सुवृत्ततिलकम्
क्षेमेन्द्रः
१९३२

सुवृत्ततिलकम् ।

महाकविश्रीक्षेमेन्द्रकृतं सुवृत्ततिलकम् । प्रथमो विन्यासः। गणपतिगुरोर्वक्रश्चूडाशशाङ्ककलाङ्कुरः स्फुटफणिफणारत्नच्छायाछटाछुरणारुणः । गिरिपतिसुतासंसक्तेार्ष्याविलासकचग्रह- च्युतनखशिखालेखाकान्तस्तनोतु सुखानि वः ॥१॥ स्वच्छन्दलघुरूपाय त्रिजगद्गुरवे नमः । स्पष्टवामनवृत्ताय मायावक्राय चक्रिणे ॥२॥ नमश्छन्दोनिधानाय सुवृत्ताचारवेधसे । तप:सत्यनिवासाय व्यासायामिततेजसे ॥३॥ क्षेमेन्द्रेण सुशिष्याणां सरस्वत्याः प्रसाधनम् । सुवृत्ततिलकं वर्णरुचिरं क्रियते मुखे ॥४॥ दृष्ट्वा छन्दांसि सौन्दर्य विचार्यायप्रियः कृतः । प्रसिद्धकाव्यकर्मण्यवृत्तानामेष संग्रहः ॥५॥ दीर्घे संयोगपूर्वे च गुरुसंज्ञा प्रकीर्तिता । असंयोगग्रहं हखं लघुसंज्ञं प्रकीर्तितम् ।।६।। त्रिगुरुः प्राग्गुरुर्मध्यगुरुरन्तगुरुस्तथा । त्रिलघुः प्राग्लघुर्मध्यलघुरन्तलघुस्तथा ॥ ७ ॥ मभजाः सनया रेफतकारौ चेति संज्ञिताः । ज्ञेयो लघुर्लकारोत्र गकारश्च गुरुर्मतः ॥ ८॥ (युग्मम् ) क्वचिद्विक्षिप्तसंस्थानै: क्वचिदेकपदस्थितैः । संयोगस्थैः कचिद्दत्तमुदाहरणमक्षरैः ॥ ९॥



१. शिवस्य. २.ऽऽऽ मगणः, ऽ।। भगणः, |ऽ| जगणः, ।।ऽ सगणः,।। नगणः, |ऽऽ यगणः, 515 रगणः, ऽऽ| तगणः इति गणस्वरूपम्. काव्यमाला।

पूर्वाक्षरद्वयासक्तविरामेण षडक्षरा । तकारेण यकारेण तनुमध्याभिधीयते ॥१०॥ यथा मम- 'तेन प्रविभक्ता कामं वयसा सा । येन प्रविलासं घत्ते तनुमध्या ।' सप्ताक्षरसमायुक्तं जसाभ्यां गुरुणा तथा । अविराम विदुर्वृत्तं कुमारललिताभिधम् ॥ ११ ॥ यथा मम- 'जनं स्मृतिदशाप्तं गतानुगतिकः किम् । न शोचति जनोऽयं कुमारललितं तत् ।।' मकारयुगपर्यन्ते यत्संयुक्तगुरुद्वयम् । विद्युन्मालाभिधं तद्धि वृत्तमष्टाक्षरं विदुः ॥ १२ ।। यथा मम 'मौनं ध्यानं भूमौ शय्या गुवीं तस्याः कामावस्था । मेघोत्सङ्गे नृत्तासक्ता यस्मिन्काले विद्युन्माला ॥' लघोर्गुरोश्च विच्छित्त्या यत्रानन्तर्यसंगतिः । वृत्तप्रमाणनिपुणैः सा प्रमाणीति कीर्तिता ॥ १३ ॥ यथा मम- 'लघु श्रुतं मदोद्धतं गुरुश्रमाय केवलम् । न यत्परोपकारकृद्वृथैव तत्प्रमाण्यपि ॥ पञ्चमं लघु सर्वेषु सप्तमं द्विचतुर्थयोः । गुरु षष्ठं च सर्वेषामेतच्छ्लोकस्य लक्षणम् ॥ १४ ॥ असंख्यो भेदसंसर्गादनुष्टुप्छन्दसां गणः। तत्र लक्ष्यानुसारेण श्रव्यतायाः प्रधानता ।। १५ ॥


१. केवलं बालखमेवेति भावः. २. प्रमाणयुक्तमपि..

सुवृत्ततिलकम् ।

यथा भगवतो व्यासस्य- 'ततः कुमुदनाथेन कामिनीगण्डपाण्डुना । नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलंकृता ।' नवाक्षरापि ननमैरक्षरैरुपलक्षिता । भुजगाग्रा शिशुभृता कथिता वृत्तकोविदः ॥१६॥ यथा मम- 'न नमति चरणौ भक्त्या किमिति जडमतिर्लोकः । भवभयशमनौ शंभोभुजगशिशुभृतावने ।' संयुक्तं भमसैरन्ते गुरुणा च दशाक्षरम् । वृत्तं रुक्मवती नाम कथितं वृत्तशालिभिः ॥१७॥ यथा मम- 'भग्नमसत्यैः कायसहर्मोहमयी गुर्वी भवमाया । खप्नविलासा योगवियोगा रुक्मवती हा कस्य कृते श्रीः ॥' तकाराभ्यां जकारेण युक्तं गुरुयुगेण च । इन्द्रवज्राभिधं पाहुर्वृत्तमेकादशाक्षरम् ॥ १८ ॥ यथा मम- 'तौ जन्मगूढौ चरणेन यस्य कष्टौ निविष्टौ हृदि कामकोपौ । तं दुःसहास्ता ज्वलदिन्द्रवज्रपातोपमाः क्लेशदशा विशन्ति ॥' जतजैर्गुरुयुग्मेन संसक्तैरुपलक्षितम् । वदन्त्युपेन्द्रवज्राख्यं वृत्तमेकादशाक्षरम् ।। १९ ॥ यथा मम- 'जितो जगत्येष भवभ्रमस्तैर्गुरूदितं ये गिरिशं स्मरन्ति । उपास्यमानं कमलासनाधैरुपेन्द्रवज्रायुधवारिनाथैः ||'


