्वे नवलक्षाणि अन्तरिक्षे प्रकीर्तितम् ।
भूकटं दशलक्षाणां मृच्छ्रयन्तु विधीयते ॥ ३-३९ ॥

कूश्मायुधिष्ठितं स्थानं शतलक्षमिति स्मृतम् ।
शन्तलक्षं कोटिविज्ञेयं पञ्चाशत् कोटयं स्मृतः ॥ ३-४० ॥

भूम्यन्तं लक्षणं प्रोक्तं भूलोकानि ततः शृणु ।
समुद्रैः सप्तभिर्युक्तं भूलोकमिति विश्रुतम् ॥ ३-४१ ॥

प्. ३२६) भूलोकं तु वलोकश्च स्वल्लोकश्च महस्तथा ।
जनलोकस्तपोलोकः सत्यलोकस्तु सप्तमः ॥ ३-४२ ॥

प्रमाणं सप्तलोकानां लक्षणञ्च वदाम्यहम् ।
भूलोकं प्रथमं वक्ष्ये समासात् तु शृणुष्व हि ॥ ३-४३ ॥

नानाजन पदाकीर्णं नानावस्तु समायुतम् ।
जंबूद्वीपादि संयुक्तं क्षीरमं बोधि संयुतम् ॥ ३-४४ ॥

तस्यमध्ये महामेरुर्हेमरूपेण तिष्ठति ।
लक्षयोजनमानेन कर्णिकारूपवत् क्रमात् ॥ ३-४५ ॥

षोडशैस्तु सहस्राणि भूम्यधस्तात् प्रविष्टकम् ।
चतुराशीतिसाहस्रं योजनोर्ध्वे विधीयते ॥ ३-४६ ॥

ऊर्ध्वभागः समंमूलं द्विगुणं मूर्ध्निविस्तरम् ।
नानाशिखरसंयुक्तं नानाभूमिमलतान्वितम् ॥ ३-४७ ॥

तस्योर्ध्वे तु सभाः विद्यात् ब्रह्मणश्च महात्मनः ।
नाम्नामनोवती चैव सर्वरत्नसमासतः ॥ ३-४८ ॥

चतुर्दशसहस्राणि योजनानां प्रमाणतः ।
नानालङ्कारसंयुक्ता ऋषिसिद्धगणायुताः ॥ ३-४९ ॥

तस्योर्ध्वे शानदिग्भागे ज्योतिः शिखर उच्यते ।
विंशतिश्च सहस्राणि विस्तारोत्सेधमेव च ॥ ३-५० ॥

नानालङ्कारसंयुक्तो नानावर्णसमासतः ।
हेमप्रासादसंयुक्तं हेमप्राकारतोरणम् ॥ ३-५१ ॥

सगन्धर्वसमायुक्तं सर्वदेव गणावृतम् ।
गणैः सर्वैः समायुक्तं त्रिंशत् साहस्रशोभितम् ॥ ३-५२ ॥

उमादेव्या सहैवाहं वसेन्नित्यं हि तत्र वै ।
तस्य पश्चिमदिग्भागे वै कुण्ठः शिखरं भवेत् ॥ ३-५३ ॥

सर्वालङ्कारसंयुक्तं मुनिसिद्धगणावृतम् ।
चतुर्दशसहस्राणि विस्तारोत्सेधमेव च ॥ ३-५४ ॥

सर्वरत्नमयं भासं हेमप्राकारतोरणम् ।
तत्रैव वसते विष्णुः सर्वदेवगणावृतः ॥ ३-५५ ॥

भूलोकरक्षणार्थाय वसन्तिमुदितात्मनः ।
सृष्टिस्थितिश्चस्संहारान् कुर्वन्ति क्रमशः तथा ॥ ३-५६ ॥

प्. ३२७) मूर्ध्निभागादधस्तात् तु योजनानां सहस्रकम् ।
पूर्वे त्विन्द्रस्य विख्याता पूर्नाम्नात्वमरावती ॥ ३-५७ ॥

आग्ने तेजोवती नाम्ना पूर्वह्नेस्तु प्रकीर्तिता ।
यमस्य दक्षिणे भागे नानासंयमनी पुरी ॥ ३-५८ ॥

कृष्णाङ्गनापुरीनाम्ना नि-ऋतोराक्षसालयम् ।
पश्चिमे वरुणस्यैव नाम्नाशुद्धवती पुरी ॥ ३-५९ ॥

वायोश्च वायुदिग्भागे नाम्नागन्धवती पुरी ।
सोमस्योत्तरभागे तु पुरीनाम्नामहोदया ॥ ३-६० ॥

ईशानस्यैशदिग्भागे पूरीनाम्ना च धावती ।
पुरैः कोटिसहस्रैस्तु सर्वैः सर्वप्रशोभितः ॥ ३-६१ ॥

गङ्गाजलेन सुस्नात्वा क्रीडन्तिमुदितात्मनः ।
चतुर्निष्कं भगिरयः पूर्वाद्यास्तु यथा क्रमात् ॥ ३-६२ ॥

