← २० समाप्तनिधुवनचिह्नव्रज्या सुभाषितरत्नकोशः
२१ मानिनीव्रज्या
विद्याकरः
२२ विरहिणीव्रज्या →

मानिनीव्रज्या

मानोन्नतेत्य् असहनेत्य् अतिपण्डितेति मय्य् एव धिक्कृतिर् अनेकमुखी सखीनाम् /
आकारमात्रमसृणेन विचेष्टितेन धूर्तस्य तस्य हि गुणान् उपवर्णयन्ति २१.१ (६३५)
लक्ष्मीधरस्य

वलतु तरला दृष्टा दृष्टिः खला सखि मेखला स्खलतु कुचयोर् उत्कम्पान् मे विदीर्यतु कञ्चुकम् /
तद् अपि न मया सम्भाष्यो ऽसौ पुनर् दयितः शठः स्फुरति हृदयं मौनेनान्तर् न मे यदि तत्क्षणात् २१.२ (६३६)
अमरुकस्य

NB / एद्KG/ तके दृष्टादृष्टिस् अस् अ चोम्पोउन्द् `qउइच्क् ग्लन्चे, हल्fग्लन्चेऽ.

तद् एवाजिह्माक्षं मुखम् अविशदास् ता गिर इमाः स एवाङ्गाक्षेपो मयि सरसम् आश्लिष्यति तनुम् /
यद् उक्तं प्रत्युक्तं तद् अपटु शिरःकम्पनपरं प्रिया मानेनाहो पुनर् अपि कृता मे नववधूः २१.३ (६३७)
शम्बूकस्य

यदि विनिहिता शून्या दृष्टिः किम् उ स्थिरकौतुका यदि विरचितो मौने यत्नः किम् उ स्फुरितो ऽधरः /
यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः कृतम् अभिनयैर् दृष्टो मानः प्रसीद विमुच्यताम् २१.४ (६३८)
अमरुकस्य

चेतः
चक्षुः

एकत्रासनसंस्थितिः परिहृता प्रत्युद्गमाद् दूरतस् ताम्बूलारचनच्छलेन रभसाश्लेषक्रमो विघ्नितः /
संलापो ऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके भर्तुः प्रत्युपचारतश् चतुरया कोपः कृतार्थीकृतः २१.५ (६३९)
श्रीहर्षस्य||

यद्वक्त्राभिमुखं मुखं विनिहितं दृष्टिर् धृता चान्यतस् तस्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया /
हस्ताभ्यां च तिरस्कृतः सपुलकः स्वेदोद्गमो गण्डयोः सख्यः किं करवाणि यान्ति शतधा यत्कञुच्के सन्धयः २१.६ (६४०)

दूराद् उत्सुकम् आगते विचलितं सम्भाषिणि स्फारितं संश्लिष्यत्य् अरुणं गृहीतवसने कोपाञ्चितभ्रूलतम् /
मानिन्याश् चरणानतिव्यतिकरे बाष्पाम्बुपूर्णं क्षणाच् चक्षुर् जातम् अहो प्रपञ्चचतुरं जातागसि प्रेयसि २१.७ (६४१)
रतिपालस्य||

वचोवृत्तिर् मा भूद् वलतु च नवा वक्त्रम् अभितो न नाम स्याद् बाष्पागमविषदं लोचनयुगम् /
समाश्वासस् तेन प्रणतशिरसः पत्युर् अभवत् प्रिया प्रौढक्रोधाप्य् अपहृतवती यन् न चरणौ २१.८ (६४२)
बोपालितस्य||

किं पादान्ते पतसि विरम स्वामिनो हि स्वतन्त्राः कंचित् कालं क्वचिद् अपि रतिस् तेन कस् ते ऽपराधः /
आगस्कारिण्य् अहम् इह यया जीवितं त्वद्वियोगे भर्तृप्राणाः स्त्रिय इति ननु त्वं मयैवानुनेयः २१.९ (६४३)
वाक्कूटस्य||

यद् गम्यं गुरुगौरवस्य सुहृदो यस्मिंल् लभन्ते ऽन्तरं यद्दाक्षिण्यरसाद् भिया च सहसा नर्मोपचाराण्य् अपि /
यल्लज्जा निरुणद्धि यत्र शपथैर् उत्पाद्यते प्रत्ययस् तत् किं प्रेम स उच्यते परिचयस् तत्रापि कोपेन किम् २१.१० (६४४)

