सुमध्वविजयः/षोडशः सर्गः
← पञ्चदशः सर्गः | सुमध्वविजयः षोडशः सर्गः [[लेखकः :|]] |
षोडशः सर्गः
साधुभ्यो मधुमथुनाङ्घ्रिभुक्तिभाग्भ्यः
श्रौतेभ्यो विततमतेर्महानुभावम् ।
वेदान्तं स्वयमिव बन्धमोक्षमूलं
व्याचष्ट स्फुटमथ कोऽपि कोविदोऽत्र ॥ 16.1॥
गोमत्यास्तटनिकटेऽच्छकीर्तिचन्द्रं
विश्वज्ञं क्षितिपतिरन्त्यवर्णजन्मा ।
विद्वेष्टा श्रुतिगुणसाधकं श्रुतीनां
वाचालो वचनमुवाच वाग्मिवर्यम् ॥ 16.2॥
उन्मत्तप्रलपितवन्न तद्धि मानं
यद्वाक्यं व्यभिचरति क्वचित्फलेऽत्र ।
दृष्टान्तो भवति तदप्रमाणतायां
सर्वेषां श्रुतिवचसां च सर्वथेति ॥ 16.3॥
वेदोक्तं फलमलमाप्यतेऽधिकारा-
दित्युक्तोऽतनुमनसाऽभ्यधत्त धूर्तः ।
योग्यत्वे सति न हि दृश्यतेऽधिकारी
नातः स्यात्स खरविषाणवत्सदेति ॥ 16.4॥
आक्षेपं तमसहमान उच्चमानः
सद्योऽसौ निजकरपल्लवद्वयेन ।
आदाय व्यतनुत बीजमोषधीनां
सूक्तेनाङ्कुरदलपुष्पबीजसृष्टिम् ॥ 16.5॥
व्याख्याता निशि स कदाचन प्रदीपे
संशान्ते पुनरपि वाचयाम्बभूव ।
शिष्यान्स्वान्पुरुकरुणाम्बुधिर्निजाङ्घ्रे-
रङ्गुष्ठस्फुटनखरान्तरोचिषैव ॥ 16.6॥
तीर्थार्थं पृथुतरवप्रपातिवारां
धाराणां रयसहनक्षमां महेक्षः ।
आनीतां दशशतपुम्भिरत्यशक्त्या
प्रेक्ष्योचे विपुलशिलां क्वचित्स मुक्ताम् ॥ 16.7॥
लोकानामुपकृतये कुतः शिलेयं
निन्ये नो इति जनता जगाद तत्र ।
नेतारो यतिवरं मानवा नहीमां
भीमश्चेदिह यतते नयेन्नवेति ॥ 16.8॥
निन्ये तां गिरिमिव वानरीकृतात्मा
लीलावत्करकमलेन सोऽमलेन ।
तत्रापि न्यधित तयाऽस्य सूच्यतेऽलं
तत्तुङ्गां ननु निकषाऽधुनाऽपि कर्म ॥ 16.9॥
सङ्घातैरधिकथनैरलङ्कृताध्वा
शिष्याणां यतमनसामुतेतरेषाम् ।
यत्रामावसति तिथाविनेन चन्द्र
स्तत्रासौ सकलमतिः ससार सिन्धुम् ॥ 16.10॥
आर्द्राङ्गाः सपदि निमज्जनात्सरस्यां
कण्वस्य द्विजवृषभस्य वल्लभायाम् ।
तत्रायन्खरकिरणोपरागहेतोर्ग्रामीणा
अपि सकलाः सबालवृद्धाः ॥ 16.11॥
सर्वज्ञं सपरिजनं समीक्षमाणाः
फुल्लाक्षाः स्मितवदनाः शुभाः ननन्दुः ।
दौर्मुख्यं दधत उतापरे निनिन्दु-
र्नाश्चर्य द्वयमपि तत्स्वभावतन्त्रम् ॥ 16.12॥
मामैनं भुवनगुरुं विनिन्दतेत्थं
निर्भर्त्स्याभ्यपतदिवोत्तरङ्गहस्तः ।
संक्षोभी घनघनघोषघोरवेषः
संरम्भी खलदमनाय सिन्धुराजः ॥ 16.13॥
संमोदात्तरलतरो द्रुताभिगामी
गम्भीरस्वननुतिमान् सुफेनहासः ।
वीच्यङ्गैरधिकतरैरिहाधिवेलं
मध्वाय प्रणतिमिव व्यधात्समुद्रः ॥ 16.14॥
गोलीलास्वतिशयिनावगाधभावा-
न्नोल्लङ्घ्यौ विविधगुणप्रकाशरत्नौ ।
मध्वाब्धी परममतेः प्रियं जनानां
लावण्यं न तु जलधेरयं विशेषः ॥ 16.15॥
अम्भोधेस्त्वरिततरोर्मिपाणिमृष्टे
स्वच्छेऽसौ विकटतटासने निषण्णः ।
व्याचख्यावतिचिरमैतरेयशाखा-
सूक्तानि प्रभुरतिसुन्दरप्रकारम् ॥ 16.16॥
गाम्भीर्यात्स्वनमधरीकरोति सिन्धोः
श्राव्यत्वं वहति तथाप्यहो स्वनोऽस्य ।
