सुश्रुतसंहिता/उत्तरतन्त्रम्/अध्याय ४१-६६
एकचत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातः शोषप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अनेकरोगानुगतो बहुरोगपुरोगमः
- दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः ३
- संशोषणाद्र सादीनां शोष इत्यभिधीयते
- क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पुनः ४
- राज्ञश्चन्द्र मसो यस्मादभूदेष किलामयः
- तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः ५
- स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि
- एकादशानामेकस्मिन् सान्निध्यात्तन्त्रयुक्तितः ६
- क्रियाणामविभागेन प्रागेकोत्पादनेन च
- एक एव मतः शोषः सन्निपातात्मको ह्यतः ७
- उद्रे कात्तत्र लिङ्गानि दोषाणां निपतन्ति हि
- क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् ८
- जायते कुपितैर्दोषैर्व्याप्तदेहस्य देहिनः
- कफप्रधानैर्दोषैर्हि रुद्धेषु रसवर्त्मसु ९
- अतिव्यवायिनो वापि क्षीणे रेतस्यनन्तरम्
- क्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः १०
- भक्तद्वेषो ज्वरः श्वासः कासः शोणितदर्शनम्
- स्वरभेदश्च जायेत षड्रूपे राजयक्ष्मणि ११
- स्वरभेदोऽनिलाञ्छूलं संलोचश्चांसपार्श्वयोः
- ज्वरो दाहोऽतिसारश्च पित्ताद्र क्तस्य चागमः १२
- शिरसः परिपूर्णत्वमभक्तच्छन्द एव च
- कासः कण्ठस्य चोद्ध्वंसो विज्ञेयः कफकोपतः १३
- एकादशभिरेभिर्वा षड्भिर्वाऽपि समन्वितम्
- कासातीसारपार्श्वार्तिस्वरभेदारुचिज्वरैः १४
- त्रिभिर्वा पीडितं लिङ्गैर्ज्वरकासासृगामयैः
- जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः १५
- व्यवायशोकस्थाविर्यव्यायामाध्वोपवासतः
- व्रणोरःक्षतपीडाभ्यां शोषानन्ये वदन्ति हि १६
- व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः
- पाण्डुदेहो यथापूर्वं क्षीयन्ते चास्य धातवः १७
- प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः
- विना शुक्रक्षयकृतैर्विकारैरभिलक्षितः १८
- जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रि यः
- कम्पनोऽरुचिमान् भिन्नकांस्यपात्रहतस्वरः १९
- ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः
- संप्रस्रुतास्यनासाक्षः सुप्तरूक्षमलच्छविः २०
- अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः
- प्रसुप्तगात्रावयवः शुष्कक्लोमगलाननः २१
- व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः
- उरःक्षतकृतैर्लिङ्गैः संयुक्तश्च क्षताद्विना २२
- रक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात्
- व्रणितस्य भवेच्छोषः स चासाध्यतमः स्मृतः २३
- व्यायामभाराध्ययनैरभिघातातिमैथुनैः
- कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम्
- तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति २४
- कासमानश्छर्दयेच्च पीतरक्तासितारुणम्
- संतप्तवक्षाः सोऽत्यर्थं दूयनात्परिताम्यति २५
- दुर्गन्धवदनोच्छ्वासो भिन्नवर्णस्वरो नरः
- केषांचिदेवं शोषो हि कारणैर्मेदमागतः २६
- न तत्र दोषलिङ्गानां समस्तानां निपातनम्
- क्षया एव हि ते ज्ञेयाः प्रत्येकं धातुसंज्ञिताः २७
- चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये २८
- श्वासाङ्गसादकफसंस्रवतालुशोषच्छर्द्यग्निसादमदपीनसपाण्डुनिद्रा ः!
- शोषे भविष्यति भवन्ति स चापि जन्तुः
- शुक्लेक्षणो भवति मांसपरो रिरंसुः २९
- स्वप्नेषु काकशुकशल्लकिनीलकण्ठगृध्रास्तथैव कपयः कृकलासकाश्च
- तं वाहयन्ति स नदीर्विजलाश्च पश्येच्छुष्कांस्तरून् पवनधूमदवार्दितांश्च ३०
- महाशनं क्षीयमाणमतीसारनिपीडितम्
- शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् ३१
- उपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम्
- स्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च ३२
- स्निग्धस्य मृदु कर्तव्यमूर्ध्वं चाधश्च शोधनम्
- आस्थापनं तथा कार्यं शिरसश्च विरेचनम् ३३
- यवगोधूमशालींश्च रसैर्भुञ्जीत शोधितः
- दृढेऽग्नौ बृंहयेच्चापि निवृत्तोपद्र वं नरम् ३४
- व्यवायशोषिणं प्रायो भजन्ते वातजा गदाः
- बृंहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः ३५
- काकानुलूकान्नकुलान् बिडालान् गण्डूपदान् व्यालबिलेशयाखून्
- गृध्रांश्च दद्याद्विविधैः प्रवादैः ससैन्धवान् सर्षपतैलभृष्टान् ३६
- देयानि मांसानि च जाङ्गलानि मुद्गाढकीसूपरसाश्च हृद्याः
- खरोष्ट्रनागाश्वतराश्वजानि देयानि मांसानि सुकल्पितानि ३७
- मांसोपदंशांश्च पिबेदरिष्टान् मार्द्वीकयुक्तान् मदिराश्च सेव्याः
- अर्कामृताक्षारजलोषितेभ्यः कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् ३८
- खादेत् पिबेत् सर्पिरजाविकं वा कृशो यवाग्वा सह भक्तकाले
- सर्पिर्मधुभ्यां त्रिकटु प्रलिह्याच्चव्याविडङ्गोपहितं क्षयार्तः ३९
- मांसादमांसेषु घृतं च सिद्धं शोषापहं क्षौद्र कणासमेतम्
- द्रा क्षासितामागधिकावलेहः सक्षौद्र तैलः क्षयरोगघाती ४०
- घृतेन चाजेन समाक्षिकेण तुरङ्गगन्धातिलमाषचूर्णम्
- सिताश्वगन्धामगधोद्भवानां चूर्णं घृतक्षौद्र युतं प्रलिह्यात् ४१
- क्षीरं पिबेद्वाऽप्यथ वाजिगन्धाविपक्वमेवं लभतेऽङ्गपुष्टिम्
- तदुत्थितं क्षीरघृतं सिताढ्यं प्रातः पिबेद्वाऽपि पयोनुपानम् ४२
- उत्सादने चापि तुरङ्गगन्धा योज्या यवाश्चैव पुनर्नवे च
- कृत्स्ने वृषे तत्कुसुमैश्च सिद्धं सर्पिः पिबेत्क्षौद्र युतं हिताशी ४३
- यक्ष्माणमेतत् प्रबलं च कासं श्वासं च हन्यादपि पाण्डुतां च
- शकृद्र सा गोश्वगजाव्यजानां क्वाथा मिताश्चापि तथैव भागैः ४४
- मूर्वाहरिद्रा खदिरद्रुमाणां क्षीरस्य भागस्त्वपरो घृतस्य
- भागान् दशैतान् विपचेद्विधिज्ञो दत्त्वा त्रिवर्गं मधुरं च कृत्स्नम् ४५
- कटुत्रिकं चैव सभद्र दारु घृतोत्तमं यक्ष्मनिवारणाय
- द्वे पञ्चमूल्यौ वरुणं करञ्जं भल्लातकं बिल्वपुनर्नवे च ४६
- यवान् कुलत्थान् बदराणि भार्गी पाठां हुताशं समहीकदम्बम्
- कृत्वा कषायं विपचेद्धि तस्य षड्भिर्हि पात्रैर्घृतपात्रमेकम् ४७
- व्योषं महावृक्षपयोऽभयां च चव्यं सुराख्यं लवणोत्तमं च
- एतद्धि शोषं जठराणि चैव हन्यात् प्रमेहांश्च सहानिलेन ४८
- गोश्वाव्यजेभैणखरोष्ट्रजातैः शकृद्र सक्षीररसक्षतोत्थैः
- द्रा क्षाश्वगन्धामगधासिताभिः सिद्धं घृतं यक्ष्मविकारहारि ४९
- एलाजमोदामलकाभयाक्षगायत्र्! यरिष्टासनशालसारान्
- विडङ्गभल्लातकचित्रकोग्राकटुत्रिकाम्भोदसुराष्ट्रजांश्च ५०
- पक्त्वा जले तेन पचेद्धि सर्पिस्तस्मिन् सुसिद्धे त्ववतारिते च
- त्रिंशत्पलान्यत्र सितोपलाया दत्त्वा तुगाक्षीरिपलानि षट् च ५१
- प्रस्थे घृतस्य द्विगुणं च दद्यात् क्षौद्रं ततो मन्थहतं विदध्यात्
- पलं पलं प्रातरतः प्रलिह्य पश्चात् पिबेत् क्षीरमतन्द्रि तश्च ५२
- एतद्धि मेध्यं परमं पवित्रं चक्षुष्यमायुष्यमथो यशस्यम्
- यक्ष्माणमाशु व्यपहन्ति चैतत् पाण्ड्वामयं चैव भगन्दरं च ५३
- श्वासं च हन्ति स्वरभेदकासहृत्प्लीहगुल्मग्रहणीगदांश्च
- न चात्र किंचित् परिवर्जनीयं रसायनं चैतदुपास्यमानम् ५४
- प्लीहोदरोक्तं विहितं च सर्पिस्त्रीण्येव चान्यानि हितानि चात्र
- उपद्र वांश्च स्वरवैकृतादीन् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ५५
- अजाशकृन्मूत्रपयोघृतासृङ्मांसालयानि प्रतिसेवमानः
- स्नानादिनानाविधिना जहाति मासादशेषं नियमेन शोषम् ५६
- रसोनयोगं विधिवत् क्षयार्तः क्षीरेण वा नागबलाप्रयोगम्
- सेवेत वा मागधिकाविधानं तथोपयोगं जतुनोऽश्मजस्य ५७
- शोकं स्त्रियं क्रोधमसूयनं च त्यजेदुदारान् विषयान् भजेत
- वैद्यान् द्विजातींस्त्रिदशान् गुरूंश्च वाचश्च पुण्याः शृणुयाद्द्विजेभ्यः ५८
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे एकचत्वारिंशोऽध्यायः ४१
द्विचत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातो गुल्मप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- यथोक्तैः कोपनैर्दोषाः कुपिताः कोष्ठमागताः
- जनयन्ति नृणां गुल्मं स पञ्चविध उच्यते ३
- हृद्बस्त्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः
- चयापचयवान् वृत्तः स गुल्म इति कीर्तितः ४
- पञ्च गुल्माश्रया नॄणां पार्श्वे हृन्नाभिबस्तयः
- गुपितानिलमूलत्वाद्गूढमूलोदयादपि ५
- गुल्मवद्वा विशालत्वाद्गुल्म इत्यभिधीयते
- स यस्मादात्मनि चयं गच्छत्यप्स्विव बुद्बुदः ६
- अन्तः सरति यस्माच्च न पाकमुपयात्यतः
- स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छ्रितैः ७
- पुरुषाणां तथा स्त्रीणां ज्ञेयो रक्तेन चापरः
- सदनं मदन्ता वह्नेराटोपोऽन्त्रविकूजनम् ८
- विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा
- द्वेषोऽन्ने वायुरूर्ध्वं च पूर्वरूपेषु गुल्मिनाम् ९
- हृत्कुक्षिशूलं मुखकण्ठशोषो वायोर्निरोधो विषमाग्निता च
- ते ते विकाराः पवनात्मकाश्च भवन्ति गुल्मेऽनिलसंभवे तु १०
- स्वेदज्वराहारविदाहदाहास्तृष्णाऽङ्गरागः कटुवक्त्रता च
- पित्तस्य लिङ्गान्यखिलानि यानि पित्तात्मके तानि भवन्ति गुल्मे ११
- स्तैमित्यमन्नेऽरुचिरङ्गसादश्छर्दिः प्रसेको मधुरास्यता च
- कफस्य लिङ्गानि च यानि तानि भवन्ति गुल्मे कफसंभवे तु १२
- सर्वात्मकः सर्वविकारयुक्तः सोऽसाध्य उक्तः क्षतजं प्रवक्ष्ये
- नवप्रसूताऽहितभोजना या या चामगर्भं विसृजेदृतौ वा १३
- वायुर्हि तस्याः परिगृह्य रक्तं करोति गुल्मं मरुजं सदाहम्
- पैत्तस्य लिङ्गेन समानिलङ्गं विशेषणं चाप्यपरं निबोध १४
- न स्पन्दते नोदरमेति वृद्धिं भवन्ति लिङ्गानि च गर्भिणीनाम्
- तं गर्भकालातिगमे चिकित्स्यमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः १५
- वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः
- उपाचरेद्यथाकालं निरूहैः सानुवासनैः १६
- पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु
- विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् १७
- श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु
- तीक्ष्णैर्विरिक्तं तद्रू पैर्निरूहैः समुपाचरेत् १८
- सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः
- पित्तवद्र क्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः १९
- विशेषमपरं चास्याः शृणु रक्तविमेदनम्
- पलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् २०
- दद्यादुत्तरबस्तिं च पिप्पल्यादिघृतेन तु
- उष्णैर्वा भेदयेद्भिन्ने विधिरासृग्दरो हितः २१
- आनूपौदकमज्जानो वसा तैलं घृतं दधि
- विपक्वमेकतः शस्तं वातगुल्मेऽनुवासनम् २२
- जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके
- तैलं जाङ्गलमज्जान एवं गुल्मे कफोत्थिते २३
- धात्रीफलानां स्वरसे षडङ्गं विपचेद्घृतम्
- शर्करासैन्धवोपेतं तद्धितं वातगुल्मिने २४
- चित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमैः
- दीप्यकग्रन्थिकाजाजीहपुषाधान्यकैः समैः २५
- दध्यारनालबदरमूलकस्वरसैर्घृतम्
- तत्पिबेद्वातगुल्माग्निदौर्बल्याटोपशूलनुत् २६
- हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः
- पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः २७
- शटीवचाजगन्धैलासुरसैश्च विपाचितम्
- शूलानाहहरं सर्पिर्दध्ना चानिलगुल्मिनाम् २८
- विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः
- हिङ्गुसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः २९
- बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम्
- साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् ३०
- रसोनस्वरसे सर्पिः पञ्चमूलरसान्वितम्
- सुरारनालदध्यम्लमूलकस्वरसैः सह ३१
- व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः
- हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः ३२
- सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान्
- कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् ३३
- दधि सौवीरकं सर्पिः क्वाथौ मुद्गकुलत्थजौ
- पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ ३४
- सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम्
- वातगुल्मापहं सर्पिरेतद्दीपनमेव च ३५
- तृणमूलकषाये तु जीवनीयैः पचेद्घृतम्
- न्यग्रोधादिगणे वाऽपि गणे वाऽप्युत्पलादिके ३६
- रक्तपित्तोत्थितं घ्नन्ति घृतान्येतान्यसंशयम्
- आरग्वधादौ विपचेद्दीपनीययुतं घृतम् ३७
- क्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम्
- घ्नन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् ३८
- यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम्
- चूर्णं हिङ्वादिकं वाऽपि घृतं वा प्लीहनाशनम् ३९
- पिबेद्गुल्मापहं काले सर्पिस्तैल्वकमेव वा
- तिलेक्षुरकपालाशसार्षपं यावनालजम् ४०
- भस्म मूलकजं चापि गोजाविखरहस्मिनाम्
- मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः ४१
- कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः
- साजमोदैश्च दशभिः सामुद्रा च्च पलैर्युतम् ४२
- अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्यमथोद्धरेत्
- तस्य मात्रां पिबेद्दघ्ना सुरया सर्पिषाऽपि वा ४३
- धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा
- गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम् ४४
- स्वर्जिकाकुष्ठसहितः क्षारः केतकिजोऽपि वा
- तैलेन शमयेत् पीतो गुल्मं पवनसंभवम् ४५
- पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम्
- वृश्चीवमुरुबूकं च वर्षाभूर्बृहतीद्वयम् ४६
- चित्रकं च जलद्रो णे पक्त्वा पादावशेषितम्
- मागधीचित्रकक्षौद्र लिप्ते कुम्भे निधापयेत् ४७
- मधुनः प्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम्
- बुसोषितं दशाहं तु जीर्णभक्तः पिबेन्नरः ४८
- अरिष्टोऽयं जयेद्गुल्ममविपाकमरोचकम्
- पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् ४९
- लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः
- पथ्याभिर्वा युतं चूर्नं गवां मूत्रयुतं पचेत् ५०
- गुटिकास्तद्घनीभूतं कृत्वा खादेदभुक्तवान्
- गुल्मप्लीहाग्निसादांस्ता नाशयेयुरशेषतः ५१
- हृद्रो गं ग्रहणीदोषं पाण्डुरोगं च दारुणम्
- सशूले सोन्नतेऽस्पन्दे दाहपाकरुगन्विते ५२
- गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत्
- सुखोष्णा जाङ्गलरसाः सुस्निग्धा व्यक्तसैन्धवाः ५३
- कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम्
- पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः ५४
- खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः
- बद्धवर्चोनिलानां तु सार्द्र कं क्षीरमिष्यते ५५
- कुम्भीपिण्डेष्टकास्वेदान् कारयेत् कुशलो भिषक्
- गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् ५६
- अतश्चैतांस्तु सुस्विन्नान् स्रंसनेनोपपादयेत्
- बिम्लापनाभ्यञ्जनानि तथैव दहनानि च ५७
- उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः
- उदरोक्तानि सर्पींषि मूत्रवर्तिक्रियास्तथा ५८
- लवणानि च योज्यानि यान्युक्तान्यनिलामये
- वातवर्चोनिरोधे तु सामुद्रा र्द्र कसर्षपैः ५९
- कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः
- दन्तीचित्रकमूलेषु तथा वातहरेषु च ६०
- कुर्यादरिष्टान् सर्वांश्च श्लोकस्थाने यथेरितान्
- खादेद्वाऽप्यङ्कुरान् भृष्टान् पूतीकनृपवृक्षयोः ६१
- ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत्
- पिबेत्त्रिवृन्नागरं वा सगुडां वा हरीतकीम् ६२
- गुग्गुलुं त्रिवृतां दन्तीं द्र वन्तीं सैन्धवं वचाम्
- मूत्रमद्यपयोद्रा क्षारसैर्वीक्ष्य बलाबलम् ६३
- एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु
- पिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः ६४
- युक्ता हन्ति सुरा गुल्मं शीघ्रं काले प्रयोजिता
- बद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् ६५
- कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान्
- अथास्योपद्र वः शूलः कथंचिदुपजायते ६६
- शूलं निखानितमिवासुखं येन तु वेत्त्यसौ
- तत्र विण्मूत्रसंरोधः कृच्छ्रोच्छ्वासः स्थिराङ्गता ६७
- तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता
- रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता ६८
- वाय्वादिभिर्यथासङ्ख्यं मिश्रैर्वा वीक्ष्य योजयेत्
- पथ्यात्रिलवणं क्षारं हिङ्गुतुम्बुरुपौष्करम् ६९
- यवानीं च हरिद्रा ं! च विडङ्गान्यम्लवेत्सम्
- विदारीत्रिफलाऽभीरुशृङ्गाटीगुडशर्कराः ७०
- काश्मरीफलयष्ट्याह्वपरूषकहिमानि च
- षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् ७१
- कृष्णामूलकचव्यं च नागरक्षारचित्रकान्
- उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् ७२
- यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वांश्च सर्वजे
- तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् ७३
- शिशिरोदकपूर्णानां भाजनानां च धारणम्
- वमनोन्मर्दनस्वेदलङ्घनक्षपणक्रियाः ७४
- स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते
- वलूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् ७५
- न खादेदालुकं गुल्मी मधुराणि फलानि च
- विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते ७६
- निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम्
- वातमूत्रपुरीषाणां निग्रहादतिभोजनात् ७७
- अजीर्णाध्यशनायासविरुद्धान्नोपसेवनात्
- पानीयपानात् क्षुत्काले विरूढानां च सेवनात् ७८
- पिष्टान्नशुष्कमांसानामुपयोगात्तथैव च
- एवंविधानां द्र व्याणामन्येषां चोपसेवनात् ७९
- वायुः प्रकुपितः कोष्ठे शूलं संजनयेद्भृशम्
- निरुच्छ्वासी भवेत्तेन वेदनापीडितो नरः ८०
- शङ्कुस्फोटनवत्तस्य यस्मात्तीव्राश्च वेदनाः
- शूलासक्तस्य लक्ष्यन्ते तस्माच्छूलमिहोच्यते ८१
- निराहारस्य यस्यैव तीव्रं शूलमुदीर्यते
- प्रस्तब्धगात्रो भवति कृच्छ्रेणोच्छ्वसितीव च ८२
- वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः
- एतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् ८३