मन्दरः पूर्वदिग्भागे दक्षिणे गन्धमादनः ।
पिङ्गलः पश्चिमे भागे सुपाशश्चोत्तरे तथा ॥ ३-६३ ॥

श्वेतं हरितकी नीलं डाडिमी कुषुमप्रभम् ।
योजनानि सहस्राणि तेषां पञ्चाशदुच्छ्रितम् ॥ ३-६४ ॥

भूम्ने नाथोष्ट साहस्रञ्चत्वारिंशत् द्वयोच्छ्रितम् ।
तेषान्तु मूलविस्तारं द्विगुणोपरिविस्तृतम् ॥ ३-६५ ॥

मन्दरोपरिसंस्थन्तु कदंबो नामकवृतः ।
सहस्रयोजनोत्सेधं स्कन्धैः साहस्र शोभितम् ॥ ३-६६ ॥

कुंभाकारन्तु तत्पुष्पं शङ्खाभञ्च सहस्रकम् ।
गन्धमादनमूर्ध्निस्थो जंब्वाख्यं तत्र वृक्षकः ॥ ३-६७ ॥

कदंबद्विगुणोत्सेधं स्कन्धाः शाखास्तथैव च ।
महागज प्रमाणानि तस्य जंबू फलानि तु ॥ ३-६८ ॥

पतितानां फलानान्तु तेन जांबूनदी भवेत् ।
तत्र वेगवतीनाम्ना कृत्वा मेरुप्रदक्षिणम् ॥ ३-६९ ॥

तेन प्रवेशितं सर्वं कनकं देव भूषणम् ।
ये तत्र वासिनः सर्वे जांबूनदमयास्तथा ॥ ३-७० ॥

प्. ३२८) अश्वत्थं केतुनाम्ना वै विपुलोपरि संस्थितिः ।
सहस्रयोजनोत्सेद्धं स्कन्धैः साहस्रशोभितम् ॥ ३-७१ ॥

अश्वत्थ फलवत् ज्ञेयं वृत्तनाम्नासु शोभितम् ।
तस्यपार्श्वे तु न्यग्रोधस्तस्योपरितु संस्थितम् ॥ ३-७२ ॥

गणैः सप्तैः समायुक्तं विचित्रैर्विविधैः शुभैः ।
चतुर्वणानि चोक्तानि पूर्वादिनि च चोत्तराः ॥ ३-७३ ॥

पूर्वे चैत्ररथं नाम्ना वनं पुष्पोपशोभितम् ।
तस्य मध्ये तटाकोस्ति नाम्ना वै वारुणोदयः ॥ ३-७४ ॥

नक्रैर्मत्स्यैरनेकैश्च मण्डितं पद्मपुष्पकैः ।
दक्षिणे नन्दनं नामवनं तत्र विशेषतः ॥ ३-७५ ॥

तटाकं मानसं नाम तस्यमध्ये प्रकीर्तितम् ।
वै भ्राजं पश्चिमे भागे तटाकं विपुलोदकम् ॥ ३-७६ ॥

सौम्ये पत्रवनं नाम तटाकं सुमनोहरम् ।
ईदृशैर्ल्लक्षणैर्युक्तो मेरुस्तत्र प्रकीर्तितः ॥ ३-७७ ॥

मेरुपार्श्वे तु वर्षाणि पारुषाणि समासतः ।
लवणोदधिपर्यन्तो जंबूद्वीपं प्रकीर्तितम् ॥ ३-७८ ॥

जंबूशाककुशक्रौञ्च शाल्मकोमेदपुष्करः ।
सप्तद्वीपाः समाख्याताः समुद्राश्च ततः शृणु ॥ ३-७९ ॥

क्षारंक्षीरोदधिः सर्पिरिक्षूदकमधूदकम् ।
समोदकस्त्विति ख्याता सुमुद्राः सप्तकीर्तिताः ॥ ३-८० ॥

लक्षयोजनविस्तारं जंबूद्वीपं विनायक ।
कमलाक्षोदितं विद्यात् लवणांभस्ततो बहिः ॥ ३-८१ ॥

द्विगुणेना वृतं बाह्ये शाकद्वीपस्तु नामतः ।
द्विगुणात् द्विगुणं ह्येवं द्वीपात् द्वीपसमुद्रकम् ॥ ३-८२ ॥

स्वादूदकान्तामेर्वादि प्रमाणं पञ्चकोटयः ।
सप्तलक्षाधिकाः प्रोक्तास्वाधिपत्यान्ततः शृणु ॥ ३-८३ ॥

देवाश्चराक्षसाश्चैव ईश्वरेण सुचोदिताः ।
स्वयंभुवमनुः पूर्वं सप्तद्विपान् सुरक्षितः ॥ ३-८४ ॥

प्. ३२९) तस्यपुत्रो महावीर्यः प्रियव्रतः सुरक्षकः ।
दशपुत्राः समुत्पन्नाः तस्यवीर्यान् महाबलाः ॥ ३-८५ ॥

अग्निधृत् त्वग्निबाहुश्च मेधामेधातिथिर्विभुः ।
ज्योतिष्ठान् धृतिमान् भव्योवसनः पुत्र एव च ॥ ३-८६ ॥

