सुश्रुतसंहिता/चिकित्सास्थानम्/अध्याय ३५-४०

36

षट्त्रिंशत्तमोऽध्यायः
अथातो नेत्रबस्तिव्यापच्चिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अथ नेत्रे विचलिते तथा चैव विवर्तिते
गुदे क्षतं रुजा वा स्यात्तत्र सद्यःक्षतक्रियाः ३
अत्युत्क्षिप्तेऽवसन्ने च नेत्रे पायौ भवेद्रुजा
विधिरत्रापि पित्तघ्नः कार्यः स्नेहैश्च सेचनम् ४
तिर्यक्प्रणिहिते नेत्रे तथा पार्श्वावपीडिते
मुखस्यावरणाद्बस्तिर्न सम्यक् प्रतिपद्यते
ऋजु नेत्रं विधेयं स्यात्तत्र सम्यग्विजानता ५
अतिस्थूले कर्कशे च नेत्रेऽस्त्रिमति घर्षणात्
गुदे भवेत् क्षतं रुक् च साधनं तस्य पूर्ववत् ६
आसन्नकर्णिके नेत्रे भिन्नेऽणौ वाऽप्यपार्थकः
अवसेको भवेद्बस्तेस्तस्माद्दोषान् विवर्जयेत् ७
प्रकृष्टकर्णिके रक्तं गुदमर्मप्रपीडनात्
क्षरत्यत्रापि पित्तघ्नो विधिर्बस्तिश्च पिच्छिलः ८
ह्रस्वे त्वणुस्रोतसि च क्लेशो बस्तिश्च पूर्ववत्
प्रत्यागच्छंस्ततः कुर्याद्रो गान् बस्तिविघातजान् ९
दीर्घे महास्रोतसि च ज्ञेयमत्यवपीडवत्
प्रस्तीर्णे बहले चापि बस्तौ दुर्बद्धदोषवत् १०
बस्तावल्पेऽल्पता वाऽपि द्र व्यस्याल्पा गुणा मताः
दुर्बद्धे चाणुभिन्ने च विज्ञेयं भिन्ननेत्रवत् ११
अतिप्रपीडितो बस्तिः प्रयात्यामाशयं ततः
वातेरितो नासिकाभ्यां मुखतो वा प्रपद्यते १२
तत्र तूर्णं गलापीडं कुर्याच्चाप्यवधूननम्
शिरःकायविरेकौ च तीक्ष्णौ सेकांश्च शीतलान् १३
शनैः प्रपीडितो बस्तिः पक्वाधानं न गच्छति
न च संपादयत्यर्थं तस्माद्युक्तं प्रपीडयेत् १४
भूयो भूयोऽवपीडेन वायुरन्तः प्रपीड्यते
तेनाध्मानं रुजश्चोग्रा यथास्वं तत्र वस्तयः १५
कालातिक्रमणात् क्लेशो व्याधिश्चाभिप्रवर्धते
तत्र व्याधिबलघ्नं तु भूयो बस्तिं निधापयेत् १६
गुदोपदेहशोफौ तु स्नेहोऽपक्वः करोति हि
तत्र संशोधनो बस्तिर्हितं चापि विरेचनम् १७
हीनमात्रावुभौ बस्ती नातिकार्यकरौ मतौ
अतिमात्रौ तथाऽनाहक्लमातीसारकारकौ १८
मूर्च्छां दाहमतीसारं पित्तं चात्युष्णतीक्ष्णकौ
मृदुशीतावुभौ वातविबन्धाध्मानकारकौ १९
तत्र हीनादिषु हितः प्रत्यनीकः क्रियाविधिः
गुदबस्त्युपदेहं तु कुर्यात् सान्द्रो निरूहणः २०
प्रवाहिकां वा जनयेत्तनुरल्पगुणावहः
तत्र सान्द्रे तनुं बस्तिं तनौ सान्द्रं च दापयेत् २१
स्निग्धोऽतिजाड्यकृद्रू क्षः स्तम्भाध्मानकृदुच्यते
बस्तिं रूक्षमतिस्निग्धे स्निग्धं रूक्षे च दापयेत् २२
अतिपीडितवद्दोषान् विद्धि चाप्यवशीर्षके
उच्छीर्षके समुन्नाहं बस्तिः कुर्याच्च मेहनम् २३
तत्रोत्तरो हितो बस्तिः सुस्विन्नस्य सुखावहः
न्युब्जस्य बस्तिर्नाप्नोति पक्वाधानं विमार्गगः २४
हृद्गुदं बाधते चात्र वायुः कोष्ठमथापि च
उत्तानस्यावृते मार्गे बस्तिर्नान्तः प्रपद्यते २५
नेत्रसंवेजनभ्रान्तो वायुश्चान्तः प्रकुप्यति
देहे सङ्कुचिते दत्तः सन्क्थोरप्युभयोस्तथा २६
न सम्यगनिलाविष्टो बस्तिः प्रत्येति देहिनः
स्थितस्य बस्तिर्दत्तस्तु क्षिप्रमायात्यवाङ्मुखः २७
न चाशयं तर्पयति तस्मान्नार्थकरो हि सः
नाप्नोति बस्तिर्दत्तस्तु कृत्स्नं पक्वाशयं पुनः २८
दक्षिणाश्रितपार्श्वस्य वामपार्श्वानुगो यतः
न्युब्जादीनां प्रदानं च बस्तेर्नैव प्रशस्यते २९
पश्चादनिलकोपोऽत्र यथास्वं तत्र कारयेत्
व्यापदः स्नेहबस्तेस्तु वक्ष्यन्ते तच्चिकित्सिते ३०
अयोगाद्यास्तु वक्ष्यामि व्यापदः सचिकित्सिताः
अनुष्णोऽल्पौषधो हीनो बस्तिर्नैति प्रयोजितः ३१
विष्टम्भाध्मानशूलैश्च तमयोगं प्रचक्षते
तत्र तीक्ष्णो हितो बस्तिस्तीक्ष्णं चापि विरेचनम् ३२
सशेषान्नेऽथवा भुक्ते बहुदोषे च योजितः
अत्याशितस्यातिबहुर्बस्तिर्मन्दोष्ण एव च ३३
अनुष्णलवणस्नेहो ह्यतिमात्रोऽथवा पुनः
तथा बहुपुरीषं च क्षिप्रमाध्मापयेन्नरम् ३४
हृत्कटीपार्श्वपृष्ठेषु शूलं तत्रातिदारुणम्
तत्र तीक्ष्णतरो बस्तिर्हितं चाप्यनुवासनम् ३५
अतितीक्ष्णोतिलवणो रूक्षो बस्तिः प्रयोजितः
सपित्तं कोपयेद्वायुं कुर्याच्च परिकर्तिकाम् ३६
नाभिबस्तिगुदं तत्र छिनत्तीवातिदेहिनः
पिच्छाबस्तिर्हितस्तस्य स्नेहश्च मधुरैः शृतः ३७
अत्यम्ललवणस्तीक्ष्णः परिस्रावाय कल्पते
दौर्बल्यमङ्गसादश्च जायते तत्र देहिनः ३८
परिस्रवेत्ततः पित्तं दाहं सञ्जनयेद्गुदे
पिच्छाबस्तिर्हितस्तत्र बस्तिः क्षीरघृतेन च ३९
प्रवाहिका भवेत्तीक्ष्णान्निरूहात् सानुवासनात्
सदाहशूलं कृच्छ्रेण कफासृगुपवेश्यते ४०
पिच्छाबस्तिर्हितस्तत्र पयसा चैव भोजनम्
सर्पिर्मधुरकैः सिद्धं तैलं चाप्यनुवासनम् ४१
अतितीक्ष्णो निरूहो वा सवाते चानुवासनः
हृदयस्योपसरणं कुरुते चाङ्गपीडनम् ४२
दोषैस्तत्र रुजस्तास्ता मदो मूर्च्छाऽङ्गगौरवम्
सर्वदोषहरं बस्तिं शोधनं तत्र दापयेत् ४३
रूक्षस्य बहुवातस्य तथा दुःशायितस्य च
बस्तिरङ्गग्रहं कुर्याद्रू क्षो मृद्वल्पभेषजः ४४
तत्राङ्गसादः प्रस्तम्भो जृम्भोद्वेष्टनवेपकाः
पर्वभेदश्च तत्रेष्टाः स्वेदाभ्यञ्जनबस्तयः ४५
अत्युष्णतीक्ष्णोऽतिबहुर्दत्तोऽतिस्वेदितस्य च
अल्पदोषस्य वा बस्तिरतियोगाय कल्पते ४६
विरेचनातियोगेन समानं तस्य लक्षणम्
पिच्छाबस्तिप्रयोगश्च तत्र शीतः सुखावहः ४७
अतियोगात् परं यत्र जीवादानं विरिक्तवत्
देयस्तत्र हितश्चाप्सु पिच्छाबस्तिः सशोणितः ४८
नवैता व्यापदो यास्तु निरूहं प्रत्युदाहृताः
स्नेहबस्तिष्वपि हि ता विज्ञेयाः कुशलैरिह ४९
इत्युक्ता व्यापदः सर्वाः सलक्षणचिकित्सिताः
भिषजा च तथा कार्यं यथैता न भवन्ति हि ५०
पक्षाद्विरेको वान्तस्य ततश्चापि निरूहणम्
सद्यो निरूढोऽनुवास्यः सप्तरात्राद्विरेचितः ५१
