सुमध्वविजयः/द्वादशः सर्गः
← एकादशः सर्गः | सुमध्वविजयः द्वादशः सर्गः [[लेखकः :|]] |
त्रयोदशः सर्गः → |
द्वादशः सर्गः
तत्रानन्तस्वान्तवेदान्तिसिंहे मुख्यव्याख्यानिस्वने जृम्भमाणे ।
सद्यो माद्यद्वादिदन्तीन्द्रभीमे भेजे क्षोभो मायिगोमायुयूथैः ॥ 12.1॥
सम्भूयामी चोलजद्वीपिपुर्योः पार्श्वे पापा मन्त्रयामासुरुग्राः ।
सासूया भूभूषणे वायुदेवे मूड्हा यद्वद्धार्तराष्ट्रान्तिके प्राक् ॥ 12.2॥
सन्मात्सर्यं बद्धुमूचेऽशुभानां वाचालोलं कोपि गां धारकस्य ।
मध्ये तेषां नीचनीत्या समानो वाचालोऽलं कोऽपि गान्धारकस्य ॥ 12.3॥
एकं तत्वं वष्टि मायामयीयं वाक्यैः प्राच्यैरप्यवाच्यं विधत्ते ।
पूर्वाऽपूर्वा हन्त दौर्घठ्यभूषा चित्रं चित्रं दर्शनाचार्यनीतिः ॥ 12.4॥
मर्त्यामर्त्यामर्त्यविद्विट्पुरोगं विश्वं दृश्यं विप्रचण्डालपूर्वम् ।
भेदापेतं भेदिमानैः समानैः साधीयः कः साधयेत् तामलब्ध्वा ॥ 12.5॥
सत्यं सत्यं व्यावहार्यं विधत्ते सर्वं मोहे सर्वनिर्वाहिणी सा ।
ज्ञाने जाते दग्धवस्त्रप्रतीतं पक्वे तस्मिन्स्तप्तलोहाप्तवार्वत् ॥ 12.6॥
ज्ञानिश्रेष्ठश्रेष्ठविज्ञानिवर्गे नैर्गुण्यस्थे साम्प्रतं नाथभूताः ।
आक्रन्दं मे हन्त शृण्वन्तु सोऽयं हा हा मायावाद उत्सादमेति ॥ 12.7॥
भ्रष्टा भाट्टा न प्रभाकृत्प्रभाभूत् त्रस्ता माहायानिकाद्याश्च यत्र ।
दुर्गं मायावादसत्रं दिधक्षुर्नोपेक्ष्या नस्तत्तववादाग्निजिह्वा ॥ 12.8॥
यं यं प्रापद् भूरिचित्तः प्रदेशं तस्मात् तस्मादागतेरन्तरायः ।
प्रत्यज्ञायि व्यक्तमार्येण सोऽपि प्राप्नोत् पार्श्वं हा वयं भाग्यहीनाः ॥ 12.9॥
प्रश्नः पृष्टः {प्रष्टुः} खण्ड्यते तेन नूनं युक्तां युक्तिं वक्ति चासावखण्ड्याम् ।
वादिव्रातं लज्जयेन्नो विशेषादाक्षेप्तेति श्रूयते किं नु कुर्मः ॥ 12.10॥
प्राच्यं शास्त्रं यत् सपादं तु लक्षं वाक्येनैकेनाक्षिपद्धर्षतीर्थः ।
इत्थं पान्थैर्वर्णितं शृण्वतः प्राग्युष्मान् प्रापद्दूयमानं मनो मे ॥ 12.11॥
वेदव्यासो न्वेष वेदो नु मूर्तो दिव्या मूर्तिर्यस्य सा सुस्मितस्य ।
तद्द्रष्टॄणां चेति वाणी कृपाणी नूनं मायापक्षमूलं छिनत्ति ॥ 12.12॥
अक्लिष्टं तत्सूत्रभाष्यं बलीयो मानोपेतं का क्षतिर्नस्तथा चेत् ।
आस्माकाः केऽप्येवमुक्त्वा विलज्जा लज्जासिन्धौ दुःसहेऽमज्जयन्नः ॥ 12.13॥
तस्य व्याप्तैः शिष्यजालैस्तु गौणैः संसत्सिन्धौ शङ्खचक्रादिभृद्भिः ।
