सुमध्वविजयः/षष्ठः सर्गः
← पञ्चमः सर्गः | सुमध्वविजयः षष्ठः सर्गः [[लेखकः :|]] |
सप्तमः सर्गः → |
षष्ठः सर्गः
ऐतरेयमथ किञ्चन सूक्तं सूचयन् सदसि तत्र गरिष्ठः ।
श्रोतुमिच्छति सभा भगवद्भ्यः सूक्तभावमिति तावदुवाच ॥ 6.1॥
वर्णसौष्ठवगरिष्ठमतूर्णं तुल्यमात्रमतिमात्रसुलक्ष्म ।
व्यूड्हहृज्जलदघोषममुष्योच्चारणं विदधदभ्यधितार्थम् ॥ 6.2॥
लक्षणान्विततया वचनेऽस्मिन् देवतागुरुमसावतिशेते ।
मानमित्यपि विधाय धिया ते तत्तु सूक्तमपरार्थमवोचन् ॥ 6.3॥
स्यात् तथेत्थमपि सम्भवितार्थस्त्र्यर्थतां श्रुतिषु वित्त दशार्थम् ।
भारतं ननु शतार्थमपि स्याद्वैष्णवं पदसहस्रतयं हि ॥ 6.4॥
इत्युदीरयति विस्तृतचित्ते भूसुरा इह जिगीषव एनम् ।
ऊचुरर्थशतकं हरिनाम्नां वर्ण्यतामिति सहासमुखास्ते ॥ 6.5॥
वर्णयामि तदहं सकलं वः सौष्ठवादनुवदन्तु भवन्तः ।
तं वदन्तमिति तेऽथ वदन्तो बाड्हमित्यतिदृड्होद्यममापुः ॥ 6.6॥
प्रत्ययप्रकृतिसङ्गमभङ्गीं शब्दशास्त्रविहितां प्रतिदृष्य {प्रतिदर्श्य} ।
शुद्धधीः श्रुतिशिरःशतसिद्धानभ्यधात् सपदि विश्वपदार्थान् ॥ 6.7॥
यावदर्थशतकं न विशङ्कः सन्ततोक्तिकृदपूरयदेषः ।
वर्णितावधृतिदुर्बलचित्तास्तावदाकुलहृदो ह्यभवंस्ते ॥ 6.8॥
साङ्गवेदचतुरा इतिहासे शिक्षिताः सुबहवोऽप्यतिधृष्टाः ।
नैतदीरितमहो जगृहुस्ते विश्वसङ्क्षयपयोऽन्धुगणा वा ॥ 6.9॥
देवतास्वसुलभा प्रतिभा ते मानुषेषु चपलेषु कथा का ।
क्षाम्य सौम्य सकलज्ञ नमस्ते ते ब्रुवन्त इति तं किल नेमुः ॥ 6.10॥
वेदशास्त्रचतुरैरिह विद्यावित्तलिप्सुभिरवाप्तमशेषैः ।
प्राप केरलसुमण्डलजातैरन्यदायतनमायतचेताः ॥ 6.11॥
तर्कतन्त्रकुशलानपि पुंसश्चर्करीति बत सोऽयममानान् ।
मानमानमयतीह कथं नो नैषमण्डलभुवां समितानाम् ॥ 6.12॥
मन्त्रयन्त इति ते द्विजवर्या अन्यदेशजमुखास्तमपृच्छन् ।
सद्ददाददसुशंसननिन्दाकारिसूक्तगतमर्थमुपेत्य ॥ 6.13॥
तं स्फुटं प्रकटयन् {प्रकथयन्} स पृणीयाच्छब्दमूलमवदत् पृणधातुम् ।
तं जिगीषुमथ विप्रमदः प्रीङ्धातुमेष निगदन्तमुवाच ॥ 6.14॥
प्रादिभेदमविदन् गुणय त्वं मूड्ह पांसुषु लिखन् लिपिसङ्घम् ।
भर्त्सयन्निति जहास सुहासो मत्सराकुलधियो जडयन् सः ॥ 6.15॥
तत्प्रसङ्गबलतोऽखिलविद्यापाटवं पृथुहृदः प्रतिबुध्य ।
आनमन् सबहुमानममी तं यं नमन्ति किल नाकिनिकायाः ॥ 6.16॥
कन्यकादृतसुरेन्द्रवपुःश्रीदानवाचिवरसूक्तहृदुक्तौ ।
कुत्रचित् सदसि तावदपाला कीर्तिताऽतितरुणीत्ययमूचे ॥ 6.17॥
श्वित्रिणी भवति तत्पदवाच्येत्याग्रहेण वदतो विदुषोऽत्र ।
कश्चिदेष्यति विपश्चिदिहैनं पृच्छतेत्ययमगच्छदथोक्त्वा ॥ 6.18॥
देशमेनमचिरादुपयातस्तादृशाकृतिरहो कृतबुद्धिः ।
तांस्तथाभ्यधित तत्पदभावं सूरिमौलिमणिनाऽत्र यथोचे ॥ 6.19॥
