सूक्तिमुक्तावली (सोमप्रभाचार्यविरचिता)

सूक्तिमुक्तावली
सोमप्रभाचार्यः
१९२६

श्रीसोमप्रभाचार्यविरचिता (सिन्दूरप्रकरापरपर्याया) सूक्तिमुक्तावली। सिन्दूरप्रकरस्तपः करिशिरःक्रोडे कषायाटवी- दावार्चिर्निचयः प्रबोधदिवसभारम्भसूर्योदयः । मुक्तिस्त्रीकुचकुम्भकुङ्कुमरसः श्रेयस्तरोः पल्लव- प्रोल्लासः क्रमयोर्नखद्युतिभरः पार्श्वप्रभोः पातु वः ॥ १ ॥ सन्तः सन्तु मम प्रसन्नमनसो वाचां विचारोद्यताः सूतेऽम्भः कमलानि तत्परिमलं वाता वितन्वन्ति यत् । किं वाभ्यर्थनयानया यदि गुणोऽस्त्यासां ततस्ते स्वयं कर्तारः प्रथनं न चेदथ यशःप्रत्यर्थिना तेन किम् ॥ २ ॥ १. चक्रवन्धपद्यमेतत्. तत्र तृतीयवलये 'देवनन्दिकृतिः' इत्युद्ध्रियते. २. अस्थाः सूक्तिमुक्तावल्या मुद्रणावसरे पुस्तकत्रयमस्माभिरासादितम्, तत्र प्रथमं जयपुरीयविद्या- विभागाध्यक्ष 'मास्टर ऑक् आर्टस्' इत्युपाधिमण्डितश्रीयुतहरिदासशा स्त्रिणां त्रयोदश- पत्रात्मकं शुद्धं नातिनवीनं च क-संज्ञकम्. द्वितीयं संवेगिसाधुसत्तमशमदमादिभूषित- निष्परिग्रहश्रीशान्तिविजयाभिधानां जैनमुनीनां पत्रत्रयात्मकं प्राचीन शुद्धं च ख-संज्ञ. कम्. तृतीयमपि पूर्वोत्तमुनीनामेव द्वादशपत्रात्मकं प्राचीनं नातिशुद्धं गुर्जरभाषासंकी- गया कर्तनामरहितया संक्षिप्तटीक्रया समेतं ग-संज्ञकम्. ३. पादयोः. ४. प्रथनेन, काव्यमाला। अथ धर्मप्रक्रमः । त्रिवर्गसंसाधनमन्तरेण पशोरिवायुर्विफलं नरस्य । तत्रापि धर्म प्रवरं वदन्ति न तं विना यद्भवतोऽर्थकामौ ॥ ३ ॥ यः प्राप्य दुष्प्रापमिदं नस्त्वं धर्मं न यत्नेन करोति मूढः । क्लेशप्रबन्धेन स लब्धमब्धौ चिन्तामणिं पातयति प्रमादात् ।। ४ ।। स्वर्णस्थाले क्षिपति स रजः पादशौचं विधत्ते पीयूषेण प्रवरकरिणं वाहयत्येधभारम् । चिन्तारत्नं विकिरति कराद्वायसोड्डायनार्थं यो दुष्प्रापं गमयति मुधा मर्त्यजन्म प्रमत्तः ॥ ५ ॥ ते धत्तूरतरुं वपन्ति भवने प्रोन्मूल्य कल्पद्रुमं चिन्तारत्नमपास्य काचशकलं स्वीकुर्वते ते जडाः । विक्रीय द्विरदं गिरीन्द्रकरणिं क्रीणन्ति ते रासभं ये लब्धं परिहत्य धर्ममधमा धावन्ति भोगाशया ॥६॥ अपारे संसारे कथमपि समासाद्य नृभवं न धर्मं यः कुर्याद्विषयसुखतृष्णातरलितः । ब्रुडन्पाराबारे प्रवरमपहाय प्रवणं स मुख्यो मूर्खाणामुपलमुपलब्धुं प्रयतते ॥ ७ ॥ भक्तिं तीर्थकरे गुरौ जिनमते सङ्घे च हिंसानृत- स्तेयाब्रह्मपरिग्रहव्युपरमं क्रोधाद्यरीणां जयम् । सौजन्यं गुणिसङ्गमिन्द्रियदमं दानं तपोभावनां वैराग्यं च कुरुष्व निर्वृतिपदे यद्यस्ति गन्तुं मनः ॥ ८ ॥ अथ पूजाप्रक्रमः। पापं लुम्पति दुर्गतिं दलयति व्यापादयत्यापदं पुण्यं संचिनुते श्रियं वितनुते पुष्णाति नीरोगताम् । १. काष्ठभारम्. २. पर्वततुल्यम्. "गिरीन्द्रसदृशं' इति क-पाठः, ३. मज्जन्. ४. साधुसमूहे. ५. 'पूजाद्वारम् ग. क-पुस्तके तु प्रक्रमविभागो नास्ति. 2 सूक्तिमुक्तावली । सौभाग्यं विदधाति पल्लवयति प्रीतिं प्रसूते यशः स्वर्गं यच्छति निर्वृतिं च रचयत्यर्चार्हतां निर्मिता ॥९॥ स्वर्गस्तस्य गृहाङ्गणं सहचरी साभ्राज्यलक्ष्मीः शुभा सौभाग्यादिगुणावलिर्विलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शिवं करतलक्रोडे लुठत्यञ्जसा यः श्रद्धामरभाजनं जिनपतेः पूजां विधत्ते जनः ॥१०॥ कदाचिन्नातङ्कः कुपित इव पश्यत्यभिमुखं विदूरे दारिद्र्यं चकितमिव नश्यत्यनुदिनम् । विरक्ता कान्तेव त्यजति कुगतिः सङ्गमुदयो न मुञ्चत्यभ्यर्णं सुहृदिव जिनार्चां रचयतः ॥ ११ ॥ यः पुष्पैर्जिनमर्चति स्मितसुरस्त्रीलोचनैः सोऽर्च्यते यस्तं वन्दत एकचस्त्रिजगता सोऽहर्निशं बन्द्यते । यस्तं स्तौति परत्र वृत्रदमनस्तोमेन स स्तूयते यस्तं ध्यायति क्लुप्तकर्मनिधनः स ध्यायते योगिभिः ॥ १२ ॥ अथ गुरुप्रक्रमः। अवद्यमुक्ते पथि यः प्रवर्तते प्रवर्तयत्यन्यजनं च निःस्पृहः । स सेवितव्यः स्वहितैषिणा गुरुः स्वयं तरंस्तारयितुं क्षमः परम् ॥ १३॥ विदलयति कुबोधं बोधयत्यागमार्थं सुगतिकुगतिमार्गौ पुण्यपापे व्यनक्ति । अवगमयति कृत्याकृत्यभेदं गुरुर्यो भवजलनिधिपोतस्तं विना नास्ति कश्चित् ॥ १४ ॥ पिता माता भ्राता प्रियसहचरी सूनुनिवहः सुहृत्स्वामी माद्यत्करिभटरथाश्वः परिकरः । निमज्जन्तं जन्तुं नरककुहरे रक्षितुमलं गुरोर्धर्माधर्मप्रकटनपरात्कोऽपि न परः ॥ १५ ॥ १. रोगः. २. इन्द्रसमूहेन. ३. 'गुरुद्वारम्' ग, ४. निर्दोषे. ५. स एव सेव्यः क. ४का० स०० ३८ काव्यमाला। किं ध्यानेन भवत्वशेषविषयत्यागैस्तपोभिः कृतं पूर्णं भावनयालमिन्द्रियजयैः पर्याप्तमाप्तागमैः । किं त्वेकं भवनाशनं कुरु गुरुप्रीत्या गुरोः शासनं सर्वे येन विना विनाथबलवत्स्वार्थाय नालं गुणाः ॥१६॥ अथ जिनमतप्रकमः। न देवं नादेवं न शुभगुरुमेनं न कुगुरुं न धर्मं नाधर्मं न गुणपरिणद्धं न विगुणम् । न कृत्यं नाकृत्यं न हितमहितं नापि निपुणं विलोकन्ते लोका जिनवचनचक्षुर्विरहिताः ॥ १७ ॥ मानुष्यं विफलं वदन्ति हृदयं व्यर्थं वृथा श्रोत्रयो- र्निर्माणं गुणदोषभेदनकलां तेषामसंभाविनीम् । दुर्वारं नरकान्धकूपपतनं मुक्तिं बुधा दुर्लभां सार्वज्ञः समयो दयारसमयो येषां न कर्णातिथिः ॥ १८ ॥ पीयूषं विषवज्जलं ज्वलनवतेजस्तमःस्तोमव- न्मित्रं शात्रववत्स्रजं भुजगवच्चिन्तामणिं लोष्टवत् । ज्योत्स्नां ग्रीष्मजधर्मवत्स मनुते कारुण्यपण्यापणं जैनेन्द्रं मतमन्धदर्शनसमं यो दुर्मतिर्मन्यते ॥ १९ ॥ धर्मं जागरयत्यघं, विघटयत्युत्थापयत्युत्पथं भिन्ते मत्सरमुच्छिनत्ति कुनयं मश्नाति मिथ्यामतिम् । वैराग्यं वितनोति पुष्यति कृपां मुष्णाति तृष्णां च य- तज्जैनं मतमर्चति प्रथयति घ्यायत्यधीते कृती ॥ २० ॥ अथ संघप्रक्रमः रत्नानामिव रोहणक्षितिधरः स्वं तारकाणामिव स्वर्गः कल्पमहीरुहामिव सरः पङ्केरुहाणामिव । अथ 1 १. 'दमैः क. २. स्वामिरहितसैन्यवत्, ३. जिनमतद्वारम् ग. ४. 'सङ्घद्वारम्' ग. ५. 'रोहणः क. सूक्तिमुक्तावली। पाथोधिः पयसामिवेन्दुमहसां स्थानं गुणानामसा- वित्यालोच्य विरच्यतां भगवतः सङ्घस्य पूजाविधिः ॥ २१ ॥ यः संसारनिरासलालसमतिर्मुक्यर्थमुत्तिष्ठते यं तीर्थं कथयन्ति पावनतया येनास्ति नान्यः समः । यस्मै तीर्थपतिर्नमस्यति सतां यस्माच्छुभं जायते स्फूर्तिर्यस्य परा वसन्ति च गुणा यस्मिन्स सङ्घोऽर्च्यताम् ।।