इति सुश्रुतसंहितायां चिकित्सास्थाने नेत्रबस्तिव्यापच्चिकित्सितं नाम षट्त्रिंशोऽध्यायः ३६

37

सप्तत्रिंशत्तमोऽध्यायः
अथातोऽनुवासनोत्तरबस्तिचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
विरेचनात् सप्तरात्रे गते जातबलाय वै
कृतान्नायानुवास्याय सम्यग्देयोऽनुवासनः ३
यथावयो निरूहाणां या मात्राः परिकीर्तिताः
पादावकृष्टास्ताः कार्याः स्नेहबस्तिषु देहिनाम् ४
उत्सृष्टानिलविण्मूत्रे नरे बस्तिं विधापयेत्
एतैर्हि विहतः स्नेहो नैवान्तः प्रतिपद्यते ५
स्नेहबस्तिर्विधेयस्तु नाविशुद्धस्य देहिनः
स्नेहवीर्यं तथा दत्ते देहं चानुविसर्पति ६
अत ऊर्ध्वं प्रवक्ष्यामि तैलानीह यथाक्रमम्
पानान्वासननस्येषु यानि हन्युर्गदान् बहून् ७
शटीपुष्करकृष्णाह्वामदनामरदारुभिः
शताह्वाकुष्ठयष्ट्याह्ववचाबिल्वहुताशनैः ८
सुपिष्टैर्द्विगुणक्षीरं तैलं तोयचतुर्गुणम्
पक्त्वा बस्तौ विधातव्यं मूढवातानुलोमनम् ९
अर्शांसि ग्रहणीदोषमानाहं विषमज्वरम्
कट्यूरुपृष्ठकोष्ठस्थान् वातरोगांश्च नाशयेत् १०
वचापुष्करकुष्ठैलामदनामरसिन्धुजैः
काकोलीद्वययष्ट्याह्वमेदायुग्मनराधिपैः ११
पाठाजीवकजीवन्तीभार्गीचन्दनकट्फलैः
सरलागुरुबल्वाम्बुवाजिगन्धाग्निवृद्धिभिः १२
विडङ्गारग्वधश्यामात्रिवृन्मागधिकर्धिभिः
पिष्टैस्तैलं पचेत् क्षीरपञ्चमूलरसान्वितम् १३
गुल्मानाहाग्निषङ्गार्शोग्रहणीमूत्रसङ्गिनाम्
अन्वासनविधौ युक्तं शस्यतेऽनिलरोगिणाम् १४
चित्रकातिविषापाठादन्तीबिल्ववचामिषैः
सरलांशुमतीरास्नानीलिनीचतुरङ्गुलैः १५
चव्याजमोदकाकोलीमेदायुग्मसुरद्रुमैः
जीवकर्षभवर्षाभूवस्तगन्धाशताह्वयैः १६
रेण्वश्वगन्धामञ्जिष्ठाशटीपुष्करतस्करैः
सक्षीरं विपचेत्तैलं मारुतामयनाशनम् १७
गृध्रसीखञ्जकुब्जाढ्यमूत्रोदावर्तरोगिणाम्
शस्यतेऽल्पबलाग्नीनां बस्तावाशु नियोजितम् १८
भूतिकैरण्डवर्षाभूरास्नावृषकरोहिषैः
दशमूलसहाभार्गीषड्ग्रन्थामरदारुभिः १९
बलानागबलामुर्वावाजिगन्धामृताद्वयैः
सहाचरवरीविश्वाकाकनासाविदारिभिः २०
यवमाषातसीकोलकुलत्थैः क्वथितैः शृतम्
जीवनीयप्रतीवापं तैलं क्षीरचतुर्गुणम् २१
जङ्घोरुत्रिकपार्श्वांसबाहुमन्याशिरःस्थितान्
हन्याद्वातविकारांस्तु बस्तियोगैर्निषेवितम् २२
जीवन्त्यतिबलामेदाकाकोलीद्वयजीवकैः
ऋषभातिविषाकृष्णाकाकनासावचामरैः २३
रास्नामदनयष्ट्याह्वसरलाभीरुचन्दनैः
स्वयङ्गुप्ताशटीशृङ्गीकलसीसारिवाद्वयैः २४
पिष्टैस्तैलघृतं पक्वं क्षीरेणाष्टगुणेन तु
तच्चानुवासने देयं शुक्राग्निबलवर्धनम् २५
बृंहणं वातपित्तघ्नं गुल्मानाहहरं परम्
नस्ये पाने च संयुक्तमूर्ध्वजत्रुगदापहम् २६
मधुकोशीरकाश्मर्यकटुकोत्पलचन्दनैः
श्यामापद्मकजीमूतशक्राह्वातिविषाम्बुभिः २७
तैलपादं पचेत् सर्पिः पयसाऽष्टगुणेन च
न्यग्रोधादिगणक्वाथयुक्तं वस्तिषु योजितम् २८
दाहासृग्दरवीसर्पवातशोणितविद्र धीन्
पित्तरक्तज्वराद्यांश्च हन्यात् पित्तकृतान् गदान् २९
मृणालोत्पलशालूकसारिवाद्वयकेशरैः
चन्दनद्वयभूनिम्बपद्मबीजकसेरुकैः ३०
पटोलकटुकारक्तागुन्द्रा पर्पटवासकैः
पिष्टैस्तैलघृतं पक्वं तृणमूलरसेन च ३१
क्षीरद्विगुणसंयुक्तं बस्तिकर्मणि योजितम्
नस्येऽभ्यञ्जनपाने वा हन्यात् पित्तगदान् बहून् ३२
त्रिफलातिविषामूर्वात्रिवृच्चित्रकवासकैः
निम्बारग्वधषड्ग्रन्थासप्तपर्णनिशाद्वयैः ३३
गुडूचीन्द्र सुराकृष्णाकुष्ठसर्षपनागरैः
तैलमेभिः समैः पक्वं सुरसादिरसाप्लुतम् ३४
पानाभ्यञ्जनगण्डूषनस्यबस्तिषु योजितम्
स्थूलतालस्यकण्ड्वादीन् जयेत्कफकृतान् गदान् ३५
पाठाजमोदाशार्ङ्गेष्टापिप्पलीद्वयनागरैः
सरलागुरुकालीयभार्गीचव्यामरद्रुमैः ३६
मरिचैलाभयाकट्वीशटीग्रन्थिककट्फलैः
तैलमेरण्डतैलं वा पक्वमेभिः समायुतम् ३७
वल्लीकण्टकमूलाभ्यां क्वाथेन द्विगुणेन च
हन्यादन्वासनैर्दत्तं सर्वान् कफकृतान् गदान् ३८
विडङ्गोदीच्यसिन्धूत्थशटीपुष्करचित्रकैः
कट्फलातिविषाभार्गीवचाकुष्ठसुराह्वयैः ३९
मेदामदनयष्ठ्याह्वश्यामानिचुलनागरैः
शताह्वानीलिनीरास्नाकलसीवृषरेणुभिः ४०
बिल्वाजमोदकृष्णाह्वादन्तीचव्यनराधिपैः
तैलमेरण्डतैलं वा मुष्ककादिरसाप्लुतम् ४१
प्लीहोदावर्तवातासृग्गुल्मानाहकफामयान्
प्रमेहशर्करार्शांसि हन्यादाश्वनुवासनैः ४२
अशुद्धमपि वातेन केवलेनातिपीडितम्
अहोरात्रस्य कालेषु सर्वेष्वेवानुवासयेत् ४३
रूक्षस्य बहुवातस्य द्वौ त्रीनप्यनुवासनान्
दत्त्वा स्निग्धतनुं ज्ञात्वा ततः पश्चान्निरूहयेत् ४४
अस्निग्धमपि वातेन केवलेनातिपीडितम्
स्नेहप्रगाढैर्मतिमान्निरूहैः समुपाचरेत् ४५
अथ सम्यङ्निरूढं तु वातादिष्वनुवासयेत्
बिल्वयष्ट्याह्वमदनफलतैलैर्यथाक्रमम् ४६
रात्रौ बस्तिं न दद्यात्तु दोषोत्क्लेशो हि रात्रिजः
स्नेहवीर्ययुतः कुर्यादाध्मानं गौरवं ज्वरम् ४७
अह्नि स्थानस्थिते दोषे वह्नौ चान्नरसान्विते
स्फुटस्रोतोमुखे देहे स्नेहौजः परिसर्पति ४८
पित्तेऽधिके कफे क्षीणे रूक्षे वातरुगर्दिते
नरे रात्रौ तु दातव्यं काले चोष्णेऽनुवासनम् ४९
उष्णे पित्ताधिके वाऽपि दिवा दाहादयो गदाः
संभवन्ति यतस्तस्मात् प्रदोषे योजयेद्भिषक् ५०
शीते वसन्ते च दिवा ग्रीष्मप्रावृड्घनात्यये
स्नेह्यो दिनान्ते पानोक्तान् दोषान् परिजिहीर्षता ५१
अहोरात्रस्य कालेषु सर्वेष्वेवानिलाधिकम्
तीव्रायां रुजि जीर्णान्नं भोजयित्वाऽनुवासयेत् ५२
न चाभुक्तवतः स्नेहः प्रणिधेयः कथञ्चन
शुद्धत्वाच्छून्यकोष्ठस्य स्नेह ऊर्ध्वं समुत्पतेत् ५३
सदाऽनुवासयेच्चापि भोजयित्वाऽद्र पाणिनम्
ज्वरं विदग्धभुक्तस्य कुर्यात् स्नेहः प्रयोजितः ५४
न चातिस्निग्धमशनं भोजयित्वाऽनुवासयेत्
मदं मूर्च्छां च जनयेद् द्विधा स्नेहः प्रयोजितः ५५
रूक्षं भुक्तवतो ह्यन्नं बलं वर्णं च हापयेत्