भ्रूभङ्गो गणितश् चिरं नयनयोर् अभ्यस्तम् आमीलनं रोद्धुं शिक्षितम् आदरेण हसितं मौने ऽभियोगः कृतः /
धैर्यं कर्तुम् अपि स्थिरीकृतम् इदं चेतः कथंचिन् मया बद्धो मानपरिग्रहे परिकरः सिद्धिस् तु दैवे स्थिता २१.११ (६४५)
धर्मकीर्तेः||

परिग्रहे परिकरः

/ एमेन्द् (wइथ् Iन्गल्ल्स्, Vएमभूपाल, अन्द् ओथेर् चिततिओन्स् ओf थे वेर्से),

परिग्रहः परिकरे

तथाभूद् अस्माकं प्रथमम् अविभिन्ना तनुर् इयं ततो ऽनु त्वं प्रेयान् अहम् अपि हताशा प्रियतमा /
इदानीं नाथस् त्वं वयम् अपि कलत्रं किम् अपरं मयाप्तं प्राणानां कुलिशकठिनानां फलम् इदम् २१.१२ (६४६)
भावकदेव्याः||

यदा त्वं चन्द्रो ऽभूर् अविकलकलापेशलवपुस् तदाहं जातार्द्रा शशधरमणीनां प्रतिकृतिः /
इदानीम् अर्कस् त्वं खररुचिसमुत्सारितरसः किरन्ती कोपाग्नीन् अहम् अपि रविग्रावघटिता २१.१३ (६४७)

कोपो यत्र भ्रुकुटिरचना निग्रहो यत्र मौनं यत्रान्योन्यस्मितम् अनुनयो दृष्टिपातः प्रसादः /
तस्य प्रेम्णस् तद् इदम् अधुना वैशसं पश्य जातं त्वं पादान्ते लुठसि न हि मे मन्युमोक्षः खलायाः २१.१४ (६४८)
प्रद्युम्नस्य||

शठान्यस्याः काञ्चीमणिरणितम् आकर्ण्य सहसा समाश्लिष्यन्न् एव प्रशिथिलभुजग्रन्थिर् अभवः /
तद् एतत् क्वाचक्षे घृतमधुमय त्वन्मृदुवचो- विषेणाघूर्णन्ती किम् अपि न सखीयं गणयति २१.१५ (६४९)
हिङ्गोकस्य||

मुग्धासि नायम् अपराध्यति मैवम् आलि केयं रुषा परुषिता लिखिताप्य् अनेन /
केलिस्खलद्वसनम् उत्पुलकाङ्गभङ्गम् उत्तुङ्गपीनकुचम् आलिखिता त्वम् एव २१.१६ (६५०)
वीर्यमित्रस्य||

पाणौ शोणतले तनूदरि दरक्षामं कपोलस्थलं विन्यस्याञ्जनदिग्धलोचनजलैः किं ग्लानिम् आनीयते /
मुग्धे चुम्बतु नाम चञ्चलतया भृङ्गः क्वचित् कन्दलीम् उन्मीलन्नवमालतीपरिमलः किं तेन विस्मर्यते २१.१७ (६५१)

कोपः सखि प्रियतमे ननु वञ्चनैव तन् मुञ्च मानिनि रुषं क्रियतां प्रसादः /
प्राणेश्वरश् चरणयोः पतितस् तवायं सम्भाष्यतां विकसता नयनोत्पलेन २१.१८ (६५२)

बाले नाथ विमुञ्च मानिनि रुषं रोषान् मया किं कृतं खेदो ऽस्मासु न मे ऽपराध्यति भवान् सर्वे ऽपराधा मयि /
तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्व् एतन् मम का तवास्मि दयिता नास्मीत्य् अतो रुद्यते २१.१९ (६५३)
कुमारभट्टस्य||

गतप्राया रात्रिः कृशतनु शशी शीर्यत इव प्रदीपो ऽयं निद्रावशम् उपगतो घूर्णत इव /
प्रणामान्तो मानस् त्यजसि न तथापि क्रुधम् अहो कुचप्रत्यासत्त्या हृदयम् अपि ते चण्डि कठिनम् २१.२० (६५४)
महोदधेः||