पूर्णेन्दुप्रभवदनः क एष धन्यो
मत्वेत्थं जनजलधिस्तमाशु पर्यैत् ॥ 16.17॥
वेदानां समुचितभाववाददक्षं
ये वेदद्विषमिममूचिरे महेर्ष्याः ।
धिक् धिक्तानिति जनता जगाद गाड्हं {तत्र}
स्वाश्चर्यात्किल कलिताञ्जलिर्नमन्ति ॥ 16.18॥
सन्मानं विपुलहृदे विधाय भक्त्या
बिभ्राणाश्चरणरजोऽस्य देवसेव्यम् ।
तत्स्न्नानादधिकशुचौ नदाधिराजे
सस्न्नुस्ते द्विजनिकराः प्रशस्तकाले ॥ 16.19॥
कल्लोलैः करिनिकरैरिवानिवार्यैः
उल्लोलैर्जननिकरान्निपातयद्भिः ।
आक्रान्ताः प्रबलतरैश्च लोठ्यमाना
हास्यत्वम्प्रययुरुदन्वतीह नैके ॥ 16.20॥
मज्जन्तं पृथुलहरीनिगूड्हमूर्तिं
सम्पूर्णप्रमतिमसज्जनो जहास ।
यो लोकत्रयविजयी गुरुः प्रसिद्धः
सोऽयं हा पतति लघूर्मिलीलयेति ॥ 16.21॥
नीचानामवचवचांस्यजीगणन्नो
दभ्राणां क्षुभितकराण्यदभ्रसङ्ख्यः ।
क्रोष्टूनां श्वकलकलप्रदं विरावं
पञ्चास्यो न हि गणयेदुदारवीर्यः ॥ 16.22॥
जन्मस्थित्यवसितिदायिनं कटाक्षं
लोकानामघटयदम्बुधौ बृहद्धीः ।
आक्रान्तोऽधिकगुरुणा स तेन तावन्
मुञ्चन्सञ्चलनमभूत्तटाकदेश्यः ॥ 16.23॥
इत्याद्यैरपि चरितैरनन्यसाध्यैः
न स्थेष्ठां बहुमतिमाप दुर्जनोऽस्मिन् ।
विद्वेषं व्यधित पुनर्निरस्तभाग्ये
तस्मिन्दुर्मनसि तदेव शोभनं स्यात् ॥ 16.24॥
सम्प्राप्तं सह सहजेन गण्डवाटं
स्वोजस्सम्प्रकटन आदिशद्विशङ्कम् ।
शुश्रूषामयमुचितो विधातुमीष-
ल्लोकानामिति वचसा परीक्षकाणाम् ॥ 16.25॥
श्रीकन्तेश्वरसदनेऽनयत्किलैको
यस्त्रिंशन्नरवरनीतकेतुयष्टिम् ।
आहत्यागुरुगदयैव नारिकेलाद्यो
लेभे तरलतरात्फलानि कामम् ॥ 16.26॥
एतादृग्बलविभवः स तस्य कण्ठं
तज्जयेष्ठोऽप्यभित उभौ समं गृहीत्वा ।
निष्पेष्टुं परममवापतुः प्रयत्नं
सङ्घर्षात्क्रमपरिवर्धमानतैक्ष्ण्यम् ॥ 16.27॥
आस्विन्नावलसतरौ गुरोर्नियोगा-
च्छत्राग्न्यानिलमहितौ च तावुभाभ्याम् ।
मुक्त्वाऽयः कठिनतरत्वचं शिरोधिं
पर्यायस्फुटवचनां निपेततुः कौ ॥ 16.28॥
आश्वस्तौ शुचिहृदिमावनूनमाना-
वुद्धर्तुं समगददङ्गुलीं धरास्थाम् ।
सङ्गृह्य प्रसभरसादतिप्रयत्नौ {प्रसभरसादपि प्रयत्तौ}
सामर्थ्यं ययतुरिमौ न कम्पनेऽस्याः ॥ 16.29॥
निर्यत्नं वटुमधिरुह्य मन्दहासी
स प्रायादिह परितो नृसिंहगेहम् ।
ऐश्वर्यैरिति लघिमादिकैरुपेतो
मध्वोऽभूत्तरिभुवनचित्ररत्नराजः ॥ 16.30॥
पञ्चाशन्नरपनरोपनीतमात्रां
यो वार्क्षीं गृहमधिरोहिणीं निनाय ।
स व्याख्यास्वरदमनाय पूर्ववाटो
निर्देशाद्व्यधित गुरोर्गलप्रपेषम् ॥ 16.31॥
स्विन्नेऽस्मिन्नपि यतमान आग्रहोग्रे
प्राच्यात्तत्प्रवचननिस्वनोऽतिरेजे ।
उद्धर्तुं विपुलहृदङ्गुलिं च नालं
सोऽभूदित्यजनि कुतूहलं जनानाम् ॥ 16.32॥
पर्यैक्षि प्रभुरितरैः शिवाग्निपूर्वैः
नोपैक्षि प्रबलतरैस्तथा प्रयत्नैः ।
नावैक्षि क्वचिदपि शक्त्यपूर्तिरस्मि-