युक्तस्नेहमतो जन्तुं भोजयित्वाऽनुवासयेत् ५६
यूषक्षीररसैस्तस्माद्यथाव्याधि समीक्ष्य वा
यथोचितात् पादहीनं भोजयित्वाऽनुवासयेत् ५७
अथानुवास्यं स्वभ्यक्तमुष्णाम्बुस्वेदितं शनैः
भोजयित्वा यथाशास्त्रं कृतचङ्क्रमणं ततः ५८
विसृज्य च शकृन्मूत्रं योजयेत् स्नेहबस्तिना
प्रणिधानविधानं तु निरूहे संप्रवक्ष्यते ५९
ततः प्रणिहितस्नेह उत्तानो वाक्शतं भवेत्
प्रसारितैः सर्वगात्रैस्तथा वीर्यं विसर्पति ६०
ताडयेत्तलयोरेनं त्रींस्त्रीन् वाराञ्छनैः शनैः
स्फिचोश्चैनं ततः शय्यां त्रीन् वारानुत्क्षिपेत्ततः ६१
एवं प्रणिहिते बस्तौ मन्दायासोऽथ मन्दवाक्
स्वास्तीर्णे शयने काममासीताचारिके रतः ६२
स तु सैन्धवचूर्णेन शताह्वेन च योजितः
देयः सुखोष्णश्च तथा निरेति सहसा सुखम् ६३
यस्यानुवासनो दत्तः सकृदन्वक्षमाव्रजेत्
अत्यौष्ण्यादतितैक्ष्ण्याद्वा वायुना वा प्रपीडितः ६४
सवातोऽधिकमात्रो वा गुरुत्वाद्वा सभेषजः
तस्यान्योऽल्पतरो देयो न हि स्निह्यत्यतिष्ठति ६५
विष्टब्धानिलविण्मूत्रः स्नेहहीनेऽनुवासने
दाहक्लमप्रवाहार्तिकरश्चात्यनुवासनः ६६
सानिलः सपुरीषश्च स्नेहः प्रत्येति यस्य तु
ओषचोषौ विना शीघ्रं स सम्यगनुवासितः ६७
जीर्णान्नमथ सायाह्ने स्नेहे प्रत्यागते पुनः
लघ्वन्नं भोजयेत् कामं दीप्ताग्निस्तु नरो यदि ६८
प्रातरुष्णोदकं देयं धान्यनागरसाधितम्
तेनास्य दीप्यते वह्निर्भक्ताकाङ्क्षा च जायते ६९
स्नेहबस्तिक्रमेष्वेवं विधिमाहुर्मनीषिणः
अनेन विधिना षड् वा सप्त वाऽष्टौ नवैव वा ७०
विधेया बस्तयस्तेषामन्तरा तु निरूहणम्
दत्तस्तु प्रथमो बस्तिः स्नेहयेद्बस्तिवङ्क्षणौ ७१
सम्यग्दत्तो द्वितीयस्तु मूर्धस्थमनिलं जयेत्
जनयेद्बलवर्णौ च तृतीयस्तु प्रयोजितः ७२
रसं चतुर्थो रक्तं तु पञ्चमः स्नेहयेत्तथा
षष्ठस्तु स्नेहयेन्मांसं मेदः सप्तम एव च ७३
अष्टमो नवमश्चास्थि मज्जानं च यथाक्रमम्
एवं शुक्रगतान् दोषान् द्विगुणः साधु साधयेत् ७४
अष्टादशाष्टादशकान् बस्तीनां यो निषेवते
यथोक्तेन विधानेन परिहारक्रमेण च ७५
स कुञ्जरबलोऽश्वस्य जवैस्तुल्योऽमरप्रभः
वीतपाप्मा श्रुतधरः सहस्रायुर्नरो भवेत् ७६
स्नेहबस्तिं निरूहं वा नैकमेवातिशीलयेत्
स्नेहादग्निवधोत्क्लेशौ निरूहात् पवनाद्भयम् ७७
तस्मान्निरूढोऽनुवास्यो निरूह्यश्चानुवासितः
नैवं पित्तकफोत्क्लेशौ स्यातां न पवनाद्भयम् ७८
रूक्षाय बहुवाताय स्नेहबस्तिं दिने दिने
दद्याद्वैद्यस्ततोऽन्येषामग्न्याबाधभयात्त्र्यहात् ७९
स्नेहोऽल्पमात्रो रूक्षाणां दीर्घकालमनत्ययः
तथा निरूहः स्निग्धानामल्पमात्रः प्रशस्यते ८०
अत ऊर्ध्वं प्रवक्ष्यामि व्यापदः स्नेहबस्तिजाः
बलवन्तो यदा दोषाः कोष्ठे स्युरनिलादयः ८१
अल्पवीर्यं तदा स्नेहमभिभूय पृथग्विधान्
कुर्वन्त्युपद्र वान् स्नेहः स चापि न निवर्तते ८२
तत्र वाताभिभूते तु स्नेहे मुखकषायता
जृम्भा वातरुजस्तास्ता वेपथुर्विषमज्वरः ८३
पित्ताभिभूते स्नेहे तु मुखस्य कटुता भवेत्
दाहस्तृष्णा ज्वरः स्वेदो नेत्रमूत्राङ्गपीतता ८४
श्लेष्माभिभूते स्नेहे तु प्रसेको मधुरास्यता
गौरवं छर्दिरुच्छ्वासः कृच्छ्राच्छीतज्वरोऽरुचिः ८५
तत्र दोषाभिभूते तु स्नेहे बस्तिं निधापयेत्
यथास्वं दोषशमनान्युपयोज्यानि यानि च ८६
अत्याशितेऽन्नाभिभवात् स्नेहो नैति यदा तदा
गुरुरामाशयः शूलं वायोश्चाप्रतिसंचरः ८७
हृत्पीडा मुखवैरस्यं श्वासो मूर्च्छा भ्रमोऽरुचिः
तत्रापतर्पणस्यान्ते दीपनो विधिरिष्यते ८८
अशुद्धस्य मलोन्मिश्रः स्नेहो नैति यदा पुनः
तदाऽङ्गसदनाध्माने श्वासः शूलं च जायते ८९
पक्वाशयगुरुत्वं च तत्र दद्यान्निरूहणम्
तीक्ष्णं तीक्ष्णौषधैरेव सिद्धं चाप्यनुवासनम् ९०
शुद्धस्य दूरानुसृते स्नेहे स्नेहस्य दर्शनम्
गात्रेषु सर्वेन्द्रि याणामुपलेपोऽवसादनम् ९१
स्नेहगन्धि मुखं चापि कासश्वासावरोचकः
अतिपीडितवत्तत्र सिद्धिरास्थापनं तथा ९२
अस्विन्नस्याविशुद्धस्य स्नेहोऽल्प संप्रयोजितः
शीतो मृदुश्च नाभ्येति ततो मन्दं प्रवाहते ९३
विबन्धगौरवाध्मानशूलाः पक्वाशयं प्रति
तत्रास्थापनमेवाशु प्रयोज्यं सानुवासनम् ९४
अल्पं भुक्तवतोऽल्पो हि स्नेहो मन्दगुणस्तथा
दत्तो नैति क्लमोत्क्लेशौ भृशं चारतिमावहेत् ९५
तत्राप्यास्थापनं कार्यं शोधनीयेन बस्तिना
इ!अन्वासनं च स्नेहेन शोधनीयेन शस्यतेइ! ९६
अहोरात्रादपि स्नेहः प्रत्यागच्छन्न दुष्यति
कुर्याद्बस्तिगुणांश्चापि जीर्णस्त्वल्पगुणो भवेत् ९७
यस्य नोपद्र वं कुर्यात् स्नेहबस्तिरनिःसृतः
सर्वोऽल्पोवाऽवृतो रौक्ष्यादुपेक्ष्यः स विजानता ९८
अनायान्तं त्वहोरात्रात् स्नेहं संशोधनैर्हरेत्
स्नेहबस्तावनायाते नान्यः स्नेहो विधीयते ९९
इत्युक्ता व्यापदः सर्वा सलक्षणचिकित्सिताः
वस्तेरुत्तरसंज्ञस्य विधिं वक्ष्याम्यतः परम् १००
चतुर्दशाङ्गुलं नेत्रमातुराङ्गुलसंमितम्
मालतीपुष्पवृन्ताग्रं छिद्रं सर्षपनिर्गमम् १०१
स्नेहप्रमाणं परमं प्रकुञ्चश्चात्र कीर्तितः
पञ्चविंशादधो मात्रां विदध्याद्बुद्धिकल्पिताम् १०२
निविष्टकर्णिकं मध्ये नारीणां चतुरङ्गुले
मूत्रस्रोतःपरीणाहं मुद्गवाहि दशाङ्गुलम् १०३
मेढ्रायामसमं केचिदिच्छन्ति खलु तद्विदः
तासामपत्यमार्गे तु निदध्याच्चतुरङ्गुलम् १०४
द्व्यङ्गुलं मूत्रमार्गे तु कन्यानां त्वेकमङ्गुलम्
विधेयं चाङ्गुलं तासां विधिवद्वक्ष्यते यथा १०५
स्नेहस्य प्रसृतं चात्र स्वाङ्गुलीमूलसंमितम्
देयं प्रमाणं परममर्वाग् बुद्धिविकल्पितम् १०६
औरभ्रः शौकरो वाऽपि बस्तिराजश्च पूजितः
तदलाभे प्रयुञ्जीत गलचर्म तु पक्षिणाम् १०७
तिस्यालाभे दृतेः पादो मृदुचर्म ततोऽपि वाइ!