२२।। लक्ष्मीस्तं स्वयमभ्युपैति रमसात्कीर्तिस्तमालिङ्गति प्रीतिस्तं भजते मतिः प्रयतते तं लब्धुमुत्कण्ठया । स्वःश्रीस्तं परिरब्धुमिच्छति मुहुर्मुक्तिस्तमालोकते यः सङ्घं गुणसङ्घकेलिसदनं श्रेयोरुचिः सेवते ॥ २३ ॥ यद्भक्तेः फलमर्हदादिपदवीमुख्यं कृषेः सस्यव- च्चक्रित्वत्रिदशेन्द्रतादि तृणवत्प्रासङ्गिकं गीयते । शक्तिं यन्महिमस्तुतौ न दधते वाचोऽपि वाचस्पतेः सङ्घः सोऽघहरः पुनातु चरणन्यासैः सतां मन्दिरम् ॥ २४ ॥ अथाहिंसाप्रक्रमः। क्रीडाभूः सुकृतस्य दुष्कृतरजःसंहारवात्या भवो- वन्वन्नौर्व्यसनाग्निमेवपटली संकेतदूती श्रियाम् । निःश्रेणिस्त्रिदिवौकसःप्रियसखी मुक्तेः कुगत्यर्गला सत्त्वेषु क्रियतां कृपैव भवतु क्लेशैरशेषैः परैः ॥ २५ ॥ यदि ग्रावा तोये तरति तरणिर्यद्युदयते प्रतीच्यां सप्तार्चियदि भजति शैत्यं कथमपि । यदि क्ष्मापीठं स्यादुपरि सकलस्यापि जगतः प्रसूते सत्त्वानां तदपि न वधः क्वापि सुकृतम् ॥ २६ ॥ स कमलवनमग्नेर्वासरं भास्वदस्ता- दमृतमुरगवत्रात्साधुचादं विवादात् । 1. 'सुखं ख.. २, “निःश्रेणी त्रिदिवौकसां' क. काव्यमाला। रुगपगममजीर्णाजीवितं कालकूटा- दभिलषति वधाद्यः प्राणिनां धर्ममिच्छेत् ॥ २७ ॥ आयुर्दीर्घतरं वपुर्वरतरं गोत्रं गरीयस्तरं वित्तं भूरितरं बलं बहुतरं स्वामित्वमुच्चैस्तरम् । आरोग्यं विगतान्तरं त्रिजगति श्लाघ्यत्वमल्पेतरं संसाराम्बुनिधिं करोति सुतरं चेतः कृपार्द्रान्तरम् ॥ २८ ॥ अथासत्यप्रकमः। विश्वासायतनं विपत्तिदलनं देवैः कृताराधनं मुक्तेः पथ्यदनं जलाग्निशमनं व्याघ्रोरगस्तम्भनम् । श्रेयःसंवननं समृद्धिजननं सौजन्यसंजीवन कीर्तेः केलिवनं प्रभावभवनं सत्यं वचः पावनम् ॥ २९ ।। यशो यस्माद्भस्मीभवति वनवह्वेरिव वनं निदानं दुःखानां यदवनिरुहाणां जलमिव । न यत्र स्वाच्छायातप इव तपःसंयमकथा कथंचित्तन्मिथ्यावचनमभिधत्ते न मतिमान् ॥ ३० ॥ असत्यमप्रत्ययमूलकारणं कुवासनासद्म समृद्धिवारणम् । विपन्निदानं परवञ्चनोर्जितं कृतापराधं कृतिभिर्विवर्जितम् ॥ ३१॥ तस्याग्निर्जलमर्णवः स्थलमारर्मित्रं सुराः किंकराः कान्तारं नगरं गिरिर्गृहमहिर्माल्यं मृगारिर्मुगः । पातालं बिलमस्त्रमुत्पलदलं व्यालः सुगालो विषं पीयूषं विषमं समं च वचनं सत्याञ्चितं वक्ति यः ॥ ३२ ।। अथ तेयप्रक्रमः। तमभिलषति सिद्धिस्तं वृणीते समृद्धि- स्तमभिसरति कीर्तिर्मुञ्चते तं भवार्तिः। स्पृहयति सुगतिस्तं नेक्षते दुर्गतिस्तं परिहरति विपतं यो न गृह्णात्यदत्तम् ॥ ३३ ॥ १.मार्गोपयुक्तं भोजनम्, शम्बलमिति यावत्. २. आलपे छायेव.. ३. दुष्टगजः, सूक्तिमुक्तावली । अदत्तं नादत्ते कृतसुकृतकामः किमपि यः शुभश्रेणिस्तस्मिन्वसति कलहंसीव कमले। विपत्तस्माद्दूरं व्रजति रजनीवाम्बरमणे- र्विनीतं विद्येव त्रिदिवशिवलक्ष्मीर्मजति तम् ॥ ३४ ॥ यन्निर्वर्तितकीर्तिधर्मनिधनं सर्वागसां साधनं प्रोन्मीलद्वधबन्धनं विरचितक्लिष्टाशयोद्बोधनम् । दौर्गत्यैकनिबन्धनं कृतसुगत्याश्लेषसंरोधनं प्रोत्सर्पत्प्रधनं जिघृक्षति न तद्धीमानदत्तं धनम् ॥ ३५ ॥ परजनमनःक्रीडाक्रीडावनं वधभावना- भवनमवनिव्यापिव्यापल्लताघनमण्डलम् । कुगतिगमने मार्गः स्वर्गापवर्गपुरार्गलं नियतमनुपादेयं स्तेयं नृणां हितकाङ्क्षिणाम् ॥ ३६ ॥ अथ शीलप्रक्रमः। दत्तस्तेन जगत्यकीर्तिपटहो गोत्रे मषीकूर्चक- श्चारित्रस्य जलाञ्जलिर्गुणगणारामस्य दावानलः । संकेतः सकलापदां शिवपुरद्वारे कपाटो दृढः शीलं येन निजं विलुप्तमखिलं त्रैलोक्यचिन्तामणिः ॥ ३७॥ व्याघ्रव्यालजलानलादिविपदस्तेषां ब्रजन्ति क्षयं कल्याणानि समुल्लसन्ति विबुधाः सांनिध्यमध्यासते । कीर्तिः स्फूर्तिमियर्ति यात्युपचयं धर्मः प्रणश्यत्यचं स्वर्निर्वाणसुखानि संनिदधते ये शीलमाबिभ्रते ॥ ३८ ॥ हरति कुलकलङ्कं लुम्पते पापपङ्कं सुकृतमुपचिनोति श्लाघ्यतामातनोति । नमयति सुरवर्गं हन्ति दुर्गोपसर्गं रचयति शुचि शीलं स्वर्गमोक्षौ सलीलम् ॥ ३९ ॥ १. "क्लिष्टाशयोद्दीपनम् स्व. २. 'कामार्तस्त्यजति प्रभोदयभिदाशस्त्रीं परस्त्रीं न यः' इति क-पुस्तके चतुर्थः पादः. ३. गच्छति. काव्यमाला । तोयत्यग्निरपि स्रजत्यहिरपि व्याघ्रोऽपि सारङ्गति व्यालोऽप्यश्वति पर्वतोऽप्युपलति क्ष्वेडोऽपि पीयूषति । विघ्नोऽप्युत्सवति प्रियत्यरिरपि क्रीडातडागत्यपां- नाथोऽपि स्वगृहत्यटव्यपि नृणां शीलप्रभावाद्ध्रुवम् ॥ ४०॥ अथ परिग्रहप्रक्रमः। कालुष्यं जनयञ्जडस्य रचयन्धर्मद्रुमोन्मूलनं क्लिश्नन्नीतिकृपाक्षमाकमलिनीं लोभाम्बुधिं वर्धयन् । मर्यादातदनुटुजञ्छुभमनोहंसप्रवासं दिश- न्किं न क्लेशकरः परिग्रहनदीपूरः प्रवृद्धिं गतः ॥ ४१॥ कलहकलभविन्ध्यः कोपगृध्रश्मशानं व्यसनभुजगरन्ध्रं द्वेषदस्युप्रदोषः । सुकृतवनदवाग्निर्मार्दवाम्भोदवायु- र्नयनलिनतुषारोऽत्यर्थमर्थानुरागः ॥ १२ ॥ प्रत्यर्थी प्रशमस्य मित्रमधृतेर्मोहस्य विश्रामभूः पापानां स्वनिरापदां पदमसध्यानस्य लीलावनम् । व्याक्षेपस्य निधिर्मदस्य सचिवः शोकस्य हेतुः कले: केलीवेश्म परिग्रहः परिहृतेर्योम्यो विविक्तात्मनाम् ॥ ४३ ॥ वह्निस्तृप्यति नेन्धनैरिह यथा नाम्भोभिरम्भोनिधि- स्तद्वल्लोभघनो घनैरपि धनैर्जन्तुर्न संतुष्यति । न त्वेवं मनुते विमुच्य विभवं निःशेषमन्यं भवं यात्यात्मा तदहं मुधैव विधाम्येनांसि भूयांसि किम् ॥ १४ ॥ अथ क्रोधप्रक्रमः। यो मित्रं मधुनो विकारकरणे संत्राससंपादने सर्पस्य प्रतिबिम्बमङ्ग्दहने सप्तार्चिषः सोदरः। चैतन्यस्व निषूदने विषतरोः सब्रह्मचारी चिरं स क्रोधः कुशलाभिलाषकुशलैर्निर्मूलमुन्मूल्यताम् ॥ ४५ ॥ १. जलस्य मूर्खस्य च. २. 'मोहषनो' क. . ३. अन्यदहने क. . सूक्तिमुक्तावली। फलति कलितश्रेयःश्रेणीप्रसूनपरम्परः प्रशमपयसा सिक्तो मुक्तिं तपश्चरणद्रुमः । यदि पुनरसौ प्रत्यासत्तिं प्रकोपहविर्भुजो भजति लभते भस्मीभावं तदा विफलोदयः ॥ ४६॥ संतापं तनुते भिनत्ति विनयं सौहार्दमुत्सादय- त्युद्वेगं जनयत्यवद्यवचनं सूते विधत्ते कलिम् । कीर्तिं कृन्तति दुर्मतिं वितरति व्याहन्ति पुण्योदयं दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सताम् ॥ ४७ ॥ यो धर्मं दहति द्रुमं दव इवोन्मश्नाति नीतिं लतां दन्तीवेन्दुकलां विधुंतुद इब क्लिश्नाति कीर्तिं नृणाम् । स्वार्थं वायुरिवाम्बुदं विघटत्युल्लासयत्यापदं तृष्णां धर्म इवोचितः कृतकृपालोपः स कोपः कथम् ॥ ४८ ॥ अथ मानप्रक्रमः। यस्मादाविर्भवति विततिर्दुस्तरापन्नदीनां यस्मिन्शिष्टाभिरुचितगुणग्रामनामापि नास्ति । यश्च व्याप्तं वहति वधधीधूभ्यया क्रोधदावं तं भानार्द्रि परिहर दुरारोहमौचित्यवृत्तेः ॥ ४९ ॥ शमालानं भञ्जन्विमलमतिनाडीं विघटय- न्किरन्दुर्वाक्पांशूत्करमगणयन्नागमसृणिम् । भ्रमन्नुर्व्यां स्वैरं विनयवनवीथीं विदलय- ञ्जनः कं नानर्थं जनयति मदान्धो द्विप इव ॥ ५० ॥ औचित्याचरणं विलुम्पति पयोवाहं नभस्वानिव प्रध्वंसं विनयं नयत्यहिरिव प्राणस्पृशां जीवितम् । कीर्तिं कैरविणीं मतङ्गज इव प्रोन्मूलयत्यञ्जसा मानो नीच इवोपकारनिकरं हन्ति त्रिवर्गं नृणाम् ॥ ५१ ॥ मुष्णाति यः कृतसमस्तसमीहितार्थं संजीवनं विनयजीवितमङ्गभाजाम् । काव्यमाला। जात्यादिमानविषजं विषमं विकारं तं मार्दवामृतरसेन नयस्व शान्तिम् ॥ ५२॥ अथ मायाप्रकमः। कुशलजननवन्ध्यां सत्यसूर्यास्तसंध्या कुगतियुवतिमालां मोहमातङ्गशालाम् । शमकमलहिमानीं दुर्थशोराजधानीं व्यसनशतसहायां दूरतो मुञ्च मायाम् ॥ ५३ ॥ विधाय मायां विविधैरुपायैः परस्य ये वञ्चनमाचरन्ति । ते वञ्चयन्ति त्रिदिवापवर्गसुखान्महामोहसखाः स्वमेव ।। ५४ ॥ मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया । सोऽनर्थसार्थं न पतन्तमीक्षते यथा बिडालो लगुडं पयः पिबन् ।॥५५॥ मुग्धप्रतारणपरायणमुब्जिहीते यत्पाटवं कपटलम्पटचित्तवृत्तेः । जीर्यत्युपप्लवमवश्यमिहाप्यकृत्वा नापथ्यभोजनमिवामयमायतौ तत् ॥ ५६ ॥ अथ लोभप्रक्रमः । यहुर्गामटवीमटन्ति विकटं क्रामन्ति देशान्तरं गाहन्ते गहनं समुद्रमतनुक्लेशां कृषिं कुर्वते । सेवन्ते कृपणं पतिं गजघटासंघट्टदुःसंचरं सर्पन्ति प्रधनं धनान्धितधियस्तल्लोभविस्फूर्जितम् ॥ ५७ ॥ मोलं मोहविषद्रुमस्य सुकृताम्भोराशिकुम्भोद्भवः क्रोधाग्रेररणिः प्रतापतरणिप्रच्छादने तोयदः । क्रीडासद्मकलेर्विवेकशशिनः स्वर्भानुरापन्नदी- सिन्धुः कीर्तिलताकलापकलमो लोभः पराभूयताम् ॥ ५८ ॥ निःशेषधर्मवनदाहविजृम्भमाणे दुःखौघभसनि विसर्पदकीर्तिधूमे । ४५ सूक्तिमुक्तावली । बाढं धनेन्धनसमागमदीप्यमाने लोभानले शलभतां लभते गुणौघः ॥ ५९ ॥ जातः कल्पतरुः पुरः सुरगवी तेषां प्रविष्टा गृहे चिन्तारत्नमुपस्थितं करतले प्राप्तो निधिः संनिधिम् । विश्वं वश्यमवश्यमेव सुलभाः स्वर्गापवर्गश्रियो ये संतोषमशेषदोषदहनध्वंसाम्बुदं बिभ्रते ॥६०॥ अथ सुजनप्रक्रमः। वरं क्षिप्तः पाणिः कुपितफणिनो वक्रकुहरे वरं झम्पापातो ज्वलदनलकुण्डे विरचितः । वरं प्रासप्रान्तः सपदि जठरान्तर्विनिहितो न जन्यं दौर्जन्यं तदपि विपदां सद्म विदुषा ॥ ६१ सौजन्यमेव विदधाति यशश्चयं च श्वश्रेयसं च विभवं च भवक्षयं च । दौर्जन्यमावहसि यत्कुमते तदर्थं धान्येऽनलं क्षिपसि तज्जलसेकसाध्ये ॥ ६२॥ वरं विभववन्ध्यता सुजनभावभाजां नृणा- मसाधुचरितार्तिता न पुनरूर्जिताः संपदः । कृशत्वमपि शोभते सहजमायतौ सुन्दरं विपाकविरसा नतु श्वयथुसंभवा स्थूलता ॥ ६३ ॥ न ब्रूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं संतोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय- त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ ६४ ॥ अथ गुणिसङ्गप्रक्रमः । धर्मं ध्वस्तदयो यशश्च्युतनयो वित्तं प्रमत्तः पुमा- न्काव्यं निष्प्रतिमस्तपः शमदमैः शून्योऽल्पमेधः श्रुतम् । १.'