← अष्ठमः सर्गः सुमध्वविजयः
नवमः सर्गः
[[लेखकः :|]]
दशमः सर्गः →

नवमः सर्गः

चोदयन्तमथ गन्तुमादरात्‌ तत्र धर्मजमजं प्रणम्य सः ।
सौख्यतीर्थकविलोकनायको वेदनायकपुरःसरो ययौ ॥ 9.1॥

आश्रमान्तरमवाप्य कृष्णतः श्राव्यमेष सकलं च शुश्रुवान्‌ ।
चित्तवृत्तिमनुवृत्तिमान्‌ गुरोः साध्ववेत्य गमनोन्मुखोऽभवत्‌ ॥ 9.2॥

मन्दहासमृदुसुन्दराननं वन्दनीयमभिवन्द्य सत्पतिम्‌ ।
प्राज्ञमौलिमणिरभ्यनुज्ञया तस्य तावदगमन्महामतिः ॥ 9.3॥

तस्य वल्लभतमाऽऽस वासभूर्मानसात्‌ पृथुलमानसस्य नो ।
नात्यजत्‌ क्षणमपि ह्यसाविदं नैष नाथविरही ततोऽभवत्‌ ॥ 9.4॥

वीरदृष्टिकृतसिंहविभ्रमः शान्तदृष्टिकृतशान्तसम्मदः ।
तत्र तत्र पथि पथ्यविभ्रमः पर्वतादवततार सर्वधीः ॥ 9.5॥

वानरेन्द्र इव तीर्णवारिधिर्वासुदेव इव रत्नराजवान्‌ ।
भीमसेन इव सूनवर्यहृन्निर्वृतिं स्वजनमानिनाय सः ॥ 9.6॥

अग्निशर्ममुखपञ्चषैर्द्विजैरन्नमाहृतमलं पृथक्‌ समम्‌ ।
कृत्स्नमाददयमित्यविस्मयः कृत्स्नमत्तुमलमेष हि क्षये ॥ 9.7॥

व्यासदेवहृदयातिवल्लभं वासुदेवमगणेयसद्गुणम्‌ {अगणय्यसद्गुणम्‌} ।
साधयत्‌ सकलदोषवर्जितं ज्ञानभक्तिदमनन्तसौख्यदम्‌ ॥ 9.8॥

उक्तमुक्तमभिधेयमुत्तमं वेदवाक्यमनुवादयन्‌ मुहुः ।
व्यञ्जयत्‌ स्मृतिवचोभिरञ्जसा तस्य चार्थमतियुक्तयुक्तिमत्‌ ॥ 9.9॥

बालसङ्घमपि बोधयद्‌ भृशं दुर्निरूपवचनं च पण्डितैः ।
अप्रमेयहृदयं प्रसादवत्‌ सौम्यकान्ति च विपक्षभीषणम्‌ ॥ 9.10॥

अस्तदूषणमवन्ध्यभाषणं लक्षितं सकललक्षणैः समम्‌ ।
माननीयमपि नाकिनायकै रूपमन्यदिव धन्यमात्मनः ॥ 9.11॥

एकविंशतिकुभाष्यदूषकं ब्रह्मसूत्रगणभाष्यमद्‌भुतम्‌ ।
अप्यदूष्यमतनोदनन्तधीर्भूतभाविभवदात्मभिः क्वचित्‌ ॥ 9.12॥

गाङ्गमङ्गलतरङ्गभङ्गदप्रान्तसुश्रिहरिवेश्मकृत्समः ।
यद्गतैकतमवर्णलेखकः सत्यतीर्थ इह भाष्यमालिखत्‌ ॥ 9.13॥

तत्र देवमभिवन्द्य यातवान्‌ स्वामिनो वचनगौरवाद्‌ द्रुतम्‌ ।
सानुगो विविधभूरतीत्य गोदावरीतटमगादलेशधीः ॥ 9.14॥

प्राज्ञवित्तमयमाप्तुमागतैः पण्डितैर्द्विनवशाखिभिः श्रुतीः ।
प्रस्तुता अभिदधौ परीक्षकैः षट्‌ च तत्र समयानखण्डयत्‌ ॥ 9.15॥

ते पृथक्‌ पृथगमुं स्वशाखया दर्शनेन च परीक्ष्य निर्जिताः ।
सर्ववित्‌ त्वमसि मुख्यतः कवे नास्ति ते सदृश इत्यथाब्रुवन्‌ ॥ 9.16॥

यस्त्रयीसकलपक्षशिक्षकस्तत्र संसदि वरिष्ठसम्मतः ।
शोभनोपपदभट्टनामकः पूर्णसङ्ख्यमनमन्मुहुर्मुदा ॥ 9.17॥

यस्तु तार्किकशिखामणिः सुधीर्वर्तमानसमयान्‌ निराकरोत्‌ ।
वेदभारतपुराणनिष्ठितो भाष्यमेतदशृणोत्‌ स मध्वतः ॥ 9.18॥

