सुभाषितरत्नकोशः/४ महेश्वरव्रज्या
← ३ मञ्जुघोषव्रज्या | सुभाषितरत्नकोशः ४ महेश्वरव्रज्या विद्याकरः |
५ तद्वर्गव्रज्या → |
ततो महेश्वरव्रज्या || ४
शिल्पं त्रीणि जगन्ति यस्य कविना यस्य त्रिवेदी गुरोर् यश् चक्रे त्रिपुरव्ययं त्रिपथगा यन्मूर्ध्नि माल्यायते /
त्रींल् लोकान् इव वीक्षितुं वहति यो विस्फूर्जदक्ष्णां त्रयं स त्रैगुण्यपरिच्छदो विजयते देवस् त्रिशूलायुधः ४.१ (३०)
वसुकल्पस्य
- गिरो
बाणीभूतपुराणपूरुषधृतिप्रत्याशया धाविते विद्राति स्फुरदाशुशुक्षणिकणक्लान्ते शकुन्तेश्वरे /
नम्रोन्नम्रभुजंगपुङ्गवगुणव्याकृष्टबाणासन- क्षिप्तास्त्रस्य पुरद्रुहो विजयते सन्धानसीमाश्रमः ४.२ (३१)
- विद्राति
- निद्राति
पीयूषद्रवपानदोहदरसव्यग्रोरगग्रामणी- दष्टः पातु शशी महेश्वरशिरोनेपथ्यरत्नाङ्कुरः /
यो बिम्बप्रतिपूरणाय विधृतो निष्पीड्य संदंशिका- यन्त्रे शैवललाटलोचनशिखाज्वालाभिर् आबर्ह्यते ४.३ (३२)
मुरारेर् एतौ
भद्रं चन्द्रकले शिवं सुरनदि श्रेयः कपालावले कल्याणं भुजगेन्द्रवल्लि कुशलं विश्वे शटासन्तते /
इत्य् आहुर् मिलिताः परस्परम् अमूर् यस्मिन् प्रशान्तिं गते कल्पान्तारभटीनटस्य भवतात् तद् वः श्रिये ताण्डवम् ४.४ (३३)
देवि त्वद्वदनोपमानसुहृदाम् एषां सरोजन्मनां पश्य व्योमनि लोहितायति शनैर् एषा दशा वर्तते /
इत्थं संकुचदम्बुजानुकरणव्याजोपनीताञ्जलेः शम्भो वञ्चितपार्वतीकम् उचितं संध्यार्चनं पातु वः ४.५ (३४)
राजशेखरस्य
कस्मात् पार्वति निष्ठुरासि सहजः शैलोद्भवानाम् अयं निःस्नेहासि कथं न भस्मपुरुषः स्नेहं बिभर्ति क्वचित् /
कोपस् ते मयि निष्फलः प्रियतमे स्थाणौ फलं किं भवेद् इत्थं निर्वचनीकृतो गिरिजया शम्भुश् चिरं पातु वः ४.६ (३५)
वपुःप्रादुर्भावाद् अनुमितम् इदं जन्मनि पुरा पुरारे न प्रायः क्वचिद् अपि भवन्तं प्रणतवान् /
नमञ् जन्मन्य् अस्मिन्न् अहम् अतनुर् अग्रे ऽप्य् अनतिभाङ् महेश क्षन्तव्यं तद् इदम् अपराधद्वयम् अपि ४.७ (३६)
किं वाच्यो महिमा महाजलनिधेर् यस्येन्द्रवज्राहतस् त्रस्तो भूभृद् अमज्जद् अम्बुनिचये कौलीलपोताकृतिः /
मैनाको ऽपि गभीरनीरविलुठत्पाठीनपृष्ठोच्चलच् छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ४.८ (३७)
- NB = १२०८ बेलोw!
