सुभाषितरत्नकोशः/३८ असद्व्रज्या

← ३७ सद्व्रज्या सुभाषितरत्नकोशः
३८ असद्व्रज्या
विद्याकरः
३९ दीनव्रज्या →

ततो ऽसद्व्रज्या

अतिमलिने कर्तव्ये भवति खलानाम् अतीव निपुणा धीः /
तिमिरे हि कौशिकानां रूपं प्रतिपद्यन्ते दृष्टिः ३८.१ (१२५४)

सद्गुणालंकृते काव्ये दोषान् मृगयते खलः /
वने पुष्पकलाकीर्णः करभः कण्टकान् इव ३८.२ (१२५५)

मुखरस्याप्रसन्नस्य मित्रकार्यविघातिनः /
निर्माणम् आशानाशाय दुर्जनस्य घनस्य च ३८.३ (१२५६)

निर्वाते व्यजनं मदान्धकरिणां दर्पोपशान्तौ शृणिः पोतो दुस्तरवारिराशितरणे दीपो ऽन्धकारागमे /
इत्थं तद् भुवि नास्ति यत्र विधिना नोपायचिन्ता कृता मन्ये दुर्जनचित्तवृत्तिहरणे धातापि भग्नोद्यमः ३८.४ (१२५७)

अकारणाविष्कृतवैरदारुणाद् असज्जनात् कस्य भयं न जायते /
विषं महाहेर् इव यस्य दुर्वचः सुदुःसहं संनिहितं सदा मुखे ३८.५ (१२५८)

खलवृन्दं श्मशानं च भवत्य् अपचितं यदा /
ध्रुवं तदैव लोकानां कल्याणम् अवगम्यते ३८.६ (१२५९)

अन्तर् मलिनदेहेन बहिर् आह्लादकारिणा /
महाकालफलेनेव कः खलेन न वञ्चितः ३८.७ (१२६०)

सर्वत्रैव खलो जनः सरलतासद्भावनिःसङ्गिनां साधूनां पदबन्धनाय पिशुनप्रौढाभिमानोद्यमः /
सूत्रं किंचिद् अपूर्वम् एव जठराद् उत्पाद्य सद्यः स्वयं लूतातन्तुवितानजालकुटिलं चक्रं करोत्य् अद्भुतम् ३८.८ (१२६१)

देवानाम् अपि पश्यन्तां स श्रिया मेध्यते खलु /
वाससापि न योगो ऽस्ति निश्चक्रस्य पिनाकिनः ३८.९ (१२६२)

स्तोकेनोन्नतिम् आयाति स्तोकेनायात्य् अधोगतिम् /
अहो न सदृशी वृत्तिस् तुलाकोटेः खलस्य च ३८.१० (१२६३)

आखुभ्यः किं खलैर् ज्ञातं खलेभ्यः किम् अथाखुभिः /
अन्यत् परगृहोत्खातात् कर्म येषां न विद्यते ३८.११ (१२६४)

दुर्जनदूषितमनसां पुंसां स्वजने ऽपि नास्ति विश्वासः /
बालः पायसदग्धो दध्य् अपि फूत्कृत्य भक्षयति ३८.१२ (१२६५)

गुणोत्कर्षद्वेषात् प्रकृतिमहताम् अप्य् असदृशं खलः किंचिद् वाक्यं रचयति च विस्तारयति च /
न चेद् एवं तादृक् कमलकलिकार्धप्रतिनिधौ मुनेर् गण्डूषे ऽब्धिः स्थित इति कुतो ऽयं कलकलः ३८.१३ (१२६६)

प्रियसखि विपद्दण्डप्रान्तप्रपातपरम्परा- परिचयचले चिन्ताचक्रे निधाय विधिः खलः /
मृदम् इव बलात् पिण्डीकृत्य प्रगल्भकुलाकवद् भ्रमयति मनो नो जानीमः किम् अत्र विधास्यति ३८.१४ (१२६७)

पादाहतो ऽथ धृतदण्डविघट्टितो वा यं दंष्ट्रया स्पृशति तं किल हन्ति सर्पः /
को ऽप्य् अन्य एष पिशुनो ऽत्र भुजङ्गधर्मा कर्णे परं स्पृशति हन्त्य् अपरं समूलम् ३८.१५ (१२६८)

परिशुद्धाम् अपि वृत्तिं समाश्रितो दुर्जनः परान् व्यथते /
पवनाशिनो ऽपि भुजगाः परोपघातं न मुञ्चन्ति ३८.१६ (१२६९)
रविगुप्तस्य

अगम्यो मन्त्राणां प्रकृतिभिषजाम् अप्य् अविषयः सुधासारासाध्यो विसदृशतरारम्भगहनः /
जगद् भ्रामीकर्तुं परिणतधियानेन विधिना स्फुटं सृष्टो व्याधिः प्रकृतिविषमो दुर्जनजनः ३८.१७ (१२७०)