केवलं न सकलाः श्रुतिविद्या मानपूर्वकसमस्तगिरोऽस्य ।
अप्यनागतगतप्रतिपत्तिं श्रद्दधुः पृथुलचेतस एते ॥ 6.20॥
यद्यदेव सपदि प्रकृतं स्यात् तत्तदेष यदवेदखिलञ्च ।
सर्वदा सदसि सर्वबुधानां सर्वविद्यतिरिति प्रथितोऽभूत् ॥ 6.21॥
अप्रयातमपि देशमशेषं व्यानशे सुजनकैरवबन्धुः ।
पूर्णदृक् प्रततया निजकीर्त्या पूर्णचन्द्र इव चन्द्रिकयाऽलम् ॥ 6.22॥
सुन्दरेषु सुरमन्दिरवृन्देष्विन्दिरारमणवन्दनकृत्यम् ।
आचरन्न सुचिरात् सुविचारो रौप्यपीठपतिमाप मुकुन्दम् ॥ 6.23॥
भूसुरप्रवरबुद्धिसमृद्धिव्यक्तयुक्तवपुषं रुचिराङ्गीम् ।
सूत्रदीप्तमणिमालिकयाऽलं भूषितां भुवनभूषणभूताम् ॥ 6.24॥
पादसुन्दरपदक्रमभावैर्भासितां प्रकटवर्णगुणाढ्याम् ।
भारतोत्तमभृतामनुरूपाच्छादनां समधिकस्वरशोभाम् ॥ 6.25॥
राजसूयमुखसन्मखवृत्तां वासुदेवगुणनिष्ठितभावाम् ।
सर्वधर्मपरिशिक्षणदक्षां वन्दितां जनतया जननीवत् ॥ 6.26॥
मौलिसङ्ग्रहविकर्षणदूनां मायिना सदसि दुष्टजनेन ।
न्यायमार्गमपहाय महान्तं स्वेश्वरत्वमपि साधयताऽलम् । 27॥
सज्जनैः कतिपयैरतिदीनैश्चालितैः कलिबलाच्छुभमार्गात् ।
अप्युपेक्षितविकर्षणदुःखां सातिशोकमपि कैश्चन दृष्टाम् ॥ 6.28॥
वासुदेव धरणीधर नाथेत्युच्चकैरपि मुहुः प्रवदन्तीम् ।
पूर्णषड्गुणमजं गतदोषं बिभ्रतीं हृदि विविक्तमशेषात् ॥ 6.29॥
वार्यतां बुधजनैर्ननु हा हा नैष धर्म इति चाभिदधानाम् ।
कृष्णलालिततमामनवद्यामप्यनन्यशरणां शरणोत्काम् ॥ 6.30॥
वेदिजामिव पुरा भरताग्र्यः स स्वयं श्रुतिततिं खलु दृष्ट्वा ।
पुष्टबुद्धिरकरोत् करुणाब्धिर्दुष्टपक्षदमनस्थिरसन्धाम् ॥ 6.31॥
अव्ययं सततमप्युपभुक्त्या वित्तमग्र्यमिव दूरयियासुः ।
ज्यायसे सगुरवे हरिगीताभाष्यमेष विरचय्य तदादात् ॥ 6.32॥
हेतुवादिनि विशङ्कटबुद्धौ तीर्थमर्थयति गन्तुमनुज्ञाम् ।
तां दिदेश पुरुषोत्तमतीर्थश्चिन्तयन् स पुरुषोत्तमरक्षाम् ॥ 6.33॥
नीरजा मलयमण्डलवृत्तया श्लाघितो भुवि सदाल्यनुयातः ।
साधुपान्थपरितापमपास्यन्नुत्तरां दिशमयान्मरुदंशः ॥ 6.34॥
बुद्धिशुद्धिकरगोनिकराढ्यं तीर्थजातमुभयं च धरण्याम् ।
आत्ममज्जनत एव निकामं पर्यशोधयदमन्दमनीषः ॥ 6.35॥
वासुदेवपदसन्ततसङ्गी तेजसाऽप्यलमधःकृतशर्वः ।
अत्यवर्तत नितान्तमथासौ गाङ्गमोघमघनाशनकीर्तिः ॥ 6.36॥
तत्र तत्र स जगत्रयचित्रं कर्म शर्मदमनुस्मृतिमात्रात् ।
सञ्चरन् विदधदाप नराणां गोचरं बदरिकाश्रमपार्श्वम् ॥ 6.37॥
मण्डयन् भरतखण्डमखण्डं नादिरायणपदोऽत्र परो यः ।
तं नमन् प्रचुरधीर्हरिगीताभाष्यमार्पयदुपायनमस्मै ॥ 6.38॥
प्रीतयेऽस्य पुरतो वरभाष्यं वाचयन् स जनतामपसार्य ।
वच्मि शक्तित उरुक्रमगीताभावमित्यकथयत् पुरुसङ्ख्यः ॥ 6.39॥