शमदमाशून्यो' क. काव्यमाला। वस्त्वालोकमलोचनश्चलमना ध्यानं च वाञ्छत्यसौ यः सङ्गं गुणिनां विमुच्य बिमतिः कल्याणमाकाङ्क्षति ॥६५॥ हरति कुमतिं भिन्ते मोहं करोति विवेकितां वितरति रतिं सूते नीति तनोति विनीतताम् । प्रथयति यशो धत्ते धर्मं व्यपोहति दुर्गतिं जनयति नृणां किं नाभीष्टं गुणोत्तमसंगमः ॥ ६६ ॥ लब्धुं बुद्धिकलापमापदमपाकर्तुं विहर्तुं पथि प्राप्तुं कीर्तिमसाधुतां विधुवितुं धर्मं समासेवितुम्. । रोद्धुं पापविपाकमाकलयितुं स्वर्गापवर्गश्रियं चेत्त्वं चित्त समीहसे गुणवता सङ्गं तदङ्गीकुरु ॥ ६७ ॥ हिमति महिमाम्भोजे चण्डानिलत्युदयाम्बुदे द्विरदति देयारामे क्षेमक्षमाभूति वज्रति । समिधति कुमत्यग्नौ कन्दत्यनीतिलतासु यः किमभिलषतां श्रेयः श्रेयान्स निर्गुणिसंगमः ॥ ६८ ॥ अथेन्द्रियप्रक्रमः । आत्मानं कुपथेन निर्गमयितुं यः सूकलाश्वायते कृत्याकृत्यविवेकजीवितहतौ यः कृष्णसर्पयते । यः पुण्यद्रुमखण्डखण्डनविधौ स्फूर्जत्कुठारायते तं लुप्तव्रतमुद्रमिन्द्रियगणं जित्वा शुभंयुर्भव ।। ६९ ॥ प्रतिष्ठां यन्निष्ठां नयति नयनिष्ठां विघटय- त्यकृत्येष्वाधत्ते मतिमतपसि प्रेम तनुते । विवेकस्योत्सेकं विदलयति दत्ते च विपदं पदं तद्दोषाणां करणनिकुरम्बं कुरु वशे ॥ ७० ॥ धत्तां मौनमगारमुज्झतु विधिप्रागल्भ्यमभ्यस्यता- मस्त्वन्तर्वणमागमश्रममुपादत्तां तपस्तप्यताम् । १. 'अपाहर्तुं ख. २. 'दमारामे ख. ३. 'श्रेयः' क-ख. ४. 'शकल' क. 'सूकलाश्वायते दुर्विनीततुरंग इवाचरति' इति टीका. ५. इन्द्रियसमूहम्. ६. बने तिष्ठतु. सूक्तिमुक्तावली । श्रेयःपुञ्जनिकुञ्जभञ्जनमहावातं न चेदिन्द्रिय- व्रातं जेतुमवैति भस्मनि हुतं जानीत सर्वं ततः ॥ ७१ ॥ धर्मध्वंसधुरीणमभ्रमरसावारीणमापत्प्रथा- लंकर्मीणमशर्मनिर्मितिकलापारीणमेकान्ततः । सर्वान्नीनमनात्मनीनमनयात्यन्तीनमिष्टै यथा- कामीनं कुंपथाध्वनीनमजयन्नक्षौघमक्षेमभक् ।। ७२ ॥ अथ लक्ष्मीस्वभावप्रक्रमः । निम्नं गच्छति निम्नगेव नितरां निद्रेव विष्कम्भते चैतन्यं मदिरेव पुष्यति मदं धूम्येव धत्तेऽन्धताम् । चापल्यं चपलेव चुम्बति दवज्वालेव तृष्णां नय- त्युल्लासं कुलटाङ्गनेव कमला स्वैरं परिभ्राम्यति ॥ ७३ ॥ दायादाः स्पृहयन्ति तस्करगणा मुष्णन्ति भूमीमुजो गृह्णन्ति च्छलमाकलय्य हुतभुम्भस्मीकरोति क्षणात् । अम्भः प्लावयते क्षितौ विनिहितं यक्षा हरन्ते हठा- दुर्वृत्तास्तनया नयन्ति निधनं घिग्बह्वधीनं धनम् ।। ७४ ॥ नीचस्यापि चिरं चटूनि रचयन्त्यायान्ति नीचैर्नतिं शत्रोरप्यगुणात्मनोऽपि विदधत्युच्चैर्गुणोल्कीर्तनम् । निर्वेदं न विदन्ति किंचिदकृतज्ञस्यापि सेवाक्रमे कष्टं किं न मनस्विनोऽपि मनुजाः कुर्वन्ति वित्तार्थिनः ||७|| लक्ष्मीः सर्पति नीचमर्णवपयःसङ्गादिवाम्भोजिनी- संसर्गादिव कण्टकाकुलपदा न क्वापि धत्ते पदम् । चैतन्यं विषसंनिधेरिव नृणामुज्जासयत्यञ्जसा धर्मस्थाननियोजनेन गुणिभिर्ग्राह्यं तदस्याः फलम् ॥ ७६ ॥ १. 'शान्तरसाच्छादनम् इति टीका. २. 'सर्वभक्षकम्' इति टीका.. ३. 'अनये- अत्यन्तगामिनम्' इति टीका. ४. 'इष्टे वस्तुनि यथाकामीनं यथाभिलाषिणम्' इति टीका. ५. 