सुमध्वविजयः/प्रथमः सर्गः
सुमध्वविजयः प्रथमः सर्गः [[लेखकः :|]] |
द्वितीयः सर्गः → |
॥ श्रीः॥
सुमध्वविजयः
प्रथमः सर्गः
कान्ताय कल्याणगुणैकधाम्ने नवद्युनाथप्रतिमप्रभाय ।
नारायणायाखिलकारणाय श्रीप्राणनाथाय नमस्करोमि ॥ 1.1॥
अनाकुलं गोकुलमुल्ललास यत्पालितं नित्यमनाविलात्म ।
तस्मै नमो नीरदनीलभासे कृष्णाय कृष्णारमणप्रियाय ॥ 1.2॥
अपि त्रिलोक्या बहिरुल्लसन्ती तमोहरन्ती मुहुरान्तरं च ।
दिश्याद्दृशं नो विशदां जयन्ती मध्वस्य कीर्तिर्दिननाथदीप्तिम् ॥ 1.3॥
तमोनुदाऽऽनन्दमवाप लोकस्तत्तवप्रदीपाकृतिगोगणेन ।
यदास्यशीतांशुभुवा गुरूंस्तांस्त्रिविक्रमार्यान् प्रणमामि वर्यान् ॥ 1.4॥
मुकुन्दभक्त्यै गुरुभक्तिजायै सतां प्रसत्तयै च निरन्तरायै ।
गरीयसीं विश्वगुरोर्विशुद्धां वक्ष्यामि वायोरवतारलीलाम् ॥ 1.5॥
तां मन्त्रवर्णैरनुवर्णनीयां शर्वेन्द्रपूर्वैरपि वक्तुकामे ।
सङ्क्षिप्नुवाक्ये मयि मन्दबुद्धौ सन्तो गुणाढ्याः करुणां क्रियासुः ॥ 1.6॥
उच्चावचा येन समस्तचेष्टाः किं तत्र चित्रं चरितं निवेद्यम् ।
किन्तूत्तमश्लोकशिखामणीनां मनोविशुद्ध्यै चरितानुवादः ॥ 1.7॥
मालाकृतस्तच्चरिताख्यरत्नैरसूक्ष्मदृष्टेः सकुतूहलस्य {सुकुतूहलस्य} ।
पूर्वापरीकारमथापरं वा क्षाम्यन्तु मे हन्त मुहुर्महान्तः ॥ 1.8॥
श्रीवल्लभाज्ञां ससुरेन्द्रयाञ्चां सम्भाव्य सम्भाव्यतमां त्रिलोक्याम् ।
प्राणेश्वरः प्राणिगणप्रणेता गुरुः सतां केसरिणो गृहेऽभूत् ॥ 1.9॥
ये ये गुणा नाम जगत्प्रसिद्धा यं तेषु तेषु स्म निदर्शयन्ति ।
साक्षान्महाभागवतप्रबर्हं श्रीमन्तमेनं हनुमन्तमाहुः ॥ 1.10॥
कर्माणि कुर्वन् परमाद्भुतानि सभासु दैवीषु सभाजितानि ।
सुग्रीवमित्रं सजगत्पवित्रं रमापतिं रामतनुं ददर्श ॥ 1.11॥
पादारविन्दप्रणतो हरीन्द्रस्तदा महाभक्तिभराभिनुन्नः ।
अग्राहि पद्मोदरसुन्दराभ्यां दोर्भ्यां पुराणेन स पूरुषेण ॥ 1.12॥
अदार्यसालावलिदारणेन व्यापादितेन्द्रप्रभवेन तेन ।
प्राद्योतनिप्रीतिकृता निकामं मधुद्विषा सन्दिदिशे स वीरः ॥ 1.13॥
कर्णान्तमानीय गुणग्रहीत्रा रामेण मुक्तो रण कोविदेन ।
स्फुरन्नसौ वैरिभयङ्करोऽभूत्सत्पक्षपाती प्रदरो यथाऽग्र्यः ॥ 1.14॥
गोभिः समानन्दितरूपसीतः स्ववह्निनिर्दग्धपलाशिराशिः ।
अहो हनूमन्नववारिदोऽसौ तीर्णाम्बुधिर्विष्णुपदे ननाम ॥ 1.15॥
अपक्षपाती पुरुषस्त्रिलोक्यामभोगभोक्ता पतगाधिराजम् ।
विश्वम्भरं बिभ्रदसौ जिगाय त्वरापराक्रान्तिषु चित्रमेतत् ॥ 1.16॥
निबद्ध्य सेतुं रघुवंशकेतु भ्रूभङ्गसम्भ्रान्तपयोधिमध्ये ।
मुष्टिप्रहारं दशकाय सीता सन्तर्जनाग्र्योत्तरमेषकोऽदात् ॥ 1.17॥
जाज्वल्यमानोज्जवलराघवाग्नौ चक्रे स सुग्रीवसुयायजूके ।
आध्वर्यवं युद्धमखे प्रतिप्रस्थात्रा सुमित्रातनयेन साकम् ॥ 1.18॥