- तृष्णा दाहो मदो मूर्च्छा तीव्रं शूलं तथैव च
- शीताभिकामो भवति शीतेनैव प्रशाम्यति ८४
- एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम्
- शूलेनोत्पीड्यमानस्य हृल्लास उपजायते ८५
- अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता
- एतच्छ्लेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् ८६
- सर्वाणि दृष्ट्वा रूपाणि निर्दिशेत्सान्निपातिकम्
- सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् ८७
- शूलानां लक्षणं प्रोक्तं चिकित्सां तु निबोध मे
- आशुकारी हि पवनस्तस्मात्तं त्वरया जयेत् ८८
- तस्य शूलाभिपन्नस्य स्वेद एव सुखावहः
- पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः ८९
- त्रिवृच्छाकेन वा स्निग्धमुष्णं भुञ्जीत भोजनम्
- चिरबिल्वाङ्कुरान् वापि तैलभृष्टांस्तु भक्षयेत् ९०
- वैहङ्गांश्च रसान् स्निग्धान् जाङ्गलान् शूलपीडितः
- यथालाभं निषेवेत मांसानि बिलशायिनाम् ९१
- सुरा सौविरकं चुक्रं मस्तूदश्वित्तथा दधि
- सकाललवणं पेयं शूले वातसमुद्भवे ९२
- कुलत्थयूषो युक्ताम्लो लावकीयूषसंस्कृतः
- ससैन्धवः समरिचो वातशूलविनाशनः ९३
- विडङ्गशिग्रुकम्पिल्लपथ्याश्यामाम्लवेतसान्
- सुरसामश्वमूत्रीं च सौवर्चलयुतान् पिबेत् ९४
- मद्येन वातजं शूलं क्षिप्रमेव प्रशाम्यति
- पृथ्वीकाजाजिचविकायवानीव्योषचित्रकाः ९५
- पिप्पल्यः पिप्पलीमूलं सैन्धवं चेति चूर्णयेत्
- तानि चूर्णानि पयसा पिबेत् काम्बलिकेन वा ९६
- मध्वासवेन चुक्रेण सुरासौवीरकेण वा
- अथवैतानि चूर्णानि मातुलुङ्गरसेन वा ९७
- तथा बदरयूषेण भावितानि पुनः पुनः
- तानि हिङ्गुप्रगाढानि सह शर्करया पिबेत् ९८
- सह दाडिमसारेण वर्तिः कार्या भिषग्जिता
- सा वर्तिर्वातिकं शूलं क्षिप्रमेव व्यपोहति ९९
- गुडतैलेन वा लीढा पीता मद्येन वा पुनः
- बुभुक्षाप्रभवे शूले लघु संतर्पणम् हितम् १००
- उष्णैः क्षीरैर्यवागूभिः स्निग्धैर्मांसरसैस्तथा
- वातशूले समुत्पन्ने रूक्षं स्निग्धेन भोजयेत् १०१
- सुसंस्कृताः प्रदेयाः स्युर्घृतपूरा विशेषतः
- वारुणीं च पिबेज्जन्तुस्तथा संपद्यते सुखी १०२
- एतद्वातसमुत्थस्य शूलस्योक्तं चिकित्सितम्
- अथ पित्तसमुत्थस्य क्रियां वक्ष्याम्यतः परम् १०३
- स सुखं छर्दयित्वा तु पीत्वा शीतोदकं नरः
- शीतलानि च सेवेत सर्वाण्युष्णानि वर्जयेत् १०४
- मणिराजतताम्राणि भाजनानि च सर्वशः
- वारिपूर्णानि तान्यस्य शूलस्योपरि निक्षिपेत् १०५
- गुडः शालिर्यवाः क्षीरं सर्पिःपानं विरेचनम्
- जाङ्गलानि च मांसानि भेषजं पित्तशूलिनाम् १०६
- रसान् सेवेत पित्तघ्नान् पित्तलानि विवर्जयेत्
- पालाशं धान्वनं वाऽपि पिबेद्यूषं सशर्करम् १०७
- परूषकाणि मृद्वीकाखर्जूरोदकजान्यपि
- तत् पिबेच्छर्करायुक्तं पित्तशूलनिवारणम् १०८
- अशने भुक्तमात्रे तु प्रकोपः श्लैष्मिकस्य च
- वमनं कारयेत्तत्र पिप्पलीवारिणा भिषक् १०९
- रूक्षः स्वेदः प्रयोज्यः स्यादन्याश्चोष्णाः क्रिया हिताः
- पिप्पली शृङ्गवेरं च श्लेष्मशूले भिषग्जितम् ११०
- पाठां वचां त्रिकटुकं तथा कटुकरोहिणीम्
- चित्रकस्य च निर्यूहे पिबेद्यूषं सहार्जकम् १११
- एरण्डफलमूलानि मूलं गोक्षुरकस्य च
- शालपर्णीं पृश्निपर्णीं बृहतीं कण्टकारिकाम् ११२
- दद्याच्छृगालविन्नां च सहदेवां तथैव च
- महासहां क्षुद्र सहां मूलमिक्षुरकस्य च ११३
- एतत् संभृत्य संभारं जलद्रो णे विपाचयेत्
- चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् ११४
- वातिकं पैत्तिकं वाऽपि श्लैष्मिकं सान्निपातिकम्
- प्रसह्य नाशयेच्छूलं छिन्नाभ्रमिव मारुतः ११५
- पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च
- सेव्यं चैतत् समानीय भस्म कुर्याद्विचक्षणः ११६
- तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम्
- रुणद्धि मारुतं श्लेष्मा कुक्षिपार्श्वव्यवस्थितः ११७
- स संरुद्धः करोत्याशु साध्मानं गुड्गुडायनम्
- सूचीभिरिव निस्तोदं कृच्छ्रोच्छ्वासी तदा नरः ११८
- नान्नं वाञ्छति नो निद्रा मुपैत्यर्तिनिपीडितः
- पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः ११९
- तत्र पुष्करमूलानि हिङ्गु सौवर्चलं विडम्
- सैन्धवं तुम्बुरुं पथ्यां चूर्णं कृत्वा तु पाययेत् १२०
- पार्श्वहृद्बस्तिशूलेषु यवक्वाथेन संयुतम्
- सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गुसंयुतम् १२१
- बीजपूरकसारं वा पयसा सह साधितम्
- एरण्डतैलमथवा मद्यमस्तुपयोरसैः १२२
- भोजयेच्चापि पयसा जाङ्गलेन रसेन वा
- प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः १२३
- तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते
- उच्छ्वसित्यामशकृता शूलेनाहन्यते मुहुः १२४
- नैवासने न शयने तिष्ठन् वा लभते सुखम्
- कुक्षिशूल इति ख्यातो वातादामसमुद्भवः १२५
- वमनं कारयेत्तत्र लङ्घयेद्वा यथाबलम्
- संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः १२६
- नागरं दीप्यकं चव्यं हिङ्गु सौवर्चलं विडम्
- मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः १२७
- बृहत्याः कण्टकार्याश्च क्वाथं शूलहरं पिबेत्
- वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया १२८
- कुटजस्य च बीजानि सद्यःशूलहराणि तु
- विरेचने प्रयुञ्जीत ज्ञात्वा दोषबलाबलम् १२९
- स्नेहबस्तीन्निरूहांश्च कुर्याद्दोषनिबर्हणान्
- उपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् १३०
- अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम्
- कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः १३१
- हृदिस्थः कुरुते शूलमुच्छ्वासारोधकं परम्
- स हृच्छूल इति ख्यातो रसमारुतसंभवः १३२
- तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम्
- संरोधात् कुपितो वायुर्बस्तिमावृत्य तिष्ठति १३३
- बस्तिवङ्क्षणनाभीषु ततः शूलोऽस्य जायते
- विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् १३४
- नाभ्यां वङ्क्षणपार्श्वेषु कुक्षौ मेढ्रान्त्रमर्दकः
- मूत्रमावृत्य गृह्णाति मूत्रशूलः स मारुतात् १३५
- वायुः प्रकुपितो यस्य रूक्षाहारस्य देहिनः
- मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् १३६
- शूलं संजनयंस्तीव्रं स्नोतांस्यावृत्य तस्य हि
- दक्षिणं यदि वा वामं कुक्षिमादाय जायते १३७
- सर्वत्र वर्धते क्षिप्रं भ्रमन्नथ सघोषवान्
- पिपासा वर्धते तीव्रा भ्रमो मूर्च्छा च जायते १३८
- उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति
- विट्शूलमेतज्जानीयाद्भिषक् परमदारुणम् १३९
- क्षिप्रं दोषहरं कार्यं भिषजा साधु जानता
- स्वेदनं शमनं चैव निरूहाः स्नेहबस्तयः १४०
- पूर्वोद्दिष्टान् पाययेत योगान् कोष्ठविशोधनान्
- उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः १४१
- अतिमात्रं यदा भुक्तं पावके मृदुतां गते
- स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति १४२
- अविपाकगतं ह्यन्नं शूलं तीव्रं करोत्यति
- मूर्च्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका
- विरिच्यते छर्दयति कम्पतेऽथ विमुह्यति
- अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः १४४
- वमनं लङ्घनं स्वेदः पाचनं फलवर्तयः
- क्षाराश्चूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः १४५
- गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम्
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे गुल्मप्रतिषधो नाम द्विचत्वारिंशोऽध्यायः ४२
त्रिचत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातो हृद्रो गप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः
- विरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि भोजनैः ३
- दूषयित्वा रसं दोषा विगुणा हृदयं गताः
- कुर्वन्ति हृदये बाधां हृद्रो गं तं प्रचक्षते ४
- चतुर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक्
- लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् ५
- आयम्यते मारुतजे हृदयं तुद्यते तथा
- निर्मथ्यते दीर्यते च स्फोट्यते पाट्यतेऽपि च ६
- तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः
- धूमायनं च मूर्च्छा च स्वेदः शोषो मुखस्य च ७
- गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम्
- माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि ८
- उत्क्लेशः ष्ठीवनं तोदः शूलो हृल्लासकस्तमः
- अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् ९
- भ्रमक्लमौ सादशोषौ ज्ञेयास्तेषामुपद्र वाः
- कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः १०
- वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम्
- द्विपञ्चमूलक्वाथेन सस्नेहलवणेन तु ११
- पिप्पल्येलावचाहिङ्गुयवभस्मानि सैन्धवम्
- सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् १२
- फलधान्याम्लकौलत्थदधिमद्यासवादिभिः
- पाययेत विशुद्धं च स्नेहेनान्यतमेन वा १३
- भोजयेज्जीर्णशाल्यन्नं जाङ्गलैः सघृतै रसैः
- वातघ्नसिद्धं तैलं च दद्याद्बस्तिं प्रमाणतः १४
- श्रीपर्णीमधुकक्षौद्र सितोत्पलजलैर्वमेत्
- पित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् १५
- घृतं कषायांश्चोद्दिष्टान् पित्तज्वरविनाशनान्
- तृप्तस्य च रसैर्मुख्यैर्मधुरैः सघृतैर्भिषक् १६
- सक्षौद्रं वितरेद्बस्तौ तैलं मधुकसाधितम्
- वचानिम्बकषायाभ्यां वान्तं हृदि कफात्मके १७
- चूर्णं तु पाययेतोक्तं वातजे भोजयेच्च तम्
- फलादिमथ मुस्तादिं त्रिफलां वा पिबेन्नरः १८
- श्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम्
- बलातैलैर्विदध्याच्च बस्तिं बस्तिविशारदः १९
- कृमिहृद्रो गिणं स्निग्धं भोजयेत् पिशितौदनम्
- दध्ना च पललोपेतं त्र्! यहं पश्चाद्विरेचयेत् २०
- सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः
- विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् २१
- हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम्
- यवान्नं वितरेच्चास्य सविडङ्गमतः परम् २२
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हृद्रो गप्रतिषेधो नाम त्रिचत्वारिंशोऽध्यायः ४३
चतुश्चत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- व्यवायमम्लं लवणानि मद्यं मृदं दिवास्वप्नमतीव तीक्ष्णम्
- निषेवमाणस्य विदूष्य रक्तं कुर्वन्ति दोषास्त्वचि पाण्डुभावम् ३
- पाण्ड्वामयोऽष्टार्धविधः प्रदिष्टः पृथक्समस्तैर्युगपच्च दोषैः
- सर्वेषु चैतेष्विह पाण्डुभावो यतोऽधिकोऽतः खलु पाण्डुरोगः ४
- त्वक्स्फोटनं ष्ठीवनगात्रसादौ मृद्भक्षणं प्रेक्षणकूटशोथः
- विण्मूत्रपीतत्वमथाविपाको भविष्यतस्तस्य पुरःसराणि ५
- स कामलापानकिपाण्डुरोगः कुम्भाह्वयो लाघरकोऽलसाख्यः
- विभाष्यते लक्षणमस्य कृत्स्नं निबोध वक्ष्याम्यनुपूर्वशस्तत् ६
- कृष्णेक्षणं कृष्णसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
- वातेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ७
- पीतेक्षणं पीतसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
- पित्तेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ८
- शुक्लेक्षणं शुक्लसिरावनद्धं तद्वर्णविण्मूत्रनखाननं च
- कफेन पाण्डुं मनुजं व्यवस्येद्युक्तं तथाऽन्यैस्तदुपद्र वैश्च ९
- सर्वात्मके सर्वमिदं व्यवस्येद्वक्ष्यामि लिङ्गान्यथ कामलायाः
- यो ह्यामयान्ते सहसाऽन्नमम्लमद्यादपथ्यानि च तस्य पित्तम् १०
- करोति पाण्डुं वदनं विशेषात् पूर्वेरितौ तन्द्रि बलक्षयौ च
- भेदस्तु तस्याः खलु कुम्भसाह्वः शोफो महांस्तत्र च पर्वभेदः ११
- ज्वराङ्गमर्दभ्रमसादतन्द्रा क्षयान्वितो लाघरकोऽलसाख्यः
- तं वातपित्ताद्धरिपीतनीलं हलीमकं नाम वदन्ति तज्ज्ञाः १२
- उपद्र वास्तेष्वरुचिः पिपासा छर्दिर्ज्वरो मूर्धरुजाऽग्निसादः
- शोफस्तथा कण्ठगतोऽबलत्वं मूर्च्छा क्लमो हृद्यवपीडनं च १३
- साध्यं तु पाण्ड्वामयिनं समीक्ष्य स्निग्धं घृतेनोर्ध्वमधश्च शुद्धम्
- संपादयेत् क्षौद्र घृतप्रगाढैर्हरीतकीचूर्णयुतैः प्रयोगैः १४
- पिबेद्घृतं वा रजनीविपक्वं यत्त्रैफलं तैल्वकमेव वाऽपि
- विरेचनद्र व्यकृतं पिबेद्वा योगांश्च वैरेचनिकान् घृतेन १५
- मूत्रे निकुम्भार्धपलं विपाच्य पिबेदभीक्ष्णं कुडवार्धमात्रम्
- खादेद्गुडं वाऽप्यभयाविपक्वमारग्वधादिक्वथितं पिबेद्वा १६
- अयोरजोव्योषविडङ्गचूर्णं लिह्याद्धरिद्रा ं! त्रिफलान्वितां वा
- सर्पिर्मधुभ्यां विदधीत वाऽपि शास्त्रप्रदेशाभिहितांश्च योगान् १७
- हरेच्च दोषान् बहुशोऽल्पमात्रान् श्वयेद्धि दोषेष्वतिनिर्हृतेषु
- धात्रीफलानां रसमिक्षुजं च मन्थं पिबेत् क्षौद्र युतं हिताशी १८
- उमे बृहत्यौ रजनीं शुकाख्यां काकादनीं चापि सकाकमाचीम्
- आदारिबिम्बीं सकदम्बपुष्पीं विपाच्य सर्पिर्विपचेत् कषाये १९
- तत् पाण्डुतां हन्त्युपयुज्यमानं क्षीरेण वा मागधिका यथाग्नि
- हितं च यष्टीमधुजं कषायं चूर्णं समं वा मधुनाऽवलिह्यात् २०
- गोमूत्रयुक्तं त्रिफलादलानां दत्त्वाऽऽयसं चूर्णमनल्पकालम्
- प्रवालमुक्ताञ्जनशङ्खचूर्णं लिह्यात्तथा काञ्चनगैरिकोत्थम् २१
- आजं शकृत्स्यात् कुडवप्रमाणं विडं हरिद्रा लवणोत्तमं च
- पृथक् पलांशानि समग्रमेतच्चूर्णं हिताशी मधुनाऽवलिह्यात् २२
- मण्डूरलोहाग्निविडङ्गपथ्याव्योषांशकः सर्वसमानताप्यः
- मूत्रासुतोऽयं मधुनाऽवलेहः पाण्ड्वामयं हन्त्यचिरेण घोरम् २३
- बिभीतकायोमलनागराणां चूर्णं तिलानां च गुडश्च मुख्यः
- तक्रानुपानो वटकः प्रयुक्तः क्षिणोति घोरानपि पाण्डुरोगान् २४
- सौवर्चलं हिङ्गु किराततिक्तं कलायमात्राणि सुखाम्बुना वा
- मूर्वाहरिद्रा मलकं च लिह्यात् स्थितं गवां सप्तदिनानि मूत्रे २५
- मूलं बलाचित्रकयोः पिबेद्वा पाण्ड्वामयार्तोऽक्षसमं हिताशी
- सुखाम्बुना वा लवणेन तुल्यं शिग्रोः फलं क्षीरभुजोपयोज्यम् २६
- न्यग्रोधवर्गस्य पिबेत् कषायं शीतं सिताक्षौद्र युतं हिताशी
- शालादिकं चाप्यथ सारचूर्णं धात्रीफलं वा मधुनाऽवलिह्यात् २७
- विडङ्गमुस्तत्रिफलाजमोदपरूषकव्योषविनिर्दहन्यः
- चूर्णानि कृत्वा गुडशर्करे च तथैव सर्पिर्मधुनी शुभे च २८
- संभारमेतद्विपचेन्निधाय सारोदके सारवतो गणस्य
- जातं च लेह्यं मतिमान् विदित्वा निधापयेन्मोक्षकजे समुद्गे २९
- हन्त्येष लेहः खलु पाण्डुरोगं सशोथमुग्रामपि कामलां च
- सशर्करा कामलिनां त्रिभण्डी हिता गवाक्षी सगुडा च शुण्ठी ३०
- कालेयके चापि घृतं विपक्वं हितं च तत् स्याद्र जनीविमिश्रम्
- धातुं नदीजं जतु शैलजं वा कुम्भाह्वये मूत्रयुतं पिबेद्वा ३१
- मूत्रे स्थितं सैन्धवसंप्रयुक्तं मासं पिबेद्वाऽपि हि लोहकिट्टम्
- दग्ध्वाऽक्षकाष्ठैर्मलमायसं वा गोमूत्रनिर्वापितमष्टवारान् ३२
- विचूर्ण्य लीढं मधुनाऽचिरेण कुम्भाह्वयं पाण्डुगदं निहन्यात्
- सिन्धूद्भवं वाऽग्निसमं च कृत्वा क्षिप्त्वा च मूत्रे सकृदेव तप्तम् ३३
- लौहं च किट्टं बहुशश्च तप्त्वा निर्वाप्य मूत्रे बहुशस्तथैव
- एकीकृतं गोजलपिष्टमेतदैकध्यमावाप्य पचेदुखायाम् ३४
- यथा न दह्येत तथा विशुष्कं चूर्णीकृतं पेयमुदश्विता तत्
- तक्रौदनाशी विजयेत रोगं पाण्डुं तथा दीपयतेऽनलं च ३५
- द्रा क्षागुडूच्यामलकीरसैश्च सिद्धं घृतं लाघरके हितं च
- गौडानरिष्टान् मधुशर्कराश्च मूत्रासवान् क्षारकृतांस्तथैव ३६
- स्निग्धान् रसानामलकैरुपेतान् कोलान्वितान् वाऽपि हि जाङ्गलानाम्
- सेवेत शोफाभिहितांश्च योगान् पाण्ड्वामयी शालियवांश्च नित्यम् ३७
- श्वासातिसारारुचिकासमूर्च्छातृट्छर्दिशूलज्वरशोफदाहान्
- तथाऽविपाकस्वरभेदसादान् जयेद्यथास्वं प्रसमीक्ष्य शास्त्रम् ३८
- अन्तेषु शूनं परिहीनमध्यं म्लानं तथाऽन्तेषु च मध्यशूनम्
- गुदे च शेफस्यथ मुष्कशूनं प्रताम्यमानं च विसंज्ञकल्पम् ३९
- विवर्जयेत् पाण्डुकिनं यजोऽर्थी तथाऽतिसारज्वरपीडितं च ४०
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे पाण्डुरोगप्रतिषेधो नाम चतुश्चत्वारिंशत्तमोऽध्यायः ४४
पञ्चचत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातो रक्तपित्तप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- क्रोधशोकभयायासविरुद्धान्नातपानलान्
- कट्वम्ललवणक्षारतीक्ष्णोष्णातिविदाहिनः ३
- नित्यमभ्यसतो दुष्टो रसः पित्तं प्रकोपयेत्
- विदग्धं स्वगुणैः पित्तं विदहत्याशु शोणितम् ४
- ततः प्रवर्तते रक्तमूर्ध्वं चाधो द्विधाऽपि वा
- आमाशयाद्व्रजेदूर्ध्वमधः पक्वाशयाद्व्रजेत् ५
- विदग्धयोर्द्वयोश्चापि द्विधाभागं प्रवर्तते
- केचित् सयकृतः प्लीह्नः प्रवदन्त्यसृजो गतिम् ६
- ऊर्ध्वं साध्यमधोयाप्यमसाध्यं युगपद्गतम्
- सदनं शीतकामित्वं कण्ठधूमायनं वमिः ७
- लोहगन्धिश्च निःश्वासो भवत्यस्मिन् भविष्यति
- बाह्यासृग्लक्षणैस्तस्य सङ्ख्यादोषोच्छ्रितीर्विदुः ८
- दौर्बल्यश्वासकासज्वरवमथुमदास्तन्द्रि तादाहमूर्च्छा
- भुक्ते चान्ने विदाहस्त्वधृतिरपि सदा हृद्यतुल्या च पीडा
- तृष्णा कण्ठस्य भेदः शिरसि च दवनं पूतिनिष्ठीवनं च
- द्वेषो भक्तेऽविपाको विरतिरपि रते रक्तपित्तोपसर्गाः ९
- मांसप्रक्षालनाभं क्वथितमिव च यत् कर्दमाम्भोनिभं वा
- मेदःपूयास्रकल्पं यकृदिव यदि वा पक्वजम्बूफलाभम्
- यत् कृष्णं यच्च नीलं भृशमतिकुणपं यत्र चोक्ता विकारास्तद्वर्ज्यं रक्तपित्तं सुरपतिधनुषा यच्च तुल्यं विभाति १०
- नादौ संग्राह्यमुद्रि क्तं यदसृग्बलिनोऽश्नतः
- तत् पाण्डुग्रहणीकुष्ठप्लीहगुल्मज्वरावहम् ११
- अधःप्रवृत्तं वमनैरूर्ध्वगं च विरेचनैः
- जयेदन्यतरद्वाऽपि क्षीणस्य शमनैरसृक् १२
- अतिप्रवृद्धदोषस्य पूर्वं लोहितपित्तिनः
- अक्षीणबलमांसाग्नेः कर्तव्यमपतर्पणम् १३
- लङ्घितस्य ततः पेयां विदध्यात् स्वल्पतण्डुलाम्
- रसयूषौ प्रदातव्यौ सुरभिस्नेहसंस्कृतौ
- तर्पणं पाचनं लेहान् सर्पींषि विविधानि च १४
- द्रा क्षामधुककाश्मर्यसितायुक्तं विरेचनम्
- यष्टीमधुकयुक्तं च सक्षौद्रं वमनं हितम् १५
- पयांसि शीतानि रसाश्च जाङ्गलाः सतीनयूषाश्च सशालिषष्टिकाः
- पटोलशेलूसुनिषण्णयूथिकावटातिमुक्ताङ्कुरसिन्दुवारजम् १६
- हितं च शाकं घृतसंस्कृतं सदा तथैव धात्रीफलदाडिमान्वितम्
- रसाश्च पारावतशङ्खकूर्मजास्तथा यवाग्वो विहिता घृतोत्तराः १७
- सन्तानिकाश्चोत्पलवर्गसाधिते क्षीरे प्रशस्ता मधुशर्करोत्तराः