नापरेषु रतिमाययौ क्वचिद्भाष्यमद्‌भुतमिदं स शुश्रुवान्‌ ।
नारविन्दमकरन्दमाप्तवानच्छपिच्छ इव वाञ्छतीतरत्‌ ॥ 9.19॥

तत्र तत्र सुसभासु {ससभासु} भासुरो नन्दितीर्थसमयोक्तयुक्तिभिः ।
वादिनो विशकलय्य तान्‌ समाक्रम्य वाचमुचितामुदाहरत्‌ ॥ 9.20॥

चूर्णकृद्विविधशङ्खचूर्णकश्चूर्णनाय बहुधाऽप्यशक्नुवन्‌ ।
अत्यजद्विफलधीः प्रदक्षिणावर्तवारिजमनर्घ्यमप्यहो ॥ 9.21॥

अप्रमेयमतिशास्त्रमीदृशं यस्त्यजत्युपनतं सुदुर्लभम्‌ ।
तस्य तुल्यमतिरेष दुर्जनो नाथवाऽस्य सदृशोऽस्ति नीचधीः ॥ 9.22॥

कोऽपि तं गुणविशेषविच्च विक्रीय भूरिधनमाप पूरुषः ।
न ह्यनर्घ्यगुणमूल्यमाप्यते भाग्यदैवमिह योग्यतानुगम्‌ ॥ 9.23॥

व्यक्तमुन्नतिमितोऽप्ययं जनस्तस्य यन्न लभतेऽखिलं फलम्‌ ।
स्तोकमानसतया ततो व्रजेत्‌ तस्य हन्त पुरुषस्य तुल्यताम्‌ ॥ 9.24॥

क्रीतवान्‌ नरपतिर्महादरं सादरं पुनरुदारचेष्टितः ।
अर्चयन्‌ सततमाप सम्पदो या न ता वचनचित्तगोचराः ॥ 9.25॥

शास्त्रकल्पकतरोरमुष्य कः प्राप्नुयात्‌ सकलमप्यहो फलम्‌ ।
यस्तमुत्तमगुणं विडम्बयेदित्युदीर्य स जनानरञ्जयत्‌ ॥ 9.26॥

नेदृशैः कविभिरेव केवलं हन्त पूज्यचरणोऽभ्यपूज्यत ।
शर्वशक्रगुरुपूर्वदैवतैरप्यलं सुसमयोद्गमोत्सवे ॥ 9.27॥

निम्नभूरिव सतीः प्रजा व्रजन्‌ वारिदर्तुरशनैरपूरि सः ।
प्राज्यतापहरदर्शनाम्बुना तुङ्गदेशमिव दुर्जनं तु नो ॥ 9.28॥

कर्मभिः सकललोककौतुकैर्मानितः पथि जनैः समागतः
सन्ननाम शिवनामकीर्तनं राजतासनपुरे विराजितम्‌ ॥ 9.29॥

अच्युतप्रमतिरच्युतप्रियं तं दशप्रमतिमागतं तदा ।
वन्दमानमवलोक्य यां मुदं प्राप्तवांस्तदवधिर्न विद्यते ॥ 9.30॥

प्रीतिमार्ययतिरुत्तमां पुरा प्रेषिताप्रतिमभाष्यदृग्ययौ ।
अप्यतोऽतिशयिनीं शुचिस्मितं तं विलोक्य सुचिराद्दिदृक्षितम्‌ ॥ 9.31॥

पूर्णदृष्टिजलधेर्गृहीतवान्‌ भाष्यसञ्ज्ञममृतं सुखावहम्‌ ।
चित्रमेष यतिराड्‌ घनाघनो ग्राहयंश्च मनुजान्‌ मुमोच नो ॥ 9.32॥

सानुनीतिरथ नीतिमानयं भाष्यसद्गुणगणानवर्णयत्‌ ।
शोभनाय गुरवे स्वभावतः कालतः कुमतलीनबुद्धये ॥ 9.33॥

उक्तिभिस्तमसकृत्‌ सुयुक्तिभिर्बोधयन्‌ बहुलधीः प्रसङ्गतः ।
स्थेयसो भिषगिवास्य हृद्गतं मूलदोषमरुचेरचिन्तयत्‌ ॥ 9.34॥

दक्षपक्षविहृतेन ताडयन्‌ भीषयन्‌ समधिकस्वरश्रिया ।
हंसराट्‌ कलिमलं निराकरोदेकदृष्ठिमिव मानसाद्‌ गुरोः ॥ 9.35॥

निष्कलङ्कमिव चन्द्रमण्डलं पुण्डरीकमिव फुल्लतां गतम्‌ ।
वारि शारदमिव प्रसादवच्चित्तमच्युतमतेभ्रुशं बभौ ॥ 9.36॥