न्नुत्प्रैक्षि स्वयमपि भीम इत्यवश्यम् ॥ 16.33॥
लेखिन्या मुहुरपिनह्य कृष्यमाणं
नाप्येकं तनुरुहमस्य तूदपाटि ।
नासाग्रे मृदुनि कृतैश्च मुष्टिघातैः
नास्येन्दोरतिबलिभिः प्रसन्नताऽऽसि ॥ 16.34॥
पञ्चास्यः श्वभिरिव वै {हि} विहीनसारै-
रम्भोधिर्नदसरितां जलैरिवाल्पैः ।
खद्योतैरिव तरणिर्विडम्बयन् नृन्
प्रत्यर्थिस्वसमनरैर्व्यवाहरत्सः ॥ 16.35॥
पारन्तीसुरसदनं विशालसंवित्
सम्प्राप्तः खलु सुचिरान्निवेद्यहीनम् ।
ग्राम्याग्र्यक्षितिपतिभिर्दिनार्धमात्रात् ।
तद्भूतिर्व्यधित सभूतबल्यनल्पाः ॥ 16.36॥
भीमत्वे सह सहजैः प्रतिष्ठितः प्राक्
पञ्चात्मा मुररिपुरञ्चितो यदत्र ।
पाञ्चाल्या बलिसलिलं समं ददत्या
सोऽस्मार्षीत्तमिममथ प्रपूज्यपूज्यः ॥ 16.37॥
आयास्यन्किल सरिदन्तराख्यदेशं
ग्रीष्मे निर्जलमिह शुश्रुवांस्तटाकम् ।
तत्काले परमभिवर्षयन् घनौघं
तत्पूर्त्यै व्यधित कुतूहलं नराणाम् ॥ 16.38॥
दुर्मन्त्रैः खलपटलैः प्रचोद्यमानो
ग्रामेशो वृषलपतिः प्रहर्तुमेनम् ।
सम्प्राप्तस्तत उत यान्तमीक्षमाणः
प्रोद्यन्तं रविमिव विस्मितो ननाम ॥ 16.39॥
क्षेत्राग्र्यं त्रिभुवनवैद्यनाथनाथं
प्रस्थाय प्रचुरतरान्तरः प्रभावी ।
श्रीकृष्णामृतपरमार्णवाभिधानां
चक्रे सद्वचनततिं स्वभक्तभूत्यै ॥ 16.40॥
सग्रामं परमपि यात {परमभियात} उच्चभूतिं
विद्वांसः क्व कुहरकूपदर्दुराभाः ।
इत्यूचे मदमतिमानिनोऽखिलज्ञं
मन्यस्य क्षपयितुमेव तज्जनस्य ॥ 16.41॥
सर्वज्ञोऽप्ययमधिकं न यज्ञभङ्गीं
संवित्ते यतिरिति बद्धनिश्चयोऽसौ ।
आभान्तं परिषदि मत्सरादपृच्छ-
त्कर्मार्थश्रुतिगहनार्थखण्डभावम् ॥ 16.42॥
छान्दोभ्यश्च्युतरससङ्ग्रहप्रवीणान्
षष्ठेऽह्नि प्रतिविहितान्प्रजाधिपेन ।
णराशंस्यचरमचारुमन्त्रभेदा-
नूचेऽसौ तमभिदधद्विसंशयांशः ॥ 16.43॥
पाण्डित्यं परममवेक्ष्य तस्य तादृक्
सङ्घर्षक्षुभितमना {सङ्घर्षात्क्षुभितमना} विपक्षसङ्घः ।
नार्थः स्यादयमिति वर्णयन्नथ त्वं
तं ब्रूहीत्युरुमतिनेरितोऽद्रवद् द्राक् ॥ 16.44॥
सोऽपृच्छत्तमथ महाह्वयोपसर्गां
यत्रोक्ता मनुचरणोपसृज्यरूपाः ।
तस्यार्थं वचनचयस्य तं ब्रुवाणः
स्थैर्यार्थं सपदि स लेखयाम्बभूव ॥ 16.45॥
सम्पूर्णं शशिनमिवोदितं कृशः श्वा
चुक्षोभाशुभनिकरो निरीक्ष्य मध्वम् ।
प्रत्यर्थी स्वयमिति दूरतोऽभिधावन् {दूरवोऽभिधावन्}
किं तेन क्षतममृताकरस्य तस्य ॥ 16.46॥
निःस्वानां कतिपयभुक्तियुक्तभक्तं
भक्तानां व्यधित चतुर्गुणं दयालुः ।
भुङ्क्ते स्म त्रिदशनरोपभोज्यमन्नं
सम्प्रीत्यै स धनवतां बृहत्प्रबोधः ॥ 16.47॥
वृष्ट्यादेः स नियमनादि चक्र एत-
च्चित्रं किं भुवननियामके समीरे ।
अप्येवं भुवनगुरोः कृतानुवादः
कृत्येषु प्रवर इतीह वर्णयामः ॥ 16.48॥
इत्यूचे धरणिसुरेण केवलं नो
माध्वीयं विविधकथा कथासु मान्या ।
साक्षादप्यमरवरैरुदीर्यमाणा
गन्धर्वैर्द्युसदसि तन्मुदे जगेऽसौ ॥ 16.49॥