- हिमाः प्रदेहा मधुरा गणाश्च ये घृतानि पथ्यानि च रक्तपित्तिनाम् १८
- मधूकशोभाञ्जनकोविदारजैः प्रियङ्गुकायाः कुसुमैश्च चूर्णितैः
- भिषग्विदध्याच्चतुरः समाक्षिकान् हिताय लेहानसृजः प्रशान्तये १९
- लिह्याच्च दूर्वावटजांश्च पल्लवान् मधुद्वितीयान् सितकर्णिकस्य च
- हितं च खर्जूरफलं समाक्षिकं फलानि चान्यान्यपि तद्गुणान्यथ २०
- रक्तातिसारप्रोक्तांश्च योगानत्रापि योजयेत्
- शुद्धेक्षुकाण्डमापोथ्य नवे कुम्भे हिमाम्भसा २१
- योजयित्वा क्षिपेद्रा त्रावाकाशे सोत्पलं तु तत्
- प्रातः स्रुतं क्षौद्र युतं पिबेच्छोणितपित्तवान् २२
- पिबेच्छीतकषायं वा जम्ब्वाम्रार्जुनसंभवम्
- उदुम्बरफलं पिष्ट्वा पिबेत्तद्र समेव वा २३
- त्रपुषीमूलकल्कं वा सक्षौद्रं तण्डुलाम्बुना
- पिबेदक्षसमं कल्कं यष्टीमधुकमेव वा २४
- चन्दनं मधुकं रोध्रमेवमेव समं पिबेत्
- करञ्जबीजमेवं वा सिताक्षौद्र युतं पिबेत् २५
- मज्जानमिङ्गुदस्यैवं पिबेन्मधुकसंयुतम्
- सुखोष्णं लवणं बीजं कारञ्जं दधिमस्तुना २६
- पिबेद्वाऽपि त्र्! यहं मर्त्यो रक्तपित्ताभिपीडितः
- रक्तपित्तहराः शस्ताः षडेते योगसत्तमाः २७
- पथ्याश्चैवावपीडेषु घ्राणतः प्रस्रुतेऽसृजि
- अतिनिस्रुतरक्तो वा क्षौद्र युक्तं पिबेदसृक्
- यकृद्वा भक्षयेदाजमामं पित्तसमायुतम् २८
- पलाशवृक्षस्वरसे विपक्वं सर्पिः पिबेत् क्षौद्र युतं सुशीतम्
- वनस्पतीनां स्वरसैः कृतं वा सशर्करं क्षीरघृतं पिबेद्वा २९
- द्रा क्षामुशीराण्यथ पद्मकं सिता पृथक्पलांशान्युदके समावपेत्
- स्थितं निशां तद्रुधिरामयं जयेत् पीतं पयो वाऽम्बुसमं हिताशिनः ३०
- तुरङ्गवर्चःस्वरसं समाक्षिकं पिबेत् सिताक्षौद्र युतं वृषस्य वा
- लिहेत्तथा वास्तुकबीजचूर्णं क्षौद्रा न्वितं तण्डुलसाह्वयं वा ३१
- लिह्याच्च लाजाञ्जनचूर्णमेकमेवं सिताक्षौद्र युतां तुगाख्याम्
- द्रा क्षां सितां तिक्तकरोहिणीं च हिमाम्बुना वा मधुकेन युक्ताम् ३२
- पथ्यामहिंस्रां रजनीं घृतं च लिह्यात्तथा शोणितपित्तरोगी
- वासाकषायोत्पलमृत्प्रियङ्गुरोध्राञ्जनाम्भोरुहकेशराणि ३३
- पीत्वा सिताक्षौद्र युतानि जह्यात् पित्तासृजो वेगमुदीर्णमाशु
- गायत्रिजम्ब्वर्जुनकोविदारशिरीषरोध्राशनशाल्मलीनाम् ३४
- पुष्पाणि शिग्रोश्च विचूर्ण्य लेहो मध्वन्वितः शोणितपित्तरोगे
- सक्षौद्र मिन्दीवरभस्मवारि करञ्जबीजं मधुसर्पिषी च ३५
- जम्ब्वर्जुनाम्रक्वथितं च तोयं घ्नन्ति त्रयः पित्तमसृक् च योगाः
- मूलानि पुष्पाणि च मातुलुङ्ग्याः पिष्ट्वा पिबेत्तण्डुलधावनेन ३६
- घ्राणप्रवृत्ते जलमाशु देयं सशर्करं नासिकया पयो वा
- द्रा क्षारसं क्षीरघृतं पिबेद्वा सशर्करं चेक्षुरसं हिमं वा ३७
- शीतोपचारं मधुरं च कुर्याद्विशेषतः शोणितपित्तरोगे
- द्रा क्षाघृतक्षौद्र सितायुतेन विदारिगन्धादिविपाचितेन ३८
- क्षीरेण चास्थापनमग्र्यमुक्तं हितं घृतं चाप्यनुवासनार्थम्
- प्रियङ्गुरोध्राञ्जनगैरिकोत्पलैः सुवर्णकालीयकरक्तचन्दनैः ३९
- सिताश्वगन्धाम्बुदयष्टिकाह्वयैर्मृणालसौगन्धिकतुल्यपेषितैः
- निरूह्य चैनं पयसा समाक्षिकैर्घृतप्लुतैः शीतजलावसेचितम् ४०
- क्षीरौदनं भुक्तमथानुवासयेद्धृतेन यष्टीमधुसाधितेन च
- अधोवहं शोणितमेष नाशयेत्तथाऽतिसारं रुधिरस्य दुस्तरम् ४१
- विरेकयोगे त्वति चैव शस्यते
- वाम्यश्च रक्ते विजिते बलान्वितः ४२
- एवंविधा उत्तरबस्तयश्च मूत्राशयस्थे रुधिरे विधेयाः
- प्रवृत्तरक्तेषु च पायुजेषु कुर्याद्विधानं खलु रक्तपैत्तम् ४३
- विधिश्चासृग्दरेऽप्येष स्त्रीणां कार्यो विजानता
- शस्त्रकर्मणि रक्तं च यस्यातीव प्रवर्तते ४४
- त्रयाणामपि दोषाणां शोणितेऽपि च सर्वशः
- लिङ्गान्यालोक्य कर्तव्यं चिकित्सितमनन्तरम् ४५
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे रक्तपित्तप्रतिषेधो नाम पञ्चचत्वारिंशत्तमोऽध्यायः ४५
षट्चत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातो मूर्च्छाप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- क्षीणस्य बहुदोषस्य विरुद्धाहारसेविनः
- वेगाघातादभीघाताद्धीनसत्त्वस्य वा पुनः ३
- करणायतनेषूग्रा बाह्येष्वाभ्यन्तरेषु च
- निविशन्ते यदा दोषास्तदा मूर्च्छन्ति मानवाः ४
- हृत्पीडा जृम्भणं ग्लानिः संज्ञानाशो बलस्य च
- सर्वासां पूर्वरूपाणि यथास्वं ता विभावयेत् ५
- संज्ञावहासु नाडीषु पिहितास्वनिलादिभिः
- तमोऽभ्युपैति सहसा सुखदुःखव्यपोहकृत् ६
- सुखदुःखव्यपोहाच्च नरः पतति काष्ठवत्
- मोहो मूर्च्छेति तां प्राहुः षड्विधा सा प्रकीर्तिता ७
- वातादिभिः शोणितेन मद्येन च विषेण च
- षट्स्वप्येतासु पित्तं हि प्रभुत्वेनावतिष्ठते ८
- अपस्मारोक्तलिङ्गानि तासामुक्तानि तत्त्वतः
- पृथिव्यम्भस्तमोरूपं रक्तगन्धश्च तन्मयः ९
- तस्माद्र क्तस्य गन्धेन मूर्च्छन्ति भुवि मानवाः
- द्र व्यस्वभाव इत्येके दृष्ट्वा यदभिमुह्यति १०
- गुणास्तीव्रतरत्वेन स्थितास्तु विषमद्ययोः
- त एव तस्माज्जायेत मोहस्ताभ्यां यथेरितः ११
- स्तब्धाङ्गदृष्टिस्त्वसृजा गूढोच्छ्वासश्च मूर्च्छितः
- मद्येन विलपंश्छेते नष्टविभ्रान्तमानसः
- गात्राणि विक्षिपन् भूमौ जरां यावन्न याति तत् १२
- वेपथुस्वप्नतृष्णाः स्युः स्तम्भश्च विषमूर्च्छिते
- वेदितव्यं तीव्रतरं यथास्वं विषलक्षणैः १३
- सेकावगाहौ मणयः सहाराः शीताः प्रदेहा व्यजनानिलाश्च
- शीतानि पानानि च गन्धवन्ति सर्वासु मूर्च्छास्वनिवारितानि १४
- सिताप्रियालेक्षुरसप्लुतानि द्रा क्षामधूकस्वरसान्वितानि
- खर्जूरकाश्मर्यरसैः शृतानि पानानि सर्पींषि च जीवनानि १५
- सिद्धानि वर्गे मधुरे पयांसि सदाडिमा जाङ्गलजा रसाश्च
- तथा यवा लोहितशालयश्च मूर्च्छासु पथ्याश्च सदा सतीनाः १६
- भुजङ्गपुष्पं मरिचान्युशीरं कोलस्य मध्यं च पिबेत् समानि
- शीतेन तोयेन बिसं मृणालं क्षौद्रे ण कृष्णां सितया च पथ्याम् १७
- कुर्याच्च नासावदनावरोधं क्षीरं पिबेद्वाऽप्यथ मानुषीणाम्
- मूर्च्छां प्रसक्तां तु शिरोविरेकैर्जयेदभीक्ष्णं वमनैश्च तीक्ष्णैः १८
- हरीतकीक्वाथशृतं घृतं वा धात्रीफलानां स्वरसैः कृतं वा
- द्रा क्षासितादाडिमलाजवन्ति शीतानि नीलोत्पलपद्मवन्ति १९
- पिबेत् कषायाणि च गन्धवन्ति पित्तज्वरं यानि शमं नयन्ति
- प्रभूतदोषस्तमसोऽतिरेकात् संमूर्च्छितो नैव विबुध्यते यः २०
- संन्यस्तसंज्ञो भृशदुश्चिकित्स्यो ज्ञेयस्तदा बुद्धिमता मनुष्यः
- यथाऽऽमलोष्टं सलिले निषिक्तं समुद्धरेदाश्वविलीनमेव २१
- तद्वच्चिकित्सेत्त्वरया भिषक्तमस्वेदनं मृत्युवशं प्रयातम्
- तीक्ष्णाञ्जनाभ्यञ्जनधूमयोगैस्तथा नखाभ्यन्तरतोत्रपातैः २२
- वादित्रगीतानुनयैरपूर्वैर्विघट्टनैर्गुप्तफलावघर्षैः
- आभिः क्रियाभिश्च न लब्धसंज्ञः सानाहलालाश्वसनश्च वर्ज्यः २३
- प्रबुद्धसंज्ञं वमनानुलोम्यैस्तीक्ष्णैर्विशुद्धं लघुपथ्यभुक्तम्
- फलत्रिकैश्चित्रकनागराढ्यैस्तथाऽश्मजाताज्जतुनः प्रयोगैः
- सशर्करैर्मासमुपक्रमेत विशेषतो जीर्णघृतं स पाय्यः २४
- यथास्वं च ज्वरघ्नानि कषायाण्युपयोजयेत्
- सर्वमूर्च्छापरीतानां विषजायां विषापहम् २५
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूर्च्छाप्रतिषेधो नाम षट्चत्वारिंशत्तमोऽध्यायः ४६
सप्तचत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातः पानात्ययप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- मद्यमुष्णं तथा तीक्ष्णं सूक्ष्मं विशदमेव च
- रूक्षमाशुकरं चैव व्यवायि च विकाशि च ३
- औष्ण्याच्छीतोपचारं तत्तैक्ष्ण्याद्धन्ति मनोगतिम्
- विशत्यवयवान् सौक्ष्म्याद्वैशद्यात्कफशुक्रनुत् ४
- मारुतं कोपयेद्रौ क्ष्यादाशुत्वाच्चाशुकर्मकृत्
- हर्षदं च व्यवायित्वाद्विकाशित्वाद्विसर्पति ५
- तदम्लं रसतः प्रोक्तं लघु रोचनदीपनम्
- केचिल्लवणवर्ज्यांस्तु रसानत्रादिशन्ति हि ६
- स्निग्धैस्तदन्नैर्मांसैश्च भक्ष्यैश्च सह सेवितम्
- भवेदायुःप्रकर्षाय बलायोपचयाय च ७
- काम्यता मनसस्तुष्टिर्धैर्यं तेजोऽतिविक्रमः
- विधिवत् सेव्यमाने तु मद्ये सन्निहिता गुणाः ८
- तदेवानन्नमज्ञेन सेव्यमानममात्रया
- कायाग्निना ह्यग्निसमं समेत्य कुरुते मदम् ९
- मदेन करणानां तु भावान्यत्वे कृते सति
- निगूढमपि भावं स्वं प्रकाशीकुरुतेऽवशः १०
- त्र्! यवस्थश्च मदो ज्ञेयः पूर्वो मध्योऽथ पश्चिमः
- पूर्वे वीर्यरतिप्रीतिहर्षभाष्यादिवर्धनम् ११
- प्रलापो मध्यमे मोहो युक्तायुक्तक्रियास्तथा
- विसंज्ञः पश्चिमे शेते नष्टकर्मक्रियागुणः १२
- श्लैष्मिकानल्पपित्तांश्च स्निग्धान्मात्रोपसेविनः
- पानं न बाधतेऽत्यर्थं विपरीतांस्तु बाधते १३
- निर्भक्तमेकान्तत एव मद्यं निषेव्यमाणं मनुजेन नित्यम्
- उत्पादयेत् कष्टतमान् विकारानापादयेच्चापि शरीरभेदम् १४
- क्रुद्धेन भीतेन पिपासितेन शोकाभितप्तेन बुभुक्षितेन
- व्यायामभाराध्वपरिक्षतेन वेगावरोधाभिहतेन चापि १५
- अत्यम्लभक्ष्यावततोदरेण साजीर्णभुक्तेन तथाऽबलेन
- उष्णाभितप्तेन च सेव्यमानं करोति मद्यं विविधान् विकारान् १६
- पानात्ययं परमदं पानाजीर्णमथापि वा
- पानविभ्रममुग्रं च तेषां वक्ष्यामि लक्षणम् १७
- स्तम्भाङ्गमर्दहृदयग्रहतोदकम्पाः पानात्ययेऽनिलकृते शिरसो रुजश्च
- स्वेदप्रलापमुखशोषणदाहमूर्च्छाः पित्तात्मके वदनलोचनपीतता च १८
- श्लेष्मात्मके वमथुशीतकफप्रसेकाः सर्वात्मके भवति सर्वविकारसंपत्
- ऊष्माणमङ्गगुरुतां विरसाननत्वं श्लेष्माधिकत्वमरुचिं मलमूत्रसङ्गम् १९
- लिङ्गं परस्य तु मदस्य वदन्ति तज्ज्ञास्तृष्णां रुजां शिरसि सन्धिषु चापि भेदम्
- आध्मानमुद्गिरणमम्लरसो विदाहोऽजीर्णस्य पानजनितस्य वदन्ति लिङ्गम् २०
- ज्ञेयानि तत्र भिषजा सुविनिश्चितानि पित्तप्रकोपजनितानि च कारणानि
- हृद्गात्रतोदवमथुज्वरकण्ठधूममूर्च्छाकफस्रवणमूर्धरुजो विदाहः २१
- द्वेषः सुरान्नविकृतेषु च तेषु तेषु तं पानविभ्रममुशन्त्यखिलेन धीराः
- हीनोत्तरौष्ठमतिशीतममन्ददाहं तैलप्रभास्यमतिपानहतं विजह्यात् २२
- जिह्वौष्ठदन्तमसितं त्वथवाऽपि नीलं पीते च यस्य नयने रुधिरप्रभे च
- हिक्काज्वरौ वमथुवेपथुपार्श्वशूलाः कासभ्रमावपि च पानहतं भजन्ते २३
- तेषां निवारणमिदं हि मयोच्यमानं व्यक्ताभिधानमखिलेन विधिं निबोध
- मद्यं तु चुक्रमरिचार्द्र कदीप्यकुष्ठसौवर्चलायुतमलं पवनस्य शान्त्यै २४
- पृथ्वीकदीप्यकमहौषधहिङ्गुभिर्वा सौवर्चलेन च युतं वितरेत् सुखाय
- आम्रातकाम्रफलदाडिममातुलुङ्गैः कुर्याच्छुभान्यपि च षाडवपानकानि २५
- सेवेत वा फलरसोपहितान् रसादीनानूपवर्गपिशितान्यपि गन्धवन्ति
- पित्तात्मके मधुरवर्गकषायमिश्रं मद्यं हितं समधुशर्करमिष्टगन्धम् २६
- पीत्वा च मद्यमपि चेक्षुरसप्रगाढं निःशेषतः क्षणमवस्थितमुल्लिखेच्च
- लावैणतित्तिरिरसांश्च पिबेदनम्लान् मौद्गान् सुखाय सघृतान् ससितांश्च यूषान् २७
- पानात्यये कफकृते कफमुल्लिखेच्च मद्येन बिम्बिविदुलोदकसंयुतेन
- सेवेत तिक्तकटुकांश्च रसानुदारान् यूषांश्च तिक्तकटुकोपहितान् हिताय २८
- पथ्यं यवान्नविकृतानि च जाङ्गलानि श्लेष्मघ्नमन्यदपि यच्च निरत्ययं स्यात्
- कुर्याच्च सर्वमथ सर्वभवे विधानं द्वन्द्वोद्भवे द्वयमवेक्ष्य यथाप्रधानम् २९
- सामान्यमन्यदपि यच्च समग्रमग्र्यं वक्ष्यामि यच्च मनसो मदकृत् सुखं च
- त्वङ्गागपुष्पमगधैलमधूकधान्यैः श्लक्ष्णैरजाजिमरिचैश्च कृतं समांशैः ३०
- पानं कपित्थरसवारिपरूषकाढ्यं पानात्ययेषु विधिवत्स्रुतमम्बरान्ते
- ह्रीवेरपद्मपरिपेलवसंप्रयुक्तैः पुष्पैर्विलिप्य करवीरजलोद्भवैश्च ३१
- पिष्टैः सपद्मकयुतैरपि सारिवाद्यैः सेकं जलैश्च वितरेदमलैः सुशीतैः
- त्वक्पत्रचोचमरिचैलभुजङ्गपुष्पश्लेष्मातकप्रसववल्कगुडैरुपेतम् ३२
- द्रा क्षायुतं हृतमलं मदिरामयार्तैस्तत्पानकं शुचि सुगन्धि नरैर्निषेव्यम्
- पिष्ट्वा पिबेच्च मधुकं कटुरोहिणीं च द्रा क्षां च मूलमसकृत् त्रपुषीभवं यत् ३३
- कार्पासिनीमथ च नागबलां च तुल्यां
- पीत्वा सुखी भवति साधु सुवर्चलां च
- काश्मर्यदारुविडदाडिमपिप्पलीषु
- द्रा क्षान्वितासु कृतमम्बुनि पानकं यत् ३४
- तद्बीजपूरकरसायुतमाशु पीतं शान्तिं परां परमदे त्वचिरात् करोति
- द्रा क्षासितामधुकजीरकधान्यकृष्णास्वेवं कृतं त्रिवृतया च पिबेत्तथैव ३५
- सौवर्चलायुतमुदाररसं फलाम्लं
- भार्गीशृतेन च जलेन हितोऽवसेकः ३६
- इक्ष्वाकुधामार्गववृक्षकाणि काकाह्वयोदुम्बरिकाश्च दुग्धे
- विपाच्य तस्याञ्जलिना वमेद्धि मद्यं पिबेच्चाह्नि गते त्वजीर्णे ३७
- त्वक्पिप्पलीभुजगपुष्पविडैरुपेतं
- सेवेत हिङ्गुमरिचैलयुतं फलाम्लम्
- उष्णाम्बुसैन्धवयुतास्त्वथवा विडत्वक्चव्यैलहिङ्गुमगधाफलमूलशुण्ठीः ३८
- हृद्यैः खडैरपि च भोजनमत्र शस्तं द्रा क्षाकपित्थफलदाडिमपानकं यत्
- तत् पानविभ्रमहरं मधुशर्कराढ्यमाम्रातकोलरसपानकमेव चापि ३९
- खर्जूरवेत्रककरीरपरूषकेषु द्रा क्षात्रिवृत्सु च कृतं ससितं हिमं वा
- श्रीपर्णियुक्तमथवा तु पिबेदिमानि यष्ट्याह्वयोत्पलहिमाम्बुविमिश्रितानि ४०
- क्षीरिप्रवालबिसजीरकनागपुष्पपत्रैलवालुसितसारिवपद्मकानि
- आम्रातभव्यकरमर्दकपित्थकोलवृक्षाम्लवेत्रफलजीरकदाडिमानि ४१
- सेवेत वा मरिचजीरकनागपुष्पत्वक्पत्रविश्वचविकैलयुतान् रसांश्च
- सूक्ष्माम्बरस्रुतहिमांश्च सुगन्धिगन्धान् पानोद्भवान्नुदति सप्तगदानशेषान् ४२
- पञ्चेन्द्रि यार्थविषया मृदुपानयोगा हृद्याः सुखाश्च मनसः सततं निषेव्याः
- पानात्ययेषु विकटोरुनितम्बवत्यः पीनोन्नतस्तनभरानतमध्यदेशाः ४३
- प्रौढाः स्त्रियोऽभिनवयौवनपीनगात्र्! यः
- सेव्याश्च पञ्चविषयातिशयस्वभावाः ४४
- पिबेद्र सं पुष्पफलोद्भवं वा सितामधूकत्रिसुगन्धियुक्तम्
- संचूर्ण्य संयोज्य च नागपुष्पैरजाजिकृष्णामरिचैश्च तुल्यैः ४५
- वर्षाभूयष्ट्याह्वमधूकलाक्षात्वक्कर्बुदाराङ्कुरजीरकाणि
- द्रा क्षां च कृष्णामथ केशरं च क्षीरे समालोड्य पिबेत् सुखेप्सुः ४६
- भवेच्च मद्येन तु येन पातितः प्रकामपीतेन सुरासवादिना
- तदेव तस्मै विधिवत् प्रदापयेद्विपर्यये भ्रंशमवश्यमृच्छति ४७
- यथा नरेन्द्रो पहतस्य कस्यचिद्भवेत् प्रसादस्तत एव नान्यतः
- ध्रुवं तथा मद्यहतस्य देहिनो भवेत् प्रसादस्तत एव नान्यतः ४८
- विच्छिन्नमद्यः सहसा योऽतिमद्यं निषेवते
- तस्य पानात्ययोद्दिष्टा विकाराः संभवन्ति हि ४९
- मद्यस्याग्नेयवायव्यौ गुणावम्बुवहानि तु
- स्रोतांसि शोषयेयातां तेन तृष्णोपजायते ५०
- पाटलोत्पलकन्देषु मुद्गपर्ण्यां च साधितम्
- पिबेन्मागधिकोन्मिश्रं तत्राम्भो हिमशीतलम् ५१
- सर्पिस्तैलवसामज्जदधिभृङ्गरसैर्युतम्
- क्वाथेन बिल्वयवयोः सर्वगन्धैश्च पेषितैः ५२
- पक्वमभ्यञ्जने श्रेष्ठं सेके क्वाथश्च शीतलः
- रसवन्ति च भोज्यानि यथास्वमवचारयेत् ५३
- पानकानि सुशीतानि हृद्यानि सुरभीणि च
- त्वचं प्राप्तस्तु पानोष्मा पित्तरक्ताभिमूर्च्छितः
- दाहं प्रकुरुते घोरं पित्तवत्तत्र भेषजम् ५४
- शीतं विधानमत ऊर्ध्वमहं प्रवक्ष्ये दाहप्रशान्तिकरमृद्धिमतां नराणाम्
- तत्रादितो मलयजेन हितः प्रदेहश्चन्द्रा शुं!हारतुहिनोदकशीतलेन ५५
- शीताम्बुशीतलतरैश्च शयानमेनं हारैर्मृणालवलयैरबलाः स्पृशेयुः
- भिन्नोत्पलोज्ज्वलहिमे शयने शयीत पत्रेषु वा सजलबिन्दुषु पद्मिनीनाम् ५६
- आसादयन् पवनमाहृतमङ्गनाभिः कह्लारपद्मदलशैवलसंचयेषु
- कान्तैर्वनान्तपवनैः परिमृश्यमानः शक्तश्चरेद्भवनकाननदीर्घिकासु ५७
- दाहभिभूतमथवा परिषेचयेत्तु लामज्जकाम्बुरुहचन्दनतोयतोयैः
- विस्रावितां हृतमलां नववारिपूर्णां पद्मोत्पलाकुलजलामधिवासिताम्बुम् ५८
- वापीं भजेत हरिचन्दनभूषिताङ्गः कान्ताकरस्पृशनकर्कशरोमकूपः
- तत्रैनमम्बुरुहपत्रसमैः स्पृशन्त्यः शीतैः करोरुवदनैः कठिनैः स्तनैश्च ५९
- तोयावगाहकुशला मधुरस्वभावाः संहर्षयेयुरबलाः सुकलैः प्रलापैः
- धारागृहे प्रगलितोदकदुर्दिनाभे क्लान्तः शयीत सलिलानिलशीतकुक्षौ ६०
- गन्धोदकैः सकुसुमैरुपसिक्तभूमौ पत्राम्बुचन्दनरसैरुपलिप्तकुड्ये
- जात्युत्पलप्रियककेशरपुण्डरीकपुन्नागनागकरवीरकृतोपचारे ६१
- तस्मिन् गृहे कमलरेण्वरुणे शयीत यत्नाहृतानिलविकम्पितपुष्पदाम्नि
- हेमन्तविन्ध्यहिमवन्मलयाचलानां शीताम्भसां सकदलीहरितद्रुमाणाम् ६२
- उद्भिन्ननीलनलिनाम्बुरुहाकराणां चन्द्रो दयस्य च कथाः शृणुयान्मनोज्ञाः
- म्लानं प्रतान्तमनसं मनसोऽनुकूलाः पीनस्तनोरुजघना हरिचन्दनाङ्ग्यः ६३
- ता एनमार्द्र वसनाः सह संविशेयुः
- श्लिष्ट्वाऽवलाः शिथिलमेखलहारयष्ट्यः ६४
- हर्षयेयुर्नरं नार्यः स्वगुणै रहसि स्थिताः
- ताः शैत्याच्छमयेयुश्च पित्तपानात्ययान्तरम् ६५
- तृड्दाहरक्तपित्तेषु कार्योऽयं भेषजक्रमः
- सामान्यतो विशेषं तु शृणु दाहेष्वशेषतः ६६
- हृत्स्नदेहानुगं रक्तमुद्रि क्तं दहति ह्यति
- संचूष्यते दह्यते च ताम्राभस्ताम्रलोचनः ६७
- लोहगन्धाङ्गवदनो वह्निनेवावकीर्यते
- तं विलङ्घ्य विधानेन संसृष्टाहारमाचरेत् ६८
- अप्रशाम्यति दाहे च रसैस्तृप्तस्य जाङ्गलैः
- शाखाश्रया यथान्यायं रोहिणीर्व्यधयेत् सिराः ६९
- पित्तज्वरसमः पित्तात् स चाप्यस्य विधिर्हितः
- तृष्णानिरोधादब्धातौ क्षीणे तेजः समुद्धतम् ७०
- सबाह्याभ्यन्तरं देहं दहेद्वै मन्दचेतसः
- संशुष्कगलताल्वोष्ठो जिह्वां निष्कृष्य चेष्टते ७१
- तत्रोपशमयेत्तेजस्त्वब्धातुं च विवर्धयेत्
- पाययेत् काममम्भश्च शर्कराढ्यं पयोऽपि वा ७२
- शीतमिक्षुरसं मन्थं वितरेच्चेरितं विधिम्
- असृजा पूर्णकोष्ठस्य दाहो भवति दुःसहः ७३
- विधिः सद्योव्रणीयोक्तस्तस्य लक्षणमेव च
- धातुक्षयोक्तो यो दाहस्तेन मूर्च्छातृषान्वितः ७४
- क्षामस्वरः क्रियाहीनो भृशं सीदति पीडितः
- रक्तपित्तविधिस्तस्य हितः स्निग्धोऽनिलापहः ७५
- क्षतजेनाश्नतश्चान्यः शोचतो वाऽप्यनेकधा
- तेनान्तर्दह्यतेऽत्यर्थं तृष्णामूर्च्छाप्रलापवान् ७६
- तमिष्टविषयोपेतं सुहृद्भिरभिसंवृतम्
- क्षीरमांसरसाहारं विधिनोक्तेन साधयेत् ७७
- मर्माभिघातजोऽप्यस्ति स चासाध्यतमः स्मृतः
- सर्व एव च वर्ज्याः स्युः शीतगात्रेषु देहिषु ७८
- एवंविधो भवेद्यस्तु मदिरामयपीडितः
- प्रशान्तोपद्र वे चापि शोधनं प्राप्तमाचरेत् ७९
- सजीरकाण्यार्द्र कशृङ्गवेरसौवर्चलान्यर्धजलप्लुतानि
- मद्यानि हृद्यान्यथ गन्धवन्ति पीतानि सद्यः शमयन्ति तृष्णाम् ८०
- जलप्लुतश्चन्दनभूषिताङ्गः स्रग्वी सभक्तां पिशितोपदंशाम्
- पिबन् सुरां नैव लभेत रोगान् मनोनुविघ्नं च मदं न याति ८१