अथातुरमुपस्निग्धं स्विन्नं प्रशिथिलाशयम् १०८
यवागूं सघृतक्षीरां पीतवन्तं यथाबलम्
निषण्णमाजानुसमे पीठे सोपाश्रये समम् १०९
स्वभ्यक्तबस्तिमूर्धानं तैलेनोष्णेन मानवम्
ततः समं स्थापयित्वा नालमस्य प्रहर्षितम् ११०
पूर्वं शलाकयाऽन्विष्य ततो नेत्रमनन्तरम्
शनैः शनैर्घृताभ्यक्तं विदध्यादङ्गुलानि षट् १११
मेढ्रयामसमं केचिदिच्छन्ति प्रणिध्याच
ततोऽवपीडयेद्बस्तिं शनैर्नेत्रं च निर्हरेत् ११२
ततः प्रत्यागतस्नेहमपराह्णे विचक्षणः
भोजयेत् पयसा मात्रां यूषेणाथ रसेन वा ११३
अनेन विधिना दद्याद्बस्तींस्त्रींश्चतुरोऽपि वा
ऊर्ध्वजान्वै स्त्रियै दद्यादुत्तानायै विचक्षणः ११४
सम्यक् प्रपीडयेद्योनिं दद्यात् सुमृदुपीडितम्
त्रिकर्णिकेन नेत्रेण दद्याद्योनिमुखं प्रति ११५
गर्भाशयविशुर्द्ध्य्थं स्नेहेन द्विगुणेन तु
क्वाथप्रमाणं प्रसृतं स्त्रिया द्विप्रसृतं भवेत् ११६
कन्येतरस्याः कन्यायास्तद्वद्बस्तिप्रमाणकम्
अप्रत्यागच्छति भिषग् बस्तावुत्तरसंज्ञिते ११७
भूयो बस्तिं निदध्यात्तु संयुक्तं शोधनैर्गणैः
गुदे वर्तिं निदध्याद्वा शोधनद्र व्यसंभृताम् ११८
प्रवेशयेद्वा मतिमान् बस्तिद्वारमथैषणीम्
पीडयेद्वाऽप्यधो नाभेर्बलेनोत्तरमुष्टिना ११९
आरग्वधस्य पत्रैस्तु निर्गुण्ड्याः स्वरसेन च
कुर्याद्गोमूत्रपिष्टेषु वर्तीर्वाऽपि ससैन्धवाः १२०
मुद्गैलासर्षपसमाः प्रविभज्य वयांसि तु
बस्तेरागमनार्थाय ता निदध्याच्छलाकया १२१
आगारधूमबृहतीपिप्पलीफलसैन्धवैः
कृता वा शुक्तगोमूत्रसुरापिष्टैः सनागरैः १२२
अनुवासनसिद्धिं च वीक्ष्य कर्म प्रयोजयेत्
शर्करामधुमिश्रेण शीतेन मधुकाम्बुना १२३
दह्यमाने तदा बस्तौ दद्याद्बस्तिं विचक्षणः
क्षीरवृक्षकषायेण पयसा शीतलेन च १२४
शुक्रं दुष्टं शोणितं चाङ्गनानां पुष्पोद्रे कं तस्य नाशं च कष्टम्
मूत्राघातान्मूत्रदोषान् प्रवृद्धान् योनिव्याधिं संस्थितिं चापरायाः १२५
शुक्रोत्सेकं शर्करामश्मरीं च शूलं बस्तौ वङ्क्षणे मेहने च
घोरानन्यान् बस्तिजांश्चापि रोगान् हित्वा मेहानुत्तरो हन्ति बस्तिः १२६
सम्यग्दत्तस्य लिङ्गानि व्यापदः क्रम एव च
बस्तेरुत्तरसंज्ञस्य समानं स्नेहबस्तिना १२७
इति सुश्रुतसंहितायां चिकित्सास्थानेऽनुवासनोत्तरबस्तिचिकित्सितं नाम सप्तत्रिंशोऽध्यायः ३७

38

अष्टत्रिंशत्तमोऽध्यायः
अथातो निरूहक्रमचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
अथानुवासितमास्थापयेत् स्वभ्यक्तस्विन्नशरीरमुत्सृष्टबहिर्वेगमवाते शुचौ वेश्मनि मध्याह्ने प्रततायां शय्यायामधःसुपरिग्रहायां श्रोणिप्रदेशप्रतिव्यूढा-यामनुपधानायां वामपार्श्वशायिनमाकुञ्चितदक्षिणसक्थिमितर प्रसारितसक्थिं सुमनसं जीर्णान्नं वाग्यतं सुनिषण्णदेहं विदित्वा ततो वामपादस्योपरि नेत्रं कृत्वेतरपादाङ्गुष्ठाङ्गुलिभ्यां कर्णिकामुपरि निष्पीड्य सव्यपाणिकनिष्ठि-कानामिकाभ्यां बस्तेर्मुखार्धं सङ्कोच्य मध्यमाप्रदेशिन्यङ्गुष्ठैरर्धं तु विवृता-स्यं कृत्वा वस्तावौषधं प्रक्षिप्य दक्षिणहस्ताङ्गुष्ठेन प्रदेशिनीमध्यमाभ्यां चानुसिक्तमनायतमबुद्बुदम सङ्कुचितमवातमौषधासन्नमुपसंगृह्य पुनरुपरि तदितरेण गृहीत्वा दक्षिणेनावसिञ्चेत् ततः सूत्रेणैवौषधान्ते द्विस्त्रिर्वाऽवेष्ट्य बध्नीयात् अथ दक्षिणेनोत्तानेन पाणिना बस्तिं गृहीत्वा वामहस्तमध्यमाङ्गु-लिप्रदेशिनीभ्यां नेत्रमुपसंगृह्याङ्गुष्ठेन नेत्रद्वारं पिधाय घृताभ्यक्तग्रानेत्रं घृता-क्तमुपादाय प्रयच्छेदनुपृष्ठवंशं सममुन्मुखमाकर्णिकं नेत्रं प्रणिधत्स्वेति ब्रूयात्
बस्तिं सव्ये करे कृत्वा दक्षिणेनावपीडयेत्
एकेनैवावपीडेन न द्रुतं न विलम्बितम् ४
ततो नेत्रमपनीय त्रिंशन्मात्राः पीडनकालादुपेक्ष्योत्तिष्ठेत्यातुरं ब्रूयात् अथातुरमुपवेशयेदुत्कुटुकं बस्त्यागमनार्थम्
निरूहप्रत्यागमनकालस्तु मुहूर्तो भवति ५
अनेन विधिना बस्तिं दद्याद्बस्तिविशारदः
द्वितीयं वा तृतीयं वा चतुर्थं वा यथार्थतः ६
सम्यङ्निरूढलिङ्गे तु प्राप्ते बस्तिं निवारयेत्
विशेषात् सुकुमाराणां हीन एव क्रमो हितः ७
अपि हीनक्रमं कुर्यान्न तु कुर्यादतिक्रमम्
यस्य स्याद्बस्तिरल्पोऽल्पवेगो हीनमलानिलः ८
दुर्निरूढः स विज्ञेयो मूत्रार्त्यरुचिजाड्यवान्
यान्येव प्राङ्मयोक्तानि लिङ्गान्यतिविरेचिते ९
तान्येवातिनिरूढेऽपि विज्ञेयानि विपश्चिता
यस्य क्रमेण गच्छन्ति विट्पित्तकफवायवः १०
लाघवं चोपजायेत सुनिरूढं तमादिशेत्
सुनिरूढं ततो जन्तुं स्नातवन्तं तु भोजयेत् ११
पित्तश्लेष्मानिलाविष्टं क्षीरयूषरसैः क्रमात्
सर्वं वा जाङ्गलरसैर्भोजयेदविकारिभिः १२
त्रिभागहीनमर्धं वा हीनमात्रमथापि वा
यथाग्निदोषं मात्रेयं भोजनस्य विधीयते १३
अनन्तरं ततो युञ्ज्याद्यथास्वं स्नेहबस्तिना
विविक्ततामनस्तुष्टिः स्निग्धता व्याधिनिग्रहः १४
आस्थापनस्नेहबस्त्योः सम्यग्दाने तु लक्षणम्
तदहस्तस्य पवनाद्भयं बलवदिष्यते १५
रसौदनस्तेन शस्तस्तदहश्चानुवासनम्
पश्चादग्निबलं मत्वा पवनस्य च चेष्टितम् १६
अन्नोपस्तम्भिते कोष्ठे स्नेहबस्तिर्विधीयते
अनायान्तं मुहूर्तात्तु निरूहं शोधनैर्हरेत् १७
तीक्ष्णैर्निरूहैर्मतिमान् क्षारमूत्राम्लसंयुतैः
विगुणानिलविष्टब्धं चिरं तिष्ठन्निरूहणम् १८
शूलारतिज्वरानाहान्मरणं वा प्रवर्तयेत्
न तु भुक्तवतो देयमास्थापनमिति स्थितिः १९
विसूचिकां वा जनयेच्छर्दिं वाऽपि सुदारुणाम्
कोपयेत् सर्वदोषान् वा तस्माद्दद्यादभोजिने २०
जीर्णान्नस्याशये दोषाः पुंसः प्रव्यक्तिमागताः
निःशेषाः सुखमायान्ति भोजनेनाप्रपीडिताः २१
नवाऽस्थापनविक्षिप्तमन्नमग्निः प्रधावति
तस्मादास्थापनं देयं निराहाराय जानता २२
आवस्थिकं क्रमं चापि बुद्ध्वा कार्यं निरूहणम्
मलेऽपकृष्टे दोषाणां बलवत्त्वं न विद्यते २३
क्षीराण्यम्लानि मूत्राणि स्नेहाः क्वाथा रसास्तथा
लवणानि फलं क्षौद्रं शताह्वा सर्षपं वचा २४
एला त्रिकटुकं रास्ना सरलो देवदारु च
रजनी मधुकं हिङ्गु कुष्ठं संशोधनानि च २५
कटुका शर्करा मुस्तमुशीरं चन्दनं शटी
मञ्जिष्ठा मदनं चण्डा त्रायमाणा रसाञ्जनम् २६
बिल्वमध्यं यवानी च फलिनी शक्रजा यवाः
काकोली क्षीरकाकोली जीवकर्षभकावुभौ २७
तथा मेदा महामेदा ऋद्धिर्वृद्धिर्मधूलिका
निरूहेषु यथालाभमेष वर्गो विधीयते २८
स्वस्थे क्वाथस्य चत्वारो भागाः स्नेहस्य पञ्चमः
क्रुद्धेऽनिले चतुर्थस्तु षष्ठः पित्ते कफेऽष्टमः २९
सर्वेषु चाष्टमो भागः कल्कानां लवणं पुनः
क्षौद्रं मूत्रं फलं क्षीरमम्लं मांसरसं तथा ३०