गतो दूरं चन्द्रो जठरलवलीपाण्डुरवपुर् दिशः किंचित् किंचित् तरणिकिरणैर् लोहितरुचः /
इदं निद्राच्छेदे रसति सरसं सारसकुलं चकोराक्षि क्षिप्रं जहिहि जहिहि प्रेमलडितम् २१.२१ (६५५)

मया तावद् गोत्रस्खलितहतकोपान्तरितया न रुद्धो निर्गच्छन्न् अयम् अतिविलक्षः प्रियतमः /
अयं त्व् आकूतज्ञः परिणतिपरामर्शकुशलः सखीलोको ऽप्य् आसील् लिखित इव चित्रेण किम् इदम् २१.२२ (६५६)
हिम्बोकस्य||

भवतु विदितं कृत्यालापैर् अलं प्रिय गम्यतां तनुर् अपि न ते दोषो ऽस्माकं विधिस् तु पराङ्मुखः /
तव यदि तथारूढं प्रेम प्रपन्नम् इमां दशां प्रकृतिचपले का नः पीडा गते हतजीविते २१.२३ (६५७)
धर्मकीर्तेः||

असद्वृत्तो नायं न च सखि गुणैर् एष रहितः प्रियो मुक्ताहारस् तव चरणमूले निपतितः /
गृहाणैनं मुग्धे व्रजतु तव कण्ठप्रणयिताम् उपायो नास्त्य् अन्यो हृदयपरितापोपशमने २१.२४ (६५८)
भट्टहरेः||

अनालोच्य प्रेम्णः परिणतिम् अनादृत्य सुहृदं त्वयाकाण्डे मानः किम् इति शरले प्रेयसि कृतः /
समाकृष्टा ह्य् एते विरहदहनोद्भासुरशिखाः स्वहस्तेनाङ्गारास् तद् अलम् अधुनारण्यरुदितैः २१.२५ (६५९)
विकटनितम्बायाः||

मा रोदीः सखि नश्यदन्धतमसं पश्याम्बरं ज्योत्स्नता शीतांशुः सुधया विलिम्पति सखा राज्ञो मनोजन्मनः /
कः कोपावसरः प्रसीद रहसि स्वेदाम्भसां बिन्दवो लुम्पन्तु स्तनपत्रभङ्गमकरीः सौधागुरुश्यामलाः २१.२६ (६६०)

मा रोदीः करपल्लवप्रणयिनीं कृत्वा कपोलस्थलीं मा भाङ्क्षीः परिखेद साक्षिभिर् इव श्वासौर् मुखेन्दोः श्रियम् /
मुग्धे दग्धगिरः स्खलन्ति शतशः किं कुप्यसि प्रेयसि प्राणास् तन्वि ममासि नोचितम् इदं तद् व्यर्थम् उत्ताम्यसि २१.२७ (६६१)

यद् एतन् नेत्राम्भः पतद् अपि समासाद्य तरुणी- कपोलव्यासङ्गं कुचकलशम् अस्याः कलयति /
ततः श्रोणीबिम्बं व्यवसितविलासं तद् उचितं स्वभावस्वच्छानां विपद् अपि सुखं नान्तरयति २१.२८ (६६२)

पक्ष्मान्तरस्खलिताः कपोलफलके लोलं लुठन्तः क्षणं धारालास् तरलोत्सकत्तनुकणाः पीनस्तनास्फालनात् /
कस्माद् ब्रूहि तवाद्य कण्ठविगलन्मुक्तावलीविभ्रमं बिभ्राणा निपतन्ति बाष्पपयसां प्रस्यन्दिनो बिन्दवः २१.२९ (६६३)
राजशेखरस्य

कपोले पत्राली करतलनिरोधेन मृदिता निपीतो निःश्वासैर् अयम् अमृतहृद्यो ऽधररसः /
मुहुः कण्ठे लग्नस् तरलयति बाष्पः स्तनतटं प्रियो मन्युर् जातस् तव निरनुरोधे न तु वयम् २१.३० (६६४)

धिग् धिक् त्वाम् अयि केन दुर्मुखि कृतं किं किं न कायव्रतं द्वित्राण्य् अत्र दिनानि को न कुपितः को नाभवन् मानुषः /
स्मः केचिन् न वयं यद् एकम् अपरस्याप्य् उक्तम् आकर्ण्यताम् अत्युन्माथिनि चन्दने ऽपि नियतं नामाग्निर् उत्तिष्ठति २१.३१ (६६५)
वल्लणस्य