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मदात्ययप्रतिषेधो नाम सप्तचत्वारिंशत्तमोऽध्यायः ४७
अष्टचत्वारिंशत्तमोऽध्यायः
सम्पाद्यताम्- अथातस्तृष्णाप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- सततं यः पिबेद्वारि न तृप्तिमधिगच्छति
- पुनः काङ्क्षति तोयं च तं तृष्णार्दितमादिशेत् ३
- संक्षोभशोकश्रममद्यपानाद्रू क्षाम्लशुष्कोष्णकटूपयोगात्
- धातुक्षयाल्लङ्घनसूर्यतापात्पित्तं च वातश्च भृशं प्रवृद्धौ ४
- स्रोतांसि संदूषयतः समेतौ यान्यम्बुवाहीनि शरीरिणां हि
- स्रोतःस्वपांवाहिषु दूषितेषु जायेत तृष्णाऽतिबला ततस्तु ५
- तिस्रः स्मृतास्ताः क्षतजा चतुर्थी क्षयात्तथाऽन्याऽऽमसमुद्भवा च
- स्यात् सप्तमी भक्तनिमित्तजा तु निबोध लिङ्गान्यनुपूर्वशस्तु ६
- ताल्वोष्ठकण्ठास्यविशोषदाहाः संतापमोहभ्रमविप्रलापाः
- पूर्वाणि रूपाणि भवन्ति तासामुत्पत्तिकालेषु विशेषतस्तु ७
- शुष्कास्यता मारुतसंभवायां तोदस्तथा शङ्खशिरःसु चापि
- स्रोतोनिरोधो विरसं च वक्त्रं शीताभिरद्भिश्च विवृद्धिमेति ८
- मूर्च्छाप्रलापारुचिवक्त्रशोषाः पीतेक्षणत्वं प्रततश्च दाहः
- शीताभिकाङ्क्षा मुखतिक्तता च पित्तात्मिकायां परिधूपनं च ९
- कफावृताभ्यामनिलानलाभ्यां कफोऽपि शुष्कः प्रकरोति तृष्णाम्
- निद्रा गुरुत्वं मधुरास्यता च तयाऽर्दितः शुष्यति चातिमात्रम् १०
- कण्ठोपलेपो मुखपिच्छिलत्वं शीतज्वरश्छर्दिररोचकश्च
- कफात्मिकायां गुरुगात्रता च शाखासु शोफस्त्वविपाक एव
- एतानि रूपाणि भवन्ति तस्यां तयाऽर्दितः काङ्क्षति नाति चाम्भः ११
- क्षतस्य रुक्शोणितनिर्गमाभ्यां तृष्णा चतुर्थी क्षतजा मता तु
- तयाऽभिभूतस्य निशादिनानि गच्छन्ति दुःखं पिबतोऽपि तोयम् १२
- रसक्षयाद्या क्षयजा मता सा तयाऽर्दितः शुष्यति दह्यते च
- अत्यर्थमाकाङ्क्षति चापि तोयं तां सन्निपातादिति केचिदाहुः १३
- रसक्षयोक्तानि च लक्षणानि तस्यामशेषेण भिषग्व्यवस्येत्
- त्रिदोषलिङ्गाऽऽमसमुद्भवा च हृच्छूलनिष्ठीवनसादयुक्ता १४
- स्निग्धं तथाऽम्लं लवणं च भुक्तं गुर्वन्नमेवातितृषां करोति
- क्षीणं विचित्तं बधिरं तृषार्तं विवर्जयेन्निर्गतजिह्वमाशु १५
- तृष्णाभिवृद्धावुदरे च पूर्णे तं वामयेन्मागाधिकोदकेन
- विलोभनं चात्र हितं विधेयं स्याद्दाडिमाम्रातकमातुलुङ्गैः १६
- तिस्रः प्रयोगैरिह सन्निवार्याः शीतैश्च सम्यग्रसवीर्यजातैः
- गण्डूषमम्लैर्विरसे च वक्त्रे कुर्याच्छुभैरामलकस्य चूर्णैः १७
- सुवर्णरूप्यादिभिरग्नितप्तैर्लोष्टैः कृतं वा सिकतादिभिर्वा
- जलं सुखोष्णं शमयेत्तु तृष्णां सशर्करं क्षौद्र युतं हिमं वा १८
- पञ्चाङ्गिकाः पञ्चगणा य उक्तास्तेष्वम्बु सिद्धं प्रथमे गणे वा
- पिबेत् सुखोष्णं मनुजोऽचिरेण तृषो विमुच्येत हि वातजायाः १९
- पित्तघ्नवर्गैस्तु कृतः कषायः सशर्करः क्षौद्र युतः सुशीतः
- पीतस्तृषां पित्तकृतां निहन्ति क्षीरं शृतं वाऽप्यथ जीवनीयैः २०
- बिल्वाढकीकन्यकपञ्चमूलीदर्भेषु सिद्धं कफजां निहन्ति
- हितं भवेच्छर्दनमेव चात्र तप्तेन निम्बप्रसवोदकेन २१
- सर्वासु तृष्णास्वथवाऽपि पैत्तं कुर्याद्विधिं तेन हि ता न सन्ति
- पर्यागतोदुम्बरजो रसस्तु सशर्करस्तत्क्वथितोदकं वा २२
- वर्गस्य सिद्धस्य च सारिवादेः पातव्यमम्भः शिशिरं तृषार्तैः
- कशेरुशृङ्गाटकपद्ममोचबिसेक्षुसिद्धं क्षतजां निहन्ति २३
- लाजोत्पलोशीरकुचन्दनानि दत्त्वा प्रवाते निशि वासयेत्तु
- तदुत्तमं तोयमुदारगन्धि सितायुतं क्षौद्र युतं वदन्ति २४
- द्रा क्षाप्रगाढं च हिताय वैद्यस्तृष्णार्दितेभ्यो वितरेन्नरेभ्यः
- ससारिवादौ तृणपञ्चमूले तथोत्पलादौ प्रथमे गणे च २५
- कुर्यात् कषायं च यथेरितेन मधूकपुष्पादिषु चापरेषु
- राजादनक्षीरिकपीतनेषु षट् पानकान्यत्र हितानि च स्युः २६
- सतुण्डिकेराण्यथवा पिबेत्तु पिष्टानि कार्पाससमुद्भवानि
- क्षतोद्भवां रुग्विनिवारणेन जयेद्र सानामसृजश्च पानैः २७
- क्षयोत्थितां क्षीरघृतं निहन्यान्मांसोदकं वा मधुकोदकं वा
- आमोद्भवां बिल्ववचायुतैस्तु जयेत् कषायैरथ दीपनीयैः २८
- आम्रातभल्लातबलायुतानि पिबेत् कषायाण्यथ दीपनानि
- गुर्वन्नजातां वमनैर्जयेच्च क्षयादृते सर्वकृतां च तृष्णाम् २९
- श्रमोद्भवां मांसरसो निहन्ति गुडोदकं वाऽप्यथवाऽपि मन्थः
- भक्तोपरोधात्तृषितो यवागूमुष्णां पिबेन्मन्थमथो हिमं च ३०
- या स्नेहपीतस्य भवेच्च तृष्णा तत्रोष्णमम्भः प्रपिबेन्मनुष्यः
- मद्योद्भवामर्धजलं निहन्ति मद्यं तृषां याऽपि च मद्यपस्य ३१
- तृष्णोद्भवां हन्ति जलं सुशीतं सशर्करं सेक्षुरसं तथाऽम्भः
- स्वैः स्वैः कषायैर्वमनानि तासां तथा ज्वरोक्तानि च पाचनानि ३२
- लेपावगाहौ परिषेचनानि कुर्यात्तथा शीतगृहाणि चापि
- संशोधनं क्षीररसौ घृतानि सर्वासु लेहान्मधुरान् हिमांश्च ३३
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे अष्टचत्वारिंशोऽध्याय ४८
एकोनपञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातश्छर्दिप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अतिद्र वैरतिस्निग्धैरहृद्यैर्लवणैरति
- अकाले चातिमात्रैश्च तथाऽसात्म्यैश्च भोजनैः ३
- श्रमात् क्षयात्तथोद्वेगादजीर्णात् कृमिदोषतः
- नार्याश्चापन्नसत्त्वायास्तथाऽतिद्रुतमश्नतः ४
- अत्यन्तामपरीतस्य छर्देर्वै संभवो ध्रुवम्
- बीभत्सैर्हेतुभिश्चान्यैर्द्रुतमुत्क्लेशितो बलात् ५
- छादयन्नाननं वेगैरर्दयन्नङ्गभञ्जनैः
- निरुच्यते छर्दिरिति दोषो वक्त्राद्विनिश्चरन् ६
- दोषानुदीरयन् वृद्धानुदानो व्यानसङ्गतः
- ऊर्ध्वमागच्छति भृशं विरुद्धाहारसेवनात् ७
- प्रसेको हृदयोत्क्लेशो भक्तस्यानभिनन्दनम्
- पूर्वरूपं मतं छर्द्या यथास्वं च विभावयेत् ८
- प्रच्छर्दयेत् फेनिलमल्पमल्पं शूलार्दितोऽभ्यर्दितपार्श्वपृष्ठः
- श्रान्तः सघोषं बहुशः कषायं जीर्णेऽधिकं साऽनिलजा वमिस्तु ९
- योऽम्लं भृशं वा कटुतिक्तवक्त्रः पीतं सरक्तं हरितं वमेद्वा
- सदाहचोषज्वरवक्त्रशोषो मूर्च्छान्वितः पित्तनिमित्तजा सा १०
- यो हृष्टरोमा मधुरं प्रभूतं शुक्लं हिमं सान्द्र कफानुविद्धम्
- अभक्तरुग्गौरवसादयुक्तो वमेद्वमी सा कफकोपजा स्यात् ११
- सर्वाणि रूपाणि भवन्ति यस्यां सा सर्वदोषप्रभवा मता तु
- बीभत्सजा दौहृदजाऽऽमजा च सात्म्यप्रकोपात् कृमिजा च या हि
- सा पञ्चमी तां च विभावयेत्तु दोषोच्छ्रयेणैव यथोक्तमादौ १२
- शूलहृल्लासबहुला कृमिजा च विशेषतः
- कृमिहृद्रो गतुल्येन लक्षणेन च लक्षिता १३
- क्षीणस्योपद्र वैर्युक्तां सासृक्पूयां सचन्द्रि काम्
- छर्दिं प्रसक्तां कुशलो नारभेत चिकित्सितुम् १४
- आमाशयोत्क्लेशभवा हि सर्वास्तस्माद्धितं लङ्घनमेव तासु १५
- वमीषु बहुदोषासु छर्दनं हितमुच्यते
- विरेचनं वा कुर्वीत यथादोषोच्छ्रयं भिषक् १६
- संसर्गश्चानुपूर्वेण यथास्वं भेषजायुतः
- लघूनि परिशुष्काणि सात्म्यान्यन्नानि चाचरेत् १७
- यथास्वं च कषायाणि ज्वरघ्नानि प्रयोजयेत्
- हन्यात् क्षीरघृतं पीतं छर्दिं पवनसंभवाम् १८
- ससैन्धवं पिबेत् सर्पिर्वातच्छर्दिनिवारणम्
- मुद्गामलकयूषो वा ससर्पिष्कः ससैन्धवः
- यवागूं मधुमिश्रां वा पञ्चमूलीकृतां पिबेत् १९
- पिबेद्वा व्यक्तसिन्धूत्थं फलाम्लं वैष्किरं रसम्
- सुखोष्णलवणं चात्र हितं स्नेहविरेचनम् २०
- पित्तोपशमनीयानि पाक्यानि शिशिराणि च
- कषायाण्युपयुक्तानि घ्नन्ति पित्तकृतां वमीम् २१
- शोधनं मधुरैश्चात्र द्रा क्षारससमायुतैः
- बलवत्यां प्रशंसन्ति सर्पिस्तैल्वकमेव च २२
- आरग्वधादिनिर्यूहं दशाङ्गयोगमेव वा
- पाययेताथ सक्षौद्रं कफजायां चिकित्सकः २३
- कृतं गुडूच्या विधिवत् कषायं हिमसंज्ञितम्
- तिसृष्वपि भवेत् पथ्यं माक्षिकेण समन्वितम् २४
- बीभत्सजां हृद्यतमैर्दौहृदीं काङ्क्षितैः फलैः
- लङ्घनैर्वमनैश्चामां सात्म्यैः सात्म्यप्रकोपजाम् २५
- कृमिहृद्रो गवच्चापि कृमिजां साधयेद्वमीम्
- वितरेच्च यथादोषं शस्तं विधिमनन्तरम् २६
- दधित्थरससंसक्तां पिप्पलीं माक्षिकान्विताम्
- मुहुर्मुहुर्नरो लीढ्वा छर्दिभ्यः प्रविमुच्यते २७
- समाक्षिका मधुरसा पीता वा तण्डुलाम्बुना
- तर्पणं वा मधुयुतं तिसृणामपि भेषजम् २८
- स्वयङ्गुप्तां सयष्ट्याह्वां तण्डुलाम्बुमधुद्र वाम्
- पिबेद्यवागूमथवा सिद्धां पत्रैः करञ्जजैः २९
- युक्ताम्ललवणाः पिष्टाः कुस्तुम्बुर्योऽथवा हिताः
- तण्डुलाम्बुयुतं खादेत् कपित्थं त्र्! यूषणेन वा ३०
- सिताचन्दनमध्वाक्तं लिह्याद्वा मक्षिकाशकृत्
- पिबेत् पयोऽग्नितप्तं च निर्वाप्य गृहगोधिकाम् ३१
- सर्पिः क्षौद्र युतान् वाऽपि लाजशक्तून् पिबेत्तथा
- सर्पिःक्षौद्र सितोपेतां मागधीं वा लिहेत्तथा ३२
- धात्रीरसे चन्दनं वा घृष्टं मुद्गदलाम्बुना
- कोलामलकमज्जानं लिह्याद्वा त्रिसुगन्धिकम् ३३
- सक्षौद्रा ं! शालिलाजानां यवागूं वा पिबेन्नरः
- घ्रेयाण्युपहरेच्चापि मनोघ्राणसुखानि च ३४
- जाङ्गलानि च मांसानि शुभानि पानकानि च
- भोजनानि विचित्राणि कुर्यात्सर्वास्वतन्द्रि तः ३५
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम एकोनपञ्चाशत्तमोऽध्यायः ४९
पञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातो हिक्काप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- विदाहिगुरुविष्टम्भिरूक्षाभिष्यन्दिभोजनैः
- शीतपानासनस्थानरजोधूमानिलानलैः ३
- व्यायामकर्मभाराध्ववेगाघातापतर्पणैः
- आमदोषाभिघातस्त्रीक्षयदोषप्रपीडनैः ४
- विषमाशनाध्यनशनैस्तथा समशनैरपि
- हिक्का श्वासश्च कासश्च नृणां समुपजायते ५
- मुहुर्मुहुर्वायुरुदेति सस्वनो
- यकृत्प्लिहान्त्राणि मुखादिवाक्षिपन्
- स घोषवानाशु हिनस्त्यसून् यतस्ततस्तु हिक्केति भिषग्भिरुच्यते ६
- अन्नजां यमलां क्षुद्रा ं! गम्भीरां महतीं तथा
- वायुः कफेनानुगतः पञ्च हिक्काः करोति हि ७
- मुखं कषायमरतिर्गौरवं कण्ठवक्षसोः
- पूर्वरूपाणि हिक्कानामाटोपो जठरस्य च ८
- त्वरमाणस्य चाहारं भुञ्जानस्याथवा घनम्
- वायुरन्नैरवस्तीर्णः कटुकैरर्दितो भृशम् ९
- हिक्कयत्यूर्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्
- चिरेण यमलैर्वेगैर्या हिक्का संप्रवर्तते १०
- कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्दिशेत्
- विकृष्टकालैर्या वेगैर्मन्दैः समभिवर्तते ११
- क्षुद्रि का नाम सा हिक्का जत्रुमूलात् प्रधाविता
- नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी १२
- शुष्कौष्ठकण्ठजिह्वास्यश्वासपार्श्वरुजाकरी
- अनेकोपद्र वयुता गम्भीरा नाम सा स्मृता १३
- मर्माण्यापीडयन्तीव सततं या प्रवर्तते
- देहमायम्य वेगेन घोषयत्यतितृष्यतः
- महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी १४
- आयम्यते हिक्कतोऽङ्गानि यस्य दृष्टिश्चोर्ध्वं ताम्यते यस्य गाढम्
- क्षीणोऽन्नद्विट् कासते यश्च हिक्की तौ द्वावन्त्यौ वर्जयेद्धिक्कमानौ १५
- प्राणायामोद्वेजनत्रासनानि सूचीतोदैः संम्भ्रमश्चात्र शस्तः
- यष्ट्याह्वं वा माक्षिकेणावपीडे पिप्पल्यो वा शर्कराचूर्णयुक्ताः १६
- सर्पिः कोष्णं क्षीरमिक्षो रसो वा नातिक्षीणे छर्दनं शान्तिहेतोः
- नारीपयःपिष्टमशुक्लचन्दनं घृतं सुखोष्णं च ससैन्धवं तथा १७
- चूर्णीकृतं सैन्धवमम्भसाऽथवा निहन्ति हिक्कां च हितं च नस्यतः
- युञ्ज्याद्धूमं शालनिर्यासजातं नैपालं वा गोविषाणोद्भवं वा १८
- सर्पिःस्निग्धैश्चर्मबालैः कृतं वा हिक्कास्थाने स्वेदनं चापि कार्यम्
- क्षौद्रो पेतं गैरिकं काञ्चनाह्वं लिह्याद्भस्म ग्राम्यसत्त्वास्थिजं वा १९
- तद्वच्छ्वाविन्मेषगोशल्यकानां रोमाण्यन्तर्धूमदग्धानि चात्र
- मध्वाज्याक्तं बर्हिपत्रप्रसूतमेवं भस्मौदुम्बरं तैल्वकं वा २०
- स्वर्जिक्षारं बीजपूराद्र सेन क्षौद्रो पेतं हन्ति लीढ्वाऽऽशु हिक्काम्
- सर्पिः स्निग्धा घ्नन्ति हिक्कां यवाग्वः कोष्णग्रासाः पायसो वा सुखोष्णः २१
- शुण्ठीतोये साधितं क्षीरमाजं तद्वत् पीतं शर्करासंयुतं वा
- आतृप्तेर्वा सेव्यमानं निहन्याद् घ्रातं हिक्कामाशु मूत्रं त्वजाव्योः २२
- सपूतिकीटं लशुनोग्रगन्धाहिङ्ग्वब्जमाचूर्ण्य सुभावितं तत्
- क्षौद्रं सितां वारणकेशरं च पिबेद्र सेनेक्षुमधूकजेन २३
- पिबेत् पलं वा लवणोत्तमस्य द्वाभ्यां पलाभ्यां हविषः समग्रम्
- हरीतकीं कोष्णजलानुपानां पिबेद्घृतं क्षारमधूपपन्नम् २४
- रसं कपित्थान्मधुपिप्पलीभ्यां शुक्तिप्रमाणं प्रपिबेत् सुखाय २५
- कृष्णां सितां चामलकं च लीढं सशृङ्गवेरं मधुनाऽथवाऽपि
- कोलास्थिमज्जाञ्जनलाजचूर्णं हिक्का निहन्यान्मधुनाऽवलीढम् २६
- पाटलायाः फलं पुष्पं गैरिकं कटुरोहिणी
- खर्जूरमध्यं मागध्यः काशीशं दधिनाम च २७
- चत्वार एते योगाः स्युः प्रतिपादप्रदर्शिताः
- मधुद्वितीयाः कर्तव्यास्ते हिक्कासु विजानता २८
- कपोतपारावतलावशकश्वदंष्ट्रगोधावृषदंशजान् रसान्
- पिबेत् फलाम्लानहिमान् ससैन्धवान् स्निग्धांस्तथैवर्ष्यमृगद्विजोद्भवान् २९
- विरेचनं पथ्यतमं ससैन्धवं घृतं सुखोष्णं च सितोपलायुतम्
- सदागतावूर्ध्वगतेऽनुवासनं वदन्ति केचिच्च हिताय हिक्किनाम् ३०
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काप्रतिषेधो नाम पञ्चाशत्तमोऽध्यायः ५०
एकपञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातः श्वासप्रतिषेधं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- यैरेव कारणैर्हिक्का बहुभिः संप्रवर्तते
- तैरेव कारणैः श्वासो घोरो भवति देहिनाम् ३
- विहाय प्रकृतिं वायुः प्राणोऽथ कफसंयुतः
- श्वासयत्यूर्ध्वगो भूत्वा तं श्वासं परिचक्षते ४
- क्षुद्र कस्तमकश्छिन्नो महानूर्ध्वश्च पञ्चधा
- भिद्यते स महाव्याधिः श्वास एको विशेषतः ५
- प्राग्रूपं तस्य हृत्पीडा भक्तद्वेषोऽरतिः परा
- आनाहः पार्श्वयोः शूलं वैरस्यं वदनस्य च ६
- किञ्चिदारभमाणस्य यस्य श्वासः प्रवर्तते
- निषण्णस्यैति शान्तिं च स क्षुद्र इति संज्ञितः ७
- तृट्स्वेदवमथुप्रायः कण्ठघुर्घुरिकान्वितः
- विशेषाद्दुर्दिने ताम्येच्छ्वासः स तमको मतः ८
- घोषेण महताऽऽविष्टः सकासः सकफो नरः
- यः श्वसित्यबलोऽन्नद्विट् सुप्तस्तमकपीडितः ९
- स शाम्यति कफे हीने स्वपतश्च विवर्धते
- मूर्च्छाज्वराभिभूतस्य ज्ञेयः प्रतमकस्तु सः १०
- आध्मातो दह्यमानेन बस्तिना सरुजं नरः
- सर्वप्राणेन विच्छिन्नं श्वस्याच्छिन्नं तमादिशेत् ११
- निःसंज्ञः पार्श्वशूलार्तः शुष्ककण्ठोऽतिघोषवान्
- संरब्धनेत्रस्त्वायम्य यः श्वस्यात् स महान् स्मृतः
- मर्मस्वायम्यमानेषु श्वसन्मूढो मुहुश्च यः
- ऊर्ध्वप्रेक्षी हतरवस्तमूर्ध्वश्वासमादिशेत् १३
- क्षुद्र ः! साध्यतमस्तेषां तमकः कृच्छ्र उच्यते
- त्रयः श्वासा न सिध्यन्ति तमको दुर्बलस्य च १४
- स्नेहबस्तिं विना केचिदूर्ध्वं चाधश्च शोधनम्
- मृदु प्राणवतां श्रेष्ठं श्वासिनामादिशन्ति हि १५
- श्वासे कासे च हिक्कायां हृद्रो गे चापि पूजितम्
- घृतं पुराणं संसिद्धमभयाविडरामठैः १६
- सौवर्चलाभयाबिल्वैः संस्कृतं वाऽनवं घृतम्
- पिप्पल्यादिप्रतीवापं सिद्धं वा प्रथमे गणे १७
- सपञ्चलवणं सर्पिः श्वासकासौ व्यपोहति
- हिंस्राविडङ्गपूतीकत्रिफलाव्योषचित्रकैः १८
- द्विक्षीरं साधितं सर्पिश्चतुर्गुणजलाप्लुतम्
- कोलमात्रैः पिबेत्तद्धि श्वासकासौ व्यपोहति १९
- अर्शांस्यरोचकं गुल्मं शकृद्भेदं क्षयं तथा
- कृत्स्ने वृषकषाये वा पचेत् सर्पिश्चतुर्गुणे २०
- तन्मूलकुसुमावापं शीतं क्षौद्रे ण योजयेत्
- शृङ्गीमधूलिकाभार्गीशुण्ठीतार्क्ष्यसिताम्बुदैः २१
- सहरिद्रै ः! सयष्ट्याह्वैः समैरावाप्य योगतः
- घृतप्रस्थं पचेद्धीमान् शीततोये चतुर्गुणे २२
- श्वासं कासं तथा हिक्कां सर्पिरेतन्नियच्छति
- सुवहा कालिका भार्गी शुकाख्या नैचुलं फलम् २३
- काकादनी शृङ्गवेरं वर्षाभूर्बृहतीद्वयम्
- कोलमात्रैर्घृतप्रस्थं पचेदेभिर्जलद्विकम् २४
- कटूष्णं पीतमेतद्धि श्वासामयविनाशनम्
- सौवर्चलयवक्षारकटुकाव्योषचित्रकैः २५
- वचाभयाविडङ्गैश्च साधितं श्वासशान्तये
- गोपवल्ल्युदके सिद्धं स्यादन्यद्द्विगुणे घृतम् २६
- पञ्चैतानि हवींष्याहुर्भिषजः श्वासकासयोः
- तालीशतामलक्युग्राजीवन्तीकुष्ठसैन्धवैः २७
- बिल्वपुष्करभूतीकसौवर्चलकणाग्निभिः
- पथ्यातेजोवतीयुक्तैः सर्पिर्जलचतुर्गुणम् २८
- हिङ्गुपादयुतं सिद्धं सर्वश्वासहरं परम्
- वासाघृतं षट्पलं वा घृतं चात्र हितं भवेत् २९
- तैलं दशगुणे सिद्धं भृङ्गराजरसे शुभे
- सेव्यमानं यथान्यायं श्वासकासौ व्यपोहति ३०
- फलाम्ला विष्किररसाः स्निग्धाः प्रव्यक्तसैन्धवाः
- एणादीनां शिरोभिर्वा कौलत्था वा सुसंस्कृताः ३१
- हन्युः श्वासं च कासं च संस्कृतानि पयांसि च
- तिमिरस्य च बीजानि कर्कटाख्या च चूर्णिता ३२
- दुरालभाऽथ पिप्पल्यः कटुकाख्या हरीतकी
- श्वाविन्मयूररोमाणि कोला मागधिकाकणाः ३३
- भार्गीत्वक् शृङ्गवेरं च शर्करा शल्लकाङ्गजम्
- नृत्तकौण्डकबीजानि चूर्णितानि तु केवलम् ३४
- पञ्च श्लोकार्धिकास्त्वेते लेहा ये सम्यगीरिताः
- सर्पिर्मधुभ्यां ते लेह्याः कासश्वासार्दितैर्नरैः ३५
- सप्तच्छदस्य पुष्पाणि पिप्पलीश्चापि मस्तुना
- पिबेत् संचूर्ण्य मधुना धानाश्चाप्यथ भक्षयेत् ३६
- अर्काङ्कुरैर्भावितानां यवानां साध्वनेकशः
- तर्पणं वा पिबेदेषां सक्षौद्रं श्वासपीडितः ३७
- शिरीषकदलीकुन्दपुष्पं मागधिकायुतम्
- तण्डुलाम्बुयुतं पीत्वा जयेच्छ्वासानशेषतः ३८
- कोलमज्जां तालमूलमृष्यचर्ममसीमपि
- लिह्यात् क्षौद्रे ण भार्गी वा सर्पिर्मधुसमायुताम् ३९
- नीचैः कदम्बबीजं वा सक्षौद्रं तण्डुलाम्बुना
- द्रा क्षां हरीतकीं कृष्णां कर्कटाख्यां दुरालभाम् ४०
- सर्पिर्मधुभ्यां विलिहन् हन्ति श्वासान् सुदारुणान्
- हरिद्रा ं! मरिचं द्रा क्षां गुडं रास्नां कणां शटीम् ४१
- लिह्यात्तैलेन तुल्यानि श्वासार्तो हितभोजनः
- गवां पुरीषस्वरसं मधुसर्पिःकणायुतम् ४२
- लिह्याच्छ्वासेषु कासेषु वाजिनां वा शकृद्र सम्
- पाण्डुरोगेषु शोथेषु ये योगाः संप्रकीर्तिताः ४३
- श्वासकासापहास्तेऽपि कासघ्ना ये च कीर्तिताः
- भार्गीत्वक् त्र्! यूषणं तैलं हरिद्रा ं! कटुरोहिणीम् ४४
- पिप्पलीं मरिचं चण्डां गोशकृद्र समेव च
- तलकोटस्य बीजेषु पचेदुत्कारिकां शुभाम् ४५
- सेव्यमाना निहन्त्येषा श्वासानाशु सुदुस्तरान्
- पुराणसर्पिः पिप्पल्यः कौलत्था जाङ्गला रसाः ४६
- सुरा सौवीरकं हिङ्गु मातुलुङ्गरसो मधु
- द्रा क्षामलकबिल्वानि शस्तानि श्वासिहिक्किनाम् ४७
- श्वासहिक्कापरिगतं स्निग्धैः स्वेदैरुपाचरेत्