रामार्चने यो नयतः प्रसूनं द्वाभ्यां कराभ्यामभवत्प्रयत्नः ।
एकेन दोष्णा नयतो गिरीन्द्रं सञ्जीवनाद्याश्रयमस्य नाभूत् ॥ 1.19॥
स दारितारिं परमं पुमांसं समन्वयासीन्नरदेवपुत्र्या ।
वह्निप्रवेशाधिगतात्मशुद्ध्या विराजितं काञ्चनमालयेव ॥ 1.20॥
श्यामं स्मितास्यं पृथुदीर्घहस्तं सरोजनेत्रं गजराजयात्रम् ।
वपुर्जगन्मङ्गलमेष दृग्भ्यां चिरादयोध्याधिपतेः सिषेवे ॥ 1.21॥
राज्याभिषेकेऽवसितेऽत्र सीता प्रेष्ठाय नस्तां भजतां दिशेति ।
रामस्य वाण्या मणिमञ्जुमालाव्याजेन दीर्घां करुणां बबन्ध ॥ 1.22॥
हृदोरुसौहार्दभृताऽधिमौलिन्यस्तेन हस्तेन दयार्द्रदृष्ट्या ।
सेवाप्रसन्नोऽमृतकल्पवाचा दिदेश देवः सहभोगमस्मै ॥ 1.23॥
प्रेष्ठो न रामस्य बभूव तस्मान् न रामराज्येऽसुलभं च किञ्चित् ।
तत्पादसेवारतिरेष नैच्छत् तथापि भोगान्ननु सा विरक्तिः ॥ 1.24॥
नमो नमो नाथ नमो नमस्ते नमो नमो राम नमो नमस्ते ।
पुनःपुनस्ते चरणारविन्दं नमामि नाथेति नमन् स रेमे ॥ 1.25॥
किं वर्णयामः परमं प्रसादं सीतापतेस्तत्र हरिप्रबर्हे ।
मुञ्चन्महीं नित्यनिषेवणार्थं स्वात्मानमेवैष ददौ यदस्मै ॥ 1.26॥
स्वानन्दहेतौ भजतां जनानां मग्नः सदा रामकथासुधायाम् ।
असाविदानीं च निषेवमाणो रामं पतिं किम्पुरुषे किलास्ते ॥ 1.27॥
तस्यैव वायोरवतारमेनं सन्तो द्वितीयं प्रवदन्ति भीमम् ।
स्पृष्ट्यैव यं प्रीतिमताऽनिलेन नरेन्द्रकान्ता सुषुवेऽत्र कुन्ती ॥ 1.28॥
इन्द्रायुधं हीन्द्रकराभिनुन्नं चिच्छेद पक्षान् क्षितिधारिणां प्राक् ।
बिभेद भूभृद्वपुरङ्गसङ्गाच्चित्रं स पन्नो जननीकराग्रात् ॥ 1.29॥
पुरे कुमारनलसान्विहारान् निरीक्ष्य सर्वानपि मन्दलीलः ।
कैशोरलीलां हतसिम्हसङ्घां वने प्रवृत्तां स्मरति स्म सूत्कः ॥ 1.30॥
भुक्तं च जीर्णं परिपन्थिदत्तं विषं विषण्णो विषभृद्गुणोऽतः ।
प्रमाणकोटेः स हि हेलयाऽगान्नेदं जगज्जीवनदेऽत्र चित्रम् ॥ 1.31॥
दग्ध्वा पुरं योगबलात् स निर्यन्धर्मानिव स्वान् सहजान् दधानः ।
अदारिभावेन जगत् सुपूज्यो योगीव नारायणमाससाद ॥ 1.32॥
समर्प्य कृत्यानि कृती कृतानि व्यासाय भूम्ने सुकृतानि तावत् ।
करिष्यमाणानि च तस्य पूजां सङ्कल्पयामास स शुद्धबुद्धिः ॥ 1.33॥
विष्णोः पदश्रिद्बकसङ्निरासी क्षिप्तान्यपक्षिप्रकरः सुपक्षः ।
ससोदरोऽथादित राजहंसः स राजहंसीमिव राजकन्याम् ॥ 1.34॥
इन्दीवरश्रीजयसुन्दराभं स्मेराननेन्दुं दयितं मुकुन्दम् ।
स्वमातुलेयं कमलायताक्षं समभ्यनन्दत्सुचिराय भीमः ॥ 1.35॥
महागदं चण्डरणं पृथिव्यां बार्हद्रथं मङ्क्षु निरस्य वीरः ।
राजानमत्युज्जवलराज्सूयं चकार गोविन्दसुरेन्द्रजाभ्याम् ॥ 1.36॥
दुःशासनेनाकुलितान् प्रियायाः सूक्ष्मानरालानसितांश्च केशान् ।
जिघंसया वैरिजनस्य तीक्ष्णः स कृष्णसर्पानिव सञ्चिकाय ॥ 1.37॥