१. महाभारते द्रोणपर्वणि (१८४६४६). २. भुजगोपपदा शिशुभृता. भुजाशिशुमृते- त्यर्थः. ३. सुवर्णरत्नादियुक्तेति यावत्. ४. उपेन्द्रो विष्णुः, वज्रायुधः शकः, वारिलायो ते. अरुणः,ते: काव्यमाला। पदानन्तरविन्यासयोगैर्बहुभिरेतयोः । वैचित्र्यजातिरुचिरा भवन्त्येवोपजातयः ॥ २०॥ भकारत्रयसंयुक्तमन्ते गुरुयुगान्वितम् । कथितं दोधकं नाम वृत्तमेकादशाक्षरम् ॥ २१ ॥ यथा मम- 'भो भवविभ्रमभङ्गुरभोगा गच्छत नास्त्यधुना मम मोहः । तिष्ठति चेतसि चन्द्रकलाभृवक्तजनाभयदोऽथ कपाली ।' पूर्वाक्षरचतुष्कान्तविरतिर्मततान्विता । गुरुद्वितययुक्ता च शालिन्येकादशाक्षरा ॥२२ ।। यथा मम- 'मत्ता गोष्ठीगर्भमूढप्रलापा प्रौढा गाढालिङ्गिता यौवनेन । मध्वाताम्रखेदमीलत्कपोला लोला लीलाशालिनी कस्य नेष्टा ।।' रनरैरन्वितं युक्तं लघुना गुरुणा तथा । ख्यातं रथोद्धता नाम वृत्तमेकादशाक्षरम् ॥ २३ ।। यथा ममः- 'रम्यनर्मकलभोगतर्जनी भ्रूलतेव तरलारियोषिताम् । वैजयन्त्यभिमुखी रणे रणे भाति ते नरपते रथोद्धता ।' गुरुद्वययुतैरन्तेरनभैरुपलक्षिता । गदिता स्वागतानाम वृत्तमेकादशाक्षरम् ॥ २४ ॥ यथा मम- 'रत्नभङ्गविमलैर्गुणतुङ्गैरर्थिनामभिमतार्पणसक्तैः । खागताभिमुखनम्रशिरस्कैर्जीव्यते जगति साधुभिरेव ॥ सकारैरन्वितं वृत्तं चतुर्भिर्युगपस्थितैः । उदितं तोटकं नाम वृत्तज्ञैर्द्वादशाक्षरम् ॥ २५ ॥


१. शिवः.२० रथोपरि स्थिति भावः, सुवृत्ततिलकम् ।

यथा मम- 'सरसः स्मरसारतरो वयसः समयः स्मृतिशेषदशापतितः । गलिताखिलरागरुचिर्विजने परितोऽट कपालकरः सुमते ॥' संलक्षितं जतजरैर्द्वादशाक्षरमक्षरै: । छन्दोविचक्षणा वृत्तं वंशस्थाख्यं प्रचक्षते ॥ २६ ॥ यथा मम- 'जनस्य तीव्रातपजार्तिवारणा जयन्ति सन्तः सततं समुन्नताः । सितातपत्रप्रतिमा विभान्ति ये विशालवंशस्थतया गुणोचिताः ।।' अभिव्यक्तं नमभरैरक्षरैर्द्वादशाक्षरम् । वदन्ति वृत्तजातिज्ञा वृत्तं द्रुतविलम्बितम् ॥ २७ ॥ यथा मम- 'नभसि भर्गगलच्छविभिर्घनैर्दुतविलम्बितगैः परिवारितः । सितकरः कलहंस इवाभितस्तरति संवलितो यमुनोर्मिभिः ॥' समन्वितं मनजरैश्छिन्नं पूर्वाक्षरैखिभिः । त्रयोदशाक्षरं नाम्ना कीर्तयन्ति प्रहर्षिणीम् ॥ २८ ॥ यथा मम- 'मानौजःसुरभिगुणैर्यशःसितानां निर्व्याजा निजभुजविक्रमक्रमाप्ता । सर्वाशाप्रणयिजनोपजीव्यमाना भव्यानां भवति परप्रहर्षिणी श्रीः ॥' अभिज्ञातं तभजजैरन्तासक्तगुरुद्वयम् । चतुर्दशाक्षरं वृत्तं वसन्ततिलकं विदुः ॥ २९ ॥ यथा मम- 'तद्भाजि जन्मसचिवे भगवत्यनङ्गे प्राप्ते लसत्कुसुममण्डलपाण्डुरेण । भृङ्गावलीकुटिलकुन्तलसंनिवेशा कान्ता वसन्ततिलकेन विभूषिता भूः ॥'


१. समन्तात् अट भ्रमणं कुरु. २. वंशः कुलं वेणुदण्डश्च. ३. केचिच्छीघ्रगामिनः, केचिन्मन्थरगामिनस्तैः. ४. अन्ते च गुरुणा युक्तमिति शेषः, ५. अन्येषां सुखप्रदा. ४ द्वि. गु० काव्यमाला ।

अष्टाक्षरविरामेण युक्ता ननमयैः सयैः । वदन्ति मालिनीनाम वृत्तं पञ्चदशाक्षरम् ॥ ३० ॥ यथा मम- 'ननननमयवाणी मेखलाकृष्टिकाले प्रविचलदिव शीलं नोत्सृजन्ती दुकूलम् । तृणलवचलनेऽपि खैरिणी शङ्कमाना दिशि दिशि कृतदृष्टिर्मालिनी कस्य नेष्टा ॥' नजभैर्जजलैरन्तगुरुभिर्नर्कुटाभिधम् । वृत्तं चानष्टविच्छेदं विदुः सप्तदशाक्षरम् ॥ ३१ ॥ यथा मम- 'निजभुजजैर्विशालगुणविक्रमकीर्तिभरैः प्रविदधता सुधांशुधवलं भवता भुवनम् । कथय कथं कृतेयमतिरागवतीं जनता चरितमपूर्वमेव तव कस्य न नर्कुटकृत् ॥' जसजैः सयलैर्गेन युताष्टनवसंह्यतिः । दशसप्ताक्षरा पृथ्वी कथिता वृत्तवेदिभिः ॥ ३२ ॥ यथा मम- 'जवात्स रजसा युतः श्रमविसंस्थुलाङ्गः पथा व्रजन्सततसेवकः पिशुनधाम वेश्म प्रभोः । कदाचिदवलोकनैः फलविवर्जितैर्मन्यते जडः करसमर्पितामिव मदेन पृथ्वीमिमाम् ॥' नसमै रसलैर्गेन युक्ता सप्तदशाक्षरा । विच्छिन्ना हरिणी पड्भिश्चतुर्भिः सप्तभिस्तथा ॥ ३३ ॥


१. यगणेन सहितैरित्यर्थः. २. मालाधारिणी. ३. नर्कुटशब्दोऽत्राश्चर्यवाचक इति माति. ४: मूर्खः स्वामिदृक्पातमात्रेण वसुधां खहस्तगतां मन्यते. सुवृत्ततिलकम् ।

यथा मम- 'न समरसनाः काले भोगाश्चलं धनयौवनं कुरुत सुकृतं यावन्नेयं तनुः प्रविशीर्यते । किमपि कलना कालस्येयं प्रधावति सत्वरा तरुणहरिणी संत्रस्तेव प्लवप्रविसारिणी ॥' यमनैः सभलैर्गेन युक्ता सप्तदशाक्षरा । षडेकादशविच्छेदवती शिखरिणी मता ॥ ३४ ॥ यथा मम- 'यथा मन्युर्लीनः स च विभवभग्नः सरपद- स्तथा जाने जाता शमसमयरम्या परिणतिः । इदानीं संसारव्यतिकरहरा तीव्रतपसे विविक्ता युक्ता मे गिरिवरमही सा शिखरिणी ।।' चतुःषट्सप्तविरतिर्वृत्तं सप्तदशाक्षरम् । मन्दाक्रान्ता मभनतैस्तगगैश्वाभिधीयते ॥ ३५ ॥ यथा मम- 'मध्येभङ्गीवलनविततापाङ्गसंसङ्गभाजः स्मर्यन्ते ते यदि धृतिमुषः पक्ष्मलाक्षीकटाक्षाः । तम्किं मिथ्या नियमनिभृतैः कानने धीयते धी- मन्दाक्रान्ता दशति निशिता पन्नगी पाणिसक्ता ।' मसजैः सततैर्गन युक्तमेकोनविंशवत् । शार्दूलक्रीडितं प्राहुश्छिन्नं द्वादशसप्तभिः ॥ ३६ ॥ यथा मम- 'माद्यत्सज्जसमाततोग्रसुभटोद्भिन्नेभकुम्भस्थल- श्लिष्यन्मौक्तिकदन्तुरः सरभसोद्वेल्लद्यशः केसरः। जृम्भारम्भभयंकरव्यतिकरत्रस्तैः समुद्वीक्षितः शत्रूणां त्वदसिः करोति समरे शार्दूलविक्रीडितम् ॥'