स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं न खलु चटुलप्रेम्णा कार्यं पुनर् दयितेन मे /
इति सरभसं मानाटोपाद् आदीर्य वचस् तया रमणपदवी शारङ्गाक्ष्या सशङ्कितम् ईक्षिता २१.३२ (६६६)

एकस्मिञ् शयने पराङ्मुखतया वीतोत्तरं ताम्यतोर् अन्योन्यं हृदये स्थिते ऽप्य् अनुनये संरक्षतोर् गौरवम् /
पश्चाद् आकुलयोर् अपाङ्गवलनान् मिश्रीभवच्चक्षुषोर् भग्नो मानकलिः सहासरभसव्यावृत्तकण्ठग्रहः २१.३३ (६६७)

कन्दर्पकन्दलि सलीकदृशा लुनीहि कोपाङ्कुरं चरणयोः शरणातिथिः स्याम् /
पश्य प्रसीद चरमाचलचूलचुम्बि बिम्बं विधोर् लवलपाण्डुरसस् तम् एति २१.३४ (६६८)

अहो दिव्यं चक्षुर् वहसि तव सापि प्रणयिनी पराक्ष्णाम् अग्राह्यं युवतिषु वपुः संक्रमयति /
समानाभिज्ञानं कथम् इतरथा पश्यति पुरो भवान् एकस् तस्याः प्रतिकृतिमयीर् एव रमणीः २१.३५ (६६९)
मनोविनोदस्य

प्रिये मौनं मुञ्च श्रितुर् अमृतधाराः पिबतु मे दृशऊन्मील्येतां भवतु जगद् इन्दीवरमयम् /
प्रसीद प्रेमापि प्रशमयति निःशेषम् अधृतीर् अभूमिः कोपानां ननु निरपराधः परिजनः २१.३६ (६७०)
डिम्बोकस्य

कोपस् त्वया यदि कृतो मयि पङ्कजाक्षि सो ऽस्तु प्रियस् तव किम् अस्ति विधेयम् अन्यत् /
आश्लेषम् अर्पय मदर्पितपूर्वम् उच्चैर् उच्चैः समर्पय मदर्पितचुम्बनं च २१.३७ (६७१)
शतानन्दस्य


सखि कलितः स्खलितो ऽयं हेयो नैव प्रणाममात्रेण /
चिरम् अनुभवतु भवत्या बाहुलताबन्धनं धूर्तः २१.३८ (६७२)
गोनन्दस्य

जाते केलिकलौ कृते कमितरि व्यर्थानुनीतौ चिरान् माने म्लायति मन्मथे विकसति क्षीणे क्षपानेहसि /
मायास्वापम् उपेत्य तन्निपुणया निद्रान्ध्यम् आचेष्टितं मानम्लानिर् अभून् न येन च न चाप्य् आसीद् रहःखण्डनम् २१.३९ (६७३)

कथंचिन् नैदाघे दिवस इव कोपे विगलिते प्रसत्तौ प्राप्तायां तदनु च निशायाम् इव शनैः /
स्मितज्योत्स्नारम्भक्षपितविरहध्वान्तनिवहो मुखेन्दुर् मानिन्याः स्फुरति कृतपुण्यस्य सुरते २१.४० (६७४)

मानव्याधिनिपीडिताहम् अधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनो ऽस्ति चतुरो यो मां बलान् नेष्यति /
मानी सो ऽपि जनो न लाघवभयाद् अभ्येति मातः स्वयं कालो याति चलं च जीवितम् इति क्षुण्णं मनश् चिन्तया २१.४१ (६७५)

यावन् नो सखि गोचरं नयनयोर् आयाति तावद् द्रुतं गत्वा ब्रूहि यथाद्य ते दयितया मानः समालम्बितः /
दृष्टे धूर्तविचेष्टिते तु दयिते तस्मिन्न् अवश्यं मम स्वेदाम्भःप्रतिरोधिनिर्भरतरस्मेरं मुखं जायते २१.४२ (६७६)