- आक्तं लवणतैलाभ्यां तैरस्य ग्रथितः कफः ४८
- खस्थो विलयनं याति मारुतश्च प्रशाम्यति
- स्विन्नं ज्ञात्वा ततश्चैव भोजयित्वा रसौदनम् ४९
- वातश्लेष्मविबन्धे वा भिषग् धूमं प्रयोजयेत्
- मनःशिलादेवदारुहरिद्रा च्छदनामिषैः ५०
- लाक्षोरुबूकमूलैश्च कृत्वा वर्तीर्विधानतः
- सर्पिर्यवमधूच्छिष्टशालनिर्यासजं तथा ५१
- शृङ्गबालखुरस्नायुत्वक् समस्तं गवामपि
- तुरुष्कशल्लकीनां च गुग्गुलोः पद्मकस्य च ५२
- एते सर्वे ससर्पिष्का धूमाः कार्या विजानता
- बलीयसि कफग्रस्ते वमनं सविरेचनम् ५३
- दुर्बले चैव रूक्षे च तर्पणं हितमुच्यते
- जाङ्गलोरभ्रजैर्मांसैरानूपैर्वा सुसंस्कृतैः ५४
- निदिग्धिकां चामलकप्रमाणां हिङ्ग्वर्धयुक्तां मधुना सुयुक्ताम्
- लिहन्नरः श्वासनिपीडितो हि श्वासं जयत्येव बलात्त्र्! यहेण ५५
- यथाऽग्निरिद्धः पवनानुविद्धो वज्रं यथा वा सुरराजमुक्तम्
- रोगास्तथैते खलु दुर्निवाराः श्वासश्च कासश्च विलम्बिका च ५६
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे हिक्काश्वासप्रतिषेधो नाम एकपञ्चाशत्तमोऽध्यायः ५१
द्विपञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातः कासप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- उक्ता ये हेतवो नॄणां रोगयोः श्वासहिक्कयोः
- कासस्यापि च विज्ञेयास्त एवोत्पत्तिहेतवः ३
- धूमोपघाताद्र जसस्तथैव व्यायामरूक्षान्ननिषेवणाच्च
- विमार्गगत्वादपि भोजनस्य वेगावरोधात् क्षवथोस्तथैव ४
- प्राणो ह्युदानानुगतः प्रदुष्टः संभिन्नकांस्यस्वनतुल्यघोषः
- निरेति वक्त्रात् सहसा सदोषः कासः स विद्वद्भिरुदाहृतस्तु ५
- स वातपित्तप्रभवः कफाच्च क्षतात्तथाऽन्यः क्षयजोऽपरश्च
- पञ्चप्रकारः कथितो भिषग्भिर्विवर्धितो यक्ष्मविकारकृत् स्यात् ६
- भविष्यतस्तस्य तु कण्ठकण्डूर्भोज्योपरोधो गलतालुलेपः
- स्वशब्दवैषम्यमरोचकोऽग्निसादश्च लिङ्गानि भवन्त्यमूनि ७
- हृच्छङ्खमूर्धोदरपार्श्वशूली क्षामाननः क्षीणबलस्वरौजाः
- प्रसक्तमन्तःकफमीरणेन कासेत्तु शुष्कं स्वरभेदयुक्तः ८
- उरोविदाहज्वरवक्त्रशोषैरभ्यर्दितस्तिक्तमुखस्तृषार्तः
- पित्तेन पीतानि वमेत् कटूनि कासेत् स पाण्डुः परिदह्यमानः ९
- प्रलिप्यमानेन मुखेन सीदन् शिरोरुजार्तः कफपूर्णदेहः
- अभक्तरुग्गौरवसादयुक्तः कासेत ना सान्द्र कफं कफेन १०
- वक्षोऽतिमात्रं विहतं तु यस्य व्यायामभाराध्ययनाभिघातैः
- विश्लिष्टवक्षाः स नरः सरक्तं ष्ठीवत्यभीक्ष्णं क्षतजं तमाहुः ११
- स गात्रशूलज्वरदाहमोहान् प्राणक्षयं चोपलभेत कासी
- शुष्यन् विनिष्ठीवति दुर्बलस्तु प्रक्षीणमांसो रुधिरं सपूयम् १२
- ससर्वलिङ्गं भृशदुश्चिकित्स्यं चिकित्सितज्ञाः क्षयजं वदन्ति
- वृद्धत्वमासाद्य भवेत्तु यो वै याप्यं तमाहुर्भिषजस्तु कासम् १३
- शृङ्गीवचाकट्फलकत्तृणाब्दधान्याभयाभार्ग्यमराह्वविश्वम्
- उष्णाम्बुना हिङ्गुयुतं तु पीत्वा बद्धास्यमप्याशु जहाति कासम् १४
- फलत्रिकव्योषविडङ्गशृङ्गीरास्नावचापद्मकदेवकाष्ठैः
- लेहः समैः क्षौद्र सिताघृताक्तः कासं निहन्यादचिरादुदीर्णम् १५
- पथ्यां सितामामलकानि लाजां समागधीं चापि विचूर्ण्य शुण्ठीम्
- सर्पिर्मधुभ्यां विलिहीत कासी ससैन्धवां वोष्णजलेन कृष्णाम् १६
- खादेद्गुडं नागरपिप्पलीभ्यां द्रा क्षां च सर्पिर्मधुनाऽवलिह्यात्
- द्रा क्षां सितां मागधिकां च तुल्यां सशृङ्गवेरं मधुकं तुगां च १७
- लिह्याद्घृतक्षौद्र युतां समांशां सितोपलां वा मरिचांशयुक्ताम्
- धात्रीकणाविश्वसितोपलाश्च संचूर्ण्य मण्डेन पिबेच्च दध्नः १८
- हरेणुकां मागधिकां च तुल्यां दध्ना पिबेत् कासगदाभिभूतः
- उभे हरिद्रे सुरदारुशुण्ठीं गायत्रिसारं च पिबेत् समांशम् १९
- बस्तस्य मूत्रेण सुखाम्बुना वा दन्तीं द्र वन्तीं च सतिल्वकाख्याम्
- भृष्टानि सर्पींष्यथ बादराणि खादेत् पलाशानि ससैन्धवानि २०
- कोलप्रमाणं प्रपिबेद्धि हिङ्गु सौवीरकेणाम्लरसेन वाऽपि
- क्षौद्रे ण लिह्यान्मरिचानि वाऽपि भार्गीवचाहिङ्गुकृता च वर्तिः २१
- धूमे प्रशस्ता घृतसंप्रयुक्ता वेणुत्वगेलालवणैः कृता वा
- मुस्तेङ्गुदीत्वङ्मधुकाह्वमांसीमनःशिलालैश्छगलाम्बुपिष्टैः २२
- विधाय वर्तीश्च पयोऽनुपानं धूमं पिबेद्वातबलासकासी
- पिबेच्च सीधुं मरिचान्वितं वा तेनाशु कासं जयति प्रसह्य २३
- द्रा क्षाम्बुमञ्जिष्टपुराह्वयाभिः क्षीरं शृतं माक्षिकसंप्रयुक्तम्
- निदिग्धिकानागरपिप्पलीभिः खादेच्च मुद्गान्मधुना सुसिद्धान् २४
- उत्कारिकां सर्पिषि नागराढ्यां पक्त्वा समूलैस्त्रुटिकोलपत्रैः
- एभिर्निषेवेत कृतां च पेयां तन्वीं सुशीतां मधुना विमिश्राम् २५
- यत् प्लीह्नि सर्पिर्विहितं षडङ्गं तद्वातकासं जयति प्रसह्य
- विदारिगन्धादिकृतं घृतं वा रसेन वा वासकजेन पक्वम् २६
- विरेचनं स्नैहिकमत्र चोक्तमास्थापनं चाप्यनुवासनं च
- धूमं पिबेत् स्नैहिकमप्रमत्तः पिबेत् सुखोष्णं घृतमेव चात्र २७
- हिता यवाग्वश्च रसेषु सिद्धाः पयांसि लेहाः सघृतास्तथैव
- प्रच्छर्दनं कायशिरोविरेकास्तथैव धूमाः कवलग्रहाश्च २८
- उष्णाश्च लेहाः कटुका निहन्युः कफं विशेषेण विशोषणं च
- कटुत्रिकं चापि वदन्ति पथ्यं घृतं कृमिघ्नस्वरसे विपक्वम् २९
- निर्गुण्डिपत्रस्वरसे च पक्वं सर्पिः कफोत्थं विनिहन्ति कासम्
- पाठाविडव्योषविडङ्गसिन्धुत्रिकण्टरास्नाहुतभुग्बलाभिः ३०
- शृङ्गीवचाम्भोधरदेवदारुदुरालभाभार्ग्यभयाशटीभिः
- सम्यग्विपक्वं द्विगुणेन सर्पिर्निदिग्धिकायाः स्वरसेन चैतत् ३१
- श्वासाग्निसादस्वरभेदभिन्नान्निहन्त्युदीर्णानपि पञ्च कासान्
- विदारिगन्धोत्पलसारिवादीन् निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम् ३२
- घृतं पचेदिक्षुरसाम्बुदुग्धैः काकोलिवर्गे च सशर्करं तत्
- प्रातः पिबेत् पित्तकृते च कासे रतिप्रसूते क्षतजे च कासे ३३
- खर्जूरभार्गीमगधाप्रियालमधूलिकैलामलकैः समांशैः
- चूर्णं सिताक्षौद्र घृतप्रगाढं त्रीन् हन्ति कासानुपयुज्यमानम् ३४
- रक्ताहरिद्रा ञ्जनवह्निपाठामूर्वोपकुल्या विलिहेत् समांशाः
- क्षौद्रे ण कासे क्षतजे क्षयोत्थे पिबेद्घृतं चेक्षुरसे विपक्वम् ३५
- चूर्णं पिबेदामलकस्य वाऽपि क्षीरेण पक्वं सघृतं हिताशी
- चूर्णानि गोधूमयवोद्भवानि काकोलिवर्गश्च कृतः सुसूक्ष्मः ३६
- कासेषु पेयस्त्रिषु कासवद्भिः क्षीरेण सक्षौद्र घृतेन वाऽपि
- गुडोदकं वा क्वथितं पिबेद्धि क्षौद्रे ण शीतं मरिचोपदंशम् ३७
- प्रस्थत्रयेणामलकीरसस्य शुद्धस्य दत्त्वाऽर्धतुलां गुडस्य
- चूर्णीकृतैर्ग्रन्थिकचव्यजीरव्योषेभकृष्णाहपुषाजमोदैः ३८
- विडङ्गसिन्धुत्रिफलायवानीपाठाग्निधान्यैश्च पिचुप्रमाणैः
- दत्त्वा त्रिवृच्चूर्णपलानि चाष्टावष्टौ च तैलस्य पचेद्यथावत् ३९
- तं भक्षयेदक्षफलप्रमाणं यथेष्टचेष्टस्त्रिसुगन्धियुक्तम्
- अनेन सर्वे ग्रहणीविकाराः सश्वासकासस्वरभेदशोथाः ४०
- शाम्यन्ति चायं चिरमन्तरग्नेर्हतस्य पुंस्त्वस्य च वृद्धिहेतुः
- स्त्रीणां च वन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रतीतः ४१
- द्विपञ्चमूलेभकणात्मगुप्ताभार्गीशटीपुष्करमूलविश्वान्
- पाठामृताग्रन्थिकशङ्खपुष्पीरास्नाग्न्यपामार्गबलायवासान् ४२
- द्विपालिकान् न्यस्य यवाढकं च हरीतकीनां च शतं गुरूणाम्
- द्रो ने जलस्याढकसंयुते च क्वाथे कृते पूतचतुर्थभागे ४३
- पचेत्तुलां शुद्धगुडस्य दत्त्वा पृथक् च तैलात् कुडवं घृताच्च
- चूर्णं च तावन्मगधोद्भवाया देयं च तस्मिन्मधु सिद्धशीते ४४
- रसायनात् कर्षमतो विलिह्याद्द्वे चाभये नित्यमथाशु हन्यात्
- तद्रा जयक्ष्मग्रहणीप्रदोषशोफाग्निमान्द्यस्वरभेदकासान् ४५
- पाण्ड्वामयश्वासशिरोविकारान् हृद्रो गहिक्काविषमज्वरांश्च
- मेधाबलोत्साहमतिप्रदं च चकार चैतद्भगवानगस्त्यः ४६
- कुलीरशुक्तीचटकैणलावान्निष्क्वाथ्य वर्गं मधुरं च कृत्स्नम्
- पचेद्घृतं तत्तु निषेव्यमाणं हन्यात् क्षतोत्थं क्षयजं च कासम् ४७
- शतावरीनागबलाविपक्वं घृतं विधेयं च हिताय कासिनाम्
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कासप्रतिषेधो नाम द्विपञ्चाशत्तमोऽध्यायः ५२
त्रिपञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातः स्वरभेदप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अत्युच्चभाषणविषाध्ययनातिगीतशीतादिभिः प्रकुपिताः पवनादयस्तु
- स्रोतःसु ते स्वरवहेषु गताः प्रतिष्ठां
- हन्युः स्वरं भवति चापि हि षड्विधः सः ३
- वातेन कृष्णनयनाननमूत्रवर्चा
- भिन्नं शनैर्वदति गद्गदवत् स्वरं च
- पित्तेन पीतवदनाक्षिपुरीषमूत्रो
- ब्रूयाद्गलेन परिदाहसमन्वितेन ४
- कृच्छ्रात् कफेन सततं कफरुद्धकण्ठो
- मन्दं शनैर्वदति चापि दिवा विशेषः
- सर्वात्मके भवति सर्वविकारसंपदव्यक्तता च वचसस्तमसाध्यमाहुः ५
- धूप्येत वाक् क्षयकृते क्षयमाप्नुयाच्च
- वागेष चापि हतवाक् परिवर्जनीयः
- अन्तर्गलं स्वरमलक्ष्यपदं चिरेण
- मेदश्चयाद्वदति दिग्धगलौष्ठतालुः ६
- क्षीणस्य वृद्धस्य कृशस्य चापि चिरोत्थितो यश्च सहोपजातः
- मेदस्विनः सर्वसमुद्भवश्च स्वरामयो यो न स सिद्धिमेति ७
- स्निग्धान् स्वरातुरनरानपकृष्टदोषान्
- न्यायेन तान् वमनरेचनबस्तिभिश्च
- नस्यावपीडमुखधावनधूमलेहैः
- संपादयेच्च विविधैः कवलग्रहैश्च ८
- यः श्वासकासविधिरादित एव चोक्तस्तं चाप्यशेषमवतारयितुं यतेत
- वैशेषिकं च विधिमूर्ध्वमतो वदामि
- तं वै स्वरातुरहितं निखिलं निबोध ९
- स्वरोपघातेऽनिलजे भुक्तोपरि घृतं पिबेत्
- कासमर्दकवार्ताकमार्कवस्वरसे शृतम् १०
- पीतं घृतं हन्त्यनिलं सिद्धमार्तगले रसे
- यवक्षाराजमोदाभ्यां चित्रकामलकेषु वा ११
- देवदार्वग्निकाभ्यां वा सिद्धमाजं समाक्षिकम्
- सुखोदकानुपानो वा ससर्पिष्को गुडौदनः १२
- क्षीरानुपानं पित्ते तु पिबेत् सर्पिरतन्द्रि तः
- अश्नीयाच्च ससर्पिष्कं यष्टीमधुकपायसम् १३
- लिह्यान्मधुरकाणां वा चूर्णं मधुघृताप्लुतम्
- शतावरीचूर्णयोगं वलाचूर्णमथापि वा १४
- पिबेत् कटूनि मूत्रेण कफजे स्वरसंक्षये
- लिह्याद्वा मधुतैलाभ्यां भुक्त्वा खादेत् कटूनि वा १५
- स्वरोपघाते मेदोजे कफवद्विधिरिष्यते
- सर्वजे क्षयजे चापि प्रत्याख्यायाचरेत् क्रियाम् १६
- शर्करामधुमिश्राणि शृतानि मधुरैः सह
- पिबेत् पयांसि यस्योच्चैर्वदतोऽभिहतः स्वरः १७
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे छर्दिप्रतिषेधो नाम त्रिपञ्चाशत्तमोऽध्यायः
चतुःपञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातः कृमिरोगप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अजीर्णाध्यशनासात्म्यविरुद्धमलिनाशनैः
- अव्यायामदिवास्वप्नगुर्वतिस्निग्धशीतलैः ३
- माषपिष्टान्नविदलबिसशालूकसेरुकैः
- पर्णशाकसुराशुक्तदधिक्षीरगुडेक्षुभिः ४
- पललानूपपिशितपिण्याकपृथुकादिभिः
- स्वाद्वम्लद्र वपानैश्च श्लेष्मा पित्तं च कुप्यति ५
- कृमीन् बहुविधाकारान् करोति विविधाश्रयान्
- आमपक्वाशये तेषां कफविड्जन्मनां पुनः
- धमन्यां रक्तजानां च प्रसवः प्रायशः स्मृतः ६
- विंशते कृमिजातीनां त्रिविधः संभवः स्मृतः
- पुरीषकफरक्तानि तासां वक्ष्यामि विस्तरम् ७
- अजवा विजवाः किप्याश्चिप्या गण्डूपदास्तथा
- चूरवो द्विमुखाश्चैव ज्ञेयाः सप्त पुरीषजाः ८
- श्वेताः सूक्ष्मास्तुदन्त्येते गुदं प्रतिसरन्ति च
- तेषामेवापरे पुच्छैः पृथवश्च भवन्ति हि ९
- शूलाग्निमान्द्यपाण्डुत्वविष्टम्भबलसंक्षयाः
- प्रसेकारुचिहृद्रो गविड्भेदास्तु पुरीषजैः १०
- रक्ता गण्डूपदा दीर्घा गुदकण्डूनिपातिनः
- शूलाटोपशकृद्भेदपक्तिनाशकराश्च ते ११
- दर्भपुष्पा महापुष्पाः प्रलूनाश्चिपिटास्तथा
- पिपीलिका दारुणाश्च कफकोपसमुद्भवाः १२
- रोमशा रोममूर्धानः सपुच्छाः श्यावमण्डलाः
- रूढधान्याङ्कुराकाराः शुक्लास्ते तनवस्तथा १३
- मज्जादा नेत्रलेढारस्तालुश्रोत्रभुजस्तथा
- शिरोहृद्रो गवमथुप्रतिश्यायकराश्च ते १४
- केशरोमनखादाश्च दन्तादाः किक्किशास्तथा
- कुष्ठजाः सपरीसर्पा ज्ञेयाः शोणितसंभवाः १५
- ते सरक्ताश्च कृष्णाश्च स्निग्धाश्च पृथवस्तथा
- रक्ताधिष्ठानजान् प्रायो विकारान् जनयन्ति ते १६
- माषपिष्टान्नविदलपर्णशाकैः पुरीषजाः
- मांसमाषगुडक्षीरदधितैलैः कफोद्भवाः १७
- विरुद्धाजीर्णशाकाद्यैः शोणितोत्था भवन्ति हि
- ज्वरो विवर्णता शूलं हृद्रो गः सदनं भ्रमः १८
- भक्तद्वेषोऽतिसारश्च संजातकृमिलक्षणम्
- दृश्यास्त्रयोदशाद्यास्तु कृमीणां परिकीर्तिताः १९
- केशादाद्यास्त्वदृश्यास्ते द्वावाद्यौ परिवर्जयेत्
- एषामन्यतमं ज्ञात्वा जिघांसुः स्निग्धमातुरम् २०
- सुरसादिविपक्वेन सर्पिषा वान्तमादितः
- विरेचयेत्तीक्ष्णतरैर्योगैरास्थापयेच्च तम् २१
- यवकोलकुलत्थानां सुरसादेर्गणस्य च
- विडङ्गस्नेहयुक्तेन क्वाथेन लवणेन च २२
- प्रत्यागते निरूहे तु नरं स्नातं सुखाम्बुना
- युञ्ज्यात् कृमिघ्नैरशनैस्ततः शीघ्रं भिषग्वरः २३
- स्नेहेनोक्तेन चैनं तु योजयेत् स्नेहबस्तिना
- ततः शिरीषकिणिहीरसं क्षौद्र युतं पिबेत् २४
- केवूकस्वरसं वाऽपि पूर्ववत्तीक्ष्णभोजनः
- पलाशबीजस्वरसं कल्कं वा तण्डुलाम्बुना २५
- पारिभद्र कपत्राणां क्षौद्रे ण स्वरसं पिबेत्
- पत्तूरस्वरसं वाऽपि पिबेद्वा सुरसादिजम् २६
- लिह्यादश्वशकृच्चूर्णं वैडङ्गं वा समाक्षिकम्
- पत्रैर्मूषिकपर्ण्या वा सुपिष्टैः पिष्टमिश्रितैः २७
- खादेत् पूपलिकाः पक्वा धान्याम्लं च पिबेदनु
- सुरसादिगणे पक्वं तैलं वा पानमिष्यते २८
- विडङ्गचूर्णयुक्तैर्वा पिष्टैर्भक्ष्यांस्तु कारयेत्
- तत्कषायप्रपीतानां तिलानां स्नेहमेव वा २९
- श्वाविधः शकृतश्चूर्णं सप्तकृत्वः सुभावितम्
- विडङ्गानां कषायेण त्रैफलेन तथैव च ३०
- क्षौद्रे ण लीढ्वाऽनुपिबेद्र समामलकोद्भवम्
- अक्षाभयारसं वाऽपि विधिरेषोऽयसामपि ३१
- पूतीकस्वरसं वाऽपि पिबेद्वा मधुना सह
- पिबेद्वा पिप्पलीमूलमजामूत्रेण संयुतम् ३२
- सप्तरात्रं पिबेद्घृष्टं त्रपु वा दधिमस्तुना
- पुरीषजान् कफोत्थांश्च हन्यादेवं कृमीन् भिषक्
- शिरोहृद्घ्राणकर्णाक्षिसंश्रितांश्च पृथग्विधान्
- विशेषेणाञ्जनैर्नस्यैरवपीडैश्च साधयेत् ३४
- शकृद्र सं तुरङ्गस्य सुशुष्कं भावयेदति
- निष्क्वाथेन विडङ्गानां चूर्णं प्रधमनं तु तत् ३५
- अयश्चूर्णान्यनेनैव विधिना योजयेद्भिषक्
- सकांस्यनीलं तैलं च नस्यं स्यात्सुरसादिके ३६
- इन्द्र लुप्तविधिश्चापि विधेयो रोमभोजिषु
- दन्तादानां समुद्दिष्टं विधानं मुखरोगिकम् ३७
- रक्तजानां प्रतीकारं कुर्यात् कुष्ठचिकित्सिते
- सुरसादिं तु सर्वेषु सर्वथैवोपयोजयेत् ३८
- प्रव्यक्ततिक्तकटुकं भोजनं च हितं भवेत्
- कुलत्थक्षारसंसृष्टं क्षारपानं च पूजितम् ३९
- क्षीराणि मांसानि घृतानि चैव दधीनि शाकानि च पर्णवन्ति
- समासतोऽम्लान्मधुरान् हिमांश्च कृमीन् जिघांसुः परिवर्जयेत्तु ४०
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे कृमिप्रतिषेधो नाम चतुःपञ्चाशत्तमोऽध्यायः ५४
पञ्चपञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथात उदावर्तप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अधश्चोर्ध्वं च भावानां प्रवृत्तानां स्वभावतः
- न वेगान् धारयेत् प्राज्ञो वातादीनां जिजीविषुः ३
- वातविण्मूत्रजृम्भाश्रुक्षवोद्गारवमीन्द्रि यैः
- व्याहन्यमानैरुदितैरुदावर्तो निरुच्यते ४
- क्षुत्तृष्णाश्वासनिद्रा णामुदावर्तो विधारणात्
- तस्याभिधास्ये व्यासेन लक्षणं च चिकित्सितम् ५
- त्रयोदशविधश्चासौ भिन्न एतैस्तु कारणैः
- अपथ्यभोजनाच्चापि वक्ष्यते च तथाऽपरः ६
- आध्मानशूलौ हृदयोपरोधं शिरोरुजं श्वासमतीव हिक्काम्
- कासप्रतिश्यायगलग्रहांश्च बलासपित्तप्रसरं च घोरम् ७
- कुर्यादपानोऽभिहतः स्वमार्गे हन्यात् पुरीषं मुखतः क्षिपेद्वा
- आटोपशूलौ परिकर्तनं च सङ्गः पुरीषस्य तथोर्ध्ववातः ८
- पुरीषमास्यादपि वा निरेति पुरीषवेगेऽभिहते नरस्य
- मूत्रस्य वेगेऽभिहते नरस्तु कृच्छ्रेण मूत्रं कुरुतेऽल्पमल्पम् ९
- मेढ्रे गुदे वङ्क्षणबस्तिमुष्कनाभिप्रदेशेष्वथवाऽपि मूर्ध्नि
- आनद्धबस्तिश्च भवन्ति तीव्राः शूलाश्च शूलैरिव भिन्नमूर्तेः १०
- मन्यागलस्तम्भशिरोविकारा जृम्भोपघातात् पवनात्मकाः स्युः
- श्रोत्राननघ्राणविलोचनोत्था भवन्ति तीव्राश्च तथा विकाराः ११
- आनन्दजं शोकसमुद्भवं वा नेत्रोदकं प्राप्तममुञ्चतो हि
- शिरोगुरुत्वं नयनामयाश्च भवन्ति तीव्राः सह पीनसेन १२
- भवन्ति गाढं क्षवथोर्विघाताच्छिरोक्षिनासाश्रवणेषु रोगाः
- कण्ठास्यपूर्णत्वमतीव तोदः कूजश्च वायोरुत वाऽप्रवृत्तिः १३
- उद्गारवेगेऽभिहते भवन्ति घोरा विकाराः पवनप्रसूताः
- छर्देर्विघातेन भवेच्च कुष्ठं येनैव दोषेण विदग्धमन्नम् १४
- मूत्राशये पायुनि मुष्कयोश्च शोफो रुजो मूत्रविनिग्रहश्च
- शुक्राश्मरी तत्स्रवणं भवेद्वा ते ते विकारा विहते तु शुक्रे १५
- तन्द्रा ङ्गमर्दारुचिविभ्रमाः स्युः क्षुधोऽभिघातात् कृशता च दृष्टेः
- कण्ठास्यशोषः श्रवणावरोधस्तृष्णाभिघाताद्धृदये व्यथा च १६
- श्रान्तस्य निःश्वासविनिग्रहेण हृद्रो गमोहावथवाऽपि गुल्मः
- जृम्भाऽङ्गमर्दोऽङ्गशिरोक्षिजाड्यं निद्रा भिघातादथवाऽपि तन्द्रा १७
- तृष्णार्दितं परिक्लिष्टं क्षीणं शूलैरभिद्रुतम्
- शकृद्वमन्तं मतिमानुदावर्तिनमुत्सृजेत् १८
- सर्वेष्वेतेषु विधिवदुदावर्तेषु कृत्स्नशः
- वायोः क्रिया विधातव्याः स्वमार्गप्रतिपत्तये १९
- सामान्यतः पृथक्त्वेन क्रियां भूयो निबोध मे
- आस्थापनं मारुतजे स्निग्धस्विन्ने विशिष्यते २०
- पुरीषजे तु कर्तव्यो विधिरानाहिको भवेत्
- सौवर्चलाढ्यां मदिरां मूत्रे त्वभिहते पिबेत् २१
- एलां वाऽप्यथ मद्येन क्षीरं वाऽपि पिबेन्नरः
- धात्रीफलानां स्वरसं सजलं वा पिबेत्त्र्! यहम् २२
- रसमश्वपुरीषस्य गर्दभस्याथवा पिबेत्
- मांसोपदंशं मधु वा पिबेद्वा सीधु गौडिकम् २३
- भद्र दारु घनं मूर्वा हरिद्रा मधुकं तथा
- कोलप्रमाणानि पिबेदान्तरिक्षेण वारिणा २४
- दुःस्पर्शास्वरसं वाऽपि कषायं कुङ्कुमस्य च
- एर्वारुबीजं तोयेन पिबेद्वाऽलवणीकृतम् २५
- पञ्चमूलीशृतं क्षीरं द्रा क्षारसमथापि वा
- योगांश्च वितरेदत्र पूर्वोक्तानश्मरीभिदः २६
- मूत्रकृच्छ्रक्रमं चापि कुर्यान्निरवशेषतः
- भूयो वक्ष्यामि योगान् यान् मूत्राघातोपशान्तये
- स्नेहैः स्वेदैरुदावर्तं जृम्भाजं समुपाचरेत्
- अश्रुमोक्षोऽश्रुजे कार्यः स्निग्धस्विन्नस्य देहिनः २८
- तीक्ष्णाञ्जनावपीडाभ्यां तीक्ष्णगन्धोपशिङ्घनैः
- वर्तिप्रयोगैरथवा क्षवसक्तिं प्रवर्तयेत् २९