- विलुठत्पाठीन
/ एमेन्द्, विलुठन् पाठीन
तादृक्सप्तसमुद्रमुद्रितमही भूभृद्भिर् अभ्रंकषैस् तावद्भिः परिवारिता पृथुपृथुद्वीपैः समन्ताद् इयम् /
यस्य स्फारफणामणौ निलयनान् मज्जत्कलङ्काकृतिः शेषः सो ऽप्य् अगमद् यदङ्गदपदं तस्मै नमः शम्भवे ४.९ (३८)
एतौ वल्लणस्य
गाढग्रन्थिप्रफुल्लद्गलविकलफणापीडनिर्यद्विषाग्नि- ज्वालानिस्तप्तचन्द्रद्रवद् अमृतरसप्रोषितप्रेतभावाः /
उज्जृम्भा बभ्रुनेत्रद्युतिम् असकृद् असृक्तृष्णयालोकयन्त्यः पान्तु त्वां नागनालग्रथितशिवशिरःश्रेणयो भैरवस्य ४.१० (३९)
तस्यैव
- फणापीड
/ Iन्गल्ल्स्, फणपीठ
बभ्रुभ्रूश्मश्रुकेशं शिखरम् इव गिरेर् लग्नदावाग्निमालं नेत्रैः पिङ्गोग्रतारैस् त्रिभिर् इव रविभिश् छिद्रितः कालमेघः /
दंष्ट्राचन्द्रप्रभाभिः प्रकटितसुबृहत्तालुपातालमूलं शम्भो वक्त्रं सुवक्त्रत्रितयभयकरं हन्त्व् अघं दक्षिणं वः ४.११ (४०)
- हन्त्वघं
- हन्त्वधं
रक्षोविभीषणस्य
उद्दामदन्तरुचिपल्लवितार्धचन्द्र- ज्योत्स्नानिपीततिमिरप्रसरोपरोधः /
श्रेयांसि वो दिशतु ताण्डवितस्य शम्भो अम्भोधरावलिघनध्वनिर् अट्टहासः ४.१२ (४१)
राजगुरुसंघश्रियः
त्वङ्गद्गङ्गम् उदञ्चदिन्दुशकलं भ्रश्यत्कपालावलि- क्रोडभ्राम्यदमन्दमारुतरयस्फारीभवद्भांकृति /
पायाद् वो घनताण्डवव्यतिकरप्राग्भारखेदस्खलद्- भोगीन्द्रश्लथपिङ्गलोत्कटजटाजूटं शिरो धूर्जटेः ४.१३ (४२)
नखदर्पणसंक्रान्त- प्रतिमादशकान्वितः /
गौरीपादानतः शम्भुर् जयत्य् एकादशः स्वयम् ४.१४ (४३)
चूडापीडकपालसंकुलपतन्मन्दाकिनीवारयो विद्युत्प्रायललाटलोचनपुटज्योतिर्विमिश्रत्विषः /
पान्तु त्वाम् अकठोरकेतकशिखासंदिग्धमुग्धेन्दवो भूतेशस्य भुजङ्गवल्लिवलयस्रङ्नद्धजूटा जटाः ४.१५ (४४)
भवभूतेः
स जयति गाङ्गजलौघः शम्भोर् उत्तुङ्गमौलिविनिविष्टः /
मज्जति पुनर् उन्मज्जति चन्द्रकला यत्र शफरीव ४.१६ (४५)
स वः पायाद् इन्दुर् नवबिसलताकोटिकुटिलः स्मरारेर् यो मूर्ध्नि ज्वलनकपिशे भाति निहितः /
स्रवन्मन्दाकिन्याः प्रतिदिवससिक्तेन पयसा कपालेनोन्मुक्तः स्फटिकधवलेनाङ्कुर इव ४.१७ (४६)
च्युताम् इन्दोर् लेखां रतिकलहभग्नं च वलयं द्वयं चक्रीकृत्य प्रहसितमुखी शैलतनया /
अवोचद् यं पश्येत्य् अवतु स शिवः सा च गिरिजा स च क्रीडाचन्द्रो दशनकिरणापूरिततनुः ४.१८ (४७)
नमस् तुङ्गशिरश्चुम्बि- चन्द्रचामरचारवे /
त्रैलोक्यनगरारम्भ- मूलस्तम्भाय शम्भवे ४.१९ (४८)
क्षिप्तो हस्तावलग्नः प्रसभम् अभिहतो ऽप्य् आददानांशुकान्तं गृह्णन् केशेष्व् अपास्तश् चरणनिपतितो नेक्षितः सम्भ्रमेण /
आलिङ्गन् यो ऽवधूतस् त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः कामीवार्द्रापराधः स हरतु दुरितं शाम्भवो वः शराग्निः ४.२० (४९)