यः स्वान् अपि प्रथमम् अस्तसमस्तसाधु- वृत्तिर् गुणान् खलतया मलिनीकरोति /
तस्यास्य भोगिन इवोग्ररुषः खलस्य दाक्षिण्यम् अस्ति कथम् अन्यगुणोपमर्दे ३८.१८ (१२७१)

रन्ध्रान्वेषिणि दुष्टदृष्टिविषिणि स्वच्छाशयद्वेषिणि क्षिप्रे रोषिणि शर्मशोषिणे विना हेतुं जगत्प्लोषिणि /
स्वार्थार्थं मृदुभाषिणीष्टविहताव् एकान्ततस् तोषिणि श्रेयः क्रुद्धभुजङ्गभोगविषमे संविद्यते किं खले ३८.१९ (१२७२)
गुणाकरस्य श्लेषश्लोकौ

जाड्यं ह्रीमति गण्यते व्रतरुचौ दम्भः शुचौ कैतवं शूरे निर्घृणतार्जवे विमतिना दैन्यं प्रियालापिनि /
तेजस्विन्य् अवलिप्तता मुखरता वक्तर्य् अशक्तिः स्थिरे तत् को नाम भवेद् गुणः स गुणिनां यो दुर्जने नाङ्कितः ३८.२० (१२७३)

वन्द्यान् निन्दति दुःखितान् उपहसत्य् आबाधते बान्धवान् शूरान् द्वेष्टि धनच्युतान् परिभवत्य् आज्ञापयत्य् आश्रितान् /
गुह्यानि प्रकटीकरोति घटयत्य् अन्योन्यवैराश्रयान् ब्रूते शीघ्रम् अवाच्यम् उज्झितगुणो गृह्णाति दोषान् खलः ३८.२१ (१२७४)

यद् यद् इष्टतरं तत् तद् देयं गुणवते किल /
अत एव खलो दोषान् साधुभ्यः सम्प्रयच्छति ३८.२२ (१२७५)

करुणाद्रवम् एव दुर्जनः सुतरां सत्पुरुषं प्रबाधते /
मृदुकं हि भिनत्ति कण्टकः कठिने कुण्ठक इव जायते ३८.२३ (१२७६)

आरम्भगुर्वी क्षयिणी क्रमेण लघ्वी पुरा वृद्धिमती च पश्चात् /
दिनस्य पूर्वार्धपरार्धभिन्ना छायेव मैत्री खलसज्जनानाम् ३८.२४ (१२७७)

खलानां खर्जूरक्षितिरुहकठोरं क्व च मनः क्व चोन्मीलन्मल्लीकुसुमसुकुमाराः कविगिरः /
इतीमं व्यामोहं परिहर विचित्राः शृणु कथा यथायं पीयूषद्युतिर् उपलखण्डं द्रवयति ३८.२५ (१२७८)

उपकारिणि शुद्धमतौ वार्जने यः समाचरति पापम् /
तं जनम् असत्यसंधं भगवति वसुधे कथं वहसि ३८.२६ (१२७९)

मुखे नीचस्य पतिता अहेर् इव पयःकणाः /
क्षणेन विषतां यान्ति सूक्तपीयूषबिन्दवः ३८.२७ (१२८०)

मुण्डाप्रियाद् आयतिदुःखदायिनो वसन्तम् उत्सार्य विजृम्भितश्रियः /
न कः खलात् तापितमित्रमण्डलाद् उपैति पापं तपवासराद् इव ३८.२८ (१२८१)
नरदत्तस्य

तुल्योत्पत्ती प्रकृतिधवलाव् अप्य् अमू शङ्खसोमौ तत्र स्थाणुर् विधुम् असदृशेनोत्तमाङ्गेन धत्ते /
शङ्खस् तापक्रकचनिचयैर् भिद्यते शङ्खकारैः को नामान्तःप्रकृतिकुटिलो दुर्गतिं नाभियाति ३८.२९ (१२८२)

अकलितनिजपररूपः स्वकम् अपि दोषं परस्थितं वेत्ति /
नावास्थितस् तटस्थान् अचलान् अपि विचलितान् मनुते ३८.३० (१२८३)

आश्रयाशः कृष्णवर्त्मा दहनश् चैष दुर्जनः /
अग्निर् एव तथाप्य् अस्मिन् स्याद् भस्मनि हुतं हुतम् ३८.३१ (१२८४)

वरम् आक्षीणतैवास्तु शशिनो दुर्जनस्य च /
न प्रवृद्धिस् तु विस्तारि- लाञ्छनप्रतिपादिनी ३८.३२ (१२८५)