१. मन्दं यथा स्यात्तथा धृता. काव्यमाला ।

युक्तं मरभनैर्यैश्च त्रिभिः सप्ताक्षरैस्त्रिभिः । छदैश्च स्रग्धरावृत्तमेकविंशाक्षरं विदुः ।। ३७ ॥ यथा मम- 'सारारम्भानुभावप्रियपरिचयया खर्गरङ्गाङ्गनानां लीलाकर्णावतंसश्रियमतनुगुणश्लेषया संश्रयन्त्या । आभाति व्यक्तमुक्ताविचकिललवलीवृन्दकुन्देन्दुकान्त्या त्वत्कीर्त्या भूषितेयं भुवनपरिवृढ स्रग्धरेव त्रिलोकी ॥' इति सरलतरत्वात्सर्वकाव्योचितत्वा- त्सुकविपरिचितत्वात्कीर्णकर्णामृतत्वात् । परुषविषममात्रादुर्विरामोज्झितेयं ग्रचुररुचिरवृत्तव्यक्तिरुक्ता हिताय ॥ ३८ ॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके वृत्तावचयो नाम प्रथमो विन्यासः ।

द्वितीयो विन्यासः।

कृते प्रसिद्धवृत्तानां लक्ष्यलक्षणसंग्रहे । अधुना क्रियते तेषां गुणदोषप्रदर्शनम् ॥१॥ न षट्सप्ताक्षरे वृत्ते विश्राम्यति सरखती । भृङ्गीव मल्लिकाबालकलिकाकोटिसंकटे ॥२॥ समासैर्लघुवृत्तानामसमासैर्महीयसाम् । शोभा भवति भव्यानामुपयोगवशेन वा ॥ ३ ॥ अनुष्टुप्छन्दसां भेदे कैश्चित्सामान्यलक्षणम् । यदुक्तं पञ्चमं कुर्याल्लघु षष्ठं तथा गुरु ॥४॥ तत्राप्यनियमो दृष्टः प्रबन्धे महतामपि । तस्तादव्यभिचारेण श्रन्यतैव गरीयसी ॥ ५ ॥


१. अतिशुभ्रया त्वत्कीर्त्या. तितकुसुममालभारिणीवेयं त्रिलोकी शोभत इति भावः. सुवृत्ततिलकम् ।

यथा कालिदासस्य-

'तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तरः । दिलीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥' उपजातिविकल्पानां सिद्धो यद्यपि संकरः। तथापि प्रथमं कुर्यात्पूर्वपादाक्षरं लघु ॥६॥ यथा श्रीमदुत्पलराजस्य- 'हृताञ्जनश्यामरुचस्तवैते स्थूलाः किमित्यश्रुकणाः पतन्ति । भृङ्गा इव व्यायतपङ्क्तयो ये तनीयसीं रोमलतां श्रयन्ति ॥' सूत्रसेवात्र तीक्ष्णाग्रं श्लोकस्य लघुना मुखम् । कर्णं विशति निर्विघ्नं सरलत्वं च नोज्झति ॥ ७ ॥ गुर्वक्षरेण संरुद्धं ग्रन्थियुक्तमिवाग्रतः। करोति प्रथमं स्थूलं किंचित्कर्णकदर्थनाम् ॥ ८॥ यथा कालिदासस्य- 'अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः । पूर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥' त्र्यक्षरत्यक्षरैरेव च्छेदैराभाति दोधकम् । अतोऽल्पैरधिकैर्वापि यतिं तालमिवोज्झति ॥ ९ ॥ यथा मम- 'सज्जनपूजनशीलनशोभामर्जय वर्जय दुर्जनसङ्गम् । दुस्तरसंसृतिसागरवेगे मज्जनकारणवारणमेवत् ।' अतोऽल्पाधिकैर्यथा तुञ्जीरस्य- 'वन्मुखचन्द्रनिरीक्षणवा यः सुतरामिह निर्मलनेत्रः । सर्वजनस्य पुरः स्थितमेतत्सोऽन्तकवर्त्म न पश्यति चित्रम् ॥'


१. शारदाक्षरेषु नकाररकारयोरतिस्खल्पो मेदः, तस्मात्कदाचित्तुञ्जीन इति नाम त्यातू. तुञ्जीन इति तु कश्मीराधिपते रणादित्यस्य नामान्तरमस्ति. 'तस्यानुजो धरणि- भृद्रणादित्यस्ततोऽभवत् । तुञ्जीनापरनामानं यं जनाः प्राहुरजसा ॥' इति राजतरङ्गिणी (३।३८८). रणादित्यनामाङ्कितः श्लोकः सुभाषितावलीमध्ये वर्तते, तस्माद्रणादित्यः क. विरासीदिति स्फुटमेव. काव्यमाला।

शालिनी श्लथवन्धैव खभावेन विभाव्यते । उत्तेजयेत्तां यत्नेन मन्ददीपशिखामिव ।। १० ॥ श्लथा यथा मम- 'प्लोषक्लेशं प्रोषितानां दिशन्ती मानम्लानिं मानिनीनां दधाना । गाढं सक्ता सद्गुणग्लानिदाने चन्द्रस्य श्रीदुर्जनस्येव जाता ॥' शत्रन्ताक्षरसंयोगैः किंचित्कार्कश्यकारिभिः। अन्ते विसर्जनीयैश्च शालिनी याति दीप्तताम् ॥ ११ ॥ यथा मम- 'लज्जामज्जल्लोलतारान्तकान्तास्तिर्यङ्निर्यत्केतकीपत्त्रतीक्ष्णाः । मग्नाश्चित्ते कस्य निर्यान्ति भूयः प्रेमोन्मीलत्पक्ष्मलाक्षीकटाक्षाः ॥' श्लथस्वभावान्माधुर्यं शालिन्याः परिवर्ज्यते । रुचिः प्रयाति मन्दाग्नेः क्षीरेणात्यन्तमन्दताम् ॥ १२ ॥ विसर्गयुक्तै: पादान्तैर्विराजति रथोद्धता। कलापरिचयैर्याता लटभेव प्रगल्भताम् ॥ १३ ॥ यथा मम- 'अत्र चैत्रसमये निरन्तराः प्रोषिताहृदयकीर्णपावकाः । वान्ति कामुकमनोविमोहना व्याललोलमलयाचलानिलाः ।।' अविसर्गैस्तु पादान्तैर्निष्प्रभैव रथोद्धता । अप्रार्थनाप्रणयिनी म्लानमानेव मानिनी ॥ १४ ॥ यथा कलशकस्य- 'अञ्जलौ जलमधीरलोचना लोचनप्रतिशरीरशारितम् । आत्तमात्तमपि कान्तमुक्षितुं कातरा शफरशङ्किनी जहौ ॥'