बाणस्य
संध्याताण्डवडम्बरव्यसनिनो भीमस्य चण्डभ्रमि- व्यानृत्यद्भुजदण्डमण्डलभुवो झंझानिलाः पान्तु वः /
येषाम् उच्छलतां जवेन झगिति व्यूहेषु भूमीभृताम् उड्डीनेषु बिडौजसा पुनर् असौ दम्भोलिर् आलोकितः ४.२१ (५०)
केशेषु प्राक् प्रदीपस् त्वचि विकटचटत्कारसारो ऽतिमात्रं मांसे मन्दायमानः क्षरदसृजि सृजन्न् अस्थिषु ष्ठात्कृतानि /
मज्जप्राये ऽङ्गभागे झगिति रतिपतेर् जाज्वलन् प्रज्ज्वलश्रीर् अश्रेयो व्यस्यताद् वस् त्रिनयननयनोपान्तवान्तो हुताशः ४.२२ (५१)
पायात् पार्वणसांध्यताण्डवविधौ यस्योल्लसत्काननो हेमाद्रिः करणाङ्गहारवलनैः सार्धेन्दुर् आन्दोलितः /
धत्ते ऽत्यद्भुतविस्मयेन धरया धूतस्य कान्तत्विषो लोलत्कुन्तलकुण्डलस्य शिरसः शोभां स वो धूर्जटिः ४.२३ (५२)
- सार्केन्दुः इन् ब्
कपाले गम्भीरः कुहरिणि जटासंधिषु कृशः समुत्तालश् चूडाभुजगफणरत्नव्यतिकरे /
मृदुर् लेखाकोणे रयवशविलोलस्य शशिनः पुनीयाद् दीर्घं वो दीर्घं वो हरशिरसि गङ्गाकलकलः ४.२४ (५३)
शान्त्यै वो ऽस्तु कपालदाम जगतां पत्युर् यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति पदशो नातिप्रसिद्धाक्षराम् /
विश्वं स्रक्ष्यति रक्षति क्षितिम् अपाम् ईशिष्यते शिष्यते नागई रागिषु रंस्यते स्यति जगन् निर्वेक्ष्यति द्याम् इति ४.२५ (५४)
- नाति
- नेति
- वक्षति ओर् रक्ष्यति fओर् रक्षति
- अन्द् .अशिष्यते fओर् शिष्यते इन् च्, अन्द् .अत्स्यति fओर् स्यति इन् द्
भोजदेवस्य
ज्वालेवोर्ध्वविसर्पिणी परिणतस्यान्तस् तपस् तेजसो गङ्गातुङ्गतरङ्गसर्पवसतिर् वल्मीकलक्ष्मीर् इव /
संध्येवार्द्रमृणालकोमलतनोर् इन्दोः सहस्थायिनी पायाद् वस् तरुणारुणांशुकपिशा शम्भो जटासंहतिः ४.२६ (५५)
मौलौ वेगाद् उदञ्चत्य् अपि चरणभरन्यञ्चदुर्वीतलत्वाद् अक्षुण्णस्वर्गलोकस्थितिमुदितसुरज्येष्ठगोष्ठीस्तुताय /
संत्रासान् निःसरन्त्याप्य् अविरतविसरद्दक्षिणार्धानुबन्धाद् अत्यक्तायाद्रिपुत्र्या त्रिपुरहरजगत्क्लेशहन्त्रे नमस् ते ४.२७ (५६)
बाणस्य
पर्यङ्काश्लेषबन्धद्विगुणितभुजगग्रन्थिसंवीतजानोर् अन्तःप्राणावरोधाद् उपरतसकलध्यानरुद्धेन्द्रियस्य /
आत्मन्य् आत्मानम् एव व्यपगतकरणं पश्यतस् तत्त्वदृष्ट्या शम्भो वा पातु शून्येक्षणघटितलयब्रह्मलग्नः समाधिः ४.२८ (५७)
- शून्येक्ष्.अन
- शूण्यक्षण
पायाद् बालेन्दुमौलेर् अनवरतभुजावृत्तिवातोर्मिवेग- भ्राम्यद्रुद्रार्कतारागणरचितमहालातचक्रस्य लास्यम् /
न्यञ्चद्भूत्सर्पदग्नि स्खलदखिलगिरि त्वङ्गदुत्तालमौलि स्फूर्जच्चन्द्रांशु निर्यन्नयनरुचि रसज्जाह्नवीनिर्झरं वः ४.२९ (५८)
- बालेन्दु
- वारेन्दु