मा गृह्येरन् विश्वसत्तवान्तराणि क्षेमाप्त्यै नस्तत्र नीतिं विधत्त ॥ 12.14॥
गौणैस्तर्कैर्गौणवाक्याभिगुप्तैर्गौणीं बुद्धिं वर्धयन्ते नृणां ते ।
हंसानां नो वाग्विघातप्रवीणाः सिन्धुं भूयो वारिवर्षैरिवाब्दाः ॥ 12.15॥
बाहुल्येन ह्येतदुक्त्वा खलु द्रागेते विश्वं व्याप्नुवन्ति प्रकामम् ।
अस्मिन्नस्मद्दर्शनापायकाले यद्वल्लोकापायकाले लयापः ॥ 12.16॥
आकर्ण्येत्थं तस्य वाणीमथान्यो मानी तेषां मानिनां चित्तवेत्ता ।
स्वानां चेतो नन्दयन् मन्दचेता धृष्टामुच्चैर्वाचमाचष्ट कष्टः ॥ 12.17॥
तेजःशङ्कामात्रतो यद्विलीनं धिग्भीरूणां मानसं मानहीनम् ।
एकान्तेन प्राप्ततेजोविलीनं स्थेयो यस्माद्भाति हैयङ्गवीनम् ॥ 12.18॥
येषां विद्यां साङ्करी शङ्करी नो देवादीनां बाध्यतां साधयन्ती ।
शौक्रीवालं लज्जयेद्देवपूज्यं तेषामेषां सन्निधौ को विषादः ॥ 12.19॥
यद्यद्वैतं कर्कशैर्गौणतर्कै रुद्धं साध्यं नैव भात्यस्तु तावत् ।
षट्कर्मज्ञैर्दिव्यमन्त्रौषधाढ्यैरेतैर्गुप्तान् नो न जेता हि कोऽपि ॥ 12.20॥
यद्यप्येवं न ह्युपेक्ष्यो विपक्षः किन्तु प्राप्तो नाधुनाऽऽक्रन्दकालः ।
अप्यद्वन्द्वस्वात्मबोधप्रतीतैराचार्यैर्यच्छङ्क्यते शङ्कराद्यैः ॥ 12.21॥
पारम्पर्येणागतं तत्तवशास्त्रं हन्तोत्सन्नं नूतनेनेत्युदीर्य ।
तेषां दोषा वर्णनीया विदग्धैः सन्तोऽसन्तो वाऽपि मध्यस्थलोके । 22॥
स्वाभिप्रायो ब्रह्मवत् स्यादवाच्यो मायाशक्त्या सर्वनिर्वाहसिद्धिः ।
इत्थं नीत्या शास्त्रनीत्येव बाध्यः सर्वो लोकः स्वात्मनो यः परः स्यात् ।
ग्रामे ग्रामे वार्यतां माननैषां पूर्वं पूर्वं सामपूर्वैरुपायैः ।
सम्प्राप्तानां मानभङ्गाय कार्यं ग्रन्थाकर्षाद्युद्यतैरस्मदीयैः ॥ 12.24॥
इत्याद्येते कार्यमालोच्य काले चक्रुर्वक्राश्चक्रिभक्तप्रतीपम् ।
योग्या मङ्क्तुं तेऽन्यथा स्युः कथं वा दुःखोग्राम्भस्यन्धतामिस्रसिन्धौ ॥ 12.25॥
व्रत्याकारं वासुदेवद्विषं तं प्राज्ञंमन्यं पुण्डरीकाभिधानम् ।
वादव्याजात् क्षेपकामाः कुमन्त्राच्चक्रुर्यत्नं रूप्यपीठालयेऽमी ॥ 12.26॥
यद्वत् सिंहं ग्रामसिंहोऽशुचीच्छो हंसं {हञ्च्छुर्हं} काको यद्वदेवैकदृष्टिः ।
यद्वन्मायी भूरिमायुस्तरक्षुं तद्वद्विद्वद्वर्यमाह्वास्त मूड्हः ॥ 12.27॥
अप्यल्पोऽसौ नह्युपेक्षाम्बभूवे लोलात्मेवादक्षपक्षः पतङ्गः ।
मध्वेनाहो दुस्तरेण स्वभावात् तेजोराशी {तेजोराजी} राजितेनाग्निनेव ॥ 12.28॥