तां पद्यप्रणिगदितां तु मूर्च्छयित्वा
तानानामुचिततयाऽऽत्तपञ्चमाद्याः ।
गान्धारं द्युविषयमुज्जवलं सृजन्तो
ग्रामं ते प्रजगुरकाकिकम्रकण्ठाः ॥ 16.50॥
आनम्रैः सुमुकुटमौलिभिः कराग्रैः
आताम्रैः प्रतिकलितैः स्मितैर्मुखाब्जैः ।
आश्रावि स्थिरतरभक्तिभिः सुरेन्द्रैः
तद्गीता दशधिषणार्यवर्यचर्या ॥ 16.51॥
गीर्वाणैर्विजयमहोत्सवस्य पूजां
कुर्वाणैरविरलसंविदस्तदानीम् ।
विस्मेरैर्मुनिनिकरोपदेवयुक्तैः
सुस्मेरैरथ तमवेक्षितुं प्रजग्मे ॥ 16.52॥
आदर्शं गुणगणदर्शने मुरारेः
सच्छास्त्रं रचितमनेन वर्णयन्तः ।
प्रद्योतेरुडुपदवीं प्रकाशयन्तः
प्रैक्षन्त प्रचुरमनोविलासमेते ॥ 16.53॥
नाकीन्द्रास्तमवनिभागमावसन्तं
सुश्लोकैरपि भुवनानि भूषयन्तम् ।
नेमुः खादुपनिषदं तदैतरेयीं
व्याख्यान्तं विविधविशिष्टशिष्यमध्ये ॥ 16.54॥
श्रीमन्तं शशिवदनं कुशेशयाक्षं
गम्भीरस्वरमतिदिव्यलक्षणाढ्यम् ।
पश्यन्तः स्वगुरुमथार्चयन् कृतार्था
वाण्या तं हरिरतिपूर्णकाममेते ॥ 16.55॥
अहरो दुरागमतमः स्वगोगणै-
रकरोर्मुकुन्दगुणवृन्ददर्शनम् ।
अजयश्चतुर्दशजगन्ति सद्गुणैः
शरणं गुरो करुणयाऽपि नो भवेः ॥ 16.56॥
नमस्ते प्राणेश प्रणतविभवायावनिमगाः
नमः स्वामिन् रामप्रियतम हनूमन् गुरुगुण ।
नमस्तुभ्यं भीम प्रबलतम कृष्णेष्ट भगवन्
नमः श्रीमन्मध्व प्रदिश सुदृशं नो जय जय ॥ 16.57॥
इति निगदितवन्तस्तत्रवृन्दाराकेन्द्रा
गुरुविजयमहं तं लालयन्तो महान्तम् ।
ववृषुरखिलदृश्यं पुष्पवारं सुगन्धं
हरिदयितवरिष्ठे श्रीमदानन्दतीर्थे ॥ 16.58॥
{इति श्रीमत्कविकुलतिलक त्रिविक्रमपण्डिताचार्यसुत}
{नारायणपण्डिताचार्यविरचिते श्रीमत्सुमध्वविजये}
{महाकाव्ये आनन्दाङ्के षोडशः सर्गः}
व्स्पचे{.0इन्} व्स्पचे{.0इन्}
{भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु}
एजेच्त्
{.. अणुमध्वविजयः ..}
श्रीशप्रीत्यै प्रजातः सुमहितमहिमा श्रीहनूमान् निदेशात्
रामस्योल्लङ्घिताब्धिः सहरिरथ गतः सेतुना पिष्टदुष्टः ।
भूभृन्नी रावणारिं पुरगमुरुदयं पूजयित्वा ससीतं
पश्यन् किम्पूरुषे तं सततमपि महाप्राणमुख्योऽवतान्माम् {महान् प्राणमुख्योऽवतान्मम्} ॥ 1॥
भीमोऽभूद् यो न भेद्यश्चकितरिपुकृतापत्प्रतारी {प्रणोदी} सलीलं
रक्षोघ्नः प्राप्तकृष्णो मखकृदुत वने दुष्टहा कीचकघ्नः ।
हत्वा दुर्योधनादीन् स्वपदमुपगतो {स्वपदमधिगतो} यद्द्विषः क्रोधतन्त्रा
भूत्वा भूमौ कुशास्त्रं व्यधिषत मणिमत्पूर्वकाः पातु सोऽस्मान् ॥ 2॥
अज्ञानोत्सादनार्थं सुरवरवचसा सूचितो रूप्यभर्त्रा
जातो मध्यालयार्याद् गुरुमतितपसो वासुदेवाभिधानः ।
गोदात्रे मोक्षदाता रजतपतिपदासेवको भूतभर्त्रा
मान्यः प्राणः कुलित्थैरपि निजसहजातर्पितः प्रीयतां मे ॥ 3॥
आनन्दं मन्दहासामृतरसकलया सन्दधानः प्रजाना-
मास्येन्दोः शोभमानैरपि कलवचनैर्बाललीलाविलासैः ।