- उद्गारजे क्रमोपेतं स्नैहिकं धूममाचरेत् ३०
- सुरां सौवर्चलवतीं बीजपूररसान्विताम्
- छर्द्याघातं यथादोषं सम्यक् स्नेहादिभिर्जयेत् ३१
- सक्षारलवणोपेतमभ्यङ्गं चात्र दापयेत्
- बस्तिशुद्धिकरावापं चतुर्गुणजलं पयः ३२
- आवारिनाशात् क्वथितं पीतवन्तं प्रकामतः
- रमयेयुः प्रिया नार्यः शुक्रोदावर्तिनं नरम् ३३
- क्षुद्विघाते हितं स्निग्धमुष्णमल्पं च भोजनम्
- तृष्णाघाते पिबेन्मन्थं यवागूं वाऽपि शीतलाम् ३४
- भोज्यो रसेन विश्रान्तः श्रमश्वासातुरो नरः
- निद्रा घाते पिबेत् क्षीरं स्वप्याच्चेष्टकथा नरः ३५
- आध्मानाद्येषु रोगेषु यथास्वं प्रयतेत हि
- यच्च यत्र भवेत्प्राप्तं तच्च तस्मिन् प्रयोजयेत् ३६
- वायुः कोष्ठानुगो रूक्षैः कषायकटुतिक्तकैः
- भोजनैः कुपितः सद्य उदावर्तं करोति हि ३७
- वातमूत्रपुरीषासृक्कफमेदोवहानि वै
- स्रोतांस्युदावर्तयति पुरीषं चातिवर्तयेत् ३८
- ततो हृद्बस्तिशूलार्तो गौरवारुचिपीडितः
- वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः ३९
- श्वासकासप्रतिश्यायदाहमोहवमिज्वरान्
- तृष्णाहिक्काशिरोरोगमनःश्रवणविभ्रमान् ४०
- लभते च बहूनन्यान् विकारान् वातकोपजान्
- तं तैललवणाभ्यक्तं स्निग्धं स्विन्नं निरूहयेत् ४१
- दोषतो भिन्नवर्चस्कं भुक्तं चाप्यनुवासयेत्
- न चेच्छान्तिं व्रजत्येवमुदावर्तः सुदारुणः ४२
- अथैनं बहुशः स्विन्नं युञ्ज्यात् स्नेहविरेचनैः
- पाययेत त्रिवृत्पीलुयवानीरम्लपाचनैः ४३
- हिङ्गुकुष्ठवचास्वर्जिविडङ्गं वा द्विरुत्तरम्
- योगावेतावुदावर्तं शूलं चानिलजं हतः ४४
- देवदार्वग्निकौ कुष्ठं शुण्ठीं पथ्यां पलङ्कषाम्
- पौष्कराणि च मूलानि तोयस्यर्धाढके पचेत् ४५
- पादावशिष्टं तत् पीतमुदावर्तमपोहति
- मूलकं शुष्कमाद्र रं! च वर्षाभूः पञ्चमूलकम् ४६
- आरेवतफलं चाप्सु पक्त्वा तेन घृतं पचेत्
- तत् पीयमानं शास्त्युग्रमुदावर्तमशेषतः ४७
- वचामतिविषां कुष्ठं यवक्षारं हरीतकीम्
- कृष्णां निर्दहनीं चापि पिबेदुष्णेन वारिणा ४८
- इक्ष्वाकुमूलं मदनं विशल्यातिविषे वचाम्
- कुष्ठं किण्वाग्निकौ चैव पिबेत्तुल्यानि पूर्ववत् ४९
- मूत्रेण देवदार्वग्नित्रिफलाबृहतीः पिबेत्
- यवप्रस्थं फलैः सार्धं कण्टकार्या जलाढके ५०
- पक्त्वाऽर्धप्रस्थशेषं तु पिबेद्धिङ्गुसमन्वितम्
- मदनालाबुबीजानि पिप्पलीं सनिदिग्धिकाम् ५१
- संचूर्ण्य प्रधमेन्नाड्या विशत्येतद्यथा गुदम्
- चूर्णं निकुम्भकम्पिल्लश्यामेक्ष्वाक्वग्निकोद्भवम् ५२
- कृतवेधनमागध्योर्लवणानां च साधयेत्
- गवां मूत्रेण ता वर्तीः कारयेत्तु गुदानुगाः
- सद्यः शर्मकरावेतौ योगावमृतसंमतौ ५३
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे उदावर्तप्रतिषेधो नाम पञ्चपञ्चाशत्तमोऽध्यायः ५५
षट्पञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातो विसूचिकाप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अजीर्णमामं विष्टब्धं विदग्धं च यदीरितम्
- विसूच्यलसकौ तस्माद्भवेच्चापि विलम्बिका ३
- सूचीभिरिव गात्राणि तुदन् संतिष्ठतेऽनिलः
- यस्याजीर्णेन सा वैद्यैरुच्यते ति विसूचिका ४
- न तां परिमिताहारा लभन्ते विदितागमाः
- मूढास्तामजितात्मानो लभन्ते कलुषाशयाः ५
- मूर्च्छातिसारौ वमथुः पिपासा शूलं भ्रमोद्वेष्टनजृम्भदाहाः
- वैवर्ण्यकम्पौ हृदये रुजश्च भवन्ति तस्यां शिरसश्च भेदः ६
- कुक्षिरानह्यतेऽत्यर्थं प्रताम्यति विकूजति
- निरुद्धो मारुतश्चापि कुक्षौ विपरिधावति ७
- वातवर्चोनिरोधश्च कुक्षौ यस्य भृशं भवेत्
- तस्यालसकमाचष्टे तृष्णोद्गारावरोधकौ ८
- दुष्टं तु भुक्तं कफमारुताभ्यां प्रवर्तते नोर्ध्वमधश्च यस्य
- विलम्बिकां तां भृशदुश्चिकित्स्यामाचक्षते शास्त्रविदः पुराणाः ९
- यत्रस्थमामं विरुजेत्तमेव देशं विशेषेण विकारजातैः
- दोषेण येनावततं स्वलिङ्गैस्तं लक्षयेदामसमुद्भवैश्च १०
- यः श्यावदन्तौष्ठनखोऽल्पसंज्ञश्छर्द्यर्दितोऽभ्यन्तरयातनेत्रः
- क्षामस्वरः सर्वविमुक्तसन्धिर्यायान्नरः सोऽपुनरागमाय ११
- साध्यासु पार्ष्ण्योर्दहनं प्रशस्तमग्निप्रतापो वमनं च तीक्ष्णम्
- पक्वे ततोऽन्ने तु विलङ्घनं स्यात् संपाचनं चापि विरेचनं च १२
- विशुद्धदेहस्य हि सद्य एव मूर्च्छातिसारादिरुपैति शान्तिम्
- आस्थापनं चापि वदन्ति पथ्यं सर्वासु योगानपरान्निबोध १३
- पथ्यावचाहिङ्गुकलिङ्गगृञ्जसौवर्चलैः सातिविषैश्च चूर्णम्
- सुखाम्बुपीतं विनिहन्त्यजीर्णं शूलं विसूचीमरुचिं च सद्यः १४
- क्षारागदं वा लवणं विडं वा गुडप्रगाढानथ सर्षपान् वा
- अम्लेन वा सैन्धवहिङ्गुयुक्तौ सबीजपूर्णौ सधृतौ त्रिवर्गौ १५
- कटुत्रिकं वा लवणैरुपेतं पिबेत् स्नुहीक्षीरविमिश्रितं तु
- कल्याणकं वा लवणं पिबेत्तु यदुक्तमादावनिलामयेषु १६
- कृष्णाजमोदक्षवकाणि वाऽपि तुल्यौ पिबेद्वा मगधानिकुम्भौ
- दन्तीयुतं वा मगधोद्भवानां कल्कं पिबेत् कोषवतीरसेन १७
- उष्णाभिरद्भिर्मगधोद्भवानां कल्कं पिबेन्नागरकल्कयुक्तम्
- व्योषं करञ्जस्य फलं हरिद्रे मूलं समं चाप्यथ मातुलुङ्ग्याः १८
- छायाविशुष्का गुटिकाः कृतास्ता हन्युर्विसूचीं नयनाञ्जनेन
- सुवामितं साधुविरेचितं वा सुलङ्घितं वा मनुजं विदित्वा १९
- पेयादिभिर्दीपनपाचनीयैः सम्यक्क्षुधार्तं समुपक्रमेत
- आमं शकृद्वा निचितं क्रमेण भूयो विबद्धं विगुणानिलेन २०
- प्रवर्तमानं न यथास्वमेनं विकारमानाहमुदाहरन्ति
- तस्मिन् भवन्त्यामसमुद्भवे तु तृष्णाप्रतिश्यायशिरोविदाहाः २१
- आमाशये शूलमथो गुरुत्वं हृल्लास उद्गारविघातनं च
- स्तम्भः कटीपृष्ठपुरीषमूत्रे शूलोऽथ मूर्च्छा स शकृद्वमेच्च २२
- श्वासश्च पक्वाशयजे भवन्ति लिङ्गानि चात्रालसकोद्भवानि
- आमोद्भवे वान्तमुपक्रमेत संसर्गभक्तक्रमदीपनीयैः २३
- अथेतरं यो न शकृद्वमेत्तमामं जयेत् स्वेदनपाचनैश्च
- विसूचिकायां परिकीर्तितानि द्र व्याणि वैरेचनिकानि यानि २४
- तान्येव वर्तीर्विरचेद्विचूर्ण्य महिष्यजावीभगवां तु मूत्रैः
- स्विन्नस्य पायौ विनिवेश्य ताश्च चूर्णानि चैषां प्रधमेत्तु नाड्या २५
- मूत्रेषु संसाध्य यथाविधानं द्र व्याणि यान्यूर्ध्वमधश्च यान्ति
- क्वाथेन तेनाशु निरूहयेच्च मूत्रार्धयुक्तेन समाक्षिकेण २६
- त्रिभण्डियुक्तं लवणप्रकुञ्चं दत्त्वा विरिक्तक्रममाचरेच्च
- एष्वेव तैलेन च साधितेन प्राप्तं यदि स्यादनुवासयेच्च २७
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे विसूचिकाप्रतिषेधो नाम षट्पञ्चाशत्तमोऽध्यायः
सप्तपञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातोऽरोचकप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- दोषैः पृथक् सह च चित्तविपर्ययाच्च भक्तायनेषु हृदि चावतते प्रगाढम्
- नान्ने रुचिर्भवति तं भिषजो विकारं भक्तोपघातमिह पञ्चविधं वदन्ति ३
- हृच्छूलपीडनयुतं विरसाननत्वं वातात्मके भवति लिङ्गमरोचके तु
- हृद्दाहचोषबहुता मुखतिक्तता च मूर्च्छा सतृड् भवति पित्तकृते तथैव ४
- कण्डूगुरुत्वकफसंस्रवसादतन्द्रा ः! श्लेष्मात्मके मधुरमास्यमरोचके तु
- सर्वात्मके पवनपित्तकफा बहूनि रूपाण्यथास्य हृदये समुदीरयन्ति ५
- संरागशोकभयविप्लुतचेतसस्तु चिन्ताकृतो भवति सोऽशुचिदर्शनाच्च
- वाते वचाम्बुवमनं कृतवान् पिबेच्च स्नेहैः सुराभिरथवोष्णजलेन चूर्णम् ६
- कृष्णाविडङ्गयवभस्महरेणुभार्गीरास्नैलहिङ्गुलवणोत्तमनागराणाम्
- पित्ते गुडाम्बुमधुरैर्वमनं प्रशस्तं स्नेहः ससैन्धवसितामधुसर्पिरिष्टः ७
- निम्बाम्बुवामितवतः कफजेऽनुपानं राजद्रुमाम्बु मधुना तु सदीप्यकं स्यात्
- चूर्णं यदुक्तमथवाऽनिलजे तदेव सर्वैश्च सर्वकृतमेवमुपक्रमेत ८
- द्रा क्षापटोलविडवेत्रकरीरनिम्बमूर्वाभयाक्षबदरामलकेन्द्र वृक्षैः
- बीजैः करञ्जनृपवृक्षभवैश्च पिष्टैर्लेहं पचेत् सुरभिमूत्रयुतं यथावत् ९
- मुस्तां वचां त्रिकटुकं रजनीद्वयं च भार्गीं च कुष्ठमथ निर्दहनीं च पिष्ट्वा
- मूत्रेऽविजे द्विरदमूत्रयुते पचेद्वा पाठां तुगामतिविषां रजनीं च मुख्याम् १०
- मण्डूकिमर्कममृतां च सलाङ्गलाख्यां मूत्रे पचेत्तु महिषस्य विधानविद्वा
- एतान्न सन्ति चतुरो लिहतस्तु लेहान् गुल्मारुचिश्वसनकण्ठहृदामयाश्च ११
- सात्म्यान् स्वदेशरचितान् विविधांश्च भक्ष्यान्
- पानानि मूलफलषाडवरागयोगान्
- अद्याद्र सांश्च विविधान् विविधैः प्रकारैर्भुञ्जीत चापि लघुरूक्षमनःसुखानि १२
- आस्थापनं विधिवदत्र विरेचनं च कुर्यान्मृदूनि शिरसश्च विरेचनानि
- त्रीण्यूषणानि रजनीत्रिफलायुतानि चूर्णीकृतानि यवशूकविमिश्रितानि १३
- क्षौद्रा युतानि वितरेन्मुखबोधनार्थमन्यानि तिक्तकटुकानि च भेषजानि
- मुस्तादिराजतरुवर्गदशाङ्गसिद्धैः क्वाथैर्जयेन्मधुयुतैर्विविधैश्च लेहैः १४
- मूत्रासवैर्गुडकृतैश्च तथा त्वरिष्टैः क्षारासवैश्च मधुमाधवतुल्यगन्धैः
- स्यादेष एव कफवातहते विधिश्च शान्तिं गते हुतभुजि प्रशमाय तस्य १५
- इच्छाभिघातभयशोकहतेऽन्तरग्नौ भावान् भवाय वितरेत् खलु शक्यरूपान्
- अर्थेषु चाप्यपचितेषु पुनर्भवाय पौराणिकैः श्रुतिशतैरनुमानयेत्तम् १६
- दैन्यं गते मनसि बोधनमत्र शस्तं
- यद्यत् प्रियं तदुपसेव्यमरोचके तु १७
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रेऽरोचकप्रतिषेधो नाम सप्तपञ्चाशत्तमोऽध्यायः ५७
अष्टापञ्चाशत्तमोऽध्यायः
सम्पाद्यताम्- अथातो मूत्राघातप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- वातकुण्डलिकाऽष्ठीला वातबस्तिस्तथैव च
- मूत्रातीतः सजठरो मूत्रोत्सङ्गः क्षयस्तथा ३
- मूत्रग्रन्थिर्मूत्रशुक्रमुष्णवातस्तथैव च
- मुत्रौकसादौ द्वौ चापि रोगा द्वादश कीर्तिताः ४
- रौक्ष्याद्वेगविघाताद्वा वायुरन्तरमाश्रितः
- मूत्रं चरति संगृह्य विगुणः कुण्डलीकृतः ५
- सृजेदल्पाल्पमथवा सरुजस्कं शनैः शनैः
- वातकुण्डलिकां तं तु व्याधिं विद्यात् सुदारुणम् ६
- शकृन्मार्गस्य बस्तेश्च वायुरन्तरमाश्रितः
- अष्ठीलावद्घनं ग्रन्थिं करोत्यचलमुन्नतम् ७
- विण्मूत्रानिलसङ्गश्च तत्राध्मानं च जायते
- वेदना च परा बस्तौ वाताष्ठीलेति तां विदुः ८
- वेगं विधारयेद्यस्तु मूत्रस्याकुशलो नरः
- निरुणद्धि मुखं तस्य बस्तेर्बस्तिगतोऽनिलः ९
- मूत्रसङ्गो भवेत्तेन बस्तिकुक्षिनिपीडितः
- वातबस्तिः स विज्ञेयो व्याधिः कृच्छ्रप्रसाधनः १०
- वेगं सन्धार्य मूत्रस्य यो भूयः स्रष्टुमिच्छति
- तस्य नाभ्येति यदि वा कथञ्चित्संप्रवर्तते ११
- प्रवाहतो मन्दरुजमल्पमल्पं पुनः पुनः
- मूत्रातीतं तु तं विद्यान्मूत्रवेगविघातजम् १२
- मूत्रस्य विहते वेगे तदुदावर्तहेतुना
- अपानः कुपितो वायुरुदरं पूरयेद्भृशम् १३
- नाभेरधस्तादाध्मानं जनयेत्तीव्रवेदनम्
- तं मूत्रजठरं विद्यादधःस्रोतोनिरोधनम् १४
- बस्तौ वाऽप्यथवा नाले मणौ वा यस्य देहिनः
- मूत्रं म्प्रवृत्तं सज्जेत सरक्तं वा प्रवाहतः १५
- स्रवेच्छनैरल्पमल्पं सरुजं वाऽथ नीरुजम्
- विगुणानिलजो व्याधिः स मूत्रोत्सङ्गसंज्ञितः १६
- रूक्षस्य क्लान्तदेहस्य बस्तिस्थौ पित्तमारुतौ
- सदाहवेदनं कृच्छ्रं कुर्यातां मूत्रसंक्षयम् १७
- अभ्यन्तरे बस्तिमुखे वृत्तोऽल्पः स्थिर एव च
- वेदनावानति सदा मूत्रमार्गनिरोधनः १८
- जायते सहसा यस्य ग्रन्थिरश्मरिलक्षणः
- स मुत्रग्रन्थिरित्येवमुच्यते वेदनादिभिः १९
- प्रत्युपस्थितमूत्रस्तु मैथुनं योऽभिनन्दति
- तस्य मूत्रयुतं रेतः सहसा संप्रवर्तते २०
- पुरस्ताद्वाऽपि मूत्रस्य पश्चाद्वाऽपि कदाचन
- भस्मोदकप्रतीकाशं मूत्रशुक्रं तदुच्यते २१
- व्यायामाध्वातपैः पित्तं बस्तिं प्राप्यानिलावृतम्
- बस्तिं मेढ्रं गुदं चैव प्रदहन् स्रावयेदधः २२
- मूत्रं हारिद्र मथवा सरक्तं रक्तमेव वा
- कृच्छ्रात् प्रवर्तते जन्तोरुष्णवातं वदन्ति तम् २३
- विशदं पीतकं मूत्रं सदाहं बहलं तथा
- शुष्कं भवति यच्चापि रोचनाचूर्णसन्निभम् २४
- मूत्रौकसादं तं विद्याद्रो गं पित्तकृतं बुधः
- पिच्छिलं संहतं श्वेतं तथा कृच्छ्रप्रवर्तनम् २५
- शुष्कं भवति यच्चापि शङ्खचूर्णप्रपाण्डुरम्
- मूत्रौकसादं तं विद्यादामयं द्वादशं कफात् २६
- कषायकल्कसर्पींषि भक्ष्यान् लेहान् पयांसि च
- क्षारमद्यासवस्वेदान् बस्तींश्चोत्तरसंज्ञितान् २७
- विदध्यान्मतिमांस्तत्र विधिं चाश्मरिनाशनम्
- मूत्रोदावर्तयोगांश्च कार्त्स्न्येनात्र प्रयोजयेत् २८
- कल्कमेर्वारुबीजानामक्षमात्रं ससैन्धवम्
- धान्याम्लयुक्तं पीत्वैव मूत्रकृच्छ्रात् प्रमुच्यते २९
- सुरां सौवर्चलवतीं मूत्रकृच्छ्री पिबेन्नरः
- मधु मांसोपदंशं वा पिबेद्वाऽप्यथ गौडिकम् ३०
- पिबेत् कुङ्कुमकर्षं वा मधूदकसमायुतम्
- रात्रिपर्युषितं प्रातस्तथा सुखमवाप्नुयात् ३१
- दाडिमाम्लां युतां मुख्यामेलाजीरकनागरैः
- पीत्वा सुरां सलवणां मूत्रकृच्छ्रात् प्रमुच्यते ३२
- पृथक्पर्ण्यादिवर्गस्य मूलं गोक्षुरकस्य च
- अर्धप्रस्थेन तोयस्य पचेत् क्षीरचतुर्गुणम् ३३
- क्षीरावशिष्टं तच्छीतं सिताक्षौद्र युतं पिबेत्
- नरो मारुतपित्तोत्थमूत्राघातनिवारणम् ३४
- निष्पीड्य वाससा सम्यग्वर्चो रासभवाजिनोः
- रसस्य कुडवं तस्य पिबेन्मूत्ररुजापहम् ३५
- मुस्ताभयादेवदारुमूर्वाणां मधुकस्य च
- पिबेदक्षसमं कल्कं मूत्रदोषनिवारणम् ३६
- अभयामलकाक्षाणां कल्कं बदरसंमितम्
- अम्भसाऽलवणोपेतं पिबेन्मूत्ररुजापहम् ३७
- उदुम्बरसमं कल्कं द्रा क्षाया जलसंयुतम्
- पिबेत् पर्युषितं रात्रौ शीतं मूत्ररुजापहम् ३८
- निदिग्धिकायाः स्वरसं पिबेत् कुडवसंमितम्
- मूत्रदोषहरं कल्यमथवा क्षौद्र संयुतम् ३९
- प्रपीड्यामलकानां तु रसं कुडवसंमितम्
- पीत्वाऽगदी भवेज्जन्तुर्मूत्रदोषरुजातुरः ४०
- धात्रीफलरसेनैवं सूक्ष्मैलां वा पिबेन्नरः
- पिष्ट्वऽथवा सुशीतेन शालितण्डुलवारिणा ४१
- तालस्य तरुणं मूलं त्रपुसस्य रसं तथा
- श्वेतं कर्कटकं चैव प्रातस्तु पयसा पिबेत् ४२
- शृतं वा मधुरैः क्षीरं सर्पिर्मिश्रं पिबेन्नरः
- मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४३
- बलाश्वदंष्ट्राक्रौञ्चास्थिकोकिलाक्षकतण्डुलान्
- शतपर्वकमूलं च देवदारु सचित्रकम् ४४
- अक्षबीजं च सुरया कल्कीकृत्य पिबेन्नरः
- मूत्रदोषविशुद्ध्यर्थं तथैवाश्मरिनाशनम् ४५
- पाटलाक्षारमाहृत्य सप्तकृत्वः परिस्रुतम्
- पिबेन्मूत्रविकारघ्नं संसृष्टं तैलमात्रया ४६
- नलाश्मभेददर्भेक्षुत्रपुसैर्वारुबीजकान्
- क्षीरे परिशृतान् तत्र पिबेत् सर्पिःसमायुतान् ४७
- पाटल्या यावशूकाच्च पारिभद्रा त्तिलादपि
- क्षारोदकेन मतिमान् त्वगेलोषणचूर्णकम् ४८
- पिबेद्गुडेन मिश्रं वा लिह्याल्लेखान् पृथक् पृथक्
- अत ऊर्ध्वं प्रवक्ष्यामि मूत्रदोषे क्रमं हितम् ४९
- स्नेहस्वेदोपपन्नानां हितं तेषु विरेचनम्
- ततः संशुद्धदेहानां हिताश्चोत्तरबस्तयः ५०
- स्त्रीणामतिप्रसङ्गेन शोणितं यस्य दृश्यते
- मैथुनोपरमस्तस्य बृंहणश्च विधिः स्मृतः ५१
- ताम्रचूडवसा तैलं हितं चोत्तरबस्तिषु
- विधानं तस्य पूर्वं हि व्यासतः परिकीर्तितम् ५२
- क्षौद्रा र्धपात्रं दत्त्वा च पात्रं तु क्षीरसर्पिषः
- शर्करायाश्च चूर्णं च द्रा क्षाचूर्णं च तत्समम् ५३
- स्वयङ्गुप्ताफलं चैव तथैवेक्षुरकस्य च
- पिप्पलीचूर्णसंयुक्तमर्धभागं प्रकल्पयेत् ५४
- तदैकध्यं समानीय खजेनाभिप्रमन्थयेत्
- ततः पाणितलं चूर्णं लीढ्वा क्षीरं ततः पिबेत् ५५
- एतत् सर्पिः प्रयुञ्जानः शुद्धदेहो नरः सदा
- मूत्रदोषाञ्जयेत् सर्वानन्ययोगैः सुदुर्जयान् ५६
- जयेच्छोणितदोषांश्च वन्ध्या गर्भं लभेत च
- नारी चैतत् प्रयुञ्जाना योनिदोषात् प्रमुच्यते ५७
- बला कोलास्थि मधुकं श्वदंष्ट्राऽथ शतावरी
- मृणालं च कशेरुश्च बीजानीक्षुरकस्य च ५८
- सहस्रवीर्यांऽशुमती पयस्या सह कालया
- शृगालविन्नाऽतिबला बृंहणीयो गणस्तथा ५९
- एतानि समभागानि मतिमान् सह साधयेत्
- चतुर्गुणेन पयसा गुडस्य तुलया सह ६०
- द्रो णावशिष्टं तत् पूतं पचेत्तेन घृताढकम्
- तत् सिद्धं कलशे स्थाप्यं क्षौद्र प्रस्थेन संयुतम् ६१
- सर्पिरेतत् प्रयुञ्जानो मूत्रदोषात् प्रमुच्यते
- तुगाक्षीर्याश्च चूर्णानि शर्करायास्तथैव च ६२
- क्षौद्रे ण तुल्यान्यालोड्य प्रशस्तेऽहनि लेहयेत्
- तस्य खादेद्यथाशक्ति मात्रां क्षीरं ततः पिबेत् ६३
- शुक्रदोषाञ्जयेन्मर्त्यः प्राश्य सम्यक् सुयन्त्रितः
- व्यवायक्षीणरेतास्तु सद्यः संलभते सुखम् ६४
- ओजस्वी बलवान्मर्त्यः पिबन्नेव च हृष्यति
- चित्रकः सारिवा चैव बला कालानुसारिवा ६५
- द्रा क्षा विशाला पिप्पल्यस्तथा चित्रफला भवेत्
- तथैव मधुकं पथ्यां दद्यादामलकानि च ६६
- घृताढकं पचेदेभिः कल्कैः कर्षसमन्वितैः
- क्षीरद्रो णे जलद्रो णे तत्सिद्धमवतारयेत् ६७
- शीतं परिस्रुतं चैव शर्कराप्रस्थसंयुतम्
- तुगाक्षीर्याश्च तत् सर्वं मतिमान् परिमिश्रयेत् ६८
- ततो मितं पिबेत्काले यथादोषं यथाबलम्
- वातरेताः श्लेष्मरेताः पित्तरेतास्तु यो भवेत् ६९
- रक्तरेता ग्रन्थिरेताः पिबेदिच्छन्नरोगताम्
- जीवनीयं च वृष्यं च सर्पिरेतद्बलावहम् ७०
- प्रज्ञाहितं च धन्यं च सर्वरोगापहं शिवम्
- सर्पिरेतत् प्रयुञ्जाना स्त्री गर्भं लभतेऽचिरात् ७१
- असृग्दोषाञ्जयेच्चापि योनिदोषांश्च संहतान्
- मूत्रदोषेषु सर्वेषु कुर्यादेतच्चिकित्सितम् ७२
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्राघातप्रतिषेधो नाम अष्टपञ्चाशत्तमोऽध्यायः ५८
ऊनषष्टितमोऽध्यायः
सम्पाद्यताम्- अथातो मूत्रकृच्छ्रप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- वातेन पित्तेन कफेन सर्वैस्तथाऽभिघातैः शकृदश्मरीभ्याम्
- तथाऽपरः शर्करया सुकष्टो मूत्रोपघातः कथितोऽष्टमस्तु ३
- अल्पमल्पं समुत्पीड्य मुष्कमेहनबस्तिभिः
- फलद्भिरिव कृच्छ्रेण वाताघातेन मेहति ४
- हारिद्र मुष्णं रक्तं वा मुष्कमेहनबस्तिभिः
- अग्निना दह्यमानाभैः पित्ताघातेन मेहति ५
- स्निग्धं शुक्लमनुष्णं च मुष्कमेहनबस्तिभिः
- संहृष्टरोमा गुरुभिः श्लेष्माघातेन मेहति ६
- दाहशीतरुजाविष्टो नानावर्णं मुहुर्मुहुः
- ताम्यमानस्तु कृच्छ्रेण सन्निपातेन मेहति ७
- मूत्रवाहिषु शल्येन क्षतेष्वभिहतेषु च
- स्रोतःसु मूत्राघातस्तु जायते भृशवेदनः ८
- वातबस्तेस्तु तुल्यानि तस्य लिङ्गानि लक्षयेत्
- शकृतस्तु प्रतीधाताद्वायुर्विगुणतां गतः ९
- आध्मानं च सशूलं च मूत्रसङ्गं करोति हि
- अश्मरीहेतुकः पूर्वं मूत्राघात उदाहृतः १०
- अश्मरी शर्करा चैव तुल्ये संभवलक्षणैः
- शर्कराया विशेषं तु शृणु कीर्तयतो मम ११