मानैर्मान्यैर्भासमानोऽसमानैराक्षिप्यैनं स्वं मतं साधयित्वा ।
प्रीत्यैर्विष्णोरुत्तमप्रीतितीर्थो वेदव्याख्यां वेदवेदी चकार ॥ 12.29॥
आम्नायं ये पेठुराम्नायपूर्वं प्राप्ता विप्रास्तत्र कौतूहलेन ।
पर्यासीनास्तावदाचार्यवर्यं प्रेक्ष्यं प्रेक्षाञ्चक्रिरेऽनेकसङ्ख्याः ॥ 12.30॥
उक्तांङ्गेभ्यः कादिकान् व्यञ्जयन्तं तत्तन्मात्राव्यञ्जनादौ प्रवीणम् ।
तिस्रोऽवस्थास्तद्गुणैर्भावयन्तं देवा दृष्ट्वा व्यस्मरन् {ह्यस्मरन्} देवदेवम् ॥ 12.31॥
आदौ ह्रस्वत्वेन वत्सानुवृत्तया मात्रापादौ वर्तयन् दृश्यमानः ।
कुर्वन्नन्याश्चाग्र्यरूपा विवृत्तीर्गोविन्दश्रीरास गोविन्दभक्तः ॥ 12.32॥
माङ्गल्याङ्गव्यक्तभावा त्रिलोकीं {त्रिलोकी} रङ्गारूड्हा विस्मयं प्रापयन्ती ।
कृष्णेवान्या मान्यविन्यासपादा रेजे माध्वी सुस्वरा वेदवाणी ॥ 12.33॥
गाम्भीर्याद्यैर्युक्तमौदार्यकार्यैर्नानानादश्लाध्यमुच्चारणं तत् ।
शिक्षाशिक्षालक्षणानां हि लक्ष्यं मान्यं मन्ये धन्यबुद्धेरतुल्यम् ॥ 12.34॥
काल्पीः क्ळ्^इप्तीर्व्यञ्जयञ्छान्दसीश्च व्यक्तं शाब्दं शास्त्रमुद्भाव्य भूयः ।
स व्याचख्यावुक्तनैरुक्तमार्गो ज्यायान् ज्योतिर्वेदिनां वेदमित्थम् ॥ 12.35॥
श्रौते व्याख्योच्चारणे चारुणी ते मादृग्देही वर्णयेदस्य को नु ।
वागीशानैर्वाग्विहङ्गेशजीवैर्भूर्याश्चर्यैर्वर्णिते ये प्रणम्य ॥ 12.36॥
छन्दःसार्थं सार्थमत्रामुनेत्थं प्रोक्तं श्रुत्वा ब्राह्मणा ब्रह्मणेव ।
सर्वे सौम्या जिष्णुजिज्ञासयाऽमी प्राप्य प्रोचुश्चित्रकायाभिधानम् ॥ 12.37॥
प्राज्यप्रज्ञः प्राज्यया प्रज्ञयाऽसौ हन्तावोचन्मन्त्रवर्णाभिधेयम् ।
तत्प्रत्यर्थी प्रार्थ्यते वक्तुमेतत् प्राज्ञास्माभिः श्रोतुकामैर्भवांश्च ॥ 12.38॥
इत्युक्तस्तैरेष विस्तारिबुद्धेः प्राप्तुं साम्यं सम्प्रवृत्तो दुरात्मा ।
हास्योऽत्राभूद्वासुदेवप्रभार्थीं यद्वत् पूर्वं पौण्ड्रको वासुदेवः ॥ 12.39॥
आङ्आदेशादुत्तरं रादिशब्दं श्रुत्वा नारेत्युक्तवन्तं पदं तम् ।
व्याख्यालौल्यादैतरेयादिसूक्ते पृथ्वीदेवा निन्दनीयं निनिन्दुः ॥ 12.40॥
शार्दूलाख्यां प्राप्य सम्भावितः प्राक् लोके धूर्तो मायिगोमायुरेषः ।
वादिद्वीपिध्वंसिनं मध्वसिंहं प्राप्तो हीत्थं शब्दशेषो बभूव ॥ 12.41॥
कृष्णाभीष्टा शास्त्रविस्पष्टसञ्ज्ञा या स्वीया श्रीः पालिता सद्द्विजेन ।