गोपुच्छालम्बनाद्यैर्वृषपतिविहितापत्प्रणोदी प्रणुद्या-
दज्ञानाद्यापदं मे स्वयमिव भगवान् वासुदेवोऽसुदेवः ॥ 4॥
एकाकी योजनाभ्यां व्यवहितमगमद्यस्त्रिवर्षोऽमरौको
यो लाल्यो लोकमात्रा स्वलिपिपरिचये तातविस्मेरताकृत् ।
प्राज्ञम्मन्यं शिवाख्यं परिषदि जितवान् शाखिनामर्थमूचे
दुर्गं पित्रोपनीतः सुरवरमहितो मह्यतां मे वचोभिः ॥ 5॥
पायान्मां यो भुजङ्गं सदरिमदयमद् द्रागुपाध्यायसेवी
विश्वेभ्यो(ऽ)वेगदूरप्लवनविधि {प्लवनजव}नियुद्धादिवीर्यातिशायी ।
येनास्ता मूड्हशङ्का श्रुतिशुचिवचसाऽलं गुरोः शिर्षशूला
सख्युर्नारायणज्ञोऽथ य उपनिषदं व्याख्यतास्मै सुरार्थ्यः ॥ 6॥
सन्यासे बद्धबुद्धिः कृतहरिनमनः पार्थपूज्यं यतिं प्राक्
प्राज्ञं गुर्वाज्ञयाऽलं सुगुणहरिविदं सत्तपस्तृप्तदेवम् { सत्तपस्तृप्तदेवात्} ।
प्राप्तं सर्वज्ञशिष्याख्यवरमुपगतो द्विः स्वतातं निषेद्धुं
प्राप्तं चानुत्तरं यो व्यधित सहजवान् मातरं चावतान्माम् ॥ 7॥
पूर्णप्रज्ञाख्य आसीद्यतिकुलतिलको यः शुभाचार ईश-
प्रत्तोऽस्मा ईश्वराज्ञागतसुरसरिति स्नानकृज्जैत्रपत्रः ।
दुष्पद्यच्छिच्च लोके प्रवचनचतुरः सत्पुराणेतिहास-
स्योक्तौ मेधाप्रदर्शी दिशतु शुभदृशं मह्यमृज्वग्रणीः सः ॥ 8॥
साक्षादानन्दतीर्थोऽनुमितिभिरुरुजिद् योऽनुमातीर्थनामा
बुद्ध्यब्धिं {विद्याब्धिं} वादिसिंहं सपदि विजितवान् दुष्टभाष्यापनोदी ।
अच्छेद्योक्तिः प्रमोदं पितुरपि कृतवान् नर्मगर्भं गुरूक्तो
भाष्यं कर्तुं ह्यवोचत् प्रियसखयतये सूत्रभावं स माऽव्यात् ॥ 9॥
याम्याशां यान् प्रभोक्ता बहुफलसमितेः क्षीरिणीं प्रेक्ष्य यान्तीं
स्यानन्दूरं {स्यानन्दूरे} च दैत्यं सपदि विजितवान् फाल्गुनं तीर्थमाप्तः ।
सेतुं चात्रापि हास्यं खलमथ कृतवान् सर्वजिद् रङ्गनाथं
नत्वा यान् विश्ववन्द्यो ह्युपनदि विबुधौकस्यवेन्मां स धन्यः ॥ 10॥
विश्वादीनां शतार्थप्रवचनचतुरो दानसूक्तार्थवादी
दिव्यज्ञानप्रकाशी सकलजिदखिलज्ञाभिधः प्राप्तरूप्यः ।
भीमो वा भीमसन्धः खलकुलदमने गीतिकाभाष्यकारी
गुर्वर्थी {गुर्वर्ची} यानुदीचीं मम मनसि लसेत् तीर्थशोधी स मध्वः ॥ 11॥
गङ्गातारी सुकर्मोपगतबदरिकान्तोऽत्र नारायणं यो
नत्वैकान्ते समुद्यः प्रवचनकृदथो सत्तपाः कृष्णनुन्नः ।
आप्तेभ्यः कार्यलेखी स्वमनुगतनिजप्रेरकः पाणिमात्रात्
मारुत्याभः प्रपश्यन् हरिमपि गिरिणा {गुरुणा} सार्धमृद्ध्यै स मे स्यात् ॥ 12॥
योऽपश्यत् स्वाश्रमाग्र्यं मुनिमहितगुणो दिव्यसालं च चित्रं
तत्रर्षीणां समाजे हरिमपि मुनितः सत्यवत्यां प्रजातम् ।
कर्तारं भारतादेर्भरतवरगुरुं ब्रह्मसूत्रस्य चाहो
निर्दोषं नित्यपूर्णागणितगुणमसौ प्रीयतां मे स चेशः ॥ 13॥
सर्वाङ्गैः सर्ववन्द्यैर्विमलकुवलयश्यामलैः शोभमानं
सज्जञानानन्द {विज्ञानानन्द}तेजःप्रवरगुणमयैः पूर्णलावण्यरूपैः ।