अग्निबाहुश्च मेधावी पुत्रा प्रवृजितास्त्रयः ।
शेषाणां सप्तपुत्राणां सप्तद्वीपांशभागिनः ॥ ३-८७ ॥

अग्निधृत् बाहुवीर्येण जंबूद्वीपः सुरक्षितः ।
नाभिः किं पुरुषश्चैव हरिश्चैव जलावृतः ॥ ३-८८ ॥

भद्राश्च केतुमालश्च पुष्यकस्तु हिरण्मयः ।
पुत्रनामाथ नवमो नवपुत्राः प्रकीर्तिताः ॥ ३-८९ ॥

जंबूद्विपन्तु तेषां वै नवभागं प्रकल्पितम् ।
त्रयस्तु दक्षिणाख्यातो चोत्तरे त्रय एव तु ॥ ३-९० ॥

त्रयस्तु मध्यमे ख्याताः पर्वतान्तरितः तथा ।
दक्षिणे हिमवाह्ने मकूटस्तस्यैव चोत्तरे ॥ ३-९१ ॥

निषधस्य समाख्यातो हेमकूटस्य चोत्तरे ।
नीलश्चेत्तु स्त्रिशृंगश्च उत्तरस्य च निर्गतः ॥ ३-९२ ॥

समुद्रादधिकाशस्ता स्थिता प्राक् पश्चिमायता ।
सर्वैश्वर्य समायुक्ता षडेते गिरयस्तदा ॥ ३-९३ ॥

पूर्वपऽऽस्चिम मेरोस्तु माल्यवान् गन्धमादनौ ।
निषधनील पर्यन्तौ नगौ सौम्योत्तराथतौ ॥ ३-९४ ॥

योजनाशीति विस्तारौ सहस्रद्वयकोच्छ्रितौ ।
हिमवान् हिमवर्णस्तु हेमकूटस्तु हेमवत् ॥ ३-९५ ॥

निषधः पद्मरागाभो नीलाभोगन्धमादनः ।
माल्यवान् पीतवर्णस्तु नीलोरत्तमयस्तथा ॥ ३-९६ ॥

श्वेतस्तु सितवर्णः स्यात् त्रिशृंगी चन्द्रकान्तवत् ।
सीमास्तु गिरयप्रोक्ता देशां देशाधिपान् शृणु ॥ ३-९७ ॥

त्रिशृंगस्योत्तरे पार्श्वे दक्षिणे लवणोदधेः ।
क्मरदेशस्त्वितिख्यातः स्वधिपाश्च गुरुर्भवेत् ॥ ३-९८ ॥

प्. ३३०) धन्वाकारः सविज्ञेयो नवसाहस्रयोजनः ।
भूमिसुवर्णवत् ज्ञेया वालुकाश्च तथा स्थिता ॥ ३-९९ ॥

जनावसन्ति सर्वत्र कामवृक्षफलाशिनः ।
त्रिशतानि सहस्राणि जीवन्ति वत्सराणि वै ॥ ३-१०० ॥

द्वेद्वेपुत्रौ प्रसूयन्ते स्त्रीप्रजानां तथैव च ।
श्यामपुष्पनिभाकारा भयदुःखविवर्जिताः ॥ ३-१०१ ॥

सूर्यकान्तेषु कान्तश्च तत्रैव कुलपर्वतौ ।
रुरोर्नामना तु तं विद्धि कुरु विन्दस्ततस्तु वै ॥ ३-१०२ ॥

चन्द्रदिपं समाख्यातं प्रविश्यलवणोदधिम् ।
तस्य वायव्यदिक्भागे द्विपो भद्राकर स्मृतः ॥ ३-१०३ ॥

सहस्रायुर्जनास्तत्र सुदिव्याम्र फलाशिनः ।
त्रिशृंग श्वेतयोर्मध्ये हिरण्यं वर्षको भवेत् ॥ ३-१०४ ॥

नवसाहस्र विस्तारं समुद्रावधि दीर्घकम् ।
जनास्त्विन्दुमुखाः सर्वे वकुलस्य फलाशिनः ॥ ३-१०५ ॥

जीवन्नेवं सहस्राब्दं तेषामायुः प्रकीर्तितम् ।
सुनील श्वेतयोर्मध्ये रम्यं वर्षमिति स्मृतम् ॥ ३-१०६ ॥

विस्तारं नवसाहस्रं समुद्रान्तायुतं महत् ।
न्यग्रोधस्य फलं प्राश्य नीलोत्पलसमप्रभाः ॥ ३-१०७ ॥

द्वादशाब्दसहस्राणि जीवन्ति भयवर्जिताः ।
मेरु प्रदक्षिणं देशमवधूतनरं तथा ॥ ३-१०८ ॥

नवसाहस्र विस्तारं योजनानां समन्ततः ।
तस्येन्दु रश्मय स्थित्यामेरुदीप्त्यासुदीपिता ॥ ३-१०९ ॥

जंबूफलरसं पीत्वा जनारोगविवर्जिताः ।
त्रयोदशसहस्राब्दं तेषामायुः प्रकीर्तितम् ॥ ३-११० ॥