दुष्टा मुष्टिर् इहाहता हृदि नखैर् आचोटिता पार्श्वयोर् आकृष्टा कबरीषु गाढम् अधरे सीत्कुर्वती खण्डिता /
त्वत्कृत्यं त्वदगोचरे ऽपि हि कृतं सर्वं मयैवाधुना माम् आज्ञापय किं करोमि सरले भूयः सपत्न्यास् तव २१.४३ (६७७)

सुतनु जहिहि मौनं पश्य पादानतं मां न खलु तव कदाचित् कोप एवंविधो ऽभूत् /
इति निगदति नाथे तिर्यग् आमीलिताक्ष्या नयनजलम् अनल्पं मुक्तम् उक्तं न किंचित् २१.४४ (६७८)

चेतस्य् अङ्कुरितं विकारिणि दृशोर् द्वन्द्वे द्विपत्रायितं प्रायः पल्लवितं वचःस्व् अपरताप्रत्यायमानादिषु /
तत् तत् कोपविचेष्टिते कुसुमितं पादानते तु प्रिये मानिन्याः फलितं न मानतरुणा पर्यन्तवन्ध्यायितम् २१.४५ (६७९)
राजशेखरस्य

कियन्मात्रं गोत्रस्खलितम् अपराधश् चरणयोश् चिरं लोठत्य् एष ग्रहवति न मानाद् विरमसि /
रुषं मुञ्चामुञ्च प्रियम् अनुगृहाणायतिहितं शृणु त्वं यद् ब्रूमः प्रियसखि नखं मा कुरु नदीम् २१.४६ (६८०)

दैवाद् अयं यदि जनो विदितो ऽपराधी दासोचितैः परिभवैर् अयम् एव शास्यः /
एषा कपोलफलके ऽगरुपत्रवल्ली किं पीड्यते सुतनु बाष्पजलप्रणालैः २१.४७ (६८१)

कृत्वागः स च नागतो ऽपि किम् अपि व्यक्तं मनो मन्यते तत् क्वासे कम् उपैमि जङ्गमवने को माम् इहाश्वासयेत् /
इत्य् उक्त्वाश्रुगलन्मुखी विटसखी ध्वस्ता विशन्ती गृहं धन्येनाधिम् उपाश्रुणोर् असि कृतात्यन्तं प्रिया रोदिता २१.४८ (६८२)
वल्लणस्य

कपोलं पक्ष्मभ्यः कलयति कपोलात् कुचतटं कुचान् मध्यं मध्यान् नवमुदितनाभीसरसिजम् /
न जानीमः किं नु क्व नु कियद् अनेन व्यवसितं यद् अस्याः प्रत्यङ्गं नयनजलबिन्दुर् विहरति २१.४९ (६८३)
नरसिंहस्य

विकिर नयने मन्दच्छायं भवत्व् असितोत्पलं वितर दयिते हासज्योत्स्नां निमीलतु पङ्कजम् /
वद सुवदने लज्जामूका भवन्तु शिखण्डिनः परपरिभवो मानस्थानैर् न मानिनि सह्यते २१.५० (६८४)

अयं धूर्तो मायाविनयमधुराद् अस्य चरितात् सखि प्रत्यूषि त्वं प्रकृतिसरले पश्यसि न किम् /
कपोले यल् लाक्षारसबहलरागप्रणयिनीम् इमां धत्ते मुद्राम् अनतिचिरवृत्तान्तपिशुनाम् २१.५१ (६८५)

अप्राप्तकेलिसुखयोर् अतिमानरुद्ध- संधानयोर् रहसि जातरुषोर् अकस्मात् /
यूनोर् मिथो ऽभिलषतोः प्रथमानुनीतिं भावाः प्रसादपिशुनाः क्षपयन्ति निद्राम् २१.५२ (६८६)
सोन्नोकस्यैतौ

श्रवसि न कृतास् ते तावन्तः सखीचवनक्रमाश् चरणपतितो ऽङ्गुष्ठाग्रेणाप्य् अयं न हतो जनः /
कठिनहृदये मिथ्यामौनव्रतव्यसनाद् अयं परिजनपरित्यागोपायो न मानपरिग्रहः २१.५३ (६८७)

न मन्दो वक्त्रेन्दुः श्रयति न ललाटं कुटिलता न नेत्राब्जं रज्यत्य् अनुषजति न भ्रूर् अपि भिदाम् /
इदं तु प्रेयस्याः प्रथयति रुषो ऽन्तर्विकसिताः शते ऽपि प्रश्नानां यदभिदुरमुद्रो ऽधरपटः २१.५४ (६८८)
वैद्यधन्यस्य