बिम्बोष्ठं पद्मपादं शुभकपिशजटं सैणचर्माणमीशं
दृष्ट्वा नत्वोपगूड्हः स गुरुरवतु नः सूपविष्टो मुनीष्टः ॥ 14॥
शिष्यं व्यासस्य नारायणमथ च गतं सर्वहेतुं सुमत्स्यं {सुमात्स्यम्}
साश्वास्यं कूर्मकोलौ नृहरिमथ मनुं वामनं बुद्धरामौ ।
व्यासं काकुत्स्थकृष्णावतिचिरमितरानन्दनं कल्कियज्ञौ
सिद्धेशं नौमि धन्वन्तरिवरवनिताख्यं तमेनं स्मरन्तम् ॥ 15॥
दत्तात्रेयं कुमारं हृदि दधदृषभं हंसकृष्णौ हरिं तं
धार्मं नारायणाख्यं सदशशतसहस्त्राद्यनन्तावतारम् ।
तन्नुन्नस्तत्तवसूक्त्यै वरमुचितनरैरेव {वरमुचितनरैरेष} सेव्यत्वमाप्तः
कृच्छ्राद्यात्रोन्मुखो मे स गतिरपि हरिर्व्यासनारायणाख्यः ॥ 16॥
लब्ध्वाऽनुज्ञां मुकुन्दात् स्वजनमुपगतोऽनेकभिक्षाप्रभोक्ताऽ-
तुल्यं भाष्यं च कुर्वन् स्वसमगुणगनं {स्वगुणसमगुणम्} सम्प्रयातः पुनर्यान् ।
षट्शास्त्राशेषशाखास्वखिलविजयवान् शोभनं सूरिवर्यं
शिष्यं लब्ध्वाऽतिजैत्रं पुनरपि विविधान् प्राप्तरूप्यो गतिर्मे ॥ 17॥
सख्ये व्याख्याय भाष्यं कलिमलमपनीयाच्युतज्ञाय चालं
कार्ष्णीमर्चामचाल्यां त्रिदशकतरुणैर्लीलयाऽऽनीय रूप्ये ।
आस्थाप्योदस्य यज्ञप्रतिहतिनिरतान् कारयित्वा स्वयज्ञं
व्यासं नत्वा पुनश्च प्रतिगतरजतः सम्प्रसीदेत् स मध्वः ॥ 18॥
सागस्त्वादीशदेवं परवशखननं यो व्यधादप्लवः स्वै-
र्गङ्गातारी स्वनीत्या {स्वरीत्या} वशितयवनराड् वर्त्मनि क्वापि चोरान् ।
हन्तुं यातान् मिथोऽहन् क्वचिदपि निजशिष्येण चाद्रावयद् द्राक्
योगेनाभूच्छिलाभः क्वचिदपि सगणस्तं महेक्षं दिदृक्षे ॥ 19॥
दैत्यव्याघ्रोपघाती नरसखकरतो लब्धगौरोपलार्चो
व्यासाज्ञाभृत् {व्यासाज्ञाहृत्} सुतर्ता लघु सुरसरितो वारिसंस्तम्भयोगात् ।
भित्वा भूमिं द्युनद्या मठमुपगतया वन्दितो मूर्तिमत्या
यूनोऽनेकान् विजिग्ये युगपदुपगतान् यः सलीलं तमीडे ॥ 20॥
स्वर्गाह्वोक्तिप्रखण्डी सकलसमयिजिद्व्यख्ययाऽभात् पुराऽजौ
शिष्याणामायुधानि प्रकटयति पुरा पूजितः शूलिनाऽभूत् ।
प्रत्यक्षेण क्वचिद्यो दशशतगुरुरम्भापयोभुक् क्षणात् सद्-
गानात् पुष्पादिकारीत्यभिहितचरितो यः शुभैस्तं प्रपद्ये ॥ 21॥
व्याख्यां श्रुत्तवा मुनिभ्योऽभ्यधित समयतो यस्य लभ्यं फणीन्द्रो
वैकुण्ठं हेमनानामणिमयसदनं श्रीशधामास्तदोषम् ।
सायुज्याद्याप्तसौख्यैरखिलविषयिभिः सुन्दरीभोगभाग्भि-
र्ब्रह्माद्यैनाथदृग्भिर्विलसितमतुलं सोऽनुगृह्णातु नोऽलम् ॥ 22॥
नानादुर्नीतिवादैर्विहितमुरुमदं मायिभूतासुरेन्द्रै-
र्योऽयं वेदान्तिसिंहो व्यजयत कुरवं पुण्डरीकं च काण्डम् ।
विश्वाश्चर्यप्रकारं प्रवचनमकरोच्छन्दसां यत्स्पृधाऽन्य-
स्तत् कुर्वन् हास्य आसीद् द्विजवरनिकरे स्याम तद्दासदासाः ॥ 23॥
पद्माख्यं सिन्धुराजं प्रियजनपरमागस्कृतं प्राप्य भीते-
रन्यान् कुर्वाणमग्रे सपदि निजगृहे गोगणैर्मध्वपार्थः ।