एतदर्थमपि सूक्ष्ममपि त्वं शक्त एव न यदात्थ समस्तम् ।
तेन लेशत इतीह पदं स्यादित्यगद्यत जगज्जनकेन ॥ 6.40॥
तेन तत्प्रवचने विहितेऽलं शुश्रुवुः प्रशयिता अपि शिष्याः ।
उच्यतामिति मुहुः सपृथिव्यास्फालनं पदमहो हरिणोक्तम् ॥ 6.41॥
शब्दभेदमवधार्य तमर्चासन्निषण्णवपुषः परमस्य ।
तस्य भावविददभ्रमनीषः प्रोत्थितः प्रवचनं व्यधितैभ्यः ॥ 6.42॥
मज्जनं व्यधित शीतलगङ्गावारि नित्यमरुणोदयकाले ।
यत् स्पृशन्ति न नरा हिमभीता अंश एष पृषतामधिपस्य ॥ 6.43॥
काष्ठमौनमदधादुपवासं शुद्धमप्यकृत शुद्धहृदिच्छन् ।
नित्यतुष्टहरितोषविशेषं चिन्त्ययन् प्रभुमनन्तमठान्तः ॥ 6.44॥
प्रैरयत् स्वचरणे रतचित्तं मध्वमत्र दिनमण्डलमेनम् ।
स्वाश्रमोपगमनाय मुकुन्दो दीप्तिदृष्टिविदितागतिरन्यैः ॥ 6.45॥
नक्तमेव भगवत्युपयाते प्रोदिते सति सहस्रमरीचौ ।
मौनवानलिखदुत्तमचित्तः शिष्यशिक्षणपरः करुणावान् ॥ 6.46॥
नेदृशं स्थलमलं शमलघ्नं नास्य तीर्थसलिलस्य समं वाः ।
नास्ति विष्णुसदृशं ननु दैवं नास्मदुक्तिसदृशं हितरूपम् ॥ 6.47॥
याति तावदधुनैव जनोऽयं व्यासरूपमजितं प्रदिदृक्षुः ।
आव्रजेदिह न वा स हि वेद स्वस्ति वोऽस्त्विति ययावथ मध्वः ॥ 6.48॥
नाथ नाथ बत नोऽत्र विनाथान् मा त्यजोरुकरुणो भगवंस्त्वम् ।
नोदितं स्मृतमपीति हि शिष्यैः स्वामिनोऽभिमतभङ्गभयेन ॥ 6.49॥
सद्गुरोर्न विरहं सहमानः सत्यतीर्थयतिरन्वगमत् तम् ।
यस्त्रिवारमितरासुतशाखास्वर्थमग्र्यमशृणोत् पुरुसङ्ख्यात् ॥ 6.50॥
दुर्गमार्गगतमप्यनुधावन् नाप सोऽयमरुणीभवतीने ।
लीलया सजवमाक्रममाणं व्याश्रयान्तरसुदूरशिलासु ॥ 6.51॥
आनिवृत्तवपुषा गुरुणाऽऽरात् पाणिना ह्यभिनयेन सुनुन्नः ।
त्रस्तधीरतिययौ स मुहूर्तात् तद्दिनोपगतमार्गमशेषम् ॥ 6.52॥
आश्रमे निजजनानिह दृष्ट्वा तं प्रसादमहिमानममुष्य ।
प्रोच्य तत्प्लवनमप्यतिचित्रं तस्य तैः सह सदाऽस्मरदेषः ॥ 6.53॥
वानरेन्द्र इव वायुजवोऽसौ भीमसेन इव दानवभीमः ।
उल्ललास गिरिपुङ्गवशृङ्गे स व्रजन् वृजिननाशननामा ॥ 6.54॥
बहुसत्वगणं सविकं समहाविषमोक्षमहाहिमवन्तमयम् ।
विषमोक्षमहाहिमवन्तमयन् नगमैक्षत फुल्लदृगस्तभयः ॥ 6.55॥
सुहसितकमलाकरोपगूड्हं सुजनसुखार्थमनन्तभोगशय्यम् ।
विकसितसुमनोघटागमुच्चं मरकतरत्नमयस्थलाग्र्यशोभम् ॥ 6.56॥
पादोपान्तनमन्महामुनिगणं हेमप्रदीप्ताम्बरम् ।
श्रीमद्रत्नकलापमग्र्यकटकैर्विभ्राजितं हाटकैः ।
दृष्ट्वा तं धरणीधरं सुवनमालोल्लासिनं सुन्दरम् ।
स्वानन्दाकृतिमस्मरन्मुररिपुं स्वानन्दतीर्थस्तदा ॥ 6.57॥
इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत
नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये
महाकाव्ये आनन्दाङ्के षष्ठः सर्गः