तत् तद् वदत्य् अपि यथावसरं हसत्य् अप्य् आलिङ्गने ऽपि न निषधति चुम्बने ऽपि /
किं तु प्रसादनभयाद् अतिनिह्नुतेन कोपेन को ऽपि निहितो ऽद्य रसावतारः २१.५५ (६८९)
महाव्रतस्य

आश्लेषेण पयोधरप्रणियिनीं प्रत्यादिशन्त्या दृशं दृष्ट्वा चाधरबद्धतृष्णम् अधरं निर्भर्त्सयन्त्या मुखम् /
ऊर्वोर् गाढनिपीडनेन जघने पाणिं च रुद्ध्वानया पत्युः प्रेम न खण्डितं निपुणया मानो ऽपि नैवोज्झितः २१.५६ (६९०)

दीर्घोच्छ्वासविकम्पिताकुलशिखा यत्र प्रदीपाः कुले दृष्टिर् यत्र च दीर्घजागरगुरुः कोपे मदीये तव /
विस्रम्भैकरसप्रसादमधुरा यत्र प्रवृत्ताः कथास् तान्य् अन्यानि दिनानि मुञ्च चरणौ सैवाहम् अन्यो भवान् २१.५७ (६९१)

परीरम्भारम्भः स्पृशति परम् इच्छां न तु भुजौ भजन्ते विज्ञानं न तु गिरम् अनूरोधविधयः /
मनस्विन्याः स्वैरं प्रसरति निशासीमसमये मनः प्रत्यावृत्तं कमितरि कथंचिन् न तु वपुः २१.५८ (६९२)
चक्रपाणेः

अद्योद्यानगृहाङ्गणे सखि मया स्वप्नेन लाक्षारुणः प्रोत्क्षिप्तो ऽयम् अशोकदोहदविधौ पादः क्वणन्नूपुरः /
तावत् किं कथयामि केलिपटुना निर्गत्य कुञ्जोदराद् अज्ञातोपनतेन तेन सहसा मूर्ध्नैव सम्भावितः २१.५९ (६९३)
मधुकूटस्य

सखि स सुभगो मन्दस्नेहो मयीति न मे व्यथा विधिपरिणतं यस्मात् सर्वो जनः सुखम् अश्नुते /
मम तु हृदये संतापो ऽयं प्रिये विमुखे ऽपि यत् कथम् अपि हतव्रीडं चेतो न याति विरागिताम् २१.६० (६९४)

भ्रूभेदे रचिते ऽपि दृष्टिर् अधिकं सोत्कण्ठम् उद्वीक्षते रुद्धायाम् अपि वाचि सस्मितम् इदं दग्धाननं जायते /
कार्कश्यं गमिते ऽपि चेतसि तनू रोमाञ्चम् आलम्बते दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ् जने २१.६१ (६९५)

प्रेयान् सो ऽयम् अपाकृतः सशपथं पादानतः कान्तया द्वित्राण्य् एव पदानि वासभवनाद् यावन् न यात्य् आत्मना /
तावत् प्रत्युत पाणिसम्पुटलसन्नीवीनिबन्धं धृतो धावित्वेव कृतप्रणामकम् अहो प्रेम्णो विचित्रा गतिः २१.६२ (६९६)

गते प्रेमाबन्धे हृदयबहुमाने विगलिते निवृत्ते सद्भावे जन इव जने गच्छति पुरः /
तद् उत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास् ते च दिवसा न जाने को हेतुः स्फुटति शतधा यन् न हृदयम् २१.६३ (६९७)

सुतनु नितम्बस् तव पृथुर् अक्ष्णोर् अपि नियतम् अर्जुनो महिमा /
मध्यः सवलिर् इदानीं मान्धाता कुचतटः क्रियताम् २१.६४ (६९८)
दामोदरस्य

दृष्टे लोचनवन् मनाङ् मुकुलितं चाग्रे गते वक्त्रवन् न्यग्भूतं बहिर् आस्थितं पुलकवत् संस्पर्शम् आतन्वति /
नीवीबन्धवद् आगतं शिथिलताम् आभाषमाणे ततो मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि २१.६५ (६९९)

इति मानिनी व्रज्या