१. अनन्तराजसूनुः कलशः कश्मीरमहाराज आसीत्. अस्यैव राज्यकाले बिह्लणकविः कश्मीरदेशं परित्यज्य देशान्तरं गतः, अयं कलशः कविरासीदिति बिह्लणेनैव विक्रमाङ्क- देवचरितेऽष्टादशे सर्गे वर्णितम्, कलशस्य केचन श्लोकाः सुभाषितावलीमध्येऽपि सन्ति. कलशराज्यसमयस्तु १०८० मितात्खिस्तसंवत्सरादारभ्य १०८८ पर्यन्तमासीत्. अस्यैव कलशस्य सूनुर्हर्षदेवो बभूव, यत्प्रशस्तिरूपो राजेन्द्रकर्णपूरग्रन्थः, सुवृत्ततिलकम् ।

साकाराद्यैर्विसर्गान्तः सर्वपादैः सविभ्रमा । स्वागता स्वागता भाति कविकर्मविलासिनी ॥ १५ ॥ यथा मम- 'व्यावलन्ति तरला जलघाराः पान्थसंगमधृतेः परिहाराः । प्रान्तरत्ननिभविद्युदुदाराः प्रावृषः पृथुपयोघरहाराः ॥' न तु यथा ममैव- 'अम्बरेऽम्बुभरलम्बिपयोदे मत्तबर्हिरुचिरेऽद्विनितम्बे । पुष्पधामनि कदम्बकदम्बे का गतिः पथिक कालविलम्बे ॥' द्रुतताललयैरेव व्यक्तं रूक्षाक्षरैः पदैः । प्रनर्तयति यच्चित्तं तत्तोटकमभीप्सितम् ॥ १६ ॥ यथा मम- 'मदपूर्णितलोचनषटूचरणं धनरागमनङ्गकराभरणम् । कमलद्युति मुग्धवधूवदनं सुकृती पिबतीह सुधासदनम् ।।' असमस्तपदैः पादसंधिविच्छेदसुन्दरम् । सर्वपादर्विसर्गान्तर्वंशस्थं यात्यनर्घताम् ॥ १७ ॥ यथा भट्टबाणस्य- 'जयन्ति बाणासुरमौलिलालिता दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनस्तमश्छिदस्र्यम्बकपादपांसवः ।। विपरीतं यथास्यैव- 'नमामि भर्वोश्चरणाम्बुजद्वयं सशेखरैर्मौखरिभिः कृतार्चनम् । समस्तसामन्तकिरीटवेदिकाविटङ्कपीठोल्लुठितारुणाङ्गुलि ।' प्रारम्भे द्रुतविन्यासं पर्यन्तेषु विलम्बितम् । विच्छिच्या सर्वपादानां भाति द्रुतविलम्बितम् ॥ १८ ॥ यथा मम- 'कमलपल्लववारिकणोपमं किमिव पासि सदा निधनं धनम् । कलभकर्णचलाञ्चलचञ्चलं स्थिरतराणि यशांसि न जीवितम् ॥' काव्यमाला।

द्रुतहीनं विलम्बितं यथा मम- 'निपततां भ्रमतां विनिमज्जतां प्रविशतां परिवारशतैरवः । तनुभृतां भव एव भवार्णवे भयमये भगवानवलम्बनम् ।।' आकारमन्थरैः प्रायः पादे पादेऽक्षरैस्त्रिभिः । शेषाक्षरैर्द्रैततरै: प्रहर्षाय ग्रहार्षिणी ॥ १९ ॥ यथा श्रीहर्षदेवस्य- दुर्वारां कुसुमशरव्यथां वहन्त्या कामिन्या यदभिहितं पुरः सखीनाम् । तद्भूयः शिशुशुकसारिकाभिरुक्तं धन्यानां श्रवणपथातिथित्वमेति ॥' विपरीतं यथा मम- "संकोचव्यतिकरबद्धभीतिलोलैर्निर्याद्भिर्भ्रमरभरैः सरोरुहेभ्यः । आरब्धः क्षणमिव संघ्यया जगत्यामुत्पत्त्यै घनतिमिरस्य बीजवापः ॥" वसन्ततिलकस्याग्रे साकारे प्रथमाक्षरे । ओजसा जायते कान्तिः सविकासविलासिनी ॥ २० ॥ यथा विद्याधिपत्यपरनाम्नो रत्नाकरस्य- 'कण्ठश्रियं कुवलयस्तबकाभिराम- दामानुकारिविकटच्छविकालकूटाम् । बिभ्रत्सुखानि दिशतादुपहारपीत- धूपोत्थधूममलिनामिव धूर्जटिवः ॥' आकारेऽपि कृते पूर्वं बन्धेऽल्पपदपेशले । वसन्ततिलकं धत्ते निर्गन्धि रमणीयताम् ॥ २१ ॥ यथा परिमलस्य- 'अच्छासु हंस इव बालमृणालिकासु भृङ्गो नवास्तिव मधुद्रुममञ्जरीषु । कोऽवन्तिभर्तुरपरो रसनिर्भरासु पृथ्वीपतिः सुकविसूक्तिषु बद्धभावः ।।" सुवृत्ततिलकम् ।

विसर्गहीनपर्यन्ता मालिनी न विराजते । चमरी छिन्नपुच्छेव वल्लीवालूनपल्लवा ॥ २२ ॥ यथा भट्टवल्लटस्य- 'घरमिह रवितापैः किं न शीर्णासि गुल्मे किमु दवदहनैर्वा सर्वदाहं न दग्धा । यदहृदयजनौघैर्वृन्तपर्णानभिज्ञै- रितरकुसुममध्ये मालति प्रोम्भितासि ॥' संपूर्णा सा यथा कालिदासस्य- 'अथ स ललितयोषिद्भूलताचारुशृङ्गं रतिवलयपदाङ्के चापमासज्य कण्ठे । सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः शतमखमुपतस्थे प्राञ्जलिः पुष्पकेतुः ।।' द्वितीयाधं समस्ताभ्यां पादाभ्यां मालिनी वरा । प्रथमार्थे समस्ताभ्यां पादाभ्यामवरा मता ॥२३॥ द्वितीयार्घे समस्तपादा यथा गन्दिनकस्य- 'करतरलितबन्धं कञ्चकं कुर्वतीनां प्रतिफलितमिदानीं दैपमातासमर्चिः । स्तनतटपरिणाहे भामिनीनां भविष्य- न्नखपदलिपिलीलासूत्रपातं करोति ॥' प्रथमार्घे समस्तपादा यथा राजशेखरस्य- 'इह हि नववसन्ते मञ्जरीपुञ्जरेणु- च्छुरणधवलदेहा बद्धहेलं सरन्ति । तरलमलिसमूहा हारिहुंकारकण्ठा बहुलपरिमलालीसुन्दरं सिन्दुवारम् ।।' अज्ञोऽप्यलक्ष्यं मालिन्यां वीणायामिव विस्वरम् । श्रुत्वैवोद्वेगमायाति वाचा वक्तुं न वेत्ति तम् ॥ २४ ॥ काव्यमाला