युक्त्या प्रकल्पयेद्धीमान् निरूहेकल्पना त्वियम् ३१
कल्कस्नेहकषायाणामविवेकाद्भिषग्वरैः
बस्तेः सुकल्पना प्रोक्ता तस्य दानं यथार्थकृत् ३२
दत्त्वाऽदौ सैन्धवस्याक्षं मधुनः प्रसृतद्वयम्
पात्रे तलेन मथ्नीयात्तद्वत् स्नेहं शनैः शनैः ३३
सम्यक् सुमथिते दद्यात् फलकल्कमतः परम्
ततो यथोचितान् कल्कान् भागैः स्वैः श्लक्ष्णपेषितान् ३४
गम्भीरे भाजनेऽन्यस्मिन्मथ्नीयात्तं खजेन च
यथा वा साधु मन्येत न सान्द्रो न तनुः समः ३५
रसक्षीराम्लमूत्राणां दोषावस्थामवेक्ष्य तु
कषायप्रसृतान् पञ्च सुपूतांस्तत्र दापयेत् ३६
अत ऊर्ध्वं द्वादशप्रसृतान् वक्ष्यामः
दत्त्वाऽदौ सैन्धवस्याक्षं मधुनः प्रसृतिद्वयम्
विनिर्मथ्य ततो दद्यात् स्नेहस्य प्रसृतित्रयम् ३७
एकीभूते ततः स्नेहे कल्कस्य प्रसृतिं क्षिपेत्
संमूर्च्छिते कषायं तु चतुःप्रसृतिसंमितम् ३८
वितरेच्च तदावापमन्ते द्विप्रसृतोन्मितम्
एवं प्रकल्पितो बस्तिर्द्वादशप्रसृतो भवेत् ३९
ज्येष्ठायाः खलु मात्रायाः प्रमाणमिदमीरितम्
अपह्रासे भिषक्कुर्यात्तद्वत् प्रसृतिहापनम् ४०
यथावयो निरूहाणां कल्पनेयमुदाहृता
सैन्धवादिद्र वान्तानां सिद्धिकामैर्भिषग्वरैः ४१
अत ऊर्ध्वं प्रवक्ष्यन्ते बस्तयोऽत्र विभागशः
यथादोषं प्रयुक्ता ये हन्युर्नानाविधान् गदान् ४२
शम्पाकोरुबुवर्षाभूवाजिगन्धानिशाच्छदैः
पञ्चमूलीबलारास्नागुडूचीसुरदारुभिः ४३
क्वथितैः पालिकैरेभिर्मदनाष्टकसंयुतैः
कल्कैर्मागधिकाम्भोदहपुषामिसिसैन्धवैः ४४
वत्साह्वयप्रिंयङूग्रायष्ट्याह्वयरसाञ्जनैः
दद्यादास्थापनं कोष्णं क्षौद्रा द्यैरभिसंस्कृतम् ४५
पृष्ठोरुत्रिकशूलाश्मविण्मूत्रानिलसङ्गिनाम्
ग्रहणीमारुतार्शोघ्नं रक्तमांसबलप्रदम् ४६
गुडूचीत्रिफलारास्नादशमूलबलापलैः
क्वथितैः श्लक्ष्णपिष्टैस्तु प्रियङ्गुघनसैन्धवैः ४७
शतपुष्पावचाकृष्णायवानीकुष्ठबिल्वजैः
सगुडैरक्षमात्रैस्तु मदनार्धपलान्वितैः ४८
क्षौद्र तैलघृतक्षीरशुक्तकाञ्जिकमस्तुभिः
समालोड्य च मूत्रेण दद्यादास्थापनं परम् ४९
तेजोवर्णबलोत्साहवीर्याग्निप्राणवर्धनम्
सर्वमारुतरोगघ्नं वयःस्थापनमुत्तमम् ५०
कुशादिपञ्चमूलाब्दत्रिफलोत्पलवासकैः
सारिवोशीरमञ्जिष्ठारास्नारेणुपरूषकैः ५१
पालिकैः क्वथितैः सम्यग् द्र व्यैरेभिश्च पेषितैः
शृङ्गाटकात्मगुप्तेभकेसरागुरुचन्दनैः ५२
विदारीमिसिमञ्जिष्ठाश्यामेन्द्र यवसिन्धुजैः
फलपद्मकयष्ट्याह्वैः क्षौद्र क्षीरघृताप्लुतैः ५३
दत्तमास्थापनं शीतमम्लहीनैस्तथा द्र वैः
दाहासृग्दरपित्तासृक्पित्तगुल्मज्वराञ्जयेत् ५४
रोध्रचन्दनमञ्जिष्ठारास्नानन्ताबलर्धिभिः
सारिवावृषकाश्मर्यमेदामधुकपद्मकैः ५५
स्थिरादितृणमूलैश्च क्वाथः कर्षत्रयोन्मितैः
पिष्टैर्जीवककाकोलीयुगर्धिमधुकोत्पलैः ५६
प्रपौण्डरीकजीवन्तीमेदारेणुपरूषकैः
अभीरुमिसिसिन्धूत्थवत्सकोशीरपद्मकैः ५७
कसेरुशर्करायुक्तैः सर्पिर्मधुपयःप्लुतैः
द्र वैस्तीक्ष्णाम्लवर्ज्यैश्च दत्तो बस्तिः सुशीतलः ५८
गुल्मासृग्दरहृत्पाण्डुरोगान् सविषमज्वरान्
असृक्पित्तातिसारौ च हन्यात्पित्तकृतान् गदान् ५९
भद्रा निम्बकुलत्थार्ककोशातक्यमृतामरैः
सारिवाबृहतीपाठामूर्वारग्वधवत्सकैः ६०
क्वाथः कल्कस्तु कर्तव्यो वचामदनसर्षपैः
सैन्धवामरकुष्ठैलापिप्पलीबिल्वनागरैः ६१
कटुतैलमधुक्षारमूत्रतैलाम्लसंयुतैः
कार्यमास्थापनं तूर्णं कामलापाण्डुमेहिनाम् ६२
मेदस्विनामनग्नीनां कफरोगाशनद्विषाम्
गलगण्डागरग्लानिश्लीपदोदररोगिणाम् ६३
दशमूलीनिशाबिल्वपटोलत्रिफलामरैः
क्वथितैः कल्कपिष्टैस्तु मुस्तसैन्धवदारुभिः ६४
पाठामागधिकेन्द्रा ह्वैस्तैलक्षारमधुप्लुतैः
कुर्यादास्थापनं सम्यङ्मूत्राम्लफलयोजितैः ६५
कफपाण्डुगदालस्यमूत्रमारुतसंगिनाम्
आमाटोपापचीश्लेष्मगुल्मक्रिमिविकारिणाम् ६६
वृषाश्मभेदवर्षाभूधान्यगन्धर्वहस्तकैः
दशमूलबलामूर्वायवकोलनिशाच्छदैः ६७
कुलत्थबिल्वभूनिम्बैः क्वथितैः पलसंमितैः
कल्कैर्मदनयष्ट्याह्वषड्ग्रन्थामरसर्षपैः ६८
पिप्पलीमूलसिन्धूत्थयवानीमिसिवत्सकैः
क्षौद्रे क्षुक्षीरगोमूत्रसर्पिस्तैलरसाप्लुतैः ६९
तूर्णमास्थापनं कार्यं संसृष्टबहुरोगिणाम्
गृध्रसीशर्कराष्ठीलातूनीगुल्मगदापहम् ७०
रास्नारग्वधवर्षाभूकटुकोशीरवारिदैः
त्रायमाणामृतारक्तापञ्चमूलीबिभीतकैः ७१
सबलैः पालिकैः क्वाथः कल्कस्तु मदनान्वितैः
यष्ट्याह्वमिसिसिन्धूत्थफलिनीन्द्र यवाह्वयैः ७२
रसाञ्जनरसक्षौद्र द्रा क्षासौवीरसंयुतैः
युक्तो बस्तिः सुखोष्णोऽय मांसशुक्रबलौजसाम् ७३
आयुषोऽग्नेश्च संस्कर्ता हन्ति चाशु गदानिमान्
गुल्मासृग्दरवीसर्पमूत्रकृच्छ्रक्षतक्षयान् ७४
विषमज्वरमर्शांसि ग्रहणीं वातकुण्डलीम्
जानुजङ्घाशिरोबस्तिग्रहोदावर्तमारुतान् ७५
वातासृक्शर्कराष्ठीलाकुक्षिशूलोदरारुचीः
रक्तपित्तकफोन्मादप्रमेहाध्मानहृद्ग्रहान् ७६
वातघ्नौषधनिष्क्वाथाः सैन्धवत्रिवृतायुताः
साम्लाः सुखोष्णा योज्याः स्युर्बस्तयः कुपितेऽनिले ७७
न्यग्रोधादिगणक्वाथाः काकोल्यादिसमायुताः
विधेया बस्तयः पित्ते ससर्पिष्काः सशर्कराः ७८
आरग्वधादिनिष्क्वाथाः पिप्पल्यादिसमायुताः
सक्षौद्र मूत्रा देयाः स्युर्बस्तयः कुपिते कफे ७९
शर्करेक्षुरसक्षीरघृतयुक्ताः सुशीतलाः
क्षीरवृक्षकषायाढ्या बस्तयः शोणिते हिताः ८०
शोधनद्र व्यनिष्क्वाथास्तत्कल्कस्नेहसैन्धवैः
युक्ताः खजेन मथितबस्तयः शोधनाः स्मृताः ८१
त्रिफलाक्वाथगोमूत्रक्षौद्र क्षारसमायुताः
ऊषकादिप्रतीवापा बस्तयो लेखनाः स्मृताः ८२
बृंहणद्र व्यनिष्क्वाथाः कल्कैर्मधुरकैर्युताः
सर्पिर्मांसरसोपेता बस्तयो बृंहणाः स्मृताः ८३
चटकाण्डोच्चटाक्वाथाः सक्षीरघृतशर्कराः
आत्मगुप्ताफलावापाः स्मृता वाजीकरा नृणाम् ८४
बदर्यैरावतीशेलुशाल्मलीधन्वनाङ्कुराः
क्षीरसिद्धाः क्षौद्र युताः सास्राः पिच्छिलसंज्ञिताः ८५
वाराहमाहिषौरभ्रबैडालैणेयकौक्कुटम्
सद्यस्कमसृगाजं वा देयं पिच्छिलबस्तिषु ८६
प्रियङ्ग्वादिगणक्वाथा अम्बष्ठाद्येन संयुताः
सक्षौद्रा ः! सघृताश्चैव ग्राहिणो बस्तयः स्मृताः ८७
एतेष्वेव च योगेषु स्नेहाः सिद्धाः पृथक् पृथक्
समस्तेष्वथवा सम्यग्विधेयाः स्नेहबस्तयः ८८
वन्ध्यानां शतपाकेन शोधितानां यथाक्रमम्
बलातैलेन देयाः स्युर्बस्तयस्त्रैवृतेन च ८९
नरस्योत्तमसत्त्वस्य तीक्ष्णं बस्तिं निधापयेत्
मध्यमं मध्यसत्त्वस्य विपरीतस्य वै मृदुम् ९०
एवं कालं बलं दोषं विकारं च विकारवित्
बस्तिद्र व्यबलं चैव वीक्ष्य बस्तीन् प्रयोजयेत् ९१
दद्यादुत्क्लेशनं पूर्वं मध्ये दोषहरं पुनः
पश्चात् संशमनीयं च दद्याद्बस्तिं विचक्षणः ९२