समुद्रस्य तु पूर्वे तु गन्धमादनपश्चिमे ।
केतुमालाख्य वर्षस्तु जनाः श्याम निभास्तथा ॥ ३-१११ ॥

पनसस्य फलं भुक्त्वा जीवन्त्ययुतवत् सराः ।
चतुस्त्रिंशत् सहस्राणि योजनादक्षिणोत्तरे ॥ ३-११२ ॥

पूर्वपश्चिममायामं द्वात्रिंशच्च सहस्रकम् ।
उदधेः पश्चिमे भागे पूर्वे वै वाह्यवत्गिरेः ॥ ३-११३ ॥

प्. ३३१) भद्राश्वनामवर्षं हि जनाश्चंद्र निभास्तथा ।
ते कृष्णाम्रफलं प्राश्य लभेदयुतमायुषम् ॥ ३-११४ ॥

तस्य दीर्घञ्च विस्तारं केतु मालाद्रिवर्ततः ।
दक्षिणे निषधस्यैव हेमकूटस्य चोत्तरे ॥ ३-११५ ॥

तं विद्धि हरिवर्षन्तु समुद्रान्तायुतं स्मृतम् ।
विस्तारन्नवसाहस्रं योजनानां प्रमाणतः ॥ ३-११६ ॥

जनस्त्विक्षुर संपीत्वा रौप्याभास्तत्र वासिनः ।
द्वादशैव सहस्राब्दं तेषामायुः प्रकीर्तितम् ॥ ३-११७ ॥

दक्षिणे हेमकूटस्य सौम्ये हिमवतस्तथा ।
मध्ये किं पुरुषं वर्षं विस्तारायामपूर्ववत् ॥ ३-११८ ॥

जनाः सुवर्णवर्णाश्च जीवन्ति प्लक्षभोजनाः ।
द्वादशाब्दं सहस्रायुस्तेषा जीवान्तमुच्यते ॥ ३-११९ ॥

हिमवत् दक्षिणे भागेप्युत्तरे लवणोदधेः ।
नाभेश्च वृक्षोत् भवनो भरतस्तत्सुत स्मृतः ॥ ३-१२० ॥

तन्नाम्नाभरतं वर्षं धन्वाकारन्तदुच्यते ।
नवसाहस्रविस्तारं समुद्रान्तरितायतम् ॥ ३-१२१ ॥

नानाजन पदाकीर्णञ्जनारोगभयान्वितम् ।
कल्पसौख्यं महादुःखं जनाः कृष्यान्नभोजनम् ॥ ३-१२२


तेषां शताब्दमायुष्यं चतुर्युगवशात् पुनः ।
गुणमेवं विजानीयात् शुभाशुभफलार्जनम् ॥ ३-१२३ ॥

कर्मभूमिरियं विद्धि स्वर्गभूमिस्तथापरा ।
मुक्तिभुक्तिफलं प्राप्यं शिवं सांप्राप्ययत् ततः ॥ ३-१२४


ततो भारतवर्षञ्च नवभागं प्रकल्पितम् ।
नवपुत्रास्तु जायन्ते भरतस्येन्द्र पूर्वकाः ॥ ३-१२५ ॥

इन्द्रश्चैव कशेरुश्च ताम्रवर्णो गभस्तिमान् ।
नागः सौम्यश्च गन्धर्वो वरुणश्च कुमारिकाः ॥ ३-१२६ ॥

तेषां नाम्नैव बोद्धव्या द्वीपश्चैकैकशः क्रमात् ।
इन्द्र द्वीपः कशेरुश्च ताम्रवर्णो गभस्तिमान् ॥ ३-१२७ ॥

नागद्वीपञ्च सौम्यञ्च गान्धर्वो वरुणं तथा ।
नवमा तु कुमाराख्या तेषां भेदाः प्रकीर्तिताः ॥ ३-१२८ ॥

प्. ३३२) सागरान्तरितः कृत्वा स्थलं पञ्चशतं भवेत् ।
कुमारद्वीपाधान्यास्तु म्लेश्चद्वीपाः प्रकीर्तिताः ॥ ३-१२९ ॥

चतुर्वणसमायुक्तञ्चतुराश्रम संयुतम् ।
गंगादीनां नवानान्तु ज्ञेयाः पञ्चशतानि तु ॥ ३-१३० ॥

तीर्थानां कोटयः प्रोक्ता महापुण्यफलोदयाः ।
हिमवत्यन्तरे पार्श्वे कैलासशिखरं महत् ॥ ३-१३१ ॥

रौप्यवर्णं महाशेष मुनिसिद्धैर्निषेवितम् ।
सर्वालङ्कारसंयुक्तं द्रुमैः सर्वत्र शोभोतम् ॥ ३-१३२ ॥

तत्रैव वसतो नित्यमुमादेवी समन्वितः ।
अष्टषष्टि महाक्षेत्रं पुराणस्यादि संस्थितम् ॥ ३-१३३ ॥

जंबूद्वीपादि षट्द्वीपाः सागरेषु व्यवस्थिताः ।
महेन्द्रोमन्धरः सख्यशुक्तिमानृक्ष पर्वतः ॥ ३-१३४ ॥