- पच्यमानस्य पित्तेन भिद्यमानस्य वायुना
- श्लेष्मणोऽवयवा भिन्नाः शर्करा इति संज्ञिताः १२
- हृत्पीडा वेपथुः शूलं कुक्षौ वह्निः सुदुर्बलः
- ताभिर्भवति मूर्च्छा च मूत्राघातश्च दारुणः १३
- मूत्रवेगनिरस्तासु तासु शाम्यति वेदना
- यावदन्या पुनर्नैति गुडिका स्रोतसो मुखम् १४
- शर्करासंभवस्यैतन्मूत्राघातस्य लक्षणम्
- चिकित्सितमथैतेषामष्टानामपि वक्ष्यते १५
- अश्मरीं च समाश्रित्य यदुक्तं प्रसमीक्ष्य तत्
- यथादोषं प्रयुञ्जीत स्नेहादिमपि च क्रमम् १६
- श्वदंष्ट्राश्मभिदौ कुम्भीं हपुषां कण्टकारिकाम्
- बलां शतावरीं रास्नां वरुणं गिरिकर्णिकाम् १७
- तथा विदारिगन्धादिं संहृत्य त्रैवृतं पचेत्
- तैलं घृतं वा तत् पेयं तेन वाऽप्यनुवासनम् १८
- दद्यादुत्तरबस्तिं च वातकृच्छ्रोपशान्तये
- श्वदंष्ट्रास्वरसे तैलं सगुडक्षीरनागरम् १९
- पक्त्वा तत् पूर्ववद्योज्यं तत्रानिलरुजापहम्
- तृणोत्पलादिकाकोलीन्यग्रोधादिगणैः कृतम् २०
- पीतं घृतं पित्तकृच्छ्रं नाशयेत् क्षीरमेव वा
- दद्यादुत्तरबस्तिं च पित्तकृच्छ्रोपशान्तये २१
- एभिरेव कृतः स्नेहस्त्रिविधेष्वपि बस्तिषु
- हितं विरेचनं चेक्षुक्षीरद्रा क्षारसैर्युतम् २२
- सुरसोषकमुस्तादौ वरुणादौ च यत् कृतम्
- तैलं तथा यवाग्वादि कफाघाते प्रशस्यते २३
- यथादोषोच्छ्रयं कुर्यादेतानेव च सर्वजे
- फल्गुवृश्चीरदर्भाश्मसारचूर्णं च वारिणा २४
- सुरेक्षुरसदर्भाम्बुपीतं कृच्छ्ररुजापहम्
- तथाऽभिघातजे कुर्यात् सद्योव्रणचिकित्सितम् २५
- मूत्रकृच्छ्रे शकृज्जाते कार्या वातहरी क्रिया
- स्वेदावगाहावभ्यङ्गबस्तिचूर्णक्रियास्तथा २६
- ये त्वन्ये तु तथा कृच्छ्रे तयोः प्रोक्तः क्रियाविधिः २७
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायचिकित्सातन्त्रे मूत्रकृच्छ्रप्रतिषेधो नाम एकोनषष्टितमोऽध्यायः ५९
षष्टितमोऽध्यायः
सम्पाद्यताम्- अथातोऽमानुषोपसर्गप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- निशाचरेभ्यो रक्ष्यस्तु नित्यमेव क्षतातुरः
- इति यत् प्रागभिहितं विस्तरस्तस्य वक्ष्यते ३
- गुह्यानागतविज्ञानमनवस्थाऽसहिष्णुता
- क्रिया वाऽमानुषी यस्मिन् सग्रहः परिकीर्त्यते ४
- अशुचिं भिन्नमर्यादं क्षतं वा यदि वाऽक्षतम्
- हिंस्युर्हिंसाविहारार्थं सत्कारार्थमथापि वा ५
- असङ्ख्येया ग्रहगणा ग्रहाधिपतयस्तु ये
- व्यज्यन्ते विविधाकारा भिद्यन्ते ते तथाऽष्टधा ६
- देवास्तथा शत्रुगणाश्च तेषां गन्धर्वयक्षाः पितरो भुजङ्गाः
- रक्षांसि या चापि पिशाचजातिरेषोऽष्टको देवगणो ग्रहाख्यः ७
- संतुष्टः शुचिरपि चेष्टगन्धमाल्यो निस्तन्द्री ह्यवितथसंस्कृतप्रभाषी
- तेजस्वी स्थिरनयनो वरप्रदाता ब्रह्मण्यो भवति नरः स देवजुष्टः ८
- संस्वेदी द्विजगुरुदेवदोषवक्ता जिह्माक्षो विगतभयो विमार्गदृष्टिः
- सन्तुष्टो भवति न चान्नपानजातैर्दुष्टात्मा भवति च देवशत्रुजुष्टः ९
- हृष्टात्मा पुलिनवनान्तरोपसेवी स्वाचारः प्रियपरिगीतगन्धमाल्यः
- नृत्यन् वै प्रहसति चारु चाल्पशब्दं गन्धर्वग्रहपरिपीडितो मनुष्यः १०
- ताम्राक्षः प्रियतनुरक्तवस्त्रधारी तम्भीरो द्रुतमतिरल्पवाक् सहिष्णुः
- तेजस्वी वदति च किं ददामि कस्मै यो यक्षग्रहपरिपीडितो मनुष्यः ११
- प्रेतेभ्यो विसृजति संस्तरेषु पिण्डान् शान्तात्मा जलमपि चापसव्यवस्त्रः
- मांसेप्सुस्तिलगुडपायसाभिकामस्तद्भुक्तो भवति पितृग्रहाभिभूतः १२
- भूमौ यः प्रसरति सर्पवत् कदाचित् सृक्किण्यौ विलिखति जिह्वया तथैव
- निद्रा लुर्गुडमधुदुग्धपायसेप्सुर्विज्ञेयो भवति भुजङ्गमेन जुष्टः १३
- मांसासृग्विविधसुराविकारलिप्सुर्निर्लज्जो भृशमतिनिष्ठुरोऽतिशूरः
- क्रोधालुर्विपुलबलो निशाविहारी शौचद्विड् भवति च रक्षसा गृहीतः १४
- उद्धस्तः कृशपरुषश्चिरप्रलापी दुर्गन्धो भृशमशुचिस्तथाऽतिलोलः
- बह्वाशी विजनहिमाम्बुरात्रिसेवी व्याविग्नो भ्रमति रुदन् पिशाचजुष्टः १५
- स्थूलाक्षस्त्वरितगतिः स्वफेनलेही निद्रा लुः पतति च कम्पते च योऽति
- यश्चाद्रि द्विरदनगादिविच्युतः सन् संसृष्टो न भवति वार्धकेन जुष्टः १६
- देवग्रहाः पौर्णमास्यामसुराः सन्ध्ययोरपि
- गन्धर्वाः प्रायशोऽष्टम्यां यक्षाश्च प्रतिपद्यथ १७
- कृष्णक्षये च पितरः पञ्चम्यामपि चोरगाः
- रक्षांसि निशि पैशाचाश्चतुर्दश्यां विशन्ति च १८
- दर्पणादीन् यथा छाया शितोष्णं प्राणिनो यथा
- स्वमणिं भास्करस्योस्रा यथा देहं च देहधृक्
- विशन्ति च न दृश्यन्ते ग्रहास्तद्वच्छरीरिणम् १९
- तपांसि तीव्राणि तथैव दानं व्रतानि धर्मो नियमाश्च सत्यम्
- गुणास्तथाऽष्टावपि तेषु नित्या व्यस्ताः समस्ताश्च यथाप्रभावम् २०
- न ते मनुष्यैः सह संविशन्ति न वा मनुष्यान् क्वचिदाविशन्ति
- ये त्वाविशन्तीति वदन्ति मोहात्ते भूतविद्याविषयादपोह्याः २१
- तेषां ग्रहाणां परिचारका ये कोटीसहस्रायुतपद्मसंख्याः
- असृग्वसामांसभुजः सुभीमा निशाविहाराश्च तमाविशन्ति २२
- निशाचराणां तेषां हि ये देवगणमाश्रिताः
- ते तु तत्सत्त्वसंसर्गाद्विज्ञेयास्तु तदञ्जनाः २३
- देवग्रहा इति पुनः प्रोच्यन्तेऽशुचयश्च ये
- देववच्च नमस्यन्ते प्रत्यर्थ्यन्ते च देववत् २४
- स्वामिशीलक्रियाचाराः क्रम एष सुरादिषु
- निरृतेर्या दुहितरस्तासां स प्रसवः स्मृतः २५
- सत्यत्वादपवृत्तेषु वृत्तिस्तेषां गणैः कृता
- हिंसाविहारा ये केचिद्देवभावमुपाश्रिताः २६
- भूतानीति कृता संज्ञा तेषां संज्ञाप्रवक्तृभिः
- ग्रहसंज्ञानि भूतानि यस्माद्वेत्त्यनया भिषक् २७
- विद्यया भूतविद्यात्वमत एव निरुच्यते
- तेषां शान्त्यर्थमन्विच्छन् वैद्यस्तु सुसमाहितः २८
- जपैः सनियमैर्होमैरारभेत चिकित्सितुम्
- रक्तानि गन्धमाल्यानि बीजानि मधुसर्पिषी २९
- भक्ष्याश्च सर्वे सर्वेषां सामान्यो विधिरुच्यते
- वस्त्राणि गन्धमाल्यानि मांसानि रुधिराणि च ३०
- यानि येषां यथेष्टानि तानि तेभ्यः प्रदापयेत्
- हिंसन्ति मनुजान् येषु प्रायशो दिवसेषु तु ३१
- दिनेषु तेषु देयानि तद्भूतविनिवृत्तये
- देवग्रहे देवगृहे हुत्वाऽग्निं प्रापयेद्बलिम् ३२
- कुशस्वस्तिकपूपाज्यच्छत्रपायससंभृतम्
- असुराय यथाकालं विदध्याच्चत्वरादिषु ३३
- गन्धर्वस्य गवां मध्ये मद्यमांसाम्बुजाङ्गलम्
- हृद्ये वेश्मनि यक्षस्य कुल्माषासृक्सुरादिभिः ३४
- अतिमुक्तककुन्दाब्जैः पुष्पैश्च वितरेद्बलिम्
- नद्यां पितृग्रहायेष्टं कुशास्तरणभूषितम् ३५
- तत्रैवोपहरेच्चापि नागाय विविधं बलिम्
- चतुष्पथे राक्षसस्य भीमेषु गहनेषु वा ३६
- शून्यागारे पिशाचस्य तीव्रं बलिमुपाहरेत्
- पूर्वमाचरितैर्मन्त्रैर्भूतविद्यानिदर्शितैः ३७
- न शक्या बलिभिर्जेतुं योगैस्तान् समुपाचरेत्
- अजर्क्षचर्मरोमाणि शल्यकोलूकयोस्तथा ३८
- हिङ्गु मूत्रं च बस्तस्य धूममस्य प्रयोजयेत्
- एतेन शाम्यति क्षिप्रं बलवानपि यो ग्रहः ३९
- गजाह्वपिप्पलीमूलव्योषामलकसर्षपान्
- गोधानकुलमार्जारऋष्यपित्तप्रपेषितान् ४०
- नस्याभ्यञ्जनसेकेषु विदध्याद्योगतत्त्ववित्
- खराश्वाश्वतरोलूककरभश्वशृगालजम् ४१
- पुरीषं गृध्रकाकानां वराहस्य च पेषयेत्
- बस्तमूत्रेण तत्सिद्धं तैलं स्यात् पूर्ववद्धितम् ४२
- शिरीषबीजं लशुनं शुण्ठीं सिद्धार्थकं वचाम्
- मञ्जिष्ठां रजनीं कृष्णां बस्तमूत्रेण पेषयेत् ४३
- वर्त्यश्छायाविशुष्कास्ताः सपित्ता नयनाञ्जनम्
- नक्तमालफलं व्योषं मूलं श्योनाकबिल्वयोः ४४
- हरिद्रे च कृता वर्त्यः पूर्ववन्नयनाञ्जनम्
- सैन्धवं कटुकां हिङ्गुं वयःस्थां च वचामपि
- बस्तमूत्रेण संपिष्टं मत्स्यपित्तेन पूर्ववत् ४५
- ये ये ग्रहा न सिध्यन्ति सर्वेषां नयनाञ्जनम्
- पुराणसर्पिर्लशुनं हिङ्गु सिद्धार्थकं वचा ४६
- गोलोमी चाजलोमी च भूतकेशी जटा तथा
- कुक्कुटा सर्पगन्धा च तथा काणविकाणिके ४७
- वज्रप्रोक्ता वयःस्था च शृङ्गी मोहनवल्लिका
- अर्कमूलं त्रिकटुकं लता स्रोतोजमञ्जनम् ४८
- नैपाली हरितालं च रक्षोघ्ना ये च कीर्तिताः
- सिंहव्याघ्रर्क्षमार्जारद्वीपिवाजिनवां तथा ४९
- श्वाविच्छल्यकगोधानामुष्ट्रस्य नकुलस्य च
- विट्त्वग्रोमवसामूत्ररक्तपित्तनखादयः ५०
- अस्मिन् वर्गे भिषक् कुर्यात्तैलानि च घृतानि च
- पानाभ्यञ्जननस्येषु तानि योज्यानि जानता ५१
- अवपीडेऽञ्जने चैव विदध्याद्गुटिकीकृतम्
- विदधीत परीषेके क्वथितं चूर्णितं तथा ५२
- उद्धूलने श्लक्ष्णपिष्टं प्रदेहे चावचारयेत्
- एष सर्वविकारांस्तु मानासानपराजितः ५३
- हन्यादल्पेन कालेन स्नेहादिरपि च क्रमः
- न चाचौक्षं प्रयुञ्जीत प्रयोगं देवताग्रहे ५४
- ऋते पिशाचादन्यत्र प्रतिकूलं न चाचरेत्
- वैद्यातुरौ निहन्युस्ते ध्रुवं क्रुद्धा महौजसः ५५
- हिताहितीये यच्चोक्तं नित्यमेव समाचरेत्
- ततः प्राप्स्यति सिद्धिं च यशश्च विपुलं भिषक् ५६
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽमानुषोपसर्गप्रतिषेधो नाम षष्टितमोऽध्यायः ६०
एकषष्टितमोऽध्यायः
सम्पाद्यताम्- अथातोऽपस्मारप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- स्मृतिर्भूतार्थविज्ञानमपश्च परिवर्जने
- अपस्मार इति प्रोक्तस्ततोऽयं व्याधिरन्तकृत् ३
- मिथ्यातियोगेन्द्रि यार्थकर्मणामभिसेवनात्
- विरुद्धमलिनाहारविहारकुपितैर्मलैः ४
- वेगनिग्रहशीलानामहिताशुचिभोजिनाम्
- रजस्तमोभिभूतानां गच्छतां च रजस्वलाम् ५
- तथा कामभयोद्वेगक्रोधशोकादिभिर्भृशम्
- चेतस्यभिहते पुंसामपस्मारोऽभिजायते ६
- हृत्कम्पः शून्यता स्वेदो ध्यानं मूर्च्छा प्रमूढता
- निद्रा नाशश्च तस्मिंस्तु भविष्यति भवन्त्यथ ७
- संज्ञावहेषु स्रोतःसु दोषव्याप्तेषु मानवः
- रजस्तमःपरीतेषु मूढो भ्रान्तेन चेतसा ८
- विक्षिपन् हस्तपादं च विजिह्मभ्रूर्विलोचनः
- दन्तान् खादन् वमन् फेनं विवृताक्षः पतेत् क्षितौ ९
- अल्पकालान्तरम् चापि पुनः संज्ञां लभेत सः
- सोऽपस्मार इति प्रोक्तः स च दृष्टश्चतुर्विधः १०
- वातपित्तकफैर्नॄणां चतुर्थः सन्निपाततः
- वेपमानो दशन् दन्तान् श्वसन् फेनं वमन्नपि ११
- यो ब्रूयाद्विकृतं सत्त्वं कृष्णं मामनुधावति
- ततो मे चित्तनाशः स्यात् सोऽपस्मारोऽनिलात्मकः १२
- तृट्तापस्वेदमूर्च्छार्तो धुन्वन्नङ्गानि विह्वलः
- यो ब्रूयाद्विकृतं सत्त्वं पीतं मामनुधावति १३
- ततो मे चित्तनाशः स्यात् स पित्तभव उच्यते
- शीतहृल्लासनिद्रा र्तः पतन् भूमौ वमन् कफम् १४
- यो ब्रूयाद्विकृतं सत्त्वं शुक्लं मामनुधावति
- ततो मे चित्तनाशः स्यात् सोऽपस्मारः कफात्मकः १५
- हृदि तोदस्तृडुत्क्लेदस्त्रिष्वप्येतेषु संख्यया
- प्रलापः कूजनं क्लेशः प्रत्येकं तु भवेदिह १६
- सर्वलिङ्गसमवायः सर्वदोषप्रकोपजे
- अनिमित्तागमाद्व्याधेर्गमनादकृतेऽपि च १७
- आगमाच्चाप्यपस्मारं वदन्त्यन्ये न दोषजम्
- क्रमोपयोगाद्दोषाणां क्षणिकत्वात्तथैव च १८
- आगमाद्वैश्वरूप्याच्च स तु निर्वर्ण्यते बुधैः
- देवे वर्षत्यपि यथा भूमौ बीजानि कानिचित् १९
- शरदि प्रतिरोहन्ति तथा व्याधिसमुद्भवः
- स्थायिनः केचिदल्पेन कालेनाभिप्रवर्धिताः २०
- दर्श्यन्ति विकारांस्तु विश्वरूपान्निसर्गतः
- अपस्मारो महाव्याधिस्तस्माद्दोषज एव तु २१
- तस्य कार्यो विधिः सर्वो य उन्मादेषु वक्ष्यते
- पुराणसर्पिषः पानमभ्यङ्गश्चैव पूजितः २२
- उपयोगो ग्रहोक्तानां योगानां तु विशेषतः
- ततः सिध्यन्ति ते सर्वे योगैरन्यैश्च साधयेत्
- शिग्रुकट्वङ्गकिण्वाहिनिम्बत्वग्रससाधितम् २३
- चतुर्गुणे गवां मूत्रे तैलमभ्यञ्जने हितम्
- गोधानकुलनागानां पृषतर्क्षगवामपि २४
- पित्तेषु सिद्धं तैलं च पानाभ्यङ्गेषु पूजितम्
- तीक्ष्णैरुभयतोभागैः शिरश्चापि विशोधयेत् २५
- पूजां रुद्र स्य कुर्वीत तद्गणानां च नित्यशः
- वातिकं बस्तिभिश्चापि पैत्तिकं तु विरेचनैः २६
- कफजं वमनैर्धीमानपस्मारमुपाचरेत्
- कुलत्थयवकोलानि शणबीजं पलङ्कषाम् २७
- जटिलां पञ्चमूल्यौ द्वे पथ्यां चोत्क्वाथ्य यत्नतः
- बस्तमूत्रयुतं सर्पिः पचेत्तद्वातिके हितम् २८
- काकोल्यादिप्रतीवापं सिद्धं च प्रथमे गणे
- पयोमधुसितायुक्तं घृतं तत् पैत्तिके हितम् २९
- कृष्णावचामुस्तकाद्यैर्युक्तमारग्वधादिके
- पक्वं च मूत्रवर्गे तु श्लेष्मापस्मारिणे हितम् ३०
- सुरद्रुमवचाकुष्ठसिद्धार्थव्योषहिङ्गुभिः
- मञ्जिष्ठारजनीयुग्मसमङ्गात्रिफलाम्बुदैः ३१
- करञ्जबीजशैरीषगिरिकर्णीहुताशनैः
- सिद्धं सिद्धार्थकं नाम सर्पिर्मूत्रचतुर्गुणम् ३२
- कृमिकुष्ठगरश्वासबलासविषमज्वरान्
- सर्वभूतग्रहोन्मादानपस्मारांश्च नाशयेत् ३३
- दशमूलेन्द्र वृक्षत्वङ्मूर्वाभार्गीफलत्रिकैः
- शम्पाकश्रेयसीसप्तपर्णापामार्गफल्गुभिः ३४
- शृतैः कल्कैश्च भूनिम्बपूतीकव्योषचित्रकैः
- त्रिवृत्पाठानिशायुग्मसारिवाद्वयपौष्करैः ३५
- कटुकायासदन्त्युग्रानीलिनीक्रिमिशत्रुभिः
- सर्पिरेभिश्च गोक्षीरदधिमूत्रशकृद्र सैः ३६
- साधितं पञ्चगव्याख्यं सर्वापस्मारभूतनुत्
- चातुर्थकक्षयश्वासानुन्मादांश्च नियच्छति ३७
- भार्गीशृते पचेत् क्षीरे शालितण्डुलपायसम्
- त्र्! यहं शुद्धाय तं भोक्तुं वराहायोपकल्पयेत् ३८
- ज्ञात्वा च मधुरीभूतं तं विशस्यान्नमुद्धरेत्
- त्रीन् भागांस्तस्य चूर्णस्य किण्वभागेन संसृजेत् ३९
- मण्डोदकार्थे देयश्च भार्गीक्वाथः सुशीतलः
- शुद्धे कुम्भे निदध्याच्च संभारं तं सुरां ततः ४०
- जातगन्धां जातरसां पाययेदातुरं भिषक्
- सिरां विध्येदथ प्राप्तां मङ्गल्यानि च धारयेत् ४१
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रेऽपस्मारप्रतिषेधो नाम एकषष्टितमोऽध्यायः ६१
द्विषष्टितमोऽध्यायः
सम्पाद्यताम्- अथात उन्मादप्रतिषेधमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- मदयन्त्युद्धता दोषा यस्मादुन्मार्गमाश्रिताः
- मानसोऽयमतो व्याधिरुन्माद इति कीर्तितः ३
- एकैकशः समस्तैश्च दोषैरत्यर्थमूर्च्छितैः
- मानसेन च दुःखेन स पञ्चविध उच्यते ४
- विषाद्भवति षष्ठश्च यथास्वं तत्र भेषजम्
- स चाप्रवृद्धस्तरुणो मदसंज्ञां बिभर्ति च ५
- मोहोद्वेगौ स्वनः श्रोत्रे गात्राणामपकर्षणम्
- अत्युत्साहोऽरुचिश्चान्ने स्वप्ने कलुषभोजनम् ६
- वायुनोन्मथनं चापि भ्रमश्चक्रगतस्य वा
- यस्य स्यादचिरेणैव उन्मादं सोऽधिगच्छति ७
- रूक्षच्छविः परुषवाग्धमनीततो वा
- शीतातुरः कृशतनुः स्फुरिताङ्गसन्धिः
- आस्फोटयत्यटति गायति नृत्यशीलो
- विक्रोशति भ्रमति चाप्यनिलप्रकोपात् ८
- तृट्स्वेददाहबहुलो बहुभुग्विनिद्र श्छायाहिमानिलजलान्तविहारसेवी
- तीक्ष्णो हिमाम्बुनिचयेऽपि स वह्निशङ्की
- पित्ताद्दिवा नभसि पश्यति तारकाश्च ९
- छर्द्यग्निसादसदनारुचिकासयुक्तो
- योषिद्विविक्तरतिरल्पमतिप्रचारः
- निद्रा परोऽल्पकथनोऽल्पभुगुष्णसेवी
- रात्रौ भृशं भवति चापि कफप्रकोपात् १०
- सर्वात्मके पवनपित्तकफा यथास्वं
- संहर्षिता इव च लिङ्गमुदीरयन्ति ११
- चौरैर्नरेन्द्र पुरुषैररिभिस्तथाऽन्यैर्वित्रासितस्य धनबान्धवसंक्षयाद्वा
- गाढं क्षते मनसि च प्रियया रिरंसोर्जायेत चोत्कटतरो मनसो विकारः १२
- चित्रं स जल्पति मनोनुगतं विसंज्ञो
- गायत्यथो हसति रोदिति मूढसंज्ञः
- रक्तेक्षणो हतबलेन्द्रि यभाः सुदीनः
- श्यावाननो विषकृतेऽथ भवेत् परासुः १३
- स्निग्धं स्विन्नं तु मनुजमुन्मादार्तं विशोधयेत्
- तीक्ष्णैरुभयतोभागैः शिरसश्च विरेचनैः १४
- विविधैरवपीडैश्च सर्षपस्नेहसंयुतैः
- योजयित्वा तु तच्चूर्णं घ्राणे तस्य प्रयोजयेत् १५
- सततं धूपयेच्चैनं श्वगोमांसैः सुपूतिभिः
- सर्षपानां च तैलेन नस्याभ्यङ्गौ हितौ सदा १६
- दर्शयेदद्भुतान्यस्य वदेन्नाशं प्रियस्य वा
- भीमाकारैर्नरैर्नागैर्दान्तैर्व्यालैश्च निर्विषैः १७
- भीषयेत् संयतं पाशैः कशाभिर्वाऽथ ताडयेत्
- यन्त्रयित्वा सुगुप्तं वां त्रासयेत्तं तृणाग्निना १८
- जलेन तर्जयेद्वाऽपि रज्जुघातैर्विभावयेत्
- बलवांश्चापि संरक्षेत् जलेऽन्तः परिवासयेत्
- प्रतुदेदारया चैनं मर्माघातं विवर्जयेत्
- वेश्मनोऽन्तः प्रविश्यैनं रक्षंस्तद्वेश्म दीपयेत् १९
- सापिधाने जरत्कूपे सततं वा निवासयेत्
- त्र्! यहात्त्र्! यहाद्यवागूश्च तर्पणान् वा प्रदापयेत् २०
- केवलानम्बुयुक्तान् वा कुल्माषान् वा बहुश्रुतः
- हृद्यं यद्दीपनीयं च तत्पथ्यम् तस्य भोजयेत् २१
- --ब्राह्मीमैन्द्री ं! विडङ्गानि व्योषं हिङ्गु सुरां जटाम्
- विषघ्नीं लशुनं रास्नां विशल्यां सुरसां वचाम् ३०
- ज्योतिष्मतीं नागरं च अनन्तामभयां तथा
- सौराष्ट्रीं च समांशानि गजमूत्रेण पेषयेत् ३१
- छायाविशुष्कास्तद्वर्तीर्योजयेद्विधिकोविदः
- अवपीडेऽञ्जनेऽभ्यङ्गे नस्ये धूमे प्रलेपने ३२
- उरोपाङ्गललाटेषु सिराश्चास्य विमोक्षयेत्
- अपस्मारक्रियां चापि ग्रहोद्दिष्टां च कारयेत् ३३
- शान्तदोषं विशुद्धं च स्नेहबस्तिभिराचरेत्
- उन्मादेषु च सर्वेषु कुर्याच्चित्तप्रसादनम्
- मृदुपूर्वां मदेऽप्येवं क्रियां मृद्वीं प्रयोजयेत् ३४
- शोकशल्यं व्यपनयेदुन्मादे पञ्चमे भिषक्
- विषजे मृदुपूर्वां च विषघ्नीं कारयेत् क्रियाम् ३५
- इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते भूतविद्यातन्त्रे उन्मादप्रतिषेधो नाम द्विषष्टितमोऽध्यायः ६२
त्रिषष्टितमोऽध्यायः
सम्पाद्यताम्- अथातो रसभेदविकल्पमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- दोषाणां पञ्चदशधा प्रसरोऽभिहितस्तु यः
- त्रिषष्ट्या रसभेदानां तत्प्रयोजनमुच्यते ३
- अविदग्धा विदग्धाश्च भिद्यन्ते ते त्रिषष्टिधा
- रसनेदत्रिषष्टिं तु वीक्ष्य वीक्ष्यावचारयेत् ४
- एकैकेनानुगमनं भागशो यदुदीरितम्
- दोषाणां तत्र मतिमान् त्रिषष्टिं तु प्रयोजयेत् ५
- यथाक्रमप्रवृत्तानां द्विकेषु मधुरो रसः
- पञ्चानुक्रमते योगानम्लश्चतुर एव तु ६
- त्रींश्चानुगच्छति रसो लवणः कटुको द्वयम्
- तिक्तः कषायमन्वेति ते द्विका दश पञ्च च ७
- तद्यथा--मधुराम्लः १ मधुरलवणः २ मधुरकटुकः ३ मधुरतिक्तः ४ मधुरकषायः ५ एते पञ्चानुक्रान्ता मधुरेण अम्ललवणः १ अम्लकटुकः २ अम्लतिक्तः ३ अम्लकषायः ४ एते चत्वारोऽनुक्रान्ता अम्लेन लवणकटुकः १ लवणतिक्तः २ लवणकषायः ३ एते त्रयोऽनुक्रान्ता लवणेन कटुतिक्तः १ कटुकषायः २ द्वावेतावनुक्रान्तौ कटुकेन तिक्तकषायः १ एक
- एवानुक्रान्तस्तिक्तेन एवमेते पञ्चदश द्विकसंयोगा व्याख्याताः ८
- त्रिकान् वक्ष्यामः
- आदौ प्रयुज्यमानस्तु मधुरो दश गच्छति
- षडम्लो लवणस्तस्मादर्धमेकं तथा कटुः ९