एरण्डबीजं मधुकं पिप्पली सैन्धवं वचा
हपुषाफलकल्कश्च बस्तिरुत्क्लेशनः स्मृतः ९३
शताह्वा मधुकं बीजं कौटजं फलमेव च
सकाञ्जिकः सगोमूत्रो बस्तिर्दोषहरः स्मृतः ९४
प्रियङ्गुर्मधुकं मुस्ता तथैव च रसाञ्जनम्
सक्षीरः शस्यते बस्तिर्दोषाणां शमनः परः ९५
नृपाणां तत्समानानां तथा सुमहतामपि
नारीणां सुकुमाराणां शिशुस्थविरयोरपि ९६
दोषनिर्हणार्थाय बलवर्णोदयाय च
समासेनोपदेक्ष्यामि विधानं माधुतैलिकम् ९७
यानस्त्रीभोज्यपानेषु नियमश्चात्र नोच्यते
फलं च विपुलं दृष्टं व्यापदां चाप्यसंभवः ९८
योज्यस्त्वतः सुखेनैव निरूहक्रममिच्छता
यदेच्छति तदैवैष प्रयोक्तव्यो विपश्चिता ९९
मधुतैले समे स्यातां क्वाथश्चैरण्डमूलजः
पलार्धं शतपुष्पायास्ततोऽध सैन्धवस्य च १००
फलेनैकेन संयुक्तः खजेन च विलोडितः
देयः सुखोष्णो भिषजा माधुतैलिकसंज्ञितः १०१
वचामधुकतैलं च क्वाथः सरससैन्धवः
पिप्पलीफलसंयुक्तो बस्तिर्युक्तरथः स्मृतः १०२
सुरदारु वरा रास्ना शतपुष्पा वचा मधु
हिङ्गुसैन्धवसंयुक्तो बस्तिर्दोषहरः स्मृतः १०३
पञ्चमूलीकषायं च तैलं मागधिका मधु
बस्तिरेष विधातव्यः सशताह्वः ससैन्धवः १०४
यवकोलकुलत्थानां क्वाथो मागधिका मधु
ससैन्धवः सयष्ठ्याह्वः सिद्धबस्तिरिति स्मृतः १०५
मुस्तापाठामृतातिक्ताबलारास्नापुनर्नवाः
मञ्जिष्ठारग्वधोशीरत्रायमाणाख्यगोक्षुरान् १०६
पालिकान् पञ्चमूलाल्पसहितान्मदनाष्टकम्
जलाढके पचेत् क्वाथं पादशेषं पुनः पचेत् १०७
क्षीरार्धाढकसंयुक्तमाक्षीरात् सुपरिस्रुतम्
पादेन जाङ्गलरसस्तथा मधुघृतं समम् १०८
शताह्वाफलिनीयष्टीवत्सकैः सरसाञ्जनैः
कार्षिकैः सैन्धवोन्मिश्रैः कल्कैर्बस्तिः प्रयोजितः १०९
वातासृङ्मेहशोफार्शोगुल्ममूत्रविबन्धनुत्
विसर्पज्वरविड्भङ्गरक्तपित्तविनाशनः ११०
बल्यः संजीवनो वृष्यश्चक्षुष्यः शूलनाशनः
यापनानामयं राजा बस्तिर्मुस्तादिको मतः १११
अवेक्ष्य भेषजं बुद्ध्या विकारं च विकारवित्
बीजेनानेन शास्त्रज्ञः कुर्याद्बस्तिशतान्यपि ११२
अजीर्णे न प्रयुञ्जीत दिवास्वप्नं च वर्जयेत्
आहाराचारिकं शेषमन्यत् कामं समाचरेत् ११३
यस्मान्मधु च तैलं च प्राधान्येन प्रदीयते
माधुतैलिक इत्येवं भिषग्भिर्बस्तिरुच्यते ११४
रथेष्वपि च युक्तेषु हस्त्यश्वे चापि कल्पिते
यस्मान्न प्रतिषिद्धोऽयमतो युक्तरथः स्मृतः ११५
बलोपचयवर्णानां यस्माद् व्याधिशतस्य च
भवत्येतेन सिद्धिस्तु सिद्धबस्तिरतो मतः ११६
सुखिनामल्पदोषाणां नित्यं स्निग्धाश्च ये नराः
मृदुकोष्ठाश्च ये तेषां विधेया माधुतैलिकाः ११७
मृदुत्वात् पादहीनत्वादकृत्स्नविधिसेवनात्
एकबस्तिप्रदानाच्च सिद्धबस्तिष्वयन्त्रणा ११८
इति सुश्रुतसंहितायां चिकित्सास्थाने निरूहक्रमचिकित्सितं नामाष्टत्रिंशोऽध्यायः ३८

39

एकोनचत्वारिंशत्तमोऽध्यायः
अथात आतुरोपद्र वचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
स्नेहपीतस्य वान्तस्य विरिक्तस्य स्रुतासृजः
निरूढस्य च कायाग्निर्मन्दो भवति देहिनः ३
सोऽन्नैरत्यर्थगुरुभिरुपयुक्तैः प्रशाम्यति
अल्पो महद्भिर्बहुभिश्छादितोऽग्निरिवेन्धनैः ४
स चाल्पैर्लघुभिश्चान्नैरुपयुक्तैर्विवर्धते
काष्ठैरणुभिरल्पैश्च सन्धुक्षित इवानलः ५
हृतदोषप्रमाणेन सदाऽहारविधिः स्मृतः
त्रीणि चात्र प्रमाणानि प्रस्थोऽधाढकमाढकम् ६
तत्रावरं प्रस्थमात्रं द्वे शेषे मध्यमोत्तमे
प्रस्थे परिस्रुते देया यवागूः स्वल्पतण्डुला ७
द्वे चैवार्धाढके देये तिस्रश्चाप्याढके गते
विलेपीमुचिताद्भक्ताच्चतुर्थांशकृतां ततः ८
दद्यादुक्तेन विधिना क्लिन्नसिक्थामपिच्छिलाम्
अस्निग्धलवणं स्वच्छमुद्गयूषयुतं ततः ९
अंशद्वयप्रमाणेन दद्यात् सुस्विन्नमोदनम्
ततस्तु कृतसंज्ञेन हृद्येनेन्द्रि यबोधिना १०
त्रीनंशान् वितरेद्भोक्तुमातुरायौदनं मृदु
ततो यथोचितं भक्तं भोक्तुमस्मै विचक्षणः ११
लावैणहरिणादीनां रसैर्दद्यात् सुसंस्कृतैः
हीनमध्योत्तमेष्वेषु विरेकेषु प्रकीर्तितः १२
एकद्वित्रिगुणः सम्यगाहारस्य क्रमस्त्वयम्
कफपित्ताधिकान्मद्यनित्यान् हीनविशोधितान् १३
पेयाऽभिष्यन्दयेत्तेषां तर्पणादिक्रमो हितः
वेदनालाभनियमशोकवैचित्त्यहेतुभिः १४
नरानुपोषितांश्चापि विरिक्तवदुपाचरेत्
आढकार्धाढकप्रस्थसंख्या ह्येषा विरेचने १५
श्लेष्मान्तत्वाद्विरेकस्य न तामिच्छति तद्विदः
एको विरेकः श्लेष्मान्तो न द्वितीयोऽस्ति कश्चन १६
बलं यत्त्रिविधं प्रोक्तमतस्तत्र क्रमस्त्रिधा
तत्रानुक्रममेकं तु बलस्थः सकृदाचरेत् १७
द्विराचरेन्मध्यबलस्त्रीन् वारान् दुर्बलस्तथा
केचिदेवं क्रमं प्राहुर्मन्दमध्योत्तमाग्निषु १८
संसर्गेण विवृद्धेऽग्नौ दोषकोपभयाद्भजेत्
प्राक् स्वादुतिक्तौ स्निग्धाम्ललवणान् कटुकं ततः १९
स्वाद्वम्ललणान् भूयः स्वादुतिक्तावतः परम्
स्निग्धरूक्षान् रसांश्चैव व्यत्यासात् स्वस्थवत्ततः २०
केवलं स्नेहपीतो वा वान्तो यश्चापि केवलम्
स सप्तरात्रं मनुजो भुज्जीत लघु भोजनम् २१
कृतः सिराव्यधो यस्य कृतं यस्य च शोधनम्
स ना परिहरेन्मासं यावद्वा बलवान् भवेत् २२
त्र्! यहं त्र्! यहं परिहरेदेकैकं बस्तिमातुरः
तृतीये तु परीहारे यथायोगं समाचरेत् २३
तैलपूर्णाममृद्भाण्डसधर्माणो व्रणातुराः
स्निग्धशुद्धाक्षिरोगार्ता ज्वरातीसारिणश्च ये २४
क्रुध्यतः कुपितं पित्तं कुर्यात्तांस्तानुपद्र वान्
आयास्यतः शोचतो वा चित्तं विभ्रममृच्छति २५
मैथुनोपगमाद्घोरान् व्याधीनाप्नोति दुर्मतिः
आक्षेपकं पक्षघातमङ्गप्रग्रहमेव च २६
गुह्यप्रदेशे श्वयथुं कासश्वासौ च दारुणौ
रुधिरं शुक्रवच्चापि सरजस्कं प्रवर्तते २७
लभते च दिवास्वप्नात्तांस्तान् व्याधीन् कफात्मकान्
प्लीहोदरं प्रतिश्यायं पाण्डुतां श्वयथुं ज्वरम् २८
मोहं सदनमङ्गानामविपाकं तथाऽरुचिम्
तमसा चाभिभूतस्तु स्वप्नमेवाभिनन्दति २९
उच्चैः संभाषणाद्वायुः शिरस्यापादयेद्रुजम्
आन्ध्यं जाड्यमजिघ्रत्वं बाधिर्यं मूकतां तथा ३०
हनुमोक्षमधीमन्थमर्दितं च सुदारुणम्
नेत्रस्तम्भं निमेषं वा तृष्णां कासं प्रजागरम् ३१
लभते दन्तचालं च तांस्तांश्चान्यानुपद्र वान्
यानयानेन लभते छर्दिमूर्च्छाभ्रमक्लमान् ३२
तथैवाङ्गग्रहं घोरमिन्द्रि याणां च विभ्रमम्
चिरासनात्तथा स्थानाच्छ्रोण्यां भवति वेदना ३३
अतिचङ्क्रमणाद्वायुर्जङ्घयोः कुरुते रुजः
सक्थिप्रशोषं शोफं वा पादहर्षमथापि वा ३४
शीतसंभोगतोयानां सेवा मारुतवृद्धये
ततोऽङ्गमर्दविष्टम्भशूलाध्मानप्रवेपकाः ३५
वातातपाभ्यां वैवर्ण्यं ज्वरं चापि समाप्नुयात्