'कुमत' क. ६. 'विनाशयति' इति टीका. ७; 'रतिम्' क. काव्यमाला। अथ दानप्रक्रमः । चारित्रं चिनुते तनोति विनयं ज्ञानं नयत्युन्नतिं पुष्णाति प्रशमं तपः प्रबलयत्युल्लासयत्यागमम् । पुण्यं कन्दलयत्यघं, दलयति स्वर्गं ददाति क्रमा- न्निर्वाणश्रियमातनोति निहितं पात्रे पवित्रं धनम् ।। ७७ ॥ दारिद्र्यं न तमीक्षते न भजते दौर्गत्यमालम्बते नाकीर्तिर्न पराभवोऽभिलषते न व्याधिरास्कन्दति । दैन्यं नाद्रियते दुनोति न दरः क्लिश्नन्ति नैवापदः पात्रे यो वितरत्यनर्थदलनं दानं निदानं श्रियाम् ॥ ७८ ॥ लक्ष्मीः कामयते मतिर्मृगयते कीर्तिस्तमालोकते प्रीतिश्चुम्बति सेवते सुभगता नो रोगतालिङ्गति । श्रेयःसंहतिरभ्युपैति वृणुते स्वर्गोपभोगस्थिति- र्मुक्तिर्वाञ्छति यः प्रयच्छति पुमान्पुण्यार्थमर्थं निजम् ॥ ७९ ॥ तस्यासन्ना रतिरनुचरी कीर्तिरुत्कण्ठिता श्रीः स्निग्धा बुद्धिः परिचयपरा चक्रवर्तित्वऋद्धिः । पाणौ प्राप्ता त्रिदिवकमला कामुकी मुक्तिसंप- स्सप्तक्षेत्र्यां (1) वपति विपुलं वित्तबीजं निजं यः ।। ८० ॥ अथ तपःप्रक्रमः। यत्पूर्वार्जितकर्मशैलकुलिशं यत्कामदावानल- ज्वालाजालजलं यदुग्रकरणग्रामाहिमन्त्राक्षरम् । यत्प्रत्यूहतमःसमूहदिवसं यल्लब्धिलक्ष्मीलता- मूलं तद्विविधं यथाविधि तपः कुर्वीत वीतस्पृहः ।। ८१ ।। यस्माद्विघ्नपरम्परा विघटते दास्यं सुराः कुर्वते कामः शाम्यति दाम्यतीन्द्रियगणः कल्याणमुत्सर्पति । उन्मीलन्ति महर्द्धयः कलयति ध्वंसं चयः कर्मणां स्वाधीनं त्रिदिवं शिवं च भवति श्लाघ्यं तपस्तन्न किम् ।।८२॥ १. "विनोति'ख. २. 'पवित्रे ख. सूक्तिमुक्तावली । कान्तारं न यथेतरो ज्वलयितुं दक्षो दवाग्निं विना दावाग्निं न यथापरः शमयितुं शक्तो विनाम्भोधरम् । निष्णातः पवनं विना निरसितुं नान्यो यथाम्भोधरं कर्मौघं तपसा विना किमपरो हन्तुं समर्थस्तथा ॥ ८३ ॥ संतोषस्थूलमूल: प्रशमपरिकरस्कन्धबन्धप्रपञ्चः पञ्चाक्षीरोधशास्वः स्फुरदभयदलः शीलसंपत्प्रवालः । श्रद्धाम्भःपूरसेकाद्विपुलकुलवलैश्वर्यसौन्दर्यभोगः स्वर्गादिप्राप्तिपुष्पः शिवपदफलदः स्यात्तपःकल्पवृक्षः ॥ ८४ ॥ अथ भावनाप्रक्रमः। नीरागे तरुणीकटाक्षितमिव त्यागव्यपेतप्रभोः सेवाकष्टमिवोपरोपणमिवाम्भोजन्मनामश्मनि । विष्वग्वर्षमिवोषरक्षितितले दानाईदर्चातपः- स्वाध्यायाध्ययनादि निष्फलमनुष्ठानं विना भावनाम् ॥ ८५ ।। सर्वं ज्ञीप्सति पुण्यमीप्सति दयां धित्सत्यघं, मित्सति क्रोधं दित्सति दानशीलतपसां साफल्यमादित्सति । कल्याणोपचयं चिकीर्पति भवाम्भोधेस्तटं लिप्सते मुक्तिस्त्री परिरिप्सते यदि जनस्तद्भावयेद्भावनाम् ॥ ८६ ॥ विवेकवनसारिणीं प्रशमशर्मसंजीवनीं भवार्णवमहातरीं मदनदावमेघावलीम् । चलाक्षमृगवागुरां गुरुकषायशैलाशनिं निमुक्तिपथवेसरीं भजत भावनां किं परैः ॥ ८७ ।। धनं दत्वं वित्तं जिनवचनमभ्यस्तमखिलं क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत् । १. 'अपर हर्तुं समर्थ खना.. ३. पञ्चेन्द्रियाणि पश्चाक्षी, ३. निस्तारभोगः ग. ४. पपादपोऽयम्' क-ग. ५. 'मित्सति' क-ग. ६. खण्डयितुमिच्छति' इति टीका. ७. मार्गोपयुकामश्वतरीम. ५का०० गुरु ५० काव्यमाला। तपस्तीत्रं तप्तं चरणमपि जीर्णं चिरतरं न चेच्चित्ते भावस्तुषपबनवत्सर्वमफलम् ॥ ८८ ॥ अथ वैराग्यप्रक्रमः । यदशुभरजःपाथो दृप्तेन्द्रियद्विरदाङ्कुशं कुशलकुसुमोद्यानं माद्यन्मनःकरिशृङ्खला । विरतिरमणीलीलावेश्म स्मरज्वरभेषजं शिवपथरथस्तद्वैराग्यं विमृश्य भवाभयः चण्डानिलः स्फुरितमब्दचयं दवार्चि- र्वृक्षव्रजं तिमिरमण्डलमर्कविम्बम् । वज्रं महीध्रनिवहं नयते यथान्तं वैराग्यमेकमपि कर्म तथा समग्रम् ॥ ९० ॥ नमस्या देवानां चरणवरिवस्या शुभगुरो- स्तपस्या निःसीमक्लमपदमुपास्या गुणवताम् । निषद्यारण्ये स्यात्करणदमविद्या च शिवदा विरागः क्रूरागःक्षपणनिपुणोऽन्तः स्फुरसि चेत् ।। ९१ ॥ भोगाकृष्णभुजंगभोगविषमानराज्यं रजःसंनिभं बन्धून्बन्धनिबन्धनानि विषयग्रामं विषान्नोपमम् । भूतिं भूतिसहोदरां तृणतुलं त्रैणं विदित्वा त्यजं. स्तेष्वासक्तिमनाविलो विलभते मुक्तिं विरक्तः पुमान् ॥ ९२ ॥ जिनेन्द्रपूजा गुरुपर्युपास्तिः सत्त्वानुकम्पा शुभपात्रदानम् । गुणानुरागः श्रुतिरागमस्य नृजन्मवृक्षस्य फलान्यमूनि ॥ १३ ॥ त्रिसंध्यं देवार्चां विरचय चयं प्रापय यशः श्रियः पात्रे वापं अनय नयमार्गं नय मनः । स्मरक्रोधाधारीन्दलय कलय प्राणिषु दयां जिनोक्तं सिद्धान्तं शृणु वृणु जवान्मुक्तिकमलाम् ॥ ९४ ॥ १. 'चारित्रम्' इति टीका. सूक्तिमुक्तावली । कृत्वार्हत्पदपूजनं यतिजनं नत्वा विदित्वागमं हित्वा सङ्गमधर्मकर्मठधियां पात्रेषु दत्त्वा धनम् । गत्वा पद्धतिमुत्तमक्रमजुषां जित्वान्तरारिव्रजं स्मृत्वा १पञ्चनमस्क्रियां कुरु करक्रोडस्थमिष्टं सुखम् ॥ ९५ ।। प्रसरति यथा कीर्तिर्दिक्षु क्षपाकरसोदरा- 'भ्युदयजननी याति स्फीति यथा गुणसंततिः । कलयति यथा बृद्धिं धर्मः कुकर्महृतिक्षमः २सुलभकुशले न्याय्ये कार्यं तथा पथि वर्तनम् ॥ ९६ ॥३ भवारण्यं मुक्त्वा यदि जिगमिषुर्मुक्तिनगरीं तदानीं मा कार्षीर्विषयविषवृक्षेषु वसतिम् । यतश्छायाप्येषां प्रथयति महामोहमचिरा- ४दयं जन्तुर्यस्मात्पदमपि न गन्तुं प्रभवति ।। ९७ ।। ५सोमप्रभाचार्यमभा च लोके वस्तु प्रकाशं कुरुते यथाशु । तथायमुच्चैरुपदेशलेशः शुभोत्सवज्ञानगुणांस्तनोति ॥ ९८ ॥ ६अभजदजितदेवाचार्यपट्टोदयाद्रि- द्युमणिविजयसिंहाचार्यपादारविन्दे । मधुकरसमतां यस्तेन सोमप्रभेण व्यरचि ७मुनिपनेत्रा सूक्तिमुक्तावलीयम् ॥ ९९ ॥ इति श्रीसोमप्रभाचार्यविरचिता सिन्दूरप्रकरापरपर्याया सूक्तिमुकावली । १. जिनमतप्रतिद्धा पञ्चपरमेष्ठिनमस्कृतिम्. २. 'कुशलसुलभे क-ख. ३. एत- च्छोकानन्तरं क-पुस्तके 'करे ग्लाध्यस्त्यागः शिरति गुरुपादप्रणमनं मुखे सत्या पाणी श्रुतमधिगतं च श्रवणयोः । हृदि खच्छा वृत्तिर्विजयि भुजयोः पौरुषमहो विनाप्यैश्वर्येण प्रकृतिमहतां मण्डनमिदम् ॥' अयं श्लोकोऽधिकः. ४. 'विमुच्यनं दूरे भव जनमनःश. र्मसदनम् ख. ५. 'सोमप्रभाचार्यमभा च यन्न पुंसां तमःपङ्कमपाकरोति । तदप्यमु- ष्मिन्नुपदेशलेशे निशम्यमानेऽनिशमेति नाशम् ॥' अयं क-पुस्तकपाठः शृङ्गारवैराग्य- तरङ्गिणाधूतपाठसमानः । अत्र ग्रन्थकर्त्रा सोमप्रभाचार्य इति स्वकीयं नाम युक्त्या निवेशितम्, ६. अयं श्लोकः ख-ग-पुखकयोर्नास्ति, ७. मुनीन्द्रनायकेन. .