विन्ध्यश्च पारीपात्रश्च इत्येते कुलपर्वताः ।
मलयद्वीपगालंका चामीकरमयाशुभा ॥ ३-१३५ ॥

नानाविचित्र संयुक्ता रमन्ते राक्षसेस्वरैः ।
जंबूद्वीपं समाख्यातं लवणोदञ्च मच्छृणु ॥ ३-१३६ ॥

लक्षद्वयन्तु विस्तारं लवणोदधिरावृतम् ।
भूधराद्वादशाश्चैव प्रविष्टा लवणोदधौ ॥ ३-१३७ ॥

प्रभावश्चैव धूम्रश्च दुन्दुभिः पूर्वभागतः ।
चक्रञ्चैव तु मैनाकं वलाहं दक्षिणे तथा ॥ ३-१३८ ॥

मैनाकचक्रयोर्मध्ये संस्थितो बडबानलाः ।
वराहः सोमके तु श्वनन्दनं पश्चिमे दिशि ॥ ३-१३९ ॥

कंकश्चन्द्रस्तथा द्रोणश्चोत्तरे संव्यवस्थिताः ।
लवणोदधिरित्युक्तच्छाक द्वीपं ततः शृणु ॥ ३-१४० ॥

शाकद्वीपाधिपो यावान् पुष्पवान् कुशद्वीपके ।
ज्योतिष्मान् क्रौञ्च द्वीपे तु शाल्मल्यां द्युतिमां तथा ॥ ३-
१४१ ॥

गोमेदेध नवान् प्रोक्तवासीनस्तु महाबलाः ।
दौपुत्रौ तु समाख्यातौ द्विभागौ तत्र कीर्तितौ ॥ ३-१४२ ॥

पर्वतं वलयाकारं मानसोत्तरनामतः ।
कृतादियुगवत्कालः शाकादिद्वीपवासिनाम् ॥ ३-१४३ ॥

प्. ३३३) स्वादूदान्तन्तु मेर्वादि विस्तारं पञ्चकोटयः ।
सप्तलक्षाधिकं तत्र समासात् परिकीर्तितम् ॥ ३-१४४ ॥

ततो हेममयं भूमि विस्ताराद्दशकोटिकाः ।
देवानां क्रीडनार्थाय प्रोच्यते त्रमया ततः ॥ ३-१४५ ॥

लोकालोक स्वनाम्ना तु पर्वतं वृत्तरूपतः ।
सहस्रयोजनन्तारमुत्सेधं लक्षयोजनम् ॥ ३-१४६ ॥

लोकपाला स्थितास्तत्र सिद्धामर निषेविताः ।
तस्यान्तर्भासते सूर्यस्त्वन्धकारस्त्वथा परः ॥ ३-१४७ ॥

लोकालोकः समावृत्य गर्भोदधिसमुद्रकान् ।
गर्भोदधिसमावृत्य पार्थिवा वरणं स्मृतम् ॥ ३-१४८ ॥

पात्थिवन्तु समावृत्य कटाहं कोटिविस्तृतम् ।
कटाहं मेरुमध्यान्तं पञ्चाशत् कोटय स्मृताः ॥ ३-१४९ ॥

दशदिक्षु समंज्ञेयं प्रमाणः शतकोटयः ।
भूलोकश्च समाख्यातो भुवलोकं ततः शृणु ॥ ३-१५० ॥

लक्षयोजनमानेन सूर्यलोकं विधीयते ।
द्वादशादित्य वसवो रुद्राश्चैकादशः तथा ॥ ३-१५१ ॥

अश्विनौ द्वौस्त्रयस्त्रिंशत् सञ्चरन्ति शिवेच्छया ।
मेरु प्रदक्षिणे नैव भुवलोकमिति स्मृतम् ॥ ३-१५२ ॥

तस्योपरितुं क्षेण चन्द्रलोकं विधीयते ।
चन्द्रोर्ध्वे लक्षमात्रेण स्थितं नक्षत्रमण्डलम् ॥ ३-१५३ ॥

लक्षद्वये बुधं विद्यात् द्विलक्षे भार्गव स्मृतः ।
लक्षद्वये तु चाङ्गारो द्विलक्षे तु बृहस्पतिः ॥ ३-१५४ ॥

सौरिलक्ष द्वये प्रोक्तो मुनयो लक्षयोजने ।
अत्रिश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ ३-१५५ ॥

भृग्वङ्गिरामरीचिश्च मुनयः सप्तकीर्तिताः ।
उपरिष्टाधृवः प्रोक्तस्त्वेक लक्षप्रमाणतः ॥ ३-१५६ ॥

चन्द्रलोकाद्धृवान्तश्च स्वर्ल्लोकमिति कीर्तितम् ।
दशपञ्च च लक्षाणि भूतपृष्ठाद्धृवान्तकम् ॥ ३-१५७ ॥

ततोपरिमहल्लोकं द्विकोटियोजनं स्मृतम् ।
पञ्चाशीति च लक्षाणि जनलोकमिति स्मृतम् ॥ ३-१५८ ॥