यथा भट्टेन्दुराजस्य- 'रहसि हृतदुकूला शीलिता तैलदीपे त्वदुपगतसमृद्धेः प्रेयसी श्रोत्रियस्य । विकिरति पटवासैर्हन्ति कर्णावतंसैः शमयति मणिदीपं पाणिफूत्कानिलेन ॥' गुरुलध्यादिनियमादविभ्रष्टेऽपि लक्षणात् । दोषस्त्वदुपगेत्यत्र श्रोत्रग्राह्योऽस्ति विस्वरः ॥ २५ ॥ प्रथमं द्वयक्षरैश्छेदैस्ततस्त्रिचतुराक्षरैः । पञ्चाक्षरैश्च पर्यन्ते नर्कुटं याति चारुताम् ॥ २६ ॥ यथा वीरदेवस्य- 'तव शतपत्रपत्रमृदुताम्रतलश्चरण- श्चलकलहंसनूपुरवरध्वनिना मुखरः । महिषमहासुरस्य शिरसि प्रसभं निहितः सकलमहीधरेन्द्रगुरुतां कथमम्ब गतः ॥' विपरीतं यथास्यैव- 'सशिखिशिखेव धूमनिचिताञ्जनशैलगुहा सकपिशपन्नगेव यमुनोन्नतनीलशिला । महिषमहासुरोपहितभासुरशूलकरा बहुलनिशेव भासि सतडिद्गुणमेघयुता ॥' असमासैः पदैर्भाति पृथ्वी पृथ्वी पृथक्स्थितैः । समासग्रन्थिभिः सैव याति संकोचखर्वताम् ॥२७॥ पृथक्पदा यथा साहिलस्य- 'कचग्रहमनुग्रहं दशनखण्डनं मण्डनं द्दगञ्चनमवञ्चनं मुखरसार्पणं तर्पणम् ।


१. खिस्तसंवत्सरीयैकादशशतकसमाप्तौ विद्यमानाद्रुद्रटालंकारटीकाकर्तुः श्वेताम्ब- रनमिसाधुतः प्राचीनोऽयं वीरदेवः, यतो नमिसाधुना 'नुवा तथाहि दुर्गाम्' (१।९) इत्यादि रुद्रटार्याव्याख्यायाम् 'केचिद्वीरदेवादयो नीरुजलं प्रापुः' इत्युक्तमस्ति. स एवायं वीरदेवः. यतोऽत्रापि दुर्गास्तुतिरूपमेवास्य श्लोकद्वयम्, सुवृत्ततिलकम् ।

नखार्दनमतर्दनं दृढमपीडनं पीडनं करोति रतिसंगरे मकरकेतनः कामिनाम् ॥' समासवती यथा मम- 'कचग्रहसमुल्लसत्कमलकोषपीडाजड़- द्विरेफकल्लकूजितानुकृतसीत्कृतालंकृताः । जयन्ति सुरतोत्सवव्यतिकरे कुरङ्गीदृशां प्रमोदमदनिर्भरप्रणयचुम्बिनो विभ्रमाः ।।' पृथ्वी साकारगम्भीरैरोज:सर्जिभिरक्षरैः । समासग्रन्थियुक्तापि याति प्रत्युत दीर्घताम् ।। २८ ॥ यथा भट्टनारायणस्य- 'महाप्रलयमारुतक्षुभितपुष्करावर्तक- प्रचण्डघनगर्जितप्रतिरुतानुकारी मुहुः । रवः श्रवणभैरवः स्थगितरोदसीकंदरः कुतोऽद्य समरोदधेरयमभूतपूर्वः श्रुतः ।।' त्वरातरलविच्छेदैविभाति हरिणी पदैः । मन्थरैर्ग्रन्थिबद्धेव याति निःस्पन्दसङ्गताम् ॥ २९ ॥ तरलपदा यथा दीपकस्य- 'तनुधनहरक्रूरस्तेनोत्कटां विकटाटवीं तरति तरसा शौर्योत्सेकात्वसार्थवशाज्जनः । पुरवरवधूलीलावल्गत्कटाक्षबलाकुले नगरनिकटे पन्थाः पान्थ स्फुटं दुरतिक्रमः ।।' मन्थरैर्यथा भट्टेन्दुराजस्य- 'गुणपरिचयस्तीर्थे वासस्थिरोभयपक्षता वपुरतिदृढं वृत्तं सम्यक्सखे तव किं पुनः । सरति सुमते यस्त्वां पातुं दृशा विनिमेषया बडिश विषमं तस्याक्षेपं करोषि सहासुभिः ॥' काव्यमाला।

त्रिषु पादेषु विश्रान्तविलासैर्ललिता पदैः । अन्ते तरङ्गितगतिहरिणी हारिणीतराम् ।। ३०॥ यथास्यैव- 'उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरवेक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया चरणनलिनन्यासोदञ्चन्नवाङ्कुरकञ्चुक: ॥' शिखरिण्याः समारोहात्सहजैवौजसः स्थितिः। सैव लुप्तविसर्गान्तै: ग्रयात्यत्यन्तमुन्नतिम् ॥ ३१ ॥ यथा मुक्ताकणस्य- 'यथा रन्ध्रं व्योम्नश्चलजलदधूमः स्थगयति स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः । यथा विद्युज्ज्वालोल्लसनपरिपिङ्गाश्च ककुभ- स्तथा मन्ये लग्नः पथिक तरुखण्डे स्मरदवः ॥' विपरीता यथा भट्टश्यामलस्य- 'धृतो गण्डाभोगे मधुप इव बद्धोऽब्जविवरे विलासिन्या मुक्तो बकुलतरुमापुष्पयति यः । विलासो नेत्राणां तरुणसहकारप्रियसखः स गण्डूषः सीधोः कथमिव शिरः प्राप्स्यति मधोः ॥' शिखरिण्याः पदैश्छिन्नैः स्वरूपं परिहीयते । मुक्कालताया निःसूत्रमुक्तैर्मुक्ताफलैरिव ॥ ३२ ॥ यथा भट्टभवभूतेः- 'असारं संसारं परिमुषितरत्नं त्रिभुवनं निरालोकं लोकं मरणशरणं बान्धवजनम् । अदर्ं कंदर्पं जननयननिर्माणमफलं जगज्जीर्णारण्यं कथमसि विधातुं व्यवसितः ।।' सुवृत्ततिलकम् ।