सर्वत्र मुखरचपलाः प्रभवन्ति न लोकसंमता गुणिनः /
तिष्ठन्ति वारिराशेर् उपरि तरङ्गास् तले मणयः ३८.३३ (१२८६)

आरम्भरमणीयानि विमर्दे विरसानि च /
प्रायो वैरावसानानि संगतानि खलैः सह ३८.३४ (१२८७)

गुणकणिकान् अपि सुजनः शशिलेखाम् इव शिवः शिरसि कुरुते /
चन्द्र इव पद्मलक्ष्मीं न क्षमते परगुणं पिशुनः ३८.३५ (१२८८)

बिभीमो वयम् अत्यन्तं चाक्रिकस्य गुणाद् अपि /
निष्पन्नम् अपि यः पात्रं गुणेनैव निकृन्तति ३८.३६ (१२८९)

परसंतापनहेतुर् यत्राहनि न प्रयाति निष्पत्तिम् /
अन्तर्मना असाधुर् गणयति न तदायुषो मध्ये ३८.३७ (१२९०)

दिवसांस् तान् अभिनन्दति बहुमनुते तेषु जन्मनो लाभम् /
ये यान्ति दुष्टबुद्धेः परोपतापाभियोगेन ३८.३८ (१२९१)

दयामृदुषु दुर्जनः पटुतरावलेपोद्धवः परां व्रजति विक्रियां न हि भयं ततः पश्यति /
यतस् तु भयशङ्कया सुकृशयापि संस्पृश्यते विनीत इव नीचकैश् चरति तत्र शान्तोद्धवः ३८.३९ (१२९२)
शूरस्य

असज्जनाश् चेन् मधुरैर् वचोभिः शक्यन्त एव प्रतिकर्तुम् आर्यैः /
तत् केतकीरेणुभिर् अम्बुराशेर् बन्धक्रियायाम् अपि कः प्रयासः ३८.४० (१२९३)

नूनं दर्पात् तुहिनरुचिना दुर्जनस्य प्रमार्ष्टुं नीतं चेतो न च धवलितं हेलया नार्पितं च /
येनेदानीं मलिनहृदयो लक्ष्यते शीतरश्मिर् यस्माच् चायं हृदयरहितो दुर्विधः सर्वदैव ३८.४१ (१२९४)

निर्यन्त्रणं यत्र न वर्तितव्यं न मोदितव्यं प्रणयातिवादे /
विशङ्कितान्योन्यभयं सुदूरान् नमस्क्रियाम् अर्हति सौहृदं तत् ३८.४२ (१२९५)
अभिनन्दस्य

एते स्निग्धतमा इति मा मा क्षुद्रेषु कुरुत विश्वासम् /
सिद्धार्थानाम् एषां स्नेहो ऽप्य् अश्रूणि पातयति ३८.४३ (१२९६)

वृथाज्वलितकोपाग्नेः परुषाक्षरवादिनः /
दुर्जनस्यौषधं नास्ति किंचिद् अन्यद् अनुत्तरात् ३८.४४ (१२९७)

चक्रसम्भारिणि क्रूरे परच्छिद्रानुसारिणि /
द्विजिह्वे दृष्टमात्रे चेत् कस्य न स्याच् चमत्कृतिः ३८.४५ (१२९८)

चक्षुर् आश्रयते कामः कामुकस्य दरिद्रतः /
क्रूरस्य चाप्रभवतः परद्रोहः सरस्वतीम् ३८.४६ (१२९९)
शतानन्दस्य

खलं दृष्ट्वैव साधूनां हृदयं काष्ठवद् भवेत् /
ततस् तद् दारयत्य् अस्य वाचः क्रकचकर्कशाः ३८.४७ (१३००)

हेतोर् विनोपकारी यदि नाम शतेषु कश्चिद् एकः स्यात् /
तत्रापि क्लिष्टधियां दोषं वक्ष्यत्य् अतिखलत्वम् ३८.४८ (१३०१)

आक्रान्तेव महोपलेन मुनिना शप्तेव दुर्वाससा सातत्यं बत मुद्रितेव जतुना नीतेव मूर्छां विषैः /
बद्धेवातनुरज्जुभिः परगुणान् वक्तुं न शक्ता सती जिह्वा लोहशलाकया खलमुखे विद्धेव संलक्ष्यते ३८.४९ (१३०२)
श्रीधर्मदासस्य

प्रकृतिर् इह खलानां दोषचित्तं गुणज्ञे विनयललितभावे द्वेषरक्ता च बुद्धिः /
उभयम् इदम् अवश्यं जायते सर्ववारं पटुर् अपि नियतात्मा कीर्तिम् एवाभिधत्ते ३८.५० (१३०३)

इत्य् असद्व्रज्या|| ३८