यो यद्दसोक्तिबाणैर्विदलितहृदया दुद्रुवुर्मायिदैत्या
सर्वज्ञाह्वो {विश्वज्ञाह्वो} हरिर्यो जगति विजयते स प्रदद्याज्जयं नः ॥ 24॥
श्रीकान्ताङ्घ्रिप्रसङ्गादधिकशुभतमो {दधिकशुचितमो} यान् यथा गाङ्ग ओघो
राज्ञा संवन्दिताङ्घ्रिः सकलगुणगणोपेतपादादिकान्तः ।
सर्वेषां दर्शनीयो लिकुचकुलभवो वेदशास्त्रादिवेदी { वेदशास्त्रानुसारी}
प्रापायुग्विक्रमार्यो यमखिलगुरुमानन्दतीर्थाख्यमीडे {मानन्दतीर्थं प्रवन्दे} ॥ 25॥
लब्धग्रन्थः स्तुतोऽलं लिकुचकविवरेणेह निन्ये दिनानि
श्रीभर्तुः प्रीतिवृद्ध्यै विविधशुभकृतीः केवलं यस्तु कुर्वन् ।
निर्लेपो दग्धकर्मा मतिकृतिकरणैर्लोकशिक्षां च कर्तुं
देवैर्वृष्टामृुतार्चः प्रवचनचतुरो {प्रवचननिरतो} मे प्रवक्तृत्वदः स्यात् ॥ 26॥
स्नातो देवाभिषेक्ता सदरिदरधरस्तन्त्रशास्त्रानुसृत्या {शास्त्रानुवृत्या}
सम्यक् सम्पूज्य विष्णुं वरतुलसिकया दर्शनीयोऽथ भुक्त्वा ।
नानालोकाभिनन्दी गुरुरथ विलसद्व्याख्यया सान्ध्यकृत्यं
कृत्वा गोविन्दलीलाकथक उत कथां वैष्णवीं वाचयेन्नः ॥ 27॥
मान्योपन्यासधन्यो हरिरमितगुणो {हरिरखिलगुणो} ब्रह्म वेदैकवेद्यः
कर्ता विश्वस्य मोक्षं शुभसुखविषयं राति भक्तेभ्य इत्थम् ।
सत्तर्कैः साधयित्वा श्रुतिशतसहितैः सूरिसूनुं विजित्य
व्याख्याता तस्य पूर्णप्रमतिरनुदिनं व्याख्ययाऽऽप्याययेन्माम् ॥ 28॥
साम्नस्त्रैविक्रमार्याद्व्यरचयदनुभाष्यं शतग्रन्थकर्ता
सोदर्यं स्वं विरक्तं यतिमकृत महासद्गुणं विष्णुतीर्थम् ।
वादीन्द्रं पद्मनाभं प्रियमथ च परान् सद्गुणान् श्लाघ्यशिष्यान्
योऽनेकान् सद्गृहस्थानपि स विजयते कण्वतीर्थान्तिकस्थः ॥ 29॥
संस्तव्यो वेदमानं समवितुमतनोदोषधीर्यः क्षणान्ते
दीप्ताङ्गुष्ठः शिलानीः श्रुतिविवरणकृद् वर्णितः स्तम्भिताब्धिः ।
अङ्गुल्या गण्डवाटावतुलबलचणौ चालने यस्य नालं
प्राग्वाटो वा वटूड्हो मम मनसि लसेदप्यलाव्यैकलोमा ॥ 30॥
पारन्तीशाभिनन्दी सपदि स सरितामन्तरेऽवर्षयद् यो
ग्रीष्मे मित्रीचकाराप्यहितमथ गतो वैद्यनाथं स्वभूत्यै ।
छन्दःखण्डार्थवादी जितकुमतिकुलो दुर्जनेर्ष्याभ्युपेक्षी
लघ्वन्नं बृंहयेदत्तयपि बहु धनिनामल्पकल्पेन तुष्येत् ॥ 31॥
वृष्ट्यादीनां नियन्तेत्यभिहितचरितः सर्वगीर्वाणरत्नै-
र्गन्धर्वैर्गीयमानो द्युसदसि सकलैः कौतुकाद्गम्यमानः {कौतुकान्नम्यमानः} ।
दृष्ट्वा संस्तूयमानः सुरतरुकुसुमैरार्य आकीर्यमाणो
मध्वो जाज्वल्यतेऽसौ {देदीप्यतेऽसौ} जगति विजयते सत्सभामङ्गळाय ॥ 32॥
दशप्रमतिविक्रमं बहुविधात्मना हेमवत्
सुमध्वविजयाभिधं {स मध्वविजयाभिधं} व्यधित भावदीपाह्वयम् ।
प्रमेयनवमालिकां पुनरिमां च दक्षाञ्चितां {दक्षां च ताम्}
सतां श्रवणभूषणं व्यदधदेष {व्यतनुतैष} नारायणः ॥ 33 ॥
{इति श्रीमत्कविकुलतिलकत्रिविक्रमपण्डिताचर्यसुत}
{नारायणपण्डिताचर्य विरचितः अणुमद्वविजयः}