विरुद्धाध्यशनान्मृत्युं व्याधिं वा घोरमृच्छति ३६
असात्म्यभोजनं हन्याद्बलवर्णमसंशयम्
अनात्मवन्तः पशुवद्भुञ्जते येऽप्रमाणतः
रोगानीकस्य ते मूलमजीर्णं प्राप्नुवन्ति हि ३७
व्यापदां कारणं वीक्ष्य व्यापत्स्वेतासु बुद्धिमान्
प्रयतेतातुरारोग्ये प्रत्यनीकेन हेतुना ३८
विरिक्तवान्तैर्हरिणैणलावकाः शशश्च सेव्यः समयूरतित्तिरिः
सषष्टिकाश्चैव पुराणशालयस्तथैव मुद्गा लघु यच्च कीर्तितम् ३९
इति सुश्रुतसंहितायां चिकित्सास्थाने आतुरोपद्र वचिकित्सितं नामैकोनचत्वारिंशोऽध्यायः ३९

40

चत्वारिंशत्तमोऽध्यायः
अथातो धूमनस्यकवलग्रहचिकित्सितं व्याख्यास्यामः १
यथोवाच भगवान् धन्वन्तरिः २
धूमः पञ्चविधो भवति तद्यथाप्रायोगिकः स्नैहिको वैरेचनिकः कासघ्नो वामनीयश्चेति ३
तत्रैलादिना कुष्ठतगरवर्ज्येन श्लक्ष्णपिष्टेन द्वादशाङ्गुलं शरकाण्डमङ्गुलिप-रिणाहं क्षौमेणाष्टाङ्गुलं वेष्टयित्वा लेपयेदेषा वर्तिः प्रायोगिके स्नेहफलसा-रमधूच्छिष्टसर्जरसगुग्गुलुप्रभृतिभिः स्नहेमिश्रैः स्नैहिके शिरोविरेचनद्र व्यैर्वै-रेचने बृहतीकण्टकारिकात्रि कटुकासमर्दहिङ्ग्विङ्गुदीत्वङ्मनःशिलाच्छिन्न-रुहाकर्कट शृङ्गीप्रभृतिभिः कासहरैश्च कासघ्ने स्नायुचर्मखुरशृङ्गकर्कटकास्थिशुष्कमत्स्यवल्लूरकृमिप्रभृतिभिर्वामनीयैश्च वामनीये ४
तत्र बस्तिनेत्रद्र व्यैर्धूमनेत्रद्र व्याणि व्याख्यातानि भवन्ति धूमनेत्रं तु कनिष्ठि-कापरिणाहमग्रे कलायमात्रस्रोतो मूलेऽङ्गुष्ठपरिणाहं धूमवर्तिप्रवेशस्रोतोऽङ्गु-लान्यष्टचत्वारिंशत् प्रायोगिके द्वात्रिंशत् स्नेहने चतुर्विंशतिर्वैरेचने षोडशा-ङ्गुलं कासर्नघे वामनीये च एतेऽपि कोलास्थिमात्रच्छिद्रे भवतः व्रणनेत्रमष्टाङ्गुलं व्रणधूपनार्थं कलायपरिमण्डलं कुलत्थवाहिस्रोत इति ५
अथ सुखोपविष्टः सुमना ऋज्वधोदृष्टिरतन्द्रि तः स्नेहाक्तदीप्ताग्रां वर्तिं नेत्रस्रोतसि प्रणिधाय धूमं पिबेत् ६
मुखेन तं पिबेत् पूर्वं नासिकाभ्यां ततः पिबेत्
मुखपीतं मुखेनैव वमेत् पीतं च नासया ७
मुखेन धूममादाय नासिकाभ्यां न निर्हरेत्
तेन हि प्रतिलोमेन दृष्टिस्तत्र निहन्यते ८
विशेषतस्तु प्रायोगिकं घ्राणेनाददीत स्नैहिकं मुखना
साभ्यां नासिकया वैरेचनिकं मुखेनैवेतरौ ९
तत्र प्रायोगिके वर्तिं व्यपगतशरकाण्डां निवातातपशुष्कामङ्गारेष्ववदीप्य नेत्रमूलस्रोतसि प्रयुज्य धूममाहरेति ब्रूयात् एवं स्नेहनं वैरेचनिकं च कुर्या-दिति इतरयोर्व्यपेतधूमाङ्गरो स्थिरे समाहिते शरावे प्रक्षिप्य वर्तिं मूलच्छि-द्रे णान्येन शरावेण पिधाय तस्मिन् छिद्रे नेत्रमूलं संयोज्यधूममासेवेत प्रशान्ते धूमे वर्तिमवशिष्टां प्रक्षिप्य पुनरपि धूमं पाययेदादोषविशुद्धेः एष धूमपानोपायविधिः १०
तत्रशोकश्रमभयामर्षौष्ण्यविषरक्तपित्तमदमूर्च्छादाहपिपासापाण्डुरोगतालु-शोषच्छर्दिशिरोऽभिघातोद्गारापतर्पिततिमिरप्रमेहोदराध्मानोर्ध्ववातार्ता बाल-वृद्धदुर्बलविरिक्तास्थापितजागरितगर्भिणीरूक्षक्षीणक्षतोरस्क मधु घृतदधिदुग्धमत्स्यमद्ययवागूपीताल्पकफाश्च न धूममासेवेरन् ११
अकालपीतः कुरुते भ्रमं मूर्च्छां शिरोरुजम्
घ्राणश्रोत्राक्षिजिह्वानामुपघातं च दारुणम् १२
आद्यास्तु त्रयो धूमा द्वादशसु कालेषूपादेयाः तद्यथाक्षुतदन्तप्रक्षालननस्य-स्नानभोजनदिवास्वप्नमैथुनच्छर्दिमूत्रोच्चारहसितरुषितशस्त्रकर्मान्तेष्विति तत्र विभागोमूत्रोच्चारक्षवथुहसितरुषितमैथुनान्तेषु स्नैहिकः स्नानच्छर्दनदिवास्व-प्नान्तेषु वैरेचनिकः दन्तप्रक्षालनस्य स्नानभोजनशस्त्रकर्मान्तेषु प्रायोगिक
इति १३
तत्र स्नैहिको वातं शमयति स्नेहादुपलेपाच्च वैरेचनः श्लेष्माणमुत्क्लेश्याप-कर्षति रौक्ष्यात्तैक्ष्ण्यादौष्ण्याद्वैशद्याच्च प्रायोगिकः श्लेष्माणमुत्क्लेशयत्युत्क्लिष्टं चापकर्षति शमयति वातं साधारणत्वात पूर्वाभ्यामिति १४
भवति चात्र
नरो धूमोपयोगाच्च प्रसन्नेन्द्रि यवाङ्मनाः
दृढकेशद्विजश्मश्रुः सुगन्धिविशदाननः १५
तथा कासश्वासारोचकास्योपलेपस्वरभेदमुखास्रावक्षवथुवमथु क्रथतन्द्रा -निद्रा हनुमन्यास्तम्भाः पीनसशिरोरोगकर्णाक्षिशूला वातकफनिमित्ताश्चास्य
मुखरोगा न भवन्ति १६
तस्य योगायोगातियोगा विज्ञातव्याः तत्र योगो रोगप्रशमनः अयोगो रोगा-प्रशमनःतालुगलशोषपरिदाहपिपासामूर्च्छाभ्रममदकर्णक्ष्वेडदृष्टिनासारोगदौ
र्बल्यान्यतियोगो जनयति १७
प्रायोगिकं त्रींस्त्रीनुच्छ्वासानाददीत मुखनासिकाभ्यां च पर्यायांस्त्रींश्चतुरो वेति स्नैहिकं यावदश्रुप्रवृत्तिः वैरेचनिकमादोषदर्शनात् तिलतण्डुलयवागूपीतेन पातव्यो वामनीयः ग्रासान्तरेषु कासघ्न इति १८
व्रणधूमं शरावसंपुटोपनीतेन नेत्रेण व्रणमानयेत् धूमपानाद्वेदनोपशमो व्रणवैशद्यमास्रावोपशमश्च भवति १९
विधिरेष समासेन धूमस्याभिहितो मया
नस्यस्यातः प्रवक्ष्यामि विधिं निरवशेषतः २०
औषधमौषधसिद्धो वा स्नेहो नासिकाभ्यां दीयत इति नस्यम् तद्द्विविधं शिरोविरेचनं स्नेहनं च तदिद्ववविधमपि पञ्चधा तद्यथानस्यं शिरोविरेचनं प्रतिमर्शो अवपीडः प्रधमनं च तेषु नस्यं प्रधानं शिरोविरेचनं च नस्यवि-कल्पः प्रतिमर्शः शिरोविरेचनविकल्पोऽवपीडः प्रधमनं च ततो नस्यशब्दः
पञ्चधा नियमितः २१
तत्र यः स्नेहनार्थं शून्यशिरसां ग्रीवास्कन्धोरसां च बलजननार्थं दृष्टिप्रसाद-जननार्थं वा स्नेहो विधीयते तस्मिन् वैशेषिको नस्यशब्दः तत्तु देयं वाता-भिभूते शिरसि दन्तकेशश्मश्रुप्रपातदारुण कर्णशूल कर्णक्षवेडतिमिरस्वरोप-घातनासा रोगास्यशोषाव बाहुकाकाल जबलीपलितप्रादुर्भावदारुणप्रबोधेषुवातपैत्तिकेषु मुखरोगेष्वन्येषु च वातपित्तहरद्र व्यसिद्धेन स्नेहेनेति २२
शिरोविरेचनंश्लेष्मणाऽभिव्याप्ततालुकण्ठशिरसामरोचकशिरोगौरवशूलपी-नसार्धावभेदककृमिप्रतिश्यायापस्मारगन्धाज्ञानेष्वन्येषुचोर्ध्वजत्रुगतेषु कफजेषु विकारेषु शिरोविरेचनद्र व्यैस्तत्सिद्धेन वा स्नेहेनेति २३
तत्रैतद्द्विविधमप्यभुक्तवतोऽन्नकाले पूर्वाह्णे श्लेष्मरोगिणां मध्याह्ने पित्तरोगिणां अपराह्णे वातरोगिणाम् २४
अथ पुरुषाय शिरोविरेचनीयाय त्यक्तमूत्रपुरीषाय भुक्तवते व्यभ्रे काले दन्त-काष्ठधूमपानाभ्यां विशुद्धवक्त्रस्रोतसे पाणितापपरिस्विन्न मृदितगलकपोल-ललाटप्रदेशाय वातातपरजोहीने वेश्मन्युत्तानशायिने प्रसारितकर चरणाय किञ्चित् प्रविलम्बितशिरसे वस्त्राच्छादितनेत्राय वामहस्तप्रदेशिन्यग्रोन्नामि-तनासाग्राय विशुद्धस्रोतसि दक्षिणहस्तेन स्नेहमुष्णाम्बुना प्रतप्तंरजतसुवर्ण-ताम्रमणिमृत्पात्रशुक्तीनामन्यतमस्थं शुक्त्या पिचुना वा सुखोष्णं स्नेहमद्रुतमासिञ्चेदव्यवच्छिन्नधारं यथा नेत्रे न प्राप्नओति २५