मातर् जीव किम् एतद् अञ्जलिपुटे तातेन गोपायितं वत्स स्वादु फलं प्रयच्छति न मे गत्वा गृहाण स्वयम् /
मात्रैवं प्रहिते गुहे विघटयत्य् आकृष्य संध्याञ्जलिं शम्भो भग्नसमाधिरुद्धरभसो हासोद्गमः पातु वः ४.३० (५९)
एवं स्थापय सुभ्रु बाहुलतिकाम् एवं कुरु स्थानकं नात्युच्चैर् नम कुञ्चयाग्रचरणौ मां पश्य तावत् क्षणम् /
एवं नर्तयतः स्ववक्त्रमुरजेनाम्भोधरध्वानिना शम्भो वः परिपान्तु नर्तितलयच्छेदाहतास् तालिकाः ४.३१ (६०)
संव्यानांशुकपल्लवेषु तरलं वेणीगुणेषु स्थिरं मन्दं कञ्चुकसन्धिषु स्तनतटोत्सङ्गेषु दीप्तार्चिषम् /
आलोक्य त्रिपुरावरोधनवधूवर्गस्य धूमध्वजं हस्तस्रस्तशरासनो विजयते देवो दयार्द्रेक्षणः ४.३२ (६१)
मयूरस्य
जटागुल्मोत्सङ्गं प्रविशति शशी भस्मगहनं फणीन्द्रो ऽपि स्कन्धाद् अवतरति लीलाञ्चितफणः /
वृषः शाठ्यं कृत्वा विलिखति खुराग्रेण नयनं यदा शम्भुश् चुम्बत्य् अचलदुहितुर् वक्त्रकमलम् ४.३३ (६२)
राजशेखरस्य
नानावेगविनिःसृतत्रिपथगावारिप्रवाहाकुलः शीघ्रभ्रान्तिवशाल् ललाटनयनाकालतपाद् भीषणः /
मुण्डालीकुहरप्रसर्पदनिलास्फालप्रमुक्तध्वनिः प्रावृत्काल इवोदितः शिवशिरोमेघः शिवायास्तु वः ४.३४ (६३)
स पातु विश्वम् अद्यापि यस्य मूर्ध्नि नवः शशी /
गौरीमुखतिरस्कार- लज्जयेव न वर्धते ४.३५ (६४)
धर्मपालस्य
दिग्वासा इति सत्रपं मनसिजद्वेषीति मुग्धस्मितं साश्चर्यं विषमेक्षणो ऽयम् इति च त्रस्तं कपालीति च /
मौलिस्वीकृतजाह्नवीक इति च प्राप्ताभ्यसूयं हरः पार्वत्या सभयं भुजङ्गवलयीत्य् आलोकितः पातु वः ४.३६ (६५)
विनयदेवस्य
फणिनि शिखिग्रहकुपिते शिखिनि च तद्देहवलयिताकुलिते /
अवताद् वो हरगुहयोर् उभयपरित्राणकातरता ४.३७ (६६)
- भय
- मय
जातार्धवर्धनस्य
सिन्दूरश्रीर् ललाटे कनकरसमयः कर्णपार्श्वे ऽवतंसो वक्त्रे ताम्बूलरागः पृथुकुचकलशे कुङ्कुमस्यानुलेपः /
दैत्याधीशाङ्गनानां जघनपरिसरे लाक्षिकक्षौमलक्ष्मीर् अश्रेयांसि क्षिणोति त्रिपुरहरशरोद्गारजन्मानलो वः ४.३८ (६७)
मङ्गलस्य
पायाद् वः सुरजाह्वनीजलरयभ्राम्यज्जटामण्डली- वेगव्याकुलनागनायकफणाफूत्कारवातोच्छलत् /
सप्ताम्भोनिधिजन्मचण्डलहरीमज्जन्नभोमण्डल- त्रासत्रस्तसुराङ्गनाकलकलव्रीडाविलक्षो हरः ४.३९ (६८)
कर्कराजस्य
पुरस्ताद् आनम्रत्रिदशपतिगारुत्मतमणेर् वतंसत्रासार्तेर् अपसरति मौञ्जीफणिपतौ /
पुरारिः संवृण्वन् विगलदुपसंव्यानम् अजिने पुनीताद् वः स्मेरक्षितिधरसुतापाङ्गविषयः ४.४० (६९)
धर्माशोकस्य
जीर्णे ऽप्य् उत्कटकालकूटकवले दग्धे हठान् मन्मथे नीते भासुरभालनेत्रतनुतां कल्पान्तदावानले /
यः शक्त्या समलंकृतो ऽपि शशिनं श्रीशैलजां स्वर्धुनीं धत्ते कौतुकराजनीतिनिपुणः पायात् स वः शंकरः ४.४१ (७०)
कविराजस्य
- इति श्रीमहेश्वरव्रज्या