सुभाषितरत्नकोशः/४७ पर्वतव्रज्या
← ४६ प्रशस्तिव्रज्या| | सुभाषितरत्नकोशः ४७ पर्वतव्रज्या विद्याकरः |
४८ शान्तिव्रज्या → |
ततः पर्वतव्रज्या|| ४७
गुञ्जत्कुञ्जकुटीरकौशिकघटाघूत्कारवत्कीचक- स्तम्बाडम्बरमूकमौकुलिकुलः क्रौञ्चावतो ऽयं गिरिः /
एतस्मिन् प्रचलाकिनां प्रचलताम् उद्वेजिताः कूजितैर् उद्वेल्लन्ति पुराणरोहणतरुस्कन्धेषु कुम्भीनसाः ४७.१ (१५७७)
एते चन्द्रशिलासमुच्चयमयाश् चन्द्रातपप्रस्फुरत् सर्वाङ्गीणपयःप्रवृत्तसरितो झात्कुर्वते पर्वताः /
येषाम् उन्मदजागरूकशिखिनि प्रस्थे नमेरुस्थिताः श्यामाम् एव गभीरगद्गदगिरः स्कन्दन्ति कोयष्टयः ४७.२ (१५७८)
आधत्ते दनुसूनुसूदनभुजाकेयूरवज्राङ्कुर- व्यूहोल्लेखपदावलीवलिमयई रत्नैर् मुदं मन्दरः /
आधारीकृतकूर्मपृष्ठकषणक्षीणोरुमूलो ऽधुना जानीमः परतः पयोधिमथनाद् उच्चैस्तरो ऽयं गिरिः ४७.३ (१५७९)
तत् तादृक् फणिराजरज्जुकषणं संरूढपक्षच्छिदा- घातारुन्तुदम् अप्य् अहो कथम् अयं मन्थाचलः सोढवान् /
एतेनैव दुरात्मना जलनिधेर् उत्थाप्य पापाम् इमां लक्ष्मीम् ईश्वरदुर्गतव्यवहृतिव्यस्तं जगन् निर्मितम् ४७.४ (१५८०)
सो ऽयं कैलासशैलः स्फटिकमणिभुवाम् अंशुजालैर् ज्वलद्भिश् छाया पीतापि यत्र प्रतिकृतिभिर् उपस्थाप्यते पादपानाम् /
यस्योपान्तोपसर्पत्तपनकरधृतस्यापि पद्मस्य मुद्राम् उद्दामानो दिशन्ति त्रिपुरहरशिरश्चन्द्रलेखामयूखाः ४७.५ (१५८१)
गिरिः कैलासो ऽयं दशवदनकेयूरविलसन्- मणिश्रेणीपत्राङ्कुरमकरमुद्राङ्कितशिलः /
अमुष्मिन्न् आरुह्य स्फटिकमयसर्वाङ्गसुभगे निरीक्षन्ते यक्षाः फणिपतिपुरस्यापि चरितम् ४७.६ (१५८२)
दशमुखभुजदण्डमण्डलीनां दृढपरिपीडनपीतमेखलो ऽयम् /
जलगृहकवितर्दिकासुखानि स्फटिकगिरिर् गिरिशस्य निर्मिमीते ४७.७ (१५८३)
कैलासाद्रितटीषु धूर्जटिजटालंकारचन्द्राङ्कुर- ज्योत्स्नाकन्दलिताभिर् इन्दुदृषदाम् अद्भिर् नदीमातृकाः /
गौरीहस्तगुणप्रवृद्धवपुषः पुष्यन्ति धात्रेयक- भ्रातृस्नेहसहोढषण्मुखशिशुक्रीडासुखाः शाखिनः ४७.८ (१५८४)
नक्तं रत्नमयूखपाटवमिलत्काकोलकोलाहल- त्रस्यत्कौशिकभुक्तकन्दरतमाः सो ऽयं गिरिः स्मर्यते /
यत्राकृष्टकुचांशुके मयि रुषा वस्त्राय पत्राणि ते चिन्वत्यो वनदेवतास् तरुलताम् उच्चैर् व्यधुः कौतुकात् ४७.९ (१५८५)
- पत्राणि ते
- पत्राणि
एते ऽक्ष्णोर् जनयन्ति कामविरुजं सीतावियोगे घना वाताः शीकरिणो ऽपि लक्ष्मण दृढं संतापयन्त्य् एव माम् /
इत्थं वृद्धपरम्परापरिणतैर् यस्मिन् वचोभिर् मुनीन् अद्याप्य् उन्मनयन्ति काननशुकाः सो ऽयं गिरिर् माल्यवान् ४७.१० (१५८६)
करिकवलितमृष्टैः शाखिशाखाग्रपत्रैर् अरुणसरणयो ऽमी भीषयन्ते ऽग्रकुञ्जैः /
चलितशबरसेनादत्तगोशृङ्गचण्डध्वनिचकितवराहव्याकुला विन्ध्यपादाः ४७.११ (१५८७)
कमलायुधस्य
इमास् ता विन्ध्याद्रेः शुकहरितवंशीवनघना भुवः क्रीडालोलद्विरददशनाभुग्नतरवः /
लताकुञ्जे यासाम् उपनदि रतक्लान्तशबरी- कपोलस्वेदाम्भःकणचयनुदो वान्ति मरुतः ४७.१२ (१५८८)
दक्षस्य
स्निग्धश्यामाः क्वचिद् अपरतो भीषणाभोगरूक्षाः स्थाने स्थाने मुखरककुभो झात्कृतैर् निर्झराणाम् /
एते तीर्थाश्रमगिरिसरिद्गर्तकान्तारमिश्राः संदृश्यन्ते परिचयभुवो दण्डकाविन्ध्यपादाः ४७.१३ (१५८९)
भवभूतेः
निष्कूजस्तिमिताः क्वचित् क्वचिद् अपि प्रोच्चण्डसत्त्वस्वनाः स्वेच्छासुप्तगभीरघोरदुरगाश्वासप्रदीप्ताग्नयः /
सीमानः प्रदरोदरेषु विवरेष्व् अल्पाम्भसो यास्व् अयं तृष्यद्भिः प्रतिसूर्यकैरजगरस्वेदद्रवः पीयते ४७.१४ (१५९०)
दधति कुहरभाजाम् अत्र भल्लूकयूनाम् अनुरसितगुरूणि स्त्यानम् अम्बूकृतानि /
शिशिरकटुकषायः स्त्यायते शल्लकीनाम् इभदलितविकीर्णग्रन्थिनिष्यन्दगन्धः ४७.१५ (१५९१)
भवभूतेर् एतौ
इह समदशकुन्ताक्रान्तवानीरमुक्त- प्रसवसुरभिशीतस्वच्छतोया भवन्ति /
फलभरपरिणामश्यामजम्बूनिकुञ्ज- स्खलनमुखरभूरिस्रोतसो निर्झरिण्यः ४७.१६ (१५९२)
एताः स्थानपरिग्रहेण शिवयोर् अत्यन्तकान्तश्रियः प्रालेयाचलमेखलावनभुवः पुष्णन्ति नेत्रोत्सवम् /
व्यावल्लद्बलवैरिवारणवरप्रत्यग्रदन्ताहति- श्वभ्रप्रस्रवदभ्रसिन्धुसवनप्रस्निग्धदेवद्रुमाः ४७.१७ (१५९३)
- इति पर्वतव्रज्या|| ४७