- तद्यथा-मधुराम्ललवणः १ मधुराम्लकटुकः २ मधुराम्लतिक्तः ३ मधु-राम्लकषायः ४ मधुरलवणकटुकः ५ मधुरलवणतिक्तः ६ मधुरलवण-कषायः ७ मधुरकटुकतिक्तः ८ मधुरकटुकषायः ९ मधुरतिक्तकषायः १० एवमेषां दशानां त्रिकसंयोगानामादौ मधुरः प्रयुज्यते अम्ललवणकटुकः १ अम्ललवणतिक्तः २ अम्ललवणकषायः ३ अम्लकटुतिक्तः ४ अ-म्लकटुकषायः ५ अम्लतिक्तकषायः ६ एवमेषां षण्णामादावम्लः प्रयु-ज्यते लवणकटुतिक्तः १ लवणकटुकषायः २ लवणतिक्तकषायः ३ एवमेषां त्रयाणामादौ लवणः प्रयुज्यते कटुतिक्तकषायः १ एवमेकस्यादौ कटुकः
- प्रयुज्यते एवमेते त्रिकसंयोगा विंशतिर्व्याख्याताः १०
- चतुष्कान् वक्ष्यामः
- चतुष्करससंयोगान्मधुरो दश गच्छति
- चतुरोऽम्लोऽनुगच्छेच्च लवणस्त्वेकमेव तु ११
- मधुराम्ललवणकटुकः १ मधुराम्ललवणतिक्तः २ मधुराम्ललवणकषायः ३ मधुराम्लकटुकतिक्तः ४ मधुराम्लकटुकषायः ५ मधुराम्लतिक्तकषा-यः ६ मधुरलवणकटुकतिक्तः ७ मधुरलवणकटुकषायः ८ मधुरलव-णतिक्तकषायः ९ मधुरकटुतिक्तकषायः १० एवमेषां दशानामादौ मधुरः प्रयुज्यते अम्ललवणकटुतिक्तः १ अम्ललवणकटुकषायः २ अम्ललव-णतिक्तकषायः ३ अम्लकटुतिक्तकषायः ४ एवमेषां चतुर्णामादावम्लः लवणकटुतिक्तकषायः १ एवमेकस्यादौ लवणः एवमेते चतुष्करससंयोगाः पञ्चदश कीर्तिताः १२
- पञ्चकान् वक्ष्यामः
- पञ्चकान् पञ्च मधुर एकमम्लस्तु गच्छति १३
- मधुराम्ललवणकटुतिक्तः १ मधुराम्ललवणकटुकषायः २ मधुराम्लल-वणतिक्तकषायः ३ मधुराम्लकटुतिक्तकषायः ४ मधुरलवणकटुतिक्तकषायः ५ एवमेषां पञ्चानामादौ मधुरः प्रयुज्यते
- अम्ललवणकटुतिक्तकषायः १ एवमेकस्यादावम्लः एवमेते षट् पञ्चकसंयोगा व्याख्याताः १४
- षट्कमेकं वक्ष्यामः एकस्तु षट्कसंयोगः--मधुराम्ललवणकटुतिक्तकषायः
- एष एक एव षट्संयोगः १५
- एकैकश्च षड्रसा भवन्ति--मधुरः १ अम्लः २ लवणः ३ कटुकः ४
- तिक्तः ५ कषायः ६ इति १६
- भवन्ति चात्र-एषा त्रिषष्टिर्व्याख्याता रसानां रसचिन्तकैः
- दोषभेदत्रिषष्ट्यां तु प्रयोक्तव्या विचक्षणैः १७
- इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु रसभेदविकल्पाध्यायो नाम त्रिषष्टितमोऽध्यायः ६३
चतुःषष्टितमोऽध्यायः
सम्पाद्यताम्- अथातः स्वस्थवृत्तमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- सूत्रस्थाने समुद्दिष्टः स्वस्थो भवति यादृशः
- तस्य यद्र क्षणं तद्धि चिकित्सायाः प्रयोजनम् ३
- तस्य यद्वृत्तमुक्तं हि रक्षणं च मयाऽऽदितः
- तस्मिन्नर्थाः समासोक्ता विस्तरेणेह वक्ष्यते ४
- यस्मिन् यस्मिन्नृतौ ये ये दोषाः कुप्यन्ति देहिनाम्
- तेषु तेषु प्रदातव्याः रसास्ते ते विजानता ५
- प्रक्लिन्नत्वाच्छरीराणां वर्षासु भिषजा खलु
- मन्देऽग्नौ कोपमायान्ति सर्वेषां मारुतादयः ६
- तस्मात् क्लेदविशुद्ध्यर्थं दोषसंहरणाय च
- कषायतिक्तकटुकै रसैर्युक्तमपद्र वम् ७
- नातिस्निग्धं नातिरूक्षमुष्णं दीपनमेव च
- देयमन्नं नृपतये यज्जलं चोक्तमादितः ८
- तप्तावरतमम्भो वा पिबेन्मधुसमायुतम्
- अह्नि मेघानिलाविष्टेऽत्यर्थशीताम्बुसङ्कुले ९
- तरुणत्वाद्विदाहं च गच्छन्त्योषधयस्तदा
- मतिमांस्तन्निमित्तं च नातिव्यायाममाचरेत् १०
- अत्यम्बुपानावश्यायग्राम्यधर्मातपांस्त्यजेत्
- भूबाष्पपरिहारार्थं शयीत च विहायसि ११
- शीते साग्नौ निवाते च गुरुप्रावरणे गृहे
- यायान्नागवधूभिश्च प्रशस्तागुरुभूषितः १२
- दिवास्वप्नमजीर्णं च वर्जयेत्तत्र यत्नतः
- सेव्याः शरदि यत्नेन कषायस्वादुतिक्तकाः १३
- क्षीरेक्षुविकृतिक्षौद्र शालिमुद्गादिजाङ्गलाः
- श्वेतस्रजश्चन्द्र पादाः प्रदोषे लघु चाम्बरम् १४
- सलिलं च प्रसन्नत्वात् सर्वमेव तदा हितम्
- सरःस्वाप्लवनं चैव कमलोत्पलशालिषु १५
- प्रदोषे शशिनः पादाश्चन्दनं चानुलेपनम्
- तिक्तस्य सर्पिषः पानैरसृक्स्रावैश्च युक्तितः १६
- वर्षासूपचितं पित्तं हरेच्चापि विरेचनैः
- नोपेयात्तीक्ष्णमम्लोष्णं क्षारं स्वप्नं दिवाऽतपम् १७
- रात्रौ जागरणं चैव मैथुनं चापि वर्जयेत्
- हेमन्ते लवणक्षारतिक्ताम्लकटुकोत्कटम् २३
- ससर्पिस्तैलमहिममशनं हितमुच्यते
- तीक्ष्णान्यपि च पानानि पिबेदगुरुभूषितः २४
- तैलाक्तस्य सुखोष्णे च वारिकोष्ठेऽवगाहनम्
- साङ्गारयाने महति कौशेयास्तरणास्तृते २५
- शयीत शयने तैस्तैर्वृतो गर्भगृहोदरे
- स्त्रीः श्लिष्ट्वाऽगुरुधूपाढ्याः पीनोरुजघनस्तनीः २६
- प्रकामं च निषेवेत मैथुनं तर्पितो नृपः
- एष एव विधिः कार्यः शिशिरे समुदाहृतः ३१
- तीक्ष्णरूक्षकटुक्षारकषायं कोष्णमद्र वम्
- यवमुद्गमधुप्रायं वसन्ते भोजनं हितम् ३७
- व्यायामोऽत्र नियुद्धाध्वशिलानिर्घातजो हितः
- उत्सादनं तथा स्नानं वनिताः काननानि च ३८
- सेवेत निर्हरेच्चापि हेमन्तोपचितं कफम्
- शिरोविरेकवमननिरूहकवलादिभिः ३९
- वर्जयेन्मधुरस्निग्धदिवास्वप्नगुरुद्र वान्
- व्यायाममुष्णमायासं मैथुनं परिशोषि च ४०
- रसांश्चाग्निगुणोद्रि क्तान् निदाघे परिवर्जयेत्
- सरांसि सरितो वापीर्वनानि रुचिराणि च ४१
- चन्दनानि परार्ध्यानि स्रजः सकमलोत्पलाः
- तालवृन्तानिलाहारांस्तथा शीतगृहाणि च ४२
- घर्मकाले निषेवेत वासांसि सुलघूनि च
- शर्कराखण्डदिग्धानि सुगन्धीनि हिमानि च ४३
- पानकानि च सेवेत मन्थांश्चापि सशर्करान्
- भोजनं च हितं शीतं सघृतं मधुरद्र वम् ४४
- शृतेन पयसा रात्रौ शर्करामधुरेण च
- प्रत्यग्रकुसुमाकीर्णे शयने हर्म्यसंस्थिते ४५
- शयीत चन्दनाद्रा र्ङ्गः! स्पृश्यमानोऽनिलैः सुखैः
- तापात्यये हिता नित्यं रसा ये गुरवस्त्रयः ४६
- पयो मांसरसाः कोष्णास्तैलानि च घृतानि च
- बृंहणं चापि यत्किञ्चिदभिष्यन्दि तथैव च ४७
- निदाघोपचितं चैव प्रकुप्यन्तं समीरणम्
- निहन्यादनिलघ्नेन विधिना विधिकोविदः ४८
- नदीजलं रूक्षमुष्णमुदमन्थं तथाऽतपम्
- व्यायामं च दिवास्वप्नं व्यवायं चात्र वर्जयेत् ४९
- नवान्नरूक्षशीताम्बुसक्तूंश्चापि विवर्जयेत्
- यवषष्टिकगोधूमान् शालींश्चाप्यनवांस्तथा ५०
- हर्म्यमध्ये निवाते च भजेच्छय्यां मृदूत्तराम्
- सविषप्राणिविण्मूत्रलालादिष्ठीवनादिभिः ५१
- समाप्लुतं तदा तोयमान्तरीक्षं विषोपमम्
- वायुना विषदुष्टेन प्रावृषेण्येन दूषितम् ५२
- तद्धि सर्वोपयोगेषु तस्मिन् काले विवर्जयेत्
- अरिष्टासवमैरेयान् सोपदंशांस्तु युक्तितः ५३
- पिबेत् प्रावृषि जीर्णांस्तु रात्रौ तानपि वर्जयेत्
- निरूहैर्बस्तिभिश्चान्यैस्तथाऽन्यैर्मारुतापहैः ५४
- कुपितं शमयेद्वायुं वार्षिकं चाचरेद्विधिम्
- ऋतावृतौ य एतेन विधिना वर्तते नरः ५५
- घोरानृतुकृतान् रोगान्नाप्नोति स कदाचन
- अत ऊर्ध्वं द्वादशाशनप्रविचारान् वक्ष्यामः
- तत्र शीतोष्णस्निग्धरूक्षद्र वशुष्कैककालिकद्विकालिकौषधयुक्तमात्राहीनदोषप्रशमनवृत्त्यर्थाः ५६
- तृष्णोष्णमददाहार्तान् रक्तपित्तविषातुरान्
- मूर्च्छार्तान् स्त्रीषु च क्षीणान् शीतैरन्नैरुपाचरेत् ५७
- कफवातामयाविष्टान् विरिक्तान् स्नेहपायिनः
- अक्लिन्नकायांश्च नरानुष्णैरन्नैरुपाचरेत् ५८
- वातिकान् रूक्षदेहांश्च व्यवायोपहतांस्तथा
- व्यायामिनश्चापि नरान् स्निग्धैरन्नैरुपाचरेत् ५९
- मेदसाऽभिपरीतांस्तु स्निग्धान्मेहातुरानपि
- कफाभिपन्नदेहांश्च रूक्षैरन्नैरुपाचरेत् ६०
- शुष्कदेहान् पिपासार्तान् दुर्बलानपि च द्र वैः
- प्रक्लिन्नकायान् व्रणिनः शुष्कैर्मेहिन एव च ६१
- एककालं भवेद्देयो दुर्बलाग्निविवृद्धये
- समाग्नये तथाऽऽहारो द्विकालमपि पूजितः ६२
- औषधद्वेषिणे देयस्तथौषधसमायुतः
- मन्दाग्नये रोगिणे च मात्राहीनः प्रशस्यते ६३
- यथर्तुदत्तस्त्वाहारो दोषप्रशमनः स्मृतः
- अतः परं तु स्वस्थानां वृत्त्यर्थं सर्व एव च
- प्रविचारानिमानेवं द्वादशात्र प्रयोजयेत् ६४
- अत ऊर्ध्वं दशौषधकालान् वक्ष्यामः
- तत्राभक्तं प्राग्भक्तमधोभक्तं मध्येभक्तमन्तराभक्तं सभक्तं सामुद्गं मुहुर्मुहुर्ग्रासं
- ग्रासान्तरं चेति दशौषधकालाः ६५
- तत्राभक्तं तु यत् केवलमेवौषधमुपयुज्यते ६६
- वीर्याधिकं भवति भेषजमन्नहीनं हन्यात्तथाऽऽमयमसंशयमाशु चैव
- तद्बालवृद्धवनितामृदवस्तु पीत्वा ग्लानिं परां समुपयान्ति बलक्षयं च ६७
- प्राग्भक्तं नाम यत् प्राग्भक्तस्योपयुज्यते ६८
- शीघ्रं विपाकमुपयाति बलं न हिंस्यादन्नावृतं न च मुहुर्वदनान्निरेति
- प्राग्भक्तसेवितमथौषधमेतदेव दद्याच्च वृद्धशिशुभीरुकृशाङ्गनाभ्यः ६९
- अधोभक्तं नाम यदधो भक्तस्येति ७०
- मध्येभक्तं नाम यन्मध्ये भक्तस्य पीयते ७१
- पीतं यदन्नमुपयुज्य तदूर्ध्वकाये हन्याद्गदान् बहुविधांश्च बलं ददाति
- मध्ये तु पीतमपहन्त्यविसारिभावाद्ये मध्यदेहमभिभूय भवन्ति रोगाः ७२
- अन्तराभक्तं नाम-यदन्तरा पीयते पूर्वापरयोर्भक्तयोः ७३
- सभक्तं नाम यत् सह भक्तेन ७४
- पथ्यं सभक्तमबलाबलयोर्हि नित्यं तद्द्वेषिणामपि तथा शिशुवृद्धयोश्च
- हृद्यं मनोबलकरं त्वथ दीपनं च पथ्यं सदा भवति चान्तरभक्तकं यत् ७५
- सामुद्गं नाम यद्भक्तस्यादावन्ते च पीयते ७६
- दोषे द्विधा प्रविसृते तु समुद्गसंज्ञमाद्यन्तयोर्यदशनस्य निषेव्यते तु ७७
- मुहुर्मुहुर्नाम-सभक्तमभक्तं वा यदौषधं मुहुर्मुहुरुपयुज्यते ७८
- श्वासे मुहुर्मुहुरतिप्रसृते च कासे
- हिक्कावमीषु स वदन्त्युपयोज्यमेतत् ७९
- ग्रासं तु यत्पिण्डव्यामिश्रम् ८०
- ग्रासान्तरं तु यद्ग्रासान्तरेषु ८१
- ग्रासेषु चूर्णमबलाग्निषु दीपनीयं वाजीकराण्यपि तु योजयितुं यतेत
- ग्रासान्तरेषु वितरेद्वमनीयधूमान् श्वासादिषु प्रथितदृष्टगुणांश्च लेहान् ८२
- एवमेते दशौषधकालाः ८३
- विसृष्टे विण्मूत्रे विशदकरणे देहे च सुलघौ
- विशुद्धे चोद्गारे हृदि सुविमले वाते च सरति
- तथाऽन्नश्रद्धायां क्लमपरिगमे कुक्षौ च शिथिले
- प्रदेयस्त्वाहारो भवति भिषजां कालः स तु मतः ८४
- इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु स्वस्ववृत्ताध्यायो नाम चतुःषष्टितमोऽध्यायः ६४
पञ्चषष्टितमोऽध्यायः
सम्पाद्यताम्- अथातस्तन्त्रयुक्तिमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- द्वात्रिंशत्तन्त्रयुक्तयो भवन्ति शास्त्रे
- तद्यथा--अधिकरणं १ योगः २ पदार्थः ३ हेत्वर्थः ४ उद्देशः ५ निर्देशः ६ उपदेशः ७ अपदेशः ८ प्रदेशः ९ अतिदेशः १० अपवर्जः ११ वा-क्यशेषः १२ अर्थापत्तिः १३ विपर्ययः १४ प्रसङ्गः १५ एकान्तः १६ अने-कान्तः १७ पूर्वपक्षः १८ निर्णयः १९ अनुमतं २० विधानम् २१ अनाग-तावेक्षणम् २२ अतिक्रान्तावेक्षणं २३ संशयः २४ व्याख्यानं २५ स्व-संज्ञा २६ निर्वचनं २७ निदर्शनं २८ नियोगः २९ विकल्पः ३० समुच्चयः ३१ ऊह्यम् ३२ इति ३
- अत्रासां तन्त्रयुक्तीनां किं प्रयोजनम् उच्यते--वाक्ययोजनमर्थयोजनं च ४
- भवन्ति चात्र श्लोकाः
- असद्वादिप्रयुक्तानां वाक्यानां प्रतिषेधनम्
- स्ववाक्यसिद्धिरपि च क्रियते तन्त्रयुक्तितः ५
- व्यक्ता नोक्तास्तु ये ह्यर्था लीना ये चाप्यनिर्मलाः
- लेशोक्ता ये च केचित्स्युस्तेषां चापि प्रसाधनम् ६
- यथाऽम्बुजवनस्यार्कः प्रदीपो वेश्मनो यथा
- प्रबोधस्य प्रकाशार्थं तथा तन्त्रस्य युक्तयः ७
- तत्र यमर्थमधिकृत्योच्यते तदधिकरणं यथा-रसं दोषं वा ८
- येन वाक्यं युज्यते स योगः यथा-तैलं पिबेच्चामृतवल्लिनिम्बहिंस्राभयावृक्षकपिप्पलीभिः
- सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे
- इत्यत्र तैलं सिद्धं पिबेदिति प्रथमं वक्तव्ये तृतीयपादे सिद्धमिति प्रयुक्तं एवं दूरस्थानामपि पदानामेकीकरणं योगः ९
- योऽर्थोऽभिहितः सूत्रे पदे वा स पदार्थः पदस्य पदयोः पदानां वाऽर्थः पदा-र्थः अपरिमिताश्च पदार्थाः यथा--स्नेहस्वेदाञ्जनेषु निर्दिष्टेषु द्वयोस्त्रयाणां वाऽर्थानामुपपत्तिर्दृश्यते तत्र योऽर्थः पूर्वापरयोगसिद्धो भवति स ग्रहीतव्यः यथा--वेदोत्पत्तिमध्यायं व्याख्यास्याम इत्युक्ते सन्दिह्यते बुद्धिः--कतम-स्य वेदस्योत्पत्तिं वक्ष्यतीति यतः ऋग्वेदादयस्तु वेदाः विद विचारणे वि-द्लृ लाभे इत्येतयोश्च धात्वोरनेकार्थयोः प्रयोगात् तत्र पूर्वापरयोगमुपलभ्य
- प्रतिपत्तिर्भवति आयुर्वेदोत्पत्तिमयं विवक्षुरिति एष पदार्थः १०
- यदन्यदुक्तमन्यार्थसाधकं भवति स हेत्वार्थः यथा--मृत्पिण्डोऽद्भिः प्रक्लिद्यते तथा माषदुग्धप्रभृतिभिर्व्रणः प्रक्लिद्यत इति ११
- समासवचनमुद्देशः यथा-शल्यमिति १२
- विस्तरवचनं निर्देशः यथा-शारीरमागन्तुकं चेति १३
- एवमित्युपदेशः यथा--तथा न जागृयाद्रा त्रौ दिवास्वप्नं च वर्जयेत् इति
- १४
- अनेन कारणेनेत्यपदेशः यथाऽपदिश्यते--मधुरः श्लेष्माणमभिवर्धयतीति
- १५
- प्रकृतस्यातिक्रान्तेन साधनं प्रदेशः यथा--देवदत्तस्यानेन शल्यमुद्धृतं तथा
- यज्ञदत्तस्याप्ययमुद्धरिष्यतीति १६
- प्रकृतस्यानागतस्य साधनमतिदेशः यथा--यतोऽस्य वायुरूर्ध्वमुत्तिष्ठते तेनोदावर्ती स्यादिति १७
- अभिव्याप्यापकर्षणमपवर्गः यथा--अस्वेद्या विषोपसृष्टाः अन्यत्र कीटविषादिति १८
- येन पदेनानुक्तेन वाक्यं समाप्येत स वाक्यशेषः यथा--शिरःपाणिपादपार्श्वपृष्ठोदरोरसामित्युक्ते पुरुषग्रहणं विनाऽपि गम्यते पुरुषस्येति १९
- यदकीर्तितमर्थादापद्यते साऽर्थापत्तिः यथा-ओदनं भोक्ष्ये इत्युक्तेऽर्थादापन्नं
- भवति नायं पिपासुर्यवागूमिति २०
- यद्यत्राभिहितं तस्य प्रातिलोम्यं विपर्ययः यथा--कृशाल्पप्राणभीरवो दुश्चिकित्स्या इत्युक्ते विपरीतं गृह्यते दृढादयः सुचिकित्स्या इति २१
- प्रकरणान्तरेण समापनं प्रसङ्गः यद्वा प्रकरणान्तरितो योऽर्थोऽसकृदुक्तः समा-प्यते स प्रसङ्गः यथा--पञ्चमहाभूतशरीरिसमवायः पुरुषस्तस्मिन् क्रिया सोऽधिष्ठानमिति वेदोत्पत्तावभिधाय भूतचिन्तायां पुनरुक्तं-यतोऽभिहितं प-ञ्चमहाभूतशरीरिसमवायः पुरुष इति स खल्वेष कर्मपुरुषश्चिकित्साधिकृत
- इति २२
- यदवधारणेनोच्यते स एकान्तः यथा--त्रिवृद्विरेचयति मदनफलं वामयति
- २३
- क्वचित्तथा क्वचिदन्यथेति यः सोऽनेकान्तः यथा--केचिदाचार्या ब्रुवते
- द्र व्यं प्रधानं केचिद्र सं केचिद्वीर्यं केचिद्विपाकमिति २४
- आक्षेपपूर्वकः प्रश्नः पूर्वपक्षः यथा--कथं वातनिमित्ताश्चत्वारः प्रमेहा
- असाध्या भवन्तीति २५
- तस्योत्तरं निर्णयः यथा--शरीरं प्रपीड्य पश्चादधो गत्वा वसामेदोमज्जानुविद्धं मूत्रं विसृजति वातः एवमसाध्या वातजा इति २६
- तथा चोक्तम्-कृत्स्नं शरीरं निष्पीड्य मेदोमज्जावसायुतः
- अधः प्रकुप्यते वायुस्तेनासाध्यास्तु वातजाः २७
- परमतमप्रतिषिद्धमनुमतम् यथा--अन्यो ब्रूयात्--सप्त रसा इति तच्चाप्रतिषेधादनुमन्यते कथंचिदिति २८
- प्रकरणानुपूर्व्याऽभिहितं विधानम् यथा--सक्थिमर्माण्येकादश प्रकरणानुपूर्व्याऽभिहितानि २९
- एवं वक्ष्यतीत्यनागतावेक्षणम् यथा--श्लोकस्थाने ब्रूयात्--चिकित्सितेषु वक्ष्यामीति ३०
- यत्पूर्वमुक्तं तदतिक्रान्तावेक्षणम् यथा--चिकित्सितेषु ब्रूयात्--श्लोकस्थाने यदीरितमिति ३१
- उभयहेतुदर्शनं संशयः यथा--तलहृदयाभिघातः प्राणहरः पाणिपादच्छेदनमप्राणहरमिति ३२
- तन्त्रेऽतिशयोपवर्णनं व्याख्यानम् यथा--इह पञ्चविंशतिकः पुरुषो व्याख्यायते अन्येष्वायुर्वेदतन्त्रेषु भूतादिप्रभृत्यारभ्य चिन्ता ३३
- अन्यशास्त्रासामान्या स्वसंज्ञा यथा--मिथुनमिति मधुसर्पिषोर्ग्रहणं लोकप्रसिद्धमुदाहरणं वा ३४
- निश्चितं वचनं निर्वचनम् यथा--आयुर्विद्यतेऽस्मिन्ननेन वा आयुर्विन्दतीत्यायुर्वेदः ३५
- दृष्टान्तव्यक्तिर्निदर्शनम् यथा--अग्निर्वायुना सहितः कक्षे वृद्धिं गच्छति तथा वातपित्तकफदुष्टो व्रण इति ३६
- इदमेव कर्तव्यमिति नियोगः यथा--पथ्यमेव भोक्तव्यमिति ३७
- इदं चेदं चेति समुच्चयः यथा--मांसवर्गे एणहरिणादयो लावतित्तिरिशारङ्गाश्च प्रधानानीति ३८
- इदं वेदं वेति विकल्पः यथा--रसौदनः सघृता यवागूर्वा ३९
- यदनिर्दिष्टं बुद्ध्याऽवगम्यते तदूह्यम् यथा--अभिहितमन्नपानविधौ चतुर्विधं चान्नमुपदिश्यते--भक्ष्यं भोज्यं लेह्यं पेयमिति एवं चतुर्विधे वक्तव्ये द्विविधमभिहितम् इदमत्रोह्यम्--अन्नपाने विशिष्टयोर्द्वयोर्ग्रहणे कृते चतु-र्णामपि ग्रहणं भवतीति चतुर्विधश्चाहारः प्रविरलः प्रायेण द्विविध एव अतो द्वित्वं प्रसिद्धमिति किञ्चान्यत्--अन्नेन भक्ष्यमवरुद्धं घनसाधर्म्यात् पेयेन
- लेह्यं द्र वसाधर्म्यात् ४०
- भवन्ति चात्र-सामान्यदर्शनेनासां व्यवस्था संप्रदर्शिता
- विशेषस्तु यथायोगमुपधार्यो विपश्चिता ४१
- द्वात्रिंशद्युक्तयो ह्येतास्तन्त्रसारगवेषणे
- मया सम्यग्विनिहिताः शब्दार्थन्यायसंयुताः ४२
- यो ह्येता विधिवद्वेत्ति दीपीभूतास्तु बुद्धिमान्
- स पूजार्हो भिषक्श्रेष्ठ इति धन्वन्तरेर्मतम् ४३
- इति सुश्रुतसंहितायामुत्तरतन्त्रे तन्त्रभूषणाध्यायेषु तन्त्रयुक्तिर्नाम पञ्चषष्टितमोऽध्यायः ६५
षट्षष्टितमोऽध्यायः
सम्पाद्यताम्- अथातो दोषभेदविकल्पमध्यायं व्याख्यास्यामः १
- यथोवाच भगवान् धन्वन्तरिः २
- अष्टाङ्गवेदविद्वांसं दिवोदासं महौजसम्
- छिन्नशास्त्रार्थसंदेहं सूक्ष्मागाधागमोदधिम् ३
- विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति
- द्विषष्टिर्दोषभेदा ये पुरस्तात्परिकीर्तिताः ४
- कति तत्रैकशो ज्ञेया द्विशो वाऽप्यथवा त्रिशः
- तस्य तद्वचनं श्रुत्वा संशयच्छिन्महातपाः ५
- प्रीतात्मा नृपशार्दूलः सुश्रुतायाह तत्त्वतः
- त्रयो दोषा धातवश्च पुरीषं मूत्रमेव च ६
- देहं सन्धारयन्त्येते ह्यव्यापन्ना रसैर्हितैः
- पुरुषः षोडशकलः प्राणाश्चैकादशैव ये ७
- रोगाणां तु सहस्रं यच्छतं विंशतिरेव च
- शतं च पञ्च द्र व्याणां त्रिसप्तत्यधिकोत्तरम् ८
- व्यासतः कीर्तितं तद्धि भिन्ना दोषास्त्रयो गुणाः
- द्विषष्टिधा भवन्त्येते भूयिष्टमिति निश्चयः ९
- त्रय एव पृथक् दोषा द्विशो नव समाधिकैः
- त्रयोदशाधिकैकद्विसममध्योल्बणैस्त्रिशः १०
- पञ्चाशदेवं तु सह भवन्ति क्षयमागतैः
- क्षीणमध्याधिकक्षीणक्षीणवृद्धैस्तथाऽपरैः ११
- द्वादशैवं समाख्यातास्त्रयो दोषा द्विषष्टिधा
- मिश्रा धातुमलैर्दोषा यान्त्यसंख्येयतां पुनः १२
- तस्मात् प्रसङ्गं संयम्य दोषभेदविकल्पनैः
- रोगं विदित्वोपचरेद्र सभेदैर्यथैरितैः १३
- भिषक् कर्ताऽथ करणं रसा दोषास्तु कारणम्
- कार्यमारोग्यमेवैकमनारोग्यमतोऽन्यथा १४
- अध्यायानां तु षट्षष्ट्या ग्रथितार्थपदक्रमम्
- एवमेतदशेषेण तन्त्रमुत्तरमृद्धिमत् १५
- स्पष्टगूढार्थविज्ञानमगाढमन्दचेतसाम्
- यथाविधि यथाप्रश्नं भवतां परिकीर्तितम् १६
- सहोत्तरं त्वेतदधीत्य सर्वं ब्राह्मं विधानेन यथोदितेन
- न हीयतेऽर्थान्मनसोऽभ्युपेतादेतद्वचो ब्राह्मतीव सत्यम् १७
- इति सुश्रुतसंहितायामुत्तरतन्त्रे दोषभेदविकल्पो नाम षट्षष्टितमोऽध्यायः ६६
- इति सौश्रुते आयुर्वेदशास्त्रे उत्तरस्थानं समाप्तम्
- समाप्तमिदं सुश्रुततन्त्रम्