पद्माख्यासत्सैन्धवेनाहृतां तां शुश्रावाग्र्यानन्दतीर्थाख्यपार्थः ॥ 12.42॥
तूर्णं तीर्णादभ्रमार्गोऽथ सार्यः सम्प्राप्तोऽसौ गोगणैर्भीषयित्वा ।
संयम्यान्तर्यन्तृकामेन हास्यं सम्प्राप्तश्रीर्निर्जितं तं जहास ॥ 12.43॥
दुष्टात्माऽसौ भद्रमेकाकिनं यः क्षेप्तुं हेतुः सौख्यदाख्यं बभूव ।
हर्यंशोऽयं तं न चक्षाम भूयस्तोके सन्ने सूकरं केसरीव ॥ 12.44॥
तस्य त्रासात् पृष्ठतस्तिष्टतोऽभूत् क्षेमापेक्षी यो जनः प्राग्जितोऽपि ।
मध्येऽन्येषां गोततीस्तत्प्रयुक्ताः सोऽद्यज्जिष्णुः पञ्चषैर्गोविशेषैः ॥ 12.45॥
विष्णोर्भूयः शोभयद्भिः पदान्तं पारम्पर्येणेर्यमाणैरवार्यैः ।
गोव्रातैस्तं दारयित्वा न्यगृह्णात् कञ्जाख्यानं सिन्धुपं मध्वपार्थः ॥ 12.46॥
आस्तामास्तामेष वो विश्वमोषो रे रे मायावादिचोरा द्रवेत ।
द्रष्टा द्रष्टा निग्रहीता ध्रुवं वः प्राप्तः कालो द्राग्गुहान्तं प्रवेष्टुम् ॥ 12.47॥
तेजोविद्वच्चक्रचन्द्रस्य लीनं विध्वस्तालं वादिनक्षत्रलक्ष्मीः ।
विश्वव्याप्तं यत्तु तद्दीप्तिमूलं युष्मत्प्रेष्ठं तन्निरस्तं तमश्च ॥ 12.48॥
पूर्वाशामापूर्य विश्वप्रकाशी गोसन्दोहैः सप्तविद्याख्यवाहः ।
युष्माभिः किं नैक्षि देदीप्यतेऽसौ देवः साक्षात्सर्ववित् सर्वदीपः ॥ 12.49॥
सर्वाधारं ब्रह्मसञ्ज्ञं विहायो रम्याकारं शारदेन्दीवराभम् ।
सन्निर्णीतं गुण्यलं शब्दभेदैर्मध्वादित्यं संश्रितं कोऽपि धत्ते ॥ 12.50॥
विधावत विधावत त्वरितमत्रिवादासुरा
अदभ्रधिषणाभिधो नरहरिर्हि जाज्वल्यते ।
स युक्तिनखरैः खरैर्मुखरमूर्खदुःखाङ्कुरै
र्विदारयति दारुणप्रवचनप्रणादोऽप्रियान् ॥ 12.51॥
धत्ते रूपाण्यनन्तान्यपि भुवनपतेर्यो हृदाऽप्येकपक्षो
दक्षः सद्भ्योऽखिलेभ्योऽप्यमृतमिह ददौ केवलं यो न मात्रे ।
पक्षिश्रेष्ठोऽपरः सन्नमितमतिपदोऽसम्पदे स्यादयं वो
मा दर्पं मायिसर्पा भजत भजत तास्ता गुहा द्राग्द्विजिह्वाः ॥ 12.52॥
वेदव्रातसुदर्शनः परिलसत्तर्काख्यशङ्खध्वनि
र्विभ्राजिष्णुपुराणसंहतिगदः श्लोकौघशार्ङ्गान्वितः ।
सत्सूत्रेष्वितिहासनन्दकचणो मध्वाख्यनारायणः
प्राप्तो वो निजिघृक्षया द्रवत हे मायाविदेवद्विषः ॥ 12.53॥
एजेच्त्
इति निगदति मायावादिविद्वेषवेषे
शुभजननिकरे स्वारामतोऽस्मात् प्रयातः ।
न्यवसदमरधिष्ण्ये प्राग्र्यवाटाभिधाने
गुरुमतिरभिनन्दन् देवमानन्दमूर्तिम् ॥ 12.54॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के द्वादशः सर्गः