श्लोकेऽसिन्सचमत्कारसरसास्वादशालिनि । केवलं शिखरिण्यैव स्वरूपमपहारितम् ॥ ३३ ॥ मन्थराक्रान्तविसब्धैश्चतर्भिः प्रथमाक्षरैः । मध्यषट्केऽतिचतुरे मन्दाक्रान्ता विराजते ॥ ३४ ॥ यथा कालिदासस्य- 'ब्रह्मावर्तं जनपदमधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधवा धारासारैस्त्वमिव कमलान्यभ्यषिञ्चन्मुखानि ।' आदिमध्ये तुल्या यथास्यैव- 'कश्चित्कान्ताविरहगुरुणा खाधिकारप्रमत्तः शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥' साकाराद्यक्षरैः पादपर्यन्तैः सविसर्गकैः । शार्दूलक्रीडितं धत्ते तेजोजीवितमूर्जितम् ।। ३५ ।। यथा भट्टश्यामलस्य- 'आलानं जयकुञ्जरस्य दृषदां सेतुर्विपद्वारिधेः पूर्वाद्रिः करवालचण्डमहसो लीलोपघानं श्रियः । सङ्ग्रामामृतसागरप्रमथनक्रीडाकृतौ मन्दरो राजनराजति वीरवैरिवनितावैधव्यदस्ते भुजः ॥' विपरीतं यथा लाटडिण्डीरस्य- 'चित्रं तावदिदं सुरेन्द्रभवनान्मन्दाकिनीपाथसा केनाप्युत्तमतेजसा नृपतिना क्ष्मामण्डलं मण्डितम् । नातश्चित्रतरं निशाकरकलालावण्यदुग्धोदधे भूमेर्यद्भवता विरिञ्चिनगरी कीर्तिप्लवैः प्लाव्यते ॥ काव्यमाला।

विसर्जनीयस्योत्वेन पदैर्निम्नोन्नतैरिव । शार्दूलक्रीडितं याति पाठे सायासतामिव ॥ ३६ ॥ यथा मुक्ताकणस्य- 'लीलाचामरडम्बरो रतिपतेर्वालाम्बुदश्रेणयो रागोद्दण्डशिखण्डिनो मुखविधूद्भूतास्तमोविभ्रमाः । सौगन्ध्योद्धतघावदाकुलवलन्मत्तालिमालाकुलो धम्मिल्लो हरिणीहशो विजयते स्रस्तो रतिव्यत्यये ।' विच्छिन्नपादं पूर्वार्धे द्वितीयार्घे समासवत् । शार्दूलक्रीडितं भाति विपरीतमतोऽधमम् ॥ ३७॥ पूर्वार्धे यथा भट्टभवभूते- 'अज्ञानाद्यदि वाधिपत्यरभसादस्मत्परोक्षं हृता सीतेयं प्रविमुच्यतां शठ मरुत्पुत्रस्य हस्तेऽधुना। नो चेल्लक्ष्मणमुक्तमार्गणगणच्छेदोच्छलच्छोणित- च्छत्रच्छन्नदिगन्तमन्तकपुरं पुत्रर्वृतो यास्यसि ।।' विपरीतं यथा रिस्सोः- 'स्नातुं वाञ्छसि किं मुधैव धवलक्षीरोदफेनच्छटा- छायाहारिणि वारिणि द्युसरितो डिण्डीरविस्तारिणि । आस्ते ते कलिकालकल्मषमषीप्रक्षालनकक्षमा कीर्तिः संनिहितैव सप्तभुवनस्वच्छन्दमन्दाकिनी ॥' आद्यन्तयोर्गुणोत्कर्षकान्त्या सर्वातिशायिनोः । शार्दूलक्रीडितं धत्ते मध्ये तद्गौरवोन्नतिम् ॥ ३८ ॥ यथा कालिदासस्य- 'गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विस्रव्धैः क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले विश्रान्तिं लभतामिदं च शिथिलज्यावन्धमस्मद्धनुः ॥' सुवृत्ततिलकम् ।

आद्यन्ताकारविरहात्पर्यन्ते चाविसर्गतः। शार्दूलक्रीडितं स्वस्थ रूपं नैवोपलभ्यते ॥ ३९ ।। यथा श्रीयशोवर्मणः- 'यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गता- स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।।' सुकुमाररसस्यात्र रक्षायै वृत्तमुद्धतम् । वाक्पाकेनैव गलितं कविना नीतमल्पताम् ॥ ४० ॥ आकारगुरुयुक्तादिपर्यन्तान्त विसर्गिणी । असंस्यूतविरामा च राजते स्रग्धरातराम् ॥ ४१ ।। यथा राजशेखरस्य- 'ताम्बूलीनद्धमुग्धक्रमुकतरुलताप्रस्तरे सानुगाभिः पायं पायं कलायीकृतकदलिदलं नारिकेलीफलाम्भः । सेन्यन्तां व्योमयात्राश्रमजलजयिनः सैन्यसीमन्तिनीभि- र्दात्यूहव्यूहकेलीकलितकुहकुहारावकान्ता वनान्ताः ॥" विपरीतं यथा चक्रस्य- 'सत्यं पातालकुक्षिंभरि चिरविलसद्दिक्करि प्रीणिताभ्रं श्रीगर्भश्वभ्रमभ्रंलिहलहरि हरिस्थानमप्येव किंचित् । कल्पान्ते व्याप्तविश्वं परिरटति सरिन्नाथ पाथस्त्वदीयं किं वेतत्कुम्भयोनेः करकुहरदरीपूरमाचामतोऽभूत् ॥ आद्यन्ताकारविरहाद्वन्धदोषः स्फुटोऽपि यः । अपिलुप्तैर्विसर्गान्तैः स्रग्धरायां समीहते ॥ ४२ ॥


१. भवभूतिवाक्पतिराजादीनां प्रभुः स्वयं च रामाभ्युदयादिनाटकानां कर्ता कान्य- कुब्जमहीपालोऽयं यशोवर्मा. 'कविर्वाक्पतिराजश्रीभवभूत्यादिसेवितः । जितो ययौ यशो- वर्मा तद्गुणस्तुतिबन्दिताम् ॥' इति राजतरङ्गिणी (४११४५). स च यशोवर्मा ख्गिस्त. संवत्सरीयसप्तमशतकस्योत्तरार्ध आसीत् काव्यमाला ।

यथा मम- 'शौर्यश्रीकेशपाशः करिदलनमिलन्मौक्तिकव्यक्तपुष्पः क्षोणीरक्षाभुजंगः कुलशिखरिलुठत्कीर्तिनिर्मोकपट्टः । शत्रुत्रातप्रतापप्रलयजलघरस्फारधाराकरालः प्रीत्यै लक्ष्मीकटाक्षः कुवलयविजयी यस्य पाणौ कृपाणः ॥' एवमुद्देशलेशेन वृत्तानां दर्शितः क्रमः । अनयैव दिशा सर्वं ज्ञेयं तज्ज्ञैर्यथोचितम् ॥ ४३ ॥ मन्दाक्रान्ता भवेन्मध्ये शालिनी पूरिताक्षरा । उपेन्द्रवज्रं वंशस्थं पर्यन्तैकाक्षराधिकम् ॥ ४४ ॥ इत्यादि दर्शितं नेह स्वतःसिद्धो ह्ययं क्रमः । न वेति तदवृत्तज्ञस्तज्ज्ञस्य क्वोपयुज्यते ॥ ४५ ॥ इति परिचितनानारूपवाणीगुणानां विदितविविधदोषोद्देशलेशान्तराणाम् । इदमतिशयसूक्ष्मैर्वृत्तचर्चाविचारै- रभिहितमभिगम्यं योगितुल्याशयानाम् ॥ ४६॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके गुणदोषदर्शनं नाम द्वितीयो विन्यासः ।