जाज्वल्यमानस्य वने वनेऽलं दिधक्षतः पार्थिवसार्थमुग्रम् ।
सत्तवानि पुंसां भयदानि नाशं वृकोदराग्नेर्गुरुतेजसाऽऽपुः ॥ 1.38॥
भोगाधिकाभोगवतोऽरुणाक्षानितस्ततः सञ्चलतो धरेन्द्रे ।
बहून्द्विजिह्वान् मणिमत्पुरोगान् असौ कटून् क्रोधवशान् जघान ॥ 1.39॥
अथैष वेषान्तरभस्मलीनः क्रमेण वायुप्रभवः सुतेजाः ।
रुद्धाखिलाशं मुखरं प्रचण्डं भस्मीचकाराखिलकीचकौघम् ॥ 1.40॥
स कृष्णवर्त्मा विजयेन युक्तो मुहुर्महाहेतिधरोऽप्रधृष्यः ।
भीष्मद्विजाद्यैरतिभीषणाभं विपक्षकक्षं क्षपयन् विरेजे ॥ 1.41॥
तरस्विनः प्रोच्चलितानधीरान् निर्दग्धपक्षानतितीक्ष्णकोपान् ।
स धार्तराष्ट्रान् बहुहेतिलीलो विनाश्य विश्वान् परया श्रियाऽभात् ॥ 1.42॥
कृष्णाङ्घ्रिपङ्केरुहभृङ्गराजः कृष्णामुखाम्भोरुहहंसराजः ।
प्रजासरोजावलिरश्मिराजः ससोदरोऽराजत वीरराजः ॥ 1.43॥
पौत्रे पवित्राह्वयजामिपौत्रे धरां निधायासुरधीषु तापम् ।
कीर्तिं त्रिलोक्यां हृदये मुकुन्दं भेजे पदं स्वं सहजैः स भीमः ॥ 1.44॥
विष्णोः पदान्तं भजताऽनिलेन घोरप्रघातैरिति नाशितास्ते ।
रसोज्जहिताश्चञ्चलवृत्तयोऽलं शोभां न भेजुः सुरवैरिमेघाः ॥ 1.45॥
एतत् प्रतीपं किल कर्तुकामा नष्टौजसः सङ्कटमेवमाप्य ।
मुकुन्दवैगुण्यकथां स्वयोग्यां काले कलावाकलयन्त तेऽलम् ॥ 1.46॥
यो भूरिवैरो मणिमान् मृतः प्राग् वाग्मी बुभूषुः परितोषितेशः ।
स सङ्कराख्योऽङ्घ्रितलेषु जज्ञे स्पृधाऽपरेऽप्यासुरिहासुरेन्द्राः ॥ 1.47॥
सान्नाय्यमव्यक्तहृदाखुभुग्वा श्वा वा पुरोडाशमसारकामः ।
मणिस्रजं वा प्लवगोऽव्यवस्थो जग्राह वेदादिकमेष पापः ॥ 1.48॥
जनो नमेन्नापरथेति मत्तवा शठश्चतुर्थाश्रममेष भेजे ।
पद्माकरं वा कलुषं चिकीर्षुः सुदुर्दमो दुष्टगजो विशुद्धम् ॥ 1.49॥
अवैदिकं माध्यमिकं निरस्तं निरीक्ष्य तत्पक्षसुपक्षपाती ।
तमेव पक्षं प्रतिपादुकोऽसौ न्यरूरुपन् मार्गमिहानुरूपम् ॥ 1.50॥
असत्पदेऽसन्सदसद्विविक्तं मायाख्यया संवृतिमभ्यधत्त ।
ब्रह्माप्यखन्डं बत शून्यसिद्ध्यै प्रच्छन्नबौद्धोऽयमतः प्रसिद्धः ॥ 1.51॥
यद् ब्रह्मसूत्रोत्करभास्करं च प्रकाशयन्तं सकलं स्वगोभिः ।
अचूचुरद् वेदसमूहवाहं ततो महातस्करमेनमाहुः ॥ 1.52॥
स्वसूत्रजातस्य विरुद्धभाषी तद्भाष्यकारोऽहमिति ब्रुवन् यः ।
तं तत्क्षणाद्यो न दिधक्षति स्म स व्यासरूपो भगवान् क्षमाब्धिः ॥ 1.53॥
निगमसन्मणिदीपगणोऽभवत् तदुरुवाग्गणपङ्कनिगूड्हभाः ।
अविदुषामिति सङ्करताकरः स किल सङ्कर इत्यभिशुश्रुवे ॥ 1.54॥
विश्वं मिथ्या विभुरगुणवान् आत्मनां नास्ति भेदो ।
दैत्या इत्थं व्यदधत गिरां दिक्षु भूयः प्रसिद्धिम् ।
आनन्दाद्यैर्गुरुगुणगणैः पूरितो वासुदेवो ।
मन्दं मन्दं मनसि च सतां हन्त नूनं तिरोऽभूत् ॥ 1.55॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के प्रथमः सर्गः