स्नेहेऽवसिच्यमाने तु शिरो नैव प्रकम्पयेत्
न कुप्येन्न प्रभाषेच्च न क्षुयान्न हसेत्तथा २६
एतैर्हि विहतः स्नेहो न सम्यक् प्रतिपद्यते
ततः कासप्रतिश्यायशिरोऽक्षिगदसंभवः २७
तस्य प्रमाणमष्टौ बिन्दवः प्रदेशिनीपर्वद्वयनिःसृताः प्रथमा मात्रा द्वितीया शुक्तिः तृतीयापाणिशुक्तिः इत्येतास्तिस्रो मात्रा यथाबलं प्रयोज्याः २८
स्नेहनस्यं नोपगिलेत्कथंचिदपि बुद्धिमान्
शृङ्गाटकमभिप्लाव्य निरेति वदनाद्यथा
कफोत्क्लेशभयाच्चैनं निष्ठीवेदनिधारयन् ३०
दत्ते च पुनरपि संस्वेद्य गलकपोलादीन् धूममासेवेत भोजयेच्चैनमभिष्यन्दि ततोऽस्याचारिकमादिशेत रजोधूमस्नेहातपमद्यद्र वपानशिरः स्नानातियानक्रोधादीनि च परिहरेत् ३१
तस्य योगातियोगायोगानामिदं विज्ञानं भवति ३२
लाघवं शिरसो योगे सुखस्वप्नप्रबोधनम्
विकारोपशमः शुद्धिरिन्द्रि याणां मनःसुखम् ३३
कफप्रसेकः शिरसो गुरुतेन्द्रि यविभ्रमः
लक्षणं मूÞर्यतिस्निग्धे रूक्षं तत्रावचारयेत् ३४
अयोगे वातवैगुण्यमिन्द्रि याणां च रूक्षता
रोगाशान्तिश्च तत्रेष्टं भूयो नस्यं प्रयोजयेत् ३५
चत्वारो बिन्दवः षड् वा तथाऽष्टौ वा यथाबलम्
शिरोविरेकस्नेहस्य प्रमाणमभिनिर्दिशेत् ३६
नस्ये त्रीण्युपदिष्टानि लक्षणानि प्रयोगतः
शुद्धइ!द्धिहिई!नातिसंज्ञानि विशेषाच्छास्त्रचिन्तकैः ३७
लाघवं शिरसः शुद्धिः स्रोतसां व्याधिनिर्जयः
चित्तेन्द्रि यप्रसादश्च शिरसः शुद्धिलक्षणम् ३८
कण्डूपदेहौ गुरुता स्रोतसां कफसंस्रवः
मूर्ध्नि हीनविशुद्धे तु लक्षणं परिकीर्तितम् ३९
मस्तुलुङ्गागमो वातवृद्धिरिन्द्रि यविभ्रमः
शून्यता शिरसश्चापि मूर्ध्नि गाढविरेचिते ४०
हीनातिशुद्धे शिरसि कफवातघ्नमाचरेत्
सम्यग्विशुद्धे शिरसि सर्पिर्नस्यं निषेचयेत् ४१
इ!एकान्तरं द्वयन्तरं वा सप्ताहं वा पुनः पुनः
एकविंशतिरात्रं वा यावद्वा साधु मन्यते ४२
मारुतेनाभिभूतस्य वाऽत्यन्तं यस्य देहिनः
द्विकालं चापि दातव्यं नस्यं तस्य विजानताइ! ४३
अवपीडस्तु शिरोविरेचनवदभिष्यण्णसर्पदष्टविसंज्ञेभ्यो दद्याच्छिरो विरे च-नद्र व्याणामन्यतममवपिष्यावपीड्य च शर्करेक्षुरसक्षीरघृतमांसरसाना मन्यतमं क्षीणानां शोणितपित्ते च विदध्यात् ४४
कृशदुर्बलभीरूणां सुकुमारस्य योषिताम्
शृताः स्नेहाः शिरःशुद्ध्यै कल्कस्तेभ्यो यथाहितः ४५
चेतोविकारकृमिविषाभिपन्नानां चूर्णं प्रधमेत् ४६
नस्येन परिहर्तव्यो भुक्तवानपतर्पितोऽत्यर्थतरुणप्रतिश्यायी गर्भिणीपीतस्नेहो-दकमद्यद्र वोऽजीर्णीदत्तबस्तिः कुद्धो गरार्तस्तृषितः शोकाभिभूतः श्रान्तो बा-लो वृद्धो वेगावरोधितः शिरःस्नातुकामश्चएति अनार्तवे चाभ्रे नस्यधूमौ परिहरेत् ४७
तत्र हीनातिमात्रातिशीतोष्णसहसाप्रदानादतिप्रविलम्बितशिरस उच्छिङ्घतो विचलतोऽभ्यवहरतो वा प्रतिषिद्धप्रदानाच्च व्यापदो भवन्ति तृष्णोद्गारादयो दोषनिमित्ताः क्षयजाश्च ४८
भवतश्चात्र
नस्ये शिरोविरेके च व्यापदो द्विविधाः स्मृताः
दोषोत्क्लेशात् क्षयाच्चैव विज्ञेयास्ता यथाक्रमम् ४९
दोषोक्लेशनिमित्तास्तु जयेच्छमनशोधनैः
अथ क्षयनिमित्तासु यथास्वं बृंहणं हितम् ५०
प्रतिमर्शश्चतुर्दशसु कालेषूपादेयः तद्यथातल्पोत्थितेन प्रक्षालितदन्तेन मूत्रोच्चारकवलाञ्जनान्ते भुक्तवता छर्दितवता दिवास्वप्नोत्थितेन सायं चेति ५१
तत्र तल्पोत्थितेनासेवितः प्रतिमर्शो रात्रावुपचितं नासास्रोतोगतं मलमुपह-न्ति मनःप्रसादं च करोति प्रक्षालितदन्तेनासेवितो दन्तानां दृढतां वदनसौ-गन्ध्यं चापादयति गृहान्निर्गच्छता सेवितो नासास्रोतसः क्लिछ्ननतया र-जोधूमो वा न बाधते व्यायाममैथुनाध्वपरिश्रान्तेनासेवितः श्रममुपहन्ति मू-त्रोच्चारान्ते सेवितो दृष्टेर्गुरुत्वमपनयति कवलाञ्जनान्ते सेवितो दृष्टिं प्रसाद-यति भुक्तवता सेवितः स्रोतसां विशुद्धिं लघुतां चापादयति वान्तेनासेवितः स्रतोविलग्नं श्लेष्माणमपोह्य भक्ताकाङ्क्षामापादयति दिवास्वप्नोत्थितेनासे-वितो निद्रा शेषं गुरुत्वं मलं चापोह्य चित्तैकाग्र्यंजनयति सायं चासेवितः
सुखनिद्रा प्रबोधं चेति ५२
ईषदुच्छिङ्घतः स्नेहो यावद्वक्त्रं प्रपद्यते
नस्ये निषिक्तं तं विद्यात् प्रतिमर्शं प्रमाणतः ५३
नस्येन रोगाः शाम्यन्ति नराणामूर्ध्वजत्रुजाः
इन्द्रि याणां च वैमल्यं कुर्यादास्यं सुगन्धि च ५४
हनुदन्तशिरोग्रीवात्रिकबाहूरसां बलम्
वलीपलितखालित्यव्यङ्गानां चाप्यसंभवम् ५५
तैलं कफे सवाते स्यात् केवले पवने वसाम्
दद्यात्सर्पिः सदा पित्ते मज्जानं च समारुते ५६
चतुर्विधस्य स्नेहस्य विधिरेवं प्रकीर्तितः
श्लेष्मस्थानाविरोधित्वात्तेषु तैलं विधीयते ५७
अतः परं प्रवक्ष्यामि कवलग्रहणे विधिम्
चतुर्धा कवलः स्नेही प्रसादी शोधिरोपणौ ५८
स्निग्धोष्णैः स्नैहिको वाते स्वादुशीतैः प्रसादनः
पित्ते कट्वम्ललवणै रूक्षोष्णैः शोधनः कफे ५९
कषायतिक्तमधुरैः कटूष्णै रोपणो व्रणे
चतुर्विधस्य चैवास्य विशेषोऽय प्रकीर्तितः ६०
तत्र त्रिकटुकवचासर्षपहरीतकीकल्कमालोड्य तैलशुक्तसुरामूत्रक्षारमधूना-मन्यतमेन सलवणमभिप्रतप्तमुपस्विन्नमृदितगलकपोलललाटप्रदेशो धारयेत्
६१
सुखं संचार्यते या तु मात्रा ससिआ!किवलः स्मृतः
असंचार्या तु या मात्रा गण्डूषः स प्रकीर्तितः ६२
तावच्च धारयितव्योऽनन्यमनसोन्नतदेहेन यावद्दोषपरिपूर्णकपोलत्वं नासास्रोतोनयनपरिप्लावश्चभवति तदा विमोक्तव्यः पुनश्चान्यो ग्रहीतव्य इति ६३
एवं स्नेहपयःक्षौद्र रसमूत्राम्लसंभृताः
कषायोष्णोदकाभ्यां च कवला दोषतो हिताः ६४
व्याधेरपचयस्तुष्टिर्वैशद्यं वक्त्रलाघवम्
इन्द्रि याणां प्रसादश्च कवले शुद्धिलक्षणम् ६५
हीने जाड्यकफोत्क्लेशावरसज्ञानमेव च
अतियोगान्मुखे पाकः शोषतृष्णारुचिक्लमाः ६६
शोधनीये विशेषेण भवन्त्येव न संशयः
तिला नीलोत्पलं सर्पिः शर्करा क्षीरमेव च ६७
सक्षौद्रो दग्धवक्त्रस्य गण्डूषो दाहनाशनः
कवलस्य विधिर्ह्येष समासेन प्रकीर्तितः ६८
विभज्य भेषजं बुद्ध्या कुर्वीत प्रतिसारणम्
कल्को रसक्रिया क्षौद्रं चूर्णं चेति चतुर्विधम् ६९
अङ्गुल्यग्रप्रणीतं तु यथास्वं मुखरोगिणाम्
तस्मिन् योगमयोगं च कवलोक्तं विभावयेत् ७०
तानेव शमयेद् व्याधीन् कवलो यानपोहति
दोषघ्नमनभिष्यन्दि भोजयेच्च तथा नरम् ७१
इति सुश्रुतसंहितायां चिकित्सास्थाने धूमनस्यकवलग्रह चिकित्सितं नाम चत्वारिंशोऽध्यायः ४०
इति भगवता श्रीधन्वन्तरिणोपदिष्टायां तच्छिष्येण महर्षिणा सुश्रुतेन विरचितायां सुश्रुत संहितायां चिकित्सास्थानं समाप्तम्