{.. भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णार्पणमस्तु..}
एजेच्त्
{.. सुमध्वविजयप्रमेयफलमालिका ..}
श्रीमध्वविजये सर्गाः षोडशानुक्रमादहम् ।
तेषां प्रमेयं वक्ष्यामि सङ्ग्रहेण फलं तथा ॥ 1॥
बळित्थ्येत्यादिसूक्तोक्तं वायो रूपत्रयं परम् ।
प्रथमे प्रथमं प्रोक्तं द्वितीयं तु {च} ततः परम् ॥ 2॥
सच्छास्त्रे दूषिते दुष्टैः सुरप्रार्थनया हरेः ।
आज्ञया चावतीर्णस्य द्वितीये बाल्यसत्कथाः ॥ 3॥
सूपनीतः {सुपनीतः} सुविधिना स्वपित्राऽधीतवान् द्विजात् ।
बहून् वेदान् क्षणेनैव तृतीये कथितं त्विदम् ॥ 4॥
तुर्याश्रममनुप्राप्य वेदान्तनिरतोऽभवत् ।
शिष्यानध्यापयामास सम्प्रदायमहापयन् ॥ 5॥
व्याख्यान् भाष्यं मायिकृतं ज्ञापयन् तस्य दुष्टताम् ।
सूचयन्नुत्तरं भाष्यं जिगाय प्रतिवादिनः ॥ 6॥
तत्र तत्र विचित्राणि चरित्राणि प्रदर्शयन् ।
चरन् क्षेत्रेषु सर्वेषु हिमवन्तं ददर्श सः ॥ 7॥
मनसा मानयन् मुख्यगुरुं व्यासं हृदम्बरे ।
अपश्यच्चक्षुषाऽप्यत्र स्थितं मुनिगणैर्वृतम् {मुनिगणैर्युतम्} ॥ 8॥
एजेच्त्
नारायणं नमस्कृत्य तत्रस्थं गुरुणा सह ।
गतस्ताभ्यामनुज्ञातः भाष्यं कर्तुं सतां मुदे ॥ 9॥
स्थानान्तरे व्यासमुखाच्छ्रुत्वा शास्त्रं ततो गतः ।
एकविंशतिदुर्भाष्यखण्डनं भाष्यमातनोत् ॥ 10॥
यथा हरेः कथालापः सुखाय कृतिनां तथा ।
स्वस्यापीतिविचित्राणि {स्वस्याप्यतिविचित्राणि} चरित्राणि चकार सः ॥ 11॥
व्याख्यानसमये प्राप्तं फणिराजं सुपूर्णधीः ।
शिष्येभ्यो दर्शयामास स तत्फलमथाब्रवीत् ॥ 12॥
बहूपद्रवदं मायिमण्डलं स्वीयमण्डले ।
खण्डयित्वाऽखण्डशक्तिर्विरेजेऽखण्डराजवत् ॥ 13॥
एवं मायिगणं जित्वा प्रख्यातं भूमिमण्डले ।
जयसिंहसमाहूतं कविसिंहो ननाम तम् ॥ 14॥
सदा श्रीहरिपादाब्जगतमानससम्भ्रमः ।
स्नानव्याख्याभोजनादि करोत्यनुदिनं सुखी {धीः} ॥ 15॥
व्याख्यात्रा ब्रह्मसूत्राणां पूर्णप्रज्ञेन वादतः ।
जितस्तच्छिष्यतां प्राप्य सोऽकरोत् तत्तव {भाष्य}दीपिकाम् ॥ 16॥
सम्पादितस्वकार्येऽस्मिन् सर्वज्ञे सर्वदेवताः ।
ववृषुः पुष्पवारं खे स्थिताः स्तुतिपरा मुदा ॥ 17॥
सन्निधानं गुणव्यक्तिः स्वरूपस्य विबोधनम् {निबोधनम्} ।
साधनैः शोभनैः कीर्तिः शास्त्रराज्याभिषेचनम् ॥ 18॥
एजेच्त्
विचारः साधनौघस्य ज्ञेयरूपप्रबोधनम् ।
उपासायामतिशयो दार्ढ्यं भक्तेर्हरौ गुरौ ॥ 19॥
अपेक्षिताखिलावाप्तिर्मोक्षशास्त्रसुलोलता ।
विघ्ननाशः साधनानां स्वीयमाहात्म्यबोधनम् ॥ 20॥
अपरोक्षदृशेर्विघ्ननाशस्तद्दापनं तथा ।
मोक्षदानमिति प्रोक्तं फलं षोडशकं परम् ॥ 21॥
इत्थं सुमध्वविजये प्रमेयफलमालिका ।
रचिता भिक्षुणा भूयाद्विष्णुवक्षःस्थलाश्रिता ॥ 22॥
इति श्रिमादनूरु विष्णुतीर्थ कृत
सुमध्वविजयप्रमेयफलमालिका।
भारतीरमणमुख्यप्राणान्तर्गत श्री कृष्णार्पणमस्तु ।