आननन्द स हि मध्वशास्त्रमाकर्णयन्‌ कुसमयाग्रही पुरा ।
मोहपीतलवणोदको मुहुः प्राक्‌ पिपासुरमृतं पिबन्निव ॥ 9.37॥

विस्तृतान्तरवियत्पदौ यती आस्यतां सुसमयप्रकाशनात्‌ ।
तौ यथा विधुरवी अहो अहोरात्रमप्युरुतमो नृमोहकम्‌ ॥ 9.38॥

सज्जनान्‌ सह महादरेण नॄन्‌ पापिनां प्रकृतितोऽप्रियाकृति ।
दारुणाघगणदारणं स्म स ग्राहयत्यपि सुदर्शनद्वयम्‌ ॥ 9.39॥

नन्वनन्यशरणात्मनां सतां सिद्धिविघ्नमुखदोषभेषजम्‌ ।
ऐच्छदच्छलदयोदयादयं रूप्यपीठपुरगः कदाचन ॥ 9.40॥

गोपिकाप्रणयिनः श्रियः पतेराकृतिं दशमतिः शिलामयीम्‌ ।
शिष्यकैस्त्रिचतुरैर्जलाशये शोधयन्निह ततो व्यगाहयत्‌ ॥ 9.41॥

स्पर्शनाद्भगवतोऽतिपावनात्‌ सन्निधानपदतां गतां हरेः ।
त्रिंशदुद्यतनरैः सुदुर्धरां लीलयाऽनयदिमामसौ मठम्‌ ॥ 9.42॥

मन्दहासमृदुसुन्दराननं नन्दनन्दनमतीन्द्रियाकृतिम्‌ ।
सुन्दरं स इह सन्नयधापयद्वन्द्यमाकृति शुचिप्रतिष्ठया ॥ 9.43॥

मानिनोऽपि हि वशीचकार यो दैवतप्रतिभयाऽऽत्मनः खलः ।
यायजूकगुणमात्मनः स्मरन्‌ यो जराघटितगोत्र उच्यते ॥ 9.44॥

आत्मनः प्रियतमक्रतोरमुं पापपूरुषमवेक्ष्य घातुकम्‌ ।
तं निरस्य जनमप्यथाहितं सर्वभूधरसमर्थपूर्वकम्‌ ॥ 9.45॥

विश्वविस्मयकरः स्वतेजसा वन्द्यमानचरणः पुनर्जनैः ।
चित्रदिग्विजयकीर्त्यकीर्तिमान्‌ मोदयन्ननुदिनं निजाः प्रजाः ॥ 9.46॥

वासुदेवदयितो महिष्ठधीर्वासुदेवमथ साध्वयाजयत्‌ ।
धर्मसूनुमिव धार्मिकं पुरा भीममूर्तिरयमेव भूसुरम्‌ ॥ 9.47॥

याज्यया समुचितानुवाक्यया सप्रवर्ग्यविभवैरभिष्टवैः ।
विश्ववेत्तुरनुजोऽत्र होतृतां प्राप्य दैवतततीरतोषयत्‌ ॥ 9.48॥

स प्रयुज्य निशिता निशातधीर्वैश्वदेववरशस्त्रसन्ततीः ।
राक्षसासुरनिरासकृत्‌ सुरान्‌ वीरवर्य इव भागमापयत्‌ ॥ 9.49॥

वायुना त्रिरपि पूर्वपायिना सर्वदैवतजिता तरस्विना ।
योऽपरोक्षवपुषाऽप्यपेक्षितः कोऽत्र वर्णयति तं महाक्रतुम्‌ ॥ 9.50॥

ब्रह्मवेदननिविष्टचेतसां कर्म तत्र करणान्तरं भवेत्‌ ।
ज्ञापयन्निति परात्मवेदकः कर्म धर्ममपि स ह्यचीकरत्‌ ॥ 9.51॥

यानि यानि चरितानि यानि यानीरितानि च मनोहराण्यहो ।
तानि तानि च वितानचेतसो विश्वविस्मयकराणि भान्ति हि । 52॥

सरस्वतीर्वृत्तिकरीः शरीरिणामतीत्य बह्वीः समतीतगोत्रकः ।
पुरेव कृष्णप्रियमापदश्रमं पृथुप्रबोधः पुनरुत्तमाश्रमम्‌ ॥ 9.53॥

सहभोगमनन्यलभ्यमस्मै हनुमद्रूपवते ददौ पुरा हि ।
अनवेक्ष्य परं स्वभीष्टकर्त्रे प्रतिदातुं हरिरैधयत्‌ तमेव ॥ 9.54॥

प्रणम्य गुरुमादरादथ नियोगतो योग्यतः
स तस्य जगतां हितं विदधतो गतः सानुगः ।
महिष्ठहृदयो महामहिमसिन्धुरानन्दतो
निजैरभिगतोऽनमद्रजतपीठवासं हरिम्‌ ॥ 9.55॥

इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के नवमः सर्गः