तृतीयो विन्यासः।

प्रबन्धः सुतरां भाति यथास्थानं विवेचकः (निवेशितैः) । निर्दोषैर्गुणसंयुक्तै: सुवृत्तैर्मौक्तिकैरिव ॥ १ ॥ शास्त्रं काव्यं शास्त्रकाव्यं काव्यशास्त्रं च भेदतः । चतुष्प्रकारः प्रसरः सतां सारवतो मतः ॥ २॥ शास्त्रं काव्यविदः प्राहुः सर्वकाव्याङ्गलक्षणम् । काव्यं विशिष्टशब्दार्थसाहित्यसदलंकृति ॥३॥ सुवृत्ततिलकम् ।

शास्त्रकाव्यं चतुर्वर्गप्रायं सर्वोपदेशकृत् । भट्टिभौमककाव्यादि काव्यशास्त्रं प्रचक्षते ॥ ४ ॥ तत्र केवलशास्त्रेऽपि केचित्काव्यं प्रयुञ्जते । तिक्तौषधरसोद्वेगे गुडलेशमिवोपरि ॥५॥ यथा वैद्यके वाग्भटस्य- 'मधु मुखमिव सोत्पलं प्रियायाः कलरसना परिवादिनी प्रियेव । कुसुमचयमनोहरा च शय्या किसलयिनी लतिकेव पुष्पिताग्रा ॥' शास्त्रं कुर्यात्प्रयत्नेन प्रसन्नार्थमनुष्टुभा । येन सर्वोपकाराय याति सुस्पष्टसेतुताम् ॥ ६॥ काव्ये रसानुसारेण वर्णनानुगुणेन च । कुर्वीत सर्ववृत्तानां विनियोगं विभागवित् ॥ ७ ॥ शास्त्रकाव्येऽतिदीर्घाणां वृत्तानां न प्रयोजनम् । काव्यशास्त्रेऽपि वृत्तानि रसायत्तानि काव्यवित् ॥ ८॥ पुराणप्रतिबिम्बेषु प्रसन्नोपायवर्त्मसु । उपदेशप्रधानेषु कुर्यात्सर्वेष्वनुष्टुभम् ॥९॥ नानावृत्तविशेषास्तु कवेः शस्तस्य शासनात् । यान्ति प्रभोरिखात्यन्तमयोग्या अपि योग्यताम् ॥ १०॥ उग्रगोग्रहसङ्ग्रामे तत्कालसदृशोपमाः । दृष्टास्त एव वैराटेस्त एवाश्वाः किरीटिनः ॥ ११ ॥ तथाप्यवस्थासदृशैः साधुशब्दपदस्थिताः । सुवृत्तैरेव शोभन्ते प्रबन्धाः सजना इव ॥ १२ ॥


१. क्षेमेन्द्रकृत एव चतुर्वर्गसंग्रहाख्यो ग्रन्थः. २. भट्टभौमकृतं रावणार्जुनीय- काव्यं भट्टिकाव्यतुल्यं कश्मीरदेशप्रसिद्धम्. 'उदगात्कठकालापं प्रत्यष्टात्कटकौथुमम्' इति रावणार्जुनीयकाव्यश्लोका) काशिकावृत्तौ 'अनुवादे चरणानाम्' (२।४।३) एत- त्सूत्रव्याख्यान उदाहृतम् , तस्मात्काशिकावृत्तिकर्तुः प्राचीनो भट्टभौमकः. सिद्धान्त- कौमुद्यामपि द्वन्द्वसमासप्रकरणे पूर्वोक्तसूत्रव्याख्यान एवोदाहृतं पूर्वोक्तं श्लोकार्धम्. काव्यमाला ।

वृत्तरत्नावली कामादस्थाने विनिवेशिता । कथयत्यज्ञतामेव मेखलेच गले कृता ॥ १३ ॥ नहि नाम नवोन्मेषिकुचायाश्चारुचक्षुषः । चिरत्यक्तस्मराचारे जराजीर्णकचे रुचिः॥ १४ ॥ तस्मादत्र यथास्थाने विनियोगाय संगतिः । उदाहरणदिङ्भात्रैर्दर्शिताभिमता सताम् ॥ १५॥ आरम्भे सर्गबन्धस्य कथाविस्तरसंग्रहे । शमोपदेशवृत्तान्ते सन्तः शंसन्त्यनुष्टुभम् ॥ १६ ॥ आरम्भे यथा भर्तृमेण्ठस्य- 'आसीदैत्यो हयग्रीवः सुहृद्वेश्मसु यस्य ताः । प्रथयन्ति बलं बाह्वो: सितच्छत्रस्मिताः श्रियः ॥' कथाप्रसङ्गे यथाभिनन्दस्य- 'तस्यां निजभुजोद्योगविजितारातिमण्डलः । आखण्डल इव श्रीमान्राजा शूद्रुक इत्यभूत् ॥' शमोपदेशे यथा मम- 'पृथुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् । अन्वेष्टव्यं प्रयत्नेन तत्त्वज्ञैर्ज्योतिरान्तरम् ॥ शृङ्गारालम्बनोदारनायिकारूपवर्णनम् । वसन्तादि तदङ्गं च सच्छायमुपजातिभिः ॥ १७ ॥ रूपवर्णनं यथा कालिदासस्य- 'मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥' वसन्तवर्णनं यथास्यैव- 'बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि । सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥'


१. कादम्बरीकथासारकर्ता वृत्तिकारापरनाम्नो जयन्तभट्टस्य सूनुरभिनन्दकविः कश्मीरदेशे ख्रिस्तसंवत्सरीयसप्तमशतकसमाप्तौ बभूव. रामचरिताख्यकाव्यस्य कर्ता तु शतानन्दसूनुः कश्चिदन्योऽभिनन्दः, रथोद्धता विभावेषु भव्या चन्द्रोदयादिषु । षाड्गुण्यप्रगुणा नीतिर्वंशस्थेन विराजते ॥ १८ ॥

चन्द्रोदये यथास्यैव- 'अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः । कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥'

नीतिर्यथा भारवेः- "श्रियः कुरूणामधिपस्य पालिनीं प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् । स वर्णिलिङ्गी विदितः समाययौ युधिष्ठिरं द्वैतवने वनेचरः ॥'

वसन्ततिलकं भाति संकरे वीररौद्रयोः । कुर्यात्सर्गस्य पर्यन्ते मालिनीं द्रुततालवत् ॥ १९ ॥

वीररौद्रयोर्यथा रत्नाकरस्य- 'जृम्भाविकासितमुखं नखदर्पणान्त- राविष्कृतप्रतिमुखं गुरुरोषगर्भम् । रूपं पुनातु जनितारिचमूविमर्श- मुद्वृत्तदैत्यवधनिर्वहणं हरेर्वः ॥'