प्. ३३४) अष्टकोटित पोलोकमुपर्युपरि संस्थितम् ।
द्वादशैव तथा कोटिः सत्यलोकं विधीयते ॥ ३-१५९ ॥

महर्ल्लोकादि सत्यान्तं रुद्रास्तत्र निवासिनः ।
कोटिषोडशमानेन ब्रह्मलोकं विधीयते ॥ ३-१६० ॥

कोटियोजनमानेन विष्णुलोकं प्रकीर्तितम् ।
नवकोटिप्रमाणेन रुद्रलोकमिहोच्यते ॥ ३-१६१ ॥

कटाहेस्य घनंकोटिः पञ्चाशत्कोटय स्मृताः ।
शतयोजनकोट्येवं कोट्या ब्रह्माण्ड तत्र वै ॥ ३-१६२ ॥

ब्रह्माण्डधारकास्तत्र शतसंख्या शृणुष्वहि ।
कपालीशो ह्यजोबुद्धो वज्रदेहः प्रमर्दनः ॥ ३-१६३ ॥

विभूतिरव्ययः शास्ता पिनाकी त्रिदशाधिपः ।
इन्द्रस्यबलमाक्रम्य प्रभुशक्ति समन्विताः ॥ ३-१६४ ॥

विचरन्ति महारुद्राः शक्रराजस्य पूजिताः ।
अग्निरुद्रोहुताशश्च पिङ्गलः कादको हरः ॥ ३-१६५ ॥

ज्वलनोदहनो बभ्रू भस्मान्तकक्षयान्तकः ।
अग्नेस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ ३-१६६ ॥

विचरन्ति महारुद्रा वह्निराजस्य पूजिताः ।
याम्येऽमृत्युहरोधाता विधाता कर्तृकालकः ॥ ३-१६७ ॥

संयोक्ता च वियोक्ता च धर्माधर्म वृतिस्तथा ।
धर्मस्य बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ ३-१६८ ॥

विचरन्ति महादेवायमराजेन पूजिताः ।
नै-ऋतोमारणो हन्ता क्रूर दृष्टिर्भयानकः ॥ ३-१६९ ॥

ऊर्ध्वकेशो विरूपाक्षो धूम्रलोहितदंष्ट्रवान् ।
नि-ऋतेः बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ ३-१७० ॥

विचरन्ति महादेवा राक्षसेन सुपूजिताः ।
वारुणं बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ ३-१७१ ॥

विचरन्ति महादेवा वारुणेन सुपूजिताः ।
शीघ्रोलघुर्वायुवेगः सूक्ष्मस्तीक्ष्ण क्षयान्तकः ॥ ३-१७२ ॥

पञ्चान्तकः पञ्चशिखः कपर्दीमेखवाहनः ।
वायोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ॥ ३-१७३ ॥

प्. ३३५) विचरन्ति महादेवाः सोमराजेन पूजितः ।
विद्याधरश्च सर्वज्ञो ज्ञानधृग्वेदपारगः ॥ ३-१७४ ॥

सुरेश्वरश्च सर्वेशो भूतपालोबलि प्रियः ।
सुखकृद्दुःखकृच्छैते शैवेन तु समासतः ॥ ३-१७५ ॥

ईशानबलमाक्रम्य प्रभुशक्ति समन्विताः ।
विचरन्ति महादेवा ईशानेन तु पूजिताः ॥ ३-१७६ ॥

वृषोवृषधरः कान्तो क्रोधेशस्वनिलाशनः ।
ग्रसनोदुंबरश्चैव फणीन्द्रो वज्रदंष्ट्रवान् ॥ ३-१७७ ॥

विष्णोस्तु बलमाक्रम्य प्रभुशक्ति समन्विताः ।
विचरन्ति महादेवा विष्णुनामसुपूजिताः ॥ ३-१७८ ॥

प्रोक्तोयं पृथिवी पश्चात् आप्यन्तत्वमतः शृणु ।
ब्रह्माण्ड परितः स्थाप्य दद्याद् दशगुणावृतम् ॥ ३-१७९ ॥

अमरेशं प्रभावञ्च नैमीशं पुष्करं तथा ।
आषाढीशञ्च पिण्डीशं हारभूतञ्च वाकुलम् ॥ ३-१८० ॥

प्रोष्टं गुह्याष्टकं ह्येवं जलावरणमाश्रितम् ।
ऊर्ध्वे दशगुणेनैव वह्नेरावरणं महत् ॥ ३-१८१ ॥

हरिश्चंद्रं सुशैलञ्च जल्पेरम्रातिकेश्वरम् ।
महाकालं मध्यमञ्च केदारं भैरवं तथा ॥ ३-१८२ ॥

अतिगुह्याष्टकं ह्येवं अग्न्यावरणमाश्रितम् ।
वाय्वावरणमूर्ध्वे तु विह्नेर्दशगुणं महत् ॥ ३-१८३ ॥

गया चैव कुरुक्षेत्रं नखलं नाखलं तथा ।
विमलञ्चाट्टहासञ्च महेन्द्रं भीम एव च ॥ ३-१८४ ॥

