सुभाषितरत्नकोशः/२६ प्रदीपव्रज्या

← २५ दूतिकोपालम्भव्रज्या सुभाषितरत्नकोशः
२६ प्रदीपव्रज्या
विद्याकरः
२७ अपराह्णव्रज्या →

ततः प्रदीपव्रज्या

रुद्धे वायौ निषिद्धे तमसि शुभवशोन्मीलितालोकशक्तिः कस्मान् निर्वाणलाभी न भवतु परमब्रह्मवद् वीक्ष्य दीपः /
निद्राणस्त्रीनितम्बाम्बरहरणरणन्मेखलारावधावत्- कन्दर्पानद्धबाणव्यतिकरतरलं कामिनं यामिनीषु २६.१ (८५४)

अतिपीनां तमोराजीं तनीयान् सोढुम् अक्षमः /
वमतीव शनैर् एष प्रदीपः कज्जलच्छलात् २६.२ (८५५)

अतिपीनां

/ एमेन्द्, अतिपीतां

निर्वाणगोचरगतो ऽपि मुहुः प्रदीपः किं वृत्तकं तरुणयोः सुरतावसाने /
इत्य् एवम् आकलयितुं सकलङ्कलज्जद्- उद्ग्रीविकाम् इव ददाति रतिप्रदीपः २६.३ (८५६)

बालां कृशाङ्गीं सुरतानभिज्ञां गाढं नवोढाम् उपगूढवन्तम् /
विलोक्य जामातरम् एष दीपो वातायने कम्पम् उपैति भीतः २६.४ (८५७)

इति प्रदीपव्रज्या|| २६