सर्गान्ते यथा कालिदासस्य- 'अवचितबलिपुष्पा वेदिसंमार्गदक्षा नियमविधिजलानां बर्हिषां चोपनेत्री । गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥' उपपन्नपरिच्छेदकाले शिखरिणी मता । औदार्यरुचिरौचित्यविचारे हरिणी वरा ॥२०॥

उपपन्नपरिच्छेदे यथा भर्तृहरेः- 'भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विचित्रालापानां वयमपि कवीनामनुचराः । तथाप्येवं ब्रूमो नहि परहितात्पुण्यमपरं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥'

औदार्येऽप्यस्यैव- 'विपुलहृदयैरन्यैः कैश्चिज्जगजनितं पुरा विधृतमपरैर्दत्तं चान्यैर्विजित्य तृणं यथा । इह हि भुवनान्यन्ये धीराश्चतुर्दश भुञ्जते कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥'

साक्षेपक्रोधधिक्कारे परं पृथ्वी भरक्षमा । प्रावृट्प्रवासव्यसने मन्दाक्रान्ता विराजते ॥ २१ ॥

साक्षेपे यथा यशोवर्मणः- 'स यस्य दशकंधरं कृतवतोऽपि कक्षान्तरे गतः स्फुटमवन्ध्यतामधिपयोधि सांध्यो विधिः । तदात्मज इहाङ्गदः प्रहित एष सौमित्रिणा क्व स क्व स दशाननो ननु निवेद्यतां राक्षसः ॥'

प्रावृट्प्रवासे यथा कालिदासस्य- 'तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥'

शौर्यस्तवे नृपादीनां शार्दूलक्रीडितं मतम् । सावेगपवनादीनां वर्णने स्रग्धरा मता ॥ २२ ॥ शौर्यस्तवे यथा श्रीचक्रस्य-

'नेतुं नौभिरिभा न यान्ति दृतिभिस्तार्याः कियन्तो हया-
स्तज्जानुद्वयसेन देव पयसा सैन्यं समुत्तार्यताम् ।
नो चेद्भङ्गभयद्रुतारिवनितानेत्रप्रणालीलुठ-
द्वाष्पाम्भःप्लवपूरितोभयतटी द्राग्वर्त्स्य॑तीरावती ॥'

सावेगपवने यथा मम पवनपञ्चाशिकायाम्-

प्रेङ्खच्छङ्खाभिघातस्फुटदखिलचलच्छुक्तिनिर्मुक्तमुक्ता-
मुक्तव्यक्ताट्टहासाः स्मरनृपसकलद्वीपसंचारचाराः ।
सर्पत्कर्पूरपूरप्रवणकरचिता दिग्वधूकर्णपूरा
धावन्त्याध्मातविश्वा रतविधुतवधूबन्धवो गन्धवाहाः ॥'

दोधकतोटकनर्कुटयुक्तं मुक्तकमेव विराजति सूक्तम् ।
निर्विषयस्तु रसादिषु तेषां निर्नियमश्च सदा विनियोगः ॥ २३ ॥
शेषाणामप्यनुक्तानां वृत्तानां विषयं विना ।
वैचित्र्यमात्रपात्राणां विनियोगो न दर्शितः ॥ २४ ॥
इत्येष वश्यवचसां सर्ववृत्तप्रसङ्गिनाम् ।
उक्तो विभागः सद्वृत्तविनिवेशे विशेषवान् ॥ २५ ॥
एकस्मिन्नेव यैर्वृत्ते कृतो द्वित्रेषु वा श्रमः ।
न नाम विनियोगार्हास्ते दरिद्रा इवोत्सवे ॥ २६ ॥
वृत्ते यस्य भवेद्यस्मिन्नभ्यासेन प्रगल्भता ।
स तेनैव विशेषेण स्वसंदर्भं प्रदर्शयेत् ॥ २७ ॥
एकवृत्तादरः प्रायः पूर्वेषामपि दृश्यते ।
तत्रैवातिचमत्कारादन्यत्रारब्धपूरणात् ॥ २८ ॥
अनुष्टुप्सततासक्ता साभिनन्दस्य नन्दिनी ।
विद्याधरस्य वदने गुलिकेव प्रभावभूः ॥ २९ ॥
स्पृहणीयत्वचरितं पाणिनेरुपजातिभिः ।
चमत्कारैकसाराभिरुद्यानस्येव जातिभिः ॥ ३० ॥

वृत्तच्छत्रस्य सा कापि वंशस्थस्य विचित्रता ।
प्रतिभा भारवेर्येन सच्छायेनाधिकीकृता ॥ ३१ ॥

वसन्ततिलकारूढा वाग्वल्ली गाढसङ्गिनी ।
रत्नाकरस्योत्कलिका चकास्त्याननकानने ॥ ३२ ॥

भवभूतेः शिखरिणी गिरर्गलतरङ्गिणी ।
रुचिरा घनसंदर्भे या मयुरीव नृत्यति ॥ ३३ ॥

सुवशा कालिदासस्य मन्दाक्रान्ता प्रवल्गति ।
सदश्वदमकस्येव काम्बोजतुरगाङ्गना ॥ ३४ ॥

शार्दूलक्रीडितैरेव प्रख्यातो राजशेखरः ।
शिखरीव परं वक्रैः सोल्लेखैरुच्चशेखरः ॥ ३५ ॥

इत्येवं पूर्वकवयः सर्ववृत्तकरा अपि ।
अस्मिन्हार इवैकस्मिन्प्रायेणाभ्यधिकादराः ॥ ३६ ॥

सुवर्णार्हप्रबन्धेषु यथास्थाननिवेशिनाम् ।
रत्नानामिव वृत्तानां भवत्यभ्यधिका रुचिः ॥ ३७ ॥

तस्माद्यथायं विनियोगमार्गः प्रदर्शितो वृत्तनिवेशनेषु ।
तथैव कार्यः कविभिः कृतज्ञैरवश्यवाचां नियमस्तु नायम् ॥ ३८ ॥

इत्यारुरुक्षोः प्रथमोपयुक्तं प्रवृत्तवाचश्च विवेककारि ।
महाकवेरप्यतिसूक्ष्मतत्त्वविचारहर्षप्रदमेतदुक्तम् ॥ ३९ ॥

इत्यौचित्यप्रचुररचनाविश्रुतश्रव्यवृत्त-
व्यक्तिः शक्तिप्रसृतवचसां दर्शिता संग्रहेण ।
क्षेमेन्द्रेण प्रणयिविपदां हर्तुराश्चर्यकर्तु-
र्भूभृद्भर्तुर्भुवनजयिनोऽनन्तराजस्य राज्ये ॥ ४० ॥

इति श्रीप्रकाशेन्द्रात्मजव्यासदासापरनामश्रीक्षेमेन्द्रविरचिते सुवृत्ततिलके नृत्तविनियोगो नाम तृतीयो विन्यासः ।


"https://sa.wikisource.org/w/index.php?title=सुवृत्ततिलकम्&oldid=309465" इत्यस्माद् प्रतिप्राप्तम्