गुह्यात्गुह्याष्टकं ह्येवं अनिलावरणैः स्थितम् ।
तदूर्ध्वन्तु भवेद् व्योमं स्थितं दशगुणावृतम् ॥ ३-१८५ ॥

वस्त्रापदं रुद्रकोटिं रविमुक्तं महालयम् ।
गोकर्णं भद्रकर्णञ्च सुवर्णाक्षञ्च स्थाणुकम् ॥ ३-१८६ ॥

पवित्राष्टकमेवं हि व्योमावरणमाश्रिताः ।
अत ऊर्ध्वमहंकारं स्थितं दशगुणेन तु ॥ ३-१८७ ॥

प्. ३३६) खगलेन्दु करण्डञ्चोमाकोटि मण्डलेश्वरम् ।
कौञ्जरं शंखुकर्णञ्च स्थूलेश्वरं स्थलेश्वरम् ॥ ३-
१८८ ॥

स्थानाष्टकमिदं विद्यात् पूर्वाद्यैः शान्तकं स्थितम् ।
श्वेतगुह्याष्टकं प्रोक्तं रक्तं चैवाजगुप्सितम् ॥ ३-१८९ ॥

गुह्यात्गुह्याष्टकं पीतं कृष्णञ्चैव पवित्रकम् ।
स्थानाष्टकं स्फटीकाभमेवं पञ्चाष्टकं स्मृतम् ॥ ३-
१९० ॥

पक्षाकारस्तु भवताभ्युच्य वै तु निवासता ।
एते श्रीकण्ठनाथस्य भोगस्थानं प्रकीर्तिताः ॥ ३-१९१ ॥

अथ चोर्ध्वे भवेत् बुद्धि स्थिता दशगुणावृता ।
पैशाचं राक्षसं याक्षं गान्धर्वञ्चैंद्रमेव च ॥ ३-
१९२ ॥

सौम्यं प्राजेश्वरं ब्राह्मं देवयोन्यष्टकं स्मृतम् ।
एतत् पुर्यष्टकं विद्धि बुद्ध्यावरणमाश्रितम् ॥ ३-१९३ ॥

स्थानान्युक्तानि दिव्यानि सर्वैश्वर्ययुतानि च ।
गुणावरणमूर्ध्वे तु बुद्धेर्दशगुणं स्मृतम् ॥ ३-१९४ ॥

अकृतञ्च कृतञ्चैव भैरवं ब्राह्म एव च ।
वैष्णवञ्चाथकौमारं कौमिश्रैकर्णमेव वा ॥ ३-१९५ ॥

प्रोक्ता योगाष्टकं ह्येवं गुणावरणामाश्रितम् ।
योगेश्वरेषु यो भोक्ता योगं पूजन्ति तत्पराः ॥ ३-१९६ ॥

तेषां स्थानानि दिव्यानि योगैश्वर्ययुतानि तु ।
अव्यक्तमत ऊर्ध्वे तु स्थितं दशगुणावृतम् ॥ ३-१९७ ॥

क्रोधश्चण्डश्च संवक्तो ज्योतिः पिङ्गलसूरकः ।
पञ्चान्तकैक वीरश्च शिवेन सहितेश्वरः ॥ ३-१९८ ॥

महादेवाष्टकं ह्येवं तद्व्यक्तावरणे स्थितम् ।
अव्यक्त प्रकृतिश्चैव प्रधानमिति चोच्यते ॥ ३-१९९ ॥

अत ऊर्ध्वं भवेदन्यद्रागाख्यावरणं विदुः ।
तत्प्रधानात् शतगुणं पौरुषन् तत्वमुत्तमम् ॥ ३-२०० ॥

तत्र रुद्रो महातेजो वाम देवौ भवोद्भवौ ।
एकलिङ्गेक्षणेशान भुवनैश्च परस्परम् ॥ ३-२०१ ॥

अङ्गुष्ठमात्रास्ते देवास्त्वङ्गुष्ठात्मक संज्ञकाः ।
माया ज्ञानविनिर्मुक्ता परमेश प्रभावकाः ॥ ३-२०२ ॥

प्. ३३७) तत्रैव पुरुषो ज्ञ्यो रागाख्यावरणाश्रिताः ।
षट्कौशिकानि भूतानि भूतानि विषयाणि च ॥ ३-२०३ ॥

मनोबुद्धिरहंकार स्त्रिगुणश्च विशेषतः ।
एतैर्युक्तस्तु पुरुष आत्मतत्वे भुवि स्थितः ॥ ३-२०४ ॥

विद्यातत्वन्तदूर्ध्वन्तु रागाच्छतगुणं भवेत् ।
वामदेवोधभीमश्च उग्रश्चैवस्तथा पि च ॥ ३-२०५ ॥

शर्वैशानैक वीरश्च ईश्वरश्च प्रचण्डधृत् ।
ईश्वरोथ उमाभक्त अजेशोनन्द एव च ॥ ३-२०६ ॥

ततो ह्येक शिवश्चैव विद्यावरणमाश्रिताः ।
कालतत्वं भवेदूर्ध्वं विद्यायास्तु शताधिकम् ॥ ३-२०७ ॥

उच्छ्रच्छुष्कश्चांबरश्च मातंगोघोररूपकः ।
याम्योहलाहलश्चैव क्रोधेशोवसवामुखः ॥ ३-२०८ ॥

स्थूलरुद्रोवर्ष रुद्रोरुद्रोगलगुरुस्तथा ।
द्वादशैते महावीर्या कलावरणमाश्रिताः ॥ ३-२०९ ॥

अत ऊर्ध्वं भवेन्माया कलायास्तु शताधिकाः ।
संपुटद्वितये माया रुद्रैर्द्वादश संस्थिताः ॥ ३-२१० ॥

अधश्च संपुटे विद्यादूर्ध्वश्वासं पुटे परम् ।
गहने शस्त्वव्ययश्च तथा हरिहर प्रभुः ॥ ३-२११ ॥

दशैशानस्तथा चैव त्रिकालो गोपतिस्तथा ।
अधोमाया पुटान्ते तु षड्रुद्रास्ते प्रकीर्तिताः ॥ ३-२१२ ॥

क्षेमीशो ब्रह्मचारी च विद्येशानस्तथैव च ।
विश्वेश्वरः शिवश्चैव अनन्तस्तु षडेव हि ॥ ३-२१३ ॥

ऊर्ध्वजा या पुटान्तास्तु एते रुद्रा प्रकीर्तिताः ।
तेषां मध्ये सभगवाननन्तेशो जगत्पतिः ॥ ३-२१४ ॥

उत्पत्तिं भावयित्वा तु कुरुते स्वेच्छया प्रभुः ।
मायाद्यवनि पर्यन्ता ये रुद्राः संस्थिताः क्रमात् ॥ ३-२१५ ॥

भुंजते तत्र तत्रैव भोगादिमुदितात्मनः ।
पश्चात् ज्ञानं समाश्रित्य शिवतत्वं समाश्रिताः ॥ ३-२१६ ॥

प्. ३३८) मायान्तं लक्षणं प्रोक्तं तदूर्ध्वं लक्षणं
शृणु ।
मायोर्ध्वे तु भवेदात्मा स्थितिः शतगुणेन तु ॥ ३-२१७ ॥

तदात्मा विमलः शुद्धः सर्वज्ञत्वादिभिर्गुणैः ।
जगत् बीजमिदं ज्ञेयं शिवव्यक्तिकरं परम् ॥ ३-२१८ ॥

माययासं वृतो ह्यात्मा शिवव्यक्तिकराय च ।
पशुपाश पतित्वञ्च त्रिगुणं विद्यते तथा ॥ ३-२१९ ॥

आत्मानमेवं वेत्तव्यं विद्यातत्वं तथा शृणु ।
आत्मनस्तु सहस्रांशात् विद्यातत्वन्तु संस्थितम् ॥ ३-२२० ॥

ईश्वरः संस्थितस्तत्र ब्रह्माङ्गादि समन्वितः ।
तदूर्ध्वे चैव सादाख्यं तत्र संस्थः सदाशिवः ॥ ३-२२१ ॥

तदूर्ध्वे बिन्दुतत्वन्तु तदूर्ध्वे नादमेव तु ।
तदूर्ध्वे शक्तितत्वं हि चोर्ध्वे प्रथमशक्तिकम् ॥ ३-२२२ ॥

तदूर्ध्वे शिवतत्वन्तु सर्वतत्वोपरि स्थितः ।
शिवा?द्यवनि पर्यन्तं व्यापकन्तेन तेजसा ॥ ३-२२३ ॥

पृथिव्यापस्तथा तेजो वायुराकाशमेव च ।
अहङ्कारस्तथा बुद्धिर्गुणमव्यक्तमेव च ॥ ३-२२४ ॥

रागत्वञ्च ततः तस्मिन् दशपञ्चेन्द्रियाणि च ।
विद्याकालकला माया आत्मानन्तु तथैव च ॥ ३-२२५ ॥

शुद्धविद्या चं सादाख्यं बिन्दुनादन्तथैव च ।
द्वितीयं शक्तितत्वं च प्रथमं शक्तिमेव च ॥ ३-२२६ ॥

षट्त्रिंशत्तत्वमेतानि शिवतत्वोद्भवा इह ।
ब्रह्माण्डं पृथिवी ज्ञेया प्रकृत्यञ्जलकं स्मृतम् ॥ ३-२२७ ॥

तेजो विद्यान्तमेवं हि वायुः सदाशिवान्तकम् ।
व्योमः शक्त्यन्तमेषां वै पञ्चतत्वेषु संस्थितम् ॥ ३-२२८ ॥

एतानि पञ्चतत्वानि सुतत्वे तु स्थितानि तु ।
मायान्तानि च तत्वानि शिवतत्वमुदीरितम् ॥ ३-२२९ ॥

आत्मैव चात्म तत्वस्य सर्वतत्व प्रभुः स्मृतम् ।
विद्या तत्वादिशक्त्यन्तं विद्यातत्वमिति स्मृतम् ॥ ३-२३० ॥

"https://sa.wikisource.org/w/index.php?title=सुप्रभेदागमः&oldid=210780" इत्यस्माद